भट्टश्रीमथुरानाथशास्त्रिप्रणीतटीकादिग्रन्थानां परिचय:
साहित्यवैभव-जयपुरवैभव-गोविन्दवैभवादिप्रबन्धप्रणयनप्राप्तप्रथिम्ना भट्टश्रीमथुरा-नाथशास्त्रिणा यथा साम्प्रतिकसंस्कृतसाहित्यस्य समुल्लासाय विरचिता विविधविधासंवलिता: काव्य-कथा-गीति-गजल-नाट्यादयो ग्रन्थास्तथैव शास्त्रसन्तते: सातत्यं सारल्येनाविष्कर्तुं प्राचीनकाव्यानां सम्यगर्थावबोधाय च तै: केचन टीकाग्रन्था: समीक्षाग्रन्थाश्चापि प्रणीता अभवन्। अथेह तेषां ग्रन्थानां वैशिष्ट्यं विज्ञापयितुं क्रमश: संक्षेपेण परिचय: पुरस्क्रियते।
१. रसगङ्गाधरसरला-
भारतीयकाव्यशास्त्रे पण्डितराजजगन्नाथेन नव्यन्यायशास्त्रीयपारिभाषिकपद-परिपूर्णपरिष्कारपद्धतिमवलम्ब्य प्रणीतो रसगङ्गाधराख्य: सन्दर्भ: सम्प्रत्यपि सुधीसमवाये पाण्डित्यनिकषत्वेन समादृतो वर्तते। अवच्छेदकावच्छिन्न-प्रतियोगिता-अनुयोगिता-विषयता-विषयिताप्रभृतिनव्यन्यायप्रसिद्धपदप्रयोगं समवाप्य साहित्यिका ग्रन्थस्याऽस्याऽध्ययने न तथा समुत्सहन्ते। ग्रन्थेऽस्मिन् भट्टश्रीनागेशप्रणीता मर्मप्रकाशाख्यैव काचन व्याख्या लभ्यते स्म। भट्टमहाभागै: समर्मप्रकाशव्याख्यस्य रसगङ्गाधरस्य स्वीयया सरलाख्यटीकया संवलितं संस्करणं निर्णयसागरमुद्रणालयात् प्रकाशमनायि। सेयं सरला ग्रन्थग्रन्थिभेदने तन्निगूढरहस्योद्बोधने च अध्येतॄणामुपकारिका। नागेशेनाऽस्या मतभेदोऽपि दृश्यते पदे पदे। निर्णयसागरमुद्रणालयात् गुरुमर्मप्रकाशसनाथितरसगङ्गाधरेण सह सरलाया: प्रकाशनं १९३९ तमे वर्षेऽभूत्। १९४५ वर्षं यावद् ग्रन्थस्याऽस्य षट्संस्करणानि प्रकाशितान्यभवन्निति महत्त्वमस्य स्वयमेव सिद्धम्।
रसगङ्गाधरपरिशीलने सरलाया वैशिष्ट्यं बहुभि: खलु मनीषिभि: पुरस्कृतम्। अथात्र राष्ट्रपतिसम्मानितानां विश्रुतवैदुषीकाणां पण्डितविश्वनाथमिश्रमहोदयानां तद्विषयकं मतमुपस्थाप्यते-
रसगङ्गाधरोपरि वर्तमानासु अनेक व्याख्यासु महाविदुषो नागेशभट्टस्य व्याख्या तथा विद्वद्वरस्य भट्टमथुरानाथशास्त्रिणश्च सरला व्याख्या चेति द्वे व्याख्ये स्त: महत्त्वपूर्णे। अद्यत्वे वर्तमानानां समासां व्याख्यानामाधारभूमि: सरलाव्याख्यैवेति शक्यते वक्तुम्। प्रथमाननेऽल्प-कलेवरापीयं द्वितीयानने वैशद्यमादधाना स्फोरयति रसगङ्गाधरीयं रहस्यं निपुणम्। क्वचिच्च निराकृतं नागेशाभिमतमप्यनया। ग्रन्थोऽयं गभीरतरो विवेच्यविषयाश्चाऽनेके तथापि कतिपयान्येव स्थलानि आनीयन्तेऽत्र विचारपदवीम्।
इदम्प्रथमतया तावद् विचार्यते काव्यलक्षणमेव। पण्डितराजोऽस्ति शब्दपर्याप्तकाव्य-तावादी। अतएव रमणीयार्थप्रतिपादक: शब्द: काव्यमिति लक्षणयाञ्चकाराऽसौ। अर्थनिष्ठा रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरतारूपा। लोकोत्तरत्वं चाह्लादगतश्चमत्कारत्वापरपर्या-योऽनुभवसाक्षिको जातिविशेष:। लोकोत्तराह्लादस्य कारणञ्च काव्यार्थस्य पुन: पुनरनुसन्धानात्मको भावनाविशेष एव। इत्थञ्च-चमत्कारजनकभावनाविषयार्थप्रतिपादकशब्दत्वं काव्यत्वमिति।
लक्षणस्यास्य पदकृत्यं स्पष्टयन् नागेशो लिखति यत् अस्मिन् लक्षणे शब्दपदमपहाय रमणीयार्थप्रतिपादक एव काव्यमित्येव यदि कथितं स्यात् तदा अनुरागस्य व्यञ्जको रमणीकटाक्षोऽपि काव्यत्वं यायात्। लक्षणेऽत्र प्रतिपादकशब्दं त्यक्त्वा यदि वाचकशब्दो लिखित: स्यात् तदाभिधेयार्थस्योपस्थापकस्य वाचकशब्दस्यैव काव्यत्वं स्यात्, अपगतञ्च स्यात् व्यङ्ग्यार्थप्रतिपादकस्य काव्यत्वम्। रमणीयता चार्थगतैवाऽभिप्रेताऽत्र। तेन तत्प्रतिपादकस्यैव शब्दस्य काव्यत्वं न तु रमणीयशब्दनिष्पादकस्य व्याकरणशास्त्रस्यापि काव्यत्वं कथञ्चन। लक्षणमिदं संघटयन्ती सरला वदति-चमत्कारजनिका या भावना तादृशभावनाया विषयीभूतो योऽर्थस्तत्प्रतिपादक: शब्द: काव्यम्। अस्मिन् काव्यलक्षणे ज्ञानपदमपहाय भावनापदनिवेशनमत एव कृतं यत् यस्मिन् कस्मिंश्चित् सरसपद्ये श्रुतिपथमागते सति उद्बोधकान्तरवशात् घटादयोऽप्यर्था: तत्र परापतन्तश्चेत् तद्वाचका घटादय: शब्दा अपि कथं न भजेरन् काव्यत्वम्? अतो लक्षणे भावनापदनिवेश:। ज्ञाने भासन्तां बाह्यार्था: किन्तु ज्ञानधारायां भावनायां तेषां भासनं तु नैव संभवति। भावनायामपि बाह्यार्था भासिष्यन्त एवेति चेदाग्रहस्तदा अपहाय प्रथमलक्षणं कृतं द्वितीयं काव्यलक्षणमित्थम् यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनक-तावच्छेदकं तत्त्वम्। लक्षणमिदं सरलायामेवं स्पष्टीकृतम्- येन यैर्वा शब्दैरुपस्थापितस्य (अर्थात् यादृशानुपूर्वीप्रतिपादितस्य) अर्थस्य भावनया (पुन: पुनरनुसन्धानेन) चेतसि चमत्कार-जननं भवति तादृशचमत्कारजनकताया अवच्छेदके तादृशानुपूर्वीमत्वमेव काव्यत्वं भवतीत्याशय:। एवं सति सकलयाऽनुपूर्व्या यत्र चमत्कारो नोत्पद्यते किन्तु धारावाहिकरूपेणान्यदपि (अचमत्कारोऽपि) प्रतीयते तत्स्थलस्य निरास:।
अत्र पण्डितराज: चमत्कारनिष्ठजन्यतानिरूपितजनकतावच्छेदकं भावनात्वं स्वीकुरुते यतो हि काव्यार्थविषयक-पुन:पुनरनुसन्धानात्मिकया भावनयैव चमत्कारो जन्यत इति भावनात्वमेव चमत्कारजनकतावच्छेदकं वाच्यम्, किन्तु सरला तु भवनया चमत्कारजननं स्वीकुर्वत्यपि चमत्कारजनकतावच्छेदकं शब्दानुपूर्वीमत्वमेव स्वीकरोतीति स्पष्टमेवाऽत्र विप्रतिषेध: पण्डितराजेन सह।
वस्तुत: पण्डितराजस्य काव्यलक्षणपरिष्कारे व्याख्यातॄणां द्विधा प्रवृत्ति: दृश्यते। सन्त्येके शब्दपर्याप्तकाव्यतावादिन:, इतरे च मम्मटानुयायिनो रसचन्द्रिकाकृदादयश्चेति। सरला तु प्रथमपङ्क्तौ तिष्ठति व्याख्याति च पण्डितराजोक्ततत्त्वानि सारल्येन। एवं रसगङ्गाधरोक्ततत्त्वपरिष्कारे सरलाया: समुपकारस्तु विद्यत एव। इयं क्वचित् पाठभेदादिसंशोधनेऽपि प्रवर्तत इत्यपरोऽपि विशेष:।
२. कादम्बरीचषकम्-
भट्टमहाभागै: कादम्बर्यां निबद्धा चषकेत्याख्या टीका भानुचन्द्रगणि-सिद्धिचन्द्रगणिभ्यां प्रणीताया: कादम्बरीटीकायाष्टिप्पणीरूपा वर्तते। इयं खलु ग्रन्थग्रन्थिभेदनपुरस्सरं पाठादिसंशोधने तन्निर्धारणे चापि प्रवर्तते। प्राचीनटीकाकाराणां भ्रान्तयोऽप्यत्र महाभागैरेभि: बहुत्र पुरस्कृता दृश्यन्ते।
सर्वप्रथमं टिप्पणीयं भानुचन्द्रगणिसिद्धिचन्द्रगणिभ्यां प्रणीतया टीकया सह मुम्बईनगर-स्थनिर्णयसागरमुद्रणालयात् प्रकाशितोऽभवत्। भट्टमहाभागै: कादम्बर्या: पाठसंशोधने निर्धारणे च संस्करणेऽस्मिन् सुमहान् प्रयासो विहित इति ग्रन्थदर्शनेन ज्ञातुं शक्नुवन्ति सुधिय:। ततोऽप्य-धिकं टीकाकर्त्रो: प्रमादसंशोधने प्रयतितं महाभागैरेभिरिति पदे पदे तद्व्याख्यानं दृष्ट्वा ज्ञायते। अथ ग्रन्थस्याऽस्य सम्पादने भट्टमहाभागै: भूमिकायां निर्दिष्टा: केचन अनुभवा: प्रकाश्यन्ते-
श्रीभानुचन्द्रगणि-तच्छिष्यसिद्धचन्द्रगणिमहोदयाभ्यां विरचिता सेयं व्याख्या मोगलसम्राजोऽकबरस्य समये निरमीयत। यतो हीमौ अकबरसम्राजा सभाजिताविति ताभ्यामेव पुष्पिकायां स्वहस्तेन लिखितम्। गुरवे भानुचन्द्रगणिने सम्राजा महोपाध्यायपदमर्पितम्। महाभागेन चानेन 'शत्रुंजय’ करो मोचित:। शिष्योऽपि सम्राजा 'षुस्युदमा’ इत्युपपदेनालङ्कृत:। सेयं व्याख्या प्रत्येकपदस्य पर्यायप्रकटन एव व्यग्रा, कामं स पर्यायशब्द: 'इन्द्रस्य टीका बिडौजा:’ एव किं न भवेत्। एको य: शब्द: पर्यायत्वेनादौ परिगृहीत:, अन्तपर्यन्तमपि स एव पदे पदे व्यवह्रियते। यथा-ग्रन्थे यत्र यत्रापि सुखपदमायातं तत्र तत्र 'सातम्’ इत्यनेनैव व्याख्यातं महाभागेन। 'भ्रान्ति: आरेका, जरा विस्रसा, कुवलयं कुवेलम्’ इत्यादिरूपेणैव सर्वत्र व्याख्यातवानयम्। पर्यायशब्दनिवेशो हि जिज्ञासूनां सारल्येन बोधनायैव भवति। सरलस्यापि पर्यायपदनिवेश: करणीय एवेति न ब्रह्मवाक्यम्, किन्त्वेतस्योपरि न मनागपि दृष्टिनिक्षेपष्टीकाकर्तु:। स्नानप्रकरणे आगतं 'स्नान’ पदं कादम्बरीमारभमाणस्य कृते न वज्रसारं स्यात्, किन्तु स्नानपीठस्य पर्यायपदम् 'आप्लवनचतुष्किकाम्’ इत्येव कृत्वाऽयं कृती भवति। कुत्रचित्तु मूलपदं सवैंर्बोध्यं भवति, टीकाकर्तुर्व्याख्या तु ज्ञातमप्यर्थं भ्रमिचक्रे निपातयति। यथा 'इन्द्रगोपै: (वर्षाकीटै:)’ इत्यस्य व्याख्या 'अग्निरजोभि:’ इति। कोऽस्यार्थ इति हि विदन्तु विद्वांस एव। 'विन्ध्य: जलबालक:, निगड: अन्दुक:, मदन: जराभीरु:, धूमो दहनकेतन:, जानु नलकीलक:’ इत्यादिरूपेण कृता व्याख्या कियते उपकारायेति विमृशन्तु मनीषिण एव।
कुत्रचित्तु व्याख्यापाटवं तथा प्रकाशयति यथा कृतबुद्धिरपि वराको ग्रन्थस्वारस्यं विहाय व्याख्यापदानामर्थबोधायैव व्यग्रो भवति। नगरं 'द्रङ्गम्’ इति कृत्वा व्याख्याति। 'लता’ पदस्य हि सुप्रसिद्धोऽर्थ:। किन्तु टीकाकारस्तदर्थमाह- 'सरलवृक्ष:’। अत्र हि तन्नामको वृक्षविशेष: सर्वस्यैव बुद्धिनिष्ठो भवेत्। भूयस्सु स्थलेषु तु टीकाकारस्य व्याख्यामालोक्य क्षमाशीलस्यापि मानसमुद्वेलं भवति। 'निर्लक्षणा पाण्डुरपृष्ठा’, 'दावानलशङ्का वनवह्निद्वापर:’, 'वसन्त इव इष्य इव’, इत्यादिव्याख्या कस्य क्षोभाय न भवेत्?
काव्ये च साहित्ये च टीकाकारमहोदयस्य कियत्पाण्डित्यमिति त्वग्रे निवेदयिष्यामि, किन्तु पर्यायशब्दान्वेषणे सर्वमपि वैदुष्यमेव नि:शेषयतीति तु प्रत्येकमार्मिकस्यैवाऽवगतं भवेत्। 'निष्पतन्तीम्’ इत्यस्य टीकां करोति 'अध:संयोगफलिकां क्रियां कुर्वन्तीम्’। 'श्वसन्ती’ इत्यस्यार्थमाह 'एतनं गृह्णन्ती’। 'एतनं गृह्णन्ती’ इत्यस्यार्थ एतस्मिन्काले किमु सहसैवोदयेत्? परं सर्वस्यापि पदस्य यत्किञ्चित्पर्यायपदमवश्यं निवेश्यम्। पर्यायस्थापनेनैव टीका सुटीका भवतीति महोदयस्यास्य विचार:। किन्तु पर्यायनिरपेक्षस्य पदस्य बलात्पर्यायसंनिवेशे कुत्रचित्कुत्र-चित्कीदृशोऽनर्थ: संभवतीति तु नास्य महाभागस्य विचारशक्तिरपि।
सूक्ष्ममीक्ष्यतां तावत्-गद्यकाव्यं हि कवीनां कृतित्वपरीक्षायै निकषो नाम। गद्य-काव्येष्वपि 'कथा’-काव्यमतिमनोहरम्, यद्धि वर्तमानकालिक 'उपन्यास (Novel)’ स्थापनीयम्। तत्रापि- वाचयतामाहाररुचिमपि तिरोदधत्तदिदं काव्यमस्ति यस्य लेखको मार्मिकाणां शिरोमणि: श्रीमान्बाण:। तस्यैव काव्यस्य नायिकाया: सौन्दर्यसारसंघटिताया देवाङ्गनाया: (कादम्बर्या:) सौन्दर्यवर्णने महोदयोऽयं 'नाभिम्’ व्यपदिशति 'तुन्दकूपीम्’ इति! तुन्दपदं हि प्रचण्डोदराया: कस्याश्चित्पम्फुल्यमानमुदरं सूचयत् (यत: प्रफुल्लोदस्तुन्दिल इत्युच्यते) गहनान्धकारितं महान्तं नाभीगर्तं चेतसि चित्रयतीति मन्ये न वक्तव्यं भवेन्मार्मिकाणां कृते। किन्तु सर्वतो निमीलितनयनोऽयं न किञ्चित्पश्यति। येन केनापि रूपेण पर्यायपदस्थापनायैव सहस्रनयन: सन् सोऽयं जागरूक:। अन्यदपि व्याख्यानं दृश्यताम्- 'तडिद्भि: ऐरावतीभि:’, 'शुष्काणि वानानि’, 'पिपासा उदन्या’, 'वल्कलोपान्तेन चोचाञ्चलेन’। वल्कलोपान्तमित्यस्य योऽर्थं न ज्ञातवान् तदर्थं ह्येषां व्याख्याऽ-पेक्षिता, तस्य कृते चोचाञ्चलमिति किं सुखबोध्यं भवेत्? प्रसिद्धाऽप्रसिद्धयोरन्तरं न विदन्नेव किं 'निरन्तरव्याख्या’कारो भवति?
टीकाकारमहाभागस्य व्याकरणज्ञानमप्यलौकिकम्। कर्म-कर्तृवाच्ययो: सर्वत्रापि निरर्गलं प्रयोग:। 'कृतान्तमुखकुहरादिव विनिर्गतमात्मानं मन्यमान: (अहम्)’ इत्यत्र 'मन्यमान:’ इति कर्तृवाच्यक्रियाया: 'ज्ञायमान:’ (पृ ७४) इति व्याख्या। एवं प्राय: सर्वत्रैव। आत्मनेपद-परस्मैपदव्यत्यया: पदे पदे। 'व्रजमानानीव’ संचरमाणानीव’ (तृतीयान्तयोगं विनापि)। 'निमज्जप्रानम्’ 'कम्पति सति’ 'उत्पश्यमान:’ (पृ. ७५) 'अजनिषम्’ इत्यादीनि स्थाने स्थाने। लिङ्गव्यत्यया: प्रतिपदम्- 'बाहुवल्ल्यालिङ्गनान्’ 'दन्तक्षतान्’ 'कर्णावतंसानि’ 'त्यज्यमानासु सत्सु’, 'श्वेतायमानासु सत्सु’ (पृ. ५४७)। ध्वनिशब्दस्य, 'रक्तिमा’ इत्यादि इमनिच्प्रत्ययान्तानां च प्राय: स्त्रीत्वमेव प्रयुक्तम्। 'पुस्तकान् शास्त्रान्’ (२०५)। 'अप्रापम्, अप्रार्थयत,’ इत्याद्यपि बहुत्र। शिष्या इत्यस्य लोकोत्तरा व्याख्या 'शिष्यिणी’ इति (पृ. २२०)। 'पराभवितस्य’ 'रुदनम्’ (पृ. ६८२) 'कार्यताम्’ इत्येतस्य व्याख्या 'काराय्यताम् इत्यादि ('कराइये’ इति 'हिन्दीं दृष्ट्वा’) (पृ. ६६३)।
एवं कादम्बरीग्रन्थस्य टीकासम्पादने भट्टमहाभागैर्यो हि प्रयासो विहित: स तेषां कथनेनाऽनेन ज्ञातुं शक्यते। वस्तुत: भट्टमहोदयानां टिप्पणीं विना टीकाया अस्या एकमपि पदं ज्ञातुं न शक्यते। महाभागैरेभि: पदे पदे टीकाकारस्य व्याख्याने संशोधनपूर्वकं ग्रन्थस्य शुद्धपाठा अपि निर्दिष्टा: सन्ति। बहुत्र 'इति नोचितम्’ 'इति उचित: पाठ:’ इत्येवं निर्दिशद्भि: ग्रन्थस्य टीकायाश्च संशोधनमकारि भट्टमहोदयैरत्र। तत्सर्वं ग्रन्थं दृष्ट्वा ज्ञातुं शक्नुवन्ति सुधिय:।
३. संस्कृतगाथासप्तशती-
हालकृताया गाथासप्तशत्या: संस्कृतानुवादरूपोऽयं ग्रन्थ:। गाथानामर्थबोधार्थं भट्टमहाभागैरत्र सर्वङ्कषानाम्नी टीकाऽपि लिखिताऽभूत्। अयं ग्रन्थ: १९३३ वर्षे निर्णयसागर-मुद्रणालात् प्रकाशित:।
४. शिलालेखललन्तिका-
भट्टमहाभागै: नैकेषां शिलालेखानां सङ्कलनं सम्पादनं च कृत्वा ग्रन्थेऽस्मिन् प्रकाशनं कृतमभूत्। अयमपि ग्रन्थ: १९४१ ई. वर्षे मुम्बईनगरस्य निर्णयसागरमुद्रणालयात् प्रकाशितोऽभवत्।
महाभागैरेभि: कानिचित् पाठ्यपुस्तकान्यपि लिखितान्यभवन्। तेषु सुलभसंस्कृतम् संस्कृतसुबोधिनी चेति द्वौ पाठ्यग्रन्थावस्माभिर्दृष्टौ। कविकलानिधि-श्रीकृष्णभट्टस्य ईश्वरविलासमहाकाव्ये विलासिनीटीका श्रीमद्भि: प्रणीताऽभवत्। टीकयाऽनया सनाथितस्य ईश्वरविलासमहाकाव्यस्य प्रकाशनं १९५८ ई. वर्षे राजस्थान-प्राच्यविद्याप्रतिष्ठानत: समभूत्। ग्रन्थस्याऽस्य पुन: प्रकाशनं २००६ तमे वर्षे जयपुरस्थजगदीशसंस्कृतपुस्तकालयात् हिन्दी-व्याख्यया सह सञ्जातमस्ति। कविकलानिधे: पद्यमुक्तावल्यां वृत्तमुक्तावल्यां चापि भट्टमहाभागै: टीका लिखिता। एतेषां टीकया सह ग्रन्थयोरनयो: क्रमश: १९५९ तमे तथा च १९६२ ई वर्षे राजस्थानप्राच्य-विद्याप्रतिष्ठानात् प्रकाशनं समभवत्।
भट्टमहाभागानां जीवनं साहित्यं चोपजीव्य बहुभि: खलु विद्वद्भि: ग्रन्था: प्रणीता अभवन्। नैकेऽनुसन्धित्सवश्छात्रा महाभागानामेतेषां साहित्ये शोधोपाधिमपि लब्धवन्त:। जिज्ञासूनां शोधार्थिनां समुपकाराय केचन प्रमुखा ग्रन्था अत्र निर्दिश्यन्ते।
१. मञ्जुनाथगौरवम्-
गङ्गाधरभट्टमहोदयानां सम्पादकत्वे भट्टमहोदयानां जीवनं साहित्यं चाश्रित्य लिखितानां निबन्धानां सङ्कलनरूपोऽयं ग्रन्थ: १९९० तम ई. वर्षे राजस्थानसंस्कृतअकादमीत: प्रकाशनमवाप।
२. श्रीमथुरानाथशास्त्रिण: कृतित्वसमीक्षणम्-
डॉ. प्रभाकरशास्त्रिणां सम्पादकत्वेऽस्य प्रकाशनं १९९५ ई. वर्षे राजस्थान- संस्कृतअकदमीतोऽभवत्।
३. मञ्जुनाथगद्यगौरवम्-
आचार्यराधावल्लभत्रिपाठिप्रवर्तिताया: प्रख्याग्रन्थमालाया: षष्ठ: स्पन्द: मञ्जुनाथग्रन्थ-गौरवमिति नाम्ना डॉ. रमाकान्तपाण्डेयस्य सम्पादकत्वे २००४ ई. वर्षे नवदेहलीस्थप्रतिभा-प्रकाशनेन प्रकशतामानीत:। अत्र भट्टमहोदयानां प्रमुखा गद्यरचना: सङ्कलिता: सन्ति।
४. मञ्जुनाथवाग्वैजयन्ती-
शिमलानगरस्थभारतीय-उच्च-अध्ययन-संस्थानम् इत्याख्याया: संस्थाया: सहकारेण मञ्जुनाथस्मृतिसंस्थानम् २००४ ई. वर्षस्य अप्रैलमासे (३-४-दिनाङ्कयो:) ''संस्कृत वाङ्मय में भट्टश्रीमथुरानाथशास्त्री’ इत्यस्मिन् विषये राष्ट्रियसंगोष्ठीं समायोजयत्। अत्र देशस्य विभिन्नेभ्य: प्रान्तेभ्य: समागतानां विदुषां व्याख्यानानि समभवन्। देवर्षि-कलानाथशास्त्रिणां सम्पादकत्वे प्रकाशितेऽस्मिन् ग्रन्थे तान्येव व्याख्यानानि भट्टमहोदयानां साहित्यसमीक्षणपराणि प्रकाशितानि सन्ति।
जयपुरात् प्रकाश्यमानाया भारतीपत्रिकाया भट्टमथुरानाथशास्त्रिस्मृतिविशेषाङ्केऽथ च स्वरमङ्गलाया भट्टजन्मशताब्दीविशेषाङ्के भट्टमहोदयानां साहित्यादिसमीक्षणे काचिदभिनवा दिगुन्मीलिता सहृदयमनीषिभि:। विविधेषु विश्वविद्यालयेषु भट्टमहोदयानां साहित्यमाश्रित्य शोधकार्याण्यभवन् भवन्ति चाद्यापीति तत्सर्वं विद्वर्द्भिर्गवेषणीयमिति शम्।
-रमाकान्तपाण्डेय:
भट्टश्रीमथुरानाथशास्त्रिणां जीवनं साहित्यसेवा च
वंश: पूर्वजाश्च -
भट्टश्रीमथुरानाथशास्त्रिणो जन्म राजस्थान-वासिनाम् उत्तरभारते निवसतामान्ध्राभिजनानां विद्वद्ब्राह्मणानां कुले जयपुरेऽभूत्। प्रायश्चतुष्पञ्चशताब्दीत: पूर्वं विभिन्नैर्हेतुभिर्दक्षिणदिग्देशाद् बहूनि विद्वत्कुलानि सामूहिक-रूपेणोत्तर-भारतं प्रति प्रव्रजनमत्र विभिन्नेषु प्रान्तेषु प्रवासं च प्रारेभिरे। वल्लभाचार्यप्रभृतीनां वैष्णवाचार्याणां भक्तिधारा-प्रवाह-प्रचारोद्देश्यकेषु प्रवासेषु, वाराणस्यादिविद्याकेन्द्रेषु शास्त्रार्थाद्युद्देश्यकेषु पर्यटनेषु च सहचारित्वमापन्नानि बहूनि ब्राह्मणकुलानि समागच्छन्नुत्तर-भारते, अत्र च राजसम्मानादिना प्रश्नयं प्राप्य स्थायिरूपेण निवासं चक्रिरे। स्वयं वल्लभाचार्य आन्ध्राभिजनोऽ-भूदुत्तर-भारते च न्यवसत्। एवंविध एव तैलङ्गब्राह्मणानां कृष्णयजुर्वेदान्तर्गत-तैत्तिरीयशाखाध्यायिनां वंश एको मोगलकाले आन्ध्रप्रदेशादुत्तर-भारते समाययौ यस्य मूलपुरुषो बावीजी दीक्षितोऽभूत्। आङ्गिरस-आयास्य-गौतमेति त्रिप्रवरान्विते गौतमसगोत्रे वंशेऽस्मिन् बहव: परिनिष्ठिता विद्वांसोऽभूवन्। 'देवर्षि’ इति अवटङ्कधरोऽयं वंशो 'देवलपल्ली’ 'देवरकोंड’ इत्याख्याद् वा प्रदेशान्निर्गत इति बहूनां धारणा, अत एव संस्कृत्य 'देवर्षि’ इत्यभिजनाभिधानं समभूत इति तेषामाशय:। अन्ये तु दक्षिणभारतात् काशीं, काशीत: प्रयागं, प्रयागाद् रीवाँ नगरं च गत्वा तत्र राजसम्मानस्वरूपं 'दिवरिखिया’ इत्याख्यं ग्रामं बान्धवनरेशाद् गोपालसिंहात् प्राप्तवान्। पूर्वपुरुषो मण्डलदीक्षित इति तमिमं 'देवरिख’ ग्रामं व्यपदिश्य संस्कृतं नाम 'देवर्षि’ इत्यवटङ्कस्य समभूदिति कथयन्ति।
भवतु तावत्किमपि कारणं, किन्तु देवर्षि इत्यवटङ्कधरोऽयं परिवार: काश्यां, प्रयागे, रीवांनगरे, अनूपशहरे च निवासं विधाय कवित्वख्यातिवशाद् विभिन्नै: राजवंशै: कुलपरम्परया सम्मानितो राजस्थानप्रान्ते बुन्दीनगरं प्राप यत्र ग्रामादिसम्पत्तिप्रदानसम्मानेन वासित:। बून्दीपतेर्बुधसिंहस्य राजभाषाया रत्नं देवर्षिश्रीकृष्णभट्ट: कविकलानिधि: संस्कृत-प्राकृताऽपभ्रंशव्रजभाषादीनां तलस्पर्शी विद्वान् विश्रुत: कविरलङ्कारशास्त्री चाऽभूद् यस्यैतिहासिकानि 'ईश्वरविलास’ प्रभृतिकाव्यानि, 'पद्य-मुक्तावली’ प्रभृतिमुक्तकसङ्ग्रहा:, 'वृत्तमुक्तावली’ प्रभृति छन्द:शास्त्रग्रन्था: संस्कृते, 'अलंकारकलानिधि’ 'शृंगार रसमाधुरी’ प्रभृतयो रीतिग्रन्थाश्च व्रजभाषायां प्रकाशिता:। प्रायो विंशतितोऽप्यधिका रचना अप्रकाशिता विविधेषु ग्रन्थागारेषूपलभ्यन्ते।
सोऽयं श्रीकृष्णभट्टो बून्दीपतेर्बुधसिंहस्य राजसभातो (बून्दीनरेशाद् याचनापुर:-सरं) जयपुरनरेशेन तत्संस्थापकेन सवाईजयसिंहेनाऽऽनीतस्तेनानुष्ठितेऽश्वमेधमखे सक्रियां भूमिकां निरवहत्, राजाज्ञया बहून् ग्रन्थांश्च प्रणिनाय। सवाईजयसिंहेन 'कविकलानिधि’ रित्युपाधिना सम्मानित: सोऽयं मनीषी जयपुरनगरे एवं सप्तदश्यां शताब्द्यां (१६७५-१७६१ ई.) स्थायिरूपेण प्रत्यष्ठिपत् स्वकीयं परिवारम्। तदनु वंशेऽस्मिन् बहवो विद्वत्कवय: समभूवन् येषु श्रीकृष्णभट्टतनयो वाणी-भारतीत्याद्युपनामधारी श्रीद्वारकानाथभट्ट: संस्कृत-व्रजभाषादीनां विख्यात: कविरासीत्। जगदीशभट्ट-वासुदेवभट्ट-मण्डनभट्टादयो बहवो वंशजा अस्य राजकवयो मनीषिणो लेखकाश्चाभूवन्।
शिक्षा-
मण्डनभट्टो जयपुरराजवंशेन प्रभूतं सम्मानित: कविरासीत्। अस्यैव कुले श्रीलक्ष्मीनाथ-भट्ट-सुतस्य श्री द्वारकानाथभट्टस्य पत्नी श्रीजानकीदेवी मथुरानाथं संवत् १९४६ वैक्रमे वर्षे आषाढ-कृष्ण-सप्तम्यां (१८८९ई०) प्रासौत्। एतत्पिता द्वारकानाथभट्ट: सांसारिकव्यवहारविमुख: आध्यात्मिकप्रवृत्तिपर: श्रीमद्भागवतादिवाचने जप-पूजादिषु चाधिकां रुचिमन्वभूत्। पितामह: श्रीलक्ष्मीनाथ एव परिवारे प्रबन्धादिषु प्रमुखोऽभूत्। संस्कृतवैदुष्यपरम्परापरिपूतेऽप्यस्मिन् कुले ''राजवृत्तिसम्मानादि (तदानीन्तन) राजभाषायामुर्दूभाषायामधिकं लभ्यते’’ इति धारणाऽऽसीत्। अत: शिशोर्मथुरानाथस्य शिक्षा उर्दूभाषायां भवतु येन सोऽयं न्यायालयादिषु सम्मानितं किञ्चित्पदमधि-गच्छेदित्यासीदेतत्पितामहस्य वाञ्छा। किन्तु स्वभाविकी रुचिरस्य शिशो: संस्कृतेऽभूत्। एवं च यत्किञ्चिदुर्दूभाषां पठित्वा कुलपरम्परापरिगतानि संस्कृत-पुस्तकान्यनेन रुचिवशात् पठितुमारब्धानि। तदनु प्राथमिककक्षासु शिक्षायै सोऽयं जयपुरीये महाराज-संस्कृत-कॉलेजे प्रवेशित:।
तत्र प्रवेशिकाध्यापकै: पं. काशीनाथशास्त्रिप्रभृतिभि: संस्कृतव्याकरणे लघुकौमुद्यादिषु भृशं सपरिश्रममध्यापितोऽसौ स्वल्पीयस्येव वध्यसि प्रवेशिका-परीक्षामुदतरत्। प्रवेशिकापरीक्षायामार्हन्तीं प्राप्तवन्तमेनं साहित्य-न्याय-व्याकरणेति शास्त्रत्रयस्य विद्वांसोऽध्यापका: स्वस्वविषयं पठितुं प्रैरिरन्। बहुविध-विचारानन्तरं निर्धारितं यदयं साहित्यव्याकरणेति शास्त्रद्वयं समकालमेव पठतु। तदानीं विषयविभाजनं, परीक्षाप्रणाली च नूत्नतया प्रवर्तिताऽभूत् कतिपयवर्षपूर्वमेवाति-कठोरा अभूवन् नियमास्तथापि तत्कालीनेन शिक्षासञ्चालकेन श्रीसञ्जीवनगङ्गोपाध्यायेन विषयद्वयं पठितुं विशेषानुमतिरस्मै प्रदत्ता। साहित्याध्यापका: नांगल्याभिजना: श्री गोपीनाथदाधीचा: व्याकरणाध्यापका: राजगुरुहरिदत्तझामहाभागाश्चाभूवन्नस्याऽध्यापका:। सोऽयं साहित्योपाध्याय-परीक्षां १९०१ ई. वर्षे व्याकरणोपाध्यायपरीक्षां च १९०३ ई० वर्षे समुदतरत्। साहित्यव्याकरणयो: प्रत्येकं वर्षत्रयव्यापी सोऽयं पाठ्यक्रमो वर्षषट्कमग्रहीष्यत्, विशेषानुमतिर्यदि नाऽलप्स्यत।
तदनु व्याकरणशास्त्रिपरीक्षाऽनेन सर्वप्राथम्यं लब्ध्वा प्रथमश्रेण्या १९०७ ई० वत्सरे समुत्तीर्णा। महाभाष्य-शेखर-मनोरमादि-विमर्शग्रन्थेषु सुबहु परिश्रम्य कॉलेजाध्यक्षाणां पं. लक्ष्मीनाथशास्त्रिणां शिष्यत्वे, न केवलं कॉलेजे एव, अपितु तेषां गृहेऽपि निरन्तरमध्ययनेनाऽनेका रात्रीरतिवाह्य, कष्टशतं सोढ्वा, गृहवाससुखानि परित्यज्य च 'गुरुकुलक्लिष्टेन’ छात्रेणाऽनेन सपरिश्रममस्यां साफल्यं लब्धमभूत्। काशीस्था म.म.पं. शिवकुमारमिश्रप्रभृतयो भारतविश्रुता विद्वांसस्तदा परीक्षका अभूवन्। आसीत्तदा सेयं परिपाटी यत्प्रौढिम्न: पूर्णत: परीक्षिकास्वमूषु परीक्षासु ससम्मानमुत्तरतां परीक्षार्थिनां प्रमाणपत्रेषु परीक्षका: स्वहस्ताक्षराण्यकुर्वन्, बहुधा च स्वकीन्याभिमतान्यपि व्यलिखन्। एतस्य प्रमाणपत्रे परीक्षकेण ''लेखपटुरयं बटु:’’ इति टिप्पणी प्रत्ताऽभूत्।
एतस्मात् पूर्वं १९०६ ई० वत्सरे पंजाब-विश्विविद्यालयीयायां सर्वोच्चायां शास्त्रिपरीक्षायामयं प्रथमश्रेण्यां सर्वस्मिन्नपि विश्वविद्यालये प्राथम्यमलभत्। १९०९ ई. वर्षे पं. श्रीकृष्णशास्त्रिद्राविडस्य शिष्यरूपेणाऽयं महाराजसंस्कृतकॉलेजीयच्छात्रत्वेन साहित्याचार्य-परीक्षायां साफल्यमभजत्। समीक्षा-चक्रवर्ति-श्रीमधुसूदन-ओझामहाभागादप्ययं वेद-ब्राह्मणोपनिषद्-दर्शनग्रन्थानध्यगीष्ट।
अध्ययन-समकालमेव सम्पादनस्य साहित्यरचनायाश्च या प्रवृत्तिरस्मिन् परिलक्षिताऽभूत्तां विशदीकृत्य साहित्यसर्जनाया या भागीरथी भट्टमहोदयेन अजस्रं प्रवाहिता तस्या: परिचयोऽनुपदमेव प्रदीयते। अत्र तज्जीवनयात्राया: संक्षिप्तमितिवृत्तमुल्लिख्यते पूर्वम्। सुन्दरलालभट्टस्य राजसम्मानिते ग्राम-सम्पत्तिस्वामिनि चाधिष्ठाने उत्तराधिकारित्वेन सुन्दरलालभट्टेन दत्तकपुत्रत्वेन गृहीत: सोऽयं भूसम्पत्ते: प्रबन्धं, प्रतिष्ठानोपरि यद् ऋणमुपचितमभूत्तस्य परिशोधनं च कृत्वा वित्तीयां स्थितिं दार्ढ्यं नीतवान्। ओरछा- (मध्यप्रदेश) राजगुरो: श्रीरघुनाथदेवदाऊजू महाभागस्य सुतया सावित्रीदेव्या सहाऽस्य विवाह: १९०९ई० वत्सरे समजायत। तिस्र: सन्ततयोऽपि समभूवन् किन्तु शैशव एव निधनं प्रयाता:। ततोऽजयगढ़ (मध्यप्रदेश) स्थस्य पं. नारायणरावस्य पुत्र्या मथुरादेव्या: पाणिग्रहणमनेन कृतं किन्तु कालगत्या मथुरादेवी वर्षावधावेव स्वर्गमारूढा। तदनु १९२२ ई० वत्सरे जयपुरसन्निकटस्थस्य महापुराग्रामस्य निवासिन: पं. शिवानन्द-गोस्वामिवंशजस्य पं. श्री गोपीकृष्णगोस्वामिन: सुतया रामादेव्या सहाऽस्य विवाह: समजायत। विवाहबन्धनमिदं चिरस्थायि प्रतिपन्नम्। १९३४ ई० वर्षे कलानाथनामानं सुतं, १९३७ वर्षे जयानाम्नीं कन्यां, १९४० वर्षे विजयानाम्नीं कन्यां, १९४५ वर्षे च कमलानाथनामानं सुतमियं रामादेवी प्रासौत्।
अध्यापनं राज्यसेवा च-
साहित्याचार्य-परीक्षामुत्तीर्य महाराजसंस्कृतकॉलेजे प्राध्यापकपदे सेवामारब्धुमयं प्रोत्साहितो वयस्यै:। संस्कृतरत्नाकरादिमासिकपत्रेषु लेखकत्वेन सम्पादकत्वेन चास्य साहित्यसेवा तदानीं प्रसिद्धिं प्रारभमाणाऽभूत्। प्रतिभाऽप्यस्य सुविदिताऽऽसीत् किन्तु तदानीन्तनेन महाराज-संस्कृतकॉलेजाध्यक्षेण महामहोपाध्याय- पं. दुर्गाप्रसादद्विवेदेन पं. गोपीनाथधर्माधिकारिनामा विद्वानेक: प्राध्यापक-पदे नियुयुजे। एवं हि कालेजस्यास्य सेवापराङ्मुखोऽयं संस्कृत-हिन्द्यादिभाषासु काव्यादिरचनां कृत्वा हिन्दी-संस्कृताध्येतॄन् स्वगृहेऽध्याप्य च साहित्यजगत: शिक्षाजगतश्च सेवां कर्तुमारेभे।
भूसम्पत्ते: स्वामी राजसम्मानित-प्रतिष्ठानस्य चोत्तराधिकारी सोऽयमभूदिति कृत्वा नैवंविधानां तदानीन्तनानां विदुषां सम्मुखे आजीविकायास्तादृशी समस्याऽभूत्।
तदैव १९२४ ई. वर्षे जयपुरमहाराजस्य श्रीमानसिंहस्य प्रथमो विवाहमहोत्सवो जोधपुर-नगरे समायोजितोऽभूत्। समारोहेऽस्मिन् सोऽयं तत्र सङ्गतेन तत्कालीन-शिक्षा-सञ्चालकेन श्रीश्यामसुन्दरशर्मणा (यो ह्यस्याभिन्नं मित्रं परस्तात् समजायत, यश्चैतस्य मृत्योर्दिनद्वयात् पूर्वमेव दिवमारूढ:) समनुरुद्धो यत्संस्कृतकॉलेजे साहित्याध्यापकपदमयं स्वीकुर्यादिति। एतत्फलस्वरूपं २६/१/२४ दिवसेऽयं म.म. दुर्गाप्रसादद्विवेदानामध्यक्षत्वकाले एव तत्राऽध्यापकपदं जग्राह। तदानीं जयपुरे आङ्गलशिक्षापद्धत्यनुसारं सामान्यशिक्षाप्रकारस्य विश्रुतो महाविद्यालयो महाराजासंस्कृतकॉलेज इति नाम्ना प्रचलति स्म, यत्र संस्कृत-विषयोऽपि शिक्ष्यते स्म। अत्र संस्कृतप्राध्यापकपदे पं. मधुसूदन ओझा, पं. वीरेश्वरशास्त्री, पं. बदरीनाथशास्त्री, पं. सूर्यनारायणाचार्य इत्यादयो विद्वांसोऽधितस्थिवांस: आसन्। १९२५ई० वर्षे एव कालेजेऽस्मिन् प्राध्यापकस्यावश्यकतामनुभूय पं. श्यामसुन्दरशर्मणाऽयं तत्र नियुक्त:। अस्मिन् कॉलेजे १९३१ वर्ष-पर्यन्तमयं छात्रान् सरलया पद्धत्या संस्कृतं पाठयामास। प्राथमिक-संस्कृत-शिक्षण-पुस्तकानां लेखनायाऽस्मै सोऽयं प्रसङ्ग एव प्रेरणामदात्।
एतदनन्तरं जयपुर-राज्याश्रितानां संस्कृतपाठशालानां निरीक्षकपदे सोऽयं राज्यशासनेन समाकारितो यत्र १९३१ वर्षात् १९३४ वर्षपर्यन्तमयं कार्यमकरोत्। तदानीं संस्कृत-कॉलेजे महामहो-पाध्यायगिरिधरशर्मचतुर्वेदा: कालेजाध्यक्षपदे, साहित्यविभागाध्यक्षपदे च पं. श्री बिहारीलालशर्मण: (डबलाचार्य इति प्रथिता:) कार्यं कुर्वाणा आसन्। बिहारीलालशर्मणां निधनोत्तरं भट्टमहोदय: साहित्यविभागाध्यक्षपदे २५/०२/१९३४ दिनाङ्कात् न्ययोज्यत यत्राऽयं ई. १९४२ वर्षावधि कार्यं कृत्वा सेवानिवृत्तोऽभूत्। नाऽऽसीदेतस्मात् पूर्वं देशीय-राज्यशासनेषु तादृशं कठोरमेकरूपं सेवानिवृत्ते-र्बन्धनम्। न वा राजकीयेष्वभिलेखेषु जन्मतिथे: प्रमाणनस्य सुदृढाऽभूत् परम्परा।
१९४२ ई० वर्षे सोऽयं भट्टमहोदय: केवलं ५३ वर्षदेशीय एवाऽभूत् किन्तु संयोगवशाद् राज्यसेवाऽभिलेखे कदाचन प्रारम्भे जन्मवर्षं संवत् १९४४ इति समभूल्लेखितम् (संवत १९४६ इति स्थाने) अतो यदा ५५ वर्ष-वयस्कानां राज्यसेवकानां सेवानिवृत्तिदृशा निर्धारणं क्रियमाणमभूत्तदाऽन्यै: सह भट्टमहोदयस्यापि सेवानिवृत्ति: क्रियतामिति विचार: समसूच्यत। भट्टमहोदयेन जन्मतिथि-संशोधनाय, सेवाया अवधिवृद्धये (एक्सटेंशन) वा न जात्वपि प्रयतितम्। सोऽयं बहुधा कथयति स्म ''मया सेवायै न कदापि प्रार्थनापत्रं प्रदत्तम्, स्वयं राज्याधिकारिभिरेव मम साहित्यसेवागुणानां बहुमानरूपेणाऽहं सेवायां गृहीत:। एवं हि यदा ते सेवानिवृत्तेरादेशान् दित्सवस्तर्हि किमित्यहं तदविरोधे प्रयत्नान् कुर्याम्?’’ इति।
एवं त्रिपञ्चाशदवमर्षीये वयसि भट्टमहाभागो राजकीयसेवातो निवृत्तोऽभूत्, न तु साहित्य-सेवात:। प्रत्युत सेवानिवृत्तेरनन्तरं सर्जनात्मककार्येषु समधिकं व्यापृति: सञ्जाता। सेवासमकालमपि सम्पादनकार्येषु, काव्यरचनायां, हिन्दी-व्रजभाषादिसाहित्यसेवायां, ग्रन्थानां सम्पादन-टीकालेखनादिकार्येषु चाऽयं सर्वदैव व्यापृत एवाऽस्थात्।
महाराजाकॉलेजे पाश्चात्यशिक्षाक्रमे प्रवृत्तांश्छात्रान् सरलया पद्धत्या संस्कृतं पाठयितुमनेन 'संस्कृत-सुबोधिनी’ नामकं पाठ्यपुस्तकमलेखि, पुस्तकमिदं स्वयं तेन प्राकाशि। संस्कृतकॉलेजे शास्त्रिपरीक्षां दित्सूंश्छात्रान् कादम्बरीं पाठयताऽनेन तस्या: सम्पादनं विधाय 'चषक’ नाम्नी टीका व्यलेखि, साहित्याचार्यश्रेण्याश्छात्रान् ''रसगङ्गाधरं’’ पाठयन्नयं तस्य मुद्रितपाठं भृशमशुद्धं प्राप्य तस्य संस्करणं सम्पादनं च विधाय 'सरला’ नाम्नीं टीकामलिखत्। शिलालेखानां सङ्कलनं कृत्वा ''शिलालेख-ललन्तिका’’ नामकं पुस्तकं सम्पादयामास। पुस्तकत्रयमिदं निर्णयसागरमुद्रणालयेन मुम्बईस्थेन प्राकाशि। एवं पाठनसहयोगीनि पुस्तकानि प्रणेतुं प्रेरणाऽस्मै राज्यसेवाप्रसङ्गेनैव प्राप्ता। किन्तु सेवानिवृत्तेरनन्तरं विविधासु समितिषु, संस्थासु च सक्रियां भूमिकां निर्वहताऽनेन भूयसी साहित्यसेवा विहिता, स्वयमनेके ग्रन्था: प्रणीता: प्रकाशिता अपि। सर्वेषामेषां विवरणमग्रे प्रदास्यते।
जीवनयात्रा -
सोऽयं प्रारम्भादेव राजकीयभूसम्पत्तिभोगी आसीदिति वेतनादिराय: केवलं गौणरूपेण, द्वैतीयकं सहायकं वाऽऽयस्रोतोऽस्याभूत्। इदमेव कारणं यत्सेवानिवृत्तिस्तदानीमार्थिक-सन्तुलनमस्य न जात्वपि विषमीकर्तुमक्षमत। निवृत्तिवेतन (पेंशन) मस्मै द्वाचत्वारिंशद् - रूप्यकात्मकं जयपुरराज्येन निर्धारितम्। ''मदीयस्यैकस्य भृत्यस्य मासिकवेतनाय पर्याप्तं भवतीति सुमहद् योगदानमस्य सोऽयं परिहासे कथयति स्म।’’ भूसम्पत्तेरायेन सोऽयं नगरसीमायामेकं भवनमक्रीणात्, नवीनायां वसतौ भवनं निर्मापयामास, पुत्र्यो: पुत्रस्य च विवाहसमारोहानायोजयामास।
अखिलभारतीय-हिन्दी-साहित्य-सम्मेलनस्य द्वात्रिंशत्तमेऽधिवेशने स्वागतमन्त्रित्वेन जयपुरे सुमहान्तं हिन्द्या: साहित्यकं समारोहं १९४४ ई. वर्षे, अ.भा. संस्कृत-साहित्य-सम्मेलनस्याष्टादशेऽ-धिवेशनेऽखिलभारतीय-कविसंम्मेलनसभापतित्वेन संस्कृतविदुषं सुमहानां सम्मेलनं १९४५ वत्सरे च सोऽयं सफलयास। १९४३ ई.वत्सरे महात्मागान्धिने समर्पितेऽभिनन्दनग्रन्थेऽस्य संस्कृत-काव्यबद्ध: सम्मानाञ्जलिरस्य स्वातन्त्र्य-सङ्ग्रामेण सहानुभूतिं प्रमाणयति। भारतस्य स्वातन्त्र्यानन्तरं जयपुरादि-राज्यानि भारतीय-सङ्घे सममिलन्, अनुपदमेव भूसम्पत्ति- (जागीर) धारकाणां ''जागीरा’’ख्या सम्पत्तिरपि राजसात्कृता सर्वकारेण, किन्तु नेदमपि दृढ-सेवाव्रतिनोऽस्य जीवने विचलनमापादयामास यतो ह्यस्य जीवनं तपोनिष्ठानां, संयमिनां, नि:स्पृहाणां मुनीनामिव सरलमाडम्बरहीनं चाऽभूत् प्रारम्भादेव। सोऽयं स्ववस्त्राणि स्वयं प्रक्षालयति स्म, प्रतिदिनं भ्रमणाय प्रयाति स्म, प्रतिदिनं संस्कृते किंचन लेख्यमेवेति व्रतमपि निसर्गतो धारयति स्म।
एतस्यैवेयं परिणतिर्यदनेन संस्कृते लिखितानां पृष्ठानां गणनाऽपि कर्तुमद्य न पार्यते। प्रभूतानामेतल्लिखितानां ग्रन्थानां, सम्पादितानां पत्रिकाणां, लेखानां, कथानामन्यासां च रचनानां पृष्ठसंख्या लक्षादप्यधिका सम्भवेदिति स्फुटं प्रतीयते। विविधभाषाऽभिज्ञोऽयं भारतीये शास्त्रीयसङ्गीते सुभृशं रुचिशीलोऽभूत्। आकाशवाण्या: प्रमुखसङ्गीताधिकारिणा ठाकुरजयदेवसिंहेनाऽनुरुद्धोऽयं 'धु्रपद’ शैल्यां गीतान्यप्यलिखत्, गजल, ठुमरी-प्रभृतिशैलीषु गेयपदानि त्वयमाबाल्यं प्रणयति स्मैव। सुदृढ-घटितगात्रस्यास्य व्यायामे रुचि: शैशवकालादेवाऽभूत्। जलसन्तरणं विशेषत उच्चस्थलेभ्यो जले कूर्दन-निमज्जनोन्मज्जनादिक्रीडासु (डाइव) चाप्यस्य कौशलं वार्धक्येऽपि जनान् विस्मापयति स्म। इदमेवाऽभूत् कारणं यन्मधुमेहादयो रोगा नैनमस्पृशन्। सप्ततिवर्षायुष ऊर्ध्वं हृदयरोगस्य लक्षणानि समुदभवन्। तथापि विविधकार्येषु लेखने च व्यापृतोऽयं न विश्रमं स्पृहयति स्म। यद्यपि नायं ग्रामान्तरस्य नगरान्तरस्य वा यात्राभिरोचयति स्म, तथापि सम्मेलनेषु, इतरेषु च समारोहेषु, व्याख्यानादे: कवितापाठस्य वा कृतेऽयं प्रमुख-साहित्यिकसंस्थाभि: सर्वकारैर्विश्वविद्यालयैश्चाऽऽमन्त्र्यते स्म, प्रयाति स्म च कतिधा तद्विधेषु प्रसङ्गेषु। कविसम्मेलनेषु तु प्रायश एवायं सभापतिपदमारोढुमामन्त्र्यते स्म।
एवं निरन्तरं साहित्य-सेवाव्यापृतस्याऽस्य निधनं ७५ वर्षावस्थायां जयपुरे हृदयाभिघात-वशात् ४ जून १९६४ दिनाङ्के समभूत्। सर्वकारेण, राज्यपालादिभि:, पत्रपत्रिकाभि: समग्रस्यापि देशस्य विद्वद्भिश्चाऽस्य निधनं साहित्यजगतोऽपूरणीया क्षतिरुदघोष्यत, शोकप्रस्तावा: पारिता: श्रद्धाञ्जलिविशेषाङ्कोऽपि 'भारती’ संस्कृतमासिकेन प्राकाश्यत।
साहित्य-सर्जना-
प्राय: पञ्चसप्ततिवर्षात्मके समग्रेऽप्यायुषि भट्टमथुरानाथशास्त्रिणाऽविरतं संस्कृत-साहित्यसेवाव्रतं निरूढम्। कैशोरे वयसि हिन्दी-उर्दू-वङ्गभाषा-गुर्जरभाषादीनां ज्ञानमासाद्य तासां साहित्यमप्यनेनाऽधीतं, तत्र च यद् वैशिष्ट्यमनुभूतं तस्याऽवतारणा संस्कृतेऽपि कथं भवेदित्यस्य विशेषत: प्रयत्नोऽनेनाऽक्रियत।
तस्मिन् हि काले काव्य-जगति व्रजभाषाया महत्त्वमक्षुण्णमासीत्। अभूत् सेयं भाषा प्राय: समग्रस्यापि भारतस्य काव्यभाषात्वेन प्रतिष्ठिता पञ्चशताब्दीर्यावन्मध्यकालीनेतिहासे। कबीरदासस्य तुलसीदासस्य च समयादारभ्य रीतिकालं यावत् (प्राय: पञ्चदशीं शताब्दीमारभ्यैकोनविंशीं यावत्!) प्रमुखै: कविभिरस्यां सुललिता काव्यरचना व्यधायि। एतस्या: प्रमुखं छन्दोऽभूद् 'घनाक्षरी’ त्याख्यं यत् 'मनहरण’, कवित्त इत्यादि संज्ञाभिरप्यभिधीयते। अस्मिन् छन्दसि अन्त्यानुप्रासस्य, लयबद्धाया-श्छन्दोगते:, दण्डक-सहजस्य विस्तारस्य च यश्चमत्कार: स काव्यमञ्चेषु कविसम्मेलनेषु च श्रोतृणां हृदयान्यावर्जयति स्म, अत एव छन्द इदं कवित्वस्य निकषायमाणममन्यत, तत एव 'कवित्त’ इत्याख्याऽस्य प्रथिता।
भट्टमहोदयस्य पूर्वजा: संस्कृत-प्राकृतादिवद् व्रजभाषाया अपि सुकवयोऽभूवन्। तेषां परम्परामनुसरताऽनेनाऽपि व्रजभाषायां काव्यरचना प्रारब्धा किन्तु तस्या लालित्यं संस्कृतेऽवतारयितुं व्रजभाषाछन्द:सु संस्कृतकवितामप्ययमारेभे। उर्दू - प्रचलितासु 'गजल’ गीतिषु प्रयुज्यमानानां वृत्तानां बन्धेऽपि संस्कृत-गीतिरनेनाऽवतारिता। तस्मिन् समये प्रथितासु ठुमरी-दादरा-प्रभृति-शैलीषु सरल-गेय-लयेषु चापि गीतयोऽनेन निबद्धा:। सर्वेणानेन सर्जना-व्यापारेणाऽस्य प्रतिपिपादयिषितमभूद् यत् संस्कृतमद्यापि जीविता भाषा, न मृता। जानन्ति काव्य-मर्मज्ञा यत् कविसम्मेलनेषु मुशायराख्यसभासु च गीतयो गजल-गीतयश्च श्रोतॄन् कथमाप्याययन्ति। शैल्यामस्यां निबद्धा गीतयो विशेषतश्च घनाक्षरीच्छन्दोबद्धा सानुप्रासा सुरम्या च कविता यदाऽनेन जयपुरीयविद्वत्सभासु श्राविता श्रोतृमण्डल्यामलौकिकमिव किञ्चित् कार्मणं प्रसारितवती तदा तत्कालीनैरधिकारिभि:, म.म.पं. गिरधरशर्मप्रभृतिभिर्विद्वद्भिश्चायं घनाक्षरीच्छन्द:सु काव्यरचनायै प्रोत्साहित:।
एतस्यैव परिणामोऽभूत् ''मञ्जुकवितानिकुञ्ज’’ इत्याख्याया: काव्यशृङ्खलाया: प्रणयनं यस्यां ''मञ्जुनाथ’’इति नाम्नाऽयं काव्यसङ्कलनत्रयम् प्रकाशयामास। ''साहित्यवैभवम्’’ इत्याख्ये संग्रहे रसालङ्कारदिघटिता ऋतुवर्णन-नवरसवर्णन-प्रेम-गीति-नीति-अन्योक्ति-प्रभृतिविषयिणी कविता १९३० ई. वत्सरे निर्णय-सागरमुद्रणालये मुद्रापयित्वाऽनेन प्रकाशिता। जयपुरनगरस्य तद्राजवंशस्य नागरिकाणामुद्यानानामन्येषां च स्थलानां वर्णनपरा काव्यरचना १९४७ ई. वर्षे 'जयपुरवैभवा’ ख्यग्रन्थे प्राकाशि। भक्तिरचनानां संग्रह: १९५७ ई. वर्षे 'गोविन्दवैभव’ नाम्ना गोरखपुरस्थेन गीता प्रेसेन प्रकाशित:। एषु काव्येषु व्रजभाषाच्छन्दसां प्रयोगस्त्वभूदेव, उर्दूच्छन्दसां संस्कृतच्छन्दसामपि सर्वेषां नर्कुटकाश्वघाटी-मन्दाक्रान्ता-शिखरिण्यादीनां प्रचुर: प्रयोगोऽस्ति। १९५७ ई. वर्षे गोविन्दवैभवं यदा प्रकाश्यमानमासीत्, अनेनाऽयं स्वकीयश्चरम: कविताग्रन्थ इति घोषितमुक्तं च यदाजीवनमहं नरवर्णनादिषु, शृङ्गारवीरादिरसनिबन्धने च स्ववाणीं व्यापारयन्नभूवम्। सम्प्रति गोविन्दगुणवर्णनेन पावितां वाणीं नाहं नरकथयाऽऽविलीकरिष्यामि। तत आरभ्याऽनेन गद्य एव लेखनी व्यापारिता, नैकमपि पद्यं लिखितम्। एवं विविध-विषयक-काव्यरचनया, नवीनच्छन्दसां संस्कृतेऽवतारणया चाऽस्य कवित्वयश: सर्वत्र प्रथितं, कविशिरोमण्यादय उपाधयश्च संस्कृत-संस्थाभिरदीयन्त। काव्यरचनाऽतिरिक्तेऽपि विविधे क्षेत्रेऽस्य साहित्यसर्जना सुभृशमुल्लेखनीया।
सूचितचरमिदं यत् संस्कृताध्ययनेन समकालमेव व्रजभाषासाहित्यस्य हिन्दीभाषाया:, बङ्गभाषाया:, आङ्ग्लभाषायाश्चाप्यध्ययनमनेन स्वकीयरुचिवशाद् विहितम्। आसीत्तदा जयपुरनगरे व्रजभाषाकवीनां राजसम्मानितानां कवीश्वराणां च भूयान् समुदाय:। तत्प्रेरणया 'कविमण्डल’ इत्याख्या हिन्दी-कवि-संस्था तदानीं प्रचलति स्म यस्या: सक्रिय: कार्यकर्ताऽभूदयम्। हिन्दीसाहित्य रात्रिपाठशाला-नाम्नीं सायङ्कालीनां पाठशालामप्यसौ स्थापयामास यस्यां छात्रा: हिन्दी-साहित्यमपठन्, हिन्दीसाहित्य-सम्मेलन (प्रयाग)स्य प्रथमा-विशारद-साहित्य-रत्नादि-परीक्षासु च प्राविशन्।
पत्रकारता-
संस्कृत-साहित्यसेवा त्वनेन छात्रावस्थात एव प्रारब्धाऽभूत्। जयपुरीयो महाराजसंस्कृत-कालेजस्तदानीं भारतविश्रुतं वैदुष्यकेन्द्रमभूद्यत्र विविधशास्त्र-निष्णाता विद्वांसोऽध्यापकपदमलमकुर्वन्। छात्रा अपि तदानीं भूरि- प्रतिभाशालिनोऽभूवन्। एवंविधे प्रतिभोद्दीपके वातावरणे कालेजीयै: कतिपयै:प्रतिभाशालिभिश्छात्रै: ''संस्कृत-चन्द्रिका’’ ऽऽख्याया: संस्कृतसाहित्यपत्रिकाया: साहित्यरचनारुचिप्रेरितै: १९०४ ई. वत्सरे निश्चितं यज्जयपुरादपि संस्कृतस्य मासिकपत्रं किञ्चित्प्रकाशमेतु। एतस्याऽभूत्परिणामो यत् ''संस्कृतरत्नाकर’’ नामकं मासिकपत्रं जयपुरात्प्राकाश्यत येन संस्कृत-पत्रकारताया इतिहासे नवीनस्य युगस्यावतारणा कृता।
व्यतियाति काले पत्रमिदमखिलभारतवर्षीयसंस्कृतसाहित्यसम्मेलनस्य मुखपत्रत्वेन स्वीकृतिमलभत। तदिदं प्रायोऽर्धशताब्दीं यावज्जयपुरात् प्राकाश्यत, तत: काशीत: कानपुरतश्च प्रकाशं लब्ध्वा दिल्लीनगरीं मुख्यालयत्वेन प्रापत्। एतस्य संस्थापकेषु युवकेषु म.म. गिरधरशर्मा चतुर्वेदी, राजगुरु पं. चन्द्रदत ओझा, व्याकरणाचार्य: सूर्यनारायणशर्मा भट्टश्रीमथुरानाथ: शास्त्री च प्रमुखा अभूवन्। सर्वेऽप्येते विद्वांसस्तदानीं कालेजीयच्छात्रा: स्नातका वा अभूवन्। सर्वप्रथमोऽस्याङ्को ''जयपुर-विद्वन्मण्डल- द्वारा सम्पादित’’ इति मुद्रिताक्षरोऽभूत् किन्त्वस्य सम्पादने 'सम्पादकीय’ लेखने च प्रमुखतया सोऽयं किशोरो भट्टमथुरानाथ एव प्रामुख्येन प्रवृत्तोऽभूत्। प्रथमं सम्पादकीयमप्ययमलिखित्। परस्तात् सहकारि-सम्पादकत्वेन लेखांष्टिप्पणीश्चालिखत्। तदनु प्रभूतं कालं प्रधान-सम्पादकोऽस्थात्। प्राय: पञ्चाशद्वर्षावधावस्मिन् द्वि: पर्यायद्वये, पत्रमिदं प्राकाशि। प्राय: सर्वस्मिन्नप्यस्मिन्नवधौ मथुरानाथशास्त्री सम्पादकरूपेणाऽनेन सह सम्बद्धोऽस्थात्। अनेन प्रसङ्गेनाऽयं संस्कृतपत्रकारतायां युगप्रवर्तनमिवाऽकरोत्। वङ्गभाषायां निपुणेन, तत्साहित्याध्येत्राऽनेन तदानीं वङ्गभाषाया: ''प्रवासि’’ - प्रभृतीनां विश्वप्रथितानां मासिकपत्राणां, डॉ. रामानन्दचट्टोपाध्यायप्रभृतीनां सम्पादकाचार्याणां च शैलीं संस्कृतेऽवतार्यानेके नूतना: स्तम्भा, विधा:, सरण्यश्च संस्कृते समारब्धा:। 'विनोद-वाटिका’ इति शीर्षकेण व्यङ्ग्यविनोदानां (चुटकुले), ''संवादा: सम्पादकाभिप्रायाश्च’’ इति शीर्षकेण सामयिकघटनानां तत्सम्बन्धे सम्पादकीयटिप्पणीनां वङ्गमासिकपत्र- 'प्रवासि’ सम्पादकादिभि: प्रचालितस्य 'कष्टिपाथर’ (निकष) स्तम्भस्याऽनुरूपमेव 'साहित्यकुसुमवाटिका’ शीर्षकेण नूतनसाहित्य-समालोचनस्य च स्तम्भानयं नियतीकृतवान्, लघुकथा:, यात्रावृत्तानि (रिपोर्ताज), काल्पनिककथा: (फंतासी), एकाङ्कनाटकानि, ललितनिबन्धान्, शोधलेखान्, लघूपन्यासान् (धारावाहिकरूपेण), अन्याश्च विविधा नूतनविधा: समावेश्य पत्रस्याऽस्य माध्यमेन सोऽयं संस्कृतपत्रकारतायां नवीनानि कीर्तिमानान्यरयचत्।
आदर्शरमणी, अनादृता, असमसाहसम् इत्यादयो बहव: संस्कृतोपन्यासा वङ्गभाषीयोपन्यास-शैली-प्रेरितेनाऽनेन लिखिता: पत्रेऽस्मिन् धारावाहिक-शृङ्खलासु प्राकाश्यन्त। बहवो लेखका: प्रेरिता: स्थापिताश्चानेन, पत्रस्याऽस्य बहवो विशेषाङ्का: विषय-विशेषमवलम्ब्य प्रभूतं साहित्यं प्रस्तुवन्त: प्रकाशमभजन्। वेदाङ्क: (विद्यावाचस्पति-श्रीमधुसूदनओझा-महाभागाय समर्पितो वेदविद्याविवेचनपर:) आयुर्वेदाङ्क: (स्वामिलक्ष्मीराम-भिषगाचार्याय समर्पित:), शिक्षाङ्क: (शिक्षापरिष्काराय प्रकाशित:), दर्शनाङ्क: (म.म.पं. गिरिधरशर्मणे समर्पित:) इत्यादयो विशेषाङ्का ऐतिहासिकं महत्त्वं दधति। इत्थं हि सन् १९०४ वर्षादारभ्य ई. १९४९ वर्षपर्यन्तं, यदवधीदं पत्रं जयपुरात्प्राकाश्यत, सोऽयं सम्पादकत्वमस्य निरवहत्। (कतिपयं कालं व्याकरणाचार्या: पं. सूर्यनारायणशर्माणोऽपि सम्पादकत्व-मन्वतिष्ठन्)। १९५० ई. वर्षात्काशीं प्रति प्रस्थितवत्यस्मिन् पत्रे १९५२ ई. वत्सरे जयपुरात् प्रकाश्यमानाया 'भारती’ संस्कृतमासिक-पत्रिकाया: सम्पादनमनेनाऽऽरब्धं यन्मृत्युपर्यन्तं निमर्व्यूढम्।
अनुवादा: -
विविधभाषागतस्य साहित्यस्य संस्कृतेऽनुवादमाध्यमेनावतारणाऽप्यस्य प्रमुखमवदानम्। प्राकृतभाषाया: प्रसिद्धस्य मुक्तकसंग्रहस्य 'गाथासप्तशतीति’ ख्यातस्य हालकविविरचितस्य वाचनं कुर्वाणेनाऽनेनाऽनुभूतं यत्प्राकृतमिदानीं न तावत् परिचितमिति प्राकृतगाथास्त्वरितमेव न हृदयङ्गमा जायन्ते। यदि तासां संस्कृते समच्छन्दोऽनुवाद: स्यात्तर्हि सजीवता सुभृशमनुभूयेत। एतस्याऽभूत् फलं यत्सर्वासामपि गाथानां संस्कृते निबन्धनं कृत्वा, आलोचनात्मक-तुलनात्मक-विवेचनपरकया-भूमिकया सह ''संस्कृत-गाथा-सप्तशती’’ति शीर्षकेण तामिमां कृतिमसौ निर्णयसागरमुद्रणालयात् प्रकाशयामास। अस्या व्यङ्गय-सर्वङ्कषानाम्नीं टीकामप्ययमलिखत् या सहैव प्राकाशि १९३३ ई. वर्षे।
व्रजभाषाकवे: विहारिण: सप्तशतीमप्ययमनूदितवान् संस्कृते दोहाच्छन्द:स्वेव। एवंविधानि संस्कृतदोहाच्छदांसि बहूनि 'विहारिविलास’ इति शीर्षकान्त: 'साहित्यवैभव’ काव्ये प्रकाशितानि सुबहु चर्चितान्यभूवन्। वङ्ग-भाषाया बहूनामुपन्यासानां हिन्दीकथाकाराणां प्रेमचन्द-प्रभृतीनां बह्वीनां लघुकथानां, वङ्गीयानां गल्पानां (लघुकथानाम्) निबन्धानामन्यासु च विधासु विलिखितस्य प्रभूतस्य साहित्यस्यानुवादा अनेन विहिता:। एवंविधसाहित्यस्यच्छायां गृहीत्वा तदनुहारिण्यां शैल्यां संस्कृते तद्विधा रचना विधायानेन संस्कृतेऽभिव्यक्तिविधानां विस्तारं चाऽऽनायितुं प्रयतितम्।
संस्कृत-भाषाया जीवितत्वख्यापनम्-
एवं हि सर्जनात्मकलेखनेन पत्रकारतया च संस्कृते नूतनं जीवनं सञ्चारियितुमस्य प्रयासा: सोद्देश्या अभूवन्। तदानीं हि संस्कृते विदुषां वर्गद्वयमभूत्। एको वर्गोऽभूत् पाश्चात्यशोधपरम्पराप्रभावितानां विदुषां ये संस्कृतमन्यान्यप्राच्यभाषावत् क्लासिकलभाषां मत्वा तस्यामनुसन्धानस्य प्राच्यविद्याशोधस्य च क्षेत्रमेवाऽपश्यन्, आङ्ग्लभाषामाध्यमेन, इतर-भाषासु वा तस्या दर्शनानां शास्त्राणां प्राचीन-साहित्यस्य गवेषणामनुवादान् विवेचनां चैव फलप्रदाममन्यन्त। इतरो वर्गोऽभूत्तेषां विदुषां ये संस्कृतं मातृभाषावद् भाषन्ते स्म, जीवितां जाग्रतीं च भाषाममन्यन्त, तस्यां मौलिकं सर्जनात्मकं च लेखनमनवरतं प्रचाल्यान्यान्याऽऽधुनिक-भारतीयभाषावत्तामप्याधुनिकीं भाषां मत्वा तस्यां पत्रपत्रिकाणां प्रसारं, कविसम्मेलनाऽऽदीनामायोजनं च सार्थकमनुभवन्ति स्म, जीवितभाषावत् प्रतिष्ठापयितुं च तामाजीवनं प्रायतन्त। भट्टमहोदया अस्यैव वर्गस्य विद्वांसोऽभूवन्।
अत एवाऽसकृत्ते एवंविधा: स्थितीरन्वभवन् यदा पूर्वमुल्लिखितस्य वर्गस्य शोधविद्वद्भि: संस्कृतभाषा केवलं प्राचीना भाषा व्यपदिष्टा, तस्यां नूतन-साहित्य-निर्माणमकिञ्चित्करमिव च प्रतिपिपादयिषितम्। एंवविधासु स्थितिषु साऽऽटोपं, विविधै: प्रमाणै: प्रत्यक्षमनुभावितैश्च चमत्कारैरेते संस्कृतामाधुनिकभाषावत् जीवितां साधयन्ति स्म, एवंविधानि बहून्यान्दोलनानि च परिचालयन्ति स्म यै: संस्कृतभाषा पूर्णतो जीविता सिध्येत्।
एवंविधेषु प्रयत्नेष्वेकोऽभून्नूतनविधासु, नूतनच्छन्दस्सु नूतनविषयेषु च साहित्यसर्जना, अपरोऽभूद्विविधनवयुगीन-साहित्यस्य विभिन्न-भाषाभ्य: संस्कृतेऽनुवाद:, इतरश्च संस्कृतेऽभिव्यक्ति-पद्धतीनां विस्तार:।
सन् १९३० वत्सरे वाराणस्यां सञ्चजातेऽखिल-भारतीय-संस्कृत-साहित्य-सम्मेलनस्याऽ-धिवेशनेऽनेन प्रदर्शितं यदेकं वाक्यं संस्कृते कथं पर:शतं प्रकारैर्वक्तुं शक्यते। एतेषु कतिपयानि वाक्यानि नवम्बर १९३९ मासस्य ''सुप्रभातम्’’ (वाराणसी) इत्याख्ये मासिकपत्रे 'संस्कृतभाषाया महत्त्वम्’ 'इति शीर्षकान्तर्गतं प्रकाशितान्यपि। एतदतिरिक्तं तै: पत्र-पत्रिकासु लेखमालामाध्यमेन, विदुषामभिमतानि सङ्कलय्य तानि च प्रकाश्य प्रत्यक्षमेकमान्दोलनमपि प्राचाल्यत यत्र 'किं संस्कृतभाषा मृतभाषा?’ इति प्रश्नमुद्भाव्य तस्या जीवितत्वमख्याप्यत। संस्कृतरत्नाकर (जयपुर) मासिकपत्रे (वर्षम् १२ अंक: ४, वर्षम् १४ अंक:९) ''गन्धर्वसेनस्य स्वर्गयात्रा’’ इति शीर्षकेणैतद्विषयकं लेखमेकं लिखित्वा संस्कृतस्य मृतभाषात्वप्रवादस्य नि:सारतामेते स्फुटीचक्रु:।
वाराणस्या: शोधमासिके ''सारस्वती सुषमा’’ इत्याख्ये (सप्तम-वर्षस्य) द्वितीयेऽङ्के ''अपि नाम सेयमव्यावहारिकी’’ इति शीर्षकेण संस्कृतभाषाया जीवितभाषात्वमेते साधयामासु:।
एवं हि संस्कृते सर्जनात्मकस्य लेखनस्य, पत्रकारताया नूतनविधानामन्येषामभिव्यक्ति-प्रकाराणां च संस्कृतेऽवतारणस्यैकमुद्देश्य-मिदमप्यभूदेषां दृष्टौ, यदनेन संस्कृतभाषा विश्वस्य भारतस्य चाऽन्यान्या-ऽधुनिकभाषाणां समष्टौ जीविताया आधुनिक्याश्च भाषाया रूपे प्रतिष्ठितं स्थानं लभेतेति।
सम्पादनं टीकालेखनं च-
पत्रसम्पादनेन साहित्यिक-पत्रकारताक्षेत्रे भट्टमहोदयैर्नवीन-युगावतारणा यथा विहिता, तथैव प्राचीनग्रन्थपरिष्कारे, सम्पादने, भूमिकालेखने, टिप्पणादिलेखने चापि सुमहत्परिश्रान्तम्। पूर्वमुल्लिखितं कादम्बर्या: सम्पादनं 'चषक’ -टिप्पणीलेखनं रसगंगाधरस्य पाठपरिष्कार:, ''सरला’’ टीकालेखनं, तदतिरिक्तं गीतगोविन्दस्य सम्पादनं पादटिप्पणीलेखनं चानेन निर्णयसागर-मुद्रणालयानुरोधेन विहितम्। ग्रन्थत्रयमिदं तस्मादेव मुद्रणालयात् प्रकाशितं, संस्कृतविद्वत्सु बहूनि वर्षाणि लोकप्रियं सुप्रसृतं चाभूत्। सेवानिवृत्त्यनन्तरमनेन, स्वपूर्वजेन श्रीकृष्णभट्टेन लिखितस्यैतिहासिक-महाकाव्यस्य ''ईश्वरविलास’’ नामकस्य दुर्लभा पाण्डुलिपि: पुणेस्थभाण्डारकरशोधप्रतिष्ठानादधिगत्य सम्पादिता, विस्तृतभूमिकया, ऐतिहासिक-टिप्पणीभि:, स्वनिर्मितया ''विलासिनी’’ टीकया च सह राजस्थान-प्राच्य-विद्या-प्रतिष्ठानात् (जोधपुरात्) प्रकाशिता। तदिदं महाकाव्यं राष्ट्रिय-संस्कृत-संस्थानस्य जयपुर-परिसरे साहित्यविभागीयप्राध्यापकेन डॉ० रमाकान्तपाण्डेयेन हिन्दीभाषायामनूद्य २००७ ई. जयपुरात् प्रकाशितमभवत्। यत्र भट्टमहाभागानां विलासिनी टीकाऽपि संयोजिताऽस्ति। श्रीकृष्णभट्टलिखिताया: पद्यमुक्तावल्या: (मुक्तकसङ्ग्रहस्य) टीका ''गुणगुम्फनिका’’ -ऽनेन लिखिता, ग्रन्थस्य सम्पादनं भूमिकया सह कृतं, ग्रन्थश्चायमपि राजस्थान-प्राच्य-विद्या-प्रतिष्ठानात्, प्रकाशित:। श्रीकृष्णभट्टस्य छन्द: शास्त्रग्रन्थो वृत्तमुक्तावल्याख्योऽपि पुणेस्थभाण्डार-करशोधसंस्थानादानाय्य सभूमिकोऽनेन राजस्थान-प्राच्य-विद्या-प्रतिष्ठानात् प्राकाशि। शिलालेखरूपेण च यानि दानपत्राणि प्राचीनैर्नरेशै: सुललितसंस्कृतभाषायां विलेखितानि, तेषामध्ययनं संस्कृतपाठ्यक्रमे समावेशितमभूद्विभिन्नै राज्यै:। एवंविधस्याऽध्ययनस्य कृते पाठ्यपुस्तकरूपेण कतिपयशिलालेखादीनां सङ्कलनं, सम्पादनं, टिप्पणीलेखनं च विधाय 'शिलालेखललन्तिका’ नाम्नाऽयं ग्रन्थो निर्णयसागरात्प्राकाशि भट्टमहोदयैरिति पूर्वं सूचितमेव।
नाट्यकृतय: -
काव्यलेखनेऽस्य नैपुण्यं तु विश्रुतमेव, अनेन महाराजसंस्कृतकॉलेजे साहित्य-विभागाध्यक्ष-पदमधितिष्ठता 'उत्तररामचरित’ नाटकस्य मञ्चोपयोगि रूपान्तरणं विधाय तस्य नाटकस्य कालेजीयनाट्य-संघद्वारा रामप्रकाशाख्ये प्रेक्षागृहे मञ्चावतारणे सुमहद् योगदानमनुष्ठितम्, मध्ये मध्ये स्वनिर्मिता: संस्कृतगीतयोऽन्तर्वेशिताश्च (१९३१ ई. वर्षे)। ततश्च महाभारत-कथामाधारीकृत 'पाण्डव-विजया’ख्य-नाटकस्य मञ्चोपयुक्ता पटकथा विविधप्राचीन-नाटकानामाधारेण रचिता, १९४० ई. वर्षे तस्मिन्नेव नाट्यगृहे मञ्चिता च। जयपुरे आकाशवाणीकेन्द्रस्य प्रारम्भादनन्तरं तदधिकारिभिरनुरुद्धोऽसौ ''मञ्जुला’’ख्यं ध्वनिनाट्यं लिलेख। प्रसारितमिदं जयपुरीयाऽऽकाशवाणीकेन्द्रात् १६/१/५७ दिनाङ्के ८/८/५८ दिनाङ्के च तदेतदपि मञ्जुनाथगद्यगौरवम्’ इत्याख्ये ग्रन्थे प्रकाशितम्।
गद्य-रचना: -
संस्कृत-गद्येऽप्यस्य लेखनं विपुलमस्ति। शताधिका: संस्कृतलघुकथा:, दशाधिका उपन्यासा:, बहवो ललिता-निबन्धा:, काल्पनिककथा: (फन्तासी), व्यङ्गयलेखा:, यात्रावृत्तानि, रूपककथा: (एलेगरी), प्रतीक-कथा, विनोदा (चुटकुले) अन्यासु च विधासु लिखिता: सर्जनात्मकरचना गणनातीता एव। शोधलेखा: समालोचनात्मकलेखा:, साहित्यालोचनटिप्पण्य:, सामयिक-टिप्पणानि, समाचारसारादयश्चापि भूरिशो व्यलेख्यन्ताऽनेन। वाराणसी-जयपुर-दिल्ली प्रभृतिकेन्द्रेभ्य: प्रकाशितेषु सर्वेष्वपि पत्रेष्वस्यैवंविधा रचना: प्राकाश्यन्त यासां सूची सुदुष्करा साङ्गोपाङ्गत्वेन निर्मातुम्। तथापि बहुभि: शोधार्थिभिरेवं-विधरचनासु बह्वीनां सूचीकरणस्य प्रयत्ना: सन्त्यनुष्ठिता:। तत एवैवंविधा सूची शक्येत द्रष्टुम्।
हिन्दी रचना: -
हिन्दीभाषायामप्यनेन बहवो ग्रन्था:, लेखा:, लघुकथा:, कविताश्चालिख्यन्त। वाल्मीकीये रामायणे विभीषण-शरणागति-प्रसङ्गमवलम्ब्य सुरुचिरं विवेचनात्मकं नूतनमेव पन्थानमनुसरत् पुस्तकं 'शरणागतिरहस्य’ नाम्नाऽऽनेन लिखितं यद् गीताप्रेसात् (गोरखपुर) प्रकाशितं लोकप्रियमभूत्। 'सरस्वती’- 'माधुरी’-'कल्याण’-जयभूमि-राष्ट्रभाषा-प्रभृति-पत्र-पत्रिकासु लिखिता अस्य लेखा लघुकथाश्च हिन्दीजगत्यप्येनं सुविदितमकार्षु:। विविधेष्वभिनन्दन-ग्रन्थेषु तत्सम्पादका एनमुपसृत्य विविधविषयकान् लेखानस्य गृहीत्वा प्रकाशितवन्त:।
समाजे सम्मान: -
इदमभूत्स्वाभाविकं यदस्य सुदीर्घायै संस्कृतसैवायै परितुष्यद्भिर्विद्वद्भि:, संस्थाभि:, सर्वकारैश्च विविध-सम्मानोपाधिप्रदानद्वारा, सदस्यताप्रदानद्वारा चास्य सम्माननं क्रियेत। अत: सेवाकाले एवायं वाराणस्यादिविविधविद्याकेन्द्राणां परीक्षक:, प्रमुख-वक्ता, समारोहाणामध्यक्षो, मुख्यातिथिर्वा निर्धार्य समामन्त्रित: सादरम्। वाराणस्यां सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य स्थापनानन्तरं तस्य दीक्षान्तसमारोहावसरे समायोजितस्याखिल-भारतीय-कविसम्मेलनस्या-ध्यक्षपदे, अखिलभारतीय-संस्कृत-साहित्यसम्मेलनेन समायोज्यमानानां कविसम्मेलनानामध्यक्षपदे, राजस्थान-संस्कृत-साहित्य-सम्मेलनस्य बीकानेरनगरेऽधिविष्टस्य द्वितीयाधिवेशनस्याध्यक्षपदे (१९५०ई.), विविधानामन्येषां समारोहाणां चाध्यक्षपदेऽसकृदयं सानुरोधं प्रतिष्ठापितोऽभूत्। राजस्थान-सर्वकारेण स्थापिताया: (सन् १९५७ ई.) साहित्य-अकादम्या: संस्थापकसदस्योऽयमभूत्। राजस्थान-राज्येन संस्कृत-शिक्षाया: नीतिनिर्धारणाय नियुक्ताया विशेषज्ञसमिते: संस्कृत-मण्डलस्य च सदस्योऽयमभूत् (१९५२-१९६२)। बड़ौदा-विश्वविद्यालयेन रससिद्धान्तानां काव्यसिद्धान्तानां च विषये व्याख्यानानि विधातुमयमामन्त्रितोऽभूत् (१९५६ई.)। उज्जयिन्यां कालिदाससमारोहस्य परम्परां प्रारब्धवती कालिदास-समितिरेनं सदस्यं निर्माय समारोहावसरे समायोज्यमानानां कविसम्मेलनानामध्यक्षं च विधाय स्वगौरवमेधितवती। तस्या: प्रमुख: श्रीसूर्यनारायणव्यासस्त्वेनम् ''अभिवनकालिदास’’ पदेनैव सम्बोधयति स्म।
सन् १९३६ ई. वत्सरे जयपुरेऽधिविष्टेन (पञ्चविंशाधिवेशने) अखिलभारतीय-संस्कृत-साहित्य-सम्मेलनेनास्मै कविशिरोमणि: इत्युपाधि:, वाराणसीस्थ-भारतधर्म-महामण्डलेन साहित्यवारि-धित्युपाधि:, बम्बईस्थ-वेल्लनाटीय-तैलङ्गसभया ''कविसार्वभौम’’ इत्युपाधिश्चास्मै स्वर्णपदक-सम्मानोत्तरीयादिभि: सह सादरमुपायनीकृत:। १९६१ वत्सरे यदा राजस्थान-सर्वकारेण संस्कृतविदुषां कृते पुरस्कारयोजना प्रारभ्यत, तदा सर्वप्रथममस्मै त्रिसहस्रमुद्रात्मकं पुरस्कारं प्रदाय योजनाया अस्या: शुभारम्भो विहित:। बह्वीभि: संस्थाभिर्मरणोत्तरमस्मै सम्माना: प्रदत्ता:।
नि:स्पृहता -
पूर्वमुल्लिखितमेव यद् भट्टमहोदयो जयपुर-राज्येन प्रदत्ताया: प्रभूतभूसम्पत्ते: स्वामी आसीदिति नानेनार्थकष्टमनुभूतं यौवने। बाल्ये तु सुमहतीमार्थिकीं विपत्तिं सोढ्वा, स्वमतिबलेन विविधान् सङ्कटानुत्तीर्य स्वकीयं राजसम्मानितं संस्थानमनेन कथं सङ्कटादुद्धृतमित्यस्य वर्णनमनेन 'साहित्यवैभव’ काव्ये कृतमस्ति। द्वारकानाथभट्टस्य सुतोऽयं यदा सुन्दरलालभट्टस्य दत्तकोऽभूत्तदानेन ज्ञातं यत् समग्राऽपि भूसम्पत्ति: पूर्वजै: बन्धकतया उत्तमर्णानामधिकारे निक्षिप्ताऽस्ति, न कोऽप्याय:, ऋणं वर्धते यतस्तस्य कुसीदमनुदिनं प्रवर्धते। नि:सन्तानं दिवङ्गतेन श्री सुन्दरलालेन, अन्यैश्च स्वेच्छाचरणा-नुरागिभिरनवधानिभि: पूर्वजै: स्वकीयकार्यार्थं विभिन्नेभ्यो जनेभ्य: ऋणानि गृहीतान्यभूवन्, तस्यायं परिणामोऽभूत्। प्रबन्धका भ्रष्टाचरण-परवशा मध्ये सुबहु वित्तं भुञ्जते स्म। अनेन सर्वापि व्यवस्था कैशोर्यादेव सावधानं परीक्षिता, प्रबन्धो निजसात्कृत:, भूसम्पत्तिर्बन्धकत्वान्मोचिता, ऋणं परिशोधितम्, आय: संवर्धित:। एवं प्रायस्त्रिंशद्वर्षात्मके वयस्ययं स्व-निर्भर ऋणमुक्तश्चाजायत। तदनन्तरमधिके-नोत्साहेन साहित्यसेवापर: समजायत।
एवं च साहित्यसेवात: पुस्तकलेखनादिकार्येभ्यश्च नायं कदापि किञ्चन लिप्सुरभूत्। एतस्य परिणामोऽपि तथाविध एवाभूत्। विपुलग्नन्थ-लेखकेनाऽप्यनेन नैकमपि रूप्यकं कस्मादपि प्रकाशकाद् 'रॉयल्टी’ रूपेणाधिगतम्। निर्णयसागर-मुद्रणालय: सम्पादनस्य नाममात्रं किञ्चन पारिश्रमिकं प्रारम्भ एव ददाति स्म, न स्वामिस्वं (रॉयल्टीं) निर्धारयति स्म। राजकीयपाठ्यपुस्तक-मण्डलेन यत् संस्कृतपाठ्यपुस्तकमनेन लेखितम्, तस्य पारिश्रमिक-रूपेण सकृदेकश: कश्चन राशिरवश्यमस्मै प्रदत्तोऽभूत्, 'संस्कृतसुधा’ -ख्यपाठ्यपुस्तकस्य लाभस्तु य: कोऽप्यभूत्, मध्यस्थव्यक्तिभि: सानन्दं भुक्त:।
परिवेश: परिसरश्च-
यस्मिन् युगे भट्टमहाभागैराजन्म संस्कृतसेवाव्रतं निरूढं तद् युगमेवंविधानां नि: स्वार्थ-सरस्वती-सेवकानामेवाऽभूत्। अनवरतसाहित्य-सर्जनासत्रमेतदेभिर्न कस्मैचिल्लाभलोभाय, न वा यशोलिप्सया, न च कस्यचन बन्धनेन प्रेरणया वा परिचालितम्, आसीत्सा काचनान्त:प्रेरणैव यया खल्वेभिर्निश्चितमासीत् यत् प्रतिदिनं संस्कृते किञ्चन लेखनं विना भोजनं नैव करणीयम्। वाराणस्यां जयपुरेऽन्येषु च संस्कृतविद्याकेन्द्रेष्वभूवंस्तदानीमेवंविधा एव नि:स्वार्थसंस्कृत-सेवका मनीषिणो येषां पुण्यान्यद्यास्माभिरुपभुज्यन्ते। भट्टमहाभागानां ज्येष्ठतनुजत्वसौभाग्येन ममाऽप्यभूदवसरस्तदानीन्त-नानामेवंविधानां मनीषिणां दर्शनस्य, तेषां वैदुष्य-सुरभितासु चर्चागोष्ठीषु प्रवेशस्य, यासु न राजनीतिर्न व्यवसायो, न वाऽन्यविधं किञ्चन वस्तुजातमभूच्चर्चाविषय:, संस्कृतसम्बन्धिन्यश्चर्चा:, शास्त्रसन्दर्भ-संवलिता एव विनोदा:, काव्यालापसन्दानिता: परिहासा: एवंविधा एव व्यासङ्गास्तेषां समवाये, जलविहारोपवनविहारादिषु सर्वविधेषूत्सवावसरेषु चाभूवन्नित्यमधुना स्मरामि। कथं युगमेवेदानीं विपरिवृत्तम्। आस्तां तावत्।
भट्टमहोदयानां सुहृतपरिकरे जयपुरीया: स्वामिलक्ष्मीराममहाभागा आयुर्वेदमार्तण्डा:, म.म.पं. गिरिधरशर्माण:, पं. चन्द्रधरगुलेरिणोऽनुजा: पं. सोमदेवगुलेरिण:, राजगुरु-चन्द्रदत्तमैथिला:, पं. सूर्यनारायणशर्माण:, प्रशासका: श्री श्यामसुन्दरपुरोहिता:, वेदविज्ञा: पं. मोतीलालशर्माण:, पं. गिरिजाप्रसादद्विवेदा:, कलिकातास्था: (शेखावाट्यभिजना:) श्रीझाबरमल्लशर्माण:, पुणेस्था: डॉ. पी.के. गोडेमहोदया:, बम्बईस्था गोस्वामिगोकुलनाथा: पं. पुरुषोत्तमचतुर्वेदाश्च, वाराणसेया नारायणशास्त्रिखिस्तेमहोदया:, रायकृष्णदासमहोदयाश्च, वाङ्गा असितकुमारहालदारा: (प्रसिद्धाश्चित्रकारा ये जयपुरीयकला-कालेजस्याध्यक्षा अभूवन्) दाक्षिणात्या: पं. पट्टाभिरामशास्त्रिण:, झालरापाटनस्था नवरत्नगिरिधरशर्माण: अन्ये च विभिन्नेषु प्रान्तेषु स्थिता विद्वांस: परिगणयितुं शक्यन्ते। पं. चन्द्रधरगुलेरि-णाऽस्य कवित्वचर्चा मित्रत्वेन बहुत्र कृताऽभूत् (''पुरानी हिन्दी’’ पृ. १६, नागरी प्रचारिणी, काशी)।
एतेषां शिष्येषु, स्व. गणेशरामशर्माण:, स्व. पं. वृद्धिचन्द्रशास्त्रिण:, स्व. वैद्यमुकुन्ददेवा:, पं. गोपालनारायणबहुरा, स्व. दीनानाथ त्रिवेदी मधुप:, उद्योगपति: स्व. श्री कन्हैयालालतिवाडी, प्रशासका: श्री शेरसिंह-द्वारकानाथपुरोहितप्रभृतय: शिक्षका: स्व. श्रीराधागोविन्दशर्मप्रभृतय:, जननेतार: श्रीसिद्धराजढड्ढा-पूर्णचन्द्रजैन-जवाहरलालजैन-युगलकिशोरचतुर्वेद-हीरालालशास्त्रिप्रभृतयो बहव: सन्ति ये महाराजाकालेजाख्ये पाश्चात्य-पद्धत्यनुसारिणि महाविद्यालयेऽथवा महाराजा संस्कृतकालेजाख्ये पाश्चात्य-पद्धत्यनुसारिणि महाविद्यालयेऽथवा महाराजा संस्कृतकालेजाख्ये-प्राच्यपद्धत्यनुसारिणि महाविद्यालये, वा गृहे भट्टमहोदयात्संस्कृतं साहित्यशास्त्रं वाऽधीतवन्त:।
आसां पंक्तीनां लेखकोऽपि तत्सुतत्वेन तेभ्यो न केवलं काव्यशास्त्रकाव्यरचनान्यायवैशेषिक-सांख्य-पुराणेतिहासादिविषयान् अपि तु व्रजभाषाकाव्य-हिन्दी-कवितादि-विषयानपि तदाशीर्वचोभि: स्नेहसम्भारेण च सहाऽध्यगीष्ट, स एव चाऽऽशी:पुण्यराशिरद्य तस्य समग्रो निधि:।
देवर्षि-कलानाथशास्त्री
मञ्जुनाथनिबद्धा
भूमिका
सकलभूमण्डलभाषामौलिमुकुटायमाना सेयं संस्कृतसरस्वती सर्वदेशीयैरपि तत्त्वज्ञपण्डितै: सर्वत: पुरातनीति सबहुमानमभिनन्दिता, सर्वत: प्रथमं ज्ञानालोकजननीति विनीतिपुरस्सरमभिवन्दिता, गौरवस्य सौष्ठवस्य माधुर्यस्य सौभाग्यस्य औदार्यस्य गाम्भीर्यस्य नैर्मल्यस्य मार्दवस्य चाधिष्ठानावनीति सप्रमोदमुपच्छन्दिता, हृदयपरिष्करणाय चाऽप्रतिद्वन्द्वं प्रभुरिति सत्यतममिन्दिता चेति नात्र विस्तारयितुमावश्यकम्। परमस्या एव सुरसरस्वत्या: सकाशादुद्भवमधिगतवती प्राकृतभाषापि मध्ययुगे सुबहुतरं जनसम्मानमर्जयामासेत्यभ्युप-गन्तव्यमेव भवेत्।
नवीनशिक्षादीक्षिता: साम्प्रतिका: केचन हिन्दीकर्णधारास्तु प्राकृतभाषाया: पक्षं पुष्णन्तस्तदिदमपि साधयन्त: श्रूयन्ते यन्नैषा भाषा संस्कृतभाषात: समुत्पन्ना। इयं तु प्रकृतिनियमानुसारं सर्वत: प्रथमं स्वयमुत्पेदे। नामैवाऽस्यास्तमिमं विषयं सूचयति। प्रत्युत संस्कृतभाषैवाऽस्या: सकाशात्कृतसंस्कारत्वाज्जन्माऽधिगतवतीति संस्कृतनाम्नाऽभ्यजानीमेति। अस्तु, नास्मिन्विषये साम्प्रतमिहाभ्यधिकं प्रपञ्चयितुं कामये। स्थानान्तरे तदिदं स्पष्टं निर्णीतं निर्णेष्यते च। परं प्राकृतभाषाया: प्रकाण्डपण्डितस्य प्रसिद्धकोषकारस्य च श्रीमतो हेमचन्द्रा-चार्यस्य केवलं तदिदं सूत्रमुपन्यस्यामि यत्र सुस्पष्टमयमूरीकरोति यत्संस्कृतभाषात एव प्राकृतभाषाया: समुत्पत्तिरिति। आह स:- 'प्रकृति: संस्कृतम्, तत आगतं प्राकृतम्’। एवं सति प्रकृतिशब्दमात्रेण या भित्तिर्नवीनैरुथापिता सा किल सुभृशमेव निर्बलावतिष्ठते। नवीनशिक्षिता: प्राय: प्राचीनपण्डितानधिक्षिपन्ति यदिमे विनैव युक्तिप्रमाणं स्वमतमग्रेसरीकर्तु-मभिनिविशन्त इति। परमस्मिन्विषये सुस्पष्टतरमाश्चर्यमनुभवामि यन्नवीनसभ्यमहाभागै: 'संस्कृतभाषात: प्राक्तनी सेयं प्राकृतभाषे’त्यस्मिन्विषये किं वा सुदृढं प्रमाणमुपलब्धम्? अपि वेदेभ्य: प्राचीनं किञ्चित्प्राकृतपुस्तकमधिगतं श्रीमद्भि:? आहोस्विद् भगवन्तो वेदा एव न गीर्वाणभाषया साकं सम्बन्धमधिगच्छन्ति? साम्प्रतिकीं संस्कृतभाषां वेदकालिकीं प्राचीनाममरभारतीं च व्याकरणादिनियमै: कैश्चिद्भिन्नामिवापाततो ज्ञात्वा भाषाभेदभ्रमे तु न पतितव्यम्। एतद्धि अनुमानसीमतोऽप्यधिकेन कालेन सङ्घटितं केवलं व्याकरणनियमानां क्रमिकं परिवर्तनमात्रम्। एतावन्मात्रेण द्वयोरनयोर्भाषयो: परस्परं भेदो न सिध्येत्। 'सहस्रशीर्षा पुरुष: सहस्राक्ष: सहस्रपात्’ इत्यादीनि दिव्यान्यक्षराणि संस्कृतभाषातो विभिन्नैरन्यैरेव कैश्चिद्धातुभि: सङ्घटितानीति को वा पुरुषपुङ्गव: साधयितुं प्रभवेत्?
किञ्च- साधारणबुद्धिरपि पुरुष: स्थूलतमविमर्शेनाऽपि तदिदं परिज्ञातुं प्रभवेद्यत् प्राकृतभाषायां मूलभूता संस्कृतभित्ति: स्फुटं प्रतीयते न वा। 'आअण्णअड्ढिअणिसिअभल्लम्म-माहआए’ इत्येतेषामक्षराणामन्तस्तले 'आकर्णाकृष्टनिशितभल्लमर्माहतया’ इत्यादिसंस्कृताक्षराणां मूलरूपेण प्रतिफलिता प्रतिच्छाया न प्रतिभाति? प्राकृतस्य गद्यं पद्यं वा यत्संस्कृतेऽवतार्यते तत् किल 'छाया’ नाम्ना, आदिकालादारभ्याऽद्यपर्यन्तं प्रसिद्धम्। अनेन किं नानुमातुं शक्येत यत्संस्कृतस्य प्राकृतस्य च मध्ये छायामात्रकृतमन्तरमिति। प्राकृतस्य छायामाश्रित्य संस्कृतमुत्पन्नमित्ययं भ्रमस्तु पूर्वं निरस्त एव। ततश्च सुस्पष्टं सिध्यति यत्संस्कृतस्यैव छायाश्रयेण प्राकृतस्योत्पत्तिरिति।
प्राचीनमतावलम्बिनां प्रतिद्वन्द्वितायां किञ्चिन्नवीनमेव वक्तव्यमित्याग्रहिला इव केचन महामहोदयास्तदिदमपि मनस्यभिमन्यन्ते यत्संस्कृतापेक्षया प्राकृतभाषा साम्प्रतमपि मधुरतरेति। प्रत्यक्षमेव मयानुभूतामेकां घटनामवतारयामि। अनया हि पाठकमहाभागा: स्पष्टमिमं विषयं तत्त्वत: परिजानीयु:। मया ह्येकस्मै महाभागाय मदनूदिताया गाथासप्तशत्यास्तदिदमेकं पद्यं केनचित्प्रसङ्गेन श्रावितमभूत्-
शंसन्ति कामिनीनामम्बुनिलीनप्रियाङ्गसङ्गसुखम्।
पुलकितकपोलसंफुल्लनिश्चलाक्षाणि वदनानि।।६/५८।।
महाशयेनाऽनेन सभ्यतानुरोधिनं साधु साध्वित्यादिप्रासङ्गिकप्रशंसाकाण्डं परिसमाप्य पर्यन्ते पृष्टं यत्- 'अस्य मूलभूता प्राकृतगाथा तूपन्यस्यतां या ह्येतदपेक्षया कियत्कोटिकं कर्णमधुरा भवेत्’। मया सविनयमावेदितम् 'यदा ह्यस्य मूलभित्ति: प्राकृतगाथा तदा कुतो वा सेयमभिनन्दनीया न भवेत्। परं सा कर्णमधुराऽपि भवेदत्र मतभेदो भवितुमर्हति, विशेषत: प्राकृतप्रचारात्प्रकामं विप्रकृष्टेऽस्मिन्काले। तै: सोत्तेजनमुत्तरितं 'नैवम् नैवम्’। मया सा गाथा पुस्तकान्निस्सार्य तेषामग्रत: स्थापिता-
पिसुणेन्ति कामिणीणं जललुक्कपिआवऊहणसुहेल्लिम्।
कण्डइअकवोलुप्फुल्लणिच्चलच्छीइँ वअणाइं।।६/५८।।
मन्मतानुसारं तु तामिमां गाथामेते स्पष्टं पठितुमपि न प्राभवन्। आत्ममतं दुर्बलं भवतीति सुमधुरपठनाय निभृततममाभ्यन्तरप्रयत्नं कृतवन्तोऽप्युत्तरार्धं छन्दोलये निबन्धुं नापारयन्। एष हि समयोऽपभ्रंशमार्गस्य कृते स्पष्टं प्रतिकूल एव। यतो हि साम्प्रतिका: किल राष्ट्रीयसाहित्यप्रचारका देशभाषाया अपि अपभ्रंशपथसिद्धं व्रजभाषादिरूपमाच्छिद्य तादृशं नवीनमेव रूपं सृजन्ति यत्र हि किञ्चिदप्यपरिवर्तितानि संस्कृतपदान्येव आमूलचूडं क्रीडन्ति। वर्तमानसमये देशीयसाहित्यमहारथिन:-
'थप्पन उथप्पन सपच्छ अरिदप्पनके।
छप्पन करोर जादों कप्पन कलेसजू।
चप्पन प्रतापतेज तप्पन के जासु जस
जप्पन औ अप्पन समप्पन हमेस जू।
होत बकसीस बिसैं बीस बीस तीस सुर-
ईसकें सीस पै द्विजदीननिके पेसजू
जयसिंह दानी तुम्हें होहु सुखदानी
द्वारकाके राजधानी राजैं राजा द्वारकेसजू।।’
[द्वितीयजयसिंहाश्रिता: कविकलानिधिश्रीकृष्णभट्टा:]
इत्यादिभि: संस्कृतापभ्रंशजनितै: पदैर्ग्रथितां प्राचीनहिन्दीं नाभिरोचयन्ति। एते हि-
'नानाभावविभावहावकुशला आमोद आपूरिता
लीलालोलकटाक्षपातनिपुणा भ्रूभङ्गिमापण्डिता।
वादित्रादिसमोदवादनपरा आभूषणाभूषिता
राधा थीं सुमुखी विशालनयना आनन्दआन्दोलिता।।
[अयोध्यासिंह उपाध्याय:]
एवंविधामपरिवर्तितसंस्कृतपदबन्धवाहिनीं भाषामद्यत्वे ससाधुवादमभिनन्दन्ति। कामं कुत्रचिद्भवेदनावश्यकसंस्कृतपदनिबन्ध:, स्वैरं सम्भवतु नाम दुर्बोधै: पदैर्भाषाया: काठिन्यम्, भारतवर्षस्य कोणकोणावधि सुबोधतया अधिगतराष्ट्रीयभाषासिंहासनाया अपि हिन्दीभाषाया अपहीयतां नाम सर्वबोध्यत्वम्, परमिमे संस्कृतपदसौष्ठवापहृतमानसतया अपभ्रंशपदानि पदाघातैरपसारयन्त: संस्कृतसरस्वतीमेव साहित्यसिंहासने समभिषेचयितुमिवाग्रसरीभवन्ति। इदानीं दृश्यतामेतादृशे समये प्राकृतभाषाया: कर्णरसायनत्वसाधनं कियत्सत्यमिति।
परमासीत्सोऽपि समयो यत्र प्राकृतभाषाया: सम्मुखे संस्कृतभाषा विच्छायेवाऽभवत्। मधुरमधुरेषु विषयेषु प्राकृतभाषां परिहाय संस्कृतभाषाया: परिग्रहणं लोकानां कृते सुभृशमरुचि-करमभवत्। नवसु रसेषु मधुरतर: किल शृङ्गार इति को वा न जानाति। परमयमपि रस: प्राकृतभाषायामेव माधुर्यमधिकं पुष्णातीति तत्समये कोविदानामभून्निश्चय:। शृङ्गाराधिदैवतस्य मनोभवस्य केलिभूमिरिव सेयं भाषा परिगण्यते स्म। साभिमानहुङ्कारमुद्घोष्यते स्म तस्मिन्समये-
'अमिअं पाउअकव्वं पढिउं सोउं अ जे ण आणन्ति।
कामस्स तत्ततन्तिं कुणन्ति ते कहँ ण लज्जन्ति१।।’
प्राकृतभाषापक्षपातिन एव गेहे नर्दितया तदिदमुद्घोषयामासुरित्यपि न। ये किल संस्कृतभाषाया: कोविदेषु मूर्धन्या: सम्मन्यन्ते स्म तेऽपि प्राकृतप्रशंसागीतमुत्कण्ठया गायन्ति स्म। यायावरमूर्धन्यं राजशेखरकविं को वा संस्कृतज्ञो न जानीयात्। यस्य हि बालरामायण-विद्धशालभञ्जिकादिरूपककाव्यानि संस्कृतस्य रूपं सुभृशमुद्भासयन्ति। यत्कृता काव्यमीमांसा परिज्ञाननैपुण्येन मार्मिकाणां मनासि चित्रयन्ती साहित्यशास्त्रस्यासाधारणं महत्त्वमास्थापयति पण्डितसमाजे। संस्कृतसरस्वत्या: सौभाग्यसीमान: एतादृश महाकवयोऽपि प्राकृतस्याग्रे संस्कृतं गौणीकुर्वन्ति। आह स:-
परुसा सक्कअबन्धा पाउअबन्धो वि होइ सुउमारो।
पुरुसमहिलाणँ जेत्तिअमिहन्तरं तेत्तियमिमाणम्।।२
[कर्पूरमञ्जरी]
ललिए महुरक्खरए जुवईजणवल्लहे ससिंगारे।
सन्ते पाइअकव्वे को सक्कइ सक्कअं पढिउम्।।३
[वज्जालग्ग]
प्राकृतभाषा
देशजजलवाय्वाहीनां प्रभावाद्विलक्षणेन कण्ठताल्वाद्यभिघातेन, करणापाटवेन, अन्येन वा केनचन निदानेन कामं भवेत्प्राकृतादिभाषाणामुत्पत्ति:, परं विभिन्नवर्गीयैर्जनै: परस्परस्पर्धावशात्सेयं प्राकृतभाषा प्रकामं प्रसारमनीयतेति प्रतीतं भवति। वैदिकमतानुयायिनामार्याणां जैन-बौद्धादिभि: सह यदा हि धार्मिक: सङ्घर्ष: समुपस्थितोऽभूत्तदा ह्यार्याणां धार्मिकी भाषा संस्कृतमभवत्। अत एव तत्प्रातिद्वन्द्व्येन जैनैरर्धमागधी, बौद्धैश्च पालीति परिभाषिता प्राकृतभिदा प्राधान्येन धर्मप्रचारभाषा न्ययम्यत। इत्थं ग्रन्थनबाहुल्येन शनै:शनैरुपचयमुपगता सेयं प्राकृतभाषा यस्मिन्समये प्रकामं प्रौढिमधिजगाम तद्धि प्राकृतभाषाया: कृते मध्ययुगमिति व्यपदिशाम:। अनादिकालादारब्धा गीर्वाणगवी तु स्वाभाविकेन निजसौष्ठवेन शनै: शनै: संस्कारजनितेन
१. अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति।
कामस्य तत्त्वचिन्तां कुर्वन्ति ते कथं न लज्जन्ते।।
२. परुषा: संस्कृतबन्धा: प्राकृतबन्धोऽपि भवति सुकुमार:।
पुरुषमहिलानां यावदिहान्तरं तावदेतेषाम्।
३. ललिते मधुराक्षरे युवतिजनवल्लभे सशृङ्गारे।
सति प्राकृतकाव्ये क: शक्नोति संस्कृतं पठितुम्।।
केनचिदनिर्वचनीयेन सौन्दर्यमहिम्ना च सुभृशमासीदेव विवेकिनामभिनन्दनभूमि:, परं संस्कृत-पदाङ्कानुशीलनेन तत्साहित्यमार्गानुवर्तनेन तद्रसालङ्कारगुणाद्यनुगमनेन च प्राकृतभाषापि शनै: शनै: प्रकामं प्रौढिं सुबहुतरं माधुर्यं चाधिजगामेति माननीयमेव भवेत्। अयमेव प्राकृतभाषार्थं पूर्णोपचयकाल:। शनै: शनैरुपचयमधिगच्छन्ती प्राकृतभाषा यदा ह्येवंविधं चरममुत्कर्षमवाप तदैव सेयमपि साहित्यभाषैव भूत्वा व्यवहारात्क्रमशो दूरभावमवाप्तवती। भाषा हि यदा सुभृशं संस्कारं परां प्रौढिं सृदृढां च व्याकरणनियममर्यादामनुवर्तते तदा हि व्यवहारमार्गात्क्रमशो दूरतां गच्छतीति भाषातत्त्वविदां मतम्। यतो हि साधारणजनताया: प्रतिदिनव्यवहारे तादृशनिय-मनिगडिताया भाषाया निर्वाहो न भवतीति क्रमशस्तादृशे सन्धिस्थले अन्यस्या: कस्याश्चन व्यवहारोपयोगिन्या भाषाया जन्मन: सूत्रपातो भवतीति तेषां वक्तव्यम्। पूर्वं हि व्याकरणनियम-लिङ्गादिषु भूयस्तरां स्वतन्त्राया गीर्वाणगिरो व्यवहार: समभवत्। सौष्ठवबुद्ध्या शनै: शनैर्व्याकरणनियमदृढीकरणेन साहित्यमार्गस्य भूयस्तरां प्रसारेण च क्रमशोऽस्यां देववाण्यां नानाविधानां संस्काराणामाविर्भावोऽभवत्। अत एव सुतरां संस्कृता सेयं देवगवी साहित्यभाषा-गौरवपदमवाप्य क्रमशो व्यवहारपथात्ताटस्थ्यमवाललम्बे। व्यवहारार्थं च प्राकृतभाषाया जन्म समभवत्। कृततक्षणानीव असाधारणसमुज्ज्वलानि दृढसंस्काराणि चाक्षराणि स्त्रीबालादि-साधारणसमुच्चारणे न सुकराण्यभवन्निति संस्कृतरूपेषु विकृतिमुत्पाद्य संस्कृताधारेण प्राकृत-भाषाया आविर्भावोऽभवत्। यदा च पूर्वोक्तप्रकारेण प्राकृतभाषापि नानालङ्कारसङ्काशितरूपा समुज्ज्वलनेपथ्या समभवत्तदा साधारणवेषभूषाभिर्योषाभि: सम्पाद्यानि गृहव्यवहारकार्याणि यथा आनखशिखमलङ्कृताभ्य: समुज्ज्वलनेपथ्याभ्यो महिलाभ्यो विप्रकृष्टानि भवन्ति तथा शनै: शनैरियमपि भाषा व्यवहारपथात्तटस्थाभवत्। कार्यव्यवहारक्षेत्रे च अपभ्रंशभाषाया जन्म समभवत्। यदा च अपभ्रंशभाषापि शनै: शनै: सौष्ठवबुद्ध्या संस्कारैरुद्भासिता साहित्य-पुस्तकस्थभाषाभवत्तदा व्यवहारार्थं प्रादेशिकभाषाणां मूलोत्पत्तिरभूदिति जानन्त्येव तत्त्वविदो विद्वांस:। यदि हि प्राकृतं व्यवहाराद्दूरे भूत्वा पुस्तकस्था भाषा सम्पन्नाभवत् अपभ्रंशश्च व्यवहाराद्दूरे गच्छनासीत्तस्मिन्नेव समये [११५० तमे ख्रिस्तसंवत्सरे] हेमचन्द्राचार्येण प्राकृतव्याकरणं कोषश्च निरमीयत। अस्य परिशेषेऽपभ्रंशस्यापि नियमा: संस्काराश्च सङ्गृहीता इति तत्परिशीलका: परिचिनुयु:।
उपरितनेन भाषाणां विपरिवर्तनेतिहासेन तदिदमेव मे वक्तव्यं यत् पूर्णसंस्कारै: परिष्कृता पूर्णां प्रौढिं चाधिगता सेयं प्राकृतभाषा यस्मिन्समये साहित्यसिंहासनमध्यारुरोह, यश्च प्राकृतभाषाया: परमोत्कर्षस्य पूर्णो मध्याह्नकाल: समभवत्तस्मिन्नेव समये प्राकृतसाहित्यस्य चरमोत्कर्षसूचिकाया: श्रीमत्या गाथासप्तशत्या जन्म समभवत्। यावत्किल प्राकृतभाषा प्राकृतजनानां केवलं व्यवहारमात्रोपयोगिनी समभवत्, न च यावत्सेयं समर्थै: कविभिरात्मन: सरस्वतीनि:स्यन्दाय निर्वाचिताभवत्, तावन्नानया सह संस्कृतभाषाया: सङ्घर्ष: समभूत्। यतो हि चरमोन्नतिचुम्बिन्या श्रीमत्या संस्कृतसरस्वत्या सह केवलं व्यवहारसाधिकाया: प्राकृतभाषाया: का नाम तुलना? परं यदा शनै: शनैरुपचितसर्वाङ्गसौन्दर्या, समुचितै: साहित्यसंस्कारै: समुज्ज्व-लितलावण्या, सेयं साहित्यसौधमधिकर्तुं पूर्णाधिकारिणी समभवत्, राजशेखरसदृशैर्भूयोभि-र्महाकविभिर्निजप्रतिभाप्रसाराय च यदा सेयं सगौरवमधिगृहीताभूत्तदा साहित्यसौधस्य सम्मुखवेदिकायामेव द्वयोरेव भाषयो: परस्परं सङ्घर्ष: समुपस्थितोऽभूत्। साहित्यरङ्गस्थले संस्कृतभाषया सह स्पर्धासङ्कथैव प्राकृतभाषायाश्चरमोत्कर्षं पिशुनयितुमलम्। पूर्वोपन्यस्तैर्वचनैश्च द्वयोरनयो: स्पर्धा स्फुटमनुमिता भवति। ततश्च य: किल प्राकृतभाषाया: पूर्ण: समुत्कर्षकाल: स एव सप्तशत्या: सङ्ग्रहकाल इति विवेकिभिरधिगन्तव्यं भवेत्।
सातवाहन:
हालापरनामा कोऽयं सातवाहन इति निर्णयाय बहूनां संस्कृताभिज्ञानां पाश्चात्यपण्डितानां बहो: कालादभूवन्नेव गवेषणा:। तैर्यत्किञ्चिन्निश्चितं तद्धि प्रयत्नगवेषणाव्यसनिभिरभिज्ञातमेव भवेत्, परं संस्कृतविदुषां कृते तस्य दिग्दर्शनं स्वर्गीयमहामहोपाध्यायपण्डितदुर्गाप्रसादमहाभागै: पूर्वं मुद्रापितस्य पुस्तकस्य भूमिकातो भूयस्तरां भवेन्नाम। अत एवैतां भूमिकामविकलमुद्-धृतवानस्मि। अनया हि गाथासप्तशत्यां केषां केषाञ्चन कवीनां कृतय: सङ्गृहीतास्तद्विषये, तत्सङ्ग्रहीतु: शालिवाहनस्य तट्टीकाकाराणां च विषये प्रायोभूयानेव परिज्ञातव्यविषयोऽधिगतो भवेत्।
अयं किल सातवाहन: शकसम्वत्सरप्रवर्तक: श्रीमान् शालिवाहन एवेति पूर्वभूमि-कायामुद्धृतै: हैमकोषादिप्रमाणै: सुव्यक्तमेव। ततश्चास्य कालविषये निर्भ्रमं निश्चितं भवति यदयं ख्रिस्तीयसंवत्सरप्रथमशतके सम्बभूव। दक्षिणापथान्तर्गतं प्रतिष्ठानपुरमेतस्य राजधानी समभूत्। यद्धि साम्प्रतं 'पैठण’ नाम्ना प्रसिद्धम्। एतद्राज्याश्रिता गुणाढ्यशर्ववर्मप्रभृतयो भूयांसो विद्वांस: समभवन्। परमविदुषा महाकविना चानेनैव गुणाढ्येन निर्मिता बृहत्कथा, या हि भुवनविश्रुता। एतस्य कवेर्विषये गदितं गोवर्धनाचार्येण-
'अतिदीर्घजीविदोषाद् व्यासेन यशोऽपहारितं हन्त।
कैर्नोच्येत गुणाढ्य: स एव जन्मान्तरापन्न:।।’
कथासरित्सागरे यो ह्यस्य नरेन्द्रस्य वृत्तान्त: समुपलभ्यते तनेदं परिज्ञायते यदयं महीपति: पूर्वं नासीत्संस्कृतभाषाविद्वान्। एतस्या: प्रिया पट्टराज्ञा मलयवती तु संस्कृतभाषाविदुषी समभवत्। तया राज्ञया सह कदाचिज्जलकेलिमनुभवन्नयं 'मोदकैस्ताडय’ [मा उदकैस्ताडय] इति तयाऽभिहितोऽभूत्। अयं तु सन्ध्यनभिज्ञत्वात् राज्ञ्यास्ताडनाय मोदकानयनस्याज्ञां प्रददत्तया राज्ञ्या परिहस्यते स्म। अनेन परिहासेन मर्मण्यभिहत: सोऽयं सभामागत्य यावत्त्वरितं व्याकरणाध्ययनाय निजाश्रितान्पण्डितानाजुहाव। तत्र गुणाढ्यप्रातिद्वन्द्वये स्थित: शर्ववर्मा षड्भिर्मासैर्व्याकरणाध्यापनं प्रतिजज्ञे। पण्डितराजो गुणाढ्यस्तु एतावति समये व्याकरण-पाण्डित्यमसम्भवं मन्वान: 'यदि त्वं तथा कुर्यास्तर्हि प्रचलितभाषामात्रमहं त्यजेयम्’ इति सोत्तेजनं पणबन्धं चकार। भगवन्तं कार्तिकेयं परितोष्य लब्धकलापव्याकरण: शर्ववर्मा तु दिव्यप्रभावात्प्रतिज्ञातकाले सातवाहनं व्याकरणपण्डितमकरोत्। प्रतिज्ञानुसारं त्यक्तप्रचलित-भाषात्रयो गुणाढ्य: प्रतिष्ठानपुरं परित्यज्य वनवासमाश्रितो भूतभाषया बृहत्कथामुपनिबबन्ध। प्रसन्न: सातवाहनोऽपि शर्ववर्मणे गुरुरिति गौरवं प्रदाय महार्हरत्ननिचयोपहारपुरस्सरं भरुकच्छप्रदेशस्याधिपत्यं तस्मै विततार। अनेनैतत्परिज्ञायते यद् भरुकच्छप्रदेशोऽप्यस्य शासने समभूत्, यो हि साम्प्रतं 'भरोंच’ नाम्ना लोकानां परिचित:।
उपरिप्रदत्ता कथासरित्सागरकथा यदि प्रमाणकोटावुपन्यस्तुं शक्येत [डॉक्टरपीटर्सनद्वारा बुन्दीनरेशपुस्तकालयादानीते सप्तशतीपुस्तके 'इति श्रीमत्कुन्तलजनपदेश्वरप्रतिष्ठानपत्तनाधीश-मलयवतीप्राणप्रियकालापप्रवर्तकशर्ववर्मधीसखमलयवत्युपदेशपण्डितीभूतकविवत्सलहाला-द्युपनामकश्रीसातवाहननरेन्द्रनिर्मिता-’ इत्यादिपुष्पिकायां प्रमाणतया तदिदमुल्लिखितमेवेति पूर्वभूमिका द्रष्टव्या] तर्हि अनेन सुगमतया तदिदं सिध्येद् यदेष नरपति: संस्कृतवैदुष्याभावेऽपि निजाश्रितानां कविपण्डितानां सततसंसर्गात्कवितापरिचयविदग्धो रसिकश्च समभूत्। अत एव तत्कालप्रचलिता: प्राकृतकविता: सुभृशमभिनन्दन् तत्तत्कवींश्चोत्साहयन्नयं प्राकृतकवीनां कृते कल्पतरुरिव समोदमभिनन्दनभूमिरभूत्। रात्रिन्दिवं कविगोष्ठीपटिष्ठस्तन्मीमांसाभिनिविष्टतया तत्परिनिष्ठमति: सोऽयं स्वयमपि कवयति स्म, सुमधुरं च कवयति स्म। अनन्तरं तु निजदयितया प्रवर्तितोऽयं संस्कृतभाषामप्यधिजगे।
एषा किल सप्तशती तेन महीभृता निर्मितेति यत्कैश्चिदुल्लिखितं सोऽयं स्पष्टो भ्रम:। प्रत्येकशतकस्यान्ते स्वयं सप्तशत्यामेव 'रसिकजनहृदयदयिते कविवत्सलप्रमुखसुकविनिर्मिते’ इत्युपनिबद्धम्। अनेन बहूनां कवीनामत्र गाथा: सङ्गृहीता इति स्पष्टं सिध्यति। पूर्वं मया प्रदर्शितमेव, यत्कविजनानां कृते कल्पद्रुमायमानस्याऽस्य सविधे बहव: कवय: सुबहुतरं सम्मानमवाप्य आश्रयमेव जगृहु:, बहवश्च सम्मानलिप्सया दूरदूरादस्य सभामागत्य निजगुणान्प्रकट-याञ्चक्रु:। कविताकलापकोविद: सोऽयं तत्तत्कवीनां चमत्कारिणीस्तास्ता: कविता: सर्वा एव निजाश्रितैर्जनै: पत्रारूढा: कारयामास। अनन्तरं च तत्तेषां कवीनां कीर्तिस्थिरीकरणार्थं तासां कवितानां मध्ये या: किल परममेव मधुरा:, केनापि च चमत्कारेणालङ्कृतास्तादृशी: सप्तशतं कवितास्तत: सङ्ग्रहादुच्चीयन्ते स्म। अयमर्थ: सप्तशत्या: प्रथमशतकस्य तृतीयायां गाथायां स्फुटमभिव्यक्त:- 'सप्तशतानि कविवत्सलेन कोटेर्मध्ये। हालेन विरचितानि सालङ्काराणां गाथानाम्’ इति। टीकाकारै: स्पष्टं व्याख्यातम्- 'कविगाथासङ्ग्रहेण तत्कीर्तिस्थिरीकरणा-त्कविवत्सलेन हालेन शालिवाहनेन सालङ्काराणां गाथानां कोटेर्मध्ये सप्तशतानि विरचितानि। सङ्गृहीतानीत्यर्थ:।’
राजोचितसुखविलासभृता ह्येतेन महीक्षिता पूर्वसङ्गृहीतानां गाथानां सङ्कलनमात्रस्यापि परिश्रम: स्वहस्तेन नानुभूत इति स्पष्टमहमभिप्रैमि।
'अविनाशनमग्राम्यमकरोत्सातवाहन:। विशुद्धजातिभि: कोषं रत्नैरिव सुभाषितै:’ इत्यादयो बाणादीनामुक्तयस्तु केवलमौपचारिक्य:। एतस्य महीपतेरभिप्रायमवगत्य राजपरितोषलालसेन केनचिदेत्तदाश्रितेन विना तद्रुचेरनुसारं गाथानां सप्तशती एतन्नाम्नाङ्कयित्वा सङ्ग्रहीता अस्मै समर्पिता च। नास्य सङ्ग्रहस्य सातवाहनभूपति: स्वयं सङ्कलयिता। 'निजगुणश्लाघया सन्तुष्ट: सातवाहननरेन्द्रो मह्यमतिशयितां द्रव्यादिसपर्यामर्पयेत्’ इति सङ्ग्रहीतुर्लालसा स्पष्टमस्मिन्ग्रन्थेऽभिनिविष्टा-
'तव रणजलदसमयभयचलविह्वलपक्षकैनुस्रियते।
परिशेषितपद्माशैर्हंसैरिव मानसं रिपुभि:।।५/७१’
'क: स्थगयितुं समर्थोऽत्र जगति विस्तीर्णनिर्मलोत्तुङ्गम्।
हृदयं च तव नराधिप गगनं च पयोधरान्मुक्त्वा।।४/६४’
'विषमस्थितपक्वैकाम्रदर्शने ते तु शत्रुगेहिन्या।
पथिकानां क: को वा न वाऽर्थितो रुदति डिम्भे हि।।६/८५’
राजानं सम्बोध्य समुदीरिता एतदादयो गाथा: स्पष्टं सूचयन्ति यदिमा: कञ्चिद्राजान-मुद्दिश्य तत्परितोषाय तदभिमुखं सभायां पठिता:। स राजा च प्राकृतकवीनां कल्पपादपं शालिवाहनमन्तरा कोऽन्यो भवितुमर्हति। एवंस्थितौ प्राकृतकाव्यकोषस्याऽस्य निर्माता स्वयं शालिवाहन एव कथं भवितुमर्हति? न किल कीदृशोऽपि कीर्तिलोलुप: पृथिवीपाल: स्वहस्तेन स्वप्रशंसामुपढौकयेत्। न केवलं राजनाम्नैव अपि तु प्रातिस्विकरूपेण शालिवाहनस्य नाम गृहीत्वापि स्पष्टं कीर्तिसङ्कथा ग्रथिता सप्तशत्याम्-
'आपन्नानि कुलानि द्वावेव हि विदतुरुन्नतिं नेतुम्।
गौर्याश्च हृदयदयितोऽथ शालिवाहननरेन्द्रश्च।।५/६७।।’
परममार्मिकेण निखिलजनसम्माननीयेन मनस्विना शालिवाहननरपालेन स्वप्रशंसा स्वयं स्वहस्तेन लिखितेति किं कश्चित्सावधानमतिर्मानयेत्?
श्रीमदभिनन्दप्रणीतस्य रामचरितमहाकाव्यस्य द्वात्रिंशत्तमसर्गसमाप्तौ- 'हालेनोत्तमपूजया कविवृष: श्रीपालितो लालित:, ख्यातिं कामपि कालिदासकवयो नीता: शकारातिना। श्रीहर्षो विततार गद्यकवये बाणाय वाणीफलं, सद्य: सत्क्रिययाभिनन्दमपि च श्रीहारवर्षोऽग्रहीत्।।’ इति पद्यमुपलभ्यते। ततश्च श्रीपालितकविनैव स्वप्रभोर्हालस्य नाम्ना सेयं सप्तशती द्रव्यावाप्तिकामुकेन सङ्गृहीता स्यादिति पूर्वकारणै: सुस्पष्टमनुमीयते। पूर्वसंस्करणभूमिकायां स्वर्गीयैर्महाम-होपाध्यायैरपि तदेतदनुमानमनुमतमिति मीमांसनीयं मार्मिकैरेव।
हालस्य यौवनकाले निर्माणम्
सैषा सप्तशती सातवाहनस्य सततविलासविभ्रमवत्यां यौवनावस्थायां समगृह्यतेत्यपि स्फुटीभवति। यदि सेयं सातवाहनस्य प्रसादार्थमुत्तमपूजालालसेन श्रीपालितेन सङ्कलिता स्यात्ततश्चास्यां राज्ञो रुचिमनुरुध्यैव सर्वा गाथा: सङ्गृहीता भवेयु:। अस्यां चामूलचूडं शृङ्गाररस एव परिखेलति। सोऽपि साधारणो न, किन्तु प्रागाढकामिनामुत्कटसङ्गलिप्सासूचकश्चरम-सीमानमुपगत:। अत्र हि पुष्वत्यपि सङ्गार्थं सङ्गृह्यते। उत्फल्लिकया क्रीडन्त्यां बालिकायामपि विपरीतरतमुत्प्रेक्ष्यते। निभृतनिधुवनसमये उपधानार्थं किञ्चिदप्यनुपलब्धे भगवतो गणपतेर्मूतिरेव शिरस उपधानीक्रियते। सारमिदम्- यत्कुत्रचित्तु सोऽयं शृङ्गारस्तथा निरावरणो निर्मर्यादश्च भवति यथा औचित्यस्यातिक्रमसीमानमपि चुम्बति। यद्यपि तस्मिन्समये समाजस्यैव तादृशी रुचिरासीत्, नात्र कवेलं राज्ञ एव निर्देशदोष इति वक्तुं शक्येत, परमेकस्य माननीयस्य विशालराज्याधिपस्य विदुषो राज्ञ: परितोषाय तदाज्ञया निर्मिते सङ्ग्रहे समाजस्य रुचि: प्रधानी-भवेदेतदपेक्षया तस्य राज्ञ एव तस्मिन्समये वयोविशेषवशात्तादृशी रुचिरासीदित्येव साधनं युक्तिसङ्गतम्। ततश्च रतिरसतरङ्गसङ्गसंवाहित: सोऽयं नरपालस्तादृशान्येव काव्यानि तस्मिन्सम-येऽभिरोचयामासेति सिध्यति। एवंविधकाव्याभिरुचिश्च यौवन एव भवतीति सोऽयं सङ्ग्रह: सातवाहनस्य नवतारुण्यविलाससंसूचक एवेति स्पष्टमेव। अयं विषय: परस्तादपि समालोच्ये-तेत्यलं विस्तरेण।
इयं रचना भारतीयसाहित्यस्य पूर्णतादशायां निरमीयतेत्यस्या गुम्फगुणगौरवेण निर्णेयं भवेत्। प्राकृतभाषाप्येवंविधरचनाप्रकाशनेन पूर्णतममुन्मेषं गतवतीति पूर्वमुक्तमेव विस्तरत:। अत एव शालिवाहनस्य शासनं प्राकृतप्रसाराय सुप्रसिद्धं साहित्यगोष्ठ्याम्। यथा हि सरस्वतीकण्ठाभरणे-
के नासन्नाढ्यराजस्य राज्ये प्राकृतभाषिण:।
काले श्रीसाहसाङ्कस्य के न संस्कृतभाषिण:।।
आढ्यराज: शालिवाहन:। साहसाङ्को विक्रमादित्य इति टीकाकारो रत्नेश्वरमिश्र:।
प्राकृतभाषापरिग्रहणेऽपि तस्मिन्समये ह्येतत्परिचितसमाजे बौद्धमर्धस्य प्रभाव: सुतरामपगतोऽभवत्। अस्यां हि मूलादारभ्यान्तपर्यन्तं शिवपार्वत्योर्लक्ष्मीनारायणयोश्च मङ्गल-स्तुतिरूप: शृङ्गारो वर्ण्यते। स्थाने स्थाने गणपति: स्तूयते। स्थले स्थले सरस्वत्या: स्तुतिसङ्कथा प्रस्तूयते। तदेतदादिभि: सनातनार्यधर्मस्याग्रह: सुस्पष्टतरो भवति। अवश्यं बौद्धधर्मस्यापि भारते तस्मिन्समये चर्चा नासीदित्यपि न वक्तुं पार्येत। अस्ति हि बौद्धभिक्षूणामपि वर्णनमस्यां सप्तशत्याम्-
शुकमुखसच्छायै: किल पलाशकुसुमैर्विराजते वसुधा।
बुद्धस्य चरणवन्दनपतितैरिव भिक्षुसङ्घातै:।।४/८
पीतश्यामवर्णशबलानि किंशुकपुष्पाणि परितस्तथा पतितानि सन्ति यथा मध्ये आसीनस्य बुद्धस्य चरणवन्दनार्थं दण्डवत्पतिता असङ्ख्या भिक्षवो भवेयु:। श्यामवर्णानां किंशुकवृन्तानां शिर:साम्यम्, तत्पत्राणां च पीततया पीतवस्त्रसादृश्यमित्येवंरूपेण तस्मिन्समये बहुतरमावर्तमानस्य बौद्धोपदेशसमाजस्य चित्रणं तच्चर्चां स्वसहचरीं सूचयति। सहैव च बौद्धान्प्रतीर्ष्यापि समभवदित्यप्यनुमातुं शक्यते। मूलकारस्य विचारपरम्परां प्रकाशयति टीकाकार इति प्रसिद्धं वित्सु। टीकाकारश्च गङ्गाधरभट्ट: स्फुटमत्राऽऽह- 'बुद्धस्येत्युत्तरार्धमपशकुन-सूचनार्थमेवोपात्तमिति।’
किं चात्र तस्मिन्समय एव भारते प्रसृतप्रभावस्य श्रीमतो विक्रमादित्यभूपालस्य श्लेषमार्गेणाभिमुखीकृता प्रसङ्गसङ्गता युद्धकालिकी काचित्प्रसिद्धा घटना सङ्गृहीतास्ति-
ददता संवाहनसुखरससन्तुष्टेन तव करे लाक्षाम्।
विक्रमनरेन्द्रचरितं चरणेन हि शिक्षितं तस्या:।।५/६४।।
सपत्नीचरणलाक्षालाञ्छितकरं दयितं खण्डिता सेर्ष्योपालम्भमाह त्वत्कृतसंवाहनात्तुष्टेन अतएव प्रसादरूपेण त्वत्करे लाक्षां ददता (सङक्रामयता) तस्या: (सपत्न्या:) करेण विक्रम-नरेन्द्रचरितमनुशिक्षितम्। प्राकृते 'संबाहणं’ 'संवाहनं संबाधनं’ च 'लक्खं’ 'लाक्षां लक्षं’ चेति। ततश्च विक्रमादित्यो भृत्यकर्तृकेन शत्रुसम्बाधनेन तुष्ट: सन् यथा भृत्यस्य करे लक्षं ददाति तथा त्वत्करे तया लाक्षा दत्तेति भाव:।
इयं घटना तस्मिन्काले सर्वत: प्रसृताभूदिति कवयितुरक्षरशय्यायामपि सा स्थानं लेभे। ततश्च विक्रमादित्योप्येतत्कोषनायकस्य शालिवाहनस्य समकालिकप्राय एवेति स्फुटीभवति। प्रबन्धकोषेऽपि 'विक्रमादित्यसमकालीन एवायं सातवाहन:’ इति प्रोक्तमस्ति। दृश्यतां पूर्वसंस्करणभूमिकायां सातवाहनशीर्षकस्य द्वितीयं पृष्ठम्।
प्राचीनता
उपलभ्यमानेषु काव्यग्रन्थेषु गाथासप्तशती प्रायो बहुभ्य एव पुरातनी। अस्या निर्माणकाल: संवत्सराणां सहस्रद्वयीमासीदति। यत: शकसंवत्सरप्रवर्तकस्य शालिवाहनस्य समये सेयमुद्भवमग्रहीदिति पूर्वं निर्दिष्टमेव। यस्मिन्समये बहूनां सभ्यजातीनां समाजे सभ्यतादेव्याश्चरणन्यासोऽपि नाभवत्तस्मिन्नपि समये भारते एवंविधमपूर्वं ध्वनिकाव्यं निरमीयत, यत्प्रातिद्वन्द्व्यमस्मिन् सभ्यताया: पूर्णविकासमयेऽपि समये सहसा न सम्भवेत्। इदं हि काव्यं साहित्यशास्त्रस्य परिभाषितैर्लक्षणै: पूर्णतया लक्षितम्। स्थाने स्थानेऽस्मिन्नलङ्कारास्तथा वैदग्ध्येनासज्जिता यथा सेयं सप्तशतीसुन्दरी सहृदयानां प्रसह्य मनोहरणायालम्। तेऽप्यलङ्कारास्तावन्त एव विलसन्ति यावद्भिर्निसर्गसुन्दरमस्या वपुर्न भारसीमानमनुचुम्बति। प्रधानतस्त्वत्र रसस्यैव साम्राज्यं यो हि काव्यस्यात्मरूपेण सर्वै: सम्मान्यते। चेतश्चमत्कारकं किञ्चिद्व्यङ्ग्यमनुपादाय कतमञ्चिदपि पद्यं नात्रावतरतीति सपणबन्धमुद्घोषयितुं शक्येत। अत्र हि शृङ्गाररसोऽङ्गी। स हि प्राय: सर्वत्र निष्प्रतिबन्धमुत्खेलतीति स्पष्टमेव तद्विमर्शकमहाभागानाम्। रसानुसारिण: प्रसादमाधुर्यादयो गुणास्त्वेतस्या: स्तरे स्तरे भवेयुरत्र वक्तव्यमेव किम्? यत: सरसासु काव्यव्यक्तिषु तेषां साभिनिवेश: प्रवेशो नान्तरीयक एव। रसमुल्लासयन्तोऽपि रसिकान् लालसयन्तोऽलङ्कारा अपि प्राय: प्रतिपद्यमेवोद्भासन्त इति पूर्वमावेदितमेव। एवं किल साहित्य-शास्त्रस्य लक्षणीयानामङ्गानामुदाहरणभूत: सोऽयं ग्रन्थ इति स्पष्टमस्य गौरवं बुद्धेरन्त:सन्तिष्ठते। इदानीमस्माकं तस्य साहित्यस्य लक्षणशास्त्रमित: सुतमां प्राचीनं भवेत्, यद्धि अस्यां सप्तशत्यामामूलचूडमनुगम्यत इति प्रतिभावद्भिरनुमातव्यं भवेत्। यदाऽस्माकं साहित्यस्य लक्षणशास्त्राण्येवातिप्राचीनतमानि सिध्यन्ति ततस्तु लक्ष्यभूतमस्माकं काव्यवाङ्मयं तु कियत्पुरातनं सिध्येदिति स्वत एव बुद्धिमतां मतिमाकर्षेत्। यतो हि पूर्वं लक्ष्याणि काव्यान्युद्भवन्ति ततो बहुलीभूतेषु तेषु तान्युदाहरणीकृत्य तेषां गुणदोषादीन्विविच्य परतोभाविनां साहित्यसेविनां शिक्षानिमित्तं तच्छास्त्रं निर्मीयते। यथा हि पूर्वं जनसमाजे भाषा प्रादुर्भवति तदनन्तरं तस्या: संस्काराय विशृङ्खलतानिवृत्तये च व्याकरणं निर्मीयते। एष किल नवीनशिक्षा-पद्धतिमधिजग्मुषां विदुषामेव युक्तिविन्यास:। एतदनुसारमस्माकं समाजे काव्यनिर्माणयुगं कियत्पुरातनं सिध्येत्, तदपेक्षिता शनै: शनैरुपचिता सभ्यता च ततोऽपि कियत्पुरातनी भवेदिति स्वत एव सभ्यमहाभागैरनुभवनीयमापतति।
काव्यगुणसौष्ठवम्
इयं सप्तशती बहुतरं पुरातनीत्येतदपेक्षयापि सैषा काव्यगुणैर्निर्भरमभिभूषितेत्येताव-देवास्या: समुत्कर्षस्य निदानम्। शनै: शनैरुपचयमुपगता प्राकृतभाषा परमधनाढ्यया चरमोत्कृष्टया च संस्कृतभाषया सह सङ्घर्षमनुभूय कैश्चित्कविभि: संस्कृततुलनायां सेयं मधुरापि यत् पर्यगण्यत तस्य किल निदानं सप्तशतीसदृशानां ग्रन्थानामुत्पत्तिरेव। यस्मिन्समये प्राकृतभाषा संस्कृततो मधुरा पर्यगण्यत तस्मिन्प्राकृतोत्कर्षमये समये त्वियं सचेतसां हृदयदेशमधिकुर्यादेव, परं प्राकृतभाषाया: सौष्ठवप्रभावो यस्मिन्समये जनानां हृदयाच्छनै: शनैरपगच्छति स्म, तस्मिन्नपि समये सहृदयहृदये वज्रकीलोल्लिखितेवास्या: सप्तशत्या: सौभाग्यसङ्कथा न कथञ्चिदप्युन्मृष्टाभवदिति वयं जानीम:। अत एव श्रीमतीं संस्कृतसरस्वतीमेव भूमण्डलस्य सरसाहित्यसाम्राज्यसिंहासने सुस्थिरामापादयितुं प्रयतमानैरलङ्कारशास्त्रकारै: प्राकृतभाषानिबद्धापि सेयं साभिमानमुदाह्रियत। आसीत्स किल तादृश: समयो यत्तेषामधिकारे यदि संस्कृतकाव्योदाहरणान्यभविष्यंस्तर्हि न ते कथञ्चिदपि प्राकृतभाषामयीमिमामस्प्रक्ष्यन्। परं ध्वनेर्भेदानामुदाहरणानि यानि भवेयुस्तादृशानि कानिचिदन्यानि काव्यान्येव तैर्नोपालभ्यन्त। दृश्यताम्, रुद्रटमम्मट-वाग्भट-विश्वनाथादिभि: प्राय: सर्वैरेव स्वस्वसाहित्यनिबन्धेषूदाहरणतया सेयं सप्तशती पर्यगृह्यत। गुणमुग्धतया सर्वत्रैवेमामेवानुवर्तमानेन भोजेन तु सरस्वतीकण्ठाभरणे प्राय: सर्वैव सप्तशती केन केनचित्प्रसङ्गेनोदाहृता। अपि नेदमस्या: परमोत्कर्षं सूचयितुमलम्? अस्या अनुकरणेन संस्कृतेऽपि गाथासब्रह्मचारिणीभिरार्याभि: सप्तशतीमुपनिबध्नता गोवर्धना-चार्येणाप्यारम्भे 'वाणी प्राकृतसमुचितरसा.’ इत्यादिना अस्या: स्तुतिरगायि। नासीत्तस्मिन्समये प्राकृतस्य तावान्प्रसार:, परं गाथासप्तशत्यादिभि: कतिभिश्चिद्ग्रन्थै: शृङ्गार-स्योपरि तादृशी निजमुद्राऽङ्किता यया प्रभावित: श्रीगोवर्धनाचार्योऽपि अनिच्छायामपि शृङ्गारोप-निबन्धनविषये प्राकृतं स्तोतुं प्रसह्य परवशोऽभवत्। दृश्यताम्, कैरक्षरैरेष स्तौति- 'प्राकृतभाषायां समुचितो रसो यस्या: ईदृशी वाणी अर्थात् शृङ्गारप्रमेयमयी, निम्नोचितनीरा कलिन्दकन्या गगनतलमिव बलात्कारेणैव मया संस्कृतं नीता।’ 'एतादृशी वर्णना प्राकृतभाषायामेव सरसा-सम्पद्यते न संस्कृते, ततोऽपि मया बलादेव संस्कृतं प्रापितेति’ तदाशय:। टीकाकारम-हाशयोऽप्याह- 'एवं च प्राकृतकाव्ये सुरसतासम्पादनं सुगमतरम्, संस्कृतकाव्ये तत्कठिनतरमिति द्योत्यते’। संस्कृते सरसताया: सम्पादनं कठिनमेव न किन्तु कठिनतरम्। अहो प्रभाव: प्राकृतस्य।
प्राकृतभाषाया ओजोऽनुकूलाक्षरता
या किल भाषा शृङ्गारादिमधुररसवर्णनासमुचितानामक्षराणामपि कृते दरिद्रा साऽपि सुरसतासम्पादनाय परमोत्कृष्टेति गौरवगिरिशिखरमारोप्यते य: किल टवर्ग: सर्वैरपि साहित्यनिबन्धकारै: पदे पदे प्रधानतया प्रतिषिद्धस्तस्यात्राऽखडितं राज्यम् अन्येषां प्रतिषेध्यानामक्षराणां पश्चान्निर्देश:, परं टवर्गस्तु सर्वैरपि सर्वप्रथममेवोपादीयते- 'मूर्ध्नि वर्गान्त्यगा: स्पर्शा अटवर्गा:’ इत्यादि काव्यप्रकाश:। 'टवर्गवर्जितानां वर्गाणां प्रथमतृतीयै: शर्भिरन्त:स्थैश्च घटिता’ इत्यादि रसगङ्गाधर:। 'उपर्यधो द्वयोर्वा सरेफौ टठडढै: सह’ इत्यादिर्दर्पण:। एवं शृङ्गारादिषु क्रोशान् दूरे परिहरणीयष्टवर्ग: साधारणतया अस्या भाषाया: शरीरप्रविष्ट:। अत्र हि 'वर्तते’ 'वर्धते’ इति वक्तव्ये 'वट्रहि, वड्ढदि सम्पद्यते। 'स्थित:’ 'कर्षन्ती’ 'निपतम्’ इत्यादय: शब्दा: 'ठिञो’ 'कड्ढन्ती’ 'णिवडन्त’ इत्यादिरूपा: सम्पद्यन्ते। संयुक्ताक्षरबाहुल्य-मपि मधुरवर्णनायां नोपादीयते। किन्तु प्राकृते असंयुक्तमपि प्रसह्य संयुक्तं क्रियते-'व्रजति’ 'नीयते’ 'एक:’ 'लगति’ 'जाये’ इत्यादय: शब्दा: 'वज्जदि’ 'णिज्जइ’ 'एको’ 'लग्गति’ 'जाअव्व’ इत्याकारका: सम्पद्यन्ते। वर्गद्वितीय-चतुर्थाक्षरबहुला सङ्घटना तु माधुर्यगुणस्य सुतरां विप्रतीपा परिगण्यते, किन्तु प्राकृतभाषायां वर्गीयप्रथमवर्णोऽपि द्वितीय: सम्पद्यते। अत्र हि 'विस्तर:’ 'अक्षर:’ इत्यादिका: शब्दा: 'वित्थरो’ 'अक्खरो’ इत्यादिरूपे परिणमन्ते। शृङ्गारविषयेऽपि-'पथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे इत्यादिरूपं गुम्फं प्राकृते साधारणतया प्रचलितं को वा साहित्यिको न परिचिनोति। प्राकृतवादिनां मुखमुद्रैव तादृशी यत्र 'दाह:’ 'प्रथम:’ 'एतावन्मात्र:’ इत्यादिका: 'डाहो’ 'पढमो’ 'एद्दहमत्तो’ इत्यादिरूपा: परिणमन्ते। मधुरस्तवर्गान्तिमो नकारोऽपि प्राकृतभाषाप्राकारे प्रविश्य 'ण’ कार: सम्पद्यते। 'घन-स्तन-धनु:’ इत्यादिषु 'घण-थण-धणु’ इत्यादीनि रूपाणि भवन्ति। 'नयने नृत्यतस्तरुणीनाम्’ इति वक्तव्ये प्राकृतपुरे 'णअणाइं णच्चन्ति तरुणीणम्’ इति वक्तव्यं भवेत्।
'तां तमालतरुणकान्तिलङ्घिनी’मित्यादिर्यत्र मधुरो गुम्फ: शोभामुपदध्यात्, तत्र किल शृङ्गारेऽपि-'तइआ मह गंडत्थलणिमिअं दिट्ठिं ण णेसि अण्णत्तो। एह्णिं सच्चेअ अहं ते अ अवोला ण सा दिट्ठी।।’ इत्यादि बलात्प्रयोक्तव्यं भवति। केषु रसेषु कैरक्षरैरुपनिबन्धव्यमिति विषये रसगङ्गाधरे तु तावदतीव मार्मिकता प्रदर्शिता। स हि 'हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते। सेवितं सर्वसम्पद्भिरपि तद्भवनं वनम्’ इत्यादिकमप्यश्रव्यं परिगणयति। प्राचीननिबन्धेषु शृङ्गारस्योदाहरणतया सुमधुरं परिगणितम्-
'शून्यं वासगृहं विलोक्य शयानादुत्थाय किञ्चिच्छनै:’ इत्यादिपद्यमपि शृङ्गारवर्णना-विरुद्धमाह। परं यत्र काव्यप्रकाशे वर्णसङ्घटनाविषये तादृश: सूक्ष्मातिसूक्ष्मो विमर्शोनाङ्गीकृत:, यश्च 'शून्यं वासगृहम्’ इत्यादीनि काव्यान्यपि मधुराण्याह, सोऽपि टवर्गबाहुल्यं विशेषतश्च द्वितीयचतुर्थसंयोगाधिक्यं शृङ्गारादिरसेषु सुतरां विरुद्धमाह। इदानीं विचारणीयं विवेचकैर्यत्- यस्यां प्राकृतभाषायामुक्तप्रकारेण माधुर्यविरुद्धसंयुक्ताक्षरटवर्गादिबाहुल्यं यदा प्रतिपदमुपलभ्यते तदा सा कथं वा मधुरतासम्पादनाय सर्वभाषामौलिगता परिगण्यते? प्राकृतभाषायां माधुर्यगुणविरुद्धा ओजोऽनुकूला सङ्घटना बाहुल्येनोपलभ्यते इति हि मत्सदृशैरेव साम्प्रतमेवा-लोचितम्, तदपि नास्ति-
'चित्ते विहट्टदि, ण टुट्टदि सा गुणेसु सेज्जासु लोट्टदि विसट्टदि दिम्मुहेसु।
वालेम्मि वट्टदि पवट्टदि कव्वबन्धे झाणेण टुट्टदि चिरं तरुणी तरट्टी।।’
इति पद्ये योऽयमनुप्रास उपनिबद्ध: स हि टवर्गस्य शृङ्गारप्रतिकूलत्वात्केवलं वाचकं शब्दमेवालङ्करोति न पुन: पद्यस्य व्यङ्ग्यभूतं विप्रलम्भशृङ्गारमिति प्रसङ्गे काव्यप्रदीपकारेण उद्द्योतकारेण नागेशभट्टेनापि च- 'अनुप्रासो मास्तु तावद्रसोपकारक: परमत्र सर्वे वर्णा एव रसोचितसङ्घटनाप्रतिकूला:, ततश्च तादृशैर्वर्णै रसाभिव्यक्तिरेव न भवेत्। एवं च 'सन्तमपि रसं नोपकुर्वन्ति’ इत्यस्योदाहरणत्वमस्य पद्यस्यासङ्गतं स्यात्, रसस्यैवाभावात्।’ इमामरुचिं मनसि निधाय तैरुक्तम्- 'अत्र च प्रतिकूलवर्णत्वं न दोष:, प्राकृतस्यौजोगुणप्रधानत्वात्, अस्य च तदभिव्यञ्जकत्वात्’ इति। एवं स्पष्टैरक्षरैरुपवर्णितं भवति यत्प्राकृतं भवेत्तावदोजोऽनुकूल-सङ्घटनोचितं परं मधुररसोचिता सङ्घटना तु नात्र यथोचितं निर्वाह्यते इति। ननु प्राकृतभाषाया ओजोऽनुकूलसङ्घटनासंद्दब्धत्वात्तत्र शृङ्गाररस एव नाभिव्यज्यते इति तु न भ्रमितव्यम्। प्रतिकूलवर्णत्वेऽपि रसप्रतीतिस्तु भवत्येव, परम् अपकर्षोऽवश्यं भवतीति सिद्धान्तात्। उक्तं हि तत्रैव- 'वस्तुतस्तु सत्यपि प्रतिकूलवर्णत्वे रसस्य नानुत्पत्तिरेव अनुभवविरोधात्, किन्तु अपकर्षमात्रम्’ इति।
प्राकृतं कथं वा मधुरम्?
इदानीं विचारणीयम्-यस्यां भाषायां रसस्यापकर्षो भवति सैव भाषा संस्कृताद्यपेक्षयापि शृङ्गाररसवर्णनायां परमोत्कृष्टा कथमिव परिगण्यते? मा भूवन्नस्यां वर्णास्तादृग्रसानुकूला:, परमस्या: स्त्रीबालादिसकलसुबोधत्वादस्यां तादृग्दर्शनादिगभीरा विषया नोपवर्ण्यन्ते किन्तु सर्वानुरञ्जनाय शृङ्गारादिसदृशा रसा बाहुल्येन परिनिबध्यन्ते। ततश्च बहुभि: कविभिरस्यां शृङ्गारस्यैव वर्णनात् सेयं शृङ्गाररससमुचितेति प्रसिद्धिर्जाता। अत एव 'अमृतं प्राकृतकाव्य’मिति गाथायाष्टीकायां गङ्गाधरेण-'शृङ्गाररसनिर्भरत्वादमृतमिवामृतं प्राकृतकाव्यम्’ इत्युक्तम्। अत्र हि प्राकृतकाव्ये शृङ्गार: पूर्णतया परिपुष्टो भवतीत्येतावदभिव्यक्तं भवति।
संस्कृतभाषा हि गभीरान्विषयानेवाऽऽदित: समाद्रियमाणा क्रमशस्तथा गौरववाहनी सञ्जाता यदस्यां शृङ्गारो यदि वर्ण्यते तदापि मर्यादानुकूल एव। व्यङ्ग्यतया वर्णनीया अंशा न कथञ्चिदपि स्फुटतया वर्णयितुं शक्येरन्। अत एव संस्कृतभाषायां शृङ्गाररसवर्णना सार्गला भवति। प्राकृते तु स्वातन्त्र्येण शृङ्गार: समुदीर्यते। अत एव तत्र संस्कृतापेक्षयाऽधिकशृङ्गारवर्ण-नोपलम्भात् शृङ्गाररसनिर्भरत्वमुपाख्यायते लौके:। गणगौरी-श्रावणतृतीया-दीपावल्यादिषु प्राय: सर्वेष्वेव आर्याणामुत्सवेषु शृङ्गाररससंयोग: समुपलभ्यते। परं सर्वापेक्षयापि होलामहोत्सव: शृङ्गारनिर्भर: कामस्य जीवभूततया मदनोत्सव इति परमगौरवभाजनं विशेषेण शृङ्गाररससङ्गी सङ्गीर्यते। स्पष्टमेतस्य कारणं यदत्र निरर्गल: शृङ्गारोऽनुभूयतेऽनुभाव्यते च जनै:, अत एव स तादृश: शृङ्गाररसासाधारण: ख्यायते। एवमेव संस्कृतापेक्षया प्राकृते निरर्गलशृङ्गारवर्ण-नाधिक्याल्लोकानां शृङ्गारवर्णनाप्रसङ्गे प्राकृत एवाधिकं प्रीति:। सभ्यसमाजसङ्कोचेन बहिस्तादृशी प्रबलरुचिर्निजा-नुमतिर्वा कामं जनैर्न प्रकटीक्रियते परं तादृशी वर्णनाऽवश्यमन्त: करणस्य सन्तर्पिणी भवतीति प्रायोऽनुभवसिद्धम्। प्राकृतगाथासु बहुत्र प्रायस्तादृशमेव जनमनोहारि शृङ्गारवर्णनमुपनिबद्ध-मित्यग्रत: प्रसङ्गेन स्पष्टीकरिष्यामि। अत एव आर्यासप्तशतीकारस्य समये प्राकृतस्य नासीत्तादृग्गौरवम्, न चाप्यसौ स्वयमपि प्राकृतपक्षपाती आसीत्।, ततोऽपि लोकानां प्रसिद्ध्यनुसारं शृङ्गारार्थे प्राकृतमुपरितस्तुष्टाव तदपकर्षं व्यङ्ग्यविधया च सूचितवान्।
इदं किल प्राकृतसंस्कृतयोर्महत्त्वतारतम्यं गोवर्धनाचार्येण 'वाणी प्राकृतसमुचितरसे’ त्याद्यार्यायां निगूढमभिव्यक्तम्। प्राकृतपदेन-प्राकृतभाषा तथा प्राकृत: साधारणो जन इत्युभयमपि प्रतीयते। ततश्च प्राकृतलोकानां समुचित: सुखावहो रसो यस्या ईदृशी वाणी मया बलेन प्राकृतसप्तशत्याद्यवधीरणेन संस्कृतं नीता। या किल वाणी (अर्थ:) प्राकृतभाषासंद्दब्धत्वात्सा-धारणकोटिकानां जनानां प्रीतिपात्रं बभूव सैवाधुना संस्कृतिं प्रापिता उन्नतलोकानामास्वादनीया कृतेति तदाशय:। इमं व्यङ्ग्यार्थं टीकाकारपदनिर्वाहे स्थूलहस्तोऽपि आर्यासप्तशतीटीकाकारोऽ-नन्तपडितोऽपि व्यञ्जयाञ्चकार- 'एवं च प्राकृतसंस्कृतयोर्भूतलगगनतलतुल्यताप्रतिपादनेन प्राकृतात्संस्कृतेऽत्यन्ताधिक्यमावेद्यते’ इति।
किञ्च-प्राकृतभाषायां चमत्कारकवाक्यसन्दर्भाणामनुकूला: शैल्य: ('मुहाविरे’) अप्यनायासेनैव निर्वोढुं शक्यन्ते। ततश्च तादृक्शैलीनिबद्धा सेयं लोकानामधिकाधिकं प्रीतिपात्रं बभूव। विशेषतश्च शृङ्गारादिसदृशेषु मधुरेषु रसेषु शैलीबन्धबन्धुरा पदशय्या भाषां सजीवामिवोपस्थापयतीति काव्यसूक्तिस्तथा सति भूरिमनोहारिणी सम्पद्यते। यथा हि-
आम् कुलटा वयमपसर पतिव्रते ते न मलिनितं शीलम्।
न च कामयामहे किल जनस्य जायेव चन्दिलं तु पुन:।।५/१७
अत्र हि काक्वादिभिर्य: किलार्थविषये वक्तुरभिमानसूचक: कश्चिदतिशयो द्योत्यते तं हि 'आम् वयं कुलटा:। त्वं तु पतिव्रतासि!’ इत्याद्या: प्रतिदिनव्यवहारे प्रयुज्यमाना: शैल्यो भाषाचमत्कारमुखेन भूयस्तरां प्रगुणयन्तीति विमर्शनीयं मार्मिकै:। अत्रत्यश्चमत्कारो ग्रन्थान्तरेवाऽवलोक्येत।
लोकोक्तयोऽपि भाषां मधुरतरीकुर्वन्ति। तादृशी च भाषा शृङ्गाररसवर्णनायां साधारण-जननामाह्लादिनी सम्पद्यते। ता अपि सप्तशत्यां बहुत्र-
'सूचीवेधे मुसलं निक्षिपता दग्धलोकेन।
प्रिय एकग्रामेऽपि हि पूरितनयनं न दृष्टोऽपि।।६/१’
'अन्धकरबदरभाजनमिव मम लुण्ठन्ति मातरो दयितम्।
ईर्ष्यन्ति मह्यमेव च लाङ्गूलेभ्य: फणो जात:।।३/४०’
'शूर्पं दग्धं चणका न हि भृष्टा: स च युवातिगत:।
श्वश्रूर्गृहेऽपि कुपिता भूतानामिव हि वादितो वंश:।।६/५७’
चारणकविभिरादृता डिङ्गलभाषा ओजोऽनुकूलाक्षरबाहुल्याद्यथा वीरादिषु रसेषु भूयस्तरां प्रभावशालिनी सम्पद्यते तथा न शृङ्गारादिषु, यथा हि पिङ्गल- (व्रज)- भाषा। एवमेव अक्षरमाधुर्याभावेऽपि निरर्गलशृङ्गारवर्णनस्वातन्त्र्यात्- शैल्यादिनिर्वाहतो भाषामधुर्येण-समय-महिम्ना तस्यैव प्रचारबाहुल्याच्च मध्ययुगे संस्कृतापेक्षया प्राकृतमेव मधुरं पर्यगण्यतेति सारम्।
मुक्तककाव्यम्
गाथासप्तशती सङ्ग्रहकोष इति तु पूर्वमुक्तमेव। एष हि मुक्तककाव्यानां सङ्ग्रह इत्युदीर्यते। 'मुक्तकम् अन्येन नालिङ्गितम्। स्वतन्त्रतया परिसमाप्तनिराकाङ्क्षार्थमपि प्रबन्ध-मध्यवर्ति मुक्तकमित्युच्यते’ इति रूपेण लोचनकारेण लक्षितम्। एतस्य निर्माणं न साधारणस्य कवे: कार्यम्। यतो हि मुक्तकमामूलचूडं रसप्रवाहनिर्भरं भवति। तत्र हि 'सङ्घटना’ प्रतिपदं रसानुकूलैव कर्तव्या भवति। उक्तं हि आलोके-
तत्र मुक्तकेषु रसबन्धाभिनिवेशिन: कवेस्तदाश्रयम् (रसबन्धाश्रयम्) औचित्यम्। मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिन: कवयो दृश्यन्ते। यथा ह्यमरुकस्य कवेर्मुक्तका: शृङ्गाररसस्यन्दिन: प्रबन्धायमाना:१ प्रसिद्धा एव।
मुक्तके ह्येकस्मिन्नेव अपरपद्यनैरपेक्ष्येण विभावानुभावादिभि: परिपुष्टस्तावान् रसोऽभिव्यज्यते यदास्वादेन तर्पितचेतस: सहृदया: सशिर: कम्पमनुमोदन्ते। मुक्तकनिर्माण-
१. 'अमरुककवेरेक: श्लोक: प्रबन्धशतायते।’
मन्यकाव्यनिबन्धनापेक्षयापि सुतरां कठिनं भवतीति तद्विदामनुभव:। यत: किल महाकाव्य-खण्डकाव्य-आख्यायिकादिषु कथानकस्य नैपुण्येन निर्वाहे पठितुर्मानसं कथारसनिलीनतया गुणदोषादिविचारे मन्थरमेव भवति। तत्र हि कथैव चेतसस्तावत्किल वशीकारिणी भवति यावता उत्तरोत्तरघटनास्वादायोत्कण्ठितं चेत: सम्मुखापतितेषु गुणदोषादिषु गजनिमीलिकया त्वरितकारितया वा अनिच्छया यथाकथञ्चित्प्रवृत्त्यापि शीघ्रमेव कथापरिज्ञानार्थमग्रेसरं भवति। एवंविधेषु काव्येषु मध्यवर्तिन: कियन्तोऽपि श्लोकाश्चेत्सर्वात्मनोपश्लोकनीया: सम्पद्यन्ते तावतैव स प्रबन्धो लोकानामभिनन्दनीयो भवति। मुक्तकानि तु प्रत्येकपद्यान्येव स्वतन्त्राणि भवन्तीति तत्रैव रसान्वेषणलोलुपं पठितुर्मानसं व्यासज्यते, न कथा तत्रोपष्टम्भिनी भवति। अत एवोक्तं लोचनकारेण- 'पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम्’।
पूर्वापरनिरपेक्षे एकस्मिन्नेव पद्ये पठितुश्चेतश्चमत्काराय वाच्यार्थापेक्षया व्यङ्ग्यस्यैव प्राधान्यमास्थापनीयं भवति। अत एव एवंविधध्वनिपूर्णस्य काव्यस्य निर्माता 'महाकवि:’ इति व्यपदेशं लभते। उक्तं हि लोचनकारेण- 'प्रतीयमानानुप्राणित- काव्यनिर्माणनिपुणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशो भवती’ति। इदानीमालोचनीयं विवेचकैर्यद् गाथारूपाणीमानि मुक्तककाव्यानि 'महाकवि’ लेखनीप्रसूतानि सन्ति न वेति। 'मुक्तकं संस्कृतं-प्राकृताप-भ्रंशनिबद्धमिति’ तत्प्रभेदान्निर्दिशता ध्वनिकारेण प्राकृतनबिद्धं मुक्तकं गाथासप्तशतीरूपं तु स्पष्टमिव निर्दिष्टमेव, किन्त्वभ्यर्हितबुद्ध्या यत्संस्कृतमुक्तकं पूर्वं निर्दिष्टं तद्दृष्टान्तविधया च अमरुककवेर्मुक्तका: शृङ्गाररसस्यन्दिन: प्रबन्धायमाना: प्रसिद्धा इति परिगणितास्तेऽपि गाथासप्तशतीतो न पूर्वतना:। अत एव क्वचित्क्वचिद्गाथार्थमुपजीवन्तो दृश्यन्ते।