विषयानुक्रमणिका
पुरोवाक् - प्रो. राधावल्लभत्रिपाठी
सम्पादकीयं निवेदनम्- देवर्षि-कलानाथशास्त्री
भट्टश्रीमथुरानाथशास्त्रिप्रणीतटीकादिग्रन्थानां परिचय: -रमाकान्तपाण्डेय:
भट्टश्रीमथुरानाथशास्त्रिणां जीवनं साहित्यसेवा च -देवर्षि-कलानाथशास्त्री
भूमिका - भट्टश्रीमथुरानाथशास्त्री साहित्याचार्य:
प्रथमशतकम् १-५६
द्वितीयशतकम् ५७-१०८
तृतीयशतकम् १०९-१६८
चतुर्थशतकम् १६९-२३०
पञ्चमशतकम् २३१-२९०
षष्ठशतकम् २९१-३४२
सप्तमशतकम् ३४३-४०४
संस्कृतगाथानिबन्धु: परिचय: ४०५-४०६
गाथानुक्रमणिका ४०७-४२०
भट्टश्रीमथुरानाथशास्त्रिणां कृतय: ४२१-४३२
पुरोवाक्
संस्कृतभाषा यथा चिरपुरातनी सनातनी तथैव प्रतियुगं पुन:पुनर्जायमाना उषा इव नवविच्छित्तिं नूतनां च छविमाविर्भावयन्ती वरीवर्तते, अभिनवप्रभाभास्वरं प्रभातं विभावयितुं क्षमा इदानीमपि स्वे महिम्नि प्रतिष्ठिता चास्त इति जानन्त्येव सर्वे सुरभारतीसमुपासका:। वस्तुत: आधुनिके काले अपूर्वैव समृद्धिर्दरीदृश्यते संस्कृतरचनाया:। अतश्च विंशशताब्दी संस्कृतसाहित्यस्य कश्चन स्वर्णयुग इति युक्तमुक्तवान् कविवरोऽभिराजराजेन्द्रमिश्र:। साम्प्रतिकेऽस्मिन् समये अस्या भाषाया नवोन्मेष: कामपि अभिख्यां तनोति। नैके प्रौढा विदग्धाश्च उदीयमानास्तरुणास्तेजस्विन: पण्डिता: प्रकटयन्ति शास्त्रवैभवमस्या:, तथा च कवयन्ति पर: शतं सुकवय: निबध्नन्ति च विविधान् ग्रन्थान् अगणिता: साहित्यरचनानदीष्णा: सरस्वत्या: सुपुत्रा अस्यामेव भाषायाम्। परन्तु तेषु परै: क्षुण्णं मार्गं परिहृत्य अक्षुण्णमध्वानं श्रयन्त: स्वयमेव स्वीयं पन्थानं रचयन्तो भवन्ति भव्या अभिनवभावजगन्निर्माणनदीष्णा विरला एव, येषां कृतित्वेन-
अन्धास्ते कवयो येषां पन्था: क्षुण्ण: परैर्भवेत्।
परेषां तु यदाक्रान्त: पन्थास्ते कविकुञ्जरा:।।
(गङ्गावतरणमहाकाव्ये १.७७)
इति सुकवेर्नीलकण्ठदीक्षितस्य वचनं चरितार्थतां याति।
एतादृशेष्वपि विरलसाहित्यकारेषु सम्पूर्णे युगे कश्चन एक एव स्यात् युगप्रवर्तको भविष्यद्रष्टा, स्रष्टा नूतनविधानाम् आविष्कर्ता चाकृष्टक्षेत्राणां, कर्ता च नवोन्मेष- संवलितरचनावचनावलीनाम्। एतादृशा एव साहित्यकारा आसन् भट्टश्रीमथुरानाथशास्त्रिण: मञ्जुनाथापरनामान:। नवीना: परिकल्पना: नवीनविषयवस्तूनामवतारो नवनवविधानां चैदम्प्राथम्येन संस्कृतसाहित्ये प्रचार: इति एतेषामेव स्पृहणीयं कार्मण्यमभवत्। एते तर्केषु कर्कशधियो वयमेव नान्ये काव्येषु कोमलधियो वयमेव नान्य इति प्राचीनानां वच: क्वचित् प्रमाणीकुर्वन्ति, क्वचिच्च-
कश्चिद् वाचो रचयितुमलं श्रोतुमेवापरस्तां
कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति।
नह्येकस्मिन् भवति सुभग: सन्निपातो गुणानां
एक: सूते कनकमुपलं तत्परीक्षाक्षमोऽन्य:।।
इति वा कालिदासोक्तिं स्मारयन्ति।
एते भट्टमथुरानाथशास्त्रिण: घनाक्षरी-कवित्त-सवैया-दोहा-सोरठादि-व्रजभाषा-च्छन्दांसि संस्कृतकाव्यधारासु साधु स्नपयामासु:। उपन्यास-नभोवाणीरूपक-ललितनिबन्ध-यात्रावृत्त-प्रभृतिनूत्नविधासु ऐदम्प्राथम्येनासाधारणनैपुण्यप्रभवा एतेषां लेखनी निबबन्ध नैकान् निबन्धान्। संस्कृतगजलगीते: परिष्कृतं स्वरूपमेते स्थिरीचक्रु:। अस्मिन्नतिविचित्रक-विपरम्परावाहिनि संसारे द्वित्रान् विहाय केनचिदेकेन साहित्यकारेण एतावतीषु विधासु समं दक्षतया रचनापाटवं प्रतिभाप्रागल्भ्यं च न प्रकटीकृतं स्यात्। वाल्मीकि-व्यास-कालिदासादीनामिव अतितरां विस्तृतं तेषां कृतित्वम्।
अथैतेषां युगप्रवर्तकमहाकवीनां साहित्यं सम्प्रति सुदुर्लभं जातमिति राष्ट्रियसंस्कृत-संस्थानेन तस्य पुन: प्रकाशनमुपक्रान्तम्। अस्मिन् क्रमे मञ्जुनाथग्रन्थावल्या: प्रथमो भाग: पूर्वं प्रकाशितोऽभवत्। यत्र द्वयो: खण्डयो: भट्टकवीनां जयपुरवैभवम्, गोविन्दवैभवम् साहित्यवैभवं चेति त्रीणि काव्यसङ्कलनानि प्राकाश्यतां नीतान्यभवन्। तत्रापि प्रथमभागस्य प्रथमे खण्डे जयपुरवैभवम्, गोविन्दवैभवं च विलसत:। जयपुरवैभवं नाम काव्यं भट्टश्रीमथुनाराथशास्त्रिणां १९४७ तमे क्रिस्त्वब्दे जयपुरादेव प्रकाशितम्। विविधछन्दोभङ्गीभिर्जयपुरनगरस्यानुपमा छटात्र कविना विशदं निरूपिता। अत्र परिस्फुरति जयपुरनगरस्यैतिह्यम्, देदीप्यते नगरसंस्कृति:, पुरपरिसरस्य नयनाभिरामा शोभा चात्र भाविकालङ्कारविन्यासविशेषमनोहारिणी जायते। भाविकालङ्कारस्वरूपं च भामहदण्डिनिरूपितमित्थम्-
तद् भाविकमिति प्राहु: प्रबन्धविषयं गुणम्।
प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविन:।।
चित्रोदात्ताद्भुतार्थत्वं कथाया: स्वभिनीतता।
शब्दानाकुलता चेति तस्य हेतुं प्रचक्षते।।
(काव्यालङ्कारे ३/५३, ५४)
भाव: कवेरभिप्राय: काव्येष्वासिद्धिसंस्थित:। परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम्। विशेषणानां व्यर्थानामक्रिया स्थानवर्णना। व्यक्तिरुक्तिक्रमबलाद् गम्भीरस्यापि वस्तुन:।
भावायत्तमिदं सर्वमिति तद् भाविकं विदु:।
(काव्यादर्शे, २।३६४-६५)
रुय्यकस्तु- न केवलं कवेरपितु सहृदयस्यापि अतीतानागतानां प्रसङ्गानां हस्तामल-कवत् साक्षात्कारं भाविकेऽपेक्षितं मनुते। युक्तमुक्तवान् कुवलयानन्दव्याख्यायाम् आशाधरभट्ट:- भावाय साक्षात्काराय प्रभवतीति भाविकम्। भाविकालङ्काररचनायां कविरीश्वरभावेऽवस्थितो रचयतीति युक्तमुक्तवान् विमर्शिन्यां जयरथ:। एतादृशेन 'चिरनिवृत्तमप्येतत् प्रत्यक्षमिव दर्शितमि’त्यादिकविवच:स्मारकेन भाविकालङ्कारस्य सटीकं प्रयोगेण महीयते जयपुरवैभवम्। काव्यास्यास्य भट्टश्रीमथुरानाथशास्त्रिभिर्ब्रजभाषाच्छन्दोनिबद्धं शीर्षकमपि निरदेशीत्यपरोऽपि विशेषस्तेषां काव्यसंसारस्य, यथा-
छन्दोमयगुञ्जे 'मञ्जुकवितानिकुञ्जे’ चारु-
चित्रयुतं 'जयपुरवैभवम्’ इदं बुधेन,
जयपुरभूमिपतिपरम्परापूज्यमान-
श्रीकृष्णाभिधानकविकलानिधिवंशजेन
देवर्ष्यवटङ्कधरतैलङ्गान्वयाभिजात-
काव्यकलाख्यात-मञ्जुनाथपरनामकेन
साहित्याचार्यभट्टश्रीमन्मथुरानाथकवि-
शास्त्रिणा कृतं प्रकाशितं च जयपुरात्तेन।। १।।
गोविन्दवैभवं च भट्टवर्याणां भक्तिभावमयी रचना। वैभवकाव्यमालायामिदं तेषामन्तिम: पुष्पहारो यत्र तेषां प्रज्ञा भक्तिभावे परिणमति।
मञ्जुनाथग्रन्थावल्या: प्रथमभागस्य तृतीयेऽस्मिन् खण्डे तत्प्रणीतया 'व्यङ्ग्यसर्व-ङ्कषाख्यटीकया सनाथिता संस्कृतगाथासप्तशती’ प्रकाश्यते। इयं हि संस्कृतगाथासप्तशती महाकविहालसङ्कलिताया गाथासप्तशत्या: समच्छन्दोऽनुवादरूपा। पूर्वं म.म.गोपीनाथ-कविराजपण्डितानां पुरोवाचाऽलङ्कृतेयं निर्णयसागरात् प्रकाशिताऽभूत्।
गाथानां व्यङ्ग्यार्थावगमसोपानभूता 'व्यङ्ग्यसर्वङ्कषा’ सप्तशतीटीकापरम्परायां भजते वैशिष्ट्यमिति खण्डेऽस्मिन् तत्प्रकाशनमध्येतॄणामुपकाराय स्यादेवेति।
इयं ग्रन्थावलि: विद्वद्धौरेयाणां कवितल्लजानां विविधभाषानिपुणानां कलामर्मज्ञानां कलानाथशास्त्रिणां सुचिन्तितै: भूमिकावचोभिर्विभूषितेति सविशेषं परितोषमनुभवाम:। देवर्षिकलानाथशास्त्रिणश्च स्वनामधन्यानां प्रात:स्मरणीयानां भट्टमथुरानाथशास्त्रिणां सुयोग्यास्तनया:, यान् दर्शं दर्शम्-
'न कारणात् स्वाद् बिभिदे कुमार: प्रवर्तितो दीप इव प्रदीपात्’
इति महाकविकालिदासवचसोऽसकृत् स्मराम:। अथ च सुयोग्य: युवाऽपि प्रौढपाण्डित्यवैभवमण्डित: पण्डित: श्रीरमाकान्तपाण्डेयो ग्रन्थावल्या अस्या सम्पादने एतेषां सुकविवर्याणां कलानाथशास्त्रिणां साहाय्यमाचरत्। वस्तुत: अपारं मञ्जुनाथसाहित्यमधिकृत्य सत्यमेव रमाकान्तपाण्डेयोऽप्रतिमां विशेषज्ञतां गाहते, यतो बहो: कालात् पूर्वमयं मञ्जुनाथवाग्वैभवे स्वकीयं दीक्षाचणत्वं प्रकटीचकार भट्टमथुरानाथशास्त्रिवर्यमधिकृत्य अखिलभारतीयसङ्गोष्ठ्या आयोजनेन, तत्सामग्रया: सम्पादनप्रकाशनेन तथा च मञ्जुनाथगद्यगौरवमिति स्वसम्पादिते ग्रन्थे तेषामेव श्रीमद्भट्टमथुरानाथशास्त्रिणामप्राप्त-दुर्लभगद्यरचनानामाविष्कारपुरस्सरं सम्पादनेन च।
एतस्या मञ्जुनाथग्रन्थावल्या: प्रकाशनम् अमुष्मिन् नवीने सहस्राब्दे संस्कृतसाहित्यजगत: काचन अनितरसाधारणी घटना वरीवर्तीति न संशीति:। भट्टमथुरानाथशास्त्रिवर्यै: संस्कृतस्य नवोऽभ्युदयकाल आयानवलोकितोऽलौकिकेन चक्षुषा। प्रकाशनमिदं संस्कृतसाहित्यरचनाक्षेत्रे सम्भावनानां नवद्वारमपावृणुयादित्याशास्महे।
राधावल्लभ: त्रिपाठी
कुलपति:
राष्ट्रियसंस्कृतसंस्थानम्
मञ्जुनाथप्रशस्तय:
अन्त:सद्रससम्भृतातिमधुरद्राक्षासदृक्षाक्षर:
स्फूर्जत्प्रौढतमार्थगौरवधर: शृङ्गारित: स्वैर्गुणै:।
श्रीमान्काव्यनिकुञ्ज एष स मनोहारी निगुम्फोऽद्भुत-
स्तुल्यो यस्य नवीनरीतिललितो नाद्यावधि प्रेक्षित:।।
(भट्टश्रीनन्दकिशोरशास्त्रिण:)
नृत्यत्प्रायपदध्वानेऽवधानं यच्छतो मम।
विनैवार्थानुसन्धानमुदिता कापि निर्वृति:।।
मञ्जुनाथ: कविर्नूनं प्रशस्योऽमृतमञ्जुवाक्।
चिरं जयतु चेतांसि रञ्जयन् सरसात्मनाम्।।
(सरस्वतीभवनाध्यक्षस्य खिस्तेनारायणशास्त्रिण:)
रम्य: कश्चित् सुगन्धो विलसति नगरे पाटलाभेऽविरामो
नाऽयं पुष्पाटवीत: प्रभवति विपणेर्नाऽप्ययं गान्धिकानाम्।
वाग्देवी-सौधदीपोज्ज्वलन-नव-नव-प्रातिभद्रव्ययुक्ते:
कीर्तेरेषोऽनुभावोऽप्रतिमकविपतेर्मञ्जुनाथस्य नूनम्।।
(आचार्यगोविन्दचन्द्रपाण्डेयस्य)
सम्पादकीयं निवेदनम्
अस्माकमुपास्या सेयं गीर्वाणगिरा यावती पुरातनी भाषाऽस्ति, तावत्येव नवीना। सहस्राब्दी-नामनेकासां कालो व्यतियातो यदवधि साहित्यसर्जनमस्यां विधीयमानमस्तीति यावान् पुरातनोऽस्या इतिहासो विख्यायते, तावत्येव नूतनताऽप्यस्यामस्ति, चिरयौवनवती सेयं भाषेति विद्म एव वयम्। अत एव वेदकालीनाया ऋषिकाया लोपामुद्राया उष:सूक्तानुसारं यथा सेयमुषा: ''पुराणी युवति’’ रित्याख्यायते स्म (पुराणी देवि युवति: पुरन्ध्रि:), तथैव संस्कृतभाषाऽपि पुराणी युवतिरस्तीति सर्वदा सहर्षमुल्लिखामो वयम्। अत एव प्रतियुगं नूतनं साहित्यमस्यां सृज्यमानमवलोकयितुं शक्यते। भास-कालिदासादीनारभ्य वर्तमानयुगीन-कविकथाकारादिपर्यन्तं काव्य-नाटक-कथोपन्यासादिसाहित्यं यदद्यत्वे ''सर्जनात्मकसाहित्या’’भिधानेनोल्लिख्यते, निरन्तरमस्यामवतार्यमाणमस्त्येव। एतस्य परिधौ, विधाविशेषेषु च विस्तार एव संजायते, न नैयून्यम्।
एकोनविंश्या: शताब्द्या अवसानस्य, विंश्या: शताब्द्या: प्रारम्भस्य च कश्चन कालखण्डो निर्विवादं पुनर्जागरणयुगत्वेन भारतीय-साहित्येतिहासेऽपि समभिधीयते, भारतीय-समाजेऽपि। मुद्राणालयानां प्रसारेण, पुस्तकानां, पत्र-पत्रिकाणां च विस्तारेण संस्कृतभाषाया इतिहासेऽपि नवजागरणयुगमिदमासीदिति सर्वे वयं मन्यामहे। तदैव भारते विश्वविद्यालयशिक्षा प्रसारमाप, तत्र च संस्कृतभाषाया महत्त्वं सविशेषमाख्यापितमाङ्ग्ल-शासकैरपि, संस्कृत-साहित्यस्याभिज्ञानशाकुन्तलप्रभृति नवनीतं पाश्चात्यभाषास्वनूद्य यदवधि प्रासारि विलियम-जोन्सप्रभृतिभिराङ्ग्लै:, शार्मण्यदेशीयैश्चाऽपि, तदवधि संस्कृतं विश्वजनीनत्वेन महत्त्वम-धादित्यपि मन्यामहे वयम्। तदानीं खलु विश्वविद्यालयेषु संस्कृतस्याध्ययनाध्यापनादि सविशेषं प्रासरत्। तादृशस्याध्यापनस्य, परीक्षाणां च माध्यमं त्वभूदाङ्ग्लभाषैव। तदानीं खलु भारतीये संस्कृताध्येतृसमाजे धाराद्वयं प्राचलत्।
एका धाराऽभूत्तादृशानां विश्वविद्यालयादिवरिष्ठशिक्षासंस्थानेषु समधितस्थुषां विदुषां येष्वाङ्ग्ला वैदेशिकाश्चाऽप्यभूवन्, भारतीया अपि, ये संस्कृतभाषां तत्साहित्यं च क्लासिकल (श्रेण्य) वाङ्मयत्वेन गभीरस्य शोधस्यानुसन्धानस्य च विषयं मन्यन्ते स्म, वेदोपनिषत्पुराणा-दीनां, श्रेण्यसाहित्यस्य चानुशीलनं, तदनुवादनं, तदुपरि शोधानुसन्धानादि चाङ्ग्लभाषायां, कदाचिच्च वङ्ग-हिन्द्यादिभाषास्वपि क्रियेत, इत्येतदेवाऽऽसीद् भारतीयानां विश्वविद्यालयानामुद्देश्यम्। प्राचीन-ग्रीक-लैटिनादिवदियमपि पुरातनी भाषाऽस्ति यस्यां मन्त्रपाठादिकं, कर्मकाण्डादिकं चानुष्ठीयते, यस्या: प्राचीनं साहित्यं शोधार्थिभिरनुशील्यते, अनुसन्धीयते च। न कश्चिदद्य प्राचीनग्रीकभाषायां लैटिनभाषायां वा काव्यरचनामुपन्यासलेखनं वा कर्तुं कल्पयेदपि। अत: संस्कृतभाषाऽपि क्लासिकलभाषात्वेन ग्रीक-लैटिनादिवदनुसन्धानपात्र-मेवाऽस्तीति मन्वानानां विदुषामभूत्सा धारा।
अन्याऽभूदेका तादृशी धारा यस्या विद्वांसो ''जीविताना’’ माधुनिकभाषाणां पङ्क्तौ संस्कृतं परिगणयन्ति स्म, संस्कृते सम्भाषन्ते स्म, कवयन्ति स्म, पत्रलेखनादि कुर्वन्ति स्म, कविसम्मलेनादीनामायोजनं कुर्वन्ति स्म, कथालेखनं, विनोदालापांश्चापि कुर्वन्ति स्म। एतस्यैवाऽभूदयं परिणामो यद् यदा मुद्रणालयानां प्रसारवशात् ''पत्रकारता’’ प्रारभ्यत भारतीय-भाषासु, तदा संस्कृतपत्रपत्रिका अपि ''विद्योदय’’ सदृश्य: प्राकाश्यन्त (न केवलं पण्डितप-त्रिकासदृश्य:) या अवलोक्य चित्रीयन्ते स्म वैदेशिका:। एवंविधासु पत्रिकासु सर्जनात्मक-साहित्यं विपुलमात्रायां प्रकाशयितुमारेभिरे सम्पादका:। सहस्रश: संस्कृतसर्जकास्तु विद्यन्ते स्मैव तदानीं देशे।
एतस्यायमभूत् स्वाभाविक: परिणामो यदूनविंश्या: शताब्द्या अन्तिमे चरणे विंश्या: शताब्द्या पूर्वार्धे च सुमहति परिमाणे संस्कृतभाषायां काव्य-नाटक-कथोपन्यास-निबन्धादिकस्य ''सर्जनात्मक’’-साहित्यस्य सर्जनमभूद् देशे यस्य प्रकाशनं कदाचित् पूर्वं पत्रिकास्वभूत्, तदनु ग्रन्थाकारेषु, कदाचिच्च ग्रन्थरूप एव तदवततार। पं. अम्बिकादत्तव्यासस्य सुविदित उपन्यास: ''शिवराजविजया’’ख्य: पूर्वं क्रमिकरूपेण संस्कृतचन्द्रिकापत्रिकायां प्राकाश्यत, तदनु ग्रन्थरूपेण।
इत्थमस्या नूतनधाराया: प्रयासानां परिणामवशात् संस्कृते जीवन्तीष्वाधुनिकभाषास्विव तादृशं सर्जनात्मकसाहित्यमनवरतमवततार। तत्र च पत्रकारताया: सर्वाधिकमुल्लेखनीयमवदानमभूत्। अत एव बहवस्तादृशा: संस्कृतपत्रकारा: प्रादुरभूवन्, ये सुललित-सर्जनात्मक-साहित्यस्य प्रणेतारोऽप्यभवन्, पत्रकारा अपि। तादृशेषु सर्जकेषु सर्वप्रथमुल्लेखनीयोऽस्ति वाङ्गो विद्वत्तल्लज: पं. हृषीकेशभट्टाचार्यो यो हि वङ्गदेशात् सूदूरं पश्चिमोत्तरप्रदेशे लाहौरनगरे विश्वविद्यालयीयशिक्षातंत्रेणाऽऽकारितस्तत्र प्रापत्; ''विद्योदय’’ नामकस्य संस्कृतपत्रस्य चाऽऽरम्भमकरोत् यत्र सर्जनात्मकं साहित्यं सुभृशं प्राकाश्यत। सपद्येव तदनु पत्रमिदं वङ्गदेशमागमत्। अत्र हि भट्टाचार्यैर्ललितकथाललित-निबन्ध-विनोदव्यंग्यादि हृदयावर्जकं साहित्यं प्रकाशयितुमारब्धम्। सेयं धारा संस्कृतचन्द्रिका-संस्कृतरत्नाकरादिविविधपत्ररूपेण सततं प्रावहत्, भूयांसं च साहित्यभाण्डागारमवतारयामास संस्कृते। संस्कृतचन्द्रिकासम्पादक: पं. अप्पाशास्त्री राशिवडेकरोऽपि सर्जनात्मकसाहित्यस्य सुविदित: प्रणेताऽभूत् (महाराष्ट्रीय:), संस्कृतरत्नाकरसम्पादको देवर्षिभट्टमथुरानाथशास्त्री अपि कविशिरोमणि:, कथाकारो, ललितनिबन्धकारश्चाऽभूत् (राजस्थानीय:)। तदनु ''संस्कृतप्रतिभा’’ (भारतीय साहित्य-अकादम्या: संस्कृतमुखपत्र) सम्पादको डॉ. वेङ्कटराघवन् (दक्षिण भारतीय:) अपि स्वयं नाटककार: कविश्चाऽभूत्, तमेव पन्थानं चानुससार।
सर्जनात्मकसाहित्ये नवजागरणस्य येयं धारा संस्कृते प्रावहत् तत्परिणामस्वरूपमेवा-द्यत्वे सुविपुले परिमाणेऽभिनवं संस्कृतसाहित्यमुपलभ्यते यस्येतिहासोऽपि प्रारभ्यताऽभिलेखितुं विद्वद्भि:। स्व. डॉ. बलदेव उपाध्यायानां प्रधानसम्पादकत्वे प्रकाशितस्य ''संस्कृत वाङ्मय का बृहत् इतिहास’’ नामक-ग्रन्थराशे: सप्तामखण्डरूपेण, अन्येषु च ग्रन्थेषु, तादृशं विवरणं प्राप्यते। अतएव तत्राऽऽधुनिक-कालीनस्य संस्कृतसाहित्यस्य यद् युगविभाजनं व्यधीयत, तस्य नामकरणमपि सर्जक-पत्रकार-युगप्रवर्तकत्वेन महतीं भूमिकां निरूढवतां विदुषां नामभिरक्रियत-अप्पाशास्त्री राशिवडेकरयुगम् (१८९०-१९३० ई.) भट्टमथुरानाथशास्त्रियुगम् (१९३०-१९६० ई.), डॉ. राघवन् युगं (१९६०-१९८० ई.) चेत्यादि।
अस्मिन् विपुले नूतन-साहित्यभाण्डागारे नूतनविधानां, नूतन-विषय-शिल्प-शैल्यादीनां चाऽवतारणां विधाय विलिखितं काव्य-कथा-नाटक-निबन्धादिसाहित्यं विस्मयावहां लोकप्रियतामभजत्। तदैव तु विंटरनिट्जादय: शार्मण्यदेशीया: साहित्येतिहासकारास्तदिदं कथयितुं विवशा अभूवन् यत् संस्कृतसदृशी प्राचीना, क्लासिकलभाषा एतादृशीं जीवन-शक्तिं धारयतीति क: खलु विश्वसेद् यदस्यां पत्रपत्रिका: प्रकाश्यन्ते, कवि-सम्मलेनानि भवन्ति, सजीवं नूतन-साहित्यं च निर्मीयते।
अनेनैव नूतनसाहित्येन संस्कृतगिरं केवलं पुस्तकस्थां, क्लासिकलभाषां, शोधपात्रीभूतां भाषां, मृतभाषां वा व्यपदिशतां पाश्चात्यमतानुवर्तिनां मुखमुद्रणं कृतमभूत्। अत एव तदानीं पं. हृषीकेशभट्टाचार्यस्य ''उद्भिज्जपरिषद्’’ इत्यादीन् निबन्धान् ''आत्मवायोरुद्गार’’ इत्यादि- विनोदगर्भा आत्मवृत्तादिविधाश्च लोकप्रिया अनुभूय प्रसेधितान्यभूवन्नेतादृशानि पद्यानि-
मुद्रयति वदनविवरं मृतभाषावादिनां मुहेराणाम्।
स्मरयति च भट्टबाणं भट्टाचार्यस्य सा वाणी।। (मुहेरो मूर्ख:)
तादृशं सर्जनात्मकं साहित्यमद्यावधि विपुले परिमाणे सृज्यते, प्रकाश्यते, समीक्ष्यते, समाद्रियते, पुरस्क्रियते च साहित्य अकादमी-संस्कृत अकादमी प्रभृतिभि: संस्थाभिरिति सुमहत् सौभाग्यमस्माकममरभाषासेवकानाम्। अद्यापि भारतीयेषु बहुसंकायीयेषु विश्वविद्यालयेषु मानविकीसंकायान्तर्गत: संस्कृतविभागोऽपि विद्यते यत्र संस्कृतस्य वाङ्मयम्, अर्थात् प्राचीनं वरेण्यसाहित्यं वेदोपनिषन्महाकाव्यनाटकादिरूपं पाठ्यते, तदुपर्यनुसन्धानकार्यं क्रियते, पीएच. डी. इत्यादय उपाधय: प्रदीयन्ते। एवंविधस्य शिक्षणस्य, परीक्षणस्य, लेखनस्य च माध्यमरूपेण हिन्दीभाषा, आङ्गलभाषा, अन्याश्च भारतीया भाषा उपयुज्यन्ते प्रायश:। संस्कृतमाध्यमेन तत्राल्पीय एव कार्यं भवति, न वा भवति। अपरतस्तु गताया विंश्या: शताब्द्या उत्तरार्धे प्रवृत्ताया: संस्कृतविश्वविद्यालयस्थापनपरम्पराया: कारणात् संस्कृतस्यैव विविधविषयाणामनुशीलनाय संस्थापितानां विश्वविद्यालयानां शिक्षणपरीक्षणलेखनादिकार्येषु संस्कृतभाषैव माध्यमत्वं बिभर्ति।
द्वयोरपि विश्वविद्यालयप्रकारयोरनयो: पाठ्यक्रमेषु यत् ''साहित्यं’’ साहित्यविषय-मङ्गीकृतवत्सु छात्रेषु पाठ्यते, तत्र कालिदासादय: प्राचीना महाकवय:, जगन्नाथपण्डितराजादयो मध्यकालीना विद्वांसो वा पाठ्यक्रमेषु निर्धार्यन्ते, नवयुगीना अर्वाचीना: साहित्यसर्जका: प्रायश: पाठ्यक्रमेषु नावतरन्ति स्म कतिपयदशकेभ्य: पूर्वम्। वाराणस्यादिनगरीयै: पाठ्यक्रमनिर्धारकै: कृपापूर्वकमर्वाचीनेषु साहित्यकारेषु दयमानै: केवलमम्बिकादत्तव्यासोपरि कृपा कृताऽभूद् यत्तस्य ''शिवराजविजया’’ख्य उपन्यास: पाठ्यक्रमे निरधार्यत। नापर: साहित्यकार: प्रवेशमलभत बहो: कालात्। इत्थं केवलं क्लासिकल-साहित्यपाठनस्य परिणतिरियमभूद् यत्तादृश: स्नातक: शास्त्रीयान् विषयान् संस्कृते वक्तुं, लेखितुं चावश्यं प्रभवति किन्त्वाधुनिके युगे यादृशं जीवनं प्रवर्तते, या घटना घटन्ते, तासां वर्णनं कर्तुं संस्कृते न प्रभवति। कथं क्षमेत स तथा कर्तुम्?
''बाष्पयान (रेल) विश्रमस्थले (स्टेशन) यदा चिटिका (टिकिट) क्रयणायाहं गतोऽभूवं तदा मम पटपुटकं छिन्नम् (जेब कट गई)’’ इत्यादिवास्तविकवृत्तस्य लेखनं यदि संस्कृते करणीयं स्यात् तदा वराक: साहित्याचार्यपरीक्षोत्तीर्णोऽपि कथं प्रभवेत्? रेल-स्टेशन-टिकिट इत्यादीनि प्रमेयानि शिवराजविजये तु न सन्ति, न कालिदासे, न बाणभट्टे। कुत्र लभेत स तत्कृते शब्दराशिम्? अतस्तादृशीष्वभिव्यक्तिष्वपि छात्राणां बुद्धि: प्रसरेदित्येतदर्थं बहुभिर्विवेकिभिर्विश्वविद्यालयैराधुनिकसाहित्यान्तर्गतानि पुस्तकान्यपि पाठ्यक्रमेषु विनिर्धारितानि यत्राधुनिका: शब्दा: प्राप्येरन्। एवंविधेषु विश्वविद्यालयेषु दयालबाग आगरा-प्रभृतयोऽप्यभूवन्, राजस्थानीया विश्वविद्यालया अप्यभूवन्। बहुभिस्तु पुराणपथपथिकै: पाठ्यक्रमनिर्धारकैरेवं-विधस्य नूतनयुगीनविकासस्यावश्यकतैव नानुभूता स्यादिति तु कथान्तरम्।
किन्तु तदिदं तु स्पष्टतया सर्वैरनुभूयेतैव यदद्य यदि द्वितीयधारानुरूपं संस्कृतभाषा ''जीविता’’, आधुनिकी, प्रयुज्यमाना च भाषा साधयितुमिष्यतेऽस्माभिस्तर्हि वर्तमानयुगीनानां सर्वविधानामभिव्यक्तीनामवतारणा संस्कृते करणीया स्यात्। संस्कृते जीवनानुभवान् अभिव्य-ञ्जयितुमस्माकं छात्रा अपि समर्थीकरणीया: स्यु:। तदर्थमाधुनिकं संस्कृतसाहित्यमेवैकमात्रं साधनं भवितुमर्हति, नान्य: पन्था विद्यतेऽयनाय। अत एव नूतनं साहित्यं संस्कृते सृज्येत इत्यप्यावश्यकं, तत् प्रकाश्येत इत्यप्यावश्यकं, तस्य निर्धारणं पाठ्यक्रमेषु क्रियेत, इत्यप्यावश्यकम्।
सुमहत् सौभाग्यमस्माकं यदेवंविधा अपेक्षा: प्रति किञ्चिदवधानं वरिष्ठै: प्रशासकै:, शिक्षाशास्त्रिभिश्च प्रदातुमारब्धमस्ति। नूतनसाहित्यसर्जनं प्रोत्साह्यत इति तु सूचितचरमेवोपरि-तनासु पंक्तिषु, बहुत्र पाठ्यक्रमेष्वपि नूतनसाहित्यं निर्धार्यते। नूतनसाहित्यसमीक्षणाय ''दृक्’’ सदृश्य: पत्रिका अपि प्रकाश्यन्ते, ग्रन्थप्रकाशनमपि प्रोत्साह्यते। तादृशेषूपक्रमेषु भारतसर्वकारीयं राष्ट्रियसंस्कृतसंस्थानं यद्धि शासनस्य सर्वत: प्रमुखं संस्थानमस्ति, विपुलं समर्थनं वित्तीय-साहाय्यादिकं च प्रददातीति सुतरां हर्षावहम्। अनेन संस्थानेन नूतनसाहित्यप्रकाशनस्य तदर्थं वित्तीयानुदानस्य, तत्समीक्षणस्य, विविधभाषासु सृष्टस्योत्कृष्टस्य साहित्यस्यानुवादानां प्रवर्तनस्यापि च कार्यक्रमा: परिचाल्यन्त इत्यपि प्रमोदावहम्।
संस्थानस्यास्य कुलपतिभि:, डॉ. राधावल्लभत्रिपाठिभि: स्वयं नूतनसाहित्यसर्जनल-ब्धयशस्कैर्यदवधि कार्यभारोऽस्य गृहीतस्तदवधि तै: कतिपये तादृशा उपक्रमा अपि प्रारभ्यन्त यै: संस्कृते नवयुगीनविकासस्योपबृंहणं प्रतिफलितं दृश्येत। तादृशेष्वेवोपक्रमेष्वेकतमोऽस्ति संस्कृतस्यार्वाचीनानां साहित्यकाराणां समग्र-ग्रन्थमालाया: प्रकाशनम्। लोकप्रियग्रन्थमालानाम्ना तादृशानां साहित्यसर्जकाणां समस्तानां कृतीनां ग्रन्थरूपेणावतारणं महदुपयोगि स्याद् यै: प्रभूते परिमाणे विविधासु विधासु संस्कृते सर्जनात्मकं साहित्यमवतार्य संस्कृतं जीविता भाषा ख्यापिता-ऽभूत्, नवजागरणस्य स शङ्खनाद: कृतोऽभूद् यस्य विवरणं मया गतेषु प्रघट्टकेषु प्रस्तुतमस्ति।
एवंविधा एव साहित्यसर्जका अभूवन् मम पितृचरणा: कविशिरोमणि-देवर्षि-भट्टश्रीमथुरानाथशास्त्रिपादा: यै: संस्कृतकाव्यसर्जनायां नूतनच्छन्दसां, नूतनशैलीनां, नूतनकथ्यानां चाऽवतारणा कृताऽभूत्, गजलगीतिरचनाया: प्रवर्तनं कृतमभूत्, ललितनिबन्धा जनिता अभूवन्, कथासर्जनस्य नैका विधा: प्रावर्त्यन्त, विनोदोक्तीनां प्रकाशनं प्रारब्धमभूत्, ग्रन्थसमीक्षणं प्रवर्तितमभूत्, संस्कृतपत्रकारतायां नूतनं युगमानायितमभूत् ''संस्कृतरत्नाकर’’-''भारती’’ प्रभृतिपत्राणां सम्पादनद्वारा। तेषां संस्कृते साहित्यसृष्टिर्लक्षाधिकेषु पृष्ठेषु प्रसृताऽस्ति। तेषां बहवो ग्रन्था: प्राक् प्रकाशिता अद्य सुदुर्लभा:। तत्सम्पादितपत्रिकादीनां प्राप्तिरप्यद्य कठिना। तेषां लोकप्रियाणां सर्जनात्मकसाहित्यकृतीनामवतारणा ग्रन्थमालारूपेण क्रियेतेति संस्थानस्य शुभसङ्कल्पो यदा मह्यमसूच्यत, सुमहान् सन्तोष: ''सार्थकता’’-बोधश्च कश्चिदुदियाय मन्मनसि। पद्ये, गद्ये (कथोपन्यासादिषु) च तेषां सर्जनस्यास्ति विपुलं परिमाणम्। तत्सूचना भूमिकाभागे प्राप्येत पाठकै:। अत: क्रमिकरूपेण विभिन्नेषु भागेषु प्रकाश्यते सेयं ग्रन्थमाला।
प्रथमे पद्यखण्डे तेषां मञ्जुकवितानिकुञ्जाख्य: काव्यसन्दोह: प्रकाश्यते यत्र प्रामुख्येण नूतनेषु शिल्पप्रकारेषु, छन्द:सु, गीतिषु च निबद्धा काव्यरचना परिदृश्येत पाठकै:। विंश्या: शताब्द्या आरम्भेऽपि समस्ते देशे व्रजभाषाच्छन्द:सु प्रणीयमाना सा काव्यरचना लोककण्ठ-हारत्वमाप्ताऽभूद् यादृशा काव्यपरम्परा तुलसीदासस्य कवितायां, विहारिणो दोहाच्छन्द:सु देव-भूषण-ठाकुर-रत्नाकरादीनां कवित्तच्छन्द:सु च निभाल्यते स्म। व्रजभाषा खलु तदानीमखिलेऽपि देशे काव्यभाषात्वेन प्रतिष्ठिताऽभूत्। केरलीया अपि व्रजभाषायां कवयन्ते स्म। तत्रापि घनाक्षरीत्याख्यायमानं दण्डकं लोकप्रियमभूत्। अत एव कवित्त नाम्ना (कवित्वप्रतीकत्वेन) तस्य ख्यातिर्व्यजृम्भतेति लेखकीयायां भूमिकायां सविस्तरं स्पष्टीकृतमस्ति। तदानीमेव देशे उर्दूभाषाऽपि सुप्रतिष्ठिताऽभूत्, तस्याश्च गजलनामा गीतिप्रकार: सुतरां लोकप्रियोऽभूत्। सर्वेष्वेतेषुछन्द:सु विविधा काव्यरचना भट्टश्रीमथुरानाथशास्त्रिभिर्व्यधीयत।
अस्यां हि शिल्प-विधास्वमूषु तै: सर्वविधा: काव्यविषया न्यबध्यन्त। ॠतुवर्णन-नायिका-भेद-नवरसनिबन्धनादिपरम्पराऽपि तैरनुसृता, नवसभ्यताया:, नूतनयन्त्राणां चापि वर्णनेन नूतनतां प्रति स्वाभिप्राय: प्रकटीकृत:। तदानीं हि कवितायां कुत्रचन कविनामसङ्केतोऽपि सूच्येतेति परम्परा सुप्रचलिताऽभूत्। व्रजभाषायामेवंविधा नामसूचना भनत इति व्यपदिश्यते स्म, यथा सूरदास तुलसी इत्यादि सङ्केतस्तेषां पद्येषु द्रष्टुं शक्योऽद्यापि तथैव कविनाम प्रतिपद्यं सूच्येत इत्येतदर्थं भट्टपादै: स्वकीयं काव्यनाम मञ्जुनाथ इति स्वीकृतमासीत्। ततो मञ्जुकविता-निकुञ्ज इति काव्यमालाया नामापि तैर्निर्धारतम्। प्रतिपद्यं कवित्तच्छन्दसस्तृतीयचरणे मञ्जुनाथ इति नामसूचनाऽपि प्राचां पद्धतिमनुसृत्य गुम्फिता। सा विलोक्येत पाठकैर्ग्रन्थामलायामस्याम्। कवित्तच्छन्दसि चरणचतुष्टयमवश्यं भवति, प्रतिचरणमन्त्यानुप्रासोऽपि भवति किन्तु वाक्यपूर्तिर्द्वितीयेन चतुर्थेन च चरणेन मन्यते। अत: प्रथमचरणानन्तरं तृतीयचरणानन्तरं च न किञ्चित् विरामचिह्नं दृश्येत, वाक्यपूर्तेरभावात्। तदनुसार्येव मुद्रणमत्र दृश्येत पाठकै:।
प्रथमत: साहित्यवैभवाख्यं काव्यसङ्कलनं 1930 ई. वत्सरे मुम्बईस्थ- निर्णयसागर-प्रेसतो मुद्रापयित्वा तै: प्राकाश्यत यत्र आगराविश्वविद्यालयकुलसचिवस्य पं. श्यामसुन्दरशर्मण: प्रयाग- विश्वविद्यालयकुलपते: डॉ. गङ्गानाथझामहाभागस्य, काशीहिन्दूविश्वविद्यालयकुलपते: प्रो. ए. बी. ध्रुवमहाभागस्य, वाराणसेय संस्कृतमहाविद्यालयाध्यक्षस्य डॉ. गोपीनाथकविराजस्य च भूमिका आङ्गलभाषायां, नाथद्वारविद्याविभागाध्यक्षस्य शीघ्रकविनन्दकिशोरशास्त्रिण: काशीस्थसरस्वतीभवनाध्यक्षस्य पं. नारायणशास्त्रिखिस्ते महोदयस्य च संस्कृते काव्यमयं प्ररोचनाद्वयं स्वकीयया संस्कृतनिबद्धया भूमिकया सह प्राकाश्यन्त। तदानीं हि भारते विद्यानां कलानां च पुनर्जागर्ति: काचन परिदृश्यते स्म, मुम्बईमहानगरी चापि तस्या: केन्द्रभूताऽसीत्, अतस्तत्र एम. धुरन्धरम्हात्रेप्रभृतयश्चित्रकारा: स्वकीयतूलिकानिर्मितैश्चित्रैर्जनमनांसि मोहयन्ति स्म, लक्ष्मीआर्टप्रभृतिभ्यो मुद्रणालयेभ्यश्चित्रगुम्फा: (आल्बम) काव्यबन्धालङ्कृता अपि प्रकाश्यन्ते स्म। भट्टमहाभागास्तादृशीनां कलाकृतीनां गुणग्राहका अप्यभूवन्, ग्राहका अपि। शतशस्तादृशानि सचित्रपुस्तकान्यद्यापि तेषां सङ्ग्रहे शक्यन्ते द्रष्टुम्।
अतस्तै: स्वकीय-संस्कृतकाव्यगुम्फनेन सह बहूनि तादृशानि चित्राण्यपि (प्रायश: एम. धुरन्धरचित्रितानि, तूलिकया, न तु कैमराख्ययन्त्रेण) ॠतुवर्णन-नायिकावर्णनादिभि: सह मुद्रापितानि साहित्यवैभवे। अनेकासां काव्यरचनानां तु प्रेणैव तादृशैश्चित्रै: प्रत्ताऽभूत्। अत: पद्यै: सह स्वटीकायां चित्रविशेषस्याप्युल्लेखस्तैस्तत्र तत्र कृत: परिदृश्येत पाठकै:। प्रतिपद्यं सेयं टीका स्पष्टावबोधार्थं प्रकाश्यते किन्तु सर्वाणि तानि चित्राणि न शक्यन्ते मुद्रापयितुमिति तानि नाऽत्र विलोक्येरन्।
मञ्जुकवितानिकुञ्जाख्यस्यास्य काव्यसन्दोहस्य प्रथमो भागो ''जयपुरवैभवम्’’ शीर्षकं बिभ्राण: 1947 ई. वर्षे प्राकाश्यत। अत्र हि ''अपरा काशीति’’ ख्यातस्य जयपुराख्यनगरस्य काव्यमयं वर्णनं गुम्फितमस्ति। महाकवेरस्य पूर्वजा: श्रीकृष्णभट्टकविकलानिधिप्रभृतयो जयपुरनरेशै: प्रभूतभूसम्पत्समर्पणपुरस्सरमत्रानाय्य ससम्मानं वासिता:। अस्मिन् कुले जयपुर-राजवंशेतिहासस्य काव्ये निबन्धनं शताब्दीभ्य: कविकर्मत्वेनानुवर्तते यत: श्रीकृष्ण-भट्टकविकलानिधिना ''ईश्वरविलासा’’ख्ये महाकाव्ये इदम्प्रथमतया जयपुरनगरस्थापनाया: प्रत्यक्षदृष्टं विवरणं समावेशयता जयपुर-राजवंशेतिहासो व्यलेख्यत, स हि अष्टाविंशीं शताब्दीं यावदितिवृत्तं प्रस्तौति। तदनन्तरं व्रजभाषायां तद्वंशजैरितिहासकाव्यान्यलेख्यन्त। अस्यामेव परम्परायां साम्प्रतिकं जयपुरं काव्यशैल्यां वर्णयत् काव्यं प्रणीयेत यत्र जयपुरस्योद्यानानि, दर्शनीयस्थलानि, प्रमुखा महापुरुषा इत्यादयो विषया अपि वर्ण्यरन्निति जयपुरमहाराजस्य मानसिंह (द्वितीय) स्यानुरोधमनुसृत्य संस्कृते विविधेषुच्छन्दस्सु भट्टश्रीमथुरानाथशास्त्रिभिर्जयपुर-वैभवाख्य: काव्यतल्लज: प्राणीयत। अस्य हि विशेषोऽयमेवास्ति यदत्र ऊनविंश्या: शताब्द्या उत्तरार्धे विंश्याश्च पूर्वार्धे जयपुरनगर्यां कथं विकासकार्याणि समजनिषत, के के सामन्ता विद्वांसश्च नगरीमिमां गौरवान्वितां चक्रुरित्यादि ''यथार्थ’’ विवरणं समुपलभ्येत पाठकै: शोधार्थिभिश्च।
स्वकीयाया जन्मभूमेर्वृत्तमुपनिबध्य सारस्वतमृणं परिशिशोधयिषता कविशिरोमणिना सोऽयं काव्यसन्दर्भ: प्रथमभागत्वेन मनोनीतोऽभूदत: समग्रस्य मञ्जुकवितानिकुञ्जस्य भूमिकाऽस्मिन्नेव भागे प्राकाश्यत। अत्रैव भारतविश्रुतानां विद्वन्मूर्धन्यानां म. म. पं. गिरिधिर-शर्मचतुर्वेदानां प्रारम्भिकं वक्तव्यमपि प्राकाश्यत। भारतेन विंश्या: शताब्द्या: पूर्वार्धे स्वातन्त्र्यमधिगतम्। राजतन्त्रस्य स्थाने प्रजातन्त्रमस्थाप्यत। तस्य वर्णनमप्यत्र जयपुरवैभवे प्राप्यते। जयपुरवैभवमिदं मञ्जुकवितानिकुञ्जस्य प्रथम: खण्ड:, 'साहित्यवैभवं’ च द्वितीय इति तेषां हार्दमभूत्। अतो भूमिकाभागो जयपुरवैभवेन सह प्राकाश्यत।
भट्टपादानामन्तिमं काव्यमासीद् भक्तिकाव्यं ''गोविन्दवैभव’’ नामकम्। आजीवनं नरकथामुद्दिश्य सांसारिकान् विषयान् वर्णयन्ति काव्यानि मया व्यरच्यन्त। इत्थं हि नरकथयाऽऽ-विलीकृतां वाणीं नारायणस्मरणेन पावयितुं भगवद्गुणानुवादपरां काव्यरचनां गोविन्दचरणयो: समर्प्य काव्यप्रणयनपरम्परां समापयिष्यामीत्यभिलाषस्तेषां 1957 ई. वर्षे गीताप्रेस (गोरखपुर) त: प्रकाशितेन गोविन्दवैभवकाव्येन सम्पूरित:। अत्र विविधेषु च्छन्द:सु भक्तिकाव्यं गुम्फितमस्ति। एतदनन्तरं तैर्न काऽपि काव्यरचनाऽक्रियत, गद्यप्रणयनमेव स्व:प्रयाणावधि कृतम्।
सर्वेभ्य एतेभ्य: काव्येभ्य: पूर्वं तै: काव्यप्रणयनविनोदविधया हालसङ्कलिताया गाथासप्तशत्या: संस्कृते समच्छन्दोऽनुवाद: कृतोऽभूत्। प्राकृतगाथा इमा: सर्वात्मना हृदयावर्जिका: किन्तु मूलप्राकृतभाषा नैषु दिनेषु सर्वेषां बोधगम्या, पाठका: खलु गाथानां संस्कृतच्छायामधीत्य तासां रसास्वादनं कुर्वन्ति, छाया सेयं न च्छन्दोबद्धा अतो रसनीया न भवति। सर्वमिदं विचिन्त्य तैर्गाथानामासामार्यासु संस्कृतानुवादो व्यधीयत, सर्वविधं व्यङ्ग्यजातं विशदयन्ती व्यंग्यसर्वङ्कषाख्या टीकाऽप्यलिख्यत। संस्कृतगाथा-सप्तशती-नाम्ना ग्रन्थोऽयं मूल-प्राकृतगाथा-संस्कृत-छाया-टीकादि-सहित: प्राकाश्यत निर्णयसागर प्रेस (मुम्बई) त: 1933 ई. वर्षे।
ग्रन्थावल्यामस्यां विभिन्नेषु खण्डेषु ये ग्रन्था: प्रकाश्यन्ते तेषु भट्टमहोदयैर्विलिखिता: संस्कृतटीकाष्टिप्पण्यो वा, ये ग्रन्थावगमे साहाय्यमाचरेयु:, पद्यै: सह प्रकाश्यन्ते। हिन्द्यनुवादोऽपि बहुषु ग्रन्थेषु प्रथमत: सहैव प्राकाश्यत। स नाऽत्र परिगृह्यते। ग्रन्थभूमिकादीनां ते ते भागा ये तदानीन्तनपरिदृश्यं स्पष्टीकुर्यु:, त इह प्रकाश्यन्ते। इत्थं प्राय: शताब्दीमे-कामनुव्याप्य, १९०४ ई. तोऽद्यावधि भट्टमहाभागानां या साहित्यरचना ग्रन्थेषु, पत्रपत्रिकासु, रचनासंग्रहेषु वा प्रकाशमभजत् तस्या: संग्रहोऽत्र यथाशक्यं तस्मिन्नेव स्वरूपे समर्प्यते विदुषां प्रसादाय क्रमश:।
एवंविधे संग्रहे 'सम्पूर्णता’, सर्वगुणसम्पन्नता च न कथमपि विनिश्चाययितुं शक्या, इति जानन्त्येव सुधियस्तथापि परिशुद्धतायै प्रयतितमस्माभि:। इदमपि स्पष्टं यच्छास्त्रीयमर्यादा-मनुसरद्भिरपि साम्प्रतिकैर्मुद्रकैर्बहुधा परसवर्णस्य स्थानेऽनुस्वारो विवशतयाऽनवधानतया वा मुद्र्यते, मर्षयिष्यन्ति विद्वांसस्तादृशानि स्थलानि। मुद्रणसौविध्यानुरोधादन्यविधमपि 'शैथिल्यं’ समयानुरोधाद् विद्वद्भि: पाठकै: क्षंस्यते इत्याशासानैरस्माभि: प्रस्तूयते सङ्ग्रहोऽयम्।
ग्रन्थावल्यामस्यां पद्यमया ग्रन्था:, कथोपन्यासगद्यादिमयाश्च पृथक् पृथग् भागेषु प्रकाश्यन्ते। मञ्जुकवितानिकुञ्जाख्या काव्यशृङ्खला प्रथमं प्रकाश्यते यस्यां जयपुरवैभवम्, गोविन्दवैभवं चेत्याख्यं काव्यद्वयं कानिचित् मुक्तकानि च प्रथमे खण्डे, साहित्यवैभवाख्यं काव्यसङ्कलनं च द्वितीये खण्डे प्रस्तूयते। तृतीये खण्डे संस्कृतगाथासप्तशती प्रकाश्यते यस्या
उल्लेखोऽस्माभिरत्र कृतपूर्व:। अत्र हि हालसंकलितानां प्राकृतगाथानां संस्कृते आर्याछन्दोबद्धं
रूपान्तरणं भट्टश्रीमथुरानाथशास्त्रिणा प्रस्तुतं यत् 'समच्छन्दोऽनुवाद’ पदेनाऽपि व्यपदिश्यतेऽ-
न्यान्यभाषासु। सहैव व्यङ्ग्यसर्वङ्कषाख्या व्याख्यापि प्रकाश्यते, तल्लिखिता विस्तृता भूमिकापि
यस्यां प्राकृतगाथानां काव्यसौन्दर्यं तु विवृतमेव,अमरुशतकेन, गोवर्धनकृतयाऽऽर्यासप्तशत्या च सह प्राकृतगाथानां वर्ण्यवस्तुन: कृतिशिल्पस्य च तौलनिकमध्ययनं विशिष्य विहितमस्ति,
तदनु व्रजभाषाया: सुप्रथितायां कविवर्यविहारिविरचितायां दोहाच्छन्दोबद्धायां विहारिसप्तशत्यांं
कथं प्राकृतगाथासप्तशत्या: स्पष्ट: प्रभाव: परिलक्ष्यते इत्यपि विस्तृत्य विवेचनमस्ति। तौलनिकस्याध्ययनस्य निवेशं कृत्वा सम्पाद्य-ग्रन्थस्य सर्वाङ्गीणं विवेचनं प्रस्तुवन्तीनां भूमिकानां परम्परा पाश्चात्यविवेचनप्रथानामांशिकं प्रभावं गृह्णन्ती ऊनविंश्या: शताब्द्या उत्तरार्धे साहित्यपुनर्जागरणयुगे भारते प्रससारेति विदुषां मतम्। तादृशी परम्परा मुम्बईस्थनिर्णयसागर-मुद्रणालयात् प्रकाशितेषु ग्रन्थेष्वपि तदानीं दृष्टिगोचराभूत्। काव्यमालाख्यग्रन्थमालाया: प्रकाशनेषु तदिदं द्रष्टुं शक्यते (यथा म.म.पं. दुर्गाप्रसादद्विवेदिसम्पादिते साहित्यदर्पणाख्यग्रन्थे तादृशी भूमिकाऽस्ति)। भाषेतरकृतीनां तौलनिकमध्ययनं क्रोडीकुर्वती विमर्शवहा सेयं संस्कृत-गाथासप्तशतीभूमिका तुलनात्मकाध्ययनगर्भभूमिकानां संस्कृते प्रथममवतरणं मन्यते(1933वर्षे)।
1933 वर्षे प्रकाशितेऽस्मिन् ग्रन्थे म.म. गोपीनाथकविराजमहाभागानामाङ्ग्लभाषाबद्धा संक्षिप्ता पुरोवागप्यमुद्रयत, सा नात्रोद्ध्रियते। अत्र हि प्रथमतो मञ्जुनाथकृतसमच्छन्दोऽनुवादरूपं संस्कृतार्यापद्यं,तदनु व्यङ्ग्यसर्वङ्कषा टीका च मुद्रिता, तत: प्राकृतगाथा, तस्या: संस्कृतच्छाया च तदनु समुद्धता पृष्ठान्ते इत्ययं क्रमोऽनुसृत:।
ग्रन्थावलीप्रकाशनस्य समग्राऽपि परिकल्पना राष्ट्रियसंस्कृतसंस्थानकुलपतीनां स्वयमुत्कृष्टसर्जकानां, दूरदृष्टिं व्यापकं च समीक्षणसामर्थ्यं बिभ्रतां प्रो. राधावल्लभत्रिपाठि-नामेव प्रसाद:, अतस्ते सर्वात्मना सर्वेषामस्माकं कार्तज्ञ्यं, धन्यवादांश्चार्हन्ति। जयपुरपरिसरे साहित्यविभागोपाचार्येण कर्मठेन विदुषा डॉ. रमाकान्तपाण्डेयेन स्वप्रतिभया श्रमेण च सम्पादन-कार्ये सामग्रीसङ्कलने च यत्प्रशस्यं साहाय्यमनुष्ठितं, तत्कृते सस्नेहं शतशो धन्यवादैराशीरा-शिभिश्चाऽभिनन्द्यतेऽयम्। तृतीयस्य खण्डस्य पृष्ठादिसंयोजने सुषमाशर्मचिरञ्जीविन्या यत्साहाय्यमनुष्ठितं तत्कृते सा साधुवादमर्हति।
अजरामराणां प्राकृतगाथानां संस्कृतभारत्यामियमवतारणा नूनमेव कञ्चिदध्यायं प्रणीतवतीति जानाना विद्वद्वर्या अभिरोचयिष्यन्ति मञ्जुनाथग्रन्थावल्यास्तृतीयमिमं खण्डमित्याशास्यते।
देवर्षि-कलानाथशास्त्री