गाथासप्तशती अमरुकश्च
अमरुकशतकं हि अमरुकनाम्नो मृतस्य कस्यचिद्राज्ञ: शरीरे परकायप्रवेशविद्यया प्रविश्य भगवता शङ्कराचार्येण निर्मितमिति पण्डितसमाजे पुरातनी प्रसिद्धि:। उक्तं चापि अमरुकशतकटीकां कुर्वता देवशङ्करेण- 'क्व मे मन्दा बुद्धि: क्व च रसमयं शङ्करवचस्तथापि व्याख्यातुं तरलमनस: शङ्करकृण्तिम्’ इत्यादि। भगवत: शङ्कराचार्यस्योद्भवसमय:- ८४५ तमो विक्रमसम्वत्सर इति यज्ञेश्वरपडितेन आर्यविद्यासुधाकरे साधितम्। केचित्तु ख्रस्त्यां सप्तमशताब्द्यां शङ्कराचार्यस्योत्पत्तिमाचक्षते। यत्किञ्चिदस्तु, परं विक्रमादित्यसमकालिकात् शकप्रवर्तकात् शालिवाहनान्न स प्राचीन इति तु सर्वेऽपि जानीयु:। एवं च साहित्यनिबन्धकारेषु सुतरां प्राचीनैर्द्वनिस्थापकैरानन्दवर्द्धनाचार्यै: प्रशंसाबुद्ध्या ये किलामरुकस्य मुक्तका: श्रद्धातिशयात्पूर्वं निर्दिष्टास्तेऽपि गाथातो न प्राचीना: सिध्यन्ति। प्रत्युत तदर्थमुपजीवन्तो बहुत्रावलोक्यन्ते। एवं च अस्मिन्मुक्तककाव्यजगति एतदवधिप्रसिद्धेषु ग्रन्थेषु गाथासप्तशत्येव सर्वेषां मुक्तककाव्याना-मादिम उपजीव्यश्चेति सिध्यति। उक्तं हि कविभेदान्परिगणयता महाकविना क्षेमेन्द्रेण कविकण्ठाभरणे-
'छायोपजीवी पदकोपजीवी पादोपजीवी सकलोपजीवी।
भवेदथ प्राप्तकवित्वजीवी स्वोन्मेषतो वा भुवनोपजीव्य:।।’
तत्र भुवनोपजीव्यो भगवान्व्यासो निरदिश्यत क्षेमेन्द्रेण। ततश्च मुक्तकानां विषये प्राप्तेषु ग्रन्थेष्वयमेव व्यास इव भुवनोपजीव्य इत्यभ्युपगन्तव्यमेव भवेत्। मा भूद्विस्तर इति अमरुककृतगाथोपजीवनस्य किञ्चिदुदाहरणमधस्तान्निर्दिशामि-
कृतकस्वापनिमीलितनयन सुभग देहि मह्यमवकाशम्।
गण्डपरिचुम्बनोद्गतपुलक पुनर्नैव चिरयिष्ये।।१/१०’
[गाथा]
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्।
विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता।।७७।।
[अमरुक:]
प्रणयकुपितयोरुभयोरपि मानवतोरलीकनिद्रितयो:।
निभृतनिरुद्धश्वासाऽवहितश्रवसोर्नु को मल्ल:।।१/२७।।
अन्योन्यकटाक्षान्तरसम्प्रेषितमिलितदृक्प्रसरौ।
कृतकलहौ किल मन्ये द्वावपि सहसा समं हसितौ।।७/९९
अनयोर्द्वयोर्गाथयो2च्छाया यथा-
'एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो
रन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम्।
दम्पत्यो: शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो-
र्भग्नो मानकलि: सहासरभसव्यासक्तकण्ठग्रह:।।१९।।’
[अमरुक:]
'स्थगयिष्यामि कराभ्यां नयने तस्मिन्विलोकिते द्वाभ्याम्।
अपिधास्यामि कथं मम पुलकितमङ्गं कदम्बकुसुममिव।।४/१४
[गाथा]
'भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते।
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने।।२४।।
[अमरुक:]
दयिते प्रसीद, कुपिता का, सुतनु त्वम्, परेऽस्ति क: कोप:।
कोऽस्ति परो, नाथ त्वम्, किमिति हि, मम दुरितशक्तिरियम्।।४/८४।।
[गाथा]
'बाले, नाथ, विमुञ्च मानिनि रुषं, रोषान्मया किं कृतं
खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि।
तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते,
नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते।।५३।।
[अमरुक:]
'यत्पृच्छसि विहसन्मां तनूयते या कृते नु किं ते सा।
'प्रकृतिरसौ मे ग्रीष्मे’ हन्त भणित्वैवमवरुदिता।।७/११।।’
[गाथा]
अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात्कुतो
मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति।
तान्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्षमान्तर-
व्यापी बाष्पभरस्तया चलितया निश्वस्य मुक्तकोऽन्यत:।।४५।।
[अमरुक:]
गाथासप्तशती च आर्यासप्तशती च
अमरुशतकानन्तरो गाथासप्तशतीशैलीमुपजीव्य निर्मितो मुक्तकसङ्ग्रह: 'आर्यासप्त-शती’ नामक: प्रसिद्ध्यति। एष ह्यविकलं गाथासप्तशतीस्पर्धयेव संस्कृते समुपनिबद्ध: शृङ्गारप्रमेयमयो मुक्तकसङ्ग्रह:। शृङ्गारस्य गोप्यं वा प्रकाश्यं वा यं यं विषयमधिकृत्य गाथा निरमीयन्त तस्मिंस्तस्मिन्नेव विषयेऽत्राप्यार्या न्यगुम्फ्यन्त। तत्र सफलता प्राप्ता न वेति तु मार्मिका: सहृदया एव जानीयु:। अहमप्यग्रे द्वयोस्तुलनां यथावकाशमवतारयिष्यामि। सोऽयं मुक्तकग्रन्थो गाथासप्तशतीमवलोक्यैव निर्मित इत्यत्र न मनागपि संशयोऽवतिष्ठते। गोवर्धनाचर्येण यदा हीयं सप्तशती निरमीयत तत: पूर्वं शृङ्गारविषये प्राकृतभाषाया एव माधुर्यं लोकैर्निरचीयतेति पूर्वमुक्तमेव विस्तरत:। तमिमं प्रवादं गड्डरिकाप्रवाहं प्रमापयितुमिव संस्कृतभाषामवलम्ब्य शृङ्गारप्रमेयेषु पर्यचाल्यत लेखनी गोवर्धनाचार्येण। यद्यपि प्राक्कविनियमानुसारं प्रारम्भे शिष्टाचारानुमोदितो विनय: 'वाणी प्राकृतसमुचितरसा बलेनैव संस्कृतं नीता’ इत्यादिना वाचा प्रदर्शित: परं व्यञ्जनयात्राप्यात्मनो बहुमान: सूचित एवेति पूर्वं साधितवानस्मि। किं बहुना, प्राकृतभाषाया एव शृङ्गारविषयवर्णनायां या सफलता लोकैर्निरधार्यत तामसहमान इव संस्कृतसरस्वत्यामप्यार्यासप्तशतीं निर्मितवानसौ मुखतोऽपि स्वप्रशंसां निबबन्धैव। उक्तं ग्रन्थारम्भे-
मसृणपदरीतिगतय: सज्जनहृदयाभिसारिका: सुरसा:।
मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्या:।।५१।।
ग्रन्थाते तु स्वस्य सफलतायां हर्षगर्वोद्रिक्तमना इव स्वयमेव स्वमुखत: प्राह-
एका ध्वनिद्वितीया त्रिभुवनसारा स्फुटोक्तिचातुर्या।
पञ्चेषुषट्पदहिता भूषा श्रवणस्य सप्तशती।।६९९।।
सप्तशतीप्रशंसयाप्यपरितुष्ट: 'इयं मया कृता’ इति स्वस्य महिमानं भुवनकोषे घोषयितुं सदर्पमाह-
कविसमरसिंहनाद: स्वरानुवाद: सुधैकसम्वाद:।
विद्वद्विनोदकन्द: सन्दर्भोऽयं मया सृष्ट:।।७००।।
आसीत्सोऽपि संस्कृतमहाकवीनां समयो यत्र भूमण्डलैकमण्डनायिता अपि रसानुसारिसरस्वतीनि:स्यन्दा अपि वशीकृतवाचोऽपि कविकुलैकशेखरा: कालिदाससदृशा महाकवयोऽप्याहु:-
'क्व सूर्यप्रभवो वंश: क्व चाल्पविषया मति:’ इत्यादि। एका चेयं सरणि: प्रसृता, यां किल पण्डितराजो जगन्नाथश्चरमसीमानं नीतवानिव व्यङ्ग्यविधया- 'दिगन्ते श्रूयन्ते मदमलिनगण्डा: करटिन:’ इत्यादि संसूच्याप्यपरितुष्ट: स्पष्टं मुखतो ब्रवीति- 'वाचामाचार्यताया: पदमनुभवितुं कोऽस्ति धन्यो मदन्य:’। परमहमुत्प्रेक्षे- यदार्याकारस्य सेयमभिमानोक्ति: कदाचि-त्संस्कृतकविरङ्गस्थले नाधिकमुत्कटा परिगण्येत। यत्र किल पूर्वप्राकृतकविभिरन्यभाषाणां न्यक्कार: प्राकृतस्य चापरिसीम: सत्कार: सर्वत्रोद्घोषितोऽभूत्तत्रैव कविरङ्गस्थले यदा ह्यार्याकारेण संस्कृतसरस्वत्या अप्यधिकार: प्रमाणितो बहुष्वंशेषु सफलता च सूचिता तदा सेयमुक्तिर्मन्ये नाऽरुन्तुदा सिध्येत्। संस्कृतसरस्वत्या: सर्वतोमुखी शक्तिरिति साधितमेव गोवर्धनाचार्येण। अत एव आर्यासप्तशतीनिगुम्फनोत्तरं संस्कृतपक्षपातिन: सूरयस्तस्यामेवैकान्तप्रणयिनो बभूवु:। अन्यथा कथमिव- किन्दुबिल्वजो जयदेवकविगीतगोविन्दादौ- 'शृङ्गारोत्तरसत्प्रमेयरचनैराचार्य-गोवर्द्धनस्पर्धी कोऽपि न विश्रुत:’ इत्युच्चैरुद्घोषयेत। अस्तु, एवं सगर्वमात्मानं प्रशंसतापि गोवर्धनाचार्येण बहुत्र गाथार्थ उपजीवित इत्यधो निदर्श्यते-
गाथायां विरहोत्कण्ठिता चिरादागतं कान्तं ज्वरश्लाघाच्छलेनोपालभमानाह-
*सुखपृच्छकं सुदुर्लभजनमप्यस्माकमानयन्दूरात्।
उपकारक जीवितमपि नयन् न हि ज्वर कृतापराधोऽसि।।१/५०।।
य: सुखदिवसेषु कदाचिदपि नागच्छति ईदृशं जनं दूरादप्यत्र आनयन्तं भवन्तमभिनन्दामि। प्राणा अपि यदि गच्छेयुस्तर्हि न तेऽपराध:। गोवर्धनाचार्योऽप्याह-
'ज्वर वीतौषधबाधस्तिष्ठ सुखं दत्तमङ्गमखिलं ते।
असुलभलोकाकर्षणपाषाण सखे न मोक्ष्यसि माम्।।२४०।।
गाथा-
तं नमत यस्य वक्षसि रमामुखं कौस्तुभेऽभिसङ्क्रान्तम्।
मृगहीनं शशिबिम्बं विलोक्यते सूर्यबिम्ब इव।।२/५१
आर्याकारो जुगुम्फ-
प्रतिबिम्बतप्रियातनु सकौस्तुभं जयति मधुभिदो वक्ष:।
पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्य मुकुरमिव।।१२।।
गलितयौवनाया: स्तनाववलोक्य कश्चित्सपरिहासमाह गाथायाम्-
निबिडनिरन्तरयोरुन्नतयोर्ब्रणलब्धशोभयो: सरसम्।
कृतकार्ययो: पतनमपि रम्यं भटयोरिव स्तनयो:।।५/२७।।
अत्र हि सुभटावुपमानीकृत्य श्लेषेण स्तनयो: पतनं कृतकार्यतासूचनेन परिहासश्च वर्णित:। आर्याकार: सज्जनावुमेयीकृत्य स्तनयोर्निरन्तरसङ्गतं श्लेषेणाह-
महतो: सुवृत्तयो: सखि हृदयग्रहयोग्ययो: समुच्छ्रितयो:।
सज्जनयो: स्तनयोरिव निरन्तरं सङ्गतं भवति।।४३८।।
अस्मिन्प्रसङ्गे गाथासप्तशतीतो निदर्शनीया: संस्कृतगाथा एव बोधसौकर्यार्थमुद्ध्रियन्ते।
बीजकोषान्निर्गतं रक्तवर्णमाम्राङ्कुरं ब्रह्मसर्पस्य पुच्छसदृशमाह गाथाकार:-
दरभिन्नशुक्तिसम्पुटनिलीनहालाहलाग्रहपुच्छनिभम्।
पक्काऽऽम्रास्थिविनिर्गतकोमलमाम्राङ्कुरं पश्य।।१/६२।।
आर्याकारस्तु नवजातस्य कूर्मस्य पृष्ठास्थितो निर्गतस्य मस्तकस्य सदृशमाह। वर्ण्यो द्वयोरप्येक एव-
आम्राङ्कुरोऽयमरुणश्यामलरुचिरस्थिनिर्गत: सुतनु।
नवकमठकर्परपुटान्मूर्द्धेवोर्द्धं गत: स्फुरति।।९४।।
'त्वमनेकासु वामास्वासक्त:, अत एव महिलासहस्रभरिते तव हृदये अमान्ती स्वभावत: कृशाङ्ग्यापि सा विरहत: पुन: स्वशरीरं कृशीकरोतीति’ गाथाकार आह-
महिलासहस्रभरिते तव हृदये सुभग सा किलाऽमान्ती।
अनुदिनमनन्यकर्मा ह्यङ्गं तन्वपि तनूकुरुते।।२/८२
एतद्विपरीतमार्याकार:-पुष्टशरीरया तया एकयापि अन्तर्निखातकीलभावेन तव हृदये गुप्तं तथा स्थीयते यथाऽन्यासां नावकाश इत्याह-
प्रददाति नापरासां प्रवेशमपि पीनतुङ्गजघनोरू:।
या लुप्तकीलभावं याता हृदि बहिरदृश्यापि।।३७४।।
जालसूत्राल्लम्बमानं मर्कटकीटम् (मकडी) बकुलपुष्पसदृशमाह गाथा-
पश्यत पटलविलम्बितनिजतन्तुतलोर्ध्वपादपरिलग्नम्।
दुर्लक्ष्यसूत्रसङ्गतबकुलकुसुमममेकमिव हि मर्कटकम्।।१/६३
आर्या तु लग्नबडिशतया सूत्रसम्बद्धं कर्कटमिव तं वर्णयामास-
निजसूक्ष्मसूत्रलम्बी विलोचनं तरुण ते क्षणं हरतु।
अयमुद्गृहीतबडिश: कर्कट इव मर्कट: पुरत:।।३२२।।
अतिसूक्ष्मे जालसूत्रेऽवलम्बितस्य सङ्कोचितबहुचरणस्य मर्कटस्य दुर्लक्ष्यसूत्रप्रोतेन सूक्ष्मबहुपत्रिकेण बकुलकुसुमेन साम्यं स्वाभाविकमाहोस्वित्-दृश्यसूत्रेण स्थूलाकारेण कर्कटेनेति सहृदया एव तारतम्यं परीक्षन्ताम्। कदाचन कूपानुप्रासी भूप इव शब्द साम्यादेव 'कर्कट इव मर्कट’ इत्यवपातितो भवेत्।
प्रोषितभर्तृकया प्रथमे दिनार्ध एव 'अद्य गत: अद्य गत:’ इति बहुदिवसानुभवनीय-दु:खमनुभवन्त्या दिनगणनारेखाभिर्भित्तिश्चित्रितेत्याह गाथा-
अद्य गतोऽद्य गतो बत सोऽद्य गतश्चेति गणयन्त्या।
प्रथमे दिनार्द्ध एव हि रेखाभिश्चित्रितं कुड्यम्।।३/८
आर्या तु रेखाभिश्चित्रितां भित्तिं गण्डस्थलीमिवाऽऽह-
त्वद्गमनदिवसगणनावलक्षरेखाभिरङ्किता सुभग।
गण्डस्थलीव तस्या: पाण्डुरिता भवनभित्तिरपि।।६२०।।
सुन्दरैर्बहुभिर्युवकै: सङ्कुलेऽपि नगरे त्वां विमार्गन्ती तस्या दृष्टिर्वन इव भ्रमति। त्वामेव सा सर्वत्र पश्यति। त्वत्तोऽन्यत्र दृष्टिरेव न पतति। अत एव त्वद्विरहितं पुरं तस्या: कृते वनमिवेत्याह गाथा।
आर्याप्याह-
यून: कण्टकविटपानिवाञ्चलग्नाहिणस्त्यजन्ती सा।
वन इव पुरेऽपि विचरति पुरुषं त्वामेव जानन्ती।।४६०।।
'सा वन इव पुरे भ्रमति’- 'तस्या दृष्टिर्वन इव पुरे भ्रमतीति च द्वयोस्तारतम्यं मार्मिकैरेव वेद्यम्। कुलजनायिकाया निशि मदनकेलौ प्रागल्भ्यम्, दिने विनयभावं चाह गाथा-
आज्ञाशतानि ददती तथा रते हर्षविकसितकपोला।
प्रातस्त्ववनतवदना न श्रद्दध्म: प्रियां सेति।।१/२३
आर्याप्याह-
विनयविनता दिनेऽसौ निशि मदनकलाविलासलसदङ्गी।
निर्वाणज्वलितौषधिरिव निपुणप्रत्यभिज्ञेया।।५१३।।
आयुधव्रणकर्कशे ग्रामनायकस्य वक्षसि तज्जाया कृच्छ्रं स्वपिति, तद्रक्षिता ग्राम-सम्पत्तिस्तु निर्भयं शेते इत्याह गाथा-
प्रहृतिव्रणकिणविषमे कृच्छ्रज्जायाऽस्य निद्रितं लभते।
स्वपिति पुन: पल्ली सा सुखमुरसि ग्रामणीसूनो:।।१/३१
आर्या द्वयोरपि सुखशयनमाह-
विविधायुधव्रणार्बुदविषमे वक्ष:स्थले प्रियतमस्य।
श्रीरपि वीरवधूरपि गर्वोत्पुलका सुखं स्वपिति।।५१६।।
'याहं त्वय्यनुकूला तस्यां त्वमननुकूल:, या च सपत्नी त्वयि विरक्ता तस्यां त्वं रज्यसी’ति नायकमुपालभते गाथाद्वये नायिका-
'सा ते प्रिया त्वमसि मे, तस्या द्वेष्यस्त्वमस्यहं ते च।
बाल! स्फुटं भणाम: प्रेमेदं बहुविकारमिति।।२/२६’
'द्वेष्योऽसि हन्त यस्या: पांसुल सा वल्लभा तवाभ्यधिकम्।
इति विज्ञायापि मया दग्धप्रेम्णे न चेषर्ष्यितं जातु।।६/१०
इममुपालम्भमप्युपजिजीवार्या-
या दक्षिणा, त्वमस्यामदक्षिणो दक्षिणस्त्वमितरस्याम्।
जलधिरिव मध्यसंस्थो न वेलयो: सदृशमाचरसि।।४८०।।
पुरुषायितबन्धे श्रान्तां कान्तां नायक: सहासमाह-
शिखिपिच्छलुलितकेशे निमीलितार्धाक्षि वेपमानोरु।
दरपुरुषायितविश्रमशीले पुंसामवेहि यद्दु:खम्।।१/५२
आर्यायामप्युच्यते-
वक्ष:प्रणयिनि सान्द्रश्वासे वाङ्मात्रसुभटि घनघर्मे।
सुतनु ललाटनिवेशितललाटिके तिष्ठ विजितासि।।५२९।।
वामाक्षिस्फुरणेनानुमितकान्तागमनहर्षा प्रोषितपतिका आगते प्रिये वामनयनाय पारितोषिकं प्रतिजानीते गाथायाम्-
स्फुरिते वामाक्षि त्वयि यद्येष्यति स प्रियोऽद्य तत्सुचिरम्।
सम्मील्य दक्षिणं तत्प्रेक्षिष्येऽहं त्वयैवैतम्।।२/३७
आर्या तु वामबाहुस्फुरणादनुमितकान्तागमना शुभाख्यायिने बाहवे पूर्वमेव पारितोषिकं दत्ते-
प्रणमति पश्यति चुम्बति संश्लिष्यति पुलकमुकुलितैरङ्गै:।
प्रियसङ्गाय स्फुरितां वियोगिनी वामबाहुलताम्।।३४७।।
दुष्टवृषभस्यापि शृङ्गे निजनयनपुटं कण्डूयन्त्या गो: सौभाग्यमन्योक्तिविधया प्रोक्तं गाथायाम्-
प्रकटितमिह सौभाग्यं पश्य गवा गोष्ठमध्ये हि।
दुष्टवृषभस्य शृङ्गे कण्डूयन्त्या नयनपुटम्।।५/६०
मत्तयोर्गजयोर्मध्यस्थित्या करिण्या: सौभाग्यमन्यापदेशेनोक्तमार्यायाम्-
सौभाग्यगर्वमेका करोतु यूथस्य भूषणं करिणी।
अत्यायामवतोर्या मदान्धयोर्मध्यमधिवसति।।५९०।।
द्वयोरेकस्या: प्रणयवर्णनौचित्यं स्वत एव परीक्ष्यम्। किञ्च-मत्तवृषशृङ्गकोट्या नयनसदृशस्य मर्मस्थलस्य कण्डूयनमधिकमार्मिकम् उत मत्तयोर्मध्ये गमनमात्रमित्यपि च सूक्ष्ममीक्षणीयम्। रागभृते हृदये वसन्नपि न रक्तोऽसीति अनुरक्तया नायिकया अननुरक्तो नायक उपालम्यते गाथायाम्-
धवलोऽसि यदपि सुन्दर तदपि तु मम रञ्जितं हृदयम्।
रागभृतेऽपि च हृदये सुभग विनिहितो न रक्तोऽसि।।७/६५
अनुरक्तस्य तस्य हृदये वसन्त्यपि न रक्तासीति अननुरक्ता नायिकोपालभ्यत आर्यायाम्-
सखि लग्नैव वसन्ती सदाशये महति रसमये तस्य।
बाडवशिखेव सिन्धोर्न मनागप्यार्द्रतां भजसि।।६५५।।
अनया शैल्या नायकोऽप्युपालब्ध:-
सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम्।
सुन्दर सखी दिवसकरबिम्बे तुहिनांशुरेखेव।।६३९।।
गच्छन्तं नायकं वृतिविवरदत्तनयनतया पश्यन्ती नायिका वर्णिता गाथायाम्-
एकैकवृतिवेष्टनविवरान्तरदत्ततरललोचनया।
व्युत्क्रामति बाल त्वयि पञ्जरशकुनायितं हि तया।।३/२०
आर्याकारोऽपि तां वर्णयति-
वृत्तिविवरेण विशन्ती सुभग त्वमीक्षितुं सखीदृष्टि:।
हरति युवहृदयपञ्जरमध्यस्था मन्मथेषुरिव।।५४४।।
त्वयि सर्पति पथि दृष्टि: सुन्दर वृतिविवरनिर्गता तस्या:।
दरतरलभिन्नशैवलजाला शफरीव विस्फुरति।।२६७।।
व्याधेन वाणलक्ष्यीकृताया हरिण्या मरणसमयेऽपि प्रियं प्रत्येव दृष्टिगमनं वर्णितं गाथायाम्-
आकर्णाकृष्टनिशितभल्लकमर्माहतहरिण्या।
भविता ह्यदर्शन: प्रिय इति तु वलित्वा चिरं दृष्ट:।।६/९४
आर्याकारोऽपि तमिममर्थमवतारयति-
दृष्ट्यैव विरहकातरतारकया प्रियमुखे समर्पितया।
यान्ति मृगवल्लभाया: पुलिन्दबाणार्दिता: प्राणा:।।२८३।।
परं मृगमिथुनस्य मिथोऽनुरागवर्णनस्य परा काष्ठेव गाथायाम्-
अन्योऽन्यरक्षणाय प्रहारसम्मुखकुरङ्गमिथुने हि।
व्याधेन मन्युविगलद्वाष्पविधौतं धनुर्मुक्तम्।७/१
एतस्य व्याख्या, ध्वनिचमत्कारश्च ग्रन्थान्तरेऽवलोकनीय:। कस्याञ्चिदनुरक्तस्य निजदयितस्य विरहवेदनातिशयं दृष्ट्वा सपत्न्यपि तत्पक्षपातिनी भवतीत्याह गाथा-
सुन्दरि तथा कृते तव हालिकपुत्र: सुमहिल: क्षीण:।
दौत्यं यथास्य पत्न्या प्रतिपन्नं मत्सरिण्यापि।।१/८४
आर्यायां तु दयितप्रियाया नायिकाया विरहवेदनार्शनात्सपत्न्यस्तत्पक्षगा भवन्तीत्युच्यते-
प्रियविरहनि:सहाया: सहजविपक्षाभिरपि सपत्नीभि:।
रक्ष्यन्ते हरिणाक्ष्या: प्राणा गृहभङ्गभीताभि:।।३८०।।
मानिनी नायिका विकलं स्वहृदयमामन्त्रयते गाथायाम्-
दह्यस्व दह्यसे चेत्स्फुटसि स्फुट पच्यसेऽथ पच्यस्व।
हृदय गलिसद्भाव: परिशेषित एव स खलु मया।।५/१
आर्यायामपि दृश्यताम्-
प्रियदुर्नयेन हृदय स्फुटसि यदि स्फुटनमपि तव श्लाघ्यम्।
तत्केलिसमरतल्पीकृतस्य वसनाञ्चलस्येव।।३७७।।
अन्यदयितासमागमेऽपि पूर्वपत्न्या: स्मरणं भवत्येवेति प्रोक्तं गाथायाम्-
हृदये प्रियाऽऽस्खलति किल रममाणस्यान्यमहिलायाम्।
दृष्टे गुणे तु सदृशे ह्यदृश्यमाने गुणेऽसदृशे।।१/४४
आर्यायामप्युक्तम्-
निहितायामस्यामपि सैवैका मनसि मे स्फुरति।
रेखान्तरोपधानात्पत्राक्षरराजिरिव दयिता।।३३७।।
अगृहीतानुनयाया मानिन्या: पृष्टाभिमुखं सुप्तो नायक: श्वासैस्तां खेदयतीत्युक्तं गाथायाम्-
उष्णानि नि:श्वसन्किल शयनार्धे किमिति मम पराङ्मुख्या:।
मानसमप्यनुशयत: प्रदीप्य पृष्ठं प्रदीपयसि।।१/३३
आर्याप्येनमर्थमुपजीवति-
कृतकस्वाप मदीयश्वासध्वनिदत्तकर्ण किं तीव्रै:।
विध्यसि मां नि:श्वासै: स्मर: शरै: शब्दवेधीव।।१५२।।
प्रोषितपतिकाया अपि ते दिननिद्रा रात्रे: परपुरुषसुरतं सूचयतीत्युक्तं गाथायाम्-
अतिदीर्घास्वविनिद्रा त्वमसि भृशं हैमनीषु रजनीषु।
सुचिरप्रोषितपतिके न सुन्दरं यद्दिवा स्वपिषि।।१/६६
आर्यायामप्ययमर्थ:-
इयमुद्गतिं हरन्ती नेत्रनिकोचं च विदधती पुरत:।
न विजानीम: किं तव वदति सपत्नीव दिननिद्रा।।१०७।।
सङ्केतस्थलगमनचिह्नभूतं जम्बूदलं नायकसविधे दृष्ट्वा सङ्केते न प्राप्ता नायिका विषीदति-
श्यामाया मुखाशोभा श्यामति नयनार्द्धसमवलोकिन्या:।
जम्बूदलकृतकर्णवतंसे हलिकात्मजे भ्रमति।।२/८०
आर्यायामपि नायककरे आम्राङ्कुरं दृष्ट्वा नायिका मूर्च्छति-
कोपवति पाणिलीलाचञ्चलचूताङ्कुरे त्वयि भ्रमति।
करकम्पितकरवाले स्मर इव सा मूर्च्छिता सुतनु:।।१९०।।
एतदनुहारि 'ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरी’ त्यादि पद्यं तु प्रसिद्धमेव। दम्पत्यो: समसुखदु:खता यथा गाथायां प्रोक्ता-
समसुखदु:खसमितयो रूढप्रेम्णोस्ततस्तु कालेन।
दम्पत्योर्म्रियते यो जीवति सोऽन्यो मृतो भवति।।२/४२
तथा प्रोच्यते आर्यायामपि-
निष्कारणापराधं निष्कारणकलहरोषपरितोषम्।
सामान्यमरणजीवनसुखदु:खं जयति दाम्पत्यम्।।३३४।।
पूर्वं मुक्ता: सुन्दर्या: केशा:, पश्चाद्धम्मिल्ले भाविनो बन्धनस्य भयेेनेव बिन्दुच्छलेन रुदन्तीति स्नानसमये वर्णितं गाथायाम्-
प्राप्तनितम्बस्पर्शा: श्यामाङ्ग्या स्नानलग्नाया:।
बन्धस्येव भयेन हि रुदन्ति जलबिन्दुभिश्चिकुरा:।।६/५५
आर्यायां तु-बन्धनोत्तरं केशकलापस्य हृदयं विदीर्णमित्युच्यते-
बन्धनभाजोऽमुष्याश्चिकुरकलापस्य मुक्तमानस्य।
सिन्दूरितसीमन्तच्छलेन हृदयं विदीर्णमिव।।४०४।।
नायिका हंसीवेत्युपमा यथा गाथायाम्-
निपिबति कर्णाञ्जलिभिर्जनरवमिलितमपि हि तव संलापम्।
दुग्धं जलसम्मिलितं सा बाला राजहंसीव।।७/७६
तथा-
त्वद्विरहापदि पाण्डुस्तन्वङ्गी छाययैव केवलया।
हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया।।२५१।।
सं. गा..था. ३
नायकदत्तायां मालिकायां नायिकाया बहुमानमाह गाथाकार:-
भवता स्वहस्तदत्तां निर्गन्धामपि हि सुभग साऽद्यापि।
अवमालिकां विसर्जितनगरी गृहदेवतेव बत वहति।।२/९४
आर्याकारोऽपि तदेतन्निजुगुम्फ-
अपनीतनिखिलतापां सुभग स्वकरेण विनिहितां भवता।
पतिशयनवारपालिज्वरौषधं वहति सा मालाम्।।४६।।
प्राकृतभाषायां शृङ्गारविषये बहुत्र प्रायो निर्मर्यादतापि सञ्जातेति पूर्वमुक्तवानस्मि, अग्रेऽपि च निदर्शयिष्यामि। परम् औचित्यसारां संस्कृतसरस्वतीमाददानोऽपि गोवर्द्धनाचार्यस्तां निर्मर्यादतामप्यक्षिणी निमील्य केवलमनुचकारैव न किन्तु ततोऽप्यग्रसरो बभूवेति स्थाने स्थाने तच्चिह्नमवाप्यते। गाथासु अतिरसाकुलितानां कामुकानां पुष्पवत्या सह रतिप्रार्थनं स्पर्शलौल्यं च वर्ण्यते, किं त्वतिविदग्धतया। न तत्र प्रत्यक्षमासङ्ग: सन्दर्स्यते। यथा-
यदि लोकनिन्दितं यद्यमङ्गलं यदि विमुक्तमर्यादम्।
पुष्पवतीदर्शनमिह ददाति हृदयस्य निर्वृतिं तदपि।।५/८०
अत्र हि अतिप्रणयिना, पुष्पवत्या अपि प्रेयस्या अवलोकनं सुखावहमेतन्मात्रमुच्यते।
स्पृशसि न यदि पुष्पवतीं तिष्ठसि तत्किमिति वारित: पुरत:।
स्पृष्टोऽसि न: कराभ्यां धावित्वा चुलचुलायमानाभ्याम्।।५/८१
अत्र, यदि पार्श्वदेशं न त्यजसि तर्हि एषा त्वां स्पृशामीति केलिपरिहास: प्रोच्यते।
लोकस्ताम्यति ताम्यतु, वचनीयं भवति भवतु तन्नाम।
एहि विनिमज्ज पार्श्वे निद्रा मे नैति पुष्पवति।।६/२९
इत्यादिषु रतिप्रार्थनं सूच्यते। किन्तु गोवर्द्धन: स्पष्टमाह-
मा स्पृश मामिति सकुपितामिव भणितं व्यञ्जिता न च व्रीडा।
आलिङ्गितया सस्मितमुक्तमनाचार किं कुरुषे।।४२८
पत्यु: समक्षं कपटचेष्टया उपपतिगृहगमनं वर्ण्यते गाथायाम्-
पतिपुरत एव नीता वृश्चिकदष्टेति जारवैद्यगृहम्।
निपुणसखीकरविधृता भुजयुगलान्दोलिनी बाला।।३/३७
आर्यायां तु-
गृहपतिपुरतो जारं कपटकथाकथितमन्मथावस्थम्।
प्रीणयति पीडयति च बाला नि:श्वस्य नि:श्वस्य।।१९७।।
इति पत्युश्चक्षुषोरग्रत एव नायिकाया नि:श्वासानुभावोऽपि दर्शित:। गाथायाम्-
अयमागतोऽद्य न: किल कुलगेहादिति हि जारमसती स्वम्।
सहसाऽऽगतस्य पत्युस्त्वरितं कण्ठे नियोजयति।।४/१
इति सहसागतस्य पत्युरग्रतो जारस्य निह्नवमात्रं वर्ण्यते। किन्तु आर्याकारेण चौर्यरतस्य पराकाष्ठा दर्शिता। एष हि नायिकाया मुखादेव श्रावयति-
श्रोणी भूमावङ्के प्रियो भयं मनसि पतिभुजे मौलि:।
गूढश्वासो वदने सुरतमिदं चेत्तृणं त्रिदिवम्।।५६८।।
अन्धकाराच्छन्ने भवने शयाना पतिमहाशयस्य भुजमुपधानीकृत्य निभृतनिलीनमुप-पतिमङ्के वहन्ती सुरतोत्सवमनुभवति, स्वर्गमपि च तृणीकरोति!! सत्यमेव तादृशीनां स्वर्गो दूरतस्तिरस्कार्य एव! धन्यो गोवर्द्धनमहाभागस्य शृङ्गार! 'शृङ्गारोत्तरसत्प्रमेय-रचनैराचार्य-गोवर्द्धनस्पर्द्धी कोऽपि न विश्रुत:!!’
ग्रामनायकस्य तनयया सह हालिकनन्दनस्यासक्तिर्वर्ण्यते गाथायाम्-
मन्दमपि हलिकनन्दन इह दग्धग्रामके न जानाति।
निर्वैद्ये कं ब्रूमो गृहपतितनया विपद्यते चाद्य।।६/१००
ग्रामणीवनितापि हालिकसुते कस्मिंश्चिदनुरज्यति या हि परितुष्य प्रणयिने पाटलापुष्पाणि प्रयच्छति। तद्भ्रातृजाया च ग्रामे दुर्लभै: पाटलापुष्पैर्देवरस्य ग्रामनायकगृहासक्तिमनुमिनोति। बहुपाटलं च शीर्षे न सुन्दरं देवरस्यैतत्।।५/६९
आर्याकारमहाभागस्तु ग्रामनायकस्य वध्वा सह शून्यदेवालयवासिनो भिक्षुकस्यासक्तिं वर्णयामास-
भैक्षभुजा पल्लीपतिरिति स्तुतस्तद्वधूसुदृष्टेन।
रक्षक जयसि यदेक: शून्ये सुरसदसि सुखमस्मि।।४१५।।
'देवालये मयैकाकिना स्थीयते तत्र त्वयागन्तव्यमिति ग्रामणीवधूं प्रति ध्वन्यते’ इति तट्टीकाकारमहाभाग:। अहो धन्यं शृङ्गारे औचित्यपरिपालनम्!
गाथायां नायिकाया विवसनदर्शनं सकृद् वर्णितम्, तदप्यतिवैदग्ध्येन-
आश्चर्यमिव च निधिरिव दिवि राज्यमिवामृतस्य पानमिव।
आसीन्मुहूर्तमिह नस्तद्विवसनदर्शनं तस्या:।।२/२५
आर्याकारस्त्वतिस्फुटं नग्नशृङ्गारवर्णनं वारं वारमावर्तयति-
अम्बरमध्यनिविष्टं तवेदमतिचपलमनलघु जघनतटम्।
चातक इव नवमभ्रं निरीक्षमाणो न तृप्यामि।।६४।।
अतृप्त: पुनर्वर्णयति-
निर्भरमपि सम्भुक्तं दृष्ट्या प्रात: पिबन्न तृप्यामि।
जघनमनंशुकमस्या: कोक इवाशिशिरकरबिम्बम्।।३१९।।
पुनरपि न तृप्यामीति जल्पन् वर्णयामास-
श्लिष्यन्निव चुम्बन्निव पश्यन्निव चोल्लिखन्निवातृप्त:।
दधदिव हृदयस्यान्त: स्मरामि तस्या मुहुर्जघनम्।।५६९।।
पुनरप्यतृप्तस्तद्दर्शनेनैव निर्वाति-
ईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्या:।
च्युतवसनजघनभावनसान्द्रानन्देन निर्वामि।।१४४।।
गाथायां स्पष्टं रतिवर्णनं प्राकृतभाषामयत्वेऽपि न कुत्रचिदवलोक्येत। परम् आचार्य-महाभागस्य तथा नागरिकता यथा स्पष्टं ग्राम्यता प्रतीयते-
वीजयतोरन्योन्यं यूनोर्वियुतानि सकलगात्राणि।
सन्मैत्रीव श्रोणी परं निदाघेऽपि न विघटिता।।५२०।।
मानग्रहिलाया नायिकाश्चरणप्रणामेनाऽनुनयो यथा रसिकसमो समादृतो विलोक्यते तथैव अधीरया नायिकया कृतं ताडनमपि कविसमयसिद्धमिव इच्छया अनिच्छया वा अनादिकालादारभ्यैतदवधि सर्वैरप्यूरीकृतम्। अन्यान्येषु शृङ्गारविषयेष्वतिशयं दर्शयन्नपि गाथाकरोऽस्मिन्विषये अतिसमञ्जसतया व्यवहरति। स हि नायिकाकर्तृकं ताडनं सकृत् निबध्नाति, परम् असमञ्जसतादोषो नैनं मनागपि स्पृशति-
एकं प्रहारखिन्नं मुखमरुता वीजयन् हस्तम्।
सोऽपि हसन्त्या कण्ठे मया गृहीतो द्वितीयेन।।१/८६
नायिकया येन हस्तेन स ताडितस्तं प्रणयातिशयाद्वा, अपराधक्षमापनाय वा, नायिकामीदृशकर्मतो ह्रेपयितुं वा नायक:-'अतिनिष्ठुरस्य मे ताडनात्तव करे पीडा जाता भवेत्’ इति कृत्वा तं मुखमारुतेन फूत्करोति। इदानीं प्रणयाद्वा, कोपशान्तिवशाद्वा, कौतुकस्योत्तरे कौतुकाद्वा, नायिकापि द्वितीयेन करेण तं कण्ठे आलिलिङ्ग। सर्वाप्यसमञ्जसता आलिङ्गनपाशे निबद्धा सती मूकमुखा बभूव। किञ्च प्रहारपीडितस्य हस्तस्य मुखमारुतेन फूत्करणं स्पष्टमेव नायिकाया बाल्यचापल्यं साधयति। बालानां हि चक्षुरादिषु आघातजनितायां पीडायां जातायां फूत्कारप्रतारणेन तदाश्वासनं सुप्रसिद्धं लोके। एवं च तदिदं ताडनं कौतुकमात्रीभवत् न कस्याप्यरुन्तुदं भासेत, प्रत्युत कण्ठग्रहणाध्यवसायेन 'मधुरेण समाप्तिं’ सूचयति।
गाथातोऽनन्तरभाविनि मुक्तककाव्ये अमरुकेण तदिदं ताडनं किञ्चिदतिरञ्जितम्-
स्या वाहनीभूतोकोपात्कोमललोलबाहुलतिकापाशेन बृद्ध्वा दृढं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुर:।
भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुतिपर: प्रेयान् रुदत्या हसन्।।८।।
शनै: शनै: करस्य स्थाने पदेन ताडनमप्यनेन महाराजेनोपनिबद्धम्-
सालक्तकं शतदलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनूपुरं च।
क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्या सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे।।
शनै: शनैरेवंविधताडने रसिकतया बहुमानबुद्धिरप्युपनिबद्धा-
सालक्तकेन नवपल्लवकोमलेन पादेन नूपुरवता मदनालसेन।
यस्ताड्यते दयितया प्रणयापराधात्सोऽङ्गीकृतो भगवता मकरध्वजेन।।
एतदनन्तरम्, उत्तरोत्तरमतिशयप्रदर्शनं सूचयता गोवर्द्धनाचार्येण तु चरणप्रहारस्यापि चरमसीमा समाक्रान्ता। एष हि नायकमुखाद्भाषयति- 'त्वं कियतोऽपि चरणप्रहारान्कुरु, न मे प्रहारेभ्यो भयम्। अहं ताडयन्त्यास्ते न किञ्चिदपि दूरमपसरिष्यामि’-
कुपितां चरणप्रहरणभयेन मुञ्चामि न खलु चण्डि त्वाम्।
अलिरनिलचपलकिसलयताडनसहनो लतां भजते।।१८४।।
अमरुकेण 'प्रणयापराधादि:’ पदै: स प्रहार: प्रणयरसेन किञ्चिदार्द्रीकृतोऽपि। परम् आर्याकारेण तु-'शुष्क: पादप्रहार:’ सोऽपि शिरसि, स चापि वारम्वारेणोपनिबद्ध:-
शिरसि चरणप्रहारं प्रदाय नि:सार्यतां स ते तदपि।
चक्राङ्कितो भुजङ्ग: कालिय इव सुमुखि कालिन्द्या:।।१७०।।
गेहिन्या चिकुरग्रहसमयससीत्कारमीलितदृशापि।
बालाकपोलपुलकं विलोक्य निहतोऽस्मि शिरसि पदा।।२१६।।
यन्निहितां शेखरयसि मालां सा यातु शठ भवन्तमिति।
प्रहरन्ती शिरसि पदा स्मरामि तां गर्वगुरुकोपाम्।।४७०।।
अयं प्रसादो न यस्य कस्यचिद्भाग्ये भवतीत्याह सबहुमानम्-
कान्त: पदेन हत इति सरलामपराध्य किं प्रसादयथ।
सोऽप्यवमेव सुलभ: पदप्रहार: प्रसाद: किम्।।१८०।।
गोवर्द्धनचित्रितस्य नायकस्य ताडने तादृशी प्रबला रुचिर्यत्कौतुकात् स कान्तायै धार्मिकशिक्षामपि न ददाति यत् 'पति: स्त्रीणां पूज्यो भवति’ इति। अन्यथा शिरसि लत्ताप्रहारप्रसाद: कथमुपलभ्येत। आह स:-
आक्षेपचरणलङ्घनकेशग्रहकेलिकुतुकतरलेन।
स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनु:।। ८७।।
भाग्यवशन्नायिकैव स्वभावेन शीतला, अन्यथा शीतलायास्तस्या वाहनीभूतो नायकदेवस्तु ताडनसहने जन्मत: सिद्ध:। दृश्यताम्-
आज्ञाकरश्च ताडनपरिभवसहनश्च सत्यमहमस्या:।
न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद।।१०३।।
गोवर्द्धनाचार्यचित्रितस्य नायकस्य ताडनेन तृप्तिरेव न भवतीति प्रतीयते-
करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी।
रोषयति परुषवचनैस्तथा तथा प्रेयसीं रसिक:।।१८८।।
पूर्वं कराभ्यां, ततस्तयो: श्रान्तयो: चरणाभ्यां प्रहार आरब्धो भवति। सोऽपि च नैकत्र किन्तु 'अङ्गेषु’। मन्ये सेयं नायकदेवस्य सर्वाङ्गपूजा।
गोवर्द्धनाचार्यचित्रितमन्यदप्यौचित्यमाचम्यतां किञ्चित्। उपरित: करयो: चरणयो: काञ्च्या: हारस्य चाविरतं प्रहारा वर्षन्ति। परं नायकपुङ्गवो नायिकाया उपर्यापतित एव-
करचरणकाञ्चिहारप्रहारमविचिन्त्य बलगृहीतकच:।
प्रणयी चुम्बति दयितावदनं स्फुरदधरमरुणाक्षम्।।१७०।।
एवं प्रहारमुशलवर्षायामपि बलात्केशेषु गृह्णतो भर्तृमहाभागस्य 'प्रणयि’ पदेन व्यपदेश: केवलं पतिपर्यायतयैव। अन्यथा 'बलगृहीतकच:’ इत्यनेन बलात्स किल प्रणयिभावोऽपसार्यत एव। सत्यं त्वेतत्-यदार्यासप्तशत्यां दम्पत्येार्मध्ये नि:स्वार्थप्रेमघटना: परिगणनीया एव विलोक्येरन्। अधिकांशेष्वासङ्गलिप्सैवान्तस्तले प्रबला प्राप्येत। एतद्विपरीतं गाथासप्तशत्यामासङ्गलोलुपता अतिन्यूनतमैवालोक्येत। गाथायां प्रवत्स्यत्पतिका प्रातर्गमिष्यन्तं दयितमाकर्ण्य भविष्यन्त्या विरहवेदनया साम्प्रतमेव दु:खमनुभवन्तीव सर्वं केलिविलासादिकं नाभिरोचयति। 'अस्या रात्रेरवसानमेव न भवेत्’ एतदेवैकान्तचित्ता सा निशि भावयति-
कल्यं किल खरहृदय: प्रवत्स्यति प्रिय इति श्रुतं जनत:।
भगवति वर्द्धस्व निशे तथा, यथा कल्यमेव नोदेति।।१/४६
प्रवत्स्यत्पतिकायास्तमेनं प्रणयातिशयं कामवासनाया: सुदूरीकृत्य अलौकिकमिव चित्रयितुमिच्छति कवि:। प्रवासं गमिष्यन्दयितो यदा 'यामि’ इति मां प्रक्ष्यति, तस्मिन्काले दु:खभाराकुलं मे जीवितं कथं स्थास्यतीत्येव सा हृदये चिन्तयति-
भाविपथिकस्य जाया ह्यापृच्छनजीवधारणरहस्यम्।
पृच्छन्ती प्रतिगेहं भ्रमति प्रियविप्रयोगसहशीला:।।१/४७
गाथाचित्रितानां नायिकानां प्रियप्रवासस्य प्रथमरात्रौ नैतादृशी प्रचण्डतमा इन्द्रियोत्तेजना भवति यत्सम्पूर्णेऽपि प्रवासकाले भाविनीं सुरतानन्दकृतां त्रुटिमद्यैव पूरयेमेति विचारोऽप्युद्भवेत्। परम् आर्याचित्रिता नायिका प्रवासस्य प्रथमरात्रौ प्रवासावधिदिनानां समग्रमपि सुरतविषयक-मायव्ययजातम् (हिसाब) समीकृत्यैव विश्राम्यति-
मयि यास्यति, कृत्वावधिदिनसङ्ख्यं चुम्बनं तथाऽऽश्लेषम्।
प्रिययानुशोचिता सा तावत्सुरताक्षमा रजनी।।४३२।।
हन्त! रजनी तावद्दीर्घा नाऽभूदन्यथा कतिपयमासानामेतदृणशोधनं कृत्वैव प्रवासि-महोदयस्य गमनमभविष्यत्। दृश्यताम्-गाथावत् अत्रापि रजनीलाघवमनुशोच्यते। परम्-उभयत्र भावनाया भेद:। एकत्र विरहकातरता कारणम्। अपरत्र 'एतावतो वारान् सुरतानि नाऽभवन्’ इत्येतदनुशोचनम्। आसङ्गलिप्साप्रचण्डाया आर्याकारलेखन्यास्तावान्प्रभावो यट्टीकाकारवराकेण स्थाने स्थाने 'स्त्रीणां रतेऽत्यन्तं प्रीतिरिति भाव:’ इति विवशतया लेखितव्यमभवत्। आर्याकारलेखनीचित्रितौ नायकौ तथा कामविवशौ यथा मानमर्यादामपि विस्मरत:। यस्य किल नाम मान: [प्रणयरोष:], तत्र सर्वैरपि साहित्यकारै: कविभिश्च रतिस्तु दूरे, द्वयोर्विस्पष्टेच्छा-पूर्वकमङ्गपरामर्शोऽपि विरलस्थलेष्वेवावर्ण्यत। परम्-आर्याकारस्य मते दृढे मानेऽपि, स्पष्टमनुनयतिरस्कारेऽपि इन्द्रियोत्तेजनां तु परिसमाप्यैव नायिकानायकौ विश्राम्यत:! आर्या-गाथयोरने-नैवादर्श: स्थिरीकर्तुं शक्येत।
नायिकानायकौ द्वावपि परस्परविच्छेदस्यासहनतया मनसि मन्दीभूतमानौ स्तस्तथापि 'पूर्वमयमेव मामनुनयेत्’ इति परस्परप्रतीक्षया शयनीये मिथ्यैव निद्राभिनयं दर्शयन्तौ तिष्ठत:, किन्तु द्वावपि स्वस्वनि:श्वासशब्दमवरुध्य अन्यं प्रति दत्तकर्णौ प्रतीक्षेते यत् 'इदानीमनुन-यार्थमुद्योगो भवेत्’। हृदयान्त:, एवंविधं मानशैथिल्यं यत् अनुनयार्थं वागारम्भणस्य का कथा, यदि हस्तस्याङ्गुल्यग्रेणापि मनाक् स्पर्श: क्रियेत तदापि 'प्रथमं त्वत्कृतेनानुनयेनैव मे मानमोक्ष:’ इति मिषमादाय मानसमाप्ति: सम्मुखोपस्थितासीत्। परम्-'अपरपक्षत एव अनुनय: प्रथमं भवेत्’ इति, सूत्रमादायैव द्वावप्यन्योन्यस्य शक्तिपरीक्षां कुर्वन्तौ तिष्ठत:। कीदृशसीयमनुभवैकवेद्या सहृदयैकचित्रणीया दम्पत्योर्मानघटनास्ति, पश्यत गाथा कथमेतां चित्रयति-
प्रणयकुपितयोरुभयोरपि मानवतोरलीकनिद्रितयो:।
निभृतनिरुद्धश्वासाऽवहितश्रवसोर्नु को मल्ल:।।१/२७
इदानीमार्यां प्रति दृष्टिर्दीयताम्। ग्रहित्नमानयोर्द्वयोरपि मानस्तादृगवस्थ एव। मानो वा तस्य मर्यादा वा दूरे क्रन्दति किन्तु द्वयोर्ग्राम्यधर्मस्तु सञ्जात एव!
निशि विषमकुसुमविशिखप्रेरितयोर्मौनलब्धरतिरसयो:।
मानस्तथैव विलसति दम्पत्योरशिथिलग्नन्थि:।।३२७।।
मान: अशिथिलग्नन्थि:, किन्तु अमान: [अपरिमाण:] मकरकेतनस्तु कृतकर्तव्य एव। अहो धन्यो मान:।
गाथासप्तशती हि ग्रामे भवा: प्राकृतघटना एवाधिकं वर्णयतीति पूर्वमुक्तं वक्ष्यते च। एतस्याश्चित्राणि नातिरञ्जितानि सर्वाण्येव प्राय: स्वाभाविकानि। यथा लोके विलोक्यते तथैव सेयमङ्कयति। अयमेवार्थ: स्वत:सम्भवीति साहित्यनिबन्धकारैर्व्यपदिश्यते। अत एव ग्रामवासिनामाचारानपि सेयं यथोपलब्धानेव चित्रयति। देवरभ्रातृजाययोश्चरित्रविषये 'नूपूरौ त्वभिजानामि नित्यं पादाभिवन्दनात्’ इति रामायणीय आदर्शो ग्रामवासिषु नावलोक्यते। ग्रामवासिनीनां प्रणयगीतानि 'देवरिया’ मुद्राङ्कितान्येव बहुश: श्रूयन्ते। अत एव गाथासु देवरप्रजावत्यो: परस्परं प्रणयपरिहासोऽपि प्रकृत्यनुकारितयाऽवलोक्यते। यद्यपीदं ग्राम्यचित्रम्, तथापि तदिदं निपुणनागरेष्वपि बहुत्र दुर्लभं भवेत्। अत्र हि गाथाकारेण परमविदग्धताया: परिचय: प्रादायि। व्रजभाषाकविना श्रीमता विहारिणा गाथानुकारेण देवरप्रणयो वर्णित: परं हरिप्रकाशादितट्टीकासु स्थाने स्थाने औचित्यानौचित्यविचारो विवशतया निबन्धनीयेाऽभवत्। गाथा त्वनौचित्यं प्राचुर्येण परिहरन्ती सुविदग्धतया तदेतच्चरित्रं चित्रयति। भ्रातृजाया देवरेण सह परिहासं करोति- 'अयि देवर आकाशे अर्द्धचन्द्रदर्शनार्थं किमिति व्यग्रोऽसि। निजपत्न्या: स्तनतटे अर्द्धचन्द्राणां परम्परामेवावलोकय।’-
किमयि न देवर पश्यसि किं वाकाशं मुधा प्रलोकयसि।
जायाया भुजमूले परिपाटीमर्द्धचन्द्राणाम्।।७०।।
दृश्यतां कीदृशी वैदग्ध्यपूर्णा नर्मोक्ति:! 'गोपनीयोऽपि ते प्रियतमासमागम: स्फुटमस्मा-भिर्लक्ष्यते, अहो ते वैदग्ध्यम्!’ इति कीदृशो गूढ: परिहास:। अप्यत्र अनौचित्यस्य विलोक्यते छायापि? निपुणनागराणामपि गृहे देवरभ्रातृजाययो: प्रसिद्ध: किल परस्परं परिहास:। होलिका-महोत्सवस्य तु इमावेव अधिदेवतारूपेण विराजेते सर्वत्र।
गाथासु बह्व्यो भ्रातृजायास्त्वेवंविधा: सन्ति या अनुचितपरिहासलग्नं देवरमपि सुमार्गे आनेतुं यतन्ते-
कुड्यलिखितानि दूषितमनसो ननु देवरस्य कुलयोषित्।
दिवसं कथयति रामानुलग्नसौमित्रिचरितानि।।१/३५।।
नववयसो या नैतत्कर्तुं प्रगल्भन्ते ता वराक्य: कस्याऽप्यग्रे स्वदु:खमप्रकाशयन्त्यो मन:क्लेशात्कृशा भवन्ति-
प्रेयसि सुविषमशीले शुद्धमना देवरेऽसदृशचित्ते।
न वदति कुटुम्बविघटनभयेन तनुकायते स्नुषा किन्तु।।१/५९
अविकलं लोकचरित्रानुसरणार्थं कुत्रचित्प्रणयोऽपि वर्ण्यते, परं व्यञ्जनया। न ह्यत्र ग्राम्यधर्मस्य स्पष्टं प्रतीतिर्भवेत्कस्यचित्-
सत्यं हि कथय देवर तथा तथा चाटुकारकेण शुना।
निर्वर्तितकार्यपराङ्मुखत्वमिह शिक्षितं कस्मात्।।७/८८
नवलतिकाऽऽहतिमिच्छति यतो यतोङ्गेषु देवरो दातुम्।
रोमाञ्चदण्डराजिस्ततस्ततो दृश्यते वध्वा:।।१/२८
अत्र हि रोमाञ्चोद्गमेन देवरप्रणयोऽनुमीयते, न किन्त्वत्र ग्राम्यधर्मसङ्कथा। भोजमतेन सेयं 'चूतलतिका’ नाम्नी क्रीडा। अत्र हि 'कस्ते प्रियतम:’ इति पृच्छद्भिर्लता-द्वारा प्रियो जनो हन्यते। एवं सति सा घटनैव परिवर्तते।
अस्तु, एवं किल देवरविषयका: पञ्च गाथा:। यद्यपि-' पृष्ठं प्रोञ्छ कृशोदरि.’ ४/१३ इति गाथा देवरोक्तौ योज्यते, परं तदिदं टीकाकाराणां हस्तलाघवम्। मूले हि-'हे कृशोदरि! गृहपृष्ठे अङ्कोटतरुतलजातरतिसूचकं पृष्ठं प्रोञ्छ। अन्यथा विदग्धा देवरस्त्रियो ज्ञास्यन्ति। अन्ये गृहपुरुषा न जानीयु:, परं त्वत्समवयस्का देवरस्त्रिय: स्त्रीस्वभावात्तमेवमभिसारं परिजानीयु:।’ अत्र हि देवरेणैव सह रतिरभवदिति क्व मूलकृता प्रोक्तम्? अत एव साधारणदेवकृतरत्नावलीटीकायां [यत्र हि व्रज्याक्रमेण गाथा व्याख्याता:] पञ्चैव देवरव्रज्यायां गाथा: सन्ति, नेयम्। आर्यायां तु देवरेण सह पलालपुञ्जोपरि सुरतमेव सूचितम्-
दलिते पलालपुञ्जे वृषभं परिभवति गृहपतौ कुपिते।
निभृतनिभालितवदनौ हलिकवधूदेवरौ हसत:।।३०२।।
स्पष्टमुदीरणायां तु निवदेनीयं भवेत् यदार्यासप्तशतीचित्रित: शृङ्गारो विलक्षण एव। प्राकृते निर्भर: शृङ्गारो भवत्यत एव तत्र सुरसतासम्पादनं सुकरम्। संस्कृते तत्कठिनम्। वाणी प्राकृतसमुचित. ५२ (आर्या.) इति। एवं स्पर्द्धापारवश्येन गोवर्द्धनाचार्यमाहाभागास्तथा व्यग्रा: समभवन् यच्चरित्रादर्शविषये तेषां दृष्टिरेव नापतत्। एतच्चित्रिता नायकनायिका निर्मर्यादं खेलन्ति। यत्र स्पष्टमेव मुखत: प्रोच्यते-'स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनु:’ ८७, तत्र शृङ्गारान्धता स्पष्टमेव साधारणेनापि परिज्ञेया विश्वनाथस्तु परकीयायां नायिकायामाभासमेव मन्यते शृङ्गारस्य, परमास्तां तावानुच्च आदर्श:। अस्तु परकीयापि नायिका, परं तत्र 'रस’ ता न व्याहन्येत, औचित्यं नातिक्राम्येत्, स्पष्टमादर्शो नाध: पतेत्, अश्राव्यत्वं न भासेत्, एतत्त्ववश्यमनुसन्धातव्यं भवेत्। सिद्धान्त: किल साहित्यमार्मिकाणाम्- 'औचित्योपनिबन्धस्तु रसस्योपनिषत्परा’ निजभर्तृतो विरक्ता अन्यस्मिन्दयितेऽनुरक्ता: स्त्रियो गाथास्वापि वर्णिता एव। परं यन्मरणम्, अमङ्गलाश्लीलमिति कृत्वा कस्यचिदपि स्पष्टं न वक्तव्यं भवति, तत्र पत्न्या एव मुखात्स्पष्टं पत्युर्मरणकामना किमुचिता प्रतीयते?-
तिमिरेऽपि दूरदृश्या कठिनाश्लेषे च रहसि मुखरा च।
शङ्खमयवलयराजी गृहपतिशिरसा सह स्फुटतु।।२७४।।
'गृहपतिशिरसा सह स्फुटतु’ इति किमश्राव्यं न प्रतीयते? इयमपि 'नायिका’ नाम? अयमपि च शृङ्गार:!! 'शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्द्धनस्पर्द्धी कोऽपि न विश्रुत:’ इति पद्यखण्डं पुनर्मनस्यावर्तते!
रसाकुलिता: स्वयमाचार्यचरणास्तेषां नायको वा वक्ति-
असती कुलजा धीरा प्रौढा प्रतिवेशिनी यदासक्तिम्।
कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये।।७०।।
गाथास्वाचारोल्लङ्घनं नास्ति नेदमहं वच्मि। मन्मतेन, यत्किल वैगुर्ण्यं तदग्रत: स्पष्टीक-रिष्यामि। परमेवंविधा उत्कटा उक्तय: सर्वस्यामपि सप्तशत्यां नोपलभ्येरन्। यत्र किल चरित्रवैगुण्यं तन्मताद्भासते तत्र हि गाथाकार: स्फुटम् 'असती’ प्रभृति पदं निर्दिशति। यथा-
अयि गृहपते गतो न: शरणं रक्षैनमिति भणन्त्यसती।
सहसागतस्य तूर्णे स्वभर्तुरेव स्वजारमर्पयति।।३/९७।।
अयमागतोऽद्य न: किल कुलगेहादिति हि जारमसती स्वम्।
सहसागतस्य पत्युस्त्वरितं कण्ठे नियोजयति।।४/१ इत्यादि-
अनेन स्पष्टं प्रतीयते यदियमसतीति लोकानामनादरभाजनम्। नेयं सत्सु परिगण्यत इति नास्याश्चरित्रं लोकानामनुगम्यम्। उचितं चैतत्। यद्धि काव्यं 'रामादिवद्वर्तितव्यं न रावणादिवत्’ इति लोकशिक्षायै उपनिबद्धं तत्र स्पष्टमनाचारोद्घोष: किं श्रेयसे? यद्यपि हीनमिदं चरित्रं 'त्यक्तव्यम्’ इति लोकशिक्षायै एवोपनिबद्धमिति तत्रापि समाधातुं शक्येत। परं यावत्किल कवि: केनापि पदेन स्वस्यानभिमतिं तत्र न सूचयति तावत्स्पष्टमरुचिर्न प्रत्येतुं शक्येत। गाथासु सर्वत्रैव तथा चिह्नं निर्दिष्टं कदाचिन्न भवेत्परं बहुत्र तादृक्सङ्केतो व्यञ्जनया कृत इति मयाऽन्वभावि। दृश्यताम-
निष्पश्चिमानि. २/४१, बहलतिमिरस्य. २/६६, कार्पासवप्रकर्षण. २/६५ पानेन भोजनेन च ७/६२, इत्यादिषु विगुणचरित्रेषु असतीत्यादिररुचिमुद्रा स्पष्टमङ्कितास्ति।
आर्याकारनिबद्धाऽन्यापि शृङ्गारसूक्तिराकर्ण्यताम्-
प्रेतै: प्रशस्तसत्वा साश्रु वृकैर्वीक्षिता स्खलद्ग्रासै:।
चुम्बति मृतस्य वदनं भूतमुखोल्केक्षितं बाला।।३९५
यावत्किल अन्तिमं 'बाला’ पदं न कर्णयो: पतति तावद् अक्षरद्वयरहिता सर्वाप्यार्या भूतमुखान्निर्गच्छन्त्या उल्काया: प्रकाशे शवस्य वदनमास्वादयन्त्या: कस्याश्चन शाकिन्या भूतभामिन्या वा श्मशानविहरणवर्णनं प्रतीयते। 'बाला’ पदश्रवणेऽपि, मृतस्येतिपदेन सह यावत्प्रियस्येत्यादि विशेषणं नाक्षिप्येत तावन्मृतस्येति पदं ('मुर्दा’) शवार्थमेव बोधयेत्। एवंभयानकरसेन शृङ्गाररसस्यावतार: कथमिवाङ्गीकृत इति न जानीम:। भयानकस्य बीभत्सस्य करुणस्यैव वा यत्रैतावती सामग्री तत्र केवलं 'बाला’ कथमिव शृङ्गारं साधयतु। कियद्वा वराकी टीका समादधातु। चित्रं चित्रमियमपि बाला! अहो बालापदस्य स्वारस्यम्!
स्थूलं विषयमवलम्ब्य, एवमियं द्वयो: सप्तशत्योस्तुलनादिक्प्रकटिता। इदानीं मर्मणि निविश्य मीमांसनीयमेकमंशम् 'वर्णिका’ ['बानगी’] रूपेण निवेद्य तमिमालोचनाडम्बर-मुपसंहरामि।
गाथाया नायिका मानमुपगतापि विदग्धजनोचितया मर्यादया अतिगूढमुपालभते। सा हि नायकव्यलीकै: खेदितापि महिलाजनोचितं मार्दवं न विमुञ्चति। नागरनितम्बिनीभि-रनुवर्तनीयं नैपुण्यं न विस्मरति। तथा हि-दयितस्यान्यासक्ततया मन:खेदेन दुर्बलाया नायिकाया दयितं प्रति 'किमिति कृशासि’ इति प्रश्नस्योत्तरपाटवमाह सखी-
यत्पृच्छसि विहसन्मां तनूयते या कृते नु किं ते सा?
'प्रकृतिरसौ मे ग्रीष्मे’ हन्त भणित्वैवमवरुदिता।।७/११
समवेदनाभावेन सानुतापं प्रष्टव्यमपि य: किल हसित्वा पृच्छति, नायिका तस्मै प्रतीकाराशया अवश्यवक्तव्यमपि कार्श्यकारणं न प्रकाशयितुमिच्छति। अनुरागशून्यस्याग्रे स्वलाघवप्रकाशनेन किम्? आह सा-ग्रीष्मे एवंम्लानता मम स्वभाव एव। अत एवाहं कृशा। 'ममैव कृते दुर्बलेयमिति’ त्वमात्मन: सौभाग्यं किं बहु मन्यसे?’ अत्र व्यङ्ग्यं तु-'भवद्विरहे दौर्बल्यं वहन्त्योऽत एव भवता स्वस्मिन्नतिशयितानुरागिण्योऽनुमितास्ता एव ते विश्वासभाजन-भूतास्त्वद्गतप्राणा:। अहं तु त्वयि न स्निह्यामि। अत एव कथं मे त्वदुपेक्षया तानवं भवेत्।’ इति विपरीतलक्षणया कोपातिशयं व्यञ्जयन्त्या सुविदग्धमुपालब्धो दयित:। उपालम्भप्रदानोत्तरं रोदनेन। स्वस्य प्रणयि हृदयं स्पष्टं सूचितं यदहम्-'त्वदुपेक्षयैव दौर्बल्यातिशयात्कण्ठागतप्राणा। अत एव एवंविधप्रश्नादिभिरपि मे मर्मवेधो भवति’।
सपत्नीसविधत: समागताय दयिताय खण्डिता अतिविदग्धं सूक्ष्मं चोपालभते-
प्रत्यूषागत रञ्जितदेह प्रियालोक लोचनानन्द।
सन्नखमण्डनक नमो दिवसपतेऽन्यत्र नीतरजनीक।।७/५३
प्रियाङ्गरागसङ्क्रमणाद्रञ्जितो देहो यस्य तादृक्। यास्तव एषु दिनेषु प्रियास्तासां लोचनानन्द! [अनेन-अहं तव साम्प्रतं न प्रियेति वक्रोक्ति:] सपत्नीनखक्षतानि सबहुमानं भूषणतया वहन्! नैकद्वौ यामौ एव, अपि तु सर्वा रजनिरेव यापिता येन तादृश! अत एव दिनपते। दिनमात्रस्यैव कृते मम पतिभूत! (पातीति रक्षण-पालनमात्रकर्त:! न तु प्रमोदयित:!) इदानीं तुभ्यं नम:। तवाऽप्रियाया मे सम्प्रति त्वत्तो दूरस्थितिरेवोचिता।
इदानीं तव दर्शनमपि पुण्यमहिम्ना कदाचिदेव भवति। त्वमन्यत्रैव बहुतरा रजनीर्गम-यसि। दूरे तिष्ठतु मम कार्श्यं प्रति सहानुभूति:, परं त्वमेव सततसपत्नीगणसमागमाद्दुर्बलो जात:। तदिदं मे दु:खाय। परं किमहं कुर्याम्? न मां किञ्चिद् गणयसीत्याह सा-
अनुभूत: पूर्णदिने सकलकलापूर्ण तव करस्पर्श:।
वन्दामहे द्वितीयासङ्गकृशाङ्गाधुना चरणौ।।७/५७
हे सकलकलापूर्ण [अन्यासां सङ्गाय त्वं नानाविधाश्चातुरीरवलम्बसे इति सूचितम्] प्राकृते 'पुण्णदिअहम्मि’ इत्यस्य 'पूर्णादिवसे’ तथा 'पुण्यदिवसे’ इत्युभयोऽर्थ:। ततश्च यस्मिन्दिनेऽस्माकं तव करस्पर्शानुग्रहो जात: सोऽपि कश्चित्पुण्यदिवस एवासीत् इदानीं तु स्पर्शस्य का कथा दर्शनमपि कदाचिदेव भवति। हे चन्द्र! पूर्णिमादिवस एव तव कराणां स्पर्शोऽनुभूत:। इदानीं त्वं द्वितीयातिथे: संयोगात्कृशाङ्गोऽसि। साम्प्रतं तव चरणवन्दनस्यैव योग्यता। व्यञ्जनया तूपालभते-द्वितीयातिथे: सङ्गतस्त्वं कृशशरीरोऽसीति स्नेहवशान्मनसि खिद्यमानापि त्वयोपेक्षिताहं सम्प्रति त्वच्चरणप्रणाममेव करोमि, दूरतस्तव चरणवन्दनपूर्वकं विसर्जनमेव मे समुचितमित्याशय:। द्वितीयातिथेश्चन्द्र: अतिलालसया यथा वीक्ष्यते तथा कदाचिदेव दर्शनं प्रयच्छंस्त्वमप्यस्माकं कृते द्वितीयाचन्द्रोऽसि संवृत्त:। अहो ते मय्यनुग्रह:।
आर्यासप्तशत्या नायिका तु वल्लभस्य शरीरकृशतां वीक्ष्य वह्निरिव जाज्वल्यमाना नायकं यैरक्षरैरुपालभते तानि तां रुद्ररूपे परिणमयन्ति। आह सा-
परपतिनिर्दयकुलटाशोषित शठ नेर्ष्यया न कोपेन।
दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य।।३९३।।
परपतिषु शरीरसारशोषणान्निर्दया या: कुलटा: [या: किल न त्वय्येव परमनेकेषु पुरुषेषु रता:] ताभि: हृतशरीरसारतया शोषित। किञ्च कपटवचनैर्व्यामोहकतया हंहो शठ! ईर्ष्यया कोपेन वा नाहं रोदिमि, किन्तु त्वयि येयं मे ममता तत्सन्तप्ताहं त्वत्कृशतां वीक्ष्य रोदिमि। त्वां प्रत्यहं क्षीयमाणमालोक्य पुटपाकं दह्यमानाहं परवशा रोदिम्येव। प्रत्यहं लुप्यमानसारं त्वामनुरोदिम्येव। किमन्यत्कुर्याम्?
इदानीमार्यासप्तशतीचित्रिताया नायिकाया उपालम्भोऽपि श्रवणीय:- प्रत्यूषागते-त्यादिगाथायां यथा सूर्यविषयकं वाच्यार्थं सूचयन्ती व्यञ्जनया नायकमुपालभते, अत्राप्यविकलं सैव गाथाऽनुकृता। आह सा-
कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप।
रविरिव यन्त्रोल्लिखित: कृशोऽपि लोकस्य हरसि दृशम्।।१६५।।
तत्र नखभूषण अत्र 'कररुहशिखानिखात’। तत्र अन्यत्रक्षपितशर्वरीक, अत्र 'रजनि-दुरवाप’। तत्र प्रत्यूषागत, अत्र 'भ्रान्त्वा विश्रान्त’ [रात्रौ अन्यत्र भ्रान्त्वा प्रातर्गृहे आगत!] आर्यायां नवीनोऽर्थ: 'तेजोबाहुल्येन वीक्षितुमशक्य: सूर्यस्त्वष्ट्रा यन्त्रेणोल्लिखित सन्नल्पतेजस्कतया यथा लोकदृग्विषयोऽभवत्तथा त्वमपि सततसमागमेन कृशोऽपि सपत्नीलोकानां दृष्टिं लोभयसि।’ एतस्य मूलं गाथायां दृश्यतां 'प्रियालोकलोचनानन्द’ इति। 'भवेत्प्रेयसीनामेव लोचनानि साम्प्रतमानन्दयसि। मम न भाग्यं यद्दर्शनं ते भवेत्। रात्रौ सूर्यस्यादर्शनं यथा स्वाभाविकं तथा रात्रौ ते दर्शनाभाव: स्वाभाविक एवेति गूढोऽभिप्राय:। आर्यायां किलोपालभ्याम्-'त्वं रात्रौ सपत्नीषु भ्राम्यसि। तत्सङ्गाद्दुर्बलो जात:। त्वं दुर्बलोऽन्याभ्य एव रोचसे न मह्यम्।’ इदानीं गाथायामुपालम्भेन तुलनीयमेतत्। प्रत्येकमपि विशेषणमुपालम्भं प्रगुणीकरोति। आर्यायां यानि विशेषणानि तानि तु सन्त्येव। ततोऽधिकं 'रक्तदेह’ इति। इतोऽप्यधिकं सर्वस्याप्युपालम्भस्य मौलिकभूतं 'दिनपत’ इत्यामन्त्रणम्। 'त्वं मया सह पतिपत्नीसम्बन्धं दिनमात्रस्यैव रक्षसि। रात्रौ अन्यत्रैव स सम्बन्धो भवतीति प्रत्यक्षमस्फुटोऽपि कियन्मर्मस्पृगुपालम्भ:। किञ्च-'यन्त्रोल्लिखित’ इत्यस्य प्रतिबिम्बकोटौ 'कररुहशिखानिखात’ इत्यपि न तथाऽर्थसमर्पक:। 'कररुहाणां शिखाभिर्निखात’ इत्यत्र क्षतार्थे निखननमेव तावदप्रतीतम्। निखननं हि भूमौ प्रोथनार्थे (निधानार्थे) प्रयुज्यते। अस्तु यदि क्षतार्थेऽपि स्वीक्रियेत तर्ह्यपि 'सूर्यो यथा त्वष्ट्रा यन्त्रेणोल्लिखित:, तथा 'कररुहशिखाभिर्निखात!’ इत्यर्थसिद्धौ नायिकानखानां कियद्दीर्घता तीक्ष्णाग्रता छिदुरता च कल्प्या स्यात्! एवं सति सा विलासिनीषु परिगण्येत उत किष्किन्धावासिनीषु? गच्छतु वा पदपरामर्शस्य कथा। परमुपालभ्येऽर्थे य उत्कर्ष: स मार्मिकैर्गूढमास्वादनीय एव। एवं गाथानुकारेणार्थमुपनिबध्नन्नपि कथमिव पश्चात्पदो भवत्यार्याकार इति विमृश्यताम्। दृश्यतां चाधुना औचित्यस्य कथा। यत्र हि गाथायाम्- 'द्वितीयस्या: सङ्गेन त्वं कृशोऽसीति स्नेहवशान्मनसि खिद्यमानापि त्वदुपेक्षिताहं सम्प्रति दूरतश्चरणप्रणाममेव करोमि’ इति विदग्धमुपालभ्यते, तत्र आर्यायां कृशतामेव कारणीकृत्य नायिका रौद्ररूपं धारयति- परपतिनिर्दय. (३९३)।
एवं प्रतीयते, यदतिक्रोधेन आर्यावर्णिता नायिका स्वस्य पत्नीत्वमेव किं निसर्गमार्द-वानुरोधि स्त्रीत्वमपि विस्मरति। अन्यथा 'कुलटाशोषित! शठ!’ इत्यादिपदानि कथं मुखादुद्गच्छेयु:। किञ्च 'रोदिमि तव तानवं वीक्ष्ये’त्यभिक्रोशस्तु स्पष्टं जदृगुर्जरीणां भर्तृकलहकेलिं चित्रयति।
द्वितीयासङ्गकृशाङ्गेत्यपूर्वश्लेषानुप्राणित: सोऽयं गाथावर्णितश्चन्द्रोपमार्थोऽप्यार्या-कारेणोपजीवित:- 'सत्यं मधुरो.’ (६८२)। अत्र हि-माधुर्यादिगुणविशिष्टोऽपि दयितो द्वितीयां स्त्रियं तथा न जानाति यथा तादृशगुण: प्रतिपच्चन्द्रो द्वितीयातिथिमिति प्रियस्य परस्त्रीविमुखत्वेन निजवश्यता सूचिता। गाथायां त्वन्यासक्तं दयितं प्रत्युपालम्भ इत्यर्थपरिवर्तनम्। किञ्च श्लेषमार्गेण प्रियस्य चन्द्रसादृश्यं साधयन्त्येकाऽन्यापि गाथा दृश्यते- 'दृश्यमानो नयनसुखो. ५/२१।’
एवमनयो: सप्तशत्यो: किञ्चिद्वृत्तमावेदितम्-
सूक्तिक्षोदनमेतद्धि तारतम्यविनोदनम्।
गोवर्द्धनोऽन्यथा कस्य भवेन्नानन्दवर्द्धन:।।
गाथासप्तशती 'बिहारीसतसई’ च
व्रजभाषाया: साहित्यं संस्कृतसाहित्यमुपजीव्यैव सम्पन्नमिति सर्वेऽपि स्वीकुर्वन्ति। अत एव व्रजभाषायां दोहाछन्दस्सु मुक्तककाव्यनिर्माता विहारिमहाभागोऽपि यदि गाथासप्तशती-अमरुशतक-आर्यासप्तशतीप्रभृतीन्युपजिजीव तर्हि किं वाधिकम्। अतिप्राचीना या हि गाथासप्तशती अमरुकप्रभृतिभि: सुप्रथितै: संस्कृतनिबन्धकारैरप्याश्रिता तर्हि व्रजभाषाया: कवयितु: पक्षे नेदमवधीरणायै। विहारिमहाभागस्य कृतिर्गाथासप्तशतीप्रभृतिभ्य: संस्कृत-काव्येभ्य: सुबहुतरमर्वाचीना। प्राक्तना भाषाकवय: संस्कृतसाहित्याध्ययनेन प्रोज्जृम्भितप्रतिभा एव स्वावलम्बितभाषाया: सूक्तिगुम्फने साफल्यमवापु:। अत एवैषां रचनासु संस्कृतनिबन्धाश्रय एव प्रधानमवलम्बनमभूत्।
विहारिणा येषां संस्कृतमहाकवीनामर्थ उपजीवितस्तान्प्रति निजरचनायां वचसा विनय: कामं न प्रकटितो भवेत्परं मनस्यवश्यमेषामुपकारकार्तज्ञ्यं स्यादिति को वा न मन्वीत। किन्तु साम्प्रतिका: केचन समालोचकचूडामणयो विहारिकृतेर्गाथादिभिस्तुलनां कुर्वन्त: स्थाने स्थाने 'वर्ण्यविषय: स्वायत्तीकृत:’ ['मजमून छीनलिया’] 'क्रोशान् पश्चात्त्यक्ता:’ [कोसों पीछे छोड दिया’] इत्यादिकमुत्कर्षं नाटयन्ति। अस्तु. सम्यगेवेदम्। स्ववर्ण्यस्य प्रशंसागीति: स्थान एव। किन्तु साहित्यरङ्गस्थले द्वयोस्तत्त्वमीमांसायां कस्याऽत्रोत्कर्ष इति निष्पक्षपातमालोच-नीयमेव भवेत्। बहुतरं सम्भवो यद् गाथाकारादिभिर्या किल नवीननवीना कल्पना स्वयं स्वप्रतिभयोद्भाविता, पूर्वसिद्धां तामविकलमुपजीव्य तदर्थाहरणोत्तरं तत्सम्बन्धे विहारिणा काचन समञ्जसतापि सम्पादिता स्यात्। परं येन महाकविना नवीना सा कल्पना स्वयमाविष्कृता तस्योत्कर्ष:, आहेास्विद्येन तां कल्पनां भित्तीकृत्य यत्किञ्चिन्नवीनमुदितं तस्य? एकश्चित्रकार: शून्यायां भित्तौ शास्त्रोक्तं तत्परिशोधनं विधाय, तदुपरि सूत्रेण मानरेखा: समुत्कीर्य, इदम्प्रथमतया नानारङ्गै: सुमनोहरं चित्रमुद्भावयति, नानाभावांश्च तत्र प्रकटयितुमात्मकलापाटवं प्रदर्शयति। अन्यस्तु कश्चिच्चित्रकार: पूर्वचित्रकारेण लिखिते सिद्धे तस्मिंस्त्रिमश्चित्रे यत्किञ्चित्पुष्पपत्रादिकं वा रेखाबिन्द्वादिकं वा स्वलेखन्योत्कीर्य तच्चित्रं लोकानां दृष्टौ मनोहरीकुरुते। इदानीं द्वयो: कृतिता निष्पक्षपातया दृशा समीक्षणीया भवेत्। येन हि तच्चित्रमिदम्प्रथमतया स्वप्रतिभया उद्भावितं तस्य महत्त्वमुत येनैकद्वे पुष्पपत्रे तत्रालिखिते तस्य गौरवम्?
किञ्च समालोचकमहाभागेन विहारिकृतौ- 'कीदृशं मनोहरं पदम्’ 'अहो कीदृशी सूक्ति:!’ ['मरगजे’ चीरने दोहेको चमका दिया है 'सबै मरगजे मुँह किये वहै मरगजे चीर ३३३’ 'सुजान’ पद कविता की जान है। 'चितवन’ तुम्हारी चितवन की ताब भला कौन ला सकता है 'वह चितवन औरै कछू जिहिँ बस होत सुजान ६७१’] इति प्राय: शब्दगतं माधुर्यमेव साधितं सर्वात्मना। परं बहुत्र ध्वनिकृतं यद् गाथाया महत्त्वं तत्प्रति दृष्टिरेव न कृता, प्रत्युत आलोचनायामुर्दूमिश्रभाषाचमत्कारमात्रेण वाचकानां मन आच्छिद्य ध्वनिविचारं प्रत्यवधानमेव तिरोधातुं चेष्टितम्। गाथाया: किल ध्वनिकृतमेव महत्त्वमिति न विस्मर्तव्यं भवेत्। एनं गुणमुद्दिश्यैव संस्कृतभाषापक्षपातिभिरपि साहित्यनिबन्धकारै: सेयं सप्तशती स्वनिबन्धेषूदाहरणरूपेण परिगृहीतेति पूर्वमुक्तवानस्मि। भाषा हि विचाराणां बाह्यं परिधानमात्रम्। समयपरिवर्तनेन भाषां प्रति लोकानां मनोरुचि: परिवर्तमाना दृश्यते। एक: स समय आसीद्यत्र वैदिकभाषायां कृतसंस्कारतया सुभृशं परिमृष्टरूपया श्रीमत्या संस्कृतभाषया संस्कृतेत्यमरगिरेति च गौरवमासादितम्। तदनन्तरं सोऽपि समय आजगाम यत्र संस्कृतभाषा अमधुरा, प्राकृतभाषा च सुमधुरा पर्यगण्यत! इदानीं वयमिममपि समयमवलोकयामहे यत्र प्राकृतमप्यवहेल्य- 'गाथ मरगजे मुंह करी वहै मरगजे चीर’ [मर्द्दितवस्त्रेण गाथाया मुखमर्दनं कृतम्] इति जनसमाजादाकर्णयाम:। परं नात्र व्यामुह्यते तत्त्वपरिशीलकै:। भाषा किल रुचिमनुसृत्य समयानुरोधेन परिवर्तते, किन्तु कवितायां य: किल व्यङ्ग्यार्थकृतो जीवभूतश्चमत्कार: स किल युगपरिच्छेदशून्य: सर्वदैव जनेभ्य: सत्कारमवाप्तवान्, अवाप्नुते, अवाप्स्यते च। 'उक्तिविसेसो कव्वो भाषा जा होइ सा होइ’ इति केन वा न विदितम्।
अस्तु. आलोचनायां कया वा दृष्ट्या समीक्षणीयमिति स्वावलम्बितां दिशं प्रदर्श्य-विहारिकृतं गाथार्थोपजीवनमुल्लिखाम्यधस्तात्। स्थाने स्थाने आलोचनाया उपरि मत्कृता टिप्पण्यप्युल्लिखिता। अयं विषयो मत्कृतसाहित्यवैभवस्य 'विहारिविलासे’ [यत्र विहारि-दोहानां संस्कृते समपद्यानुवाद:] जयपुरवैभवस्य भूमिकायां चाप्यालोचित:।
गाथापेक्षया विहारिकृतेरुत्कर्षं साधयत: समालोचकचूडामणे: प्रथमं पद्यम्-
नहि पराग नहि मधुरमधु नहि विकास इहिं काल।
अली कलीही तैं बँध्यो आगे कौन हवाल।।
अत्र हि 'जाव ण कोसविकासम्.’ इत्यादिपञ्चमशतकस्थचतुश्चत्वारिंशत्तमगाथात उत्कर्ष: साधित:। अस्य प्रत्यालोचना (५/४४) गाथायां मया हि मत्कृतटीकायां विस्तृत्य कृतेति तत एव मार्मिकैस्तत्तत्त्वमधिगन्तव्यम्, किं वात्र पुनरुक्त्या।
आलोचनायां द्वितीयं पद्यम्-
'तीज परब सौतिन सजे, भूषन बसन सरीर।
सबै मरगजे मुँह करी, वहै मरगजे चीर ।।३३३।।’
[श्रावणतृतीयोत्सवे सपत्नीभिरङ्गकेषु भूषण-वसनान्यासञ्जितानि। परं नायिकाया रतिमर्दितेन तेन वस्त्रेण सर्वा अपि ता: (शृङ्गारिता: सपत्न्य:) 'मरगजे मुँह’ (विच्छायवदना:) कृता:। रात्रौ प्रियसम्भोगेन विलुलितवसनाया अस्या: प्रियतमस्वाधीनीकरणरूपं सौभाग्यं विलोक्य-एतदवधिप्रियसौभाग्यवञ्चितानि विफलप्रायाणि भूषणवसनानि साम्प्रतं प्रियप्रसाद-नेच्छया कुर्वत्यो विवर्णवदना अभवन्नित्याशय:] मुखमालिन्येन नायिकां प्रतीर्ष्या व्यज्यते। तथा च प्रियतमालम्बना रति: पुष्यतीति विहारितात्पर्यम्।
यस्या गाथाया अत्र छाया गृहीता सा किल-
उत्साहरभसमज्जनविमण्डितानां क्षणे सपत्नीनाम्।
कथितमिव मज्जनाऽनादरेण सौभाग्यमार्यया नूनम्।।१/७९
मज्जनप्रसाधितानामस्माकं प्रियो वश्य: स्यादित्युत्साहजनितेन रभसेन यन्मज्जनं तेन प्रसाधितानां सपत्नीनां मध्ये, क्षणे उत्सवदिवसे आर्यया गुणौदार्येण श्रेष्ठया (तया नायिकया) मज्जनस्यानादरेण सौभाग्यं कथितमिव। भवत्यो मज्जनादिना शरीरं प्रसाध्य साम्प्रतं प्रियतमं वशयितुमिच्छथ, परं गुणगणवशीकृतो दयित: पूर्वत एव मे वचनानुगत इति स्नानं प्रति बहुमानाऽप्रदर्शनेन नायिकाया गर्वो व्यज्यते। सोऽयं विव्वोकाख्यो नायिकानामलङ्कार उक्त:- 'विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादर:१।’
उपरित: शरीरं प्रसाध्य नायकमनुकूलयितुमिच्छन्तीनां सपत्नीनां प्रातिद्वन्द्व्ये आर्याया: (गुणगणौदार्यादिभि: श्रेष्ठाया:) गुणगणद्वारा दृढं प्रियतमवशीकरणं सूचयन्त्या नायिकाया: परमं नैपुण्यमुत्कर्षश्चात्र ध्वन्यते। आन्तरिकैर्गुणैर्यया प्रथमत एव प्रियतमो वशीकृतस्तस्या मे सविधे मज्जनादिना शरीरं परिशोभ्य प्रियतमप्रसादमिदानीमिच्छन्त्यो यूयं कं वा महिमानं प्रकाशयितुमिच्छथेति तदाशय:। अत्र हि स्नानं न प्रतिषिध्यते परं तत्प्रति सपत्नीनां यथा आदरस्तथा नेति 'मज्जनानादर’पदेन स्पष्टमेवाक्षरमुखानाम्।
अत्र महाबुद्धय: केचिदालोचकचूडामणय: सञ्जीवनभाष्यभूमिकायां गाथासप्तशत्यम-रुकादिभ्यो विहारिसप्तशत्या: परमोत्कर्षं साधयन्त: कथयन्ति- 'चाहै कुछभी हो, यह स्नान न करने की बात कुछ अच्छी नहीं हुई। ऐसा भी क्या सौभाग्यगर्व जो इस दशाविशेष में अवश्य कर्तव्यकर्म (स्नान) का भी अनादर करा दे यह स्पष्ट ही अनौचित्य है।’
इदं त्ववश्यामौचित्यं स्यात्- यद् गाथायां मज्जनं प्रत्यनादरो वर्णित: श्रीमता तु स्नानस्याकरणमेवोद्घोषितम्। सपत्नय: 'हल्लफलेण’ उत्साहचञ्चलतया मज्जनं कुर्वत्यस्तेन चात्मानं प्रसाधयन्त्य: स्नानं प्रति सुमहान्तं बहुमानं प्रदर्शयन्ति। आर्या तु मज्जनं प्रत्यनादरं प्रदर्शयन्ती सौभाग्यमवचनं कथयति। अनयोर्द्वयो: प्रतिबिम्बभाव: समालोचकचूडामणेर्न दृष्टिगोचरोऽभवत्। उत्साहरभसेन स्नानं कुर्वत्य: सपत्न्य: स्नानं प्रति यावन्तमादरं दर्शयन्ति, आन्तरेण गुणगणेन मण्डिता आर्या बहि:शरीरप्रसाधकं स्नानं प्रति तावन्तमेवानादरं दर्शयतीति
१. भूमिकायामालोचनाप्रसङ्गेण यत्र यत्र गाथा उद्धृतास्तत्र संस्कृतगाथा एवोल्लिखिता:, बोधसौकर्यात्। मूलजिज्ञासुभिर्ग्रन्थान्तस्ता अवलोकनीया:।
तदाशय:। यद्यपि मज्जनं प्रत्यनादरो मुखतो वर्णित:, परं सपत्नी: प्रत्यनादर: फलितो व्यञ्जनया प्रतीयते। आर्या मुखेन निजसौभाग्यं नोद्घोषयति परं स्नानं प्रति बहुमानाभावो वचनचर्चा विनापि प्रसह्य स्वयमेव तत्सौभाग्यं जल्पतीति 'कथितमिवे’त्युत्प्रेक्षणस्य सौष्ठवम्।
न प्रतीमो यदुपरिवर्णिते सन्दर्भशरीरे क्व तावदनौचित्यपिशाच आविष्ट:! शरीरोन्मर्द्दन-पूर्वकं फेनकादिद्वारा सोत्साहमज्जननिमग्नानां सपत्नीनां पुरतो गुणगणमण्डनेन स्वाधीनीकृत-भर्तृकाऽऽर्या, अवश्यकर्तव्यतया साधारणभूते स्नाने कञ्चिदप्युत्साहमादरं च न प्रकटयति, प्रत्युत प्रियप्रतारणफलकं बाह्यमेतादृशं कृत्रिमायोजनं प्रति मनस्वितया अवज्ञां प्रदर्शयति। वचनं विनाप्यात्मन: सौभाग्यनिर्वचनं ह्येतद् गाथाया अप्यनक्षरं सौभाग्यकथनं प्रथयतीति को वा मार्मिको न मंस्यते। एतादृशस्यापि गुम्फस्य अनौचित्य मुद्रयाऽङ्कनं किमालोचकस्यौचित्यं सूचयेत्? 'अश्रद्धया कृतं दत्तम्’ यथा अकृतं मन्यन्ते धार्मिकास्तथैव अवज्ञया कृतं स्नानम-कृतमेव चेन्मन्येत, तर्हि तु सम्यगेव।
समालोचकचूडामणेर्द्दृष्टि: कदाचिन्न पतिता भवेत्परम् 'तीज परब.’ इत्यादिदोहानि-गुम्फनात्पूर्वं विहारिमहाकवरेवश्यं वक्ष्यमाणाया अपि गाथाया उपरि पतिताऽस्ति, यस्याश्छायास्मिन्पद्ये प्रलोक्यते। सा किल गाथा-
शिखिपिच्छकावतंसा व्याधवधूर्गर्विता भ्रमति।
गजमौक्तिकपरिरचितप्रसाधनानां पुर: सपत्नीनाम्।।(२/७३)
अस्यां गाथायां के वा ध्वनय: कश्च चमत्कारस्तदिह न प्रपञ्च्य द्वितीयशतकस्य त्रिसप्ततितमां गाथां पठितुं प्रार्थये। एतद्विलोकनेन सचेतसां स्पष्टं भवेत् यद्यं किल प्रसङ्गमादाय सेयं गाथा निगुम्फिता तत्र कविना सफलता प्राप्ता, न वेति। सपत्नीनां विभवातिशय-मालोक्यापमानेन म्लायन्तीं सुभगां नववधूं 'वैभवापेक्षयापि प्रियतमप्रणय एव गरीयान्’ इति प्रबोधयन्ती तत्सखी सान्त्वयति। गाथागृहीतपदै: किं किं किल चमत्कारकमभिव्यज्यते तत्तु तद्व्याख्यालोकनेन विशदं भवेत् परं दोहाच्छन्दसो नायिका यथा रतिमर्दितेन वस्त्रेणापि सपत्नीनां मानमर्दनं करोति तथा शिखिपिच्छमात्राभरणा गाथाया नायिका महामूल्यगजमौक्तिकमण्डितानामपि सपत्नीनां पुरो भ्रमन्ती तासां गर्वगञ्जनं करोतीति कस्य न साम्यमवगतं भवेत्? इदानीं द्वयोस्तारतम्यं सहृदयाधीनं कृत्वा प्रकृतमनुसरामि-
'अज्यौं न आये सहजरँग विरह दूबरे गात।
अबही कहा चलाइयत ललन चलनकी बात।। १३०’
एतस्याधारगाथा-
'हंहो दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य।
नाद्यापि हन्त सरला भवन्ति वेण्यास्तरङ्गिणश्चिकुरा:।।३/७३’
अस्या गाथाया व्याख्या तदुपरिकृताया: समालोचनायाश्चालोचना चापि ग्रन्थाभ्यन्तर एव विलोकनीया। नेह पुनराम्रेड्यते। 'अज्यों न आये सहजरँग’ तथा 'अबही कहा चलाइयत’ इति चरणाभ्यां प्रवासे शीघ्रतानिवारणमभिप्रेतमिति साधारणोऽपि पुमान्परिज्ञास्यति। ततश्च प्रतिदिनं प्रसाधनेन सरलीक्रियमाणानां केशानां पूर्वावस्थापेक्षया रसरक्ताद्युपचयजन्या शरीरशोभा अवश्यं परतोभाविनी। एवं च प्रवाससाक्षिण: केशा अपि सरला न जाता भवांस्तु पुन: प्रवासं चिन्तयतीति गमनशीघ्रताकृतं नायकस्य कठिनहृदयत्वं गाथैवाधिकं सूचितवतीत्या-लोचनायामुक्तमेव।
'अनियारे दीरघ दृगनि, किती न तरुनि समान।
वह चितवनि औरै कछू, जिहिं बस होत सुजान।।६७१’
'सन्ति मुखेऽन्यासामपि पक्ष्मलधवलानि दीर्घकृष्णानि।
नयनानि सुन्दरीणां तदपि द्रष्टुं न जानन्ति।।५/७०’
अत्र 'द्रष्टुं न जानन्ति’ इति असंलक्ष्यक्रमव्यङ्ग्यध्वनिरिति१ समालोचकचक्रचूडा-मणिना न जाने कतमस्य जगत: साहित्येऽधीतम्! 'रसभावतदाभासभावशान्त्यादिकरक्रम:’ इति साधारणसाहित्यवेद्यपि जानीयात्। किञ्च य: असंलक्ष्यक्रमव्यङ्ग्यध्वनि: (रसादि:) स किल चमत्कारमाविष्करोति, उत तमाच्छादयति? रसोऽपि यदि चमत्कारविघातकस्तर्हि नम: कवितायै!! अस्तु भारतीयसाहित्यस्य मौलिभूतानां गाथानामालोचने एवं प्रकारेण समुचितमधिकारं वहन्नालोचकमहाभागो गाथाकारेण सह परिहासौचित्यमप्यग्रे प्रकाशयति, आह स:- ''आखें देखना नहीं जानतीं क्यों? कोई विचित्र बीमारी तो नहीं है? कहीं चित्रलिखित आंखें तो नहीं हैं?’’ अत्र द्रष्टुं न जानन्तीत्यस्य प्रख्यातमप्यर्थान्तरसङ्क्रमितं वाच्यं य: किल महाभागो द्रष्टुमपि न जानाति सोऽपि गाथाकारेण सह एवं परिहासधार्ष्ट्यं प्रकाशयतीत्यहो बलवती नियति:!!
'यों दलमलियत निरदई, दई कुसुम से गात।
कर धर देखो धरधरा, अजौं न उरको जात।।२२८’
'सहते सहत इतीयं रमितैवं सुरतदुर्विदग्धेन।
म्लानशिरीषाणीव हि जातान्यस्या यथाङ्गानि।।१/५५’
विहारिपद्ये- सुरतान्ते नायिकासख्या उपालम्भ:। 'अयि निर्दय! एवमपि किमामर्द्लयते? हे दैव! अस्या: किल कुसुमसदृशान्यङ्गानि। उरसि करं विन्यस्य पश्य, अस्या हृदयकम्पो नाधुनापि विरमति।’
१. 'यहाँ 'द्रष्टुं न जानन्ति’ की असंलक्ष्यक्रमव्यङ्ग्यध्वनि ने गाथाके चमत्कार पर कुछ भारी सा पर्दा डाल दिया है।’ विहारीकी सतसई (पहला भाग)। 'बेताब प्रिंटिंग वर्क्स’ अत्र प्रकाशितं द्वितीयं संस्करणम्।
गाथायां सामान्यनायिकाया माता भुजङ्गान्तरप्ररोचनाय दुहितु: सौकुमार्यातिशयं सुरतसुखावहत्वं च सूचयति। विहारिकाव्ये सामान्यकुसुममात्रस्य सादृश्यमङ्गे दीयते, गाथायां तु शिरीषकुसुमस्य, यद्धि जगत: सर्वेभ्योऽपि कुसुमेभ्य: कोमलम्। आह कालिदास:- 'पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुन: पतत्रिणः’। ततश्च-अतिशयितकोमलाङ्ग्यपि सेयं तथा रमिता, यथास्या अङ्गानि प्रम्लानशिरीषाणीव जातानि। ततश्च सर्वाङ्गव्यापी एतस्या अवसाद:। अत एवैतस्या: प्रेयान् दुर्विदग्ध:। सुरतोपचारचातुर्यानभिज्ञोऽपि आत्मानं तथा मन्यते इति तत्तात्पर्यम्। गाथायां सर्वाङ्गव्यापिनमवसादं स्फुटं प्रत्याय्य नायिकाया: सौकुमार्यातिशयस्तत्सम्भोक्तुर्दुर्विदग्धत्वं च साध्यते। विहारिपद्ये तु गात्राणामवसाद: स्पष्टं न प्रत्याय्यते, किं तु उर: कम्पमात्रं निर्दिश्यते, यद्धि भयमात्रादपि सम्भवति।
अत्र यस्मिन्प्रसङ्गे दुर्विदग्धपदं गाथया प्रयुक्तं तत्स्थाने भूमण्डलस्य कापि भाषा शब्दान्तरं स्थापयितुं न प्रभवेत्। तथा विदग्ध: अभवन्नपि तादृशमात्मानं मन्यमानश्च किञ्चिद् धृष्टश्च यो भवति तं किलैतत्पदं सूचयति। नास्य प्रतिशब्द: कुत्रचिल्लभ्येत। समालोचकमहाभागो ह्येतदर्थसूचकं हिन्दीशब्दं तु कञ्चन निर्दशतु! मन्येऽहमेवंविधमर्थसमर्पकं पदं नान्यभाषायां विलोक्येत। एतस्यातिशयो निष्पक्षपातया मत्या मार्मिकै: स्फुटमवगम्येत। इदानीं दृश्यताम्- व्रजभाषायां 'चितवन’ 'सुजनादि’ पदान्यालोक्य यथा किल समालोचकमहाभाग: सशिर: कम्पमन्वमोदत तथा किं संस्कृतज्ञा एवंविधपदानि नाभिनन्देयु:? सत्यं त्वेतत्- तत्तद्भाषा-नुकूलानि भवन्ति कानिचन पदानि यानि तस्यां भाषायामेव सुभृशमभिरुचिं पुष्यन्ति। परं य: किल व्यङ्ग्योऽर्थ: स तु पदबन्धनिरपेक्ष: कश्चिदन्य एव यो ह्युत्तमकाव्ये प्राधान्येन परामृश्यते। अस्तु, एवं सत्यपि दुर्विदग्धपदापेक्षया 'निरदई’ पदे औचित्यमित्यालोचकमहाभाग आह। परं द्वयो: प्रकरणोपरि पुनर्दृष्टिर्देया भवेत्। विहारिणो नायिका मुग्धा गृह्या च। अत एव तत्सखी तत्परिखेदकं नायकं निर्दयमेव निर्दिशेत्। परं गाथाया नायिका सामान्या। वक्त्री च भुजङ्गसङ्ग्राहिका कुट्टनी। अत्र ह्युपभोक्ता सुरतोपचारचातुर्यमेव द्रष्टुं कामयते। स्वयं च निजवैदग्ध्यं प्रकाशयति। तत्र दयनीयतादर्शनमवैदग्ध्यमेव प्रकटयेत्। अत्र त्वयमेवोपालम्भ: स्थाने यत्स यद्यप्यात्मानमेवंविधकर्मणि विदग्धं भावयति परं सहजसुकुमारीमपि नायिकां न तथानुवर्तमान: केवलं दुर्विदग्ध एव। अनेन दुहितु: कामकलाकौशलं कोमलता चेत्युभयमपि ध्वनितं भवति। इदानीं द्वयोरौचित्यं सहृदयैर्विमर्शनीयम्।
'स्फुरिते वामाक्षि! त्वयि यद्येष्यति स प्रियोऽद्य तत्सुचिरम्।
सम्मील्य दक्षिणं तत्प्रेक्षिष्येऽहं त्वयैवैतम्।।२/३७’
'बाम बाहु फरकत मिलैं, जो हरि जीवनमूरि।
तौ तोही सो भेटिहों, राखि दाहिनी दूरि।।१४२’
वामवाहो! त्वयि स्फुरति जीवातुर्हरिर्यद्यागच्छेत् तर्हि दक्षिणं बाहुं दूरीकृत्य त्वयैवैनमाश्लिक्ष्यामि। भावो द्वयोरेक एव। गाथायां स्फुरणद्वारा शुभशंसकाय वामनयनाय फलसिद्धौ समुचितपारितोषिकप्रदानं प्रतिज्ञातम्। दोहापद्ये वामबाहवे तदुचितं पारितोषिकम-भिकल्पितम्। एवं सत्यपि गाथायां 'सुचिरम्’ इति सुतरां सन्तोषकमधिकमुपात्तम्। दोहापद्ये वामबाहुना आलिङ्गनमात्रं प्रतिश्रुतम्। समयस्त्वनियत:। कदाचन कतिपयक्षणेभ्य एव एकवारमात्रं वामबाहवे अवसरं प्रदाय ततो दक्षिण एव बाहुर्व्याप्रियेत तदपि सम्भवेत्। किञ्च 'भेंटना’ (मेलनम्) यस्य नाम तद्धि द्वाभ्यामेव बाहुभ्यां सुकरतया सम्भवेत् नैकेन। दर्शनं त्वेकेनापि नेत्रेण भवति। सुचिरं च सम्भवति। येभ्य: किलैकमेव नेत्रमीश्वरेण वितीर्णं तेऽपि सर्वं नयनकार्यं साधयन्त्येव। परं येषामेको बाहु: स्कन्धपर्यन्तं छिन्नो भवेदपरश्च समग्रो भवेत्ते एकेन बाहुना यथावत्परिरम्भणं कर्तुं शक्नुयुर्न वेति स्वयमेव सहृदयैर्विमर्शनीयम्।
'वहति वधूर्नवयौवनमनोहराणि हि यथा यथाङ्गानि।
कृशति नु तथा तथास्या मध्यो दयित: सपत्नश्च।।३/९२’
'देह दुलहियाकी बढै ज्यौं ज्यौं जोबन जोति।
त्यौं त्यौं लखि सौतें सबै बदन मलिन दुति होति।।’
यथा यथा नववध्वा वपुषि यौवनविभा वर्द्धते तथा तथा सपत्नीनां मुखकान्तिर्मलिना भवति। द्वयोरविकलं स एव भाव:। स एव च वचनक्रम:। द्वे अपि सूक्ती अलङ्कारोद्भासिते। वध्वा नवयौवनज्योतिरुदयरूपेण गुणेन सपत्नीनां मुखमालिन्यरूपदोषोदयादुल्लासालङ्कारो विहारिसूक्तौ। व्रजभाषाया: पीयूषमधुराण्यक्षराणि। विहारिसदृशश्च प्रवक्ता। किमत्र वक्तव्यम्। परं गाथायामर्थसमुच्चयस्य पराकाष्ठा। दोहापद्ये ईर्ष्यावशात् केवलं सत्पनीनामेव कान्तिक्षतिरुक्ता। गाथायां तु सहैव श्रोण्यास्तनुता, अत्यासक्त्या दयितस्थापि कृशता समीरिता। यथा यथा नवयौवनोदयादङ्गानि समधिकमनोहराणि भवन्ति तथा तथा तत्रात्यन्तमासक्ति: प्रियतमस्य प्रसज्यतीति तत्फलमप्युदीर्यते। दयिते सपत्ने च कृशतारूपतुल्यव्यापारवर्ण-नात्कण्ठाभरणोक्ता तुल्ययोगिता। यौवनरूपकारणस्य मध्यादिकृशतारूपकार्यस्य च समान-कालिकतावर्णनादक्रमातिशयोक्तिश्च। आभ्यामलङ्काराभ्यामलङ्कृता सेयं वाच्यार्थनीवी वय:- सन्धिकृतं नायिकाया: परमसौन्दर्यमाह। दोहासदृशे छन्दसि भूयसोऽर्थस्य सङ्ग्रहे प्रसिद्धो विहारी। परमत्र कोटित्रयसङ्ग्रहात्स्पष्टं गाथैवाधिकं धनिनी। किमेतत्तुल्ययोगिता मर्मत: समीक्ष्येतालोचकै:? अन्यत्रापि सेयं समुच्चयशैली गृहीता गाथाकारेण।
यथा-
'मध्य: प्रिय: कुटुम्बं पल्लीयुवका: सपत्न्यश्च।
क्षीयन्ते पञ्च तथा व्याधगृहिण्या: स्तनौ यथैधेते।।६/९७’
अस्तु, पुन: प्रकृतमनुसराम:।
बालक भवतोऽप्यधिकं मम जीवितमेव वल्लभं निजकम्।
तत्त्वां विना न भवतीति तेन कुपितं प्रसादयामि त्वाम्।।३/१५
'अपनी गरजनि बोलियत कहा निहोरो तोहि।
तू प्यारो मो जीयको मो जिय प्यारो मोहि।।३५१’
प्रणयकुपितं नायकमनुनयन्ती नायिका चातुर्येण निजगाढानुरागमपि सूचयति। आह सा- ममैव जीवितस्थितेरपेक्षा। अत एव त्वां कुपितं प्रसादयामि। अन्यथा तव कठोरहृदयतां पुन: पुनर्व्यलीकशतानि चानुभवन्ती का वा स्वतोऽनुनेतुमनुमन्येत। विहारिणो नायिकाऽऽह- 'अहं निजस्यावश्यकतानुरोधेनैव त्वया सह संलपामि। न तवोपरि कश्चिदुपकारभार:। यत: किल स्वजीवितं मम प्रियम्। मम 'जीवस्य’ (प्राणानां कृते) च त्वं प्रिय:।’ गाथार्थमविकलमुज्ज्हार विहारी। न कश्चिद्द्वयोस्तात्पर्ये भेद:। परं किञ्चिन्मार्मिकतया विमर्शे तु उपजीव्योपजीव-कयोर्दातृप्रतिग्रहीत्रोश्च भेद: स्पष्टं प्रतीतो भवेत्। विहारी कथयति 'तू प्यारो मो जीयको’ त्वं मम जीवस्य कृते प्रिय:। गाथा आह- 'तत्’ (जीवितं) त्वां विना न भवति।’ त्वं मम प्राणानां कृते केवलं प्रिय एव न, तेषां स्थितिरेव त्वदधीना। त्वां विना मम जीवितसत्तैव नास्तीति द्वयोरुक्त्योस्तारतम्यं स्थूलैरपि वेद्यम्। विहारिणोऽनुसारं प्रियतमो जीवस्य प्रिय उक्त:। परं प्रियतमस्याभावे तस्याप्यभाव: स्यादेतन्न प्रतीयते। प्रियवस्तुनोपहरणेऽपि सन्तोष: कर्तव्य एव भवति। परं गाथा प्रियतामात्रं नाह। सा कथयति- तन्मे जीवितं त्वां विना भवत्येव न।
किञ्च-एकमात्रेण पदेन सर्वमप्यर्थजातं गाथाकारेण शतगुणितीकृतम्। विहारिवराको न तत्सीमानमपि पस्पर्श। तत्किल पदम् 'एव’ इति। गाथा आह- 'मम जीवितमेव वल्लभं निजकम्’। 'हे प्रिय त्वमपि मे वल्लभ:। मम जीवोऽपि मे वल्लभ:। परमेवं प्राणसंशयस्थाने तु मम जीवितमेव मे वल्लभम्।’ मन्ये प्रियोऽपि नात्र विसंवदेत। दह्यमानसदनादिभ्य: पूर्वमात्मैव केन वा लोकेन न रक्ष्यते। किन्तु इयमप्युक्तिरभिप्रायविशेषं सूचयति। स चायम्- 'अहं जीवितादपि वल्लभं भवन्तमेव भावयामि। परमन्यासक्तो न त्वं ममैतावत्कोटिकमनुरागं परिज्ञास्यसि। त्वं हि मां स्वार्थिनीमेव जानासि। परं त्वद्भावनानुसारं मम जीवितमेव मे वल्लभमस्तु, न भवान्। परं तन्मे जीवितमेव तु त्वां विना न भवति! अत एव जीवितानुरोधेन त्वामनुनेतुं परवशास्मि! दृश्यताम्, कीदृशो ध्वनेश्चत्मकार:!! 'त्वं मम कोऽपि नासि। मम तु जीवितमेव प्रियम्।’ इति तु मुखादुच्यते। परं प्रत्येकसहृदयस्य हृदये स्पष्टमङ्कितं त्विदं भवति-यत्त्वं जीवितस्यापि जीवितमिति। अयमेव ध्वनिकृतश्चमत्कारो नाम। अनेनैव च महाकवित्वव्यपदेश:। पदमाधुर्यनिबन्धनस्यापि महत्त्वस्य काव्यकलायामस्ति स्थानम्। परं ध्वनेरग्रे न तस्य मूल्यम्। एतद्धि साम्प्रतिका हिन्दीमहारथिनोऽपि मन्यन्ते। हिन्दी 'साहित्यालोचनेन’ ख्यातिं प्रापितो बी. ए. बिरुदो बाबूश्यामसुन्दरदासमहोदयो 'ललितकलानां’ मध्ये काव्यकलां सर्वमूर्द्धन्यां मन्यते। कलानां श्रेष्ठताया: परिभाषा च तेन स्थापिता- 'यस्यां कलायां मूर्त आधारो यावन्न्यूनो भवति तावदेव सा श्रेष्ठा परिगण्यते। अर्थरमणीये काव्ये शब्दस्यापि साहय्यमतिन्यूनं भवति। अतएव अर्थरमणीयं काव्यं सर्वकलापेक्षयापि श्रेष्ठम्’ इति। इदानीमनेन मानदण्डेन काव्यस्योत्कर्षो न केन वा स्थूलमतिना परिज्ञायेत? यत्र हि 'चितवनि’ 'सुजान’ 'मरगजे’ इत्यादिपदैरेव मूर्द्धानमान्दोलयन्त्यालोचकपुङ्गवास्तत्र हि पूर्वोक्तेषु पदेष्वेवान्वय-व्यतिरेकानुविधायि माधुर्यमवतिष्ठते। ततश्च तादृशस्य शब्दरूपस्याधारस्य साहाय्यात् ध्वनिप्रधानकाव्यापेक्षया तद्धि सुतरां दुर्बलं भवतीति स्पष्टं तद्विदाम्।
अस्तु अस्यां गाथायां यावान्ध्वनिचमत्कारस्तं किल 'बालक’ इत्यामन्त्रणं पुनर्मण्डयति। 'मम त्वेतावान्प्रणयो यत्त्वां विना मम जीवनमेवासम्भवम्। अत एव स्वजीवितस्थितये त्वदनुनयाय परवशा भवामि। परं पुन: पुनर्व्यलीककारितया दृढीभूतहृदयेन भवता त्विदं ज्ञायते यन्ममापराध: पूर्वमनया गृहीत:, इदानीं च मिथ्येति निश्चित्य स्वयं सोऽपमार्जित इति। परं प्रणयपरिपाकानभिज्ञत्वादेव तवेदृशो विचार:। अत एव भवानस्मिन्विषये मुग्ध एवेत्युपालम्भं 'बालक’ शब्देनामन्त्रणं ध्वनयतीति सचेतसो विमृशन्तु। विशेषतश्च तेषां दृष्टिराकर्ष्टव्या भवेत् ये पदे पदे 'वर्ण्यविषय आच्छिन्न:’ 'कीदृश: संस्कार: कृत:’ इत्यादि वाक्ताण्डवं मण्डयन्ति।
'वज्रपतनातिरिक्तं पत्यु: श्रुत्वा तु शिञ्जिनीघोषम्।
स्वसदृशबन्दीनामपि बन्द्या द्राक् प्रोञ्छिते नयने।।१/५४’
'नाह गरज नाहरगरज, वचन सुनायो टेरि।
फँसी फौज बिच बन्दिमें, हँसी सबनि मुख हेरि।।६५९’
बन्दीकृत्य स्त्रीणां बलादाहरणं पुरा वीरतासूचकमासीत्। उपलभ्यत एव तदिदं संस्कृतसाहित्ये। तदनुसारमेव काचिद्बन्दीकृता वीरवधूर्वज्रनिर्घोषादप्यधिकं भर्तु: प्रत्यञ्चा-घोषमाकर्ण्य स्वयमेव सन्तुष्टा नाभूत् प्रत्युत दस्युभिर्बन्दीकृतानामन्यासामपि बन्दीनामाश्वासनं तया दत्तम्। इति गाथार्थो विहारिणा प्रकारान्तरेण परिवर्तित:। तस्य समयो मोगलसाम्राज्यभुक्त आसीत्। नाभूत्तस्मिन्समये धनुर्युद्धम्। अत एव तेन प्रत्यञ्चारवस्य स्थाने सिंहध्वनिसदृशी नाथस्य गर्जना गुम्फिता। पूर्वार्द्धे तदिदं परावर्त्य, उत्तरार्द्धे यदिदं गर्वहास्यमुपनिबद्धं तद्धि बन्दीव्रज्याया द्वितीयस्या गाथात उपजीवितम्। विहारी कथयति- 'हँसी सबन मुख हेरि’ अर्थात् इदानीं युष्माकं वीरतां द्रक्ष्यामि। मत्पति: क्षण एव सर्वान् युष्मान्पराजित्य मां मोचयिष्तीति गर्वस्मितमभूदित्यर्थ:। किन्तु गाथायां यदुक्तं तदन्यादृशमेव मर्मस्पृक्-
'नो बन्दि गम्यते किं को गर्वो येन मसृणगमनासि।
जल्पितमदृष्टदशनं विहसन्त्या 'ज्ञास्यसे चोर’।।६/२७’
अत्र पदै: कस्को ध्वनिरिति तु मट्टीकायामालोकनीयम्, नेह विस्तार्यते।
आदाय चूर्णमुष्टिं हर्षौत्सुक्येन वेपमानाया:।
प्रियमवकिरामि पुर इति हस्ते गन्धोदकं जातम्।।४/१२’
अस्या गाथाया भावार्थो विप्रतीपतया उपजीवितो विहारिणा। अत्र हि मदनोत्सवे गन्धद्रव्यधूलिं (पिष्टातक 'गुलाल’) गृहीत्वा प्रियतमोपरि विच्छुरणेच्छया नायिका स्थिता। परं यावत्कालं विच्छुरणेच्छा हृदयेऽवरुद्धा तावदुत्कण्ठाया: प्राबल्यात्कान्तदर्शनजनितस्वेदात्म-कसात्त्विकभावाच्च सा मुष्टिर्गन्धोदकमभूदित्युच्यते। एतद्विरुद्धं द्रवरूपमप्यङ्गविलेपनम् ('अरगजा’) नायिकाया मुष्टिनिविष्टं सत् शुष्कतया 'अबीर’- (पिष्टातक-) रूपमभूदिति विहारी निबद्धवान्-
'मैं लै दयो लयो सुकर, छुवत छनक गौ नीर।
बाल तिहारो अरगजा उर ह्वै लग्यौ अबीर।।’
पूर्वानुरागे नायिकाया विरहवेदनां सखी वक्ति- 'मया भवत्प्रहित: स विलेपनसुगन्ध-द्रवस्तस्या हस्ते दत्त:। तया गृहीत:। परं विरहतप्तायास्तस्या: करस्पर्श एव छनिति जलांश: शुष्कोऽभवत्। हे कुमार! तत्तव सुगन्धलेपनं गन्धचूर्णतामापद्य निश्वासोड्डीनं तस्या उरसि समसज्यत।’
गाथायां सम्भोगशृङ्गार:, विहारिकृतौ तद्विरुद्धो विप्रलम्भ:। गाथायां गन्धचूर्णस्य गन्धोदकमभूत्। विहारिणा गन्धोदकमपि विरहतापाधिक्याद् गन्धचूर्णीकृतम्। अस्तु न कापि हानि:। होलामहोत्सवे गन्धधूलिर्गन्धोदकं चेत्युभयमपि रङ्गक्रीडोपयोगि।
आगच्छत: प्रियस्य स्वाऽऽलम्बितमानत: पराङ्मुख्या:।
मानिनि हृदयं कथयति पृष्ठे पुलकोद्गमस्तवाभिमुखम्।।१/८७
स्वयम् आलम्बितेन (त्वया बलात्परिधृतेन न तु वास्तवेन) मानेन पराङ्मुख्या अपि तव हृदयम्, प्रियदृष्टिनिपातेन सञ्जात: पुलकोद्गमस्तव पश्चादागच्छत: प्रियस्य सम्मुखं कथयति। अर्थात् त्वं पराङ्मुखी स्थितासि परं प्रियदृष्टिनिपातेन जातस्तव पृष्ठे रोमाञ्चस्त्वां गतमानां कथयतीति भाव:। विहारी अनेनोपकरणेन लक्षितां चित्रयति-
रही फेरि मुख हेरि इत हितसमुहे चित नारि।
दीठि परत उठि पीठिके पुलकैं कहत पुकारि।।
'पृष्ठं परावर्त्य इत: अस्मत्सम्मुखं मुखं करोषि, परं प्रियदृष्ट्यां पतन्त्यामेव पृष्ठस्य पुलकस्तव चित्तं प्रियस्य सम्मुखं उच्चैरुद्घोष्य कथयति।’ केचित् 'रहि मुह फेरि कि हेरि इत’ इति पाठं स्वीकुर्वन्ति। तेषां मते 'त्वं मुखं परावर्त्य तिष्ठ, अथवा एतं पश्यन्ती तिष्ठ’ इत्यर्थ:।
अविकलं स एवार्थ:। उभयत्रपृष्ठपुलकोद्गम: पराङ्मुख्या अपि चित्तं सम्मुखं कथयति!!
स्तोकमपि नि:सरति नो मध्याह्ने पश्य गात्रतललीना।
छायाप्यातपभयतो विश्राम्यसि किं न तत्पथिक।।१/४९
मध्याह्ने सूर्यस्य मस्तकस्थतया छाया शरीरतलगता भवति। तत्र कविर्हेतुमुत्प्रेक्षते- यत् आतपभयादेव छायापि शरीरतललीना भवति। बहिर्न निष्क्राम्यति। अनेन वाच्यार्थेन- यथा छाया शरीरतललीना भवति तथा मां कुर्विति स्वयंदूतिकाया आकूतम्। विहारी अप्याह-
'बैठि रही अति सघनवन पैठि सदनतन माँहि।
देखि दुपहरी जेठकी छांहौ चाहत छाँहि।।५६२
'ज्येष्ठमासस्य मध्याह्नं दृष्ट्वा छायापि छायां वाञ्छति। अतएव सा छाया निबिडेषु वनेषु, सदनेषु, अन्यत् किं मनुष्याणां शरीरतलेषु स्थिताऽस्ति।’
तस्मिंश्च्युतविनये किल रोषितुमिह शक्यते न केल्यापि।
एभिर्याचितकैरिव मातर्विवशाऽसहैरङ्गै:।।१/९५
काचिद्बन्धुपुरन्ध्री किञ्चित्प्रयोजनं साधयितुं नायिकां मानं कर्तुं शिक्षयति। तदुत्तरे सा आह- च्युतविनये रतिलौल्यलङ्घितलज्जतया विनयमवधीरयमाणे तस्मिन् (प्रेयसि) अभ्यर्थ्यानीतैरिव अवशीभूतैर्ममाङ्गै: क्रीडायामपि मान: कर्तुं न शक्यते। प्रियतमं दृष्ट्वा हर्षोल्लासान्ममाङ्गेषु पुलको भवति। अत एव ममाधिकाराद्बहिर्भूतैरेभिरङ्गैरहं मानं कुर्वती लज्जिता भवामि। मानस्य स्थितिरेव न भवति। विहारी आह-
'मोहि लजावत निलज ये हुलसि मिले सब गात।
भानु उदैकी ओस लौं मान न जान्यों जात।।१००’
'इमानि निर्लज्जानि मेऽङ्गानि नायकस्य सम्मुखागमने 'हुलसि’ पुलकद्वारा हर्षं प्रकटय्य मां लज्जयन्ति। भानोरुदये यथा नीहारस्तथा मानो विलीयमानो न प्रतीयते। अत एवाऽहं मानं कर्तुं न समर्थेत्याशय:।’
प्रेयसि सुविषमशीले शुद्धमना देवरेऽसदृशचित्ते।
न वदति कुटुम्बविघटनभयेन तनुकायते स्नुषा किन्तु।।१/५९
देवरे कामविकारदूषितचित्ते सत्यपि अविकृतचित्ता पुत्रवधूर्वामस्वभावे प्रियतमे देवरस्य तां कुत्सितां वार्तां कलहकृतकुटुम्बविघटनभयेन न कथयति, किन्तु तद्दु:खेन कृशा भवति। विहारी अप्याह-
'कहति न देवर की कुबत कुलतिय कलह डराय।
पंजरगतमंजार ढिंग सुग लौं सूकति जाय।।’
'कूलवधू: कलहभयेन देवरस्य कुत्सितां वार्तां न कथयति। किन्तु मार्जारनिकटस्थिता पञ्जरगता शुकीव शुष्यति।’ 'स्नुषा’ पदेन श्वशुरादिसत्तायां सम्मिलितकुटुम्बे कलहो माभूदिति भयेन हृदय एव पुटपाको निर्भरं चित्रितो गाथया। किञ्च 'सुविषमशीले’ 'असदृशचित्ते’ इति पदाभ्यां य: किल भावविशेषश्चित्रित: सोऽन्यत्राऽप्राप्य:।
किं भण्यतां नु वाचा कियदिव वा लिख्यते लेखे।
तव विरहे यद्दु:खं त्वमेव तस्यासि विदितार्थ:। ६/७१
'कागद पर लिखत न बनै कहत सँदेस लजात।
कहिहै सब तेरा हियौ मेरे हियकी बात।।३९४’
'पत्रे लेखितुं न पार्यते। लज्जितया मया वाचापि च किं सन्दिश्यताम्?। तव हृदयमेव मम हृद्गतं सन्तापादिकं ते कथयिष्यति।’
क्षणमुञ्छति मार्जयति क्षणमुद्धुवति क्षणं न तद्विदती।
मुग्धवधू: स्तनपृष्ठे दत्तं दयितेन नखरपदम्।।५/३३
विहारी नखक्षतं दन्तक्षते परिवर्तयामास। आह स:-
'छिनकु उघारत छिन छुवत राखत छिनक छिपाय।
सब दिन पियखण्डित अधर दरपन देखत जाय।।१०९’
'प्रियेण खण्डितमधरं क्षणं विवृणोति क्षणं स्पृशति, क्षणं च तं निह्नुते। दर्पणे अधरमव-लोकयन्त्यास्तस्या: सर्वं दिनं व्यत्येति।’ गाथायां मुग्धा नायिका, विहारिणा तु प्रेमगर्विता निर्मिता। किन्त्वर्थ: स एवोपजीवित:।
गेहिन्या माहानसकर्ममसीमलिनितेन हस्तेन।
स्पृष्टं मुखमुपहसति हि चन्द्रावस्थां गतं दयित:।।१/१३
महानसे तन्मयतया प्रसक्ताया गृहिण्या मुखे पाकपात्रादिगता श्यामिका लग्ना। अत एव तदवस्थायामपि शोभमानं मुखं वीक्ष्य सानुरागहासं प्रिय आह- यदिदानीं सलाञ्छनस्य चन्द्रस्य दशां मुखं वास्तव एव गतमिति। गृहकार्यप्रसक्ताया: गृहिण्या: स्वाभाविकी शोभा। तत्रैव च प्रसाधनसाधनानपेक्ष: प्रियतमस्य स्वाभाविक: प्रेमहेतुकहर्षोत्कर्ष: सुभगतया चित्रितो गाथाकारेण। 'विहारी’ तु प्रसाधनं कुर्वत्या: प्रेयस्या वर्णने इममर्थमुपजिजीव-
'पिय तियसों हँसिकें कह्यौ लष्यौ डिठोना दीन।
चन्द्रमुखी मुखचन्द्र सों भलो चन्द्रसम कीन।।४९१’
दृष्टिदोषनिवर्तकं कज्जललाञ्छनं दृष्ट्वा प्रिय: सहासं प्रेयसीमाह- हे चन्द्रमुखि! त्वया (कज्जलरेखामाननैकदेशे कुर्वत्या) सकलङ्कश्चन्द्रो मुखस्य सम्यक् समानीकृत:! अथवा हे चन्द्रमुखि तव मुखं 'चन्द तें भलो’ चन्द्रादप्यधिकं सुन्दरमासीत्। कज्जलबिन्दुरचयन्त्या तत्त्वया चन्द्रसमं कृतम्।’
मुखे श्यामिकासम्बन्धेन सकलङ्कस्य चन्द्रस्य समतासम्पादनवर्णना उभयत्रसमाना-परन्तु एकत्र श्यामिका गृहिणीत्वप्रयोजके गृहकार्ये लग्ना स्वाभाविकी वर्ण्यते। अपरत्र दृष्टिदोषनिवर्तनसंरम्भात् स्वयं स्वमुखसौन्दर्यं बहुमन्वानया शृङ्गारविधया रचितमित्युभ-योस्तारतम्यं मार्मिकै: परीक्ष्यम्। उभयत्र वर्णित: परिहासोऽपि कुत्राधिकं स्वारस्यमावहतीत्यपि सहृदयैरवगम्यम्।
चतुर्थीव्रते चन्द्रायार्घ्यदानावसरे नायिकामुखं दृष्ट्वा जनस्य चन्द्रभ्रान्तिर्भवतीति सविच्छित्ति वर्णितं गाथायाम्-
हसित: प्रशंसता सखि चिरमावसथिकजन: पत्या।
विधुरिति तव किल वदने वितीर्णकुसुमाञ्जलिविलक्ष:।।४/४६
विहारिमहाभागोऽपि प्रकारान्तरेणाह-
'तू रहि हौंही ससि लषौं चढि न अटा बलि बाल।
सब हि नु बिनुही ससि लषैं दैंहैं अरघ अकाल।।’
'त्वमिहैव तिष्ठ। अट्टालकं मा आरोह। अहमेव चन्द्रं वीक्ष्ये। सर्व एव जनो विनैव चन्द्रदर्शनमकाल एवार्घ्यं प्रदद्यात्।’
विहारिसूक्तौ 'दैंहैं’ इति सम्भावनैव। गाथायां तु चन्द्रबुद्ध्या अर्घ्यकुसुमाञ्जलिर्वितीर्ण एव।
प्रियनामग्रहणेन हर्षातिशयमालोक्य परिलक्षितवल्लभानुरागां लक्षितां वर्णयामास गाथा-
वल्लभ एव स नहि यदि गोत्रग्रहणेन तस्य सखि किमिति।
भवति मुखं तव रविकरसम्भेदोद्भिन्नमिव नलिनम्।।४/४३
विहार्यपि लक्षितां लक्षयति-
'नाम सुनतही ह्वै गयो तन औरै मन और।
दबै नहीं चित चढि रह्यौ कहा चढाये त्यौर।।’
'नामग्रहण एव देहे पुलकादि, मनसि चाञ्चल्यं चोदभूत्। इदानीं तव मनोवासी स नायको गोपयितुं न शक्यते। भ्रूभङ्गादिकृत्रिमकोपाभिनयेन किं भवति।’
एवमादिषु स्थलेषु गाथार्थोऽविकलमुपजीवित: श्रीमता विहारिणा। गाथासप्तशत्यां वर्णनीयो विषय: प्राय: प्रकृत्या य: किल लोके उपलभ्यते तादृश एव। प्राकृतिकशोभमयेषु ग्रामेषु य: किल जनानां परस्तरं स्वाभाविक: प्रणयपरीपाक:, स एव कविना काव्यसूक्तौ परिणमित:। क्षेत्रेषु नदीतटेषु लतागहनेषु वेतसवनेषु अकृत्रिमप्रणया रसिका विहरन्तीति सप्तशतीवर्ण्योऽयमग्रे प्रस्फुट एव भवेत्। किमिह विशेषपल्लवितेन। अत एव नायकयो रूपवर्णनमपि स्वाभाविकमेव। न तत्र कवि: प्राय: प्रकृतिसीमानमतिक्रामति। यद्यत्र कश्चिदयितशयोऽपि वर्णनीयो भवेत्तदापि ध्वनिरूपेण तमभिव्यञ्जयति। यथा-
तस्या अङ्गे प्रथमं यत्रैव हि यस्य निपतिता दृष्टि:।
तत्रैव तस्य मग्ना सर्वाङ्गं किल न केनचिद्दृष्टम्।।३/३४’
सौन्दर्यसिन्धोस्तस्या एककैकाङ्गशोभादर्शने निश्चलनिलीना दृष्टिर्न सर्वाङ्गशोभादर्शने समर्थेति तात्पर्यम्। एवं च साकल्येन यदा द्रष्टुमेव जनेन न प्रभूयते तदा कथमिव तद्वक्तुं शक्येत, अत एवानिर्वचनीयं तस्या रूपमिति ध्वनितम्।
कस्याश्चिदतिशयोक्तेर्वाच्यरूपेणावतारणा गाथायामतिन्यूनैवावलोक्येत। नायिकाया वपु: कान्तिं सूचयितुं दीपशिखोपमापि दत्ता गाथायाम्, परमेकद्वस्थलेष्वेव। यथा-
मा पुत्रि चौर्यसुरतश्रद्धाशीले! भ्रमान्धकारेऽस्मिन्।
दीपकशिखेव निबिडे तमसि निकामं निरीक्ष्यसे नूनम्।।५/१५’
विहारी तु गाथासूचितमिदं सादृश्यं स्थाने स्थाने निबबन्ध- 'कहो दुराईं क्यों दुरै दीपसिखा सी देह।’ 'पावक झरसी झमकिकें गई झरोखा झाँकि’। 'ज्यौं ज्यौं पावकलपट सी तिय हियसौ लपटाति।’ 'जल चादरके दीपलों जगमगात तन जोति।’ 'अङ्ग अङ्ग नग जगमगत दीपसिखा सी देह’। इत्यादि।
गाथायां यद्दीपशिाखासाम्यं तन्न केवलं रूपातिशयवर्णनायैव, प्रत्युत दीपशिखा गोपितापि यथा प्रकाशते तथा तवाभिसार: सर्वैर्विदित इति सूचयन्त्या कयाचित्प्रौढया हितैषिताभाव: 'पुत्री’ तिसम्बोधनसहकारेणात्र ध्वन्यत इति जानीयुर्विमर्शका:। अस्तु सत्यं त्वेतत्- यत् स्वत: सम्भवी एवार्थो गाथाकर्तुरभिप्रेत:। कविप्रौढोक्तिसिद्धो नात्र वर्ण्यत इति न मेऽभिप्राय:, परं तादृशोऽर्थ: पूर्वस्यापेक्षयातितमां न्यूनविषय इति मर्मतो गाथातत्त्वालोचकानां स्पष्टम्।
व्रजभाषामहाकविना विहारिणा तु प्राक्तनसंस्कृतशैलीमुपजीव्य यदा ह्यात्मन: 'सतसई’ समुपनिबद्धा, आसीत्तस्मिन्समये भारते मोगलमहीभृतां साम्रज्यम्। 'उर्दू’ भाषा ह्येतस्मिन्काले राजाश्रयवशाल्लोकानामादरभूमिरभूत्। एतस्यां भाषायां च शैलीनाम् ('मुहाविरे’) यथार्थमनुसरणेन केवलं भाषागतमेव माधुर्यमनुभूयते। वर्ण्यविषयस्त्वतिसङ्क्षिप्त:। अत्युक्ति-रवश्यं चमत्कारकरूपेण पदे पदे ह्युपनिबध्यते यया किल वर्णनीयविषये आकर्षकतोत्पद्यते। स्पष्टमिदमेतद्भाषाविदां तदालोचकानां च। अतो नेदमुदाहरणै: प्रपञ्चयितुं काम्यते। एतद्दर्शनाभिलाषुकैर्मत्कृतस्य 'साहित्यवैभवस्य’ छन्दोवीथ्याम्, 'जयपुरवैभवस्य’ भूमिकायां चैतदालोचना विस्तरतोऽवलोकयितुं शक्यते। अत्र त्विदमेव दर्शयितुमिष्यते यदेवंविधवातावरणस्य प्रभावं विहारिसूक्तिरपि नोल्लङ्घयितुमपारयत। अस्ति स्थाने स्थाने अत्युक्तिरूपेण वर्ण्यस्योत्क-र्षप्रदर्शनं विहारिसूक्तौ। विरहवर्णने यथा-
'औंधाई सीसी सु लषि विरह बरी बिललात।
बीच हि सूखि गुलाब गौ छींटौ छुई न गात।।’
'विरहसन्तापमवलोक्य शीतलीकरणार्थं सख्या यावदेव पाटलासलिलस्य (गुलाबजल) काचकूपिका आवर्जिता तावदेव सर्वमेव जलं परिशुष्य लुप्तमभूत् बिन्दुरपि तद्गात्रे नास्पृशत्।’ अहो सन्ताप:!!
'सीरे जतननि सिसिर रितु, सहि बिरहिन-तन-ताप।
बसिवेकों ग्रीषमदिननि, पर्यो परोसिन पाप।।’
'विरहिण्या: प्रतिवेशिन्या विरहजनित: शरीरोष्मा शीतर्तोर्निशि (न दिवसेऽपि) शरीरे हिमशिलास्थापनादिशैत्ययत्नै: कथञ्चित्प्रतिवेशिभि: सोढ:। ग्रीष्मर्तौ तु तस्या: प्रतिवेशे निवास: प्रतिवेशिनां पापमिव परिहरणीयोऽभवत्।’ इत्यादि
दौर्बल्यम्
'करी विरह ऐसी तऊ, गैल न छाँडत नीच।
दीनेहू चसमा चखनि, चाहै लखै न मीच।।’
'मू्त्युर्नेत्रयोरुपनेत्रं धृत्वा विरहतनुभूतां तां पश्यति परं न प्राप्नोति। एवंभूता सा नायिका विरहेण कृता। तथापि नीच: (विरह:) एतदनुसरणं न त्यजति।’ पद्मसिंह:- 'तऊ न छाँडत गैल’ इत्यस्य 'तथापि सा प्रेमपथं न त्यजति’ इत्यर्थमाह। इत्यादि।
शरीरसौकुमार्यम्
'छाले परिबेके डरनि, सकत न हाथ छुवाइ।
झझकत हियै गुलाबके झमा झमावत पाइ।।’
चरणौ प्रक्षालयन्ती परिचारिका कोमलौ तस्याश्चरणौ करेण न स्पृशति। कदाचन मत्करस्पर्शेन सुकुमार्या अस्याश्चरणयो: क्षतपिटका भवेयु:। पाटलाकुसुमसाहाय्येन शनै:- शनैश्चरणै प्रक्षालयन्त्या अपि तस्या हृदयं तत्कष्टशङ्कया बिभेति।
'मै बरजी कइ बार तू इत कत लेत करौंट।
पखुरी लगैं गुलाबकी परिहैं अङ्ग खरौंट।।’
मया कतिवारान् त्वं प्रतिषिद्धा यत् अस्यां कुसुमशय्यायामित: कथमिव पार्श्वपरिवर्तनं करोषि! पाटलाकुसुमपत्रिकाया: स्पर्शेऽपि तव गात्रे विलेखनजं क्षतं भविष्यति। इत्यादि।
शरीरकान्ति:
'सघनकुञ्ज घन घनतिमिर अधिक अँधेरी राति।
तऊ न दुरिहै स्याम वह दीप सिखासी जाति।।’
'वर्षासमय:। तत्रापि कृष्णपक्षस्य रात्रि:। ततोऽपि घनघटा परित आच्छादिता। एतदुपर्यपि सङ्केतस्थलभूत: कुञ्जोऽतिघनतयाऽन्धकारिततम:। तथापि दीपशिखेव गच्छन्ती सा अलक्षिता न भवेत्।’
'जुवति जोन्हमें मिलिगई नेकु न होति लखाइ।
सौन्धेके डोरैं लगी अली चली सँग जाइ।।’
'गौरशरीरा नायिका ज्योत्स्नायां मिश्रिताऽभवत्। न किञ्चिदपि भेद: प्रतीयते स्म। तनुसुगन्धसूत्रेणैव सखी तामेतामनुगच्छति।’ इत्यादि।
एवं सत्यपि स्वभाविकं वर्णनं विहारिसूक्तौ नोपलभ्यत इति न शक्यते वक्तुम्। दृश्यतां ग्रामवासिनीनां नारीणां प्राकृतं वर्णनम्।
'गोरी गदकारी परै हँसत कपोलन गाड।
कैसी लसत गमारि यह सुनकिरवाकी आड।।’
गौरवर्णा। स्वास्थ्यसूचकानि भरितान्यङ्गानि। हसन्त्यां यस्यां कपोलयोर्गर्त: पतति। स्वर्णकीटस्य (सपक्षकीटविशेषस्य) हरितं पक्षं भालबिन्दुस्थाने दधती सेयं ग्रामीणस्त्री कीदृशी शोभते।
'पहुला हार हिये लसै, सनकी बैंदी भाल।
राखत खेत खरी खरी खरे उरोजन बाल।।’
वन्यपुष्पाणां हारोवक्षसि। शणपुष्पस्य बिन्दुर्भाले विधृत:। उच्चकुचयुग्मा सेयं बाला तिष्ठन्ती क्षेत्ररक्षां करोति।
धूमपानस्यापि वर्णनमात्तं विहारिणा-
'ओठ उचै हाँसीभरी दृग भौंहनकी चाल।
मो मन कहा न पीलियो पियत तमाखू लाल।।’
तमाखूपानं कुर्वता प्रियेण ओष्ठमुन्नमय्य हसन्तीभ्यामिव दृग्भ्यां भ्रुवोर्भुग्नतया च किं मनो मे न पीतम्?
श्रीमदम्बिकादत्तव्यासकृतटिप्पण्यनुसारम्- 'पूर्वं तमाखू- गञ्जिकादीनां प्रचार आसीन्न वा। अथवा- 'तमाखुस्तमाखुस्तमाखुस्तमाखु:’ इति भगवतो विरिञ्चेश्चतुर्भिर्मुखै: प्रशंसागीति-परमिदं पद्यं केवलं संस्कृतनिबद्धमेवास्ति, उत कस्मिंश्चित्प्राचीने काव्येऽप्युपलभ्यत इत्यादे: परस्परविवादस्य नावश्यकता। यदि 'पियत तमाखू लाल’ इति सदुक्ति: श्रीमतां चेतोहरा तर्हि तस्या अपि विहारिकोषे न न्यूनतेत्येवात्र वक्तव्यम्।
गाथासप्तशत्यां यथा किल तिलक्षेत्राणि कार्पासकेदारा: शालिवप्राश्च कामिनो: सङ्केत- स्थलान्यावर्णितानि, एकस्य धान्यक्षेत्रस्य परिपाके सङ्केतभङ्गशङ्कया कामिनोर्विषादश्च यथोपनिबद्ध:-
'किं रोदिषि नतवदना शालिक्षेत्रेषु धवलितेष्वेषु।
हरितालमण्डितमुखी नटीव शणवाटिका जाता।।१/९
तथैव विहारिण: सूक्तावपि प्रायोऽवलोक्यते-
'सन सूख्यौ बीत्यौ बनौ उखौ लई उखारि।
हरी हरी अरहर अजौं धरि धरहरि हिय नारि।।
शणोऽपि शुष्क:। कार्पास्यपि समाप्ता। इक्षुकृषिरप्युत्खाता। परमद्यापि (सङ्केतोपयोगि) आढकीक्षेत्रं हरितं वर्तते। हे सखि, हृदये धैर्यं धर।
वर्णनीयो विषय:
प्राकृतभाषानिबद्धायास्तदेतस्या: सप्तशत्या वर्णनीयो विषयोऽपि प्राकृत एवेति विमर्शकानां विदितम्। एषा हि स्वत: सम्भविनमेवार्थं तथा माधुर्येणोपनिबध्नाति यथा स्वभाविकटघनानुबद्धं चेत: स्वतोऽस्यामेकान्तमवतिष्ठते। शृङ्गारप्रधानाया अप्यस्या वर्णनीया नायिकास्तादृश्यो न सन्ति दर्पणायितेषु यासामङ्गेषु भूषणानि प्रतिबिम्बैश्चतुर्गुणितानि भवेयु:१। न वा तथाविधा: सन्ति यासां गात्रेषु तनुद्युतिमिलितो मुक्ताहार: कर्पूरमणिमयो भवेत्, यस्य परीक्षायै प्रतिक्षणसन्निहिता सख्यपि तृणं स्पर्शयितुं परवशा भवति१। अत्र हि ग्रामवासिन्यो विलासिन्य एव शृङ्गारस्य नायिका:। उन्मुक्तवातावरणे पोषिता हृष्टपुष्टाङ्गा: पल्लीवासिनो युवका एव तासां लक्ष्यम्। स्वभावरमणीया ग्रामस्य परिसरा एव तेषां प्रमोदस्थानानि। वेतसनि-कुञ्जा: पलालपुञ्जाश्चैषां विहारस्थलानि। हरितहरितानि निबिडसस्याच्छादितानि धान्य-क्षेत्राण्येवामीषामभिसारक्षेत्राणि। यथा-
१. 'अङ्ग अङ्ग प्रतिबिम्ब परि दर्पन से सब गात। दुहरे तिहरे चौहरे भूषन जाने जात।।’ बिहारी,
हृष्ट्वापि हरितदीर्घं प्रत्यूषे नातिखिद्यते हलिक:।
असतीरहस्यमार्गं तुषारधवले तिलक्षेत्रे।।७/८३
अस्यां हि ग्रामवासिनां जीवनमानन्दमयं प्रतीयते। साम्प्रतमिव राजकरै: कृषकजीवनं दु:खभाराकुलं नासीत्तस्मिन्समये। प्रचुरवर्षिणा पर्जन्येन प्रकाममुदपाद्यन्त धान्यानि। धान्यपरित-गृहा: कृषकनिवहा: स्वैरमारमन्ति स्म तस्मिन्समये-
निष्पन्नसस्यसम्पद् गायति शरदीह पामर: स्वैरम्।
दलितनवशालितण्डुलधवलमृगाङ्कासु रजनीषु।।७/८९
तण्डुलारम्भकं सेचनजलं प्रदाय सुप्रसन्न: कृषको यदा हि शालिगुच्छकापूर्णं क्षेत्रमव-लोकयति स्म तदा पुत्रस्येव दर्शनेन स हि मनसि प्रासीदत्। अहो कीदृशी स्वाभाविकी च श्लेषवैदग्ध्यपूर्णा चोक्ति:-
क्षीरैकपायिना दत्तजानुपतनेन पङ्कमलिनेन।
पुत्रेणेव हि शालिक्षेत्रेणानन्द्यते हलिक:।।६/६७
कृषिसम्बन्धीनि कार्याण्यप्येषां भवन्ति, सहैव जीवने स्वाभाविक्य: प्रमोदचेष्टा अपि सञ्चलन्ति। स्रिय: पुरुषाश्च कार्पासचयनाय क्षेत्रेषु सङ्गच्छन्ते। पारस्परिकव्यवहारादन्येऽपि कृषका: कार्ये साहाय्यमापादयन्ति स्म। सुखदसूर्यातपा: शिशिरवासरा:। रम्यो वनोद्देश:। उन्मादकसर्वसामग्रीपूर्णेऽस्मिन्समये समभवन्नेतेषु शृङ्गारचेष्टा:। हलिकपुत्रानुरक्ता वधूरनुभावैर-न्यासामभिलक्षणीया भवति-
गृहपतिसुतोच्चितेष्वपि पश्यत कार्पासवृन्तेषु।
मोघं भ्रमति पुलकितो लग्नस्वेदाङ्गुलि: करो वध्वा:।।४/५९
ग्रामवासिन्यो मधूकपुष्पावचयाय ग्रामपरिसरं प्रयान्ति। भवन्ति तासां सङ्केतकेलयोऽपि तत्रैव। यथा हि मधूकपादपापदेशेन प्रियमामन्त्रयते काचित्-
बहुपुष्पभारनामितभूमीगतशाख शृणु हि विज्ञप्तिम्।
अयि विगलिष्यसि गोदातीरविकटकुञ्जमधुमधूक शनै:।।२/३
ईर्ष्याकुलाश्च केचित्कृषका दयितामप्रेष्य स्वयमेव पुष्पाण्युच्चिन्वन्ति-
१. 'है कपूरमनिमय रही मिलि तनदुति मुकतालि।
छन छन खरी बिचच्छनौ लखति च्छ्वाय तृन आलि।।’ बिहारी-
ईर्ष्यालु: पतिरस्या दत्ते निशि नो मधूकमुच्चेतुम्।
उच्चिनुते स्वयमेव हि मातर्ऋजुकस्वभावोऽयम्।।२/५९
शालिगोपी शालिक्षेत्रे रममाणा शुकपतनशङ्काकुला मनोऽभीष्टं वल्लभमाह-
पङ्क्तिं तरुकोटरतो निष्क्रान्तां पश्य पुंशुकानां हि।
शरदि द्रुमो ज्वरित इव सलोहितं पित्तमिव वमति।।६/६२
आर्यासप्तशत्यामप्युक्तम्-
पथिकासक्ता किञ्चिन्न वेद घनकलमगोपिता गोपी।
केलिकलाहुङ्कारै: कीरावलि मोघमपसरसि।।३/४६
शालिपाके च सङ्केतभङ्गभिया सा विषीदति-
दिवसे दिवसे शुष्यति सङ्केतकभङ्गवर्द्धिताशङ्का।
आपाण्डुरानतमुखी कलमेन समं कलमगोपी।।७/९१
क्षेत्रे भोजनानेत्रीं दृष्ट्वा भावनामत्तो हालिको हलाद्वलदान्मोचयन् नाथमेव मुञ्चति-
नवकर्मिपामरेण हि पश्य सपदि भक्तहारिकां वीक्ष्य।
योक्त्रप्रग्रहमात्रे मोच्येऽप्यवहासिनी मुक्ता।।७/९२
वर्षासु कर्दमपूर्णे क्षेत्रे हलचालनश्रान्त: पामरो रात्रौ शेते, तत्पत्नी च मनोजाकुला खिद्यते-
कर्दममग्नहलाग्रोत्कर्षणशिथिलेऽथ निद्रिते पत्यौ।
अप्राप्तमोहनसुखा घनसमयं पामरी शपते।।४/२४
यस्मिन्दिने क्षेत्रकर्षणमारभ्यते स्म तद्दिने प्रथमं हलपूजाऽभवत्। सर्वेऽपि क्षेत्रेषु गच्छन्ति स्म। स्त्रियो हले आलेपनेन स्वस्तिकादि लिखन्ति। तस्मिन्नवसरे क्षेत्रान्तर्भाविनं प्रियसमागमं स्मरन्त्या: परसंसक्ताया: करौ कम्पेते-
कार्पासवप्रकर्षणदिनमङ्गलमधिहलं प्रकुर्वत्या:।
हृदि धृतमनोरथाया: करावसत्या हि थरथरायेते।।२/६५
नासीत्तासां सविधे साडम्बरा वेषभूषा। एता हि 'नवरङ्गकं’ प्राप्यैव प्रसन्ना भवन्ति-
हलिकस्नुषा हि लब्ध्वा नवनवरङ्गकमलभ्यलाभमिदम्।
पश्यत न माति बृहतीष्वपि तन्वी ग्रामरथ्यासु।।३/४१
नीतानि निबिड०।।४/२८-
रतिरसलम्पटया०।।५/६१
एतेषां प्रेम केवलमिन्द्रियलालसारब्धमेव नाभूत्। आसीदेतत्स्वाभाविकम्। दयिताविरहाकुल: पामरोऽपि प्रियाशून्यं गृहं न प्रविविक्षति-
निष्कर्मणोऽपि शून्यात्क्षेत्राद्वसतिं न पामरो व्रजति।
मृतदयिताशून्यीकृतगृहदु:खं परिहरन् हन्त।।६९
जायाशून्ये भवने०।।४/७३
निरुपाधिकप्रेमविषये कीदृङ् मधुरमुक्तं गाथाकारेण-
विपिनात्तृणमथ विपिनात्पानीयं सर्वत: स्वयं ग्राह्यम्।
हरिणानां हरिणीनां तथापि च प्रेम मरणान्तम्।।३/८७
गृहकार्यविलीनतया अशृङ्गारितापि हलिकसुता लोकानां मनोहारिणी-
प्रेक्षन्तेऽनिमिषाक्षा: पथिका हलिकस्य पिष्टपाण्डुरिताम्।
तनयां दुग्धसमुद्रोत्तरत्सुलक्ष्मीमिव सतृष्णा:।४/८८
मुखनलिनच्छायायाम् ७/२४
ग्रामनायकतनयो ग्रामयुवतीनां विलासलक्ष्यम्। स च जायानुरक्ततया नैतासामभिमुखो भवतीति तं प्रत्याक्रोश:- निष्कृप जीयाभीरुक०।।१/३०
एवं पूर्णयौवना हलिकवधूरपि ग्रामयुवकानां लक्ष्यं भवति-वृतिविवरनिर्गत.।।३/५७
अत्र केवलं ग्रामवासिनामेव स्वाभाविक: शृङ्गारो न वर्णित: प्रत्युत अरण्यवासिनां भिल्लानां किरातानां चापि नैसर्गिकी प्रणयचर्या चित्रिता। नागरिकचर्याभिमानिभि: साहित्य-निबन्धकारै: कैश्चित् शृङ्गाररसो नागराभिमानिषूत्तमपात्रेष्वेव स्वीकृत:, अन्यत्र त्वाभासरूप इति तृतीयशतकस्य अष्टत्रिंशत्तमार्या 'विक्रीणीते’ इत्यादिगाथायां सरस्वतीकण्ठाभरण-मतमादर्शितं मया टीकायाम्। परं स्पष्टोऽयं प्रौढिवाद:। सरलनिसर्गेषु ग्रामवासिषु य: किल पारस्परिक: स्वभावज: प्रणयबन्धो भवति स तावदनुचित:? यत्किञ्चित्प्रायमपि प्रेमलेशं कृत्रिमैराडम्बरैर्बहूकुर्वद्भिर्नागराभिमानिभिरेव किमीश्वरगृहादेतस्य स्वत्वमायत्तीकृतम्? अस्तु, अत्र वनेचराणां व्याधानामपि शृङ्गार: सुमधुरमाबध्यते। प्रियतममेकान्ततो वशीकृतवती व्याधवधू: प्रियप्रणयवञ्चितासु सपत्नीषु गजमुक्तालङ्कृतास्वपि मयूरपिच्छावतंसा भ्रमति- शिखिपिच्छकावतंसा.२/७३
तत्पति: सततसुरतासक्ततया दुर्बलो भवति। अत एव दौर्बल्यवशाद्दुराकर्षं धनुस्तक्षणेन तनूकरोति। एतत्किलात्मन: सौभाग्यं मन्वाना व्याधवधूर्मनस्यभिमन्यते-अद्य कतमोऽपि. २/१९
अत्रोपवर्णितो व्याधो न साधारण:। एष हि हेलयैव मत्तगजानां हन्ता। एतदधिष्ठिते वने वृक्षस्कन्धलग्नं गजमदमालोक्यैव तत्पत्नी निजपतिमरणमनुमिनोति- गज गण्डस्थल. ।।२/२१ अत्र पुलिन्द्यपि प्रियस्य सपत्नीसङ्गशङ्कयापि मानिनी भवति- मधुमक्षिकया. ७/३४
प्राकृतदृश्यानि
अत्र हि स्थाने स्थाने प्राकृतदृश्यानां मनोहारि वर्णनम्- प्रोत्फुल्लघन. ७/३६, निरन्तरं या मेघधारा वर्षन्ति तासु रज्जूत्प्रेक्षां कृत्वा महीमुत्क्षेप्तुमप्रभवत:। अत एव शब्दं कुर्वतो जलदस्य कीदृङ् मनोहरं वर्णनम्- अविरलनिपत. ५/३६, विद्युतो यथा- खरपवन. ६/८३, ८४। मयूरनृत्यम्- ६/५९। मयूरस्तृणाग्रलग्नं वर्षाजलं कथमिवाचमतीति दृश्यतां स्वभाववर्णनम्- ४/९४। ग्रामे सायं भ्रमतां मशकानामपि कथमिव स्वभावश्चित्रित:- ६/६०। वर्षासु गिरिग्रामाणां शोभा.- ७/३६ वर्षासु क्षेत्रवृतेरुपरि ऊर्ध्वचञ्चव: काका: कथं स्थिता:- ६/६३। अम्बरादवत-रन्त्या: शुकप–या: कीदृङ् मनोहारि वर्णनम्- १/७५
शरदि मेघानां शोभा- ७/७९ कमलवनलक्ष्म्या: स्वाभाविकं वर्णनम्- ५/९५; ७/४, अलिपङ्क्ते: शोभा- ६/७४, रात्रौ कमलानामुपरि भ्रमराणां शोभा- ६/६१, शरदि जलानां स्वच्छता- ७/२२, सायमावासग्रहणाय वृक्षशिखरे तिष्ठतां पक्षिणां कीदृक् स्वभावचित्रणम्। उपरित उड्डीय ते प्रथमं लघुशाखाग्रे तिष्ठन्ति किन्तु यावत्तेषामग्रचरणमेव न स्थाप्यते तत: पूर्वमेव तेषां भरेण नमिते शाखाग्रे स्खलितचरणाग्रास्ते पक्षपुटं धुन्वन्त: कथञ्चित्संस्थानं लभन्त इति। मन्ये एवंविधं स्वभावचित्रणं सप्तस्वपि सप्तशतीषु नावलोक्येत कि पुनरेकद्वासु- भरनमित. ७/६०
निर्माणदेशस्याभास:
इयं सप्तशती मध्येदेशे निरमीयतेति स्पष्टमेतदाभास: प्राप्यतेऽस्याम्। विन्ध्यस्य स्थाने-स्थाने वर्णनम्- १/७०, २/१५- १६, ६/७७, मध्यदेशवाहिन्या नर्मदाया अपि बहुशो वर्णनम्- अकृतज्ञ. ६/९९, गोदावर्या अपि प्राप्यते वर्णनम्- ४/५५,
अत्र ह्यार्याणामारम्भिकनिवासस्थले हिमाचलाञ्चल इव नातिमृदुर्ग्रीष्म:, किन्तु तिग्म: पतति। यथा मध्याह्नवर्णनम्- ६/५१, खिन्नस्य- ३/९९, अपराह्णस्नानस्य प्रशंसा- ५/७३,
स्त्रविशेषाणां सूचना
तस्मिन्काले अग्रे बन्धनीयां कञ्चुलिकाम् ('पीठचोली’ व्रजप्रान्ते) स्त्रियो धारयन्ति स्मेत्यत्र सूच्यते। तस्यां हि स्तनयो: सन्धिबन्धस्थले द्व्यङ्गुलपरिमितमञ्चलम् ('मगजी’ 'गोट’) च संयोज्यते। तस्य हि नाम 'कपाटकम्’। यथा- द्व्यङ्गुलक.- ७/२०
अधुनापि मध्यदेशे तादृश्येव स्त्रीणां कञ्चुलिका प्रचलति। एषा हि 'खण’निर्मिता भवति, यत्र हि द्व्यङ्गुलमञ्चलम् ('कोर’) वानकालिकमेव भवति। प्रायश्च नीलवर्णाम-धिकतयाभिरोचयन्तीत्यहो मध्यदेशीयानां प्राक्तनाचारपालनपाटवम्!
वस्तूनां नामानि
तत्कालप्रचलितानि कानिचन वस्तूनां नामान्यपि चेत: प्रमोदयन्ति। यथा उपरितने पद्ये 'बानगी’ पर्यायकं 'वर्णिका’ पदम्। 'वस्तुपरीक्षार्थं यद्वस्त्वेकदेशप्रदर्शनं तद्वर्णिकेत्युच्यते’ इति गङ्गाधरटीका। गुडनिर्माणाय इक्षुनिष्पीडकं 'यन्त्रम्’ अपि विनियुज्यते स्म यान्त्रिकगुडम्. ६/५४, क्षेत्रसेचनार्थम् 'अरहट्ट’स्य प्रयोग: प्राप्यते- रिक्ता. ५/९०, हलादिचालनकाले बलीवर्द्दानां गले बन्धनीयश्चर्मपट्ट: ('जोत’ इति साम्प्रतं ख्यात:) 'योक्त्रम्’ इति, नासारज्जुश्च ('नाथ’) 'अवहासिनी’ति व्यपदिश्यते स्म ७/९२,
एवं 'त्रपुसी’ ['तेवरसी’ खीरा] ६/३४, 'तुवरी’ ('अरहर’) ४/५८, एकवृन्तगतं बदरयुगलम् 'बदरसङ्घाटी’ ५/१९, कपिकच्छू: 'कोंछ’ ६/३२, हालाहल: 'बहमनिया’ १/६२, छल्ली 'छाल’ २/१५, शारी ('सार’ 'गोट’) २/३८, दुर्मोच्यो ग्रन्थि: ('फंदा’) दुर्दोली २/४९, इत्यादीन्यपि नामानि प्राप्यन्ते।
व्रतविशेषाणां नामानि
प्राक्प्रचलितानां तप: सूचकानां केषाञ्चन व्रतविशेषाणामपि नामान्युपलभ्यन्ते- यथा श्यामशबलाख्यो यत्र वह्नौ प्रविश्य जले प्रविश्यते-२/८५, अग्निपानीयाख्य: ३/११, चतुर्थ्यादि-व्रतेषु चन्द्रायार्घ्यदानमपि वर्ण्यते- हसित: प्रशंसता. ४/४६, व्रजभाषाकविर्विहारी अप्याह-
'तू रहि, हौं ही सखि लखौं, चढि न अटा बलि बाल।
सब हि नु बिन ही ससि लषैं, दैहैं अरघ अकाल।।’
उत्सवा:
होलिकामहोत्सवस्य साम्प्रतं प्रचलित: प्रकारस्तदुपकरणसम्भारश्च प्रागप्युपलभ्यते। अत्र हि रङ्गजलस्य वर्णचूर्णस्य ('गुलाल’) च प्रक्षेपो वर्ण्यते- घेत्तूण. ४/१२,
संस्कृतग्रन्थेषु होलामहोत्सवे रङ्गप्रक्षेपादेर्वर्णनं न्यूनमेवोपलभ्यते। रत्नावल्यां श्रीहर्षेण 'पिष्टातक’ प्रक्षेपादेरवश्यं वर्णनमुपनिबद्धम्-
'कीर्णै: पिष्टातकौघै: कृतदिवसमुखै: कुङ्कुमक्षोदगौरै:
हेमालङ्कारभाभिर्भरनमितशिर: शेखरै: कैङ्किरातै:।
एषा वेषाभिलक्ष्यस्वविभवविजिताशेषवित्तेशकोषा
कौशाम्भी शातकुम्भद्रवखचितजनैवैकपीता विभाति।।’
'पेक्ख दाव इमस्स महुमत्तकामिणीजणअंगाहगहिदसिंगकजलप्पहारणच्चन्तणा-अरजणजणिदकौदूहलस्स समन्तदो सुव्वत्तमद्दलुद्दामचच्चरीसद्दमुहररत्थामुहसोहिणो पइण्णपडवा-सपुञ्जपिञ्जरिज्जन्तदिसामुहस्स सिरिअं मअणमहुस्सवस्स१’।
अस्योत्सवा पूर्वं 'मदन:’ 'मदनोत्सव:’ इति वा प्रसिद्धिरासीत्। दक्षिणाञ्चलेऽद्यापि होलोत्सवस्य मदनोत्सवनाम्ना ख्याति:। अस्मिन्निरर्गल: शृङ्गार: पूर्वमपि प्राचलत्। मादकसेवनं कुसुम्भरञ्जि-तवस्त्राणां धारणं च साम्प्रतमिव तदाप्युत्सवाङ्गं पर्यगण्यतदयितकर.।।६/४४, ४५।।
फाल्गुनोत्सवे मिथ: कर्दमप्रक्षेपस्य सप्तशतीकालेऽपि रीतिरासीदित्युपलभ्यते- फाल्गुनमहनिर्दोष. ४/६९
अन्येषां क्रीडाविशेषाणामपि सप्तशत्यां सूचनं प्राप्यते। यथा उत्तानशयितस्य जनस्य चरणोपर्युपविष्टानां बालानां पतनोत्पतनात्मिका क्रीडा 'उत्फुल्लिका’-उत्फुल्लिकया. २/९६,
चूतलतिकानाम्नी युवक्रीडा, यत्र हि नवलतिकाभिर्हत्वा प्रियस्य नाम पृच्छ्यते- नवलतिका. १/२८,
आचारविशेषा:
प्रथमप्रथमं वरसङ्गमे 'आनन्दपट:’ [लग्नलोहितं वधूवस्रम्] वरसम्बन्धिनीभिर्महि-लाभिर्लोकेषु प्रदर्श्यत इत्याचारस्य सूचनं प्राप्यते- कृत्रिममानन्द.।।५/५७,
राजपुत्रेषु सम्प्रतमपि सोऽयमाचार: प्रचरति। गङ्गाधरस्तु 'आनन्दपट: प्रथमपुष्पवती-वम्। प्रथमरजोदर्शने जाते तद्वस्त्रं बन्धुभिर्लोकेषु प्रदर्श्यत इति देशविशेषे आचार:। जारसम्बन्धदृष्टशोणिताया अस्थानं सम्भ्रमदर्शनेन जारस्य हास इति बोध्यम्’ इत्याह। रजोदर्शने जारसम्बन्धस्य क: स्वरस इति मार्मिकैर्विचार्यम्।
रजोदर्शने हरिद्रामिश्रघृतेन (वर्णघृतेन) लिप्तमुख्या पुष्पवत्या स्थीयत इत्याचारसूचनं यथा- आदरनमिता. १/२२
ऋतुस्नाते हरिद्रोद्वर्तनं क्रियते। यथा- स्नानहरिद्रा. १/८०, सन्ततेर्दन्तजननपर्यन्तं स्त्रीष्वरमणं यथा- गृह्णीत पश्य. २/१००,
उत्सवावसरे गृहनारीभि: प्रतिगृहं सम्बन्धिभ्यो वायनकानि [जयपुरे 'लाहिणा’] दीयन्ते- नीतानि निबिड. ४/२८, नवभोगिनी. ७/३,
विवाहोत्तरं चतुर्दिनानि श्वशुरगृह एव जामाता निवसति। चतुर्थे दिने चतुर्थीमङ्गलम् [होमादिकम्] सम्पाद्य स्वगृहं गच्छतीति व्यवहारो यथा- उपगत ७/४४,
कृष्णसारमृगो दक्षिणाद्वामं गच्छन्नशुभ इति शकुनविचारो यथा- एकोऽपि कृष्णसारो १/२५,
१. 'प्रेक्षस्व तावत् अस्य मधुमत्तकामिनीजनस्वयंग्राहगृहीतशृङ्गकजलप्रहारनृत्यन्नागरजनजनितकौतूहलस्य समन्तत: सुवृत्तमर्दलोद्दामचर्चरीशब्दमुखररथ्यामुखशोभिन: प्रकीर्णपटवासपुञ्जपिञ्जरायमाणदिशामुखस्य श्रियं मदनमहोत्सवस्य।’
अस्वस्थतायां सम्बन्धिन: स्वास्थ्यप्रश्नाय रोगिणो गृहं गच्छन्ति। यथा- सुखपृच्छक. १/५०, सुखपृच्छिका. ४/१७,
आसीत्पूर्वं ग्रामेषु पर्णकाष्ठाद्याच्छादितेषु गृहेषु वास:। अत एव दुर्दैवादग्निकोपे जाते तन्निर्वापणाय दूरदूराज्जना आहूयन्ते स्म। तत्सूचनार्थं डिण्डिमस्ताड्यते स्म- उत्पथधावित. ६/३५,
सप्तशतीनिर्माणकाले सतीदाहप्रथा साधारणतया प्रचलितासीदिति सूच्यते- अनुमरण. ७/३३, निर्वाप्यते हि. ५/७ ग्रामण्य: ५/४९,
पूर्वं ह्यपराधेषु घोरतमा दण्डा: प्रदीयन्ते स्म। श्मशानपादपे लम्बयित्वा चौराय उद्बन्धनेन प्राणदण्ड: प्रादीयत- नोल्लापयमाने. ६/३६, शूलारोपणप्रथाया अपि सूचना यथा- धाराविधौत. ६/६३,
य: किल प्राणदण्डार्थं वधस्थाने नीयते स्म तदग्रे दोषघोषणार्थं पटहस्ताड्यते स्म- तेन विना बत. १/२९। मुद्राराक्षसेऽपि स्थाने स्थाने एतत्प्रथाया: सूचना प्राप्यते।
गृहवाटिकायां लोका: प्रायशोऽङ्कोटवृक्षमवश्यं रोपयन्ति स्म- मदयति. ५/९७, गर्भिणीं प्रति दोहदप्रश्नस्य प्रथा यथा- किं किं नु. १/१५,। दुर्गतगेहे. ५/७२,
पूर्वं हि शौर्यपूर्वकमपहरणेन चौर्येण च बन्दीकृत्य नार्यो नीयन्ते स्म। एतद्वन्दीकरणम-पहर्तु: पक्षे यथा शौर्यचिह्नं पर्यगण्यत, तथैव शौर्यप्रदर्शनपूर्वकं तन्मोचनं तद्भर्तुरपि वीरताख्यात-येऽभूत्। वीरताभिमानिनो रावणस्य सुराङ्गनाबन्दीकरणात्परितोषो माघादावपि वर्णित:-
'अभीक्ष्णमुष्णैरपि तस्य सोष्मण: सुरेन्द्रबन्दीश्वसितानिलैर्यथा’ १/६५
अत्रापि बन्दीकृतनारीणां भर्तृशौर्योपर्यभिमान: सबहुमानमाविष्कृत:-
वज्रपतना. १/५४, ५७। बन्द्या प्रवीर. २/१८, नो बन्दि. ६/२७,
शत्रुनारीणां बलाद्बन्दीकृत्यापहरणमस्मिन्समयेऽपि कविभि: शौर्यप्रख्यापकमगण्यत। 'टोंक’ राज्याधिपतीनां पूर्वपुरुषो मीरखाँनामको यदा हि जयपुरराज्यमाचक्राम तदा जयपुरराज्येन प्रहितो 'लदाना’ स्थानाधिपतिर्भारतसिंहो मीरखानं पराजित्य तन्नारीर्बन्दीकृत्यानिनाय। एतस्य वर्णनमस्मत्पूर्वजै: श्रीमण्डनकवीन्द्रै: कृते 'भारतचरित्र’ नामके व्रजभाषाकाव्ये सुमनोहरमुप-लभ्यते। तस्यैकं पद्यमधस्ताद्दीयते-
'मदनके बेटे तैनें मार पठनेटे सबै
घेरी ता समैंमें भई देह जिन जुरमें
मुख महताब औ गुलाब सम आव दिपै
नैंन धोय सुरमें बह्यौ है नीर उरमें।
हीरा पुखराज लाल मोतिनसों छांई रहैं
मण्डन अनेकविध खाती खान खुरमें
बात यह बाँकी चहुं चक्कनमें छाय गई
ल्यायकें किलामें धरीं मीरखाँ की हुरमें।।’
सप्तशतीसमये खण्डखण्डराज्यानां प्रायश: सूचना प्राप्यते। शासनविषये तत्तद्ग्रामाधि-पतीनां पूर्णं स्वातन्त्र्यमासीत्। यथा-प्रहरवनमार्ग. १/३१, चिन्तयति. ७/२८, ३१. प्रजानामुपरि राज्ञ: पर्याप्त आतङ्कोऽभवत्। राजविरुद्धं यत्किञ्चिदपि कथयन् जनो राजतो निग्रहस्य पूर्णं भयमा-शङ्कते स्मेति वर्तमानशासनतन्त्रस्य छाया तदाप्यन्ववर्ततेव। आह गाथा-पथिक: पथिकस्य ४/९६
स्वाभाविक: शृङ्गार:
सेयं सप्तशती शृङ्गारप्रधानेति ग्रन्थसङ्ग्राहकेणैवारम्भे प्रोक्तम्। एतस्या निर्मापक: श्रीमान् सातवाहनो नवयौवनोज्जृम्भित: शृङ्गारविषयकाणि काव्यान्येवाभिरोचयामास, अथवा तस्मिन् काले समाजस्य रुचिरेव तादृशी बभूव। अत एवात्र शृङ्गाररस एवाङ्गी। परं सोऽयं प्रतिदिनव्यवहारे हृदयान्तस्तलेन मार्मिकैरनुभूयते तादृश एव, न केवलं कविप्रसूत इति तत्त्वत: प्रवृत्ता जानन्त्येव कोविदा:। इह काचिद्वर्णिका प्रकाश्यते। विस्तरभयात्तेषामङ्का: प्रदीयन्ते। ग्रन्थान्तस्ते विलोकनीया:-
प्रथमशतके- ५, ११, २०, ४४। द्वितीये २३। तृतीये- २६। चतुर्थे ५, २४, ३३, ६८, ७३, १००। पञ्चमे- ७३, ७९, ९८। षष्ठे- १३, १५, ६४, ७६, ८६। सप्तमे- ४५, ४७, ९३, ९७, ९९।
मासप्रसूतादीनां रतिविषये पूर्वरसिकानामनुभवमाह-मासकसूताम्. ३/५९। मालाकारी बहो: कालादेव रसिकानां साभिलाषवीक्षणपात्रमासीदित्यप्यस्यां सूच्यते-युवहृदयानि.- ६/९६, ९८।
विप्रलम्भ:
'विरहिण्यास्तापोद्गारान्माघमासस्य रात्रौ सर्वस्मिन्नपि ग्रामे अग्निमय्यो वात्या: प्रवहन्ति१’ एवंविधं वर्णनमन्यस्यामपि सप्तशत्यां शक्येत विलोकयितुम्, यस्य किञ्चित्परिचय: पूर्वमपि दत्त:। अवश्यमेतेषु कविकल्पनासौष्ठवं पूर्णमात्रायाम्। परं ये किल काव्यं 'जीवनस्य व्याख्याम् मन्यन्ते ते हि नैसर्गिकं वर्णनमेव बहु मन्यन्ते। दृश्यतां गाथाकार आह- वाष्पसलिल. २/८५। अतिकोपापि. ५/९३। पथिकवधू. ६/४०। आश्वासयति ३/८३ तस्या हृदये २/५३। एकैक. ३/२०। रक्षति पुत्रं. ७/२१
२/८५ गाथायामाह- तव विरहे तथा सन्तापो यथा तस्या अधरो वह्निप्रवेशमेवानुभवति। एवं विरहकृतदाहे त्वदनुध्यानजन्यस्तथा वाष्प्रवाहो भवति तथा यदधरो जलमग्नमेवात्मानं मन्यते, इति श्यामशबलव्रतस्य साङ्गता सम्पादिता। व्रतं साधयतीत्यनेन-सर्वमन्यत्प्रत्य-वायजनकमिव अवहेल्य 'केनचिदुपायेन तं लभेय’ इति साधनाचरमफलरूपं भवन्तमेव मन्यत इति नायकं प्रत्यनुरागातिशय: सर्ववस्तुषु निर्वेदश्च सूचित:। दृश्यताम्, अत्र केवलं सन्ताप एव नाधिकीकृत: किन्तु तेन सह विप्रलम्भस्य जीवभूतो रतिस्थायिभावोऽपि ध्वन्यात्मना परमं पोषित:।
विहारिमहाभागस्य विरहवर्णने तु सन्तापस्य दौर्बल्यस्य वा वाच्य एवातिशयोऽत्युक्ति-रूपेण रसिकाँश्चमत्करोति। वर्तमानोऽपि व्यङ्ग्योऽर्थो वाच्याया अतिशयोक्तेरग्रे आत्मानमवकुञ्च्य मादीभवतीति स्थाने स्थाने मार्मिकै: समीक्ष्यम्। गाथायास्तु स्वभावत एव सेयं सरणिर्यत् साधनीयमर्थं व्यङ्ग्यविधयैव सूचयतीत्यास्तां विस्तरो मार्मिकेषु।
देववर्णने शृङ्गार:
ग्रन्थसङ्ग्राहकेण 'अमिअं पाउअकव्वम्’ इति प्रतिज्ञानुरोधाद्देवानां वर्णनेऽपि शृङ्गार एवाङ्गीकृत:। अत्र हि चराचरनायको भगवान् भूतपतिरपि कर्ममार्गमनुरुन्धान इव सन्ध्यामुपास्ते। तन्मध्यत एव भगवत्युमाप्यन्तरीभवति। इयत्सन्निहिता भवति यदर्घ्याञ्जलौ तत्प्रतिबिम्बोऽ-प्यापतति। तदासक्तश्च भगवान्मन्त्रादिकमपि विस्मरति। इमां शैलीं गोवर्द्धनोऽप्यनुससार। आह स्म स:-
सन्ध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन्।
गौरीमुखार्पितमना विजयाहसित: शिवो जयति।।६।।
गाथायां ग्रन्थान्तर्वर्णनीयस्य विषयस्य ध्वनिरूपेण सूचनार्थं भगवान्, शङ्करोऽपि पार्वत्या एकान्तमनुगतश्चित्रित:। स हि जन्मतोऽभ्यस्तं परमप्रियं फणिकङ्कणमपि पार्वतीभयशङ्कया परिहरति- पार्वत्या: १/६९
इतोऽग्रे संस्कृतकवयस्तु शनै: शनैस्तथाग्रेसरा अभवन् यद्देवानां रतिवर्णनमप्यारभन्त। सत्यमिदमनपलपनीयमेव, यत्केचन कवय: शृङ्गारे तथाऽभिमत्ता भवन्ति यदेतेषां विषयपरि-ज्ञानायाप्यवसरो न भवति। यान् देवानेते विघ्नविघाताय स्तोतुमारभन्ते तेषामपि सुरतमेव चित्रयन्त: प्रचलन्ति। ये किल साहित्यनिबन्धकारमूर्द्धन्यास्तदेतद्वर्णनम् 'पित्रो: सम्भोगवर्णनमिवात्यन्त-मनुचितं मन्यन्ते’ तेऽपि स्वस्याकरग्रन्थेष्वेवोदाहरणविधया तादृशमेव वर्णनं प्रसह्य शिक्षयन्ति। काव्यप्रकाशे (५ उल्लासे) शेषोपरि लक्ष्मीनारायणयो: सम्भोग: स्फुटमेवोदाहरणविधयोपात्त:-
विपरीअरए लच्छी बम्हं दट्ठूण णाहिकमलट्ठम्।
हरिणो दाहिणअणं रसाउला झत्ति ढक्केइ।।
१. सुनत पथिकमुँह माहनिसि, लुएं चलति उहि गाम।
बिन बूझें बिनुही सुनै, जियत विचारी बाम।।
'विहारी’ सं. गा..था. ६
शिवपार्वत्योर्यथा- चतुर्थोल्लासे रइकेलिहिअ. (गाथा ५/५५)
शृङ्गरोत्तरसत्प्रमेयरचने अप्रतिद्वन्द्व: श्रीमान् गोवर्द्धनमहाभागस्तु न जाने आरम्भादन्त-पर्यन्तं कियद्वारान् देवानां सुरतं पुरुषायितादिनानाप्रकारैरतिप्रेमपूर्वकं वर्णयति। एष हि महाभागो भगवतीं जगन्मातरं श्रियमपि रागान्धां व्यपदिशति, यतो ह्यनया सुरतरसान्धतया अहिगरुडादय-स्तिर्यञ्च एव किं सर्वजगत: पितामहोऽपि सम्मुखस्थितो न परिगणित:। प्रत्युत स वराको हाराभिघातैभृंशमभ्यर्चित:-
तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति।
फणशतपीतश्वासो रागान्धाया: श्रिय: केलि:।।२४।।
गाथाकारस्तु गोवर्द्धनपद्धत्या देवतानां स्तव एव सर्वं शृङ्गारसत्प्रमेयरचनाचातुर्यं न परिशेषयति। एवंविधा एकमात्रा गाथा सम्पूर्णायामपि सप्तशत्यामुपलभ्यते, या हि ध्वन्यर्थ-सूचनेयऽप्रतिद्वन्द्वा काव्यप्रकाशेऽप्युदाहृता 'रतिकेलि. ५/५५’। अन्यैर्वर्णनै: सह तुलयन्त्वस्या अपि तारतम्यं तीक्ष्णमतय: सूरय:।
घोर: शृङ्गार:
प्राकृतभाषाया: शृङ्गारनिर्भरतामापादयितुं तत्कवय: प्राय: शृङ्गारं निर्मर्यादमावर्णयन्ति, येन घोरशृङ्गारप्रेमिणस्तत्राधिकमासज्यन्ति। अत्रापि स समयो निर्वाहित एव। पुष्पवत्या सह प्रणयचर्चा उक्तैव, यस्या: परिचय: पूर्वं दत्त:। रसिकम्मन्यास्तावत्पर्यन्तमप्यन्धा भवन्ति यत्कुमारीमपि न परिहरन्ति। 'आनन्दपट’ वर्णने सोऽपचारोऽपि पूर्वं सूचित:। 'दीर्घरमणार्थं नायकमन्यमनस्कं करोति’ इत्यादि तु कदाचिदवतरणसौकर्यार्थं टीकाकारैरेव कल्पितं भवेत्, परमनेन तत्समये शृङ्गारसाम्राज्यमवश्यमनुमितं भवति। कामशास्त्रप्रोक्तबन्ध- नखक्षतादिवर्णनं तु शृङ्गारकाव्यानां शोभैव। अत्रापि तेषां स्थाने स्थाने चर्चा। विपरीतबन्धस्य १/५२, ४/९१, ५/८३, ७/१४, आदिषु गाथासु वर्णनम्।
वेश्यानामपि रसिकसमाजे पूर्ण: प्रवेश आसीदित्यनया सूच्यते। तासां प्रेमाण: प्रशस्यन्तेऽथ यथा- नन्दन्तु सुरत. २/५६
वात्स्यायनकामसूत्रेषु गणिकानां भूरितमं गौरवमावर्णितं यत्ता: परमविदुष्यश्चतु:-षष्टिकलानिष्णाता राजनीत्यां परमपडिताश्च समभवन्। अत एव राजानो बहुतरधनदानादिना ता: सम्मान्य राजनीतिसाध्यानि निजकार्याणि सम्पादयन्ति स्म। न ता: केवलं भोगसाधनमेव, प्रत्युत परमविदग्धास्ता राष्ट्राणामुत्थानपतनयोरपि परम्परयोपकरणं बभूवु:। अत एव मन्ये 'वाराङ्गना राजसभाप्रवेश:’ इत्यादिको नीत्यनुमतस्तत्स्तुतिवाद: प्रचलितोऽस्ति। अस्तु अत्र तद्विधा उन्नतप्रतिभा गणिकास्तु न सन्ति परं स्वस्य कलापाण्डित्यं बहुतरमभिमन्यमानास्तादृश्य: सन्ति या अन्यामाद्रियमाणां गुणवती स्वस्याग्रे निरक्षरां मन्यन्ते, यथा- वर्णानप्यविदन्तो. २/९१
स्त्रियो नानाकपटै: पत्युर्दृष्टितो जारं गोपयन्ति स्मेत्यस्य परिचय: पूर्वं दत्त:। एवं स्फुटशृङ्गारवर्णनासमयो गाथाकारेणापि प्रायो निर्वाहित एव। परमेवं सत्यपि पातिव्रत्यस्याप्यादर्श: सामान्यो न। गाथावर्णिता पतिव्रता प्रोषितपतिकाया दीनाया: स्वप्रतिवेशिन्या: 'मन्मण्डनदर्शनेन चरित्रखण्डनं मा भूदिति’ विचारेण स्वयमपि उत्सवादिष्वपि मण्डनादिषु सङ्कुचति- स्वाधीनेऽपि. १/३९
धनवतां निजबान्धवानामप्युहारादिकं दीनस्य पत्युराभिजात्यरक्षार्थमवहेलयति-छायां सुदुर्गतस्य. १/३८
ज्यौतिषविषय:
ज्योतिर्वित्प्रसिद्धो ग्रहगतिसाधनप्रकारोऽपि मनोहरं वर्णितो गाथाकारेण। सूर्यादीनां गतिसाधनार्थं कठिनीरेखामाकृष्य ज्योतिर्विद् गणितं करोतीत्याह गाथा-
कुत्र गतं रविबिम्बम्.- ५/३५
धान्यादिराशेर्मानं यथा- मा प्रतिपक्ष. २/५२
वैद्यकपरिचय:
शारदज्वरे पित्तस्य वमनं तेन सह रक्तमपि नि:सरतीत्याह- पश्यत. ६/६२
नीति:
नीतिविषयिका: सूक्तयोऽपि सरसतमा: समासाद्यन्ते। यथा- प्रथमशतके- ८३, द्वितीयशतके- १३, ३५, ३६, ८६। तृतीयशतके- ५०, ५३, चतुर्थे- १९, २०, २१, पञ्चमे- २४। षष्ठे- १२, ४१। सप्तमे- ९५।
श्लेषचमत्कार:
स्थाने स्थाने, विदग्धाभिनन्दनीय: श्लेषोऽपि चमत्करोति चेत:। यथा- ६/६८, ७/५७, ७/६५। सोऽयं श्लेष: संस्कृते निर्वाहयितुमसम्भव एव बहुषु स्थलेष्वभवत्। यथा 'गोरअम्’ इत्यस्य प्राकृते 'गौरवम्’ 'गोरज:’ इत्युभयमप्यर्थो भवेत्कथमयं संस्कृते सम्भवेत्? यथा १/८९, २/३४, ४/११।
टीका
सेयं गाथासप्तशती आमूलचूडं ध्वन्यर्थबहुलेति निवेदितमेव। अत एवात्र केवलं श्लोकयोजनमात्रेण न टीकानां कर्तव्यं पूरितं भवति। पूर्वमुद्रिता गङ्गाधरभट्टकृता टीका यद्यपि सुमनोहराक्षरगुम्फिता तथापि ध्वन्यर्थान्बहुत्र न सूचयत्यपि। अत्र हि प्रत्येकपदस्य यावद्व्यङ्ग्यार्थो न सूच्यते तावन्न गाथाया महत्त्वमवभासितं भवति। गङ्गाधरस्तु दुर्बोधस्थलेषु सङ्क्षिप्तां टिप्पणीमिव वाच्यार्थस्य करोति। कुत्रचित्तु तद्विषयेऽपि मौनव्रतमवलम्बते। तस्य किञ्चिन्मात्रं निदर्शनमुपस्थापयामि।
सप्तमे-
सुन्दर यदि कौतुकितोऽसि सकलतिथिचन्द्रदर्शनसुखानाम्।
तन्मोच्यमानकञ्चुकमीक्षस्व मुखं मसृणमस्या:।।७२।।
अत्र हि 'सखायं प्रति सख्युक्ति:। दूत्या वा नायकं प्रत्युक्ति:’ एतावन्मात्रीं कृपां कृत्वा पलायितवानग्रे गङ्गाधर:। अत्र को वा चमत्कार इति परीक्षारूपेण बहवो मार्मिका अपि पृष्टा आसन्परं न तेऽपि सहसा वक्तुं प्राभवन्। एवं स्थितौ कियत्यावश्यकता टीकाया इति प्रतीतं भवेत्। अस्यां हि परस्पराश्लिष्टोर्ध्वीकृतमण्डलायितबाहुलतिकं प्रतिलोमक्रमेण कञ्चुकावतारणकाले नायिकाया मुखशोभा सुमधुरमावर्तिता। अत एव कञ्चुकावरणस्य शनै: शनैरपगमे प्रतिपदादिसकलतिथिषूदितस्य चन्द्रस्य क्रमात्सादृश्यं भवतीति सकलतिथिचन्द्र-सदृशत्वं मुखे विचित्रमास्थापितं गाथया। नैतादृशी कल्पना अन्यत्रावलोक्येत। यावदहं स्मरामि सोऽयमर्थो रामभद्रदीक्षितेनाप्युपनिबद्ध:, परमित एवोपजीवित: स:। नायं गाथया अपहृत:, प्राचीनत्वात्तस्या:। अस्तु एवंस्थलेऽपि टीकाया मूकता रोचेत कस्मैचित्?
कुत्रचित्स्वयं टीकापि भ्रान्ता भवति। नवकर्मिपामरेण. ७/९२ इति गाथायां हलवाहने लग्नः पामरो भक्तहारिणीं दृष्ट्वा क्षुभितचित्ततया योक्त्रस्य 'जोत’ इति ख्यातस्य वृषकण्ठावसक्तस्य चर्मपट्टस्य प्रग्रहमात्रे बन्धमात्रे मोक्तव्येऽपि नासारज्जुं मुञ्चतीत्युच्यते। टीकाकृदाह- योक्त्ररूपे प्रग्रहे इति। छायापि भ्रामिका। अत एव सन्देहचिह्नाङ्किता छाया द्विर्मुद्रणीयाऽभवत्।
आपृच्छन्ति. ७/८० इति गाथायां 'खडिएहिं’ खंडिएहिं’ इति भ्रामकमात्रे पाठद्वये 'खड्गिकै:’ इति छाया क्लृप्ता। न च टीकायां तत्सङ्गति: कृता। इह हि 'खटिक’ इति पाठो वास्तव:। स च पशुहिंसकार्थं सङ्गमयन्प्राकृतकोशेष्वप्युपलभ्यते, किन्तु टीकाकृदत्रापि मौनी। यद्वदति तदपि मूलान्न सङ्गच्छते।
बधिरान्धा: किल. ७/९५ गाथायां 'मूइल्लओ’ इत्यस्य 'मूलक:’ इत्यर्थ: कृतो य: किल मार्मिकमपि विद्वांसं प्रच्यावयति सत्यादर्थात्। अत्र हि 'मूक:’ इत्यर्थो वास्त्ये, य: सङ्गच्छते प्रकरणेन। दृश्यतां धनपालकृत: 'पाइअलच्छी’ प्राकृतलक्ष्मी’ कोष:। आनन्दस्त्वयं यत् टीकाकृत् 'मूलक:’ इति छायां करोति, परं न तां व्याख्यया सङ्गमयति। केवलं भ्रामयित्वा पृथक्पलायते।
एवमाद्या असुविधा: स्थले स्थले प्राप्यन्ते, कियत्यो वा ता: प्रदर्श्येरन्। किं च अस्मिन्समये न मादृशानां तलस्पर्शिनी मतिरित्यादि सर्वमिदं सौविध्यमनुमाय सेयं टीका निरमीयत। अत्र व्यङ्ग्यार्थप्रकाशनाय यावच्छक्यमधिकाधिकं प्रयतितम्। सेयं टीका गङ्गाधरटीकामवलोक्यैव न्यबध्यत। व्याख्यासापेक्षोऽपि योऽर्थस्तत्र परित्यक्त: सोऽस्यां पर्यगृह्यत। व्यङ्ग्यार्थस्थले विस्तरेण तत्प्रकाशनचेष्टाऽक्रियत। गुणदोषविवेचका: वाचका: स्वयमिदमेनाम-वलोक्य परीक्षिष्यन्ते तत्किं नाम वागारम्भणेन।
किञ्चेदमपि निवेदनीयमापतितं हतविधेर्दुर्विलासात् यत् 'सतसईसंहार’ सर्गात् हिन्दी साहित्ये सुतरां लब्धप्रतिष्ठेन विहारिसप्तशत्या: सञ्जीवनभाष्यारम्भकेण पं. पद्मसिंह-महोदयेन गाथासप्तशतीं विहारिसप्तशतीं च मिथस्तुलयता गाथापेक्षया विहारिकृतेर्य: किल समुत्कर्ष: साधितस्तस्यात्रालोचना विहिता। टीकां रचयता मया सोऽयं सन्दर्भो बहो: कालात्पूर्वमेव न्यबध्यत। अस्य कियांश्चनांशो 'माधुरी’ नामकहिन्दीमासिकपत्रिकायां प्रकाशितोऽप्यभूत्पूर्वम्। किन्तु सम्प्रति सखेदं शृणोमि यत्साहित्यमार्मिकोऽसौ पद्मसिंहमहोदयो लोकान्तरं प्रयात इति। हन्त मन्मनसि भूयान्खेदो यदेषा आलोचना तल्लोचनातिथिर्न भूत्वा पुस्तकाकारे सम्प्रति प्रकाशिता भवतीति। हन्त को वा विधे: प्रभवेत्।
वाराणसेयगर्वर्नमैण्टसंस्कृतकालेजस्याध्यक्षपदमधितिष्ठत: सुप्रसिद्धप्राच्यसाहित्य-मार्मिकस्य एम्. ए. पदमण्डितस्य श्रीगोपीनाथकविराजमहाभागस्य भूयांसमुपकारमधिवहामि यो हि सातवाहनस्य गाथासप्तशत्याश्च परिचयदिक्प्रदर्शनाय पाश्चात्त्यपद्धत्या 'वाङ्मुखम्’ [Four Words] निबन्धुमन्वग्रहीत्। मार्मिका: पाठकमहाभागा: प्राक्संस्करणमुद्रितमुपोद्घातम्, मन्निबद्धां भूमिकाम्, तत्र प्रदर्शिता रचनामातृका:, कविराजमहोदयस्य वाङ्मुखं चैतदादि सर्वामपि सामग्रीमेकत्र सङ्कलय्य सप्तशतीविषये भूयस: परिज्ञातव्यविषयान् तत्तथ्यनिर्णयं च स्वस्वमत्या सम्यगुन्नयेयुरिति मनसि भूयस्तरां विश्वसिमि।
एतद्ग्रन्थस्य सम्पादने जयपुरराजकीयज्योतिर्यन्त्रशालाप्रधानदैवज्ञेन भूतपूर्व काव्य-मालासम्पादकेन बाल्यसुहृदा पं श्रीकेदारनाथशर्ममहाभागेन समये समये सुबहु साहाय्य-माचरितमिति हृदयत: कृर्तज्ञ्यमावहामि।
अन्ते च नवसभ्यमहाभागान्प्रति पुनरावेदयामि-
निभृतनिषेव्यममृतमयमुपवनमिदमार्यरसिकानाम्।
नाऽऽवश्यकप्रवेशा:१ सुधिय: क्षाम्यन्तु तत्सदयम्।।
आषाढशुक्लद्वितीया भट्टश्रीमथुरानाथशास्त्री साहित्याचार्य:
सं. १९८९
१. शृङ्गाराधिक्यदर्शनान्नवरुच्यनुसारं न आवश्यक: प्रवेशो येषां ते। तथा च रुचेर्भेदात्तेषां सम्मतमत्र नास्तीत्यत्र निभृतोपवने तेषां प्रवेशाधिकारोऽपि नास्तीत्याशय:।
-------
सातवाहन:
दीपकर्णिसूनु: सातवाहनो नाम कश्चन विद्वान्महीपति: प्रतिष्ठानपुरे बभूव, यत्सभां बृहत्कथाप्रणेतृगुणाढ्य- कालापव्याकरणकर्तृशर्ववर्मप्रभृतयो भूयांसो विद्वांसो मण्डयाञ्चक्रुरिति कथासरित्सागरषष्ठतरङ्गस्थितकथात: प्रतीयते. 'सोऽहं दरिद्रो वित्तार्थी प्रयातो दक्षिणापथम्। प्राप्त: पुरं प्रतिष्ठानं नरसिंहस्य भूपते:।।’ (३९/१०८) इत्यादिकथासरित्सागरस्थश्लोकेभ्य एव दक्षिणापथे प्रतिष्ठानपुरमस्तीत्यप्यवगम्यते१ तच्चाधुना 'पैठण’ नाम्ना प्रसिद्धमस्ति. 'कर्तर्याकुन्तल: शातकर्णि: शातवाहनो महादेवीं मलयवतीं [जघान]’ इति वात्स्यायनप्रणीतकामसूत्रस्य द्वादशाध्यायोपान्ते समुपलभ्यते. डॉक्टर पीटर्सनेन बुन्दीनगराधीशपुस्तकालयादानीते गाथासप्तशतीपुस्तके२ 'राएण विरइआए कुन्तलजणवअइणेण हालेण। सत्तसई अ समत्तं सत्तममज्झासअं एअम्।। इति सप्तमं शतकम्। इति श्रीमत्कुन्तलजनपदेश्वर३-प्रतिष्ठानपत्त-नाधीश-शतकर्णोपनामक-द्वीपि (दीप) कर्णात्मजमलयवतीप्राणप्रियकालापप्रवर्तकशर्व-वर्मधीसखमलयवत्युपदेशपण्डितीभूतत्यक्तभाषात्रयस्वीकृतपैशाचिकपण्डितराजगुणाढ्य-निर्मितभस्मीभवद्बृहत्कथावशिष्टसप्तमांशावलोकनप्राकृतादिवाक्पञ्चक (?) प्रीत-कविवत्सलहालाद्युपनामक-श्रीसातवाहननरेन्द्रनिर्मिता विविधान्योक्तिमयप्राकृतगीर्गुम्फिता शुचिरसप्रधाना काव्योत्तमा सप्तशत्यवसानमगात्।।’ एवं समाप्तिश्च वर्तते, एतद्विलोकनेन वात्स्या-यनस्मृत: कथासरित्सागरवर्णितश्च सातवाहन४ एक एव। तेनैवेयं गाथासप्तशती प्राचीनग्रन्थेभ्य: सङ्कलिता. स च ख्रिस्ताब्दस्य प्रथमशतक आसीदित्याधुनिकानां विद्वद्वराणां निश्चय:। युक्तं चैतत् यत: शकप्रवर्तक: शालिवाहन एव सातवाहन इति निर्विवादैव प्रथमशतके५ तस्य स्थिति: अयं गाथासंग्रहकर्ता सातवाहनोऽन्यै: प्रत्नकविभिरप्यभिष्टुत: यथा- 'अविनाशिन-मग्राम्यमकरोत्सातवाहन:। विशुद्धजातिभि: कोषं रत्नैरिव
१. राजशेखरसूरिप्रणीते प्रबन्धकोषे सातवाहनप्रबन्धे 'अधुना तु दक्षिणदेशस्थितं प्रतिष्ठानपुरं क्षुल्लकग्रामतुल्यं वर्तते।’ इत्यस्ति. २. डॉक्टर् पीटर्सनस्य तृतीये रिपोर्टाख्यपुस्तके ३४९ पृष्ठे दृष्टव्यम्, ३. 'कामगिरिं समारभ्य द्वारकान्तं महेश्वरि। श्रीकुन्तलाभिधो देशो हूणदेशं शृणु प्रिये।।’ इति शक्तिसङ्गमतन्त्रम्. तस्मिन्समये च गुर्जरदेशेऽपि सातवाहनस्यैव प्रभुत्वमासीत्, यतस्तेन सन्तुष्टेन स्वसचिवाय शर्ववर्मणे भरुकच्छ (भरोच) देशप्रभुत्वं दत्तमिति 'राजार्हरत्ननिचयैरथ शर्ववर्मा तेनार्चितो गुरुरिति प्रणतेन राज्ञा। स्वामी कृतश्च विषये भरुकच्छनाम्नि कूलोपकण्ठविनिवेशिनि नर्मदाया:।।’ अस्मात्कथासरित्सागरषष्ठतरङ्गसमाप्तिस्थश्लोकाज्ज्ञायते. ४. अनन्तराजकलशदेवहर्षदेवादय: कश्मीरमहीपाला अपि सातवाहनकुलोत्पन्ना आसन्निति कह्लणराजतरङ्गिणीत: कथासरित्सागरसमाप्तिस्थितप्रशस्तितश्च प्रतीयते. सोऽपि सातवाहन: कदाचिदयमेव स्यात्. ५. प्रबन्ध कोषे तु 'महावीरस्वामिनि मोक्षं गते ४७० वर्षानन्तरं विक्रमादित्य:। तत्समकालीन एवायं सातवाहन:। कालिकाचार्यसमकालीनोऽपि कश्चन सातवाहन:, सोऽस्मादर्वाचीन:।’ इत्यस्ति. सुभाषितै:।।’ इति हर्षचरितारम्भे बाण:। कोषश्चायमेव गाथासंग्रहरूपो बाणस्य विवक्षित: 'जगत्यां ग्रथिता गाथा सातवाहनभूभुजा। व्यधुर्धृतेस्तु विस्तारमहो चित्रपरम्परा।।’ अयं श्लोक: केषुचित्सूक्तिमुक्तावलीपुस्तकेषु राजशेखरनाम्ना समुद्धृतो दृश्यते. 'सच्चं भण गोदावरि पुव्वसमुद्देण साहियासन्ती। सालाहणकुलसरिसं जइ ते कूले कुलं अत्थि।। उत्तरओ हिमवन्तो दाहिणओ सालवाहणो राआ। समभारभरक्कन्ता तेण न पल्लत्थए पुहवी।। एतद्गाथाद्वयं राजशेखरसूरिप्रणीते प्रबन्धकोषे सातवाहनप्रबन्धे समुपलभ्यते।
शतानन्दसूनुमहाकविश्रीमदभिनन्दप्रणीतरामचरिताख्यमहाकाव्यस्य सप्तमसर्गान्ते पञ्चदशसर्गान्ते च 'नम: श्रीहारवर्षाय येन हालादनन्तरम्। स्वकोष: कविकोषाणामाविर्भावाय सम्भृत:।।’ अयं श्लोक:, द्वात्रिंशत्सर्गसमाप्तौ च 'हालेनोत्तमपूजया कविवृष: श्रीपालितो ललित: ख्यातिं कामपि कालिदासकवयो नीता: शकारातिना। श्रीहर्षो विततार गद्यकवये बाणाय वाणीफलं सद्य: सत्क्रिययाभिनन्दमपि च श्रीहारवर्षोऽग्रहीत्।।’ अयं श्लोक: समुपलभ्यते। एतेन श्रीपालितकविनैव धनलिप्सया स्वप्रभोर्हालस्य नाम्नायं गाथासप्तशतकग्रन्थ: संगृहीत: स्यादित्यप्यनुमीयते. सातवाहनस्यैव हाल:, शाल:, सालवाहन:, एते पर्याया: सन्तीति हैमकोषादिषु१ सुव्यक्तमेव।
संग्रहरूपेऽस्मिन्ग्रन्थे काश्चन गाथा हालप्रणीता अपि सन्ति. यत: क्वचित्पुस्तके चतुर्थगाथामारभ्य द्वादशगाथापर्यन्तं प्रतिगाथाग्रे तत्तद्गाथाकर्तॄणां 'हालस्स (हालस्य), वोडिसस्स, चुल्लोहस्स, मअरन्दसेणस्स (मकरन्दसेनस्य), अमरराअस्स (अमरराजस्य), कुमारिलस्स (कुमारिलस्य), सिरिराअस्स (रीराजस्य), भीमस्सामिणो (भीमस्वामिन:), हालस्स, एतानि षष्ठ्यन्तानि नामानि समुपलभ्यन्ते. अग्रे च लेखकप्रमादेन गलितानीति भाति एतद्वन्यान्तर्गता
१. 'शालो हाले मत्स्यभेदे’ इति, 'हाल: सातवाहनपार्थिवे’ इति च हैमानेकार्थ:- ''शलति शाल:। श्यति वा। 'श्यामाश्या-’ इति ल:। हाल: सातवाहननृप:। तत्र यथा- 'जज्ञे शालमहीपाल: प्रतिष्ठानपुरे पुरा।’’ इति ''यथा-दिवं गते हालवसुन्धराधिपे।।’ इति च तट्टीका अनेकार्थकैरवाकरकौमुदी, 'हाल: स्यात्सातवाहन:’ इति हैमनाममाला. 'हलत्यरातिहृदयं हाल:। ज्वालादित्वात् ण:। सातं दत्तसुखं वाहनमस्य सातवाहन:। सालवाहनोऽपि।’ इति तट्टीका अभिधानचिन्तामणि: 'सालाहणम्मि हालो’ इति देशीनाममाला। हाल: सातवाहन:’ इति तट्टीका। 'शालोहालनृपेऽपि च’ इति त्रिकाण्डशेषानेकार्थ:. कथासरित्सागरे तु- 'सातेन यस्मादूढोऽभूत्तस्मात्तं सातवाहनम्। नाम्ना चकार कालेन राज्ये चैनं न्यवेशयत्।।’ इति सातवाहनपदस्य निरुक्तिरुक्तास्ति. सातो नाम कश्चन यक्ष: कुबेरशापेन सिंहतां प्राप्त: तेनायं स्वपृष्ठेऽधिरोपित इति कथापि तत्रैवास्ति. वात्स्यायनीयकामसूत्रे तु 'शातवाहन’ इति तालव्यादि: समुपलभ्यते. वायु-मात्स्यविष्णुपुराणेषु भागवते च हालमहीपतेर्नाम समुपलभ्यत इति विद्वद्वरभाण्डारकरोपाह्व-रामकृष्णशर्मभि: प्रणीते दक्षिणप्राचीनेतिहासनाम्नि पुस्तके २५ पृष्ठे विलोकनीयम्, शातकर्णे: सातवाहनस्य विस्तरेण वर्णनं च तत एवावधार्यम्।
गाथा ध्वन्यालोके, तल्लोचने, सरस्वतीकण्ठाभरणे, काव्यप्रकाशे चोदाहृता: सन्ति, कुलबाल-देवनिर्मिता१ गङ्गाधरभट्टनिर्मिता चास्य टीका समुपलभ्यते, तत्र गङ्गाधरभट्टनिर्मितैव समीचीना टीकाकर्त्रोर्देशकालौ चानिश्चितावेव।
जर्मनीदेशे टीकारहितोऽयं ग्रन्थो रोमन्लिप्या वेबरपण्डितेन मुद्रित: स च तद्देशी- यानामेवोपकारक इति गङ्गाधरभट्टप्रणीतटीकासमेतोऽस्मामिर्मुद्रयितुमारब्ध:१, भविष्यति चायमतिप्रत्नो मनोहरश्च ग्रन्थो रसिकानां हृदयावर्जक इति दृढमाशास्महे,
प्राक्संस्करणे काव्यमालासम्पादक म. म. पं. दुर्गाप्रसादशर्मणामुपोद्धात:।
१. पुस्तकान्तरे 'कुलनाथदेव’ इत्यपि नाम दृष्टमस्ति,
२. प्रथमसंस्करणे गङ्गाधरभट्टटीकासहिता सेयं मुद्रिता। इदानीं तदाधारेण नवीना टीका मुद्रापितास्ति।
हालोपनामकमहाकविश्रीसातवाहनसङ्कलित-
प्राकृतगाथासप्तशत्याश्छायारूपा
भट्टश्रीमथुरानाथशर्मसङ्ग्रथिता
संस्कृतगाथासप्तशती
निजनिर्मितया व्यङ्ग्यसर्वङ्कषाख्यव्याख्यया संवलिता
----
गणनाथे १नतिमयता गुम्फितगाथेन२ मञ्जुनाथेन।
व्यङ्ग्यार्थसारसिद्ध्यै सैषा सर्वङ्कषा क्रियते।।१।।
तत्र प्रथमं प्रकाशयिष्यमाणगाथारत्नकोषस्य निर्विघ्नपरिसमाप्तिसिद्धये कृतं मङ्गलं श्रोतृजनसुखार्थमुपनिबध्नाति कवि:-
प्रमथपते रोषारुणगौरीमुखचन्द्रसञ्चरत्प्रतिमम्।
कलिताऽर्घसरसिरुहमिव सन्ध्यासलिलाञ्जलिं नम।।१।।३
व्यङ्ग्यसर्वङ्कषानिशि तथा प्रकटितप्रणयपरिपाकचेष्टितोऽपि प्रातरेव कथमयं मां विहायाऽन्यां ध्यायतीति रोषेण अरुणं यद्गौरीमुखं तदेव चन्द्र: तस्य सञ्चरन्ती सङ्क्राम्यन्ती
१. नतिं प्रणामम्, अयता स्वीकुर्वता, प्रणामं कुर्वतेत्यर्थ:।
२. संस्कृते निबद्धा: गाथा: येन।
३. पसुवइणो रोसारूणपडिमासंकन्तगोरिमुहअन्दम्।
गहिअग्घपङ्कअं विअ संझासलिलञ्जलिं णमह।।१।।
[पशुपते रोषारुणप्रतिमासङ्क्रान्तगौरीमुखचन्द्रम्।
गृहीतार्घपङ्कजमिव सन्ध्यासलिलाञ्जलिं नमत।।]
प्रतिमा प्रतिबिम्बो यत्र, अत एव कलितार्घसरसिरुहमिव रक्तमुखप्रतिबिम्बव्याजेन गृहीता-र्घपङ्कजमिव प्रमथपते: शिवस्य सन्ध्यासलिलाञ्जलिं नमत। प्राकृते पूर्वनिपातस्याऽनियततया 'सङ्क्रान्तप्रतिमम्’ इति स्थाने प्रतिमासङ्क्रान्तमिति सङ्घटितम्। अथवा प्रतिमया सङ्क्रान्तमिति योजनीयं स्यात्। मत्कृतच्छायायां तु न तादृशक्लेश:। पशुपतेरित्यस्य स्थाने प्रमथपतेरिति तु- 'सर्वेषां प्रमथानां सविध एव मामयमुपेक्षते’ इति प्रणयकोपातिशयं व्यनक्ति। पङ्कजपदस्यापि अर्घाञ्जलौ न स्वारस्यमिति सरसिरुहपदेन परिवर्तितं तद् द्युतिमेव पुष्णाति। शशधरकलामौले: प्रात: सन्ध्यासलिलाञ्जलिवर्णनविच्छित्तिर्ग्रन्थारम्भमङ्गलमुमादेव्या: प्रणयकोपप्रकटनेन वर्णनीयस्य शृङ्गाररसनिर्भरतां चाऽभिव्यनक्ति। अत एवाऽवसानेऽपि 'सन्ध्योपात्तजलाञ्जलिबिम्बितगौरीमुखाम्बुरुहम्।’ इत्यादि भगवत: सन्ध्यासलिलाञ्जलिमुपस्तुवन् समाप्तिमङ्गलं सूचयिष्यति। किं वा- आरम्भे प्रात: सन्ध्याञ्जलिवर्णनेन अवसाने च सायंसन्ध्याञ्जलिस्तवनेन सुनिपुणमयं ग्रन्थकार: प्रारम्भावसाने सूचयतीति स्यादेव सुधियां सुविदितमित्यलम्। ''यद्वा मानिन्या: प्रणयरोषमसहमानं नायकं प्रति दूत्या उक्तिरियम्- 'अनभिज्ञोऽसि प्रेमव्यवहाराणाम्, यस्त्वं प्रियाप्रणयरोषलक्षणे हर्षस्थाने कुप्यसि। न पश्यति किं देव्या: सन्ध्यासलिलाञ्जलावपि प्रणयरोषम्’’ इति गङ्गाधरटीका।
गाथाकोषनिर्माणहेतुमवतारयति-
अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति।
कामस्य तत्त्वचिन्तां कुर्वन्तस्ते कथं न लज्जन्ते।।२।।१
स्त्रीबालादिसकलसुखोच्चार्यवर्णमयत्वादखिलानन्दनम्, शृङ्गाररसनिर्भरत्वेनाऽऽह्लादजन-कत्वादमृतमिव सकलकामनाविषयं प्राकृतकाव्यमवसरे पठितुम्, अपरेण पठितं च श्रोतुं
१. अमिअं पाउअकव्वं पढिउं सोउं अ जे ण आणन्ति।
कामस्स तत्ततन्तिं कुणन्ति ते कहँ१ ण लज्जन्ति।।२।।
[अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च येन जानन्ति।
कामस्य तत्त्वचिन्तां कुर्वन्ति ते कथं न लज्जन्ते।।]
१. 'कहं’ इति पदे 'हं’ इति गुर्वक्षरस्याऽपि छन्दोभङ्गभयाल्लघ्वक्षरवदुच्चारणं विधेयम्, अत्र प्रमाणं प्राकृतपिङ्गले यथा- 'जह दीहो वि अ वण्णो लहु जीहा पढइ होइ सो वि लहु। वण्णो वि तुरिअपढिओ दोतिण्णि वि एक्क जाणेहु।’ इति। 'यदि दीर्घमपि वर्णं लघुं कृत्वा जिह्वा पठति तदा सोऽपि वर्णो लघुरेव भवति। द्वौ वर्णौ त्रयो वा वर्णास्त्वरितपठितास्तानेक एव वर्ण इति जानीत।’ इत्येतट्टीका। एवं 'इं’ 'हिं’ इति वर्णद्वयम्, 'ए’ 'ऊ’ इति वर्णद्वयं शुद्धम्। जवर्ण- (अन्यवर्ण)- मिलितं वा विकल्पेन लघु भवति। तथा रकारयुक्ते हकारयुक्ते वा व्यञ्जने परे- पूर्वाक्षरं विकल्पेन लघु भवति, इत्यादिनियमा: सोदाहरणा: प्राकृतपिङ्गले द्रष्टव्या:। अस्माभिरप्यत्र यस्य गुर्वक्षरस्य लघ्वक्षरवदुच्चारणं भवति तदुपरि एतादृशमर्धचन्द्राकारं चिह्नं स्थापितमस्ति। इति काव्यमालासम्पादकस्वर्गीयमहामहोपाध्याय-श्रीदुर्गाप्रसादानां टिप्पणी।
सम्यग् बोद्धुं ये न जानन्ति, कामस्य तत्त्वचिन्तां (कामतन्त्रचिन्तां वा) कुर्वन्तस्ते जना: कथं न लज्जन्ते। प्राकृतपदाङ्कानुसरणमेव चेत्काम्यं तर्हि- 'कुर्वन्ति च ते’ पाठ्यम्। कामशास्त्रव्युत्पत्ति-विधुरं विदग्धनायिका प्राकृतकाव्यस्तुतिव्याजेन शिक्षयति वा।
साररूपतया स्वग्रन्थस्योपादेयतां सूचयति-
सप्त शतकानि कोटेर्मध्ये कविवत्सलेन हालेन।
गाथानां रचितानि हि नानालङ्कारललितानाम्।।३।।१
कविगाथारत्नकोषनिर्माणेन तत्कीर्तिस्थिरीकरणात्कवीनां वत्सलेन हालेन शालिवाहनेन नानालङ्कारललितानां गाथानां कोटेर्मध्ये (मज्झआरो मध्य:) सप्तशतकानि विरचितानि सङ्गृहीतानीति यावत्। गाथालक्षणं तु पिङ्गले- 'पढमं बारह मत्ता बीए अठ्ठारएहिं संजुत्ता। जह पढमं तह तीअं दहपञ्चबिहूसिआ गाहा।’ संस्कृते तु बन्धानुरोधेनार्यागीत्यन्यतरच्छन्दसा साऽवबोद्धव्या।
पल्लवगहनतया दिनेऽपि दुष्प्रेक्ष्ये कमलिनीपुलिने कयोश्चित्सङ्केतसङ्घटनाऽऽसीत्। ततोऽन्याऽऽसक्तयाऽनागत्यैव-'दत्तसङ्केता त्वं नागता, अहं त्वागत:’ इति वादिनं कामुकं प्रति काचिदाह-
बिसिनीपत्रे निश्चलनि:स्पन्दा पश्य राजति बलाका।
निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव।।४।।२
जनसञ्चाराभावान्निर्भयतया निश्चला चाऽसौ नि:स्पन्दा च बलाका (बकस्त्री), निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव शङ्खघटितं शुक्त्याकारं चन्दनादिनिधानपात्रमिव राजते इति त्वं पश्य। अत्राऽचेतनोपमया लेशतोऽपि सञ्चलनाऽभाव:, तेन च नितान्तं निर्जनत्वं
१. सत्त सताई कइवच्छलेण कोडीअ मज्झआरम्भि।
हालेण विरइआइं सालङ्काराणँ गाहाणम्।।३।।
[सप्त शतानि कविवत्सलेन कोर्टर्मध्ये।
हालेन विरचितानि सालङ्काराणां गाथानाम्।।]
२. उअ णिच्चलणिप्पन्दा भिसिणीपत्तम्मि रेहइ बलाआ।
णिम्मलमरगअभाअणपरिट्ठिआ संखसुत्ति व्व।।४।।
[पश्य निश्चलनि:स्पन्दा बिसिनीपत्र्रे राजते बलाका।
निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव।।]
गम्यते। अनेन च व्यङ्ग्यार्थेन-'मिथ्या वदसि। न त्वमत्राऽऽगतोऽभू:’ इत्यर्थो व्यज्यते। चलनं शरीरक्रिया स्थानान्तरप्रापिका, स्पन्दस्त्ववयवक्रिया स्थानान्तराऽप्रापिका। एवं च पौनरुक्त्यं नाऽऽशङ्कनीयम्। यद्वा नि:स्पन्दत्वेनाश्वस्तत्वं तेन च जनरहितत्वं, तेन च सङ्केतस्थानमिदमिति कयाचित्कञ्चित्प्रति व्यज्यते। अथवा- 'कल्लोलिनीकाननकन्दरादौ दु:खाश्रये चाऽर्पित-चित्तवृत्ति:। मृदुक्रमारम्भमभिन्नधैर्य:। श्लथोऽपि दीर्घं रमते रतेषु।’ इति कामशास्त्राद्दीर्घरमणार्थं नायकस्याऽन्यचित्ततां कुर्वती काचिदाह। निश्चलोऽचलस्तद्वन्नि:स्पन्दा वेगविधारणप्रयत्नवशात्। निश्चलेति पुरुषसम्बोधनं वा। तथा च यदि वेगविधारणपरोऽसि तदेनां बलाकां पश्यन्नन्य-मनस्कतया चिरं रमस्वेति भाव:, इति गङ्गाधरभट्ट:।
रतावपरितोषात्सुरतावसानोचितकृत्रिमोपचारशून्यतया रतान्तेऽपि कटाक्षभुजालिङ्गनादि-विभ्रमं कुर्वतीं नायिकां काचित्सखी शिक्षयति।
रति-समये महिलानां राजन्ते विभ्रमास्तावत्।
कुवलयदलसदृशानि न यावन्मुकुलीभवन्ति नयनानि।।५।।
रतिसमये महिलानामुत्तमस्त्रीणां न तु रमणीनाम्, तासां हि केवलं रमणमेव प्रयोजनमिति भाव:। विभ्रमास्तावदेव राजन्ते पुरुषाणां मनोहारिणो भवन्ति यावद्रतिसुखसम्मोहिततया नयनानि मुकुलितानि न भवन्ति। अतस्तादृशं नायकमुपलभ्य रति सुखाऽप्राप्तावपि प्राप्तरतिसुखयेव त्यक्तविभ्रमया अत एव मुकुलीकृतनेत्रया त्वया भाव्यमिति। अत्र प्राक्तनटीकाकृद्गङ्गाधरभट्ट: ''पुरुषाणां नयनानि यावन् मुकुलितानि न भवन्ति’’ इति व्याचख्यौ। तदेतन्न रमणीयमिव। कामशास्त्रे सुरतान्ते नारीणां सुरतसुखनिमीलिताक्षत्वमुपवर्ण्यते न पुंसाम्। तथा च अनङ्गरङ्गे—''नारी विसृष्टकुसुमेषुजला रतान्ते नित्यं करोति बहुवल्गनरोदने च। कैवल्यमेति मुकुलीकृत-चारुनेत्रा शक्नोति नो किमपि सोढुमतिप्रयासा।।’’ यद्वा विपरीतरतप्रसङ्गे सदर्पां काञ्चिदुद्दिश्य कस्यचिदुक्तिरियम्। विभ्रमास्तावदेव हारिणो भवन्ति यावत्किल पुरुषायितपरिश्रमखेदालसतया नयनानि न मुकुलन्तीति। सरस्वतीकण्ठाभरणे रसाश्रितेषु भोवषूदाहृता सेयं गाथा। (परि. ५)
स्वविलासोपवनरोपितस्य फलपुष्पवन्ध्यस्य कुरबकतरोर्दोहदमन्वेषयन्तं नायकं प्रति बहो: कालादलब्धनायकसमागमाया नायिकाया: सखी वदति—
१. तावच्चिअ रइसमए महिलाणं बिब्भमा विराअन्ति।
जाव ण कुवलअदलसेछआइँ मउलेन्ति णअणाइं।।५।।
[तावदेव रतिसमये महिलानां विभ्रमा विराजन्ते।
यावन्न कुवलयदलसच्छायानि मुकुलीभवन्ति नयनानि।।]
२. दोहलिअम्, पाठान्तरम्।
किं नात्मनो मृगयसे विमृगयसे दोहदं कुरबकस्य।
सुभगैवं तव जाया वलिताननपङ्कजं हसति।।६।।१
सुभगमात्मानं मन्यमानस्त्वं मदालिङ्गनरूपं कुरबकस्य दोहदं प्रार्थयसे नात्मन:। एवं तव जाया सम्बन्धानुरोधेन भार्यामात्रं न तु प्रेयसी, वैमुख्याभिव्यञ्जनाय परावर्तितमुखपङ्कजं हसतीति भाव:। किञ्च 'जाया’ पदेन 'सा सन्ततिजननोचिता’ इति साकूतमुपालम्भो ध्वन्यते। स्त्रीणामालिङ्गनेन कुरबकविकास: कविसमयसिद्ध:। यद्वा 'णोहलिअं’ नवफलोद्गममित्यर्थ:। मदालिङ्गनेन कुरबकस्य फलोद्गमं प्रार्थयसे, आत्मन: पुत्ररूपं फलं किमिति न प्रार्थयसे। अहो तव जाड्यमिति भाव:।
वसन्तसमये प्रवासोन्मुखं नायकं प्रति तत्प्रस्थानमाक्षिपन्ती नायिकासखी समभिधत्ते-
दयितविरहेऽप्यशोकैर्विदग्धवनिता: प्रताप्यन्ते।
कस्यापि कोऽपि सहते प्रभवन् पादप्रहारं किम्।।७।।
अशोकैरननुभूतशोकतया परपीडानभिज्ञै:। दयितविरहेऽपि प्राणप्रियवियुक्ततया दयावसरेऽपि विदग्धवनिता: दयितसमागमवियोगानुभवशालिन्य: प्रकर्षेण ताप्यन्ते। यत: प्रभवन् अवसरोपलब्ध्या समर्थो भवन् कोऽपि कस्यापि पादप्रहारं किं सहते? अपि तु नेत्यर्थ:। कान्तसन्निधौ तु सन्तापसामर्थ्याभावाद्दयितविरहेऽवसरमुपलभमानै: प्रताप्यन्ते इति भाव:। कोऽपि कस्यापीत्यनेन, असम्बन्धिन: कस्यापि, कोऽपि सम्बन्धविशेषरहित: किं पादप्रहारं सहते? वरवर्णिनीचरणताडनरूपं दोहदं त्वयैव कारितेयं मत्सखी तव विरहे लब्धाऽवसरै: सानुशयैरशोकै: प्रताप्यमाना संशयितजीविता स्यादिति भाव:। वनितासु विदग्धविशेषणेन 'या: किल प्रियैकचित्ता दक्षिणा भवन्ति ता एव विरहविकलतामधिकमनुभवन्ति, ततश्च तस्या वैदग्ध्यं न त्वया दु:खकारणं करणीयमिति प्रवासप्रतिषेधो ध्वन्यते। प्रोषितपतिकाया: सख्या तत्कान्तं प्रति लिखिता विरहगाथेयमिति कश्चित्।
१. णोहलिअमप्पणो किं ण मग्गसे मग्गसे कुरवअस्स।
एअं तुह सुहग हसइ वलिआणणपङ्कअं जाआ।।६।।
[दोहदमात्मन: किं न मृगयसे मृगयसे कुरबकस्य।
एवं तव सुभग हसति वलिताननपङ्कजं जाया।।]
२. ताविज्जन्ति असोएहिँ लडहवणिआओॅ दइअविरहम्मि।
किं सहइ कोवि कस्स वि पाअपहारं पहुप्पन्तो।।७।।
[ताप्यन्ते अशोकैर्विदग्धवनिता दयितविरहे।
किं सहते कोऽपि कस्यापि पादप्रहारं प्रभवन्।।]
कस्याश्चित्केनचित्कामुकेन सह तिलवाटिका सङ्केतस्थानं नियतमासीत्। तत: पक्वेषु तिलेषु सङ्केतस्थानान्तरं जारं प्रति श्रावयन्ती श्वश्रूं प्रत्याश्चर्यकथनव्याजेनाऽऽह-
रमणीयं श्वश्रु तथाऽस्माकं ग्रामस्य मण्डनीभूतम्।
लूनतिलवाटसदृशं बिसिनीखण्डं कृतं हि शिशिरेण।।८।।
'श्वश्रु’ इति सम्बोध्यस्य मान्यतया निर्मायं निवेदनार्हत्वाद्वक्तव्यस्य सत्यत्वं सूचयते। पूर्वमस्माकं ग्रामस्य मण्डनस्थानीयं रमणीयं कमलखण्डं शिशिरेण हिमदग्धपल्लवतया नालमात्रशेषत्वाल्लूनतिलकोषेण तिलक्षेत्रेण समं कृतम्। पूर्वं हि पत्राद्याहरणार्थं जनानां तत्र सञ्चारोऽभूदिदानीं तु नेदमपि इति पद्मसरसो विजनत्वं ध्वन्यते। अत एव पूर्वं यथा तिलक्षेत्रं सङ्केतस्थलमासीत्तथा तदिदमिति भाव:। केचित्तु 'तिलक्षेत्रपद्मसरसोरुभयोरप्यगुप्तत्वेन सङ्केत-स्थानान्तराऽभावाद्गृहमेव सङ्केतस्थानमिति ध्वनि:’ इत्याहु:। अभिसारिकाणां तिलवनाब्जिनी-खण्डयोर्बहुमानप्रसिद्धिरिति प्रसङ्गे सरस्वतीकण्ठाभरणे सेयमुदाहृता।
कस्याश्चित्केनचित्सह शालिक्षेत्रं सङ्केतस्थलमासीत्। तत: पक्वेषु शालिषु तद्भङ्गं दृष्ट्वा रुदतीं तामुद्दिश्य सङ्केतस्थानान्तरं श्रावयन्ती सखी आह-
किं रोदिषि नतवदना शालिक्षेत्रेषु धवलितेष्वेषु।
हरितालमण्डितमुखी नटीव शणवाटिका जाता।।९।।
हरितालेन धातुविशेषेण मण्डितमुखी नटीव। शणवाटिका तु पीतकुसुमस्तबकनिकर-मण्डितमौलि-शणतरुनिवहनिरन्तरतया हरितालमण्डितमुखीवेत्युपमा। अथवा हरीणां मर्कटानां जालेन (आलेन) मण्डितं मुखं प्रवेशमार्गो यस्या इति शणवाटिकायां निर्जनत्वेन सङ्केतस्थलं तदिति सूचितम्। मण्डितमुखीत्यनेन यथा शणवाटिका मण्डितमुखी, तथा त्वमपि सङ्केतस्थल-
१. अत्ता तह रमणिज्जं अह्मं गामस्स मण्डणीहूअम्।
लुअतिलवाडिसरिच्छं सिसिरेण कअं भिसिणिसण्डम्।।८।।
[श्वश्रु तथा रमणीयमस्माकं ग्रामस्य मण्डनीभूतम्।
लूनतिलवाटीसदृशं शिशिरेण कृतं विसिनीषण्डम्।।]
२. किं रुअसि ओणअमुही धवलाअन्तेसु सालिछेत्तेसु।
हरिआलमण्डिअमुही णडि व्व सणवाडिआ जाआ।।९।।
[किं रोदिष्यवनतमुखी धवलायमानेषु शालिक्षेत्रेषु।
हरितालमण्डितमुखी नटीव शणवाटिका जाता।।]
नियमनेन प्रसन्नहृदया कृतमण्डना शृङ्गारनाट्यमाचरेति नायिकां प्रति सखी ध्वनयति। 'नतवदने’त्यनेन मुखमानतं कृत्वा किं तिष्ठसि, पश्य मे इङ्गितानीति उन्मुखतासम्पादनं सूच्यते। अथ वा शालिक्षेत्रपाकस्य हर्षस्थानत्वेऽपि रोदनेन लक्षितशालिक्षेत्रसङ्केतस्थला कापि परिहासशीलया कयाचिदेवमुपहस्यते।
कलहान्तरितां नायिकां कान्तानुवर्तनशीलां कर्तुं सखी आह-
ईदृश्येव गति: सखि तिर्यग्विवलितमुखेन्दु मा रोदी:।
प्रेम्णामेतेषां शिशुकर्कटिकातन्तुकुटिलानाम्।।१०।।
सखीत्वेन निर्व्याजं शिक्षणार्हे! नवकर्कटिकातन्तुकुटिलानामेतेषां प्रेम्णामीदृश्येव गति:, अर्थात् सन्निहितमेवाऽनुवर्तन्ते। वेष्टितमेव वेष्टयन्ति। शिशुपदेन अतिनवीनतया मार्दवाऽति-शयान्मनागाकर्षणेनापि त्रुट्यन्तीति शीघ्रमनुनय: सूच्यते। कर्कटिकातन्तुरतिमृदुलो भवति ततश्च यत्र स संसज्यते ततोऽन्यत्र संयोज्य-मानस्त्रुट्यतीति तात्पर्यम्। अत एव यावदन्यत्र दयितस्य प्रेमानुबन्धो न भवति तावदेव मानं विहाय तमेवानुवर्तस्वेति सखीं प्रति सूच्यते। एवं त्वदासक्तचित्ता विरहविधुरेयं मानिनी, तदेनां मनोमालिन्यादर्वागेवाऽनुनयस्वेति कान्तं प्रत्यपि व्यङ्ग्योऽर्थ:।
गृहीतमानाया: कस्याश्चिदनुनयार्थं चरणपतितस्य भर्तु: पृष्ठमारूढं पुत्रं दृष्ट्वा बन्धविशेषस्मरणेन तस्या हास्योदयोऽभवदिति काचित्सखीं प्रत्याह-
पादपतितस्य पत्यु: संरोहति पृष्ठमग्रत: पुत्रे।
निरगाद् गेहिन्या अपि हासो दृढमन्युदूनाया:।।११।।
१. सहि ईरिसि व्विअ गई मा रुव्वसु तिरिअवलिअमुहअन्दम्।
एआणं बालबालुङ्कितन्तुकुडिलाणँ पेम्माणम्।।१०।।
[सखि ईदृश्येव गतिर्मा रोदीस्तिर्यग्वलितमुखचन्द्रम्।
एतेषां बालकर्कटीतन्तुकुटिलानां प्रेम्णाम्।।]
२. पाअपडिअस्स पइणो पुट्ठिं पुत्ते समारुहत्तम्मि।
दढमण्णुदुण्णिआएँ वि हासो घरिणीएँ णेक्कन्तो।।११।।
[पादपतितस्य पत्यु: पृष्ठं पुत्रे समारुहति।
दृढमन्युदूनाया अपि हासो गृहिण्या निष्क्रान्त:।।]
पत्यु: स्वामिन:, न तु वल्लभस्येत्यर्थ:। पुत्रे समारोहतीत्यनेन पुत्रवत्तया गलितयौव-नायामप्यनुरक्त इति ध्वन्यते। गेहिन्या इत्यनेन तस्या एव गृहस्वामिनीत्वात्प्रभावातिशयो द्योत्यते। दृढमन्युदूनाया इति प्रणामेऽपि कोपोपशमाऽभाववर्णनेन स्वाधीनपतिकायास्तस्या: सौभाग्यद-र्पाद्भर्तृविषयेऽनादर:, पत्युश्च तादृश्यामपि स्नेहातिशयो ध्वन्यते। यद्वा कृतकलहयोर्दम्पत्यो रात्रिवृत्तमनुसन्धायाऽऽगता सपत्नी सपत्नीं प्रति तद्वृत्तमाह।
प्रियविरहकातरया कयाचित्प्रेषिता निसृष्टार्था दूती विपरीतलक्षणया नायकं प्रशंसापूर्वकमुपालभमाना भङ्गचा स्वसखीमरणं च सूचयन्ती आह-
सत्यमवैति द्रष्टुं सदृशि जने युज्यते राग:।
म्रियतां न भणिष्यामि, श्लाघ्यं बत मरणमप्यस्या:।।१२।।१
विपरीतलक्षणया ''सा सत्यं द्रष्टुं जानाति, सदृशे जने रागो युज्यते’’ इत्यनेन त्वद्गतचित्तायास्तस्या अनुरागातिशयमपरिजानाति अत एव असदृशे नि:स्नेहे त्वत्सदृशे जने तस्या अनुरागो न युज्यते, अत एव न सा मौग्ध्यात्प्रेमान्धतया वा द्रष्टुं जानाति। ततश्च परिणाममबुद्ध्वैव यत्र कुत्रचित्प्रीतिमादधती प्रत्यहं प्रतप्यमाना सा स्वकर्मणैव म्रियतामित्येव वरम्, परं न त्वां तज्जीवनाय भणिष्यामीत्यर्थ:। एवञ्च यदि स्त्रीवधपातकं नाऽऽकाङ्क्षसि तर्हि त्वद्गतचित्ता सा त्वरितमेव जीवनीयेति नायकं प्रति त्वरितोपसर्पणं ध्वन्यते। अथवा न विपरीतलक्षणा। साधारण एवार्थो यथा- सा मत्सखी सत्यमेव द्रष्टुं जानाति, यतोऽनन्यरूपश्लाघिनी त्वद्रूपमेव बहु मन्यते इत्याशय:। 'सदृशि जने रागो युज्यते’ इत्यनेन रूपाऽभिजनादिभिरनुरूपे त्वयि तस्या: समागमौत्सुक्यं युक्तमेवेति नायिकाया: स्तुत्यनुरागाभ्यां नायकप्रोत्साहनम्। म्रियतामित्यनेन तव समागममप्राप्य सा जीवितं जह्यादिति तस्या दशा सूच्यते। ततश्च तस्य स्त्रीवधपातकम्, आत्मनश्च चानुरोधभङ्गभीरुत्वं ध्वनितम्। अस्या मरणमपि श्लाध्यमित्यनेन अनुरूपानुध्यानात्त्वद्गतचित्ताया मरणे जन्मान्तरे त्वत्प्राप्तिसम्भव इति प्रेमातिशयध्वननेन नायकचेत:प्रोत्साहनं सूच्यते। सरस्वतीकण्ठाभरणे अनुरूपविषयस्यानुराग-स्योदाहरणे गृहीतेयं गाथा (५ परि.)
'गृहकार्यसक्ताया: प्रेयस्या वस्त्रादिमालिन्यं न प्रियवैमुख्याय’ इति मालिन्यशङ्कया गृहकार्यपराङ्मुखीं स्वसखीं प्रबोधयन्ती काचिदाह-
१. सच्चं जाणइ दट्ठुं सरसम्मि जणम्मि जुज्जए राओ।
मरउ ण तुमं भणिस्सं मरणं वि सलाहणिज्जं से।।१२।।
[सत्यं जानाति द्रष्टुं सदृशे जने युज्यते राग:।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयं तस्या:।।]
गेहिन्या माहानसकर्ममसीमलिनितेन हस्तेन।
स्पृष्टं मुखमुपहसति हि चन्द्रावस्थां गतं दयित:।।१३।।१
महानससम्बन्धिकर्मणो या मसीमलिनाम्बुकालिमा तया मलिनीकृतेन हस्तेन स्पृष्टम् सङ्क्रान्तश्यामिकमित्यर्थ:। अत एव सलाञ्छनमिवेति चन्द्रावस्थां गतं मुखं प्रेमातिशय-निबन्धनकुतुकेन दयित उपहसतीत्याशय:। यस्य यदुचितं कर्म तदनुतिष्ठतो वैरूप्यमप्य-लङ्करणमेव। यतो लग्नमसीश्यामिकमपि मुखं पत्या सपरिहासं चन्द्रेणोपमीयते। अत एव कुलस्त्रीणां गृहकार्यविमुखत्वमनुचितमेवेति सखीं प्रति सूच्यते। छायायां छन्दोनुरोधेन कर्मवाच्यस्य कर्तृवाच्येन विपरिणमनं सह्यम्। दयितपदं तु 'दयितत्वेनानुरागदृष्ट्या मलिनीकृतमपि मुखं चन्द्र इवाह्लादयति’ इति स्वारस्यं पुष्णाति। सेयमात्मीया स्वा नायिकेति कण्ठाभरणे भोज: (५परि.)।
फूत्कारमरुता वह्नावज्वलति कुप्यन्तीं काञ्चित्प्रति स्वाभिलाषमभिव्यञ्जन्कश्चिदाह-
रन्धनकर्मनिपुणिके! मा कोपी रक्तपाटलसुगन्धिम्।
धूमायते पिबंस्ते मुखमरुतं नो शिखी ज्वलति।।१४।।२
तव अधरप्राप्त्यर्थम् अग्निकृतपूजोचितस्य रक्तपाटलाकुसुमस्येव सुरभिशीतलो गन्धो यस्य तम्। ते मुखमारुतं पिबन् शिखी धूममुद्गिरति-न च प्रज्वलति। त्वं मा कोपं कार्षी:। रोषारुणत्वन्मुखदिदृक्षया इव धूमोद्गमरूपं चाटुमयमग्रिराचरति। त्वन्मुखमारुतपानलालसयैव नायं ज्वलति, ज्वलिते तस्मिन्मुखमारुतदानानवसरात्। अग्रौ कामुकचेष्टावर्णनेन स्वाभिलाषो ध्वनित:। त्वं तु रन्धनपरतया त्वदवलोकनकौतुकोपगतमपि मां दृष्टापि नाभिनन्दसीति साकूतमुपालभ्यते। वैषयिकीषु रतिषु गन्धे रतिरित्युदाहृतवान् कण्ठाभरणे भोज: (५ परि.)।
१. घरिणीएँ महाणसकम्मलग्नमसिमलिइएण हत्थेण।
छित्तं मुहं हसिज्जइ चन्दावत्थं गअं पइणा।।१३।।
[गृहिण्या महानसकर्मलग्नमषीमलिनितेन हस्तेन।
स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या।।]
२. रन्धणकम्मणिउणिए मा जूरसु रत्तपाडलसुअन्धम्।
मुहमारुअं पिअन्तो धूमाइ सिही ण पज्जलइ।।१४।।
[रन्धनकर्मनिपुणिके मा क्रुध्यस्व रक्तपाटलसुगन्धम्।
मुखमारुतं पिबन्धूमायते शिखी न प्रज्वलति।।]
नवोढाया: कस्याश्चिन्नूतनगर्भधारिण्या: कान्तं प्रति प्रणयातिशयं सूचयन्ती काचिदाह-
किं किं नु रोचते ते मुग्धाया इति सखीविपृष्टाया:।
प्रथमोद्गतदोहदिन्या दयितं प्रति केवलं गता दृष्टि:।।१५।।१
किं किं रोचत इति बहुवस्तुगतमप्यभिलाषं सखीभि: पृष्टया मुग्धया मौग्ध्याद् गर्भायासमजानत्या तया, दृष्ट्या केवलं दयिताऽभिलाष: सूचित:। सर्ववस्तुस्थाने दयित एव सर्वात्मना कामनीय इति भाव:। यद्वा प्रश्ने सति दयिते दृष्टिदानेन 'ममाभिलाषमपि दयित एव जानातीति दयिते हृदयैक्यमभिव्यज्यते। अथवा सपत्नीं प्रति सासूयस्य सपत्नीजनस्योपालम्भवादोऽयम्। मुग्धाया इति मोहवशाद् गर्भायासमप्यपरिगणयन्त्या:। प्रथमोद्गतेति। बहुवारं प्रसूतास्तु गर्भखेदखिन्ना: पूर्वानुभवात्सुरतायासं परिहरन्ति। इयं त्वननुभूतप्रसवखेदा प्रियसमागममेव परमभिलषतीति तदाशय:। सम्भोगपरीष्टिषु, दोहदेन मुग्धाया: प्रेमपरीक्षेति सरस्वतीकण्ठाभरणम् (५ परि.)।
प्रोषितपतिका काचिद विरहदाहवैकल्यमभिव्यञ्जयन्ती कान्तसमागमविषये परिजनं त्वरयितुं चन्द्रप्रार्थनाव्याजेनाह —
अमृतमय गगनशेखर रजनीमुखतिलक चन्द्र हे स्पृश माम्।
तैरेव तात किरणैर्यैरिह मे प्रियतम: स्पृष्ट:।।१६।।२
'दे’ शब्द: सानुनयसम्बोधने। अमृतमयेत्यनेन जगज्जीवनहेतुत्वं शिशिरसुखत्वं च,गगनशिखरेत्यनेन उन्नततया अखिललोकलोचनानन्दकारित्वम्, रजनीमुखतिलकेत्यने-नाऽबलाजनपक्षपातित्वम्, तातेत्यनेन सदयत्वम्, चन्द्रेत्यनेनाह्लादकत्वं चाभिव्यज्यते। एवंविधोऽपि त्वं मां निर्दयं दहसि। प्रवासिनं मद्दयितं तु अमृतशिशिरै: करै: स्पृशसि, अत
१. किं किं दे पडिहासइ सहीहिं इअ पुच्छिआएँ मुद्धाए।
पढमुग्गअदोहणीए णवरं दइअं गआ दिट्ठी।।१५।।
[किं किं ते प्रतिभासते सखीभिरिति पृष्टाया मुग्धाया:।
प्रथमोद्गतदोहदिन्या: केवलं दयितं गता दृष्टि:।।]
२. अमअमअ गअणसेहर रअणीमुहतिलअ चन्द दे छिवसु।
छित्तो जेहिँ पिअअमो ममं पि तेहिं विअ करेहिं।।१६।।
[अमृतमय गगनशेखर रजनीमुखतिलक चन्द्र हे स्पृश।
स्पृष्टो यै: प्रियतमो मामपि तैरेव करै:।।]
एव नाऽद्याप्यायाति। ततो मामपि तैरेव करै: स्पृश, येन विरहवैधुर्यं सहेयेति भाव:। प्रेमपुष्टिषु, प्रलाप: सोऽयमित्युदाहृतं कण्ठाभरणे भोजेन (५ परि.)।
सखि मुञ्चेदानीं विषादम्। आगत एवाऽद्य श्वो वा तव वल्लभ:। किन्तु आगतमात्र एवासौ न त्वयाभिनन्दनीय:, अपि तु मानोपालम्भादिभि: सुचिरं परिखेद्य, ततोऽग्रे प्रवासनिवृत्तिं स्वीकार्य ततोऽसौ परिरम्भणादिभि: सम्भावनीय इति सखीभि: शिक्षिता प्रियतमोत्कण्ठिता प्रोषितपतिकाह—
सोऽप्येष्यति प्रवासी, कोपिष्याम्यहमथाऽनुनेष्यति स:।
इति कस्यापि फलति किल मनोरथानां प्रिये माला।।१७।।१
प्रोषित: स एष्यति, निरनुक्रोशे बहो: कालादनन्तरमागते तस्मिन्नुत्कण्ठिता तदागमन-मात्रसुखिताऽहं कोपिष्यामि, कोपोऽपि तावत्कालं स्थास्यति यावत्स मामनुनेष्यति, इति किल पूर्वत: स्थिरीकृता मनोरथानां माला कस्यापि भाग्यशालिन एव प्रियविषये फलति न मत्सदृश्या:, या किल दृङ्मात्रे पतत्येव सर्वात्मना कान्तवशंवदा मानेऽप्यसमर्था। एवं च इयच्चिरं प्रियतमाऽऽगमने या मानं दधति कठोरचित्तास्ता एव धन्या भवन्तु नाहमित्यात्मनोऽनुरागातिशयो ध्वनित:। गङ्गाधरभट्टस्तु ''कान्तस्य निरनुक्रोशत्वात्, आत्मनश्च कान्तावधीरणभीरुत्वात्। इयच्चिरं प्रेमानुबन्धस्यासम्भाव्यमानत्वाच्च सर्वमेतन्मनोरथमात्रमित्याशयेनाह- इतीति। कस्यापि धन्यजनुष एतत्सम्पद्यते। मम तु मन्दभाग्याया: कुत एतदिति भाव:।’’ इति वदन् कान्ताऽऽ-गमनादिकं सर्वमेव मनोरथमात्रं व्याचख्यौ। 'समारुहति’ 'कुपिष्यामि’ इत्यादिव्याकृतिविरोधास्तु कदाचन लेखकमुद्रकयोरेव प्रमादो भवेत्। प्रवासे, आलिङ्गनादीनां कालहरणमित्युदाहृतं भोजेन।
कथमेषु दिनेषु दुर्बलोऽसीति मित्रेण पृष्टस्य प्रियतमस्य बहुमहिलाऽऽकर्षणं काचित्सेर्ष्योपालम्भमन्यापदेशेनाह—
दुर्गतकुटुम्बकृष्टिर्धौतेन मया कथं नु सोढव्या।
इति पश्य दशाऽपसरत्सलिलेन पटेन रुदितमिव।।१८।।२
१. एहइ सोवि पउत्थो अहं अ कुप्पेज्ज सोवि अणुणेज्ज।
इअ कस्म वि फलइ मणोरहाणँ माला पिअअमम्मि।।१७।।
[एष्यति सोऽपि प्रोषितो अहं च कुपिष्यामि सोऽप्यनुनेष्यति।
इति कस्या अपि फलति मनोरथानां माला प्रियतमे।।]
२. दुग्गअकुटुम्बअट्ठी कहं णु मएँ धोइएण सोढव्वा।
दसिओसरन्तसलिलेण उअह रुण्णं व पडएण।।१८।।
[दुर्गतकुटुम्बाकृष्टि: कथं नु मया धौतेन सोढव्या।
दशापसरत्सलिलेन पश्यत रुदितमिव पटकेन।।]
इयत्कालमहं दरिद्रकुटुम्बकृतमाकर्षणं सोढवानस्मि, परं धौतेन मया जलसम्ब-न्धात्स्तिमिततन्तुतया जीर्णताधिक्ये, आकर्षणं कथं सोढव्यमिति शङ्कया खेदात् दशाभ्य: प्रान्तेभ्योऽपसरत्सलिलेन पटेन रुदितमिव। अर्थाद्बलादाकर्षणवशादचेतनोऽपि पट: प्रान्तग-लज्जलधाराच्छलेन रोदिति, ततो विदग्धोऽयं मत्कान्तो बहुमहिलाच्छन्दानुवृत्त्या कथं न खिन्न: स्यादिति ध्वन्यते। यद्वा कापि वेश्या धनदानं विना बहूनां ग्रामप्रधानानामाकर्षणजन्यमुद्वेगं कुट्टनीं प्रति सूचयितुमित्थं कथयति। वास्तवे तु सप्तशत्यां हालेन गृहीतान्येवमादीनि नीतिसूक्ति-रत्नानि 'अमृतं प्राकृतकाव्यम्’ इत्यादिपद्ये प्राकृतकाव्यस्य कामशारहस्यप्रतिपाद-कत्वप्रतिज्ञा-बलादेव टीकाकारैर्बलाच्छृङ्गारपरतया व्याख्यातानि। परं प्राकृते शृङ्गारेतरप्रतिपादकं पद्यमेव नास्तीति नैतत्तात्पर्यम्। यत्किमप्यस्तु। प्राचामनुरोधादनिच्छयापि मयापि शृङ्गारपरतयैव व्याख्यातानीत्यलं मार्मिकेषु।
कोऽप्यात्मन: परवशतामनुरागातिशयं च नायिकां प्रति प्रकाशयितुं नायिकागृहगामिनं वत्समन्याऽपदेशेनाह —
उन्नामितश्रवोभ्यां तर्णक कोशाम्रकिसलयसवर्ण।
हृदयस्थितं व्रजन्गृहमवाप्नुहि त्वं नु धवलत्वम्।।१९।।१
उत्कण्ठावशादुन्नामिताभ्यां कर्णाभ्यामुपलक्षित। बीजकोषान्नि: सृताम्रकिसलयसवर्ण। रक्तमसृणेति यावत्। एवंविध हे तर्णक! हृदयानुचिन्तितं गृहं व्रजन् धवलत्वं षण्ढत्वं श्रेष्ठतां वा प्राप्नुहि। अहमिव हृदयाऽनुध्यातगृहप्रवेशे पराधीनवृत्तिर्मा भूया इति भाव:। अथवा यां वृद्धां कामयसे तस्या: कृते त्वं तर्णक इवेति कयाचिदाक्रुष्टया कञ्चित्प्रत्युच्यते।
शय्यामनागच्छन्तीं प्रियतमां प्रतीक्ष्य तद्भावजिज्ञासार्थं मध्येशय्यं कृत्रिमनिद्रानिमीलि-ताक्षमत एव कपोलचुम्बनपुलकिताङ्गत्वेन विदितमिथ्यास्वापं कान्तं कान्ताऽऽह—
कृतकस्वापनिमीलितनयन सुभग देहि मह्यमवकाशम्।
गण्डपरिचुम्बनोद्गतपुलक पुनर्नैव चिरयिष्ये।।२०।।२
१. कोसॅम्बकिसलअवण्णअ तण्णअ उण्णामिएहिँ कण्णेहिं।
हिअअट्ठिअं घरं वच्चमाण धवलत्तणं पाव।।१९।।
[कोशाम्रकिसलयवर्ण तर्णक उन्नामिताभ्यां कर्णाभ्याम्।
हृदयस्थितं गृहं व्रजन्धवलत्वं प्राप्नुहि।।]
२. अलिअपसुत्तविणिमीलिअच्छ दे सुहअ मञ्झ ओआसम्।
गण्डपरिउम्बणापुलइअङ्ग ण पुणो चिराइस्सम्।।२०।।
अलीकप्रसुप्तकविनिमीलिताक्ष हे सुभग ममावकाशम्।
गण्डपरिचुम्बनापुलकिताङ्ग न पुनश्चिरयिष्यामि।।
शयनीयमध्ये मह्यमवकाशं देहि अग्रे नैवं चिरयिष्यामीत्यनेन आत्मापराधक्षमापनर-भसेन नायिकाया अपि रसोद्गमो व्यज्यते। केचित्तु- 'देसु हअमज्झोओआसम्’ इति पदच्छेदं विधाय 'हतमध्य अङ्गविन्यासेन रुद्धमध्य अवकाशं देहि’ इति व्याचक्षते। गण्डपरिचुम्ब-नेत्यादिविशेषणेन नायिकाया: प्रियेङ्गितज्ञानं यूनोश्च परस्परमनुरागश्च ध्वन्यते। पुंसो व्याजोदाहरणे गृहीतेयं गाथा भोजेन (५ परि.)।
वेश्याऽऽह्वानार्थमागते नायकसुहृदि पूर्वतो गृहाऽवस्थितं विटमाच्छादयन्ती वेश्यामाता दुहितरमाह—
असमाप्तमण्डनैव व्रज गेहं तस्य कौतुकिन:।
नातिगतौत्सुक्यस्य प्रसंक्ष्यसे मानसे पुत्रि।।२१।।१
सकौतूहलस्य तस्य गेहमसमाप्तमण्डनैव व्रज। मण्डनविलम्बवशाद्व्यतिक्रान्तो-त्कण्ठस्य तस्य चित्ते न प्रसक्ता भविष्यसीत्यनेन वेश्यास्वनुरागोदयो गाढोत्कण्ठानामेव पुंसां भवति, औत्सुक्यशैथिल्ये तु चेत:प्रसक्तिर्हीयत इति वृद्धाया' कुट्टन्या अनुभव: प्रकटीक्रियते। एवं च मण्डनकरणेनैवाऽस्या विलम्बो जातो नान्यप्रसङ्गेनेति युक्त्या भुजङ्गगोपनम्। पुंस: कुतूहलस्योदाहरणमिदं सरस्वतीकण्ठाभरणे।
कश्चिन्नागरिक: शृण्वतीषु रसिकवामासु तच्चित्तहरणार्थं रजस्वलाया अप्यपरित्या-गेनात्मन: कामुकत्वातिशयं प्रकटयन् सहचरमाह—
आदरनमिताधरपुटमघटितनासिकमसंहतललाटम्।
वर्णघृतलिप्तमुख्यास्तस्या: परिचुम्बनं स्मरामोऽद्य।।२२।।२
हरिद्रावर्णमिश्रं घृतं वर्णघृतम्। देशविशेषे रजस्वलामुखं वर्णघृतेन लिप्यत इति काचित्प्रथा। तस्या:, यस्या: सौन्दर्यं मया त्वयि प्रकटितम्। एवंविधामपि मां न परिहरतीत्यादरेण
१. असमत्तमण्डणा विअ वच्च घरं से सकोउहल्लस्स।
वोलाविअहलहलअस्स पुत्ति चित्ते ण लग्गिहिसि।।२१।।
[असमाप्तमण्डनैव व्रज गृहं तस्य सकौतूहलस्य।
व्यतिक्रान्तौत्सुक्यस्य पुत्रि चित्ते न लगिष्यसि।।]
२. आअरपणामिओट्टं अघडिअणासं असंहअणिडालम्।
वण्णधिअतुप्पमुहिए तीए परिउम्बणं भरिमो।।२२।।
[आदरप्रणामितौष्ठमघटितनासमसंहतललाटम्।
वर्णघृतलिप्तमुख्यास्तस्या: परिचुम्बनं स्मराम:।।]
स्वेच्छाप्रकाशनार्थं चुम्बनाय नमितोऽधरपुटो यस्मिन्। अधरपुट एव चुम्बनसमयादोष्ठपदापेक्षया स्वारस्यम्। वर्णघृतेन चिह्ननभयाद् असंयोजिता नासिका यत्र, तथा असंहतललाटम्। परित: सर्वतश्चुम्बनमद्य स्मराम:, तत्स्मृतिरद्यापि स्मरन्नात्मानं विनोदयतीति गाथातात्पर्यम्। 'परिउम्बणं’ परिरम्भणं स्यात्।
जनसम्मर्देऽपि प्रियतमं प्रति प्रकाशितशृङ्गारचेष्टां सखीं प्रबोधयितुं प्रच्छन्नकामुकोक्तं कुलजाया गाम्भीर्यगुणं काचिदाह—
आज्ञाशतानि ददती तथा रते हर्षविकसितकपोला।
प्रातस्त्ववनतवदना न श्रद्द्धम: प्रियां सेति।।२३।।१
रते सुखजनितहर्षेण पुलकितकपोला सती। गृहाणाधरम्, परामृश नितम्बम्, मुञ्च चिकुरमित्यादीन्याज्ञाशतानि तथा ददती, प्रातस्तु- किमप्यजानतीवाऽवनतवदना। 'रात्रिसङ्गता सेयं प्रियां’ इति न विश्वसिम:। प्रातस्तु-इति अपिस्थाने तुरेवार्थसमर्पक:। लोकसमक्षं गूढाकारतैव नायकप्रीतिहेतु:, न तु चाञ्चल्यमिति भाव:।
अन्यानुरक्ततया सविधमनागच्छन्तं पुनर्गुरुजनमर्यादां च कारणीकुर्वाणं नायकमुपाल-भमाना कुलीनतानमस्कारच्छलेन काचिदाह—
प्रियविरहोऽप्रियदर्शनमपि गुरुके द्वे इमे दु:खे।
त्वं कार्यसे यया किल तस्यै नम आभिजात्यै ते।।२४।।२
प्रियायास्तस्या: विरह:, अप्रियाया मम च दर्शनम्, द्वे अपि गुरुके इमे दु:खे यया कार्यसे त्वम् अनुभाव्यसे, तस्यै ते आभिजात्यै कुलीनतायै नमोऽस्तु। करोतिरत्राऽनुभवार्थ:। अत एव मा दु:खमनुभवेत्यर्थे मा दु:खं कार्षीरिति व्यवह्रियते। अस्मिन्नृतुस्नानाद्यवसरेऽपि
१. अण्णसआइँ देन्ती तह सुरए हरिसविअसिअकवोला।
गोसे वि ओणअमुही अह सेत्ति पिआं ण सद्दधिमो।।२३।।
[आज्ञाशतानि ददती तथा सुरते हर्षविकसितकपोला।
प्रातरप्यवनतमुखी इयं सेति प्रियां न श्रद्दध्म:।।]
२. पिअविरहो अप्पियदंसणं अ गरुआइँ दो वि दुक्खाइं।
जीएँ तुमं कारिज्जसि तीएँ णमो आहिजाईए।।२४।।
[प्रियविरहोऽप्रियदर्शनं च गुरुके द्वे अपि दु:खे।
यया त्वं कार्यसे तस्यै नम आभिजात्यै।।]
यन्मामुपागतोऽसि तदपि बहुजनाभ्यार्थनां धर्ममर्यादां वाऽनुरुन्धान एव, न तु स्नेहेनेत्यहो ते कौलीन्यमिति प्रच्छन् उपालम्भो ध्वन्यते।
गमनाय सज्जीभूतोऽपि कथमयं न प्रस्थित इति केनचित्पृष्टे सपरिहासं तद्वयस्य आह—
एकोपि कृष्णसारो न ददाति वलन् प्रदक्षिणं गन्तुम्।
किं पुनरस्राकुलितं लोचनयुगलं प्रियतमाया:।।२५।।१
प्रदक्षिणं वलन् दक्षिणतो वाममागच्छन्नित्यर्थ:। एकोऽपि कृष्णसारस्तथाविधो मृगो गन्तुं न ददाति। कृष्णसारे मृगे प्रदक्षिणं वलति यात्रा न सिध्यतीति शाकुनिका:। पुन: बाष्पा-कुलितं तथा विधयो: कृष्णशारयो: प्रियाया लोचनयोर्युगलं तु किमिति भाव:। 'बाहाउलिअं’ इत्यस्य मृगपक्षे 'व्याधाकुलितम्।’ इत्यभिज्ञातव्यम्। संस्कृते तदिदं न सम्भवति। तथा च कान्तस्नेहनिगडितोऽयं न प्रवसतीति द्योतितम्। इयं प्रवासविलम्बेन पुंस: प्रेमपरीक्षेति सरस्वतीकण्ठाभरणे भोज:।
कश्चिदन्यवनितासक्त: प्रियया सोपालम्भमधरीकृतोऽभवत्। तत: स्वापराधप्रच्छादनाय मानमभिनयन्तमनुनीयमानमप्यनुनयमगृह्ण्न्तं प्रणयिनी सप्रेमदण्डमाह—
मानमकरिष्य इह नो निशासु सुखसुप्तदरविबुद्धानाम्।
शून्यितपार्श्वविमोषणपीडामज्ञास्य एव यदि।।२६।।२
निशासु स्वकान्तया सह सुखसुप्तानां मध्ये च किञ्चिद्विबुद्धानां ततोऽन्याभिसारिण्या स्वाकान्तया शून्यीकृतेन पार्श्वेन (शय्यैकदेशेन) यत्परिमोषणं प्रतारणं तेन या वेदना तां यदि त्वमज्ञास्यस्तदा त्वमिह अस्मिन्नन्यासक्तिविषये मानं नाऽकरिष्य एवेति योजना। यथा
१. एको वि कह्ण्सारो ण देइ गन्तुं पआहिणवलन्तो।
किं उण बाहाउलिअं लोअणजुअलं पिअअमाए।।२५।।
[एकोऽपि कृष्णसारो न ददाति गन्तुं प्रदक्षिणं वलन्।
किं पुनर्वाष्पाकुलितं लोचनयुगलं प्रियतमाया:।।]
२. ण कुणन्तो व्विअ माणं णिसासु सुहसुत्तदरविबुद्धाणम्।
सुण्णइअपासपरिमूसणवेअणँ जइ सि जाणन्तो।।२६।।
[नाकरिष्य एव मानं निशासु सुखसुप्तदरविबुद्धानाम्।
शून्यीकृतपार्श्वपरिमोषणवेदनां यद्यज्ञास्य:।।]
त्वमन्यासक्तोऽपि दोषमनभ्युपगच्छन् मानेन मां सुभृशं व्यथयसि, तथाहमप्यन्यासक्ता स्यां तदा त्वमिमां वेदनां जानीया:। ममैवायं दोष:, यदहं त्वत्प्रणयभङ्गं न करोमीति भाव:।
कृतकलहयोर्दम्पत्यो रात्रिवृत्तान्तपरिज्ञानायाऽऽगता प्रियसखी प्रणयरोषविनिवृत्यर्थमाह—
प्रणयकुपितयोरुभयोरपि मानवतोरलीकनिद्रितयो:।
निभृतनिरुद्धश्वासाऽवहितश्रवसोर्नु को मल्ल:।।२७।।१
स्वनि:श्वासशब्दान्तरायेण अपरस्य नि:श्वासशब्दो न श्रूयत इति निभृतं निश्चलं निरुद्धनि:-श्वासयोस्तथा च परस्परशब्देऽवहितश्रवसोर्दत्तकर्णयोरत एव कृतकप्रसुप्तयोर्मानवतो:। दत्तकर्णतया कृत्रिमनिद्रा प्रतीता। परस्परनि:श्वासाकर्णनदत्तावधानतया मानेऽपि परस्परमभिलाष: सूच्यते। अवहितश्रवसोरपि मानवतोरित्यनेन परस्परमनुनयेच्छायामपि बलादभिनीतमानयोरित्यहो अद्भुतो मान इति परिहासो द्योत्यते। को मल्ल इत्युपालम्भप्रश्न:। न कोऽपीत्यर्थ:। परस्पराऽवधीरणाऽ-समर्थौ युवां वृथैवात्मानं खेदयथ इति भाव:।।
काचिद्दूती नायिकाया देवरानुरक्तत्वेनाऽसाध्यतां सूचयन्ती कामुकं प्रत्याह—
नवलतिकाऽऽहतिमिच्छति यतो यतोऽङ्गेषु देवरो दातुम्।
रोमाञ्चदण्डराजिस्ततस्ततो दृश्यते वध्वा:।।२८।।२
येषु येष्वङ्गेष्विति सप्तम्यर्थे सार्वविभक्तिकस्तसि:। बहुवचनेन सर्वेष्वप्यङ्गेषु रोमाञ्चोदयेन रसोत्कर्षो ध्वन्यते। नवलताया आहति: प्रहार: प्रणयविभ्रममभिव्यनक्ति। दण्डपदं रोमाञ्चकण्टकानां दृढावस्थानेन सात्विकस्थैर्यं ध्वनयति। 'वधू’ पदेन श्वशुरादीनां कुटुम्बे
१. पणअकुविआणँ दोह्ण वि अलिअपसुत्ताणँ माणइल्लाणम्।
णिच्चलणिरुद्धणीसासदिण्णकण्णाणँ को मल्लो।।२७।।v
[प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्तयोर्मानवतो:।
निश्चलनिरुद्धनि:श्वासदत्तकर्णयो: को मल्ल:।।]
२. णवलअपहरं अङ्गे जहिँ जहिँ महइ देवरो दाउम्।
रोमञ्चदण्डराई तहिं तहिं दीसइ बहूए।।२८।।
[नवलताप्रहारमङ्गे यत्र यत्रेच्छति देवरो दातुम्।
रोमाञ्चदण्डराजिस्तत्र तत्र दृश्यते वध्वा:।।]
कृतावस्थाना गृहवासिना देवरेण च बद्धभावा नेयं साधयितुं शक्यत इति, कामुकं प्रति ध्वन्यते। सेयं 'चूतलतिका’ नाम्नी क्रीडेति सरस्वतीकण्ठाभरणे भोज:। तत्र हि 'कस्ते प्रियतम:’ इति पृच्छद्भि: नवलताभि: प्रियो जनो हन्यते।।
प्रोषितपतिका प्रियतमसमीपगामिनमध्वगं सखीजनं वा तदानयनत्वरार्थमेवमाह—
तेन विना बत मयका ह्यनुभूतसुखानि संस्मरन्त्याऽद्य।
नादोऽभिनवघनानां निशामितो वध्यपटह इव।।२९।।
गर्जितश्रवणाद्वर्षासु पूर्वानुभूतसुखानि संस्मरन्त्या मया मेघानां रवो वध्यपटह इव वध्यस्थानं नीयमानस्य दोषघोषणापटहशब्द इव श्रुत इति भाव:। एवं च वर्षास्वपि तदनागमने मे मरणमवश्यम्भावीति यत्समयप्राप्तं तद्विधीयतामीति ध्वनितम्।।
असुन्दरभार्यानुरागितया दूतीजनसङ्घटनापराङ्मुखं ग्रामपालपुत्रं कस्याश्चित्सङ्गमा-योत्साहयितुं काचिद्दूती सोपालम्भमाह—
निष्कृप जायाभीरुक दुर्दर्शन निम्बकीटसन्निभ हे।
तनुकायते कृते ते ग्रामोऽयं ग्रामणीसूनो।।३०।।
अनुरक्तसुन्दरीजनविमुखत्वान्निर्दय! जायाभीरुक भार्यापरतन्त्र! अतएव स्वच्छन्द-विहरणाभावाद्दुर्दर्शन दुर्लभदर्शन! एवं तु अस्मादृशान्नैवाकारयसि, परं स्वैरविचरणा-भावान्मार्गादिष्वपि तव दर्शनं दुर्लभमित्यभिप्राय: निम्बकीटसन्निभ, तिक्तरुचिशालितया निम्बकीटो यथा दूरपरिहरणयोग्ये निम्ब एव रमते तथा सुन्दररमणीषु रुचिशून्यस्त्वं कुरूपायामेव भार्यायां व्यासज्यसे, अत एव निम्बकीटसदृश हे ग्रामणीसूनो ग्रामपालनन्दन! त्वं हि ग्रामप्रमुखस्य पुत्र: कस्त्वां दमयितुं शक्त:, अत एव भवता तु निर्भयेण भाव्यम्, परं भवांस्तु जायाभीरुकतया
१. अज्ज मए तेण विणा अणुहूअसुहाइँ संभरन्तीए।
अहिणवगेहाणँ रवो णिसामिओ वज्झपडहो व्व।।२९।।
[अद्य मया तेन विना अनुभूतसुखानि संस्मरन्त्या।
अभिनवमेघानां रवो निशामितो वध्यपटह इव।।]
२. णिक्किव जाआभीरुअ दुद्दंसण डिम्बईडसारिच्छ।
गामो गामणिणन्दण तुज्झ कए तह वि तणुआइ।।३०।।
[निष्कृप जायाभीरुक दुर्दर्शन निम्बकीटसदृक्ष।
ग्रामो ग्रामणीनन्दन तव कृते तथापि तनुकायते।।]
न तथेति निर्भयताप्रदर्शनेन प्रोत्साहनं व्यज्यते। अयं ग्राम:, ग्रामनिवासी समग्रोऽपि विलासिनीजन:, तव कृते 'कथं भवता समागम: स्यात्’ इति भवच्चिन्तया तनुकायते दुर्बलो भवति। 'त्वं तथा कमनीयो यथा सकलोऽपि कामिनीवर्गस्त्वां कामयते। त्वं तु कुरूपापरवशो न तं वीक्षसे’ इति भाव:। 'ग्रामस्तनुकायते’ इत्यनेन सुन्दरकामिनीवर्ग: शनै: शनैर्ह्रसति, यतस्त्वत्सदृशा न तस्मै विलासावलम्बनं ददतीत्यपि सूच्यते।।
ग्रामणीसुतयोषिदनुरक्तत्वेऽपि तद्भर्तु: सुभटतया भयेन नाभ्युपगच्छन्तं कञ्चित्कामुकं प्रोत्साहयितुं पत्यावनिच्छया तस्या: सुखसाध्यतां पुरस्य सुखप्रवेशनिर्गमतया निरपायतां च सूचयन्ती दूती सुभटस्तुतिव्याजेनाह—
प्रहरवनमार्गविषमे१ कृच्छ्राज्जायाऽस्य निद्रितं लभते।
स्वपिति पुन: पल्ली सा सुखमुरसि ग्रामणीसूनो:।।३१।।२
'उरे’ इत्यस्य प्राकृते 'उरसि’ 'पुरे’ वा इति द्विधाऽर्थ: सम्भवति। एवम् 'पहरवणमग्ग-विसमे’ इति विशेषणस्यापि 'प्रहारव्रणमार्गविषमे’ इति 'प्रहरवनमार्गविषमे’ इति चोभयथाऽर्थ:। शप्रहारव्रणकिणैर्विषमे निम्नोन्नतकर्कशेऽस्य ग्रामणीपुत्रस्योरसि जाया पत्नीत्वेन वशंवदा स्त्री कृच्छ्रेण निद्रां लभते। अनिच्छन्त्यपि भयात्तमालिङ्ग्य स्वपितीत्यर्थ:। पुरपक्षे तु— प्रहरेण गम्यो यो वनमार्गस्तेन विषमे दुर्गमे तस्य पुरे, पल्ली लक्षणया ग्रामवासी जन: सुखं स्वपिति। पुरस्य सुरक्षिततया नि:शङ्कं निद्राति, न कोऽपि जागर्तीत्यर्थ:। किञ्चमार्गस्य प्रहरगम्यतया न कोऽपि भवन्तं निर्गच्छन्तमनुसरिष्यतीत्यपि व्यज्यते। सा किल तस्य जाया, बहुवल्लभत्वात्तस्य स्त्रीमात्रम् न तु प्रियतमा। अत एवाऽसन्तोषेण निद्रामलभमाना सा साऽवसरैव। अतस्तत्र निर्विशङ्कं गच्छेति कामिनं प्रति दूत्या द्योत्यते। संस्कृते द्वयोरर्थयोर्युगपत्सङ्ग्रहाभावेन अर्थाऽनुगतशब्दानुसारं द्विधा पठनीयं स्यात्।।
आसक्तिवशाद् गोत्रस्खलिते सत्यन्यनायिकानाम्ना सम्बोध्य मानेऽनुनयन्तं नायकं धीरा खण्डिता प्रणयकोपवक्रतया सविनयोपालम्भमाह—
१. 'प्रहृतिव्रणकिणविषमे’ इति पाठ: क्वचित्।
२. पहरवणमग्गविसमे जाआ किच्छेण लहइ से णिद्दम्।
गामणिउत्तस्य उरे पल्ली उण सा सुहं सुवई।।३१।।
[प्रहारव्रणमार्गविषमे जाया कृच्छ्रेण लभते तस्य निद्राम्।
ग्रामणीपुत्रस्योरसि पल्ली: सा सुखं स्वपिति।।]
सम्भावितमार्गोऽयं निर्व्यूढ: सुभग केवलं भवता।
हृदयेऽन्यद्वचनेऽन्यन्नूनमिदानीं तु लोकस्य।।३२।।१
नूनमस्मिन्समये लोकस्य हृदये अन्यत् वचने त्वन्यत्- अयं पुन: प्राक्तन: सम्भावित-मार्ग: श्रेष्ठपुरुषाणां समय: केवलं भवतैव निर्व्यूढो यद्हृदये स्यात्तदेव वचने इति। तव हृदये सैव रात्रिसहचरी रमते अत एवानुनयेऽपि तन्नामैव गृहीतम् मौखिकेन प्रियवचसापि न मम नाम। अहो ते श्रेष्ठतेति भाव:।।
पत्युरन्यासङ्गेन प्रणयकुपिता पराङ्मुखं शयाना काचित्पृष्ठाभिमुखसुप्तं कान्तमाह-
उष्णानि नि:श्वसन्किल शयनार्द्धे किमिति मम पराङ्मुख्या:।
मानसमप्यनुशयत: प्रदीप्य पृष्ठं प्रदीपयसि।।३३।।२
शयनीयार्द्धे पराङ्मुख्या:। पूर्वं तव मम चोभयो: शयनीयमेकमासीन्न विभक्तम्। इदानीं न तथेति स्वकीयेऽर्द्धे पृष्ठं परावृत्त्य शयानाया:। त्वच्चिन्तामप्यकुर्वाणाया इत्यपि पराङ्मुखत्वेन ध्वन्यते। सपत्नीसमुत्कर्षजनितेनानुशयेन मम मानसं प्रदीप्य, उष्णनि:श्वासै: पृष्ठमपि किमिति प्रदीपयसि। अथवा पराङ्मुख्या: इति विपरीतमुच्यते। अहं तु त्वत्त: प्रेमपराङ्मुखी अस्मि। तामेवानुकूलां वल्लभामुपगच्छ। नि:श्वासाभिनयादिभिर्मामात्मानं च किं मुधा खेदयसीति भाव:।।
अवधिदिवसेऽप्यनागतं नायकं स्वयमुपगता दूती कस्याश्चिद्विरहिण्या अवस्थामेव-माह—
१. अह संभाविअमग्गो सुहअ तुए जेव्व णवरँ णिव्वूढो।
एह्णिं हिअए अण्णं अण्णं वाआइ लोअस्स।।३२।।
[अयं सम्भावितमार्ग: सुभग त्वयैव केवलं निर्व्यूढ:।
इदानीं हृदयेऽन्यदन्यद्वाचि लोकस्य।।]
२. उह्णाइँ णीससन्तो किंति मह परंमुहीएँ सअणद्धे।
हिअअं पलीविअ वि अणुसएण पुट्ठिं पलीवेसि।।३३।।
[उष्णानि नि:श्वसन्किमिति मम पराङ्मुख्या: शयनार्धे।
हृदयं प्रदीप्याप्यनुशयेन पृष्ठं प्रदीपयसि।।]
तव विरहे चिरकारक तस्या: पतदश्रुपूरमलिनेन।
छाया मुखेन नाप्ता रविरथशिखरध्वजेनेव।।३४।।१
अवधिदिवसलङ्घनात् चिरकारक! पतदश्रुपूरमलिनेन निपतद्वाष्पमलिनेन तस्या मुखेन तव विरहे छायैव कान्तिरेव न प्राप्ता। तव समागमे या कान्तिरभूत्सा एकदिनमपि न दृष्टेति भाव:। यथा सूर्यसान्निध्याद्रविरथध्वजेन कदापि छाया आतपाभावो न प्राप्त इति। 'छाया सूर्यप्रभा कान्ति: प्रतिबिम्बमनातप:’अमर:। ततश्च चिरकारितां परित्यज्य विरहविकलामेना-मनुकम्पस्वेति व्यङ्ग्योऽर्थ:।।
नववधूं सतीवृत्तशिक्षणार्थं कापि कुटुम्बसम्भाविता पुरन्ध्री आह-
कुड्यलिखितानि दूषितमनसो ननु देवरस्य कुलयोषित्।
दिवसं कथयति रामाऽनुलग्नसौमित्रिचरितानि।।३५।।२
कामविकारेण दूषितमनसो देवरस्य, देवरं प्रतीति भाव:। कुलवधू:, कुलीनतया कुटुम्बविघटनभयेन तद्दुरभिप्रायमन्येष्वप्रकाशयन्तीति कुलवधूपदेन द्योत्यते। गृहभित्तौ लिखितानि रामाऽनुगतलक्ष्मणचरितानि, दिवसं समग्रदिनमभिव्याप्य कथयति। निशि दूषितहृदयतया न भवेत्तत्प्रभाव इति दिवसे वर्णनम्। दिवसमित्यत्यन्तसंयोगेन बहुकालवर्णनात्तद्दृढीकरणाध्य-वसायो ध्वन्यते। सौमित्रिचरितानीत्यनेनैव देवरशिक्षणे सम्भवत्यपि, 'लक्ष्मणो रामं पितरमिवानुवर्तमानो यथा सर्वदा तन्मतानुयाय्यभवत्तथा त्वयापि ज्येष्ठो भ्राता तथैव बोद्धव्योऽन्यथा ज्येष्ठभ्रात्रा सह तवैककुटुम्बेऽनुगमनं दुर्घटम्’ इति 'रामानुगत’ पदेनाभिव्यज्यते। कुलवध्वा भित्तिचित्रितं रामायणवृत्तान्तं प्रदर्श्य वैमात्रेयेऽपि रामे सभार्येऽनुलग्नानि लक्ष्मणचरित्राणि समुदीर्य अशुद्धमना देवरोऽपि प्रत्याख्यायते, किमुताऽन्य:। सोऽप्येवम्, न तु प्रकटम्, सर्वत्र कलङ्कसङ्-कीर्तनभयादिति भाव:।।
१. तुह विरहे चिरआरअ तिण्णा णिवडन्तवाहमइलेण।
रइरहसिहरधएण व मुहेण छाहि व्विअ ण पत्ता।।३४।।
[तव विरहे चिरकारक तस्या निपतद्वाष्पमलिनेन।
रविरथशिखरध्वजेनेव मुखेन च्छायैव न प्राप्ता।।]
२. दिअरस्स असुद्धमणस्स कुलबहू णिअअकुड्डलिहिआइं।
दिअहं कहेइ रामाणुलग्गसोमित्तिचरिआइं।।३५।।
[देवरस्याशुद्धमनस: कुलवधूर्निजककुड्यलिखितानि।
दिवसं कथयति रामानुलग्नसौमित्रिचरितानि।।]
'सतीत्वखण्डनकारणेष्वपि दृढचित्तानां न विनाशो भवति’ इत्युक्त्या स्वदोषं प्रच्छादयन्ती काचिदाह—
चत्वरगृहिणी तरुणी प्रोषितपतिका च मञ्जुमूर्तिश्च।
असतीप्रतिवेशिन्यथ सुदुर्गता न खलु खण्डितं शीलम्।।३६।।१
चत्वरे (चतुष्पथे) गृहं यस्या:, वास्तवे तु चत्वरे प्राङ्गणसदृशे शून्यप्रान्तरे गृहं यस्या:, तत्र विविक्ततया विटानां यातायातसम्भवात्। 'चत्वरे राजमार्गो गृहं यस्या:’ इति गङ्गाधरभट्ट:। मञ्जुमूर्ति: प्रियदर्शना, सुन्दरीत्यर्थ:। असत्या: कुलटाया: प्रतिवेशिनी। सुदुर्गता भूरिदरिद्रा। तथापि शीलं पातिव्रत्यं न खण्डितम्। अत्र चत्वरगृहिणीत्वादे: शीलखण्डनकारणस्य सत्त्वेऽपि तदभावाद्विशेषोक्ति:। 'विशेषोक्तिरनुत्पत्ति: कार्यस्य सति कारणे’ इति लक्षणात्। अनया च 'कलङ्ककारणाभिशङ्कया जनैर्मुधाहं निन्दिता, न मे चरित्रदोष:’ इति निजदोषगोपनं व्यङ्ग्यम्। वस्तुतस्तु सेयं पतिव्रताया: कस्याश्चिच्छीलप्रशंसा। भोजोऽपि सरस्वतीकण्ठाभरणे शीलसम्पदुदाहरणे इमामुदाजहार (५ परि.)।
नदीतटकदम्बनिकुञ्जकृतसङ्केतेन कान्तेन विप्रलब्धा नायिका 'अहं तत्र गता, त्वं तु नागत:’ इति तं सूचयन्ती सखीजनमन्यापदेशेनाह-
आवर्ताकुलखण्डितकेसरभारो भरेण गिरिनद्या:।
ह्रियते कदम्बशाखी दरमग्नोन्मग्नमग्नमधुपोऽयम्।।३७।।२
तालूरो जलावर्त इति देशी। 'आवर्तानां जलभ्रमाणां भ्रमणेनाकुल:’ इति पुनरुक्तमिवेति संस्कृतच्छायायामावर्तै: आकुल: इत्येव निबद्धम्। अतएव खण्डित: केसरभार: परागकोशसमूहो यस्य स:। तथापि दरमग्नोन्मग्नमग्नमधुप: ईषन्मग्न:, कदाचिदुपरिप्रवाहिततया उन्मग्न:, कदाचिच्च
१. चत्तरघरिणी पिअदंसणा अ तरुणी पउत्थइआ अ।
असईसपज्जिआ दुग्गआ अ ण हु खण्डिअं सीलम्।।३६।।
[चत्वरगृहिणी प्रियदर्शना च तरुणी प्रोषितपतिका च।
असतीप्रतिवेशिनी दुर्गता च न खलु खण्डितं शीलम्।।]
२. तालूरभामउलखुडिअकेसरो गिरिणईएँ पूरेण।
दरबुड्ढउबुड्डणिबुड्डूमहुअरो हीरइ कलम्बो।।३७।।
[जलावर्तभ्रमाकुलखण्डितकेसरो गिरिनद्या: पूरेण।
दरमग्नोन्मग्ननिमग्नमधुकरो ह्रियते कदम्ब:।।]
जलवेगेन मग्रो मधुपो यस्मिन्। मधुपानलोभिनोऽपि गलितमरन्दे प्रीतिरिति मधुपपदेनाभिव्यज्यते। तादृशोऽयं कदम्बवृक्षो गिरिनद्या: भरेण पूरेण ह्रियते। एवं च भग्नकेसरतया गलितमकरन्देऽपि कदम्बे सततमधुपानलोभिनोऽपि भ्रमरस्येयं दृढस्नेहता, तव तु का नाम चिरस्नेहताप्रत्याशा, इदानीमेवाहं छलितेति सरोष उपालम्भो व्यज्यते।।
कस्याश्चित्पतिव्रताया धनाद्यसाध्यतां सूचयितुं दूती कञ्चित्कामुकमेवमाह—
छायां सुदुर्गतस्य हि रक्षन्त्यभिजातमानिन: पत्यु:।
विभवेनागच्छद्भ्य: क्रु ध्यति गृहिणी स्वबान्धवेभ्योऽपि।।३८।।१
दरिद्रस्य अथ कौलीन्यमानवत: पत्युश्छायां महत्त्वं रक्षन्ती। विभवेन धनसमृद्ध्या सहाऽऽगच्छद्भ्य:। बान्धवानां धनसमृद्धिमालोक्य पत्युर्मनोग्लानिर्भवेदित्याशयेन। एवं च पतिचित्तानुवृत्त्यर्थं बन्धुजनस्याप्युपहारं न बहु मन्यते, किं पुन: कामिजनस्येति न धनादिना सा साध्येति कामुकं प्रत्यभिव्यज्यते।।
काञ्चित्पतिव्रतां कामयमानं विटं प्रति दूती तस्या: स्वभावमाह-
स्वाधीनेऽपि प्रेयसी लब्धेऽवसरेऽपि मण्डितो नात्मा।
प्रतिवेशिनीं दरिद्रप्रोषितपतिकां हि दृढयन्त्या।।३९।।२
स्वाभीष्टप्रियतमतया मनोऽभीष्टमण्डनसमृद्धिरभिव्यज्यते। मदनमहोत्सवादाववसरे प्राप्तेऽपि, तथा च शालीनतया वेषभूषणासक्त्यभावेऽपि सौभाग्यादिनिमित्तं धारणार्हताऽ-भिव्यज्यते। दरिद्रश्च प्रवासं गतश्च पतिर्यस्यास्तां प्रतिवेशिनीं स्वचारित्र्ये दृढीकुर्वन्त्या आत्मा नालङ्कृत:। कृतमण्डनां मामवलोक्य व्याकुला सेयं खण्डितचरित्रा स्यादिति शङ्कया या
१. अहिआअमाणिणो दुग्गअस्स छाहिं पअस्स रक्खन्ती।
णिअबन्धवाणँ जूरइ घरिणी विहवेण एत्ताणम्।।३८।।
[आभिजात्यमानिनो दुर्गतस्य छायां पत्यू रक्षन्ती।
निजबान्धवेभ्य: क्रु ध्यति गृहिणी विभवेनागच्छद्भ्य:।।]
२. साहीणे वि पिअअमे पत्ते वि खणे ण मण्डिओ अप्पा।
दुग्गअपउत्थवइअं सअज्झिअं सण्ठवन्तीए।।३९।।
[स्वाधीनेऽपि प्रियतमे प्राप्तेऽपि क्षणे न मण्डित आत्मा।
दुर्गतप्रोषितपतिकां प्रतिवेशिनीं संस्थापयन्त्या।।]
नात्मानमपि मण्डयति तस्या: स्वचरित्रखण्डनकल्पना दूर इति तात्पर्यम्। अथवा प्रतिवेशिनी-स्थापनार्थमनया मण्डनं न कृतम्, न तु कामुकान्तरविरहदु:खेनेति स्वसखीदोषप्रच्छादनार्थं सख्या वचनमिति गङ्गाधरभट्ट:। प्रवासे स्त्रियो नात्मानं भूषयन्ति, अतएव 'प्रस्मरती’ त्यादाविव निषेधार्थकप्रपूर्वाेऽसौ 'वस अच्छादने’ धातु:। न वभूषादिकं यत्र स्त्रीभि: क्रियत इति सरस्वतीकण्ठाभरणे भोज:।।
दूती नायकमनुकूलयितुं नायिकानुरागं वर्णयति-
वसतिस्तवेति हृदयं त्वममूभ्यां दृष्ट इति नेत्रे।
तव विरहे कृशितानीत्यङ्गान्यपि तु प्रियाण्यस्या:।।४०।।१
हृदयं तव वसतिरित्यनेन 'सर्वदा त्वां सा हृदयेन विचिन्तयति’ इत्यनन्यासक्तिरभि-व्यज्यते। ततश्च आत्मन: शरीरमपि त्वत्सम्बन्धेनैव सा बहु मन्यते, अन्यथा एतावत्पर्यन्तं तव विरहे तस्या जीवितमेव दुरवस्थानमासीदिति, अनुरक्तां तामचिरमानन्दयेति नायकं प्रति ध्वन्यते।।
काचित्खण्डिता बहुधा कृतापराधमथ च 'सद्भावस्नेहोचितं नेदम्, यत् इयत्कुप्यसि’ इति भृशमनुनयन्तं कान्तं विपरीतार्थवाग्गुम्फेनोपालभते-
सद्भावस्नेहभृते रक्ते रज्यत इति हि युक्तमिदम्।
यद्दीयतेऽन्यहृदये हृदयं यत्तज्जनो हसति।।४१।।२
सद्भावेन सर्वकार्यानुकूलतया साधुभावेन, स्नेहेन च पूर्णेऽनुरक्ते जनेऽनुरज्यत इतीदं युक्तमेव। किञ्च कुन्तलकलापस्नेहवति अलक्तकादिरागरक्ते तस्मिन् हृदयानुकूले जने त्वमपि पादसंवाहनादिना रञ्जितो भवसीत्यपि साकूतमभिव्यञ्जितम्। यत् पुन: अन्यहृदये सद्भावस्नेह-
१. तुज्झ वसइत्ति हिअअं इमेहिँ दिट्ठो तुमंति अच्छीहिं।
तुह विरहे किसिआइं ति तीएँ अङ्गाइँ वि पिआइं।।४०।।
[तव वसतिरिति हृदयमाभ्यां दृष्टस्त्वमित्यक्षिणी।
तव विरहे क्रशितानीति तस्या अङ्गान्यपि प्रियाणि।।]
२. सब्भावणेहभरिए रत्ते रज्जिज्जइत्ति जुत्तमिणम्।
अणहिअअे उण हिअअं जं दिज्जइ तं जणो हसइ।।४१।।
[सद्भावस्नेहभरिते रक्ते रज्यत इति हि युक्तमिदम्।
अन्यहृदये पुनर्हृदयं यद्दीयते तज्जनो हसति।।]
शून्यस्य मादृशस्य हृदये यत् हृदयं दीयते तज्जनोपहासायेति तामेव स्नेहभरितां हृदयदयितामनु-वर्तस्वेति भाव:। यद्वा काचिद्दूती अभियोज्याया: पत्यावनुरागभङ्गार्थं तस्मिन्नसन्तमपि दोषमुद्भाव-यन्ती इदमाह। अनुरक्त एव दृढानुबन्धो युज्यते, अननुरक्तेऽन्यत्रासक्ते तद्विडम्बनमात्रमिति तदाशय:।
वैफल्यशङ्कया नायिकाऽभिसारमनारभमाणं विमृश्यकारिणं नायकं प्रोत्साहयितुं दूत्याह-
धु्रवमारभमाणस्य प्रभवति लक्ष्मीर्नरस्य मरणं वा।
मरणमनारम्भेऽपि प्रभवति लक्ष्मी: पुनर्न भवतीयम्।।४२।।१
एवं स्थितावपि लक्ष्मीमिव सौशील्यादिगुणोपेतामेतामङ्कगतां किमिति भीरुतयोपेक्षस इति नायकप्रोत्साहनं ध्वन्यते।।
'प्रवासादिषु चिरविरहमपि सहन्ते योषित इति किं नामाऽत्रैव वर्तमाने तस्मिञ्श्चिरयति इयदुद्विग्नासि’ इति सान्त्वयन्तीं प्रौढां कामपि विरहोत्कण्ठिता काचिदाह-
वल्लभजनस्य सह्यत आशाबन्धेन विरहवह्निरपि।
प्रवसतिरेकग्रामे मातर्मरणं विशेषयति।।४३।।२
एकस्मिन्नेव ग्रामे प्रवासो मरणादतिरिच्यते, प्रत्याशाहेत्वभावादिति भाव:। दूरस्थयोरिव अन्तिकस्थयोरपि सन्निकर्षाभावात्प्रवासो भवतीति विषये सेयमुदाहृता गाथा भोजेन(५ परि.)। सुरतसमये नायकस्यान्यमनस्कतां वीक्ष्य विमनायमानां नायिकां दूती आह-
१. आरम्भन्तस्स धुअं लच्छी मरणं वि होइ पुरिसस्स।
तं मरणमणारम्भे वि होइ लच्छी उण ण होइ।।४२।।
[आरभमाणस्य ध्रुवं लक्ष्मीर्मरणं वा भवति पुरुषस्य।
तन्मरणमनारम्भेऽपि भवति लक्ष्मी: पुनर्न भवति।।]
२. विरहाणलो सहिज्जइ आसाबन्धेण वल्लहजणस्स।
एकग्गामपवासो माए मरणं विसेसेइ।।४३।।
[विरहानल: सह्यत आशाबन्धेन वल्लभजनस्य।
एकग्रामप्रवासो मातर्मरणं विशेषयति।।]
हृदये प्रियाऽऽस्खलति किल रममाणस्यान्यमहिलायाम्।
दृष्टे गुणे तु सदृश ह्यदृश्यमाने गुणेऽसदृशे।।४४।।२
संस्कृते रमतेरकर्मकतया सप्तम्या विपरिणामश्छायायाम्। अन्यमहिलायां रममाणस्य प्रियस्य हृदये सीत्कृत-हसित-सौन्दर्यादौ सदृशे गुणे दृष्टे सति, विसम्वादिनि गुणे चादृष्टे सति पूर्वानुभूता प्रिया आस्खलति, सहसैवोदेति, स्मृतिपथमुपयातीत्यर्थ:। 'प्रिया’ पदेन 'हृदयस्य या प्रीतिपात्रं भवति, सा सदृशान् गुणान् दृष्ट्वा हृदये जागर्ति’ इति पूर्वानुभूतनायिकाया: प्रेमास्पदत्वं ध्वन्यते। एवञ्च अन्यस्त्रीप्रसङ्गे सति भर्तुर्हृदये समानोत्कृष्टापकृष्टगुणाश्रयतया प्रिया स्मृतिपथं याति, न तु त्वयि वैराग्यादन्यमनस्कता। तथा च स्वैर्गुणैस्तामपि शनै: शनैर्विस्मारयेति नायिकां प्रत्युपदेशो ध्वन्यते। अथवा रममाण इति अन्तर्भावितण्यर्थमुपगम्य 'रममाणस्याऽपरां रमणीम्’ इति छायापाठं स्वीकृत्य अन्यां रमणीं रमयत इत्यर्थोऽभ्युपगम्य:। एवमादिषु विषयेषु गङ्गाधरस्य मौनं धैर्यभङ्गायैव। यद्वा-कश्चिद्भुजङ्गो बहुवनितोपभोगेन कामुकत्वातिशयमात्मन: प्रकटयन्, शृण्वत्कामिनीजनचेत: समाकर्षणार्थं स्वानुभवमिवाह।।
मानिनीमनुनेतुमनुभवशालिनी काचित्प्रौढा यौवनादिदुर्लभतामेवमाह-
तारुण्ये सरिदोघप्रतिमेऽतिप्रोषितेषु दिवसेषु।
अनिवृत्तासु च रात्रिषु पुत्रि नु किं दग्धमानेन।।४५।।३
कतिपयदिनस्थायितया यौवनस्य नदीपूरसादृश्यम्। अतिप्रोषितेषु अत्यन्तं (दीर्घम्) प्रवासं गतेषु, अपुनरागामिषु इति यावत्। एते दिवसा रात्रयश्च गता न पुन: प्रतिनिवर्तन्त इति भाव:। अतएव एवंविधेषु अपुनर्लभ्येषु यौवनदिवसेषु सुखविधातकारकोऽयं
१. 'अखरना’ 'खलना’ हिन्दीभाषाप्रसिद्धम् इति एव प्राकृतरूपाद्विपरिणतं भवेदित्यनुामनम्।
२. अक्खडइ पिआ हिअए अण्णं महिलाअणं रमन्तस्स।
दिट्ठे सरिसम्मि गुणेऽसरिसम्मि गुणे अणीसन्ते।।४४।।
[आस्खलति प्रिया हृदये अन्यं महिलाजनं रममाणस्य।
दृष्टे सदृशे गुणे असदृशे गुणे अदृश्यमाने।।]
३. णइऊरसच्छहे जोव्वणम्मि अइपवसिएसु दिअसेसु।
अणिअत्तासु अ राईसु पुत्ति किं दड्ढमाणेण।।४५।।
[नदीपूरसदृशे यौवने अतिप्रोषितेषु दिवसेषु।
अनिवृत्तासु च रात्रिषु पुत्रि किं दग्धमानेन।।]
मानहतकस्त्यज्यतामिति तात्पर्यम्। 'पुत्रि’ इति सम्बोधनेन त्वत्तो वृद्धतया महाऽनुभवशालिन्यहं स्नेहभाजनं त्वां हितमुपदिशामीति निजवक्तव्यस्योपादेयता ध्वन्यते।।
काचित्प्रवत्स्यत्पतिका निशाप्रार्थनाऽपदेशेनात्मनो विरहाऽसहत्वं सूचयन्ती कान्तप्रवासनिरासर्थामाह-
कल्यं किल खरहृदय: प्रवत्स्यति प्रिय इति श्रुतं जनत:।
भगवति वर्द्धस्व निशे तथा, यथा कल्यमेव नोदेति।।४६।।१
मम पीडानभिज्ञत्वान्निष्ठुरहृदय: प्रिय: कल्यं प्रात: प्रस्थास्यते इति जनत: श्रूयते। 'प्रत्यूषोऽहर्मुखं कल्य:।’ 'जनात् श्रूयते’ अनेन मद्विरहदु:खमनुमाय प्रत्यक्षं न स गन्तुमसूचयत्परं जनेभ्य: श्रूयते। तथा च मद्दु:खं जानन्नपि स प्रवसतीति निगूढ उपालम्भोऽभिव्यज्यते। भगवति निशे, तथ वृर्द्धस्व यथा कल्यं न भवतीत्यनेन अहमिमां निशामेव दृष्टवती, नदिनोदयं द्रक्ष्यामि, तद्विरहे जीवितस्य स्वतोगमित्वादिति ध्वन्यते। तथा च यदि मज्जीवितं कामयसे तर्हि परिहर प्रवासाध्यवसायमिति प्रियं प्रत्यभिव्यज्यते। यद्वा प्रातरयं गमिष्यति, इतोऽग्रे त्वं स्वच्छन्दं विहरेति जारं सुखयितुं स्वैरिण्या उक्तिरियमिति।।
सखीमौग्ध्यकथनव्याजेन तत्प्रियतमस्य प्रवासनिरासार्थं काचिदाह-
भाविपथिकस्य जाया ह्यापृच्छनजीवधारणरहस्यम्।
पृच्छन्ती प्रतिगेहं भ्रमति प्रियविप्रयोगसहशीला:।।४७।।२
१. कल्लं किल खरहिअओ पवसिइहि पिओत्ति सुण्णइ जणम्मि।
तह वड्ढ भअवइ णिसे जह से कल्लं विअ ण होइ।।४६।।
[कल्यं किल खरहृदय: प्रवत्स्यति प्रिय इति श्रूयते जने।
तथा वर्धस्व भगवति निशे यथा तस्य कल्यमेव न भवति।।]
१. एतां गाथामविकलमनुहरति हिन्दीपद्यमिदम्- ''सजन सकारै जाँयगे नैन मरैंगे रोय, विधना ऐसी रैन करि, भोर कबहु ना होय।।’’
२. होन्तपहिअस्स जाआ आउच्छणजीअधारणरहस्सम्।
पुच्छन्ती भमइ घरं घरेण पिअविरहसहिरीओ।।४७।।,
[भविष्यत्पथिकस्य जाया आपृच्छनजीवधारणरहस्यम्।
पृच्छन्ती भ्रमति गृहं गृहेण प्रियविरहसहनशीला:।।]
भाविपथिकस्य अनुपदमेव पथिकतां स्वीकरिष्यत:, जाया स्त्री न तु वल्लभा। मत्सखी तु त्वां हृदयदयितं मन्यते परं त्वमेतां भरणीयां भार्यामात्रं मन्यसे, अत एव मुग्धामपीमां परित्यज्य प्रस्थातुं समीहस इत्युपालम्भो ध्वन्यते। प्रियविप्रयोगं सहते एवंविधं शीलं यासां ता:, अर्थात् प्रियविरहं या: सोढवत्य एवंविधा: दृढा: स्त्रिय: प्रति, आपृच्छनम् 'प्रिये! याम्यहम्’ इति गमनप्रश्न:। तस्मिन समये यज्जीवधारणं तस्य रहस्यं निगूढतत्त्वं पृच्छन्ती सती प्रतिगेहं भ्राम्यति। प्रियतमगमनसमये जीवधारणं सुतरां कठिनकार्यमिति न सहसा तादृशदृढमहिलालाभ- सम्भव:, अतएव अन्वेषणार्थं प्रतिगृहं भ्रमतीत्याशय:। 'रहस्य’ पदेन, आपृच्छनकाले जीवधारणस्योपायो न साधारणतया सुलभ: किन्तु अतिगूढं तत्तत्त्वमिति तस्य दुर्लभत्वं ध्वन्यते। एतेन 'तव विरहस्तु दूरे, तव गमनसमय एव मुग्धाया एतस्या जीवनसंशय:’ इति सुस्पष्टं ध्वन्यते। प्रवासविषये साध्वसेन (भयेन) स्त्रिया: प्रेमपरीक्षा भवतीति सेयमुदाहरणरूपेण गृहीता गाथा भोजेन (५ परि.)।।
काचित्स्वाधीनपतिका, अन्यस्त्रीष्वात्मन: सौभाग्यमास्थापयितुं पत्युरन्यवनिताप्रसङ्ग-प्रार्थनाव्यपदेशेन भर्तर्यन्यकामिन्यवकाशाभावमाह-
अन्यमहिलाप्रसङ्गं कुर्वस्माकं तु देव दयितस्य।
पुरुषा एकान्तरसा दोषगुणौ न खलु जानन्ति।।४८।।१
'दे’ शब्द: सानुनयसम्बोधने। हे देव, अस्माकं दयितस्यान्यमहिलाप्रसङ्गं कुरु। यत: खलु एकमात्ररसा: पुरुषा: स्त्रीणां गुणदोषौ न जानन्ति। अन्तशब्द: स्वरूपवाची, ततश्च एकरसा इत्यर्थ:। एकमात्ररसो मे दयित इति सूचनान्नात्राऽपरवनिताऽवकाश इति ध्वनितम्। स्त्रीणां गुणदोषपरिज्ञानाय कामं प्रसज्यतां मद्दयितोऽन्यमहिलास्विति वदन्त्या 'मत्सदृशी अन्यगुणवती न लप्स्यते। अतएव गुणमुग्धो मे दयितो वशीभूत:’ इति अन्यमहिला: प्रत्यात्मन: सौभाग्यं ध्वन्यते। यद्वा पत्युरन्यासङ्गप्रार्थनेन, अवकाशमिच्छन्त्या जारं प्रति प्रच्छन्नरताभिलाष: सूच्यत इति कश्चित्। अहङ्कारर्द्धि: (अत्यहङ्कारा) सेयमुद्धता नायिकेति सरस्वतीकण्ठाभरणे भोज: (५ परि.)।।
१. अण्णमहिलापसङ्गं दे देव करेसु अह्म दइअस्स।
पुरिसा एक्कन्तरसा ण हु दोसगुणे विआणन्ति।।४८।।
[अन्यमहिलाप्रसङ्गं हे देव कुर्वस्माकं दयितस्य।
पुरुषा एकान्तरसा न खलु दोषगुणौ विजानन्ति।।]
स्वयंदूती पथिकमाह-
स्तोकमपि नि:सरति नो मध्याह्ने पश्य गात्रतललीना।
छायाप्यातपभयतो विश्राम्यसि किं न तत्पथिक।।४९।।१
आतपखिन्ना: पथिका यस्यां छायायां विश्राम्यन्ति सा अचेतना छायाप्यातपभयेन बहिर्न निष्क्राम्यति किं पुनश्चेतन इत्युत्प्रेक्षया मध्याह्ने न कोऽपि बहिर्नि:सरति, तथा च विविक्तनिरपायेऽस्मिन्सुखसमये छायामिव मां गात्रतललीनां कुर्विति प्रच्छन्नं रताभिलाषो व्यज्यते।।
विरहोत्कण्ठिता चिरकालानन्तरमागतं कान्तमुपालभमाना ज्वरश्लाघाच्छलेन सचातुर्यमाह-
सुखपृच्छकं सुदुर्लभजनमप्यस्माकमानयन् दूरात्।
उपकारक जीवितमपि नयन् नहि ज्वर कृतापराधोऽसि।।५०।।२
सुखपृच्छकं अस्वस्थदशायां सुखं पृच्छति तादृशम्। तथा च लोकव्यवहारादागतो भवान् न स्नेहादित्युपालम्भो ध्वन्यते। अस्माकं नितरां दुर्लभं जनमपि दूरादनयन्। अतएव दुर्लभप्रियाऽऽनयनकरत्वादुपकारक हे ज्वर, जीवितमपि नयन् न कृतापराधोऽसि। सुदुर्लभ इत्यनेन 'तुभ्यं समर्पितहृदया, अस्माकमतिदुर्लभ:’ इत्याक्षेपो द्योत्यते। दूरात् इति विपरीतलक्षणय समीपवासी, अपि न दर्शनावसरं ददासीत्युपालम्भसूचना वा। 'अस्माकं, इत्यनेन 'भवानस्मदर्थमेव निष्ठुरहृदय:, अन्यासु ते निर्बाधा प्रीति:’ इत्युपालम्भो व्यज्यते।
१. थोअं पि ण णीसरई मज्झण्णे उह सरीरतललुक्का।
आअवभएण छाई वि पहिअ ता किं ण वीसमसि।।४९।।
[स्तोकमपि न नि:सरति मध्याह्ने पश्य शरीरतललीना।
आतपभयेन च्छायापि पथिक तत्किं न विश्राम्यसि।।]
२. सुहउच्छअं जणं दुल्लहं वि दूराहि अम्ह आणन्त।
उअआरअ जर जीअं णि णेन्त ण कआवराहोसि।।५०।।
[सुखपृच्छकं जनं दुर्लभमपि दूरादस्माकमानयन्।
उपकारक ज्वर जीवमपि नयन्न कृतापराधोऽसि।।]
एवञ्चैतावत्कालं त्वद्दर्शना-भिलाषेणैव दु:खं सोढमिदानीं तु त्वद्दर्शनोपकारो ज्वरेण साधित इत्येवं नि:स्नेहे त्वयि मम मरणमेव साम्प्रतं वरमित्युपालम्भोऽभिव्यज्यते। कामबाधया प्रत्येतव्या सेयमप्रस्तुतप्रशंसेति भोज:। यत: अप्रस्तुतस्य ज्वरस्य स्तुत्या प्रियस्य प्रतीतिर्भवतीति।।
खण्डिता सुखप्रश्नार्थमागतं कान्तं प्रति सेर्ष्यमाह-
आमज्वरोऽस्तु मन्दोऽथ मे न मन्दो जनस्य का चिन्ता।
सुखपृच्छक शुभगन्ध स्पृश मा मां गन्धितां सुभग।।५१।।१
त्वद्गतक्रोधेन रात्रौ जागरणाद् उत्पन्नो मे आमज्वर:- अजीर्णोत्पन्नो ज्वर:। मन्दोऽस्तु अथवा न मन्दोऽस्तु, जनस्य मद्दु:खाद्यजानत उदासीनस्य का चिन्ता? जनस्येत्यनेन साधारणम-नुष्यवत् त्वं तटस्थोऽसि, अतएव मद्दु:खाददु:खितस्य भवत: किमनेन मन्दाऽमन्दप्रश्नेनेत्यु-पालम्भो ध्वन्यते। सुखपृच्छक! लोकव्यवहारानुरोधादस्वास्थ्यवार्ताकारक! एतेन 'प्रातरपि केवलं लोकानुरोधादेव समागतो न पुन: स्नेहात्’ इत्याक्षेपो ध्वन्यते। सुभग! बहुवल्लभत्वात्सौभाग्यसम्पन्न! हे शुभगन्ध! प्राणप्रियालिङ्गनसङ्क्रान्ताङ्गपरिमलत्वात्सौरभयुक्त। गन्धितां ज्वरगन्धयुक्तां मां मा स्पृश। असुभगाया मम स्पर्शमात्रेण सङ्क्रान्तज्वराऽशुभगन्ध: प्राणवल्लभऽयास्त्वं किं मुधा कोपभाजनं भवसि? तथा च त्वम् एवमवस्थामपि मां परित्यज्य पुनरपि तत्रैव समासक्तो भविष्यसीति सोत्प्रासमुपालम्भो ध्वन्यते।
'स्तोकमायस्यन्नेव खिद्यसे, न यथावद्रमसे’ इति कान्तमाक्षिप्य सुरतसुखसम्भ्रमात्स्व-यमाबद्धपुरुषायितबन्धां पुनश्च सौकुमार्यादल्पायासेनैव श्रान्तां कान्त: सहासमाह-
शिखिपिच्छलुलितकेशे निमीलितार्द्धाक्षि वेपमानोरु।
दरपुरुषायितविश्रमशीले पुंसामवेहि यद्दु:खम्।।५२।।२
१. आमजरो मे मन्दो अहव ण मन्दो जणस्स का तन्ती।
सुहउच्छअ सुहअ सुअन्धअन्ध मा अन्धिअं छिवसु।।५१।।
[आमज्वरो मे मन्दोऽथवा न मन्दो जनस्य का चिन्ता।
सुखपृच्छक सुभग सुगन्धगन्ध मा गन्धितां स्पृश।।]
२. सिहिपिच्छलुलिअकेसे वेवन्तोरु विणिमीलिअद्धच्छि।
दरपुरुसाइरि विसुमरि जाणसु पुरिसाणँ जं दु:खम्।।५२।।
[शिखिपिच्छलुलितकेशे वेपमानोरु विनिमीलितार्धाक्षि।
ईषत्पुरुषायिते विश्रामशीले जानीहि पुरुषाणां यद्दु:खम्।।]
रतिजनितकम्पवशात् बर्हिबर्हवत् विस्रस्तकेशकलापे!स्तन-नितम्बभरसंवहनायासाद्वि-निमीलितार्द्धयने। ऊरुयुगल एव दत्ताऽखिलभारतया कम्पमानोरु! अतएव ईषत्पुरुषायिते एव विश्राम्यन्ति। पुसां यद्दु:खं (तदिदानीम्) अवेहि जानीहि। गङ्गाधरस्तु मूलमनुरुन्धानो 'ईषत्पुरुषायिते-विश्रामशीले’ इति व्यस्तं व्याचख्यौ। विश्राम इत्यपि पाणिनीयानामरुन्तुदम्।
नि:शेषितवैभवतया पूर्वं निष्कासितस्य, इदानीमुपार्जितप्रभूतधनसमृद्धे: कस्यचिद्भु-जङ्गस्य पुनर्वशीकरणाय प्रेषयन्तीं मातरं प्रति वेश्या आह-
विच्छिन्नसंहितस्य प्रेम्ण: प्रत्यक्षितव्यलीकस्य।
विरसो रसो भवति बत तापितशीतस्य पयस इव।।५३।।१
पूर्वं विच्छिन्नस्य तत: संहितस्य योजितस्य प्रत्यक्षीकृतव्यलीकस्य प्रत्यक्षदृष्टापराधस्य प्रेम्ण:। पूर्वं तापितस्य तत: शीतलीकृतस्य उदकस्येव रसो विरसो भवति। अयं भाव:- पूर्वं तु विच्छिन्नस्य प्रेम्ण: सन्धानमेव दु:सम्भवम्। तत्रापि प्रत्यक्षमवलोकितोऽन्यविटसम्भोगाद्यपराध: कथमिव समाधेय:। श्रुतेऽनुमिते वा विप्रिये भवेत्कदाचित्प्रतीकार:, प्रत्यक्षीकृते तु का नाम समाहिति:? अत एव सुसृशं पर्युपास्यमानोऽपि नासौ तथानुरज्येत। किमिति मुधाऽवधीरणाऽ-वमानमनुभावयसीति ध्वन्यते।
कस्यचिदुदत्तापुरुषस्य समुचितेवैभवप्राप्तौ पूर्वावस्थासहचराणामप्यसौ दु:खनिरासाय यतते इति निदर्शयितुं बन्दीकृताया: कस्याश्चन योषित: पतिपराक्रमवृत्तं कश्चिदभिधत्ते-
वज्रपतनातिरिक्तं पत्यु: श्रुत्वा तु शिञ्जिनीघोषम्।
स्वसदृशबन्दीनामपि बन्द्या द्राक् प्रोञ्छिते नयने।।५४।।२
१. पेम्मस्स विरोहिअसंघिअस्स पच्चक्खदिविलिअस्स।
उअअस्स व ताविअसीअलस्स विरसो रसो होइ।।५३।।
[प्रेम्णो विरोधितसन्धितस्य प्रत्यक्षदृष्टव्यलीकस्य।
उदकस्येव तापितशीतलस्य विरसो रसो भवति।।]
२. वज्जपडणाइरिक्कं पइणो सोऊण सिञ्जिणीघोसम्।
पुसिआइं करिमरिएँ सरिसबन्दीणं पि णअणाइं।।५४।।
[वज्रपतनातिरिक्तं पत्यु: श्रुत्वा शिञ्जिनीघोषम्।
प्रोञ्छितानि बन्द्या सदृशबन्दीनामपि नयनानि।।]
करिमरी बन्दी। दिग्बधिरीकरणातिशयात् वज्रपतनशब्दतोऽप्यधिकं पत्यु: प्रत्यञ्चारव-माकर्ण्य, तेनाऽतिशयेन भर्तुरेवेति परिचीय। बन्दीकृतया शूरनार्या, स्वयमिव बन्दीकरणदु:-खमनुभवन्तीनामन्यासामपि बन्दीनाम् 'अतिशयितधनुर्धर: सोऽयमुपस्थितो मे स्वामी, मामिव भवतीरपि मोचयिष्यति, तत्किमधुनाऽश्रुविमोचनेन’ इति वाष्पकलुषिते नयने मार्जिते इत्यर्थ:। ततश्च मनस्वी धनसमृद्धिमुपलभ्य दारिद्र्यदु:खानुभवशालितया दयाप्लुतो दीनानामन्येषामपि दु:खमपाकुरुते इत्यनेन निदर्श्यते। 'बहुशोऽनुभूतेऽर्थे भविष्यत्यपि भूतवत्प्रत्ययो भवतीति निदर्शयन् बन्द्या: पतिशौर्यबहुमानमाह कश्चिदिति’ गङ्गाधरावतरणिका।
शृण्वन्तं कञ्चन भुजङ्गं मोहयितुं वेश्याधात्री स्वदुहितु: सुरतचातुर्येऽपि सौकुमार्यातिशयं प्रकटयितुं भुजङ्गान्तरनिन्दाव्याजेनाह-
सहते सहत इतीयं रमितैवं सुरतदुर्विदग्धेन।
म्लानशिरीषाणीव हि जातान्यस्या यथाऽङ्गानि।।५५।।१
इमं प्रकारमपि सहते इमं प्रकारमपि सहते इति मुहु: प्रकारान्परिवर्त्य इयं कोमलाङ्गी मद्दुहिता सुरतदुर्विदग्धेन सुरताऽऽयासादिपरिचयाऽचतुरेण एवं रमिता अर्थात्तथा उपभुक्ता। एवमत्र तथाऽर्थे यथास्या अङ्गानि म्लानशिरीषाणीव नि:सहानि जातानि। सहते सहते इति वीप्सा बहून् सुरतप्रकारानाख्याति। तथा सेयं बहुषु सुरतप्रकारेषु विदग्धेति कामुकं प्रति व्यज्यते। सुरतायासादेव सेयं नि:सहाङ्गी न पुना रोगादिनेत्यपि सूचितं भवति। एवं च त्वमपि तथैवैनामुपभोक्ष्यसे यथेयमतिसुकुमाराङ्गी नाधिकमाकुला स्यादिति दुहितु: परिश्रमस्य समयस्य च संक्षेपं सूचयति।
अन्यवनितासङ्गेनोपेक्षमाणं नायकं प्रति कस्याश्चनानुरागातिशयं प्रकाशयितुं दूती आह-
अगणितसमस्तयुवका बाल व्युत्क्रान्तलोकमर्यादा।
अथ सा भ्रमति दिशामुखविकासिताक्षी तव कृतेन।।५६।।२
१. सहइ सहइ त्ति तह तेण रामिआ सुरअदुव्विअद्धेण।
पम्माअसिरीसाइँ व जह से जाआइँ अङ्गाइं।।५५।।
[सहते सहत इति तथा तेन रमिता सुरतदुर्विदग्धेन।
प्रम्लानशिरीषाणीव यथास्या जातान्यङ्गानि।।]
२. अगणिअसेसजुआणा बालअ वोलीणलोअमज्जाआ।
अह सा भमइ दिसामुहपसारिअच्छी तुह कएण।।५६।।
[अगणिताशेषयुवा बालक व्यतिक्रान्तलोकमर्यादा।
अथ सा भ्रमति दिशामुखप्रसारिताक्षी तव कृतेन।।]
हे बालक तादृशस्त्रीरत्नोपेक्षणात्, रमणीवधाऽपराधाऽचिन्तनाच्च निजहितज्ञानशून्य। न गणिता न बहुमतास्त्वदन्ये अशेषा युवानो यया सा। एतेन नेदं मनस्यभिमन्येथा यदहमेव युवक इति, किं त्वनयैव त्वदनुरागादन्ये न वीक्षिता इति साकूतं ध्वन्यते। गुरुजनशिक्षाऽवधीरणात् लज्जात्यागच्च उल्लङ्घितलोकमर्यादा, सा पूर्वोक्तसौन्दर्यानुरागाद्यनेकगुणा, तव कृतेन त्वद्दर्शना-भिलाषेण दिङ्मुखप्रसारिताक्षी सती भ्रमति। तव नैकत्राऽऽसक्तिरिति चतुर्दिक् तवान्वेषणे यतत इति सूच्यते। ततश्च सावन्नेयं शोचनीयामवस्थामश्रुते तावदेवां त्वरितमनुगृहाणेति नायकं प्रति ध्वन्यते। प्रेमपुष्टिषु लज्जाविसर्जनमेतदिति सरस्वतीकण्ठाभरणे भोज: (५ परि.)।
वन्द्यां कस्याञ्चन जाताभिलाषश्चोरयुवा भर्तृशौर्याभिमानेन निजकारामुक्तिं विश्वसन्त्या-स्तस्या उत्साहभङ्गार्थमाह-
बन्दि! अनवसरगर्जनशीलजलदवज्रपतनरव एष:।
पतिचापरवाकाङ्क्षिणि रोमाञ्चं किं मुधा वहसि।।५७।।१
अकाले गर्जनशीलस्य जलदस्य वज्रपतनस्यैष शब्द:। पतिधनुष्टङ्कारश्रवणलालसे! पत्यु: समरणेन मुधा रोमाञ्चं किं वहसि। नायं धनुष्टङ्कारस्तत: कथङ्कारं मदनुकम्पां विना मुक्तिं वाञ्छसीति तां प्रति सूच्यते। अत्र रोमाञ्चरूपेण रसस्य जन्मेति सरस्वतीकण्ठाभरणे भोज: (५ परि.)।
बहुवल्लभस्य साध्वी काचिन्नायिका भर्तु: शौर्यप्रकाशनेन सह असतीनां निजसपत्नी-नामभिसारसज्जतां सूचयितुं श्वश्रूं प्रत्याह-
प्रोषित एषोऽद्यैव प्रोज्जागरको जनस्य चाद्यैव।
गोदानदीतटान्यपि हन्त हरिद्राविपिञ्जराण्यद्य।।५८।।२
१. करिमरि अआलगञ्जिरजलआसणिपडनपडिरवो एसो।
पइणो धणुरवकङ्खिरि रोमञ्चं किं मुहा वहसि।।५७।।
[बन्दि अकालगर्जनशीलजलदाशनिपतनप्रतिरव एष:।
पत्युर्धनूरवाकाङ्क्षणशीले रोमाञ्चं किं मुधा वहसि।।]
२. अज्ज व्वेअ पउत्थो उज्जअरओ जणस्य अञ्जे अ।
अज्जे अ हलिद्दापिञ्जराइँ गोलाणइतडाइं।।५८।।
[अद्यैव प्रोषित उज्जागरको जनस्याद्यैव।
अद्यैक हरिद्रापिञ्जराणि गोदानदीतटानि।।]
सङ्ग्रामप्रसङ्गेन भवत्पुत्र एषोऽद्यैव प्रवासं गत:। अद्यैव च चौराद्याक्रमणभयाद् ग्रामवासिनो जनस्य प्रकर्षेण उज्जागरक: (जागरणम्), अस्तीति शेष:। जनस्य सपत्नीजनस्याद्यैव अभिसरणाभियोगाज्जागरणमस्तीत्यपि ध्वन्यते। गोदावरीतीराण्यपि अद्यैव हरिद्राविपिञ्जराणि सन्ति, हरिद्रोद्वर्तिताङ्गप्रक्षालनेन असतीनामङ्गरागसङ्क्रमणादित्यर्थ:। पूर्वं ग्रामप्रधानस्य भवत्पुत्रस्य सत्तायामसतीनां न तावदन्याभिसरणसाहसमभूदिति भाव:। एतेन यथासौ मत्पति-श्चौराद्याक्रमणरोधकत्वेन शूरस्तथैव बहुनायिकारमणत्वेन वनितोपभोगकुशलोऽपीति ध्वन्यते।
कुलवधूशिक्षार्थं प्रौढा काचित्पारिवारिकपुरन्ध्री सतीवृत्तमाह-
प्रेयसि सुविषमशीले शुद्धमना देवरेऽसदृशचित्ते।
न वदति कुटुम्बविघटनभयेन तनुकायते स्नुषा किन्तु।।५९।।१
देवरे असदृशचित्ते कामविकारदूषितचित्ते सत्यपि शुद्धमना: अविकृतचित्ता स्नुषा पुत्रवधू: वामस्वभावे प्रियतमे कुटुम्बकलहभयेन न किञ्चिद्वदति। विषमस्वभाव: पति: कदाचिद् भ्रात्रा कलहायमान: कुटुम्बं विशृङ्खलयेदिति भाव:। किन्तु मानसिकदु:खगोपनेन प्रत्यहं कृशा भवति। अप्रियस्यापि यस्य प्रकाशनेऽनिष्टं सम्पद्यते तद् गोप्यमेवेति भाव:। 'स्नुषा’ पदेन श्वश्रूश्वशुरयो: सत्तासूचनात् कुटुम्बस्य वृद्धजनाधिष्ठितत्वं विस्तृतत्वं च ध्वन्यते।
कलहान्तरिताया: सखी प्रियतमेन 'किमवस्था सम्प्रति भवत्सखी’ इति पृष्टा आह-
चिन्ताऽऽनीतप्रियतमसमागमे विहितमन्युकानि संस्मृत्य।
शून्यं कलहाऽऽकुलिता रुदिताऽऽलीभिर्न चोपहसिता सा।।६०।।२
ध्यानोपस्थापितस्य दयितस्य (भवत:) समागमे, विहितो मन्यु: क्रधो यैस्तानि विहितमन्युकानि, क्रोधकारणानि सपत्नीसमागमादीन् संस्मृत्य। एतेन 'भवदपराधास्तथाऽस्या हृदये व्यथयन्ति यथैषा समयान्तरेऽपि न तान्विस्मरति’ इति ध्वनितम्। शून्यं मुधैव कलहायमाना
१. असरिसचत्ते दिअरे सुद्धमणा पिअअमे विसमसीले।
ण कहइ कुडुम्बविहडणभएण तणुआअए सोह्णा।।५९।।
[असदृशचित्ते देवरे शुद्धमना: प्रियतमे विषमशीले।
न कथयति कुटुम्बविघटनभयेन तनुकायते स्नुषा।।]
२. चिन्ताणिअदइअसमागमम्मि कअमण्णुआइँ भरिऊण।
सुण्णं कलहाअन्ती सहीहिँ रुण्णा ण ओहसिआ।।६०।।
[चित्तानीतदयितसमागमे कृतमन्युकानि स्मृत्वा।
शून्यं कलहायमाना सखीभी रुदिता नोपहसिता।।]
साऽस्मत्सखी, सखीभि: रुदिता रोदनेन शोचिता। एवमुपहासस्थलेऽपि करुणावशान्नोपहसिता। रुदितेत्यत्र कार्यस्य रोदनस्य कारणभूते शोके लक्षणया शोचितेत्यर्थ: कार्यं:, गौर्वाण्यां 'रुद’ धातोरकर्मकतया यथास्थितस्याऽसङ्गते:। प्राकृते तु हिन्दीभाषावद् रुदधातो: सकर्मकतया न दोष:। एवं च कृतकलहापि सा निरन्तरं भवन्तमेवाऽनुध्यायन्ती तन्मयतया तथा विचेष्टते यथा सर्वेषामप्यसौ शोचनीया जाता। ततश्च त्वद्गतप्राणामिमां किं मुधा व्यथयसि, अचिरमनुनयस्व, कृतमेभि: प्रश्नैरिति ध्वन्यते। अत्र चिन्तया मूलभूता रति: प्रकृष्यते इति स, कण्ठाभरणे भोज: (परि. ५)।
प्रच्छन्नरताभिलाषिणं नागरिकं प्रति कुलजत्वेन प्रच्छन्नमेव समागमं कामयमानाऽ-भिसारिका सवैदध्यमाह-
असमाप्तान्यपि हृदयाभिसै: साकं यथा हि सुखयन्ति।।
कार्याणि नेतरै: सह समापितान्यपि तथा मन्ये।।६१।।१
हृदयाभिज्ञै: हृदयेच्छां विजानद्भि: इङ्गितज्ञै: सह असमाप्तान्यपि यथाचिन्तित-मपूरितान्यपि कार्याणि यथा सुखयन्ति तथा इतरै: हृदयमजानद्भि: सह पूरितान्यपि न सुखयन्तीति मन्ये। तथा च त्वद्विधविदग्धेन सह यदि सङ्कल्पेऽपि समागमो भवेत्सोऽपि सुखाय, न पुनर्जडेन कामं समागमोऽपीति सूच्यते। अथवा निजभर्तु: पामरताप्रकाशनेन पतिविषयको विरागो जारे चानुरागोऽनेन ध्वन्यते। किं वा अधमेऽनुरक्तां प्रति प्रबोधयन्त्या: सख्या वचनम्।
सन्निहितो घनागम इत्याम्रङ्कुरप्रदर्शनच्छलेन निभृतं सूचयन्ती कान्ता कान्तस्य प्रवासोद्य-ममपनेतुमाह-
दरभिन्नशुक्तिसम्पुटनिलीनहालाहलाग्रपुच्छनिभम्।।
पक्वाऽऽम्रास्थिविनिर्गतकोमलमाम्राङ्कुरं पश्य।।६२।।२
१. हिअअण्णएहिँ समअं असमत्ताइं पि जह सुहावन्ति।।
कज्जाइँ मणे ण तहा इअरेहिँ समाविआइं पि।।६१।।।
[हृदयज्ञै: सममसमाप्तान्यपि यथा सुखयन्ति।v।
कार्याणि मन्ये न तथा इतरै: समापितान्यपि।।]
२. दरफुडिअसिप्पिसंपुडणिलुक्कहालाहलग्गछेप्पणिहम्।
पक्कम्बट्ठिविणिग्गअकोमलमम्बङ्कुरं उअह।।६२।।
[ईषत्स्फुटितशुक्तिसम्पुटनिलीनहालाहलाग्रपुच्छनिभम्।
पक्वाम्रास्थिविनिर्गतकोमलमाम्रङ्कुरं पश्यत।।]
दरभिन्ने ईषत्स्फुटिते शुक्तिसम्पुटे निलीन: गुप्त:, ईषद्दृश्यमान इत्यर्थ:। यो हालाहल: 'वहमनिया’१ इति प्रसिद्धो जन्तुविशेष: तस्य पुच्छाग्रसदृशम्। पक्वाम्रस्य यदस्थि ततो विनिर्गतं च कोमलं च। 'हालाहलो ब्रह्मसर्पे’ इति मेदिनी। बीजकोषनिर्गतस्य आम्राङ्कुरस्य वर्णाकारौ हालाहलपुच्छसंवादिनाविति सङ्घटितयाऽनयाऽऽर्थ्युपमया- 'यदि सन्निहितघनरसमये समयेऽस्मिन्प्रवससि तर्हि सोऽयमाम्राङ्कुरो हालाहल इव मां कथावशेषां कुर्यादिति’ सौष्ठवेन ध्वन्यते।
निरपायसुचिरसुरतयोग्यतां प्रदर्शयितुं गृहस्य जनसञ्चारशून्यतां सूचयन्ती, चिररमणाय जारमन्यमनस्कं वा कुर्वती काचिदाह-
पश्यत पटलविलम्बितनिजतन्तुतलोर्ध्वपादपरिलग्नम्।
दुर्लक्ष्यसूत्रसङ्गतबकुलकुसुममेकमिव हि मर्कटकम्।।६३।।२
पटलविलम्बित: छदिषोऽन्तरादवतीर्णो यो निजतन्तु: तस्य तले ऊर्ध्वपादै: परिलग्नम्। अत एव दुर्लक्ष्यसूत्रग्रथितमेकं बकुलकुसुममिव स्थितं मर्कटकं लूतां पश्यत। 'अथ मर्कटक: सस्यभेदे वानरलूतयो:।’ इति मेदिनी। अनया मर्कटकस्वभाववर्णनरूपया स्वभावोक्तया 'इदं स्थानं जनयातायातशून्यमत एव सुचिरं रतोत्सवोऽनुभूयताम्’ इत्यर्थो ध्वन्यते।
पुराणदेवकुलस्य जनसञ्चारशून्यतां प्रदर्श्य सुखसङ्गमार्थमुत्तेजयन्ती काचित्कामुकी जारमाह-
उपरि दरदृष्टशङ्कुकनिलीनपारावतोच्चरुतै:।
निस्तनति जातपीडं शूलाभिन्नं व देवकुलम्।।६४।।३
१. 'बिल ब्राह्मणी’ इति जयपुरप्रान्ते
२. उअह पडलन्तरोइण्णणिअअतन्तुद्धपाअपडिलग्गम्।
दुल्लक्खसुत्तगुत्थेक्कबउलकुसुमं व मक्कडअम्।।६३।।
पश्यत पटलान्तरावतीर्णनिजकतन्तूर्ध्वपादप्रतिलग्नम्।
दुर्लक्ष्यसूत्रग्रथितैकबकुलकुसुममिव मर्कटकम्।।]
३. उअरि दरदिट्ठथण्णुअणिलुक्कपारावआणँ विरुएहिं।
णित्थणइ जाअवेअणँ सूलाहिण्णं व देअउलम्।।६४।।
उपरीषद्दृष्टशङ्कुनिलीनपारावतानां विरुतै:।
निस्तनति जातवेदनं शूलाभिन्नमिव देवकुलम्।।]
उपरि उपरिभागे, चूडाकलशस्य भग्नतया दरदृष्टो य: शङ्कुक:, ईषदवशिष्टतया कञ्चिद्दृश्यमानो य: कीलक:, तत्र निलीनानां निर्जनतयां सङ्कोचितचरणं कुब्जीभूय स्थितानां पारावतानामुच्चै: रुतै: शूलाभिन्नं व शूलाप्रोतमिव जातवेदनं देवकुलं (देवमन्दिरम्) निस्तनति करुणं रौतीत्यर्थ:। इवार्थको वशब्द:। तथा च रतिसमये पारावतरुतानुकारि यन्मणितादि जायते तदपि नात्र सङ्लक्ष्येतेति गूढं सूचितम्। शूलाभिन्नमिव जातपीडमित्युत्प्रेक्षया वसतिबाह्यतां प्रदर्श्य स्थानस्य निर्जनता द्योत्यते। एवं चानुपलक्ष्यरतिकूजितं नि:शङ्कमत्र सुरतमनुभवेति वक्तृवैशिष्ट्येन ध्वन्यते। नायकस्य दीर्घरमणार्थं चमत्कारमुत्पादयितुं शूलाभिन्नमिवेत्युत्प्रेक्षणम्। तथा च कामशास्त्रम्- 'कल्लोलिनीकाननकन्दरादौ दु:खाश्रये चार्पितचित्तवृत्ति:। मृदुद्रुतारम्भ-ममिन्नधैर्य: श्लथोपि दीर्घं रमते रतेषु।।’ इति गङ्गाधर:।
परवनितालोलुपस्य निजदयितस्यानुरागमाकृष्टवतीं पुन: 'नासौ मय्यनुरक्त:, न चाहं तस्य प्रिया’ इत्यादिना प्रेमाणमनभ्युपगच्छन्तीं परकीयां काञ्चन सपत्नीं काचिदाह-
यदि तस्य न प्रियासि प्रतिदिवसं नि:सहैरङ्गै:।
पीयूषमत्तनवशिशुमहिषीवत्सेव किं स्वपिषि।।६५।।१
त्वं यदि तस्य प्रिया न भवसि, तर्हि अनुदिवसं सुरतपरिश्रमपरिम्लानतया नि:सहैरङ्गै-रुपलक्षिता सती, पीयूषेण अभिनवदुग्धेन मत्ता निद्रावशीकृता नवशिशु: नवजाता महिषीवत्सेव किं स्वपिपि? 'पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते।’ इति मेदिनी। 'पीयूषममृते नव्यसूतधेनो: पयस्यपि’ हैमोऽपि। प्रसवोत्तरसप्तदिवसाभ्यन्तरीणदुग्धपानेन पशुवत्सो निद्रातीति लोकप्रसिद्धम्। सुरतपरिश्रमजातो जागर एव ते तदनुरागं प्रकाशयतीति भाव:। अत्र 'पाड़ी’ इवेति महिषीवत्सोपमा अनर्हतां सूचयन्ती सपत्नीगतामीर्ष्यां व्यनक्ति। गङ्गाधरस्तु- ''निजभर्तुरेवाऽप्रियास्मि, तत्किं मया दुर्भगया’ इति निरस्यन्तीं नायिकां प्रति साभिलाषस्य कस्यचिदुक्तिरियम्’ इत्याह। तत्र नायिकायां 'पाडी’ इत्युपमा विचारणीयैव। 'प्रियतमस्य त्वं प्रियासि’ इति समर्थनमपि जारविषयेऽनुपपन्नम्। स हि प्रियस्य वैगुण्यं संसूच्य नायिकां साधयतीति दृष्टम्। सख्यादिभिर-वगत: प्रकाशोऽयं प्रेमा इति सरस्वतीकण्ठाभरणे भोज:।
विदेशगतपतिकां काञ्चिदन्याऽऽसक्तां लोकापवादभीता काचिद्बन्धुवधूराह-
१. जइ होसि ण तस्स पिआ अणुदिअहं णीसहेहिँ अङ्गेहिं।
णवसूअपीअपेऊसमत्तपाडि व्व किं सुवसि।।६५।।
[यदि भवसि न तस्य प्रियानुदिवसं नि:सहैरङ्गै:।
नवसूतपीतपीयूषमत्तमहिषीवत्सेव किं स्वपिषि।।]
अतिदीर्घास्वविनिद्रा त्वमसि भृशं हैमनीषु रजनीषु।
सुचिरप्रोषितपतिके न सुन्दरं यद्दिवा स्वपिषि।।६६।।१
इयद्दीर्घासु रात्रिषु अविगतन्द्रिा (अपूरितनिद्रा) त्वं यद्दिने स्वपिषि तन्न सुन्दरम्, लोकानामसतीत्वशङ्काकारणत्वादयुक्तमित्यर्थ:। प्रोषितपतिकात्वेन प्रियसम्भोगादिकं रात्रिजागरणकारणं तु निवारितमेव। ननु तत्कालमेव प्रियप्रवासे तच्चिन्तयापि रात्रिजागरणं सम्भवति, प्रियसत्त्वे प्रतिदिनाभ्यासाद्वा। तच्छङ्कानिरासार्थं सम्बोधनम्- 'सुचिरप्रोषितपतिके!’ इति। तथा च बहो: कालात्प्रियविप्रयोगसहत्वान्न प्रियचिन्तया विनिद्रत्वमपि सम्भवतीत्याशय:।
'पङ्किले पथि, कर्दमभयादुत्प्लुत्य तया मम पदस्थाने पदं निक्षिप्तं न पुनरनुरागात्’ इति प्रियाप्रणयं गोपयन्तं कान्तं काचिदाह-
पङ्कभयोत्प्लुतपदमिदमलसितया तव पदे प्रदत्तं चेत्।
पुलकितमङ्गमिदानीं किमिति सुभग तत्स्फुटं वहसि?।।६७।।२
अलसायमानया न तु वास्तवमलसया। तथा च तस्या मन्दगमनमपि अनुरागमूल-कमेवेति भाव:। पङ्कभयेनोत्प्लुतमिदं पदं तव पदे चेत्प्रदत्तं तर्हि स्पष्टं कण्टकितमङ्गमिदानीं किमिति वहसि। मार्गे गच्छन्त्योऽपि त्वय्यनुरज्यन्तीत्याकूतेन सुभगेत्यामन्त्रणम्। यदीयं त्वयि नाऽनुरक्ता, तर्हि तव पदस्थानेऽनया पदे दत्ते कथं ते रोमाञ्चो जात इत्याशय:।
अनुरागातिशयं प्रकाशयतोऽपि दानशून्यस्य भुजङ्गस्य ह्रेपणार्थं दुहितुश्च शिक्षार्थं वेश्याधात्री आह-
१. हेमन्तिआसु अइदीहरासु राईसु तं सि अविणिद्दा।
चिरअरपउत्थवइए ण सुन्दरं जं दिआ सुवसि।।६६।।
[हैमन्तिकास्वतिदीर्घासु रात्रिषु त्वमस्यविनिद्रा।
चिरतरप्रोषितपतिके न सुन्दरं यद्दिवा स्वपिषि।।]
२. जइ चिक्खल्लभउप्पअपअमिणमलसाइ तुह पए दिण्णम्।
ता सुहअ कण्ठइज्जन्तमङ्गमेह्णि किणो वहसि।।६७।।
[यदि कर्दमभयोत्प्लुतपदमिदमलसया तव पदे दत्तम्।
तत्सुभग कण्टकितमङ्गमिदानीं किमिति वहसि।।]
प्राप्त: क्षणो न राजत्यतिकल्ये पूर्णिमेन्दुरिव।
अन्तविरस इव कामो ह्यसम्प्रदानश्च परितोष:।।६८।।१
प्राप्त: अतिक्रान्त: क्षण: उत्सवो न शोभते, यथा अतिप्रभाते पूर्णिमाचन्द्र:, तत्प्रकाशस्याति-क्रान्तत्वात्। सम्यक्प्रदानशून्य: परितोषश्च न शोभते, यथा अन्तविरस: काम:। यस्या: कामनाया अन्ते वैरस्यमुत्पद्यते न सा लोकानां प्रिया। तथैव परितोषप्रकाशनान्ते समुचित-वितरणाभावे रसक्षतिरिति यदि त्वमिमामनुरक्तां कामयसे तर्हि सम्यग्वितरणीयमिति कामुकं प्रत्यभिव्यज्यते।
पूर्वोक्तं सर्वमिदं 'अइप्पहाअव्व पुणिमाअन्दो। अन्तविरसो व्व कामो’ इति पाठं निर्मितवतो गङ्गाधरस्यानुरोधेन। वस्तुतस्तु-
पत्तो छणो ण सोहइ अइप्पहाअम्मि पुण्णिमाअन्दो।
अन्तविरसो अ कामो असंपआणो अ परिओसो।।
प्राप्त: क्षणो न राजत्यतिकल्ये पूर्णिमाचन्द्र:।
अन्तविरसश्च कामो ह्यसम्प्रदानश्च परितोष:।।
प्राप्तेराशायामेव आनन्दाधिक्यात्प्राप्त उपस्थित: क्षण उत्सवो न शोभते, प्राप्तत्वेन उत्कण्ठानिवृत्ते:। तथा अतिप्रभाते पूर्णिमाचन्द्रो न शोभते। सायं क्रमेणोदेष्यतस्तस्य दर्शने यथोत्कण्ठा न तथाऽस्तं जिगमिषोस्तस्य दर्शन इति भाव:। परिणामविरसा कामना च न शोभते, एवं सम्यक्प्रदानशून्य: परितोषश्च न शोभते। एते चत्वारो न शोभन्ते इति दीपक:। अग्रेऽपि सैषा शैली प्रदर्शिता गाथाकोषकारेण यथा- 'छज्जइ पहुस्स ललिअम्’ [२ शतके ४३]।
स्वाधीनभर्तृकां काञ्चन नवीनां कामयमानं प्रति तत्प्राप्तेराशां निरस्यन्ती दूती अन्यापदेशेनाह-
पार्वत्या: सौभाग्यं करग्रहण एव विदितमालीभि:।
व्यपनीते पशुपतिना निजवासुकिकङ्कणे दूरम्।।६९।।२
१. पत्तो छणो ण सोहइ अइप्पहाअ व्व पुणिमाअन्दो।
अन्तविरसो व्व कामो असंपआणो अ परिओसो।।६८।।
[प्राप्त: क्षणो न शोभते अतिप्रभात इव पूर्णिमाचन्द्र:।
अन्तविरस इव कामो असम्प्रदानश्च परितोष:।।]
२. पाणिग्गहणे व्विअ पव्वईएँ णाअं सहीहिँ सोहग्गम्।
पसुवइणा वासुइकङ्कणम्मि ओसारिए दूरम्।।६९।।
[पाणिग्रहण एव पार्वत्या ज्ञातं सखीभि: सौभाग्यम्।
पशुपतिना वासुकिकङ्कणेऽपसारिते दूरम्।।]
पार्वत्या भयनिवृत्त्यर्थम्, अभिरुचितेऽपि स्वीये वासुकिरूपे कङ्कणे पशुपतिना दूरमप-सारिते सति पाणिग्रहण एव प्रियानुरागरूपं पार्वत्या: सौभाग्यं सखीभिर्ज्ञातम्। इदानीमेव एवंविधमनुगतत्वं तर्हि अग्रे का कथेति भाव:। तथा च नित्यमनुकूलमाचरत: प्रियस्य सेयं प्रथमत एव तथा वल्लभा यथा नेयमन्यं कामयितुमर्हतीति कामुकं प्रत्यभिव्यज्यते। 'विज्ञा उपक्रम एव भद्रं विरुद्धं च जानन्तीति दर्शयन् कश्चिदाह’ इति गङ्गाधर:। शिवनिष्ठ: प्रथमानुरा-गानन्तर: सोऽयं सम्भोगशृङ्गार इति सरस्वतीकण्ठाभरणे भोज: (५ परि.)।
कस्याश्चन प्रोषितपतिकाया ग्रीष्मान्त: प्रियप्रत्यागमावधिरासीत्। नवमेघोदयशङ्कया-ऽवधिलङ्घनं मत्वा प्रियतमस्याऽन्यासक्तिं सम्भाव्य व्याकुलायास्तस्या: समाश्वासनार्थं सखी आह-
ग्रीष्मे भान्ति दवानलमसीमलिनितानि विन्ध्यशिखराणि।
न नवप्रावृड्जलदा: प्रोषितपतिके समाश्वसिहि।।७०।।१
विन्ध्यशिखराणि ग्रीष्मे दावानलमसीसम्पर्केण मलिनानीवाऽऽचरितानि, न तु वास्तवं मलिनानि भान्ति प्रतीयन्ते, दृश्यन्त इति यावत्। औपम्यवत्यपह्नुतिरलङ्कार इति सरस्वतीकण्ठाभरणे भोज: (४ परि.)।
प्रथमसङ्गमेऽनुरागाऽतिशयं प्रकाश्यन्तं बहुवल्लभं कान्तं सर्वदा एकरसप्रणयानुवृत्त्यर्थं काचिदाह-
शक्यो वोढुं यावांस्तावन्तं देहि मे प्रणयम्।
सर्वो जनो निवृत्तप्रसादपीडासहो नाऽयम्।।७१।।२
१. गिह्मे दवग्गिमसिमइलिआइँ दीसन्ति विज्झसिहराइं।
आससु पउत्थवइए ण होन्ति णवपाउसब्भाइं।।७०।।
[ग्रीष्मे दवाग्निमषीमलिनितानि दृश्यन्ते विन्ध्यशिखराणि।
आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि।।]
२. जेत्तिअमेत्तं तीरइ णिव्वोढुं देसु तेत्तिअं पणअम।
ण अणो विणिअत्तपसाअदुक्खसहणक्खमो सव्वो।।७१।।
[यावन्मात्रं शक्यते निर्वोढुं देहि तावन्तं प्रणयम्।
न जनो विनिवृत्तप्रसाददु:खसहनक्षम: सर्व:।।]
यावान् प्रणय: सर्वदापि निर्वोढुं शक्यते तावन्तं मे देहि। अयं सर्वोऽपि जन:, निवृत्तो य: प्रसाद: प्रणयस्तस्य या पीडा दु:खं तत्सह: सहनक्षमो नास्ति। तथा च बहुवल्लभेन भवता पूर्वं बह्व्योऽपि प्रणयभङ्गं कृत्वा परित्यक्ता:, न तद्वदहमपि बोधनीया। अननुभूत-प्रणयखण्डना त्वदनुरक्ताऽहं तु त्वया प्रणयखण्डने कृते न जीवामीति ध्वन्यते।
प्रियतमप्रणयभङ्गत: परिगृहीतमाना, प्रियेण च 'किमेवं मय्यद्यापि प्रणयविमुखासि’ इत्यनुनीयमाना काचिन्मानिनी तत्प्रणयस्याऽस्थिरतामात्मनश्चानुरागातिशयमाविष्कर्तुमेवमाह-
बहुवल्लभस्य दिवसान् पञ्च कथञ्चित्तु वल्लभा या स्यात्।
सा षष्ठं नु मृगयते? कुतो हि मृष्टं च बहुकं च।।७२।।१
बह्व्यो वल्लभा यस्य स बहुवल्लभ: तस्य या वल्लभा भवति सा कथञ्चित् पञ्च दिवसांस्तु पश्यति। अनन्तरमन्यत्रासक्तस्य कान्तस्याभिप्रायमवगत्य सा नु (किम्) षष्ठं दिवसं मृगयते पश्यति, नैव पश्यतीत्यर्थ:। यतो हि मृष्टं च बहुकं च कुत:। यद्यनुकूलं परिमाणतोऽधिकञ्च तत्सुकृतपरिपाकलभ्यमित्यर्थ:। ''मिष्टं च’’ इत्यपि सम्भवति। तथा च या बहुकालं तवाऽनुराग-मुपलब्धवती स्यादवश्यं सा धन्या, मम मन्दभाग्यायास्तु कुत एतदिति कान्तं प्रत्यभिव्यज्यते। यद्वा, अभिमतप्रियस्य सार्वदिकसम्भोगाऽलाभात्खिद्यमानां नायिकां बोधयन्त्या: सख्या इयमुक्ति:। अपैति च शोभते च तादृशोऽयं कुसुम्भराग इति सरस्वतीकण्ठाभरणे भोज: (परि.५)।
सततमनुगतस्य दयितस्यानुरागमात्मनोऽपि च तं प्रत्यभिलाषातिशयं प्रकाशयितुं नायिका सखीमाह-
निर्ध्यायति किल यं यं सोऽनिमिषाक्षोऽङ्गकाऽवकाशं मे।
प्रच्छादयामि तं तं वाञ्छामि च तेन दृश्यमानं च।।७३।।२
१. बहुवल्लहस्स जा होइ वल्लहा कह वि पञ्च दिअहाइं।
सा किं छट्ठं मग्गइ कत्तो मिट्ठं व बहुअं अ।।७२।।
[बहुवल्लभस्य या भवति वल्लभा कथमपि पञ्च दिवसानि।
सा किं षष्ठं मृगयते कुतो मृष्टं च बहुकं च।।]
२. जं जं सो णिज्झाअइ ऊङ्गोआसं महं अणिमिसच्छो।
पच्छाएमि अ तं तं इच्छामि अ तेण दीसन्तम्।।७३।।
[यद्यत्स निर्ध्यायत्यङ्गावकाशं ममानिमिषाक्ष:।
प्रच्छादयामि च तं तमिच्छामि च तेन दृश्यमानम्।।]
अभिलाषातिशयादनिमिषनयन: स यं यम् अङ्गकस्य तनोरङ्गस्यावकाशं निर्ध्यायति पश्यति, तं तं दयितस्य निरन्तरदर्शनाद्व्रीडोदयेन आच्छादयामि, तेन दृश्यमानं वाञ्छामि च, अङ्गदर्शनेन प्रियमनोहरणाभिलाषादित्याशय:। 'कापि पत्यावन्ययोषाऽवकाशनिरासार्थं स्वसौभाग्यमात्मनश्च पत्यावनुरागमाह’ इति गङ्गाधर:। छायायां यद्यदित्यवकाशविशेषणं तु चिन्त्यमेव।
कलहान्तरिताया: सखी अनुनयार्थं तत्कान्तं प्रोत्साहयितुमाह-
दृढमन्युदूनयापि च पश्यत दयितेऽनया गृहीतोऽपि। सुरसुरिति हन्त मानो निरयत इव बालुकामुष्टि:।।७४।।२
दृढमन्युदूनयाऽप्यनया दयितया, दयिते दयितं प्रति गृहीतोऽपि दृढं स्वीकृतोऽपि मान: बालुकामुष्टिरिव हन्त सुरसुर् इति निरयते अपगच्छति। सुरसुरिति मुष्टितो बालुकानि:-सरणस्वभावोक्त्या 'तवानुरागवशादिदानीं स्वत एव मान: शिथिलीभवन्नपसरति, ततश्चावसरोऽ-धुनाऽनुनयस्य’ इति दयितं प्रति द्योत्यते।
उद्याने विहरन्कश्चन कान्तामनसि मनसिजोद्दीपनाय समीपगतां तामेवमाह-
अवतरति पश्य नभसो मरकतमणिपद्मरागसम्वलिता।
गगनश्रीगलमध्याद् गलिता किल कण्ठिकेव शुकपक्ति:।।७५।।२
नभ:श्रीकण्ठमध्याद् भ्रष्टा, मरकतमणिभि: पद्मरागैर्माणिक्यैश्च सम्वलिता सङ्घघटिता कण्ठिका इव 'कण्ठी’ इति ख्यातं कण्ठाभरणमिव शुकपक्तिर्नभसोऽवतरतीति त्वं पश्य। शुकानां हरितवर्णत्वान्मरकतमणिसादृश्यम्, तच्चञ्चूनां च लोहितवर्णत्वात्पद्मरागसाम्यमिति सेयमुत्प्रेक्षा। तथा च मनसिजरसमयोऽयं समय इति कान्तां प्रति सूच्यते। 'रतासक्ता काचिच्चिररमणार्थं कान्तमन्यमनस्कं कर्तुमाह’ इति गङ्गाधर:। (सं. गा... ४)
१. दिढमण्णुदूणिआएँ वि गहिओ दइअम्मि पेच्छह इमाए।
ओसरइ बालुआमुट्ठि उव्व माणो सुरसुरन्तो।।७४।।
[दृढमन्युदूनयापि गृहीतो दयिते पश्यतानया।
अपसरति बालुकामुष्टिरिव मान: सुरसुरायमाण:।।]
२. उअ पोम्मराअमरगअसंवलिआ णहअलाओँ ओअरइ।
णहसिरिकण्ठब्भट्ठ व्व कण्ठिआ कीररिञ्छोली।।७५।।
[पश्य पद्मरागमरकतसम्वलिता नभस्तलादवतरति।v
नभ: श्रीकण्ठभ्रष्टेव कण्ठिका कीरपङ्क्तिः।।]
अन्यपुरुषाभिषङ्गं बुद्ध्वा भर्त्रा दुर्गमस्थाने निरुद्धा काचिज्जारप्रेषितां दूतीं दुर्दशापन्नस्य मनस्विनो व्यपदेशेनैवमाह-
न तथा विदेशवासो जनयति दौर्गत्यमपि न मे तापम्।
आशंसितार्थविमना निवर्तमानो यथा प्रणयी।।७६।।१
विरुद्धदेशे (कुग्रामे) वास:, दारिद्र्यं च मम तथा सन्तापं न जनयति यथा प्रत्या-शंसिते अर्थे (धने) विमना विषण्णमना: सन् (निराशम्) निवर्तमानो यथा प्रणयिजन:, इति मनस्विपक्षे। कुलटापक्षे तु- बन्धनस्थाने वास:, दुर्गतता (गतिनिरोध:) च मम तथा दु:खं न जनयति यथा प्रत्याशंसिते अर्थे (प्रयोजने'(प्रियसङ्गमे)’) विमुख: प्रणयी (कान्तप्रहितदूती-जन:)। नायमवसरोऽभिसारस्येति जारनिवर्तनाय कुलटोक्तिर्वा।
रात्रिनिवासकाम: पथिक इति सर्वान्प्रवञ्च्य, अलिन्दे गोपायितस्य जारस्य सोऽयं रतिसमय इति सूचयन्ती दूती कामुकीमाह-
स्कन्धाग्निना वनेषु ग्रामे च तृणै: सुरक्षित: पथिक:।
शीतेन खेद्यतेऽसौ साऽनुशयेनेव संवसन्नगरे।।७७।।२
वनेषु स्कन्धाग्निना बृहत्काष्ठाग्निना, ग्रामे च तृणै: (तृणानां ज्वालनेन अवगुण्ठनेन वा) सुष्ठु रक्षित: पथिक: नगरे संवसन् असौ (पथिक:) सानुशयेनेव स्मृतपूर्वाऽमर्षेणेव शीतेन खेद्यते। तथा च शीतभयाद् गृहाभ्यन्तरनिलीनसकलजनायामस्यां शिशिरनिशायां शीतव्याकुलमेनं पथिकं त्वमेव निरपायं गोपायेति सूच्यते। 'स्कन्धाग्नि: स्थूलकाष्ठाग्नि:’ इति हारावली। यद्वा-स्वयंदूतिकाया: पथिकं प्रति निजाऽभिलाषाविष्करणमेतत्- 'नगरे तृणकाष्ठा-दीनां दुर्लभत्वात्, नागरिकाणां च निर्दयत्वात्, दु:सहशीतभीषणायामस्यां शिशिरनिशीथिन्यां यद्यात्मानं गोपायितुमिच्छसि तर्हि स्तनोष्मणि मच्छयनीये निलीयस्व’ इति।
१. ण वि तह विएसवासो दोग्गच्चं मह जणेइ संतावम्।
आसंसिअत्थविमणो जह पणइजणो णिअत्तन्तो।।७६।।
[नापि तथा विदेशवासो दौर्गत्यं मम जनयति सन्तापम्।
आशंसितार्थविमना यथा प्रणयिजनो निवर्तमान:।।]
२. खन्धग्गिणा वणेसुं तणेहिँ गामम्मि रक्खिओ पहिओ।
णअरवसिओ णडिज्जइ साणुसएण व्व सीएण।।७७।।
[स्कन्धाग्निना वनेषु तृणैग्निमे रक्षित: पथिक:।
नगरोषित: खेद्यते सानुशयेनेव शीतेन।।]
कश्चिदात्मनो दृढस्नेहतां कामकलाकोविदतां च प्रकाशयन् शृण्वत्कामिनीजनम-नोहरणायाऽऽह-
आत्ताधरधुतशीर्षभ्रान्ताऽलकसङ्कुलं स्मरामोऽस्या:।
वदनं परिमलतरलितमधुकरपुञ्जप्रकीर्णकमलमिव।।७८।।१
रसास्वादनाय गृहीते अधरे तन्निवारणविभ्रमेण धुते (कम्पिते) शीर्षे, भ्रान्तै: मौलिकम्पनेन भ्रमणशीलै: अलकैराकुलम्, अत एव परिमलेन तरलित: इतस्ततो भ्राम्यन् यो मधुकरपुञ्ज: (भ्रमराऽऽलि:) तेन व्याप्तं कमलमिव स्थितम्, अस्या वदनं स्मराम:। यद्यस्मासु स्निह्यसि तर्हि त्वामपि तथैव लालयाम इति शृण्वन्तीं प्रति ध्वन्यते।
प्रियतमसमादृताया: प्रसाधनाऽभावेऽपि सौभाग्यं वर्धत एवेति काचिद्विदितरहस्यां वयस्यामाह-
उत्साहरभसमज्जनविमण्डितानां क्षणे सपत्नीनाम्।
कथितमिव मज्जनाऽनादरेण सौभाग्यमार्यया नूनम्।।७९।।२
हल्लफलमुत्साहतारल्यम्। 'मज्जनप्रसाधितानामस्माकं प्रियो वश्य: स्यात्’ इत्युत्साहरभसेन यन्मज्जनं स्नानं तेन प्रसाधितानां सपत्नीनां मध्ये, क्षणे उत्सवदिवसे आर्यया गुणौदार्येण श्रेष्ठया सपत्न्या मज्जनानादरेण स्नानाऽवज्ञया सौभाग्यं कथितमिव। रूप-गुण-वशीकृत: पूर्वत एव वचनाऽनुगतो दयित इति गर्वेणेति भाव:। सोऽयं विव्वोकाख्यो भाव:- 'विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादर:’ इति साहित्यदर्पण:। केचित्तु 'हल्लफल’ शब्दं कदुष्णजलवाचिनं स्वीचक्रु:। तथा च किञ्चिदुष्णजलस्नानप्रसाधितानामित्यर्थ:। 'सहचर-प्रलोभनार्थं विट: कस्याश्चित्सौभाग्यगर्वसूचकं विव्वोकमाह’ इति गङ्गाधराऽङ्गीकृत-मवतरणम्।
१. भरिमो से गहिआहरधुअसीसपहोलिरालआउलिअम्।
बअणं परिमलतरलिअभमरालिपइण्णकमलं व।।७८।।
[स्मरामस्तस्या गृहीताधरधुतशीर्षप्रघूर्णनशीलालकाकुलितम्।
वदनं परिमलतरलितभ्रमरालिप्रकीर्णकमलमिव।।]
२. हल्लफलह्णाणपसाहिआणँ छणवासरे सवत्तीणम्।
अञ्जाएँ मज्जणाणाअरेण कहिअं व सोहग्गम्।।७९।।
[उत्साहतरलत्वस्नानप्रसाधितानां क्षणवासरे सपत्नीनाम्।
आर्यया मज्जनानादरेण कथितमिव सौभाग्यम्।।]
कृतहरिद्रोद्वर्तनतया जालवलयलग्नमलमपनयन्तीं कृतविशुद्धिस्नानां पुष्पवतीं प्रति साभिलाष: कश्चन विदग्ध आह-
स्नानहरिद्राभरितान्तराणि जालानि जालवलयस्य।
कं किल कृतार्थयिष्यसि विशोधयन्ती नु वंशकण्टकत:।।८०।।१
जालप्रधानस्य वलयस्य (करकङ्कणस्य) स्नानीयहरिद्रारुद्धावकाशानि जालानि क्षुद्रेण वंशकण्टकेन शोधयन्ती तल्लग्नमलमपनयन्ती त्वं कं जनं कृतार्थं करिष्यसि।’ अपवाहितदिन-चतुष्टयतया गोढोत्कण्ठां कृतप्रसाधनां त्वामद्य य: किल रमयिष्यति तस्य जन्म कृतार्थमित्या-शय:। 'किलिञ्चिअ’शब्दो वंशवाची। यद्वा-हरिद्रादिस्नानीयद्रव्येण कृतस्नानां केशसम्मार्जनोल्लग्नकरतया प्रकटितघनबाहुमूलां काञ्चन रमणीमुद्दिश्य नागरिकस्य कस्यचिदुक्तिरियम्। अस्मिन्पक्षे जालवलयस्य कङ्कृतिकाया जालानि वंशकण्टकेन शोधयन्ती त्वं कं कृतार्थयिष्यसीति पूर्वपदार्थ:। 'कं कृतार्थं करिष्यसि’ इति साधारणशब्दप्रयोगात्तस्या: कुलटात्वं व्यज्यते। यद्वा-कमिति काक्का न कमपीति लभ्यते। कङ्कतिकासंस्कारेणैव कालातिपातादिति गङ्गाधर:।
काचिद्विदग्धनायिका निजदयितस्य प्रवासम्, अतिपरिचयात्प्रणयन्यूनीकरणम्, पिशुनवचनविश्वासं च प्रतिषेधन्ती, आत्मनोऽनुरागं प्रकाशयति-
प्रेमाऽदर्शनतोऽपैत्यपैति नूनं च सततदर्शनत:।
पिशुनजनजल्पितेनाऽप्यपैत्यथाऽपैति चैवमेवाऽपि।।८१।।२
प्रवासादिजातेन अदर्शनेन प्रेम अपैति। एवं चतुर्षु। अथ च एवमेवापि अपैतीति चतुर्थे पदयोजना।
१. ह्णाणहलिद्दाभरिअन्तराइँ जालाइँ जालवलअस्स।
सोहन्ति किलिञ्चिअकण्टएण कं काहिसी कअत्थम्।।८०।।
[स्नानहरिद्राभृतान्तराणि जालानि जालवलयस्य।
शोधयन्ती क्षुद्रकण्टकेन कं करिष्यसि कृतार्थम्।।]
२. अद्दंसणेण पेम्मं अवेइ अइदंसणेण वि अवेइ।
पिसुणजणजम्पिएण वि अवेइ एमेअ वि अवेइ।।८१।।
[अदर्शनेन प्रेमापैत्यतिदर्शनेनाप्यपैति।
पिशुनजनजल्पितेनाप्यपैत्येवमेवाप्यपैति।।]
एतां गाथामेव स्फुटं बोधयितुमन्यामाह-
स्त्रीणामदर्शनेन हि नीचस्य च सततदर्शनेनेह।
पिशुनजनजल्पितेनाज्ञस्य खलस्यैवमेवाऽपि।।८२।।१
अदर्शनेन स्त्रीणां प्रेम अपैति, तासां लघुहृदयत्वादिति भाव:। नीचस्य तुच्छहृदयस्य सततदर्शनेनाऽपैति, प्रयोजनसाऽपेक्षत्वेन शीघ्रमेवोत्कण्ठानिवृत्ते:। मूर्खस्य, न तु स्वयं विवेक-शालिन:। खलस्य दुष्टस्य, एवमेवापि कारणं विनाऽपि। ततश्च 'उदारहृदयस्य त्वद्विध-विवेकशालिन: प्रेम प्रत्यहमुपचीयेतैव, प्रवासादिनिरासेन मादृशचित्ताऽनुवृत्तेरिति’ ध्वन्यते।।
प्रसवानन्तरभाविस्तनपतनोत्तरमपि सेयं पूर्ववदनुवर्तनीयेति प्रथमगर्भाया: सुभगाया: सखी तत्कान्तं बोधयन्ती स्तनकालिमकथनव्याजेनाह-
उन्नतिभृद्भ्यां भूत्वोदरपतिताभ्यां बताऽऽस्यते दु:खम्।
इति चिन्तयतोर्मन्ये स्तनयो: कृष्णं मुखं जातम्।।८३।।२
उन्नताभ्यां भूत्वा उदरपतिताभ्यां सद्भ्यां बत दु:खं आस्यते स्थीयते। लोकेऽपि य: पूर्वं प्रणयबहुमानादिना उन्नतिशाली भूत्वा दुर्दैववशाद्दुर्दशामापन्न: सन्नुदरभरणव्यग्रो भवति तस्याऽपि चिन्तया लज्जया च श्यामं मुखं भवतीत्यर्थान्तरं ध्वन्यते। तथा च भवद्विधदक्षिण-नायकेन सेयं चिन्ता व्यपनेयेति नायकं प्रत्यभिव्यज्यते।
केनचिद्यूना सह काञ्चन सुन्दरीं सङ्घटयितुकामा काचन दूती नायकानुरागमाह-
१. अद्दंसणेण महिलाअणस्स अइदंसणेण णीअस्स।
मुक्खस्स पिसुणअणजम्पिएण एमेअ वि खलस्य।।८२।।
[अदर्शनेन महिलाजनस्यातिदर्शनेन नीचस्य।
मूर्खस्य पिशुनजनजल्पितेनैवमेवापि खलस्य।।]
२. पोट्टपडिएहिँ दु:खं अच्छिज्जइ उण्णएहिँ होऊण।
इअ चिन्तआणँ मण्णे थणाणँ कसणं मुहं जाअम्।।८३।।
[उदरपतिताभ्यां दु:खं स्थीयत उन्नताभ्यां भूत्वा।
इति चिन्तयतोर्मन्ये स्तनयो: कृष्णं मुखं जातम्।।]
सुन्दरि कृते तथा तव हालिकपुत्र: सुमहिल: क्षीण:।
दौत्यं यथाऽस्य पत्न्या प्रतिपन्नं मत्सरिण्यापि।।८४।।१
हे सुन्दरि! सुन्दरीत्यनेन 'तव सौन्दर्यं तथा तस्य हृदये प्रतिफलितं यथा नान्या काचन हृदये प्रतिभाति’ इति द्योत्यते। तव कृते सुमहिल: स हालिकपुत्र: तथा क्षीण:, यथा मत्सरिण्याऽपि अस्य जायया दौत्यं स्वीकृतम्। सुमहिल इत्यनेन 'तव सौन्दर्याग्रे रूपवतीं भार्यामपि विहाय त्वय्यनुरक्त:’ इति नायिकास्तुतिर्ध्वन्यते। हालिकपुत्र इत्यनेन 'तस्य सोऽयमनुरागो न कृत्रिम:। इत्यार्जवं सूच्यते। हालिकोऽस्य पिता वर्तमानस्तथा च नास्य कृषिकार्यादिव्यासङ्गेन त्वदनुरागभङ्ग:, प्रभूतं च धनमिति व्यज्यते। जायया दौत्यं प्रतिपन्नमिति सापत्न्यशङ्का न कार्या, यत: पत्युरनिष्ठभयाज्जायापि स्वयमेव सङ्गमोपयाचिकेति द्योत्यते। क्षीण इति भूतकालिकक्तप्रत्ययेन 'तस्य भूयान् गात्रापचयो जात:, इदानीमेवमकृत्रिमाऽनुरागं सरलहृदयं तं यदि नाऽभ्युपगच्छसि तर्हि पुरुषवधपातकं ते भविता’ इति ध्वन्यते।
बहुवल्लभे नायके चिरादागते स्नेहोपालम्भसम्भृतेन वाग्गुम्फेनात्मनोऽनुरागं प्रकाशयति काचन वचनविदग्धा-
दाक्षिण्येनागच्छन्नपि सुखयसि सुभग हृदयमस्माकम्।
निष्कैतवेन यासां गतोऽसि का निर्वृतिस्तासाम्।।८५।।२
बहूनां वल्लभत्वात् हे सुभग! दाक्षिण्यवशादप्यागच्छन्, न त्वनुरागादित्यर्थ:। अस्माकं हृदयानि सुखयसि। अस्माकमिति बहुत्वेन 'दक्षिणतया या: किल त्वयाऽनुगम्यन्ते ता अपि न जाने कियत्य:’ इति ध्वन्यते। यासां समीपे कैतवाभावेन गतोऽसि तासां सुखं तु किं वाच्यमिति भाव:। तथा च 'चिरानुरागसम्पन्ना अस्मद्विधा विहाय न जाने कियतीषु त्वं
१. सो तुज्झ कए सुन्दरि तह छीणो सुमहिलो हलिअउत्तो।
जह से मच्छरिणीएँ वि दोच्चं जाआएँ पडिवण्णम्।।८४।।
[स तव कृते सुन्दरि तथा क्षीण: सुमहिलो हालिकपुत्र:।
यथा तस्य मत्सरिण्यापि दौत्यं जायया प्रतिपन्नम्।।]
२. दक्खिण्णेण वि एन्तो सुहअ सुहावेसि अह्म हिअआइं।
णिक्कइअवेण जाणं गओसि का णिव्वुदी ताणम्।।८५।।
[दाक्षिण्येनाप्यागच्छन्सुभग सुखयस्यस्माकं हृदयानि।
निष्कैतवेन यासां गतोऽसि का निर्वृतिस्तासाम्।।]
हृदयेनानुरज्यसि, इदानीं केवलं कैतवेनागच्छता त्वया वयं कियत्सुखिता इति त्वमेव जानीहि’ इत्युपालम्भो व्यज्यते। 'कलहान्तरिता चिरागते कान्ते सस्नेहोपालम्भमाह’ इति गङ्गाधर:।
ताडयन्त्यामपि मयि नोपचारान्परित्यजति दयित इति स्वसौभाग्यं प्रकाशयन्ती स्वाधीनपतिका अन्यवनिताप्रसङ्गं निरस्यति-
एकं प्रहारखिन्नं मुखमरुता वीजयन् हस्तम्।
सोऽपि हसन्त्या कण्ठे मया गृहीतो द्वितीयेन।।८६।।१
प्रहारेण खिन्नमुद्विग्नम् एकं मम हस्तम् 'अहो कोमले ते हस्ते भवेत्पीडा’इति मुखमारुतेन वीजयन् स दयितो हसन्त्या मयापि द्वितीयेन हस्तेन कण्ठे गृहीत:। एवमनुकूले दयिते का कथाऽन्यवनिताप्रसङ्गस्येति सूच्यते। स्त्रीपुंसयोश्चाटुप्रसङ्गे उदाहृता सेयं गाथा भोजेन कण्ठाभरणे। (५ परि.)।
प्रणयकलहवशात्केलिसदनतो निष्क्रान्तां कान्तानुगम्यमानां कान्तां परावर्तयितुं तत्सखी आह-
आगच्छत: प्रियस्य स्वाऽऽलम्बितमानत: पराङ्मुख्या:।
मानिनि हृदयं कथयति पृष्ठे पुलकोद्गमस्तवाऽभिमुखम्।।८७।।३
स्वयमवलम्बितेन मानेन पराङ्मुख्या:, न तु हार्दिकेनेति भाव:। तव पृष्ठे पुलकोद्गम: अभिमुखं सम्मुखस्थितं हृदयम् आगच्छत: प्रियस्य कथयति। उपरित: पराङ्मुख्या अपि हृदयत: प्रियाभिमुख्यास्तवोत्कण्ठां पृष्ठे रोमाञ्च: प्रथयतीति स्पष्टमलीकमिमं रोषं परित्यजेत्या-शय:। अयत्नाऽपनेयमात्रा सेयमधीरा नायिकेति सरस्वतीकण्ठाभरणे भोज:।
१. एक्कं पहरुव्विण्णं हत्थं मुहमारुएण वीअन्तो।
सो वि हसन्तीएँ मए गहिओ बीएण कण्ठम्मि।।८६।।
[एकं प्रहारोद्विग्नं हस्तं मुखमारुतेन वीजयन्।
सोऽपि हसन्त्या मया गृहीतो द्वितीयेन कण्ठे।।]
२. अवलम्बिअमाणपरम्मुहीएँ एन्तस्स माणिणि पिअस्स।
पुट्ठपुलउग्गमो तुह कहेइ संमुहठिअं हिअअम्।।८७।।
[अवलम्बितमानपराङ्मुख्या आगच्छतो मानिनि प्रियस्य।
पृष्ठपुलकोद्गमस्तव कथयति सम्मुखस्थितं हृदयम्।।]
प्रणयकलहे प्रियतमं भृशं परिभवन्तीं शिक्षयितुं सखी मानिन्यन्तरस्तुति-प्रसङ्गेनाह-
ज्ञापयितुं जानीतेऽनुनयगमिततिग्ममानपरिशेषम्।
विजनेऽपि कुर्वती किल सुदती विनयावलम्बनं सैव।।८८।।१
विजनेऽपि एकान्तेऽपि, सुरतसमय इति यावत्। विनयावलम्बनं कुर्वती भुजप्रक्षेप-सीत्काराद्यकरणात्सुरतसामयिकं धार्ष्ट्यं परिहरन्ती सैव सुदती, अनुनयेन गमितस्य विद्रावितस्य तिग्ममानस्य परिशेषं सूचयितुं जानीते, नान्या युवतीत्यर्थ:। 'सुदती’ इत्यनेन तत्समयोपस्थिते हास्यप्रसङ्गेऽपि केवलं दन्तमुकुलान्येव व्यञ्जयन्ती, न तु हृदयेन हसन्तीति सूचितम्। अयमाशय:- मानिनी सा प्रियतमेनाऽनुनये कृतेऽपि यदि तिग्मो मानो न परिशाम्यति तर्हि मौनाऽऽलम्बनादिना तं सूचयति, न तु त्वमिव दयितं परिभवति। अत एव भवत्यापि प्रियतम: सर्वदानुवर्तनीय एव न त्वधरीकरणीय इति। गूढमानर्द्धि: उदात्ता सेयं नायिकेति कण्ठाभरणे भोज:।
बहुवल्लभत्वेऽपि एकस्यामेवानुरक्तं कञ्चन रसिकमुद्दिश्य कृष्णव्याजेन काचिदाह-
त्वं कृष्ण राधिकाया मुखमरुता गोरजोऽपनयन्।
आसामन्यासामपि गोपीनां गौरवं हरसि।।८९।।२
हे कृष्ण! मुखमारुतेन राधिकाया: 'गोरअम्’ गोरज: कपोलादिलाग्नां गोधूलिमपनयन्। गोरजोऽपनयनच्छलेन कपोलादि चुम्बन्नित्यर्थ:। कृष्णराधिकापदसन्निधिना 'गो’- पदस्य
१. जाणइ जाणावेउं अणुणअविद्दविअमाणपरिसेसम्।
अइरिक्कम्मि वि विणआवलम्बणं सच्चिअ कुणन्ती।।८८।।
[जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
विजनेऽपि विनयावलम्बनं सैव कुर्वती।।]
२. मुहमारुएण तं कह्ण गोरअं राहिआएँ अवणेन्तो।
एताणँ वल्लीणं अण्णाण वि गोरअं हरसि।।८१।।
[मुखमारुतेन त्वं कष्ण गोरजो राधिकाया अपनयन्।
एतासां बल्लवीनामन्यासामपि गौरवं हरसि।।]
धेनावेव शक्ते:। 'गोरज: चक्षूरज:’ इति गङ्गाधर:। त्वम् एतासामन्यासामपि बल्लवीनां 'गोरअम्’ गौरवं हरसि, राधिकाचुम्बनेन सौभाग्यखण्डनादिति भाव:। अत्रैकस्या 'गोरअं’ हरन् अन्यासामपि 'गोरअं’ हरसीति प्राकृते सम्भवन् विरोध: संस्कृतच्छायायां न निर्वोढुं शक्य इति बोध्यम्। 'यद्वा गोरअं गौरतां हरसि, अपमानेन कृष्णीकरणादिति भाव:’ इति गङ्गाधर:।
बहुवारं कृतापराधमथ केवलं 'क्षमस्व’ इत्येतावतैव क्षमापयन्तं कान्तं खण्डिता काचिदाह-
सुभग कृता अथवा यान् करोषि किं वा करिष्यसीदानीम्।
अपराधानां कतरे क्षम्यन्तां कथय निर्ह्रीक।।९०।।१
सुभग! बहुवल्लभत्वात्सुभगम्मन्य! 'त्वं सौभाग्यदर्पेणैव स्वैरमाचरन्नपराधान्करोषि’ इति ध्वनितम्। किं ये अपराधा: पूर्वं कृता:, अथवा यान् वारितोऽपि इदानीं करोषि, अग्रे यान्करिष्यसि वा, एतेषां भूत-वर्तमान-भविष्यतां मध्ये कतरे क्षम्यन्तामिति हे अलज्जशील! कथय। केऽपि क्षन्तुं न शक्यन्त इति परिणतेन निषेधेन 'पूर्वं ते कियन्तोऽपराधा न सोढा:’ इति ध्वनितम्। किञ्च- 'त्व तथा शाट्यं यथाऽग्रेप्यपराधान्करिष्यस्येव’ इति सोपालम्भसम्भारं संसूच्यते।
अनुनयाद्यकुर्वाणं दुर्विदग्धं नायकं शिक्षयितुं दूती आह-
गोपायन्ति प्रभुतां येऽनुनयन्ते च दासवत्कुपिताम्।
स्त्रीणां त एव दयिता: स्वामिन एवाऽपरे वराका: स्यु:।।९१।।२
१. किं दाव कआ अहवा करेसि कारिस्सि सुहअ एत्ताहे।
अवराहाणँ अलज्जिर साहसु कअए खमिज्जन्तु।।९०।।
[किं तावत्कृता अथवा करोषि करिष्यसि सुभगेदानीम्।
अपराधानामलज्जाशील कथय कतरे क्षम्यन्ताम्।।]
२. णूमेन्ति जे पहुत्तं कुविअं दासा व्व जे पसाअन्ति।
ते व्विअ महिलाणँ पिआ सेसा सामि व्विअ वराआ।।९१।।
[गोपायन्ति ये प्रभुत्वं कुपितां दासा इव ये प्रसादयन्ति।
त एव महिलानां प्रिया: शेषा: स्वामिन एव वराका:।।]
ये स्वकीयं प्रभुत्वं कान्ताविषये गोपायन्ति, न तु प्रकटयन्ति। अपराधेऽपि दण्डादिकं न प्रयुञ्जत इति भाव:। ये च कुपितां तां दासवदधीना: सन्त: प्रसादयन्ति, त एव महिलानां दयिता: प्रिया:। अपरे शेषा: दण्डप्रयोक्तारोऽनुनयपराङ्मुखाश्च स्त्रीणां स्वामिन एव स्यु:, न वल्लभा:। अत एव वराका:, प्रणयपरिपाकफलाऽप्राप्त्या शोचनीयास्ते इति भाव:। तथा च त्वं यदि तत्प्रियतमतां कामयसे तर्हि अननुयादिषु माऽऽत्मनोऽवधीरणां मन्यस्वेति ध्वन्यते। 'दूमेंति जे मुहुत्तम्’ (दुन्वन्ति ये मुहूर्तम्) इति पाठं स्वीकुर्वन्भोज:, गोत्रस्खलनादिना परिखेद्य नायक: प्रेमपरीक्षां करोतीति निदर्शयामास।
पूर्वमतिप्रेमाभिनिवेशेन प्रणये प्रवृत्तम्, पश्चाद् गर्भदशायामुदासीनं नायकमुपालभमाना दूती भ्रमरव्याजेनाह-
मधुकर कृतार्घ न तदा रमसे ह्यन्यासु कुसुमजातिषु भो:।
बद्धफलभारगुर्वीमधुना वत मालतीं परित्यजसि।।९२।।१
कृत: अर्घ: पूजाविधिर्येन, सर्वाणि पुष्पाण्यवधीर्य कृतादरेत्यर्थ:। 'मूल्ये पूजावि-धावर्घ:’ इत्यमर:। भो मधुकर! मधुकरेत्यनेन केवलं मध्वास्वाद एव ते प्रयोजनं न प्रणय इति ध्वन्यते। 'किअग्घ’ इति पाठे कृतघ्नेत्यर्थ:, तथा च मालतीकृतं परिमलोपकारं विस्मृतवत्तया अधमस्त्वमित्याक्षिप्यते। तदा तस्मिन्प्रणयसमये अन्यासु पुष्पजातिषु न रमसे। वर्तमानतानिर्देशेन 'स ते प्रणयसमयो मम चक्षुषोर्भ्रमन् वर्तमान इव, इदानीमचिरेणैव परिवर्तसे’ इत्युपालम्भो द्योत्यते। 'पुष्पजातिषु’ इति जातिपदोपादानेन बहुवचनेन च 'समग्रा अपि कुसुमानां जातय: परीक्ष्य मालतीसौरभासक्तेन त्वया परित्यक्ता:’ इति भ्रमरपक्षे। 'सर्वविधा अपि रमण्यो रसिकम्मन्येन त्वया परीक्ष्य मत्स्वामिनीगुणासक्तेन सता: सतिरस्कारमवहेलिता:, इति नायकपक्षे एवमारूढप्रणयातिशयोऽपि, इदानीमेतां परित्यजसीत्युपालम्भेऽतिशयो ध्वन्यते। इदानीं बद्धेन फलभरेण गुर्वीं मालतीं परित्यजसि! फलभारगौरवेण मालत्या मकरन्दशून्यता, नायिकायाश्च विपरीतरतादियथेच्छसुरताऽक्षमत्वं व्यज्यते। तथा च पूर्वं दर्शिततादृशप्रणयाऽभिनिवेशस्त्वमधुना स्वार्थपरतामात्रेण तां परित्यजन् किं वा वाच्य इत्युपालम्भो ध्वन्यते। 'धृतगर्भा सेयं सम्प्रति नोपभोगयोग्या’ इति जारं प्रति दूत्या: सूचनेति कश्चित्।
१. तइआ कअग्घ महुअर ण रमसि अण्णासु पुप्फजाईसु।
बद्धफलभारगुरुईं मालइँ एह्णिं परिच्चअसि।।९२।।
[तदा कृतार्घ मधुकर न रमसेऽन्यासु पुष्पजातिषु।
बद्धफलभारगुर्वीं मालतीमिदानीं परित्यजसि।।]
नायकस्य विकलतातिशयमालोक्य स्वीकृतदूतीभावया मातुलान्या तस्य गुणसौन्दर्यादिषु कथितेषु तं प्रत्यनुरक्ता नायिका तामाह-
दृष्टेन तेन मातुलि तत्क्षणमवितृष्णवीक्षणीयेन।
तृष्णैव नापयाता पयसेव स्वप्नपीतेन।।९३।।१
मातुलि! अवितृष्णम् अपरिशाम्यदभिलाषं वीक्षणीयेन तत्क्षणं दृष्टेन तेन नायकेन स्वप्नपीतेन पानीयेनेव तृष्णैव न भ्रष्टा नाऽपयाता। तदवलोकनेन नाहं परितृप्यामीति तदनुरागो द्योत्यते। अथवा समीपस्थितं जारं 'त्वद्दर्शनाभिलाषो मम नापयात:’ इति श्रावयन्ती अन्यापदेशेन काचित्सूचयति।
प्रथमसङ्केतभङ्गं दृष्ट्वा सङ्केतस्थानान्तरस्थिरीकरणाय काचित्कुलटा भुजङ्गं सुजन-प्रशंसाच्छलेनाह-
देशमलङ्कुरुते यं सुजन: प्रवसंस्तमेव बत कुरुते।
ग्रामासन्नोन्मूलितमहावटस्थानसममचिरात् ।।९४।।२
सुजनो यं देशं निवासेनाऽलङ्करोति, तमेव देशं प्रवसन् देशान्तरं गच्छन् सन् ग्रामासन्ने ग्रामसमीपे उन्मूलितो यो महावटस्तत्स्थानसदृशं करोति। प्रोषितसुजनो देशो रहोवृत्त-विश्रमाद्यभावाद्गुणिजनगोष्ठीविदग्धान् यथा दु:खयति तथा उन्मूलितवटस्थानमपि दु:खयतीत्यर्थ:। ततश्च दिवापि दिनकरकराचुम्बितत्वेन सततान्धकारबन्धूकृतो जटागहनगो-
१. अविअह्णपेक्खणिज्जेण तक्खणं मामि तेण दिट्ठेण।
सिविणअपीएण व पाणिएण तह्ण व्विअ ण फिट्टा।।९३।।
[अवितृष्णप्रेक्षणीयेन तत्क्षणं मातुलानि तेन दृष्टेन।
स्वप्नपीतेनेव पानीयेन तृष्णैव न भ्रष्टा।।]
२. सुअणो जं देसमलंकरेइ तं विअ करेइ पवसन्तो।
गामासण्णुम्मूलिअमहावडट्ठाणसारिच्छम्।।९४।।
[सुजनो यं देशमलङ्करोति तमेव करोति पवसन्।
ग्रामासन्नोन्मूलितमहावटस्थानसदृशम्।।]
पायितो महान् वटपादपो वात्ययोन्मूलित इति किञ्चिदन्यत्सङ्केतस्थानं स्यादिति जारं प्रति सूच्यते।
गमनसमये 'स्मर्तव्यस्तेऽयं जन:’ इति वदन्तं भविष्यत्पथिकं कान्तं प्रति प्रियतमाऽऽह-
संस्मर्यते स नाम क्षणमपि हृदयात्पृथक्कृतो यो हि।
स्मर्तव्यं च कृतं यदि गतं निरालम्बनं प्रेम।।९५।।१
य: क्षणमपि हृदयात्पृथक्कृतो भवेत् स नाम स्मर्यते। यस्तु रात्रिदिन्वं हृदयमधितिष्ठेत् स किं स्मर्यताम्। यदि च प्रेम स्मर्तव्यं प्रियस्मरणयोग्यं कृतं तदैव निरालम्बनं सद् गतम्। ततश्च क्षणकालमपि हृदयममुञ्चतस्तव विरहे मम काऽवस्था भवेदिति प्रवासमभ्युपगच्छता त्वयैव विचार्यतामिति प्रियं प्रत्यभिव्यज्यते।।
प्रथममनुरागातिशयं प्रदर्स्योपभुक्तवन्तं ततोऽन्यासक्ततया तां चिराद्विस्मृतवन्तं मन्दस्नेहं नायकमनुकूलयितुं दूती नायिकाऽनुरागमाह-
न्यासमिव सा कपोलेऽद्यापि तु तव दन्तमण्डलं बाला।
उद्भिन्नपुलकमण्डलवेष्टनगतमङ्ग रक्षति वराकी।।९६।।२
अङ्ग (सम्बोधने)। बाला बाल्यवशात्प्रथमं त्वत्कृतशीलखण्डना सा वराकी, उद्भिन्नं यत्पुलकमण्डलं तदेव रक्षणनिमित्तं वेष्टनं तेन परिगतं परिवृतमिति यावत्। अन्योऽपि रक्षणीयं वस्तु वृतिवेष्टनादिना साऽवहितं रक्षति। अनेन 'तव दन्तक्षतं यदा यदा स्मरति तदा तदा
१. सो णाम संभरिज्जइ पब्भसिओ जो खणं पि हिअआहि।
संभरिव्वं च कअं गअं च पेम्मं णिरालम्बम्।।९५।।
[स नाम संस्मर्यते प्रभ्रष्टो य: क्षणमपि हृदयात्।
स्मर्तव्यं च कृतं गतं च प्रेम निरालम्बम्।।]
२. णासं व सा कवोले अज्ज वि तुह दन्तमण्डलं बाला।
उब्भिण्णपुलअवइवेढपरिगअं रक्खइ वराई।।९६।।
[न्यासमिव सा कपोलेऽद्यापि तव दन्तमण्डलं बाला।
उद्भिन्नपुलकवृतिवेष्टपरिगतं रक्षति वराकी।।]
रोमाञ्चितकपोलपाली भवति’ इति नायकालम्बनोऽनुरागो ध्वनित:। तव दन्तमण्डलं मण्डलाकारं दन्तक्षतं न्यासमिव निक्षेपमिव अद्यापि तु रक्षति। 'बाला’इत्यनेन कृतशीलखण्डनां बालामपीमां परित्यजतस्तवाऽहो नैर्घृण्यं चाऽसौभाग्यं चेत्युपालम्भो ध्वन्यते। नि:क्षेपमिव सा रक्षतीत्यनेन तस्या: सुदृढो विश्वासो यत्पुनरपि तामभ्युपगमिष्यसीति नायिकाया: सत्यप्रेमानुबन्धो ध्वन्यते। वहतीत्याद्यनुपादाय 'रक्षति’ पदेन तव स्मारकरूपेण तस्मिन्नतिबहुमानबुद्धिरिति सूच्यते। सा त्वेवं निष्कपटहृदया भवन्तमनुध्यायति, भवांस्तु न तत्राऽनुरज्यतीति एवंविधे शठे त्वयि मुग्धायास्तस्या: सुदृढोऽयमनुरागो न युक्त इति दैन्यं वराकीपदेन ध्वन्यते। ततश्च प्रथमदिनमि-वाद्यापि त्वामनुध्यायन्तीं सुदृढानुरागामनुकम्पार्हामिमाम्, यदि किञ्चिदपि सौजन्यमस्ति तर्हि त्वरितमनुवर्तस्वेति नायकं प्रति चरमं व्यङ्ग्यम्। प्रथमानुरागानन्तरे दन्तक्षतमित्युदाजहार सरस्वतीकण्ठाभरणे भोज: (परि. ५)।
कार्यवशाद्विलम्बितस्ते दयितस्तत्समाप्त्यव्यवहितमेवाऽऽगमिष्यतीति अवधिदिनसज्जीकृत-समागमसामग्रीं प्रोषितभर्तृकामाश्वासयन्तीं मातुलानीं प्रति सा सनिर्वेदासूयमाह-
दृष्टाश्चूताश्च सुराऽप्याघ्राता दक्षिणानिल: सोढ:।
कार्याण्येव गुरूण्ययि मातुलि को वल्लभ: कस्य।।९७।।१
मन्मथमुन्मदयन्त: आम्राङ्कुरा दृष्टा:। कान्तेन सह वसन्तेऽस्मिन् पानगोष्ठीसुखार्थं सज्जीकृताया: सुराया गन्धोऽप्यनुभूत:। कान्तसमागमार्थमङ्गान्युन्मीलयन् मलयानिल: सोढ:। तथा च कार्याण्येव गुरूणि, दु:खैकभागिन्या मम जीवनस्वैतान्येव महान्ति कार्याणि। एतदनुभवार्थमेव हतजीवितं न त्यजामि। अयि मातुलि! क: कस्य वल्लभ:। येनाद्यापि तद्विरहं सहमाना जीवामि। यदि मे स वल्लभोऽभविष्यत् तर्ह्यहमद्यप्रभृति जीवितमत्यक्ष्यमिति प्रियानुरागसञ्चारित: आत्मानं प्रति निर्वेदो ध्वन्यते। एतत्सर्वं गङ्गाधराऽनुषङ्गात्। वस्तुतस्तु-
विदेशमधितिष्ठता प्रियतमेन चूता: दृष्टा:। मधुगोष्ठीगरिष्ठेऽस्मिन्वसन्ते वैधुर्यदु:खाद् यदि सुरा नास्वादिता भवेत्तथापि स्थाने स्थाने रसकै: सज्जीकृता उग्रगन्धा साऽवश्यमाघ्राता। मलयानिल: सोढ:। अत: अहं जानामि, अत्र कार्याण्येव उपार्जनादिप्रयोजनान्येव महान्ति। अयि मातुलि! क: कस्य वल्लभ:? यदि स मय्यनुरक्तोऽभविष्यत् तर्हि विदेशगतान्दयि-
१. दिट्ठा चूआ अग्धाइआ सुरा दक्खिणाणिलो सहिओ।
कज्जाइं व्विअ गरुआइँ मामि को वल्लहो कस्स।।९७।।
[दृष्टाश्चूता आघ्राता सुरा दक्षिणानिल: सोढ:।
कार्याण्येव गुरुकाणि मातुलानि को वल्लभ: कस्य।।]
तान्बलात्स्वस्वभवनमाकर्षन्तं तमिमं चूताङ्कुर- मलयानिलादिवसन्तसमुदयं दृष्ट्वा सर्वाणि कार्याणि दूरत: परिहृत्याऽवश्यमागमिष्यत्। अत: प्रयोजनसारे जगति क: कस्य वल्लभ इति अवधिलङ्घनविचेतसा नायिकयाऽऽत्मानं प्रति निर्वेदो ध्वनित:। यद्वा- कार्याण्येव गुरूणि, तस्य युवत्यन्तरसमागमरूपाणि कार्याण्येव महान्तीत्यनेन अन्यासङ्गं प्रत्याक्षेपो ध्वन्यते। अन्यथा कथं वसन्तेऽपि नागत:? किं वा- कार्याण्येव गुरूणि, क: कस्य वल्लभ:। तथा च तत्र स्थिताभिर्युवतिभिस्तस्य कार्यम्, देशान्तरस्थितया मया किं तस्य कार्यम्। अत एव कार्यनिबन्धनं तासामेव वाल्लभ्यं न ममेति वल्लभं प्रत्यसूया व्यज्यते। समीपस्थितं पान्थं विमोहयितुं स्वनायके वैराग्यं प्रदर्शयन्त्या: स्वयंदूत्या उक्तिरिति केचित्।
सर्वदा दयितसान्निध्येन सङ्गमे न तथाविधोत्कण्ठा। अत एव प्रियं प्रवासाय किमिति नाऽनुजानीषे। अनुभव प्रवासागतदयितनिर्भरोत्कण्ठाकृतोपगूहनानि सुरतसुखानीति शिक्षयन्तीं सखीं स्वाधीनपतिका काचिदाह-
रन्त्वा पदमपि विगतो यदा स उपगूहितुं प्रतिनिवृत्त:।
प्रोषितपतिकेवाऽहं स तत्क्षणं च प्रवासीव।।९८।।१
रमणोत्तरं यावता स एकपदमपि गच्छति, उत्कण्ठावशाच्च पुन: परिरब्धुं प्रतिनिवर्तते एतस्मिन्क्षणान्तराले एवाहमात्मानं प्रोषितपतिकां प्रियतमं च प्रवासिनं भावयामि। एवं विधेऽनुरागे का नामोत्कण्ठाविगमस्य कथा। क्षणमात्रमपि मुखाऽनवलोकने यदा प्रवासदु:खमनुभवामि, तर्हि प्रियविरहे मम जीवितस्य कियदाशेति त्वयैव बोद्धव्यमिति दृढोऽनुरागो ध्वन्यते। मानं धत्स्वेति बोधयन्तीं वयस्यां प्रति स्वस्य मानधारणाऽसामर्थ्यं प्रदर्शयन्त्या नायिकाया उक्तिरिति कश्चित्। प्रवासानन्तरं स्त्रीपुंसयो: पेमपरीक्षेति सरस्वतीकण्ठाभरणे भोज: (५ परि.)।
सुन्दरे सहृदये सद्व्यवहारे सानुरागे च कस्मिन्नपि यूनि जातानुरागा काचित्कुलटा निजपतिं प्रति तादृशगुणाभावजनितं वैराग्यं सूचयन्ती सखीमाह-
१. रमिऊण पअं पि गओ जाहे उवऊहिउं पडिणिउत्तो।
अहअं पउत्थपइआ व्व तक्खणं सो पवासि व्व।।९८।।
[रन्त्वा पदमपि गतो यदोपगूहितुं प्रतिनिवृत्त:।
अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव।।]
अवितृष्णवीक्षणीयं समसुखदु:खं वितीर्णसद्भावम्।
अन्योन्यहृदयलग्नं पुष्कलपुण्यैर्जनो जनं लभते।।९९।।१
जन:, अवितृष्णम् अनिवृत्तोत्कण्ठं यथा स्यात्तथा वीक्षणीयम्, सुन्दरमित्यर्थ:। निजप्रेमिण: सुखदु:खयो: सतोरात्मनोऽपि सुखदु:खे मन्यमानं सहृदयमिति यावत्। वितीर्ण: प्रकटित: सद्भावो येन, ततश्च लोकव्यवहारदक्षिणमित्यर्थ:। अन्योन्यं हृदयलग्नं सानुरागमिति भाव:। एवंविधगुणसम्पन्नं जनं पुष्कलै: पुण्यैर्लभते। मम मन्दभाग्याया एवंविधप्रियप्राप्ति: कुत इत्याशय:। मन्दस्नेहस्य पत्युश्चित्तमनुकूलयितुं पतिव्रताया उक्तिरिति कश्चित्। 'निजपतिं प्रति वैराग्यं व्यञ्जयन्ती कुलटा (तम्) पतिमाह’ इति गङ्गाधरोऽवतरणमाह। सं. गा... ५
'गाढनिग्रहकारितया दु:खप्रदेऽपि पत्यौ कथं न विरज्यसि? अहो ते निजसौख्याव-धीरकता’ इति भेदयन्ती दूतीं प्रतिनिवर्तयितुं दयितेऽनुरागातिशयमाह काचित्पतिव्रता-
दु:खं दददपि जनयति सुखं हि यो यस्य वल्लभो भवति।
दयितनखदूनयोरपि रोमाञ्चो वर्धते स्तनयो:।।१००।।२
य: यस्य वल्लभो भवति, स तस्य दु:खं ददत् अपि सुखं जनयतीति सम्बन्ध:। भवतीति स्थाने 'वर्धते’ इत्युक्त्या दयितकरस्पर्शेनैव प्रणयिन्या: समुद्भिद्यते रोमाञ्च:, ततो नखदाने स वर्धत इत्यतिशयो व्यज्यते। तथा च- 'प्रणयरसनिर्भरेण प्रियतमेन कृत: सोऽयं निग्रहोऽपि मिथोऽनुरागं वर्धयत्येव इति दूतीं प्रति सूच्यते।
१. अविइह्णपेच्छणिज्जं समसुहदु:खं विइण्णसब्भावम्।
अण्णोण्णहिअअलग्गं पुण्णेहिँ जणो जणँ लहइ।।९९।।
[अवितृष्णप्रेक्षणीयं समसुखदु:खं वितीर्णसद्भावम्।
अन्योन्यहृदयलग्नं पुण्यैर्जनो जनं लभते।।]
२. दु:खं देन्तो वि सुहं जणेइ जो जस्स वल्लहो होइ।
दइअणहदूणिआणं वि वड्ढइ थणाणँ रोमञ्चो।।१००।।
[दु:खं दददपि सुखं जनयति यो यस्य वल्लभो भवति।
दयितनखदूनयोरपि वर्धते स्तनयो रोमाञ्च:।।]
शतकसमाप्तौ, गाथारत्नकोषस्याऽस्य प्रख्यातसुकविसङ्कलितत्वेनोपादेयतां सूचयि-तुमाह-
रसिकजनहृदयदयिते कविवत्सलमुखसुकविसङ्कलिते।
सप्तशतके समाप्तं प्रथमं गाथाशतकमेतत्।।१०१।।
कविवत्सलो (हाल:) सुखमिव प्रधानं येषु ते कविवत्सलमुखा: सुकवय:, तै: परिरचिते।
(इति प्रथमशतकम्)
१. रसिअजणहिअअदइए कइवच्छलपमुहसुकइणिम्मविए।
सत्तसअम्मि समत्तं पढमं गाहासअं एअम्।।१०१।।
[रसिकजनहृदयदयिते कविवत्सलप्रमुखसुकविनिर्मिते।
सप्तशतके समाप्तं प्रथमं गाथाशतकमेतम्।।]