uiv="Content-Type" content="text/html; charset=UTF-8" /> Adhunik Sanskrit Sahitya Pustakalaya
वैधेयविक्रमम्
रचनाकालः
06 मई 1981 ई.
पात्राणि
गृहस्वामी
शारदा (गृहिणी)
महेशः (दारकान्यतमः)
अन्ये बालकाः
(नेपथ्येऽनुश्रूयते)
करपुञ्जविसारितपिञ्जरदीधितिरातनुते तपनो दिवसमुदमेति कुवेलवनं प्रवणं मधु वाति मरुत्प्रविलीनदिशम्। जगदेव विबोधयति प्रचुरं ननु चण्डरवैरधुना निभृतम विहगोऽरुणचूड उषस्समयेऽन्धतमोगलितंगलितंगलितम्।।
(शङ्खध्वनिरुच्चैर्ध्वन्यते)
प्रबोधमेहि भोः पान्थ! शर्वरी क्षणदा गता।
प्राच्यामुदेति बालार्कः कर्मयोगनिदर्शनः।।
(पार्श्ववर्तिनि खर्पराच्छादितगेहस्य बहिरलिन्देसुप्तोत्थितो गृहस्वामी सर्वप्रथमं स्वकरतलं पश्यति, जृम्भाञ्च नाटयति)
हन्त भोः जृम्भाऽपि नाम भवत्यकाण्डप्रथनम्। सुप्ते सति मन्वपत्ये न जाने कुत्रेयं श्यालिका विलीयते। उत्थित एव पुनः कर्मविपाकसंहितेव स्फारीभवति। भवतु, शाकलवणतुल्येयं वराकीं किं कर्तुं क्षमते?
(पुनरपि जृम्भामनुभूय)
अये पुनरायाति। अहमेवाद्य प्रातराशीकृतोऽस्म्यनया? भवतु, समाधानोपायमपि जानाम्यस्याः।
(अक्षिणी प्रमील्य छोटिकां वादयन्)
छोटिके परमाराध्ये! मद्यमाङ्गुष्ठयोगजे!
रक्ष रक्ष दुराधर्षे! तन्द्रालस्यविनाशिनि!!
मन्त्रौषधिसमैश्वर्ये! रतिसङ्केतसाधने!
सर्वदे हर मज्जृम्भां सर्वसिद्धिविचक्षणे!!
(तुष्टिं नाटयन्)
हन्त! शान्ता जृम्भा? जयति देवी छोटिका, जयति देवी छोटिका।।
गृहदेवते शारदे! उत्तिष्ठ। प्रभातं जातम्।
शारदा – (गहान्तरात्)
त्वमेव तावदुतिष्ठ। आश्चर्यमद्य पश्यामि। यस्त्वं मयाऽसकृन्निर्भर्त्सितोऽपि मत्सपत्नीभूतां निद्रां विजहासि, कथमद्य स्वयमेव प्रबुद्धो दृश्यसे? किमुत्स्वप्नायितोऽसि, अतिसारेण वा पीड्यसे?
गृहस्वामी – अयि अलीकशंसिनि! किमेवं दुर्वचनोपायनैः प्रातरेव प्रातः स्मरणीयं जीवनकरणीकर्णधारं खलीकरोषि?
शारदा – (सोल्लुण्ठम्)
अहमस्मि अलीकशंसिनि? किमिदमस्त्यसत्यं यन्नववादने एव व्युन्निद्रो भवसि। वारत्रयं चायपानं कृत्वैव शौचक्रियां सम्पादयसि। खट्वाऽऽरूढ एव नासापणवटङ्कारैः प्रतिवेशिनोऽपि पीडयसि। अहमेवास्मि पाषाणी या सर्वमिदमत्यनर्थकरं वृत्तमनुभवन्त्यपि मौनं भजते।
गृहस्वामी – (सव्यङ्ग्यम्)
सौभाग्यगर्विते! पुरुषरत्ने सर्वमपि युज्यते। ब्रह्माण्डभारकल्पायास्ते भारं सहमानो मादृशो वल्लभः कि ब्रह्मवेलायां भैरवीं गास्यति? असकृत् चायपानकरणन्तु नवयुगस्य समुदाचारः। नासापणवटङ्कारश्चामोधपुरुषार्थः। एभिर्मद्गुणैराह्लादयितुं काम्यमानापि त्वं विप्रतीपमाचरसि? सप्तपदीशपथाचारमपि विस्मरसि?
शारदा – अलमलम्। अतथ्यवेदिनासाधुदर्शिना च पित्रा त्वयोपनिबद्धास्मि। न सुखं जागरणे, न वा शान्तिर्निद्रायाम्। यंत्रचालितेव नक्तन्दिवं धावामि।
गृहस्वामी – प्रवृत्तं पुराणरोदनम्? यद्भूतं तद्भूतम्! न किचिदधुना परावर्तितुं शक्यते।
शारदा – तस्मादेव पराजिताऽस्मि।
गृहस्वामी – तदिममेव पराजयं पणीकृत्य चषकमितम् उष्णात्युष्णं चायपेयमुपस्थापय।
शारदा – दन्तधावनं तावद्विधेहि। उत्फुल्लगल्लं ताम्बूलवाटिकां सञ्चर्व्य, मुखकन्दरामप्रक्षालयैव किञ्चित्पातुं कथं न विलज्जसे?
गृहस्वामी – (सर्वं विलोक्य साह्लादम्)
अये अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढो भविष्यामि। सत्यमिदं यद् गृहिणी गृहमुच्यते। देवि! परमेश्वरो दातुकामश्छदिं विदार्य प्रयच्छति।
(शारदा पटाञ्चलेन मुखं निगूह्य विहसति। गृहस्वामी प्रातराशमत्ति)
हन्त भोः कियत्स्वादु पायसम्! श्रीमति! केन विधिना केन वोपादानेन निर्मितम्? अवलेहोऽपि नाम देवसंहतिसन्तर्पणक्षमः। लवणप्रयोगस्य पुनः का कथा? न तिलमात्रमधिकं न वा तिलमात्रं न्यूनम्। प्रतीयते यत् पूर्वजन्मनि नैषधो नलोऽपि त्वत एव पाकविधां शिक्षितवान्।
शारदा – वार्द्धक्यमुपगच्छन् प्रायोऽपि नर्मवाक्कौशलम् न जहासि। कर्णपालीपलितकेशांस्तावच्चिन्तय।
गृहस्वामी – को नु चिन्तयतु! नाहं चिन्तयिष्यामि। किमेवं चिन्तयति मयि कोऽपि पूरुः स्वयौवनं समर्प्य मां पुनरपि युवानं विधास्यति?
शारदा – (सकृतकक्रोधम्)
विदहतु ते यौवनम्। एकादशरुद्रान् समुत्पाद्य मामकालवृद्धां विधायापि यन्न सन्तुष्यसि?
गृहस्वामी – अलं मम यौवनं कलङ्कास्पदीकृत्य। न जाने पुनरपि जन्मनि मिथः साहचर्यं भवेत् न वेति सम्प्रधार्येव युगपदेकादशमितान् पुत्रान् उत्पादितवानस्मि। पुत्रोत्पादनदक्षत्वादेव मे प्रजापतित्वम्।
(गृहाभ्यन्तरे कोलाहलं श्रूयते)
शारदा – पश्येदानीम्। एकादशरुदारास्ते महाप्रलयताण्डवं नाटयन्ति। साम्प्रतं परिसान्त्वय तान्। धारय च भवनधरित्रीम्।
गृहस्वामी – (स्मेराननः)
अर्धाङ्गिनि! त्वमप्यर्धसाहाय्यमाचर पञ्चरुद्रान् त्वं सान्त्वय षट् चाहम्।
(कोलाहलध्वनिर्वर्धते। सर्वेऽपि दारकाः पर्याकुलमूर्द्धजाः ससम्भ्रमं बहिर्निसरन्ति)
एकः – अम्ब! प्रातराशं देहि। क्षुधा मां बाधते।
द्वितीयः – अम्ब! मामपि!
तृतीयः – अम्ब! मामपि।
चतुर्थः – अम्ब! अलीकं भणति महेशः। नायं बुभुक्षः। अनेन निखिलमपि पायसं निभृतनिभृतमुत्थाय भक्षितम्।
तृतीयः – अम्ब मयैकलेनैव भक्षितम्। मत्तोऽपि पूर्वं सुरेशे न भक्षितम्। तं भक्षयन्तं दृष्ट्वैव मया भक्षितम्।
पञ्चमः – अम्ब मह्यं न प्रदत्तम्।
षष्ठः – मह्यमपि।
(अपरे बालकाः स्तिमितनयना मौनमालम्ब्य तिष्ठन्ति)
शारदा – (विमूढतां नाटयन्ती)
हे भगवन् साम्प्रतं किं करिष्यामि ब्रूहि रे महेश एकलेनैव त्वया कथं पञ्चदशजनैः सायासं भक्षणीयं पायसं भक्षितम्? वृकोदर! किन्तेऽपि जठरार्णवे वाडवाग्निः प्रज्वलति?
महेशः – (सापराधानुभवम्)
मातर्न मयैकलेनैव पायसं भक्षितम्! शृणु तावत्,
मयोत्थितेन प्रसभं विलोकिताऽसिता बिडाली कृतभूरिविक्रमा।
सुपायसं कण्ठपुटे प्रकुर्वति तवैव मातर्धृतिराशु धर्षिता।।
(इति भयभीतस्सन् रोदितुमुपक्रमते)
शारदा – (प्रह्वीभूय)
अलमलम्। भवतु, मा भैषीः। यदि नाम पायसं भक्षितं तर्हि भक्षितमेव। किमिदानीं मुधा रोदिषि? यहि, बहिर्द्वारे क्रीड।
(ततः प्रविशति विरलदशनो मलिनवेषो गृहस्वामी)
गृहस्वामी – शारदे! किं वृत्तम्। कथमेभिः सूकरशावकैरेतावत् कोलाहलं प्रसारितं वर्तते?
शारदा – साश्चर्यं सधिग्भावम्)
अये, आत्मानं सूकरं मन्यमानः कथं न विलज्जसे?
गृहस्वामी – भवतु। सूकर एवास्मि। किन्त्वद्यैव गृहमलमपनेष्यामि।
शारदा – (पत्युः मुखमुद्रामवलोक्य सवितर्कम्)
किं कर्तुं वाञ्छसि? गच्छ, प्रथमं तावच्छौचादिकं निर्वर्तय।
गृहस्वामी – अपेहि त्वम्। महेश! मुहूर्तमितस्तावत्।
महेशः – (सभयम्)
मातर्वारय माम्। न मया किञ्चित्कृतम्। अग्रे पुनरप्येवं न करिष्ये।
गृहस्वामी – पुत्रक! एकवारं यत्कृतं तस्य पुरस्कारं तावद्गृहाण।
(इति कर्णशष्कुलीं दृढमुष्ट्या निष्पीड्य चपेटाघातैः कपोलमण्डलं बिंम्बफलाभं विदधाति)
शारदा – (सझम्पमागत्य दारकं वारयति)
किमेवं नृशंसमाचरसि? धिक्त्वामसाम्प्रतकारिणम्। चरत्ववृषभ इव मन्थमभ्यस्यन् दिनान्यतिवाहयसि। निर्गृहघट्टोऽसि। सन्तत्युत्पादन एव शौर्यं वर्तते न खलु परिपालने। पोषणे लालने वा न ते विक्रमो मया दृष्टः।
(सविलापस्वरम्)
पश्य तावत्। पशुमारं मारितोऽयं माणवकस्त्वया निर्धृणेन। अद्यारभ्य मुखमपि न ते प्रेक्षिष्ये।
गृहस्वामी – लप यथेप्सितम्। द्वित्रैरेव क्षणैर्विलपिष्यसि? तवैव वात्सल्याडम्बरेण एते दुष्टाः विकारिताः। श्रुतं त्वया न वा यद् दण्डः शास्ति प्रजाः। दण्डकाष्ठं सर्वमपि साधयति।
शारदा – (सरोषम्)
ज्वलतु ते दण्डकाष्ठम्। पुत्रमप्रसूय पुत्रप्रसवपीडां त्वं कथं ज्ञास्यसि? साम्प्रतं सीव्य स्वकीयं जर्जराधरकर्पटम्। गोपय निजं सिंहकलेवरं प्रकोष्ठगह्वरे। दृष्टं त्वदीयं पराक्रमणम्।
गृहस्वामी – (सक्रोधम्)
किं न पश्यसि मम पराक्रमम्? पृथुकटितटे रजतकाञ्चीमालम्ब्य यद्गृहाङ्गणे विहरसि तन्ममैव वेतनस्य समुज्जृम्भितम्।
शारदा – वेतनं वेतनं वेतनम्। कियन्मितं वर्ततेतव वेतनम्? सहस्रमितं लक्षमितं वा? यदि नामाहं रिक्तसमये प्रतिवेशिबालकानां वस्त्राणि स्यूत्वा अर्थसाहाय्यं न कुर्यां तर्हि शाकलवणमपि संघटितं न भवेत्।
गृहस्वामी – (संक्षुब्धः सन्)
प्रतीयते यत्त्वमेव मम भर्ताऽसि। अहमेव तव पत्न्यस्मि।
शारदा – किमत्रापि वर्तते संशयः? लोका उपहसन्ति नाम मां दर्श दर्शम्। पुरुषजनकरणीयं सर्वकार्यं सम्पादयन्ती गृहिणी कीदृशी भवति, किमेतदपि न जानासि?
गृहस्वामी – को नु खलु दास्याः पुत्रो भणत्येवम्? ब्रूहि तदभिधानम्। ग्रीवां तस्य मडमडायिष्ये।
शारदा – (उपेक्षया मुखमाकुञ्च्य)
अलम् अलमनेन लोकोतरविक्रमेण। भवादृशो भार्याशीलरक्षको राजपुत्रः किमन्यत् करिष्यति? श्रीमन्! वैधेयानां विक्रमोऽयम्।
गृहस्वामी – (सचण्डस्वरम्)
किमुक्तम्? वैधेयोऽस्म्यहम्?
शारदा – न मयैतदुक्तम्। निजान्तः करणं पृच्छैतत्। परं किमिदमपि कथयितुमवशिष्टं यदहमेव हट्टं गच्छामि. गृहप्रबन्धं करोमि, दारकाणां योगक्षेमौ चिन्तयामि, लोकव्यवहारं निर्वहामि? एतत्सर्वमेव त्वत्करणीयं वर्तते, न मम।
(इति दारकैस्सार्धं गृहाभ्यन्तरं प्रविशति)
(नेपथ्ये पुनः श्रूयते)
वितनोति महानसधूमशिखा गगने सुषमामतिमोहमयीम्
रविरम्बरमध्यमुपैति सुखं व्यपहाय कलां कलधौतमयीम्।
भ्रमति भ्रमरोऽटति काकगणो मधु गायति कोकिलकोऽप्युभयीम्
दश वादयते घटिकाऽप्ययि भोस्तनुमाचर सम्प्रति लोहमयीम्।।
श्रम एव पुरस्कुरुते जननं श्रम एव ददाति धनं विपुलम्
श्रम एव दुरासदमानयति श्रम एव पुनाति समग्रकुलम्!
ननु विक्रमिणं कुरुते श्रम एव जनं, श्रम एव युनक्ति बलम्
श्रममात्रधृतं जगदेतदहो ग्रहपुञ्जनियन्त्रणगं निखिलम्!!
(जवनिकापातः)
इतिश्रीमद्दुर्गाप्रसादाऽभिराजीतनयेन त्रिवेणीकविनाऽभिराजराजेन्द्रेण
विरचितं वैधेयविक्रमाख्यमेकाङ्करूपकं समाप्तम्
मोदकं केन भक्षितम्?
रचनाकाल
25 मई 81 ई.
पात्राणि
ब्राह्मणः (A Brahmin)
तुरुष्कः (A Mohammadan)
गोराङ्गः (An Englishman)
तुहिनाद्रिसुतातनयो जयते
स्वजनं व्यशने खलु योजयते।
अधिमोदकखादिकमाशुपदं
त्रितयं सुहृदां विनियोजयते।।
(नेपथ्येऽनुश्रूयते)
किं पृष्टं भोः? कियद्विधार्थकोऽयं श्लोकः? कश्चास्य कर्तेति? अलमलमधीरतया। बन्धो! नायं द्वैपायनविरचितः कूटश्लोको महाभारतस्य, न चापि पाषाणत्रयसर्गांशभूतोऽन्यतमः कश्चित्छ्लोको भारविविरचितस्य किरातार्जुनीयस्य। नायं चित्रबन्धो न वा प्रहेलिका। अयमस्ति व्याजकल्पितः श्लोकोऽभिराजराजेन्द्रस्य मिश्रोपाह्वस्य।
(पुनः श्रुतमभिनीय)
किमुक्तं भोः? नाभिप्रायो गृहीत इति। अरे नारीकवच! यो भवान् गृहचण्डिकादृगङ्गभङ्ग्यैव खलीकृतस्सन् स्वेच्छालिङ्गितखलीनो भवति, कथं खलु सुकविव्याहृतवचः प्रकर्षमवगन्तुं मनागपि प्रभविष्यति? नायं श्लोकः, परमार्थतस्तु लौकिकी ऋगियम्।
(पुनः श्रुतिमभिनीय, विहस्य)
साधु पृच्छसि भोः परिचयमृचोऽस्याः। पश्य दारुबृहस्पते! मोदिनीयं ऋक् महानसवेदस्य। राजेन्द्रोऽस्या ऋषिः तुहिनाद्रिसुतातनयो गणपतिर्देवता। मोदकखादिकायामस्या विनियोगः।
(सहृदयेष्वट्टहासः, पुनः श्रुत्वा)
अयि भोः अलमतिप्रश्नैः। एष कुविन्दग्राम इव सम्प्रविष्टोऽस्मि। साम्प्रतं नयन पाथेयीकुर्वन्तु भवन्तो लघुरूपकमिदम्। अनेनैव निखिलमपि श्लोकप्रकाश्यं संविधानकं विशदीभविष्यति।
(इति प्रणम्य नाट्येन अपसरति)
(इति प्रस्तावना)
(ततः प्रविशन्ति स्वसम्प्रदायानुकूलवेषास्त्रिसंख्याः सुहृदः। प्रथमस्तावल्ललाटाध्यसितरक्तचन्दनतिलको बद्धोष्णीषो गृहीताक्षमालः पीताम्बरधारी ब्राह्मणः। द्वितीयस्तु लुञ्चितश्मश्रुको विलम्बिकूर्चश्चतुष्कोणाङ्कितक-टिविलम्बिताधोवसनं वसानस्तुरुष्कः। तृतीयस्तु स्फटिकधवलकञ्चुकाच्छन्नवपुर्धृतोपनेत्रः कण्ठोपकण्ठीकृतस्व्रिस्ताङ्कमाल्यो गौराङ्गः)
गौराङ्गः – अयु भ्रातः पण्डितः! कियद्दूरमधुनाऽपि गन्तव्यम्? क्षुत्क्षामकण्ठोऽहं सम्प्रति पदात्पदमपि प्रचलितुं नोत्सहे।
तुरुष्कः – (ललाटदेशे धर्मजलव्यतिकरं प्रमृज्य)
हन्त भोः मदीनावासिन्! क्षणमात्रमपि तावद् दयस्व। सन्धिबन्धास्सञ्चूर्णिताः। शिथिलीभूतं नाडीबन्धनम्। क्षुण्णं पदतलम्। अग्निस्फुल्लिङ्गान् विकिरति आप्ततापो (आफ़ताब) भगवान् सूर्यः
ब्राह्मणः – हंहो मित्रद्वय! अलमतिमात्रं सन्तप्य। कष्टं विना नेष्टं सिद्धयति। अलं धैर्यधनं परित्यज्य। कतिपयैरेव क्षणैर्वयं लक्ष्यसिद्धिमुपैष्यामः। मया प्रागेवोक्तमासीत् यद्हिन्दुधर्म एव श्रेष्ठः सर्वग्राह्यश्च। अस्माकं धर्मे तु स्पष्टमेव निगदितमाचार्यैर्यत् मनस्वी कार्यार्थी न गणयति दुःख न च सुखम्। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा इति। साहसे श्रीः प्रतिवसतीति। चरन्वै मधु विन्दतीति।
तुरुष्कः – नाहं स्वीकरोमि। इस्लामधर्म एव श्रेयस्करो ग्राह्यश्च। अस्माकं धर्मप्रवर्तयित्रा मुहम्मदेनैंव कियन्ति कियन्ति कष्टानि न सोढानि। नास्त्यस्माकं स्वल्पमपि कष्टेभ्योभयम्।
गौराङ्गः – अयि भो वाक्चतुर! किमेववात्मानं प्रख्यापयसि? ख्रिस्तझर्मादृते क्वास्ति विपत्तिसङ्कुलानां प्राणिनां शरणम्? ख्रिस्त एव हिताय योजयते, पापान्निवारयति। यः खलु सत्यरक्षणार्थं शूलारोहणव्यथामसहत् प्राणांश्च तत्याज, तन्मतावलम्बिनामपि विषये किमस्ति किञ्चित् सन्देहाङ्कुरम्?
ब्राह्मणः – श्रूयतां श्रूयताम्। वादरता एव निर्णयने प्रभवितुं न शक्नुवन्ति। तदलं मुधा विकत्थनेन, आप्तपुरुषमुपेत्यैव धर्मश्रेष्ठता साधयितुं शक्यते। एतदेव लक्ष्यीकृत्य वयं प्रस्थिताः।
गौराङ्गः – (कातरीभूय)
सत्यं सत्यम्। पण्डितभ्रातः! त्वयैव कदाचिदुक्तमासीत् यच्छरीरमाद्यं खलु धर्मसाधनम्। क्षुधया पिपासया समवसन्नं जर्जरितञ्च जीवनयन्त्रम्। तन्मुहूर्तमात्रमुपविश। जठरानलं प्रशमय्य पुनरपि चलिष्यामः।
तुरुष्कः – बन्धो मसीहिन्! मदाकांक्षितममेव भणितं भवता। सर्वधर्मानुमोदितेयं क्षुधा।
ब्राह्मणः – भवतु नाम। अहमेव कथं तिक्तो भवेयम्। नाहं दृषदुपलः। तर्हि समक्षपतितस्यैव वटवृक्षस्य छायामाश्रित्योपविशामः।
(इति सर्वेऽपि स्वप्रच्छदमास्तीर्य समुपविशन्ति)
गौराङ्गः – बन्धो! किञ्चिदशितव्यं वर्तते न वा?
ब्राह्मणः – न खलु।
गौराङ्गः – किमर्थमानीतानि लड्डुकानि?
ब्राह्मणः – रात्रिभोजनार्थम्।
गौराङ्गः – रात्रिस्त्वासन्ना एव। कथन्नेदानीमेव किञ्चिद्भक्ष्येम।
ब्राह्मणः – नहि नहि नियम्यतां रसनालोलुपत्वम्। अनवाप्तसिद्धिभिरस्माभिस्तिलमात्रमपि न भक्षणीयं वर्तते।
तुरुष्कः – (सोद्वेगम्)
पण्डितबन्धो! न मह्यं रोचते ते निर्बन्धः। किं तृणकल्पं लड्डुकं प्राणेभ्योऽपि प्रियन्ते? बुभुक्षया सीदाम इत्यत्र किं भव्यं पश्यति भवान्?
ब्राह्मणः – (जातमत्स संरभस्सन्)
अयि भोः! भवद्भ्यामपि बलीयान् बुभुक्षुरहम्।
जठरानलेनाहमपि भृशं दह्ये। परन्तु अभिमंत्रितलड्डुकानि खादितुं नोत्सहे।
तुरुष्कः – नावैमि तेऽभिप्रायम्।
ब्राह्मणः – त्वं किं ज्ञास्यसि। पश्यस प्रतीचीमालम्बते श्लथभानुभानुबिम्बः। अचिरादेवागन्त्री पार्वणमृगाङ्ककरकरम्बिता शर्वरी। कतिचिन्निमेषान्य़ावत् निद्रावधूटीसमालिङ्गनसुखमवाप्य नैशाहारं वर्तिष्यामहे।
तुरुष्कः – मुधा प्रलोभनीयैः शब्दैर्जल्पसि। आम्रं पृच्छामि, तिन्तिडीकं वदसि। अग्निर्दहति घोषमिदानीम् त्वं पुनः कूपं खानयितुं प्रवर्तसे। कथन्न सुस्पष्टमभिधीयतोऽभिप्रायः?
गौराङ्गः – अहमप्येतदेव विवक्षामि।
ब्राह्मणः – (साकेकरदृष्टिभङ्गम्)
बाढम्। उभयमपि नो करिष्यामि।
(तुरुष्कगौराङ्गौ निरुत्तरीभूय सविस्मयं सदैन्यं ब्राह्मणं पश्यतः)
ब्राह्मणः – (प्रह्वीभूय)
दृष्टं भवद्भ्यामात्मानो निर्बन्धस्य फलम्। ब्राह्मणोऽस्मि दुर्वाससः सन्ततिः। नत्यैव वशीकर्तुं शक्ये न वितर्कैर्न वाऽधिकारप्रदर्शनै।
तुरुष्कः – (उदरं परामृशन्)
प्रसीदतु प्रियवयस्यः! ब्राह्मणोऽस्ति भवान्। स्वभावत एव हैयङ्गवीनोपमहृदयः! कथमिदानीं वज्रसारीभवसि?
गौराङ्गः – (मातृभाषया) ओह मॉई गॉड्। योऽयं क्वथितकुक्कुटाण्डसप्तकेन प्रातराशं सम्पादयामि सोऽहमद्य क्षपितप्रायेऽप्यखिलदीर्धदिवसे कथं निर्जलोपवासमात्रेण द्रिये।
ब्राह्मणः – अलंमलं रण्डारोदनेन। एतावतैव पौरुषेण गर्वितौ स्त-। धिक् धिक्। शृणुतां तावत्। एकमेकं मोदकं दास्यामि। तेनैव क्षुधायातुधानीं प्रशमय्य निश्शब्दं शयीमहि। निद्राङ्गनोत्सङ्गतले सुकं शयाना वयमवश्यमेमव स्वप्नं द्रक्ष्यामः। प्रातरुत्थाय स्वं स्वप्नं व्याहरिष्यामः। यस्य स्वप्नः श्रेष्ठो भविष्यति स एव निखिलानि मोदकानि भक्षयिष्यति।
तुरुष्कः –
गौराङ्गः – (सगार्ध्यम्) रोचते रोचते। लन्दनसदान्तु महत्यासक्तिरेकस्मिन्नपि मोदके। का कथा पुनर्यदि मोदकपिटकमेवोपलभ्यते। कथं वा भवान् मन्यते?
तुरुष्कः – पण्डितोचितरुचिका वयम्। अस्माकं पूर्वपुरुषा नवाब आसफुद्दौलामहोदयाः यावज्जीवनं मोदककल्यवर्त कृतवन्तः।
निजाश्वानपि प्रत्यहं मोदकानि भोजयामासेति श्रूयते।
ब्राह्मणः – (सासूयमिव) मृषावादं नियन्त्रयताम्। नेदं लन्दनं न चात्र नवाब आसफुद्दौला। अत्राहमस्मि पण्डितश्रीघनघटानन्दपाण्डेयो मोदकशतारातिः अहमस्मि दाता भवन्तौ च ग्रहीतारौ। करतलं प्रसारयताम्।
(गौराङ्गतुरुष्कौ स्वकरतलं प्रसारयतः। ब्राह्मणः प्रति करतलं मोदकमेकं न्यस्यति)
सम्प्रति जलमल्लकं निपीय स्वपितम्। यास्यामि, शत्रुरात्रिरस्तु युवयोः।
(सर्वे जनाः प्रच्छदमास्तीर्य शेरते। शनैः शनैर्निद्राति गौराङ्गः। तुरुष्कोऽपि कुरानपाठमुच्चारयन्नेव स्वपिति। ब्राह्मण उन्निद्र एव चिन्तयमानः परिलक्ष्यते)
ब्राह्मणः – ( क्षुधाशूलमनुभूय)
हा दैव! किमिदमापतितम्? उदरगह्वरे तु मूषिका विलुण्ठन्ति। नेत्रयोः प्रज्वलति श्मशानदीपः। कथमपि निद्रा नायाति। तत् किं करोमि मन्दभाग्यः।
(विमृशन्)
अये मोदकपरिमलोऽयं नासारन्ध्रमाविलयति। अगाधसलिलेऽपि रजको म्रियते।
(सवितर्कम्)
तत् कथं न मोदकानि भक्षयेयम्? द्वित्राण्येव भक्षयेयम्। को नु कलु ज्ञास्यति कियन्ति मोदकान्यासन्। परन्तु मयैव समयः कृतः। विश्वासघातो भविष्यति। पूर्वपुरुषैरुक्तम् –
वञ्चनां गुरुवर्येषु मित्रवर्गेषु चोरितम्।
कृत्वा कोऽपि भवेत्पापी भवेत्कुष्टधरोऽथवा।।
तन्न चौरकार्यं विधास्यामि (इति निद्रातुं प्रयतते)
(निद्राराहित्यं परामृशन्) अये गोपाल! बुभुक्षितेन भजनं भवितुं न शक्यते। शरीरमाद्यं खलु धर्मसाधनम्। मम शारीरकभाष्ये न वर्तते जीवन्मुक्त्युपदेशः। तर्हि प्राणपाथेये सति नाहं मरिष्यामि। यद्भवतु तद्भवतु। साम्प्रतं क्षुधाव्यालीं सान्त्वयामि।
(इति मोदकपिटकमुद्घाट्य सरोमाञ्चं रोमन्थमभ्यस्यन् मोदकान्येकैकशो भक्षयति। अन्तरान्तरा च मल्लकत्रयं पानीयं पिवति)
(सोद्गारम्) जयतु वज्राङ्गबली। त्रुट्यतु द्विषतां नली।
वत्स घनघटानन्द! साम्प्रतं चत्वरवृषभ इव सुखं स्वपिहि। प्रातश्चिन्तयिष्यसि रक्षणोपायम्।
(इति साघोणारावं निद्राति। कतिपयक्षणानन्तरमेव श्रूयते नेपथ्ये)
लोपाकः खखखायते निजबिलानन्वेषमाणो वने
गोमायुश्च हुँवा हुवेति कुरुते निद्रासुखं भञ्जयन्।
उद्दंष्ट्रा मलमार्गणं विदधति ग्राम्या इमे शूकराः
निद्रां मुञ्चत मुञ्चत प्रविततं मार्तण्डधामाधुना।।
(ताम्रचूडारावः श्रूयते। क्रमेण सर्वेऽपि जाग्रति)
तुरुष्कः – (स्मेराननः सन्)
गौराङ्गभ्रातः! सुप्रभातमस्तु।
गौराङ्गः – सुप्रभातम् सुप्रभातमस्तु।
ब्राह्मणः (मुकं व्यादाय सञ्जिहानः) ममापि नाम सुप्रभातं भवतु। कथय बन्धो तुरुष्क! दृष्टः कोऽपि स्वप्नः?
तुरुष्कः – (सोत्साहम्) बाढम्। मया दृष्टं यत् सप्तमे खलु नीलाम्बरतले परमेश्वरेण सार्धं राराज्ये। तस्मिन् खलु ‘जन्नते’ दुर्लभरूपसौन्दर्यसम्पन्नाः ‘हूरपरय’ आसन्। ‘अल्लाताला’ स्वयमेव स्वकीयं करतलं मम शीर्षे निधाय कथयतिस्म – ‘बरखुरदार कादिरखान! सुखं स्वपीहि स्वकीये कब्रे। मा भैषीः। कयामतवेलायां ममागोशे भविष्यसि।
ब्राह्मणः – कादिरखान! तव परमेश्वरस्य कूर्चः कीदृग्वर्ण आसीत्?
तुरुष्कः – (सामर्षम्)
भोः पण्डित! परमेश्वरविषये निन्दां न श्रोष्यामि। न मम परमेश्वरः स्व कच्छपो वराहो नृसिंहो वा।
गौराङ्गः – (साडम्बरम्)
भ्रातः! मयाऽपि नाम यथावद् दृष्टं निवेदयामि। दृष्टं मया यदष्टममे खलु अम्बरतलेऽहमपि परमेश्वरेण सार्धं राराज्ये। तस्मिन् खलु हेवनाख्ये स्वर्गे जोसेफपीटर्सएन्थोनीप्रभृतिभिः सद्भिः परिवारितोऽस्माकं गॉडनामा प्रभुः राजतेस्म। द्वित्रैरेव क्षणैः ख्रीस्तीभूयाहं मरियममातुरुत्सङ्गे क्रीडितुमारब्धमानस्मि। परमेश्वर उवाच – माई डियर राबर्ट! आगामिनि सृष्टिक्रमे त्वमेव ख्रीस्तो भविष्यसि।
तुरुष्कः – आश्चर्यम्। त्वमेव ख्रीस्तो भविष्यसि?
गौराङ्गः – अथ किम्। नाहं कथयामि। परमेश्वरोऽकथयत् स्वयमेव।
ब्राह्मणः – गौराङ्गभ्रातः! किं कादिरखानस्य सप्तमाम्बरतलस्पर्धयैव परमेश्वरस्तेऽष्टमेऽम्बरतले निवसति? अष्टममपि भवत्यम्बरतलमिति मयाद्यैव श्रुतम्।
गौराङ्गः – भोः पण्डितः! मम धर्मविषये त्वं किं ज्ञास्यसि? साम्प्रतं श्रावय स्वकीयं स्वप्नम्।
ब्राह्मणः – (सापराधभावम् स्वगतम्)
किं श्रावयानि! भक्षितम्मयाऽखिलं मोदकपिटकम्। कियत्कालं रहस्यं निर्वक्ष्यामि? भवतु नाम। एवं तावदभिधास्ये। (प्रकाशम्) शृणुतं तावत्। भवत्स्वप्नसमकालमेवोत्स्वप्नायितोऽभवमहमपि। तुरुष्कबन्धुं सप्तमाम्बरतलस्थं गौराङ्गबन्धुञ्चाष्टमाम्बरतलस्थं दर्शं दर्शं चिन्तितम्मया यद्यहमपि दामोदरदर्शनार्थं सप्तमाष्टमाम्बरातिशायिनं वैकुण्ठलोकं युगपद् यास्यामि तर्हि मोदकपिटकं सर्वथाऽरक्षितं भविष्यति।
तुरुष्कः –
गौराङ्गः – साधु साधु। कियच्छ्रेयस्करं चिन्तितं भवता। ततस्ततः?
ब्राह्मणः – ततो वैकुण्ठलोकमगत्वा मोदकपिटकं सत्वरं परिरक्षन् भयबाधानिवारणार्थं वज्राङ्गबलिनं भगवन्तं हनुमन्तमेव समाराधयन् भूमावुपाविशम्।
उभौ – (सखेदम्)
अहह! प्राज्यमेव कष्टं सोढमस्मत्कृते वयस्येन। ततो नु किं जातम्?
ब्राह्मणः – ततस्तु यावदेव,
रक्ततनो! घृतराग हे! रक्तनिखिललाङ्गूल!
वज्रदेह दानवदलन! जय जय जय कपिशूर!!
इत्याख्येन हनुमच्चत्वारिंश्युक्तदोधकेन मारुतिमाराधयन्नस्मि तावदेव प्रकटीबभूव सहसाऽऽञ्जनेयः।
उभौ – (नेत्राणि विस्फार्य)
आश्चर्यं भो आश्चर्यम्। ततस्ततः?
ब्राह्मणः – ततस्तु मंत्रबलप्रकटितात् प्रचण्डमार्तण्डाद् विभीता कुन्तीव यावदहमपि स्वकीयमज्ञानं बालचापल्यञ्च प्रख्याप्यान्नासम् तावदादिदेश गदामुद्यम्य प्राभञ्जनिः।
उभौ – (सोत्कण्ठम्) किमादिदेश?
ब्राह्मणः – समादिदेश भगवान्मारुतिः – भो घनघटानन्द! ममागमनं निरर्थकं न भविष्यति। साम्प्रतं मोदकपिटकनैवेद्यं मह्यं समर्प्य प्रसादस्वरूपं, पश्चाद्भक्षय इति।
उभौ – हन्त भोः देवा अपि नाम निर्बन्धपरायणा भवन्ति। ततः?
ब्राह्मणः – तदा मया साञ्जलिपुटं विनिवेदितं यत्प्रभो! नेदं मोदकपिटकं ममैवाधिकारे तिष्ठति इति। किन्तुः कः शृणोति? मम वचनं सावशेषं विधायैव निगदितं पवननन्दनेन – जानामि जानामि।
परन्तु तुरुष्क इदानीं सप्तमाम्बरतले अल्लातालाक्रोडे विलसति, गौराङ्गश्च ख्रीस्तीभूय मरियममातुरुत्सङ्गे। तावात्मानं सर्वथा सन्तोष्य परिपोष्य च समागमिष्यतः। अमृतं निपीय कथं नाम तौ मोदकापसंद भक्षयिष्यतः। तर्हि एकलेन त्वयैव समग्रमपि मोदकजातं भक्षणीयम्।
(साश्रुलोचनः) किं करणीयमासीदन्यत्? भ्रातरौ! शीर्षोपरिविलम्बितां करालगदां पश्यतैव मया यथाकथञ्चित् समग्रमपि पिटकं रिक्तीकृतम्?
मोदकपिटके शून्यीकृत एवान्तर्हितो भगवान् महावीरः।
(इति मुखोद्गारान् प्रकटयति)
उभौ – (सप्रसादम् विमूढतां नाटयन्तौ)
भवतु नाम। पण्डितवर्य! स्वप्नस्ते यद्यपि विस्मयकरस्तथापि साम्प्रतं निर्णेतव्यमस्माभिर्यत् कस्य स्वप्नः श्रेष्ठः?
युवां तावद् विचारयतम्। पञ्चषैरेव क्षणैः निवर्तेऽहम्।
(इति जलपात्रमादाय शौचक्रियार्थं प्रतिष्ठते)
तुरुष्कः – गौराङ्गबन्धो! अनर्थसम्पातो मे प्रतिभाति। द्विदले कालिमा वर्तते। मन्ये मोदकानि ब्राह्मणापसदेन सत्यमेव भक्षितानि।
गौराङ्गः – बन्धो! नानेन वृकोदरेण कश्चित् स्वप्नः दृष्टः। प्रत्यक्षं कृतमेवानेन मन्ये स्वप्नीकृतम्। एहि पश्यावस्तावन्मोदकपिटकम्।
(उभौ पिटकं रिक्तं दर्शं दर्शं सपरिदेवनम्)
उभौ – अयि भो ब्राह्मणहतक! वञ्चितं त्वया। विश्वासघातस्त्वयाऽऽचरितः। हा हता वयम्। मुषिता वयम्। कस्याग्रे विलपावः? अयि भोः सप्तमाष्टमाम्बरतलस्थाभ्यामावाभ्यां यत्कर्तुं नाशाकि तदनेन धूर्त – घटघटानन्देन भूमावेव सम्पादितम्। धन्य रे हिन्दुधर्म! निश्चप्रचं धन्योऽसि। पराजितौ भो आवां पराजितौ। मन्ये, मिथ्यास्वप्नवर्णनस्यैव परिणतमेतत्कुफलम्। जितं सत्यवादिना घनघटानन्देन जितम्।
(इति बहुविधं प्रलपतः)
(नेपथ्ये श्रूयते)
ननु सङ्कटकाल उपात्तपदे हितमाचरति स्थिरबुद्धिरियं
शिथिले सतिनिर्णयने प्रसभं सृतिमादिशति स्थिरबुद्धिदियं!
प्रसृते निबिडे हृदि मौढ्यतमस्यवतीन्दुसमा स्थिरबुद्धिदियं
स्वजनैरखिलैर्विरलेऽपि कृते सहतिष्ठतिसा स्थिरबुद्धिरियम्!!
(जवनिकापातः)
इति श्रीमद्दुर्गाप्रसादाभिराजीतनयेन त्रिवेणीकविनाऽभिराजराजेनन्द्रेण
विरचितं भाणप्रहसनोभयात्मकं हास्यलघुरूपकं
मोदकं केन भक्षितं समाप्तम्