द्वितीयशतकम्
मानमवलम्ब्य 'कियद्वशीभूतस्ते वल्लभ:’ इति दयितकृतानुनयेन गवेषयस्वेति तव सखीं शिक्षयेति वदन्तीं सखीं प्रति नायिकासखी सपरिहासमाह-
विगलति मुहुर्धृतोऽप्ययमुपदेशो दीयमान आलीभि:।
हृदयेस्या मकरध्वजबाणाऽऽहतिजर्जरे नूनम्।।१।।१
आलीभि: प्रियसखीभिर्दीयमान:, अनया च प्रियसखीविश्रम्भेण मुहुर्धृतोऽपि 'इदानीं मानमवलम्बिष्ये’ इति चेतसि स्थिरीकृतोऽपि। मुहुरित्यनेन 'प्रियमुखावलोकने मानं विस्मरति पुन: सख्युपदेशस्मरणेन तं दृढयति’ इति ध्वनितम्। अयं मानोपदेश: कामशरप्रहारजर्जरे अस्या हृदये नूनं विगलति नीचै: पतति, नावतिष्ठत इत्यर्थ:। तथा च मनसो विवशता ध्वन्यते। दीयमान इति वर्तमानार्थकेन शानचा, धृत इति भूतार्थं सूचयता क्तेन च 'सखीभिर्यदा उपदेशो दीयमान एव भवति, न तदनन्तरं कालविलम्बो भवति, तस्मिन्नेव क्षणे चेतो दृढीकृत्य तमुपदेशमियमधरत्, परं धृतोऽप्ययं गलति’ इति कामशरप्रगुणीकृतो नायिकानुरागातिशयो द्योत्यते। मूलपदाङ्कानुरोधे 'विगलति धृतो धृतोऽपि’ इति पाठ्यम्।
नदीतटनिकुञ्जे कृतसङ्केतेन कान्तेन विप्रलब्धा काचिन्नायिका 'अहं तत्र गताऽभूवम्, सरित्पूरेण सङ्केतस्थानं नौ भग्नम्’ इति जारं सूचयन्ती सखीमाह-
तटसंस्थितनीडान्तरशावकपरिरक्षणैकदत्तमना:।
अगणितविनिपातभया पूरेण समं वहति काकी।।२।।२v
१. धरिओ धरिओ विअलइ उअएसो पिहसहीहिँ दिज्जन्तो।
मअरद्धअबाणपहारजज्जरे तीएँ हिअअम्मि।।१।।
[धृतो धृतो विगलत्युपदेश: प्रियसखीभिर्दीयमान:।
मकरध्वजबाणप्रहारजर्जरे तस्या हृदये।।]
२. तडसंठिअणीडेक्कन्तपीलुआरक्खणेक्कदिण्णमणा।
अगणिअविणिवाअभआ पूरेण समं वहइ काई।।२।।
[तटसंस्थितनीडैकान्तशावकरक्षणैकदत्तमना:।
अगणितविनिपातभया पूरेण समं वहति काकी।।]
तटसंस्थितस्य नीडस्यान्तरे विद्यमाना ये शावकास्तेषां परिरक्षणमात्रे दत्तं मनो यया तादृशी काकी, नीडतरुमज्जनोत्तरं भावि विनिपातभयं मरणभयमप्यगणयन्ती सती पूरेण नवजलौघेन समं वहति, प्रवाहेण ह्रियत इति यावत्। एतेन 'अहं सङ्केतरक्षणार्थं नदी तटपतन-सहभावि मरणभयमप्यगणयन्ती तत्र गताऽभूवम्’ इति, काकीति ङीपा 'स्त्रीजाते: पश्य प्रेमानुबन्धदार्ढ्यंम्’ इति च जारं प्रति द्योत्यते।
मधूकपुष्पावचयव्याजेन कृताभिसारा कुलटा आत्मनश्चिरकालसुरताभिलाषं जाराय सूचयन्ती मधूकपादपामन्त्रणव्याजेनाह-
बहुपुष्पभारनामितभूमीगतशाख शृणुहि विज्ञप्तिम्।
अपि विगलिष्यसि गोदातीरविकटकुञ्जमधुमधूक शनै:।।३।।१
बहुपुष्पभरेण अवनामिता:। अत एव भूमिगता: शाखा यस्य ईदृश। अयि गोदावरीतीर-विकटकुञ्जस्य मधुरमधूकतरो! शनै: क्रमेण विगलिष्यसि, शनै: शनै: पुष्पाणि प्रस्त्रोष्यसे, येनाहमेकाकिनी सर्वाणि तानि अधूल्यवलुण्ठनमवचिनोमीत्याशय:। बहुपुष्पभारेतिसम्बोधनेन बहो: कालादुत्कण्ठिततया सन्धुक्षितबहुलवीर्योऽपि गोदातटादिदत्तमनस्कतया चिरात्स्खलिष्यति, यतो हि विकटतया जनसञ्चारशून्येऽस्मिन् गोदानिकुञ्जे पुष्पावचयव्याजेन समागतया चिरं मया रन्तव्यमित्यभिलाषोऽभिव्यज्यते। मधूके मधुविशेषणेन कामनीयत्वातिशय: प्रकाश्यते।
मधूककुसुमावचयव्याजेन सङ्गमसुखं साधयन्त्या कयाचिन्मधूकतरुसमीपगतो निकुञ्ज: सङ्केतस्थलं नियमितमभूत्। क्रमेण कुसुमेषु न्यूनीभूतेषु तदवचयमिषेण तत्रागमनमपि दु:सम्भवमित्यवशिष्टानि कुसुमान्यवचिन्वतीं रुदतीं काञ्चन सुदतीं दृष्ट्वा रसिकपौर: सहचरमाह-
निष्पश्चिमानि दु:खालोकान्यसती मधूककुसुमानि।
अस्थीनीव चितायां बन्धो रुदती समुच्चिनुते।।४।।२
१. बहुपुप्फभरोणामिअभूमीग असाह सुणसु विण्णत्तिम्।
गोलातडविअडकुडङ्गमहुअ सणिअं गलिज्जासु।।३।।
[बहुपुष्पभरावनामितभूमीगतशाख शृणु विज्ञप्तिम्।
गोदातटविकटनिकुञ्जमधूक शनैर्गलिष्यसि।।]
२. णिप्पच्छिमाइँ असई दु:खालोआइँ महुअपुप्फाइं।
चीए बन्धुस्स व अट्ठिआइँ रुअई समुच्चिणइ।।४।।
[निष्पश्चिमान्यसती दु:खालोकानि मधूकपुष्पाणि।
चितायां बन्धोरिवास्थीनि रोदनशीला समुच्चिनोति।।]
निष्पश्चिमानि सर्वान्तिमानि, परिशिष्टानीत्यर्थ:। दु:खालोकानि कुसुमावचयव्याजेन लभ्यस्य जारसमागमस्य तदभावे दुर्लभत्वाद्दु:खेन आलोकयितुं शक्यानि मधूकपुष्पाणि, चितायां बन्धोरस्थीनीव। तान्यपि न पुनर्दर्शनीयानीति बन्धुप्रेम्णा रुदद्भि: सञ्चीयन्ते। असती रुदती सती समुच्चिनोति।
बह्वीषु संसक्तत्वेनास्थिरप्रणयतया निजवचनमविश्वसन्तीं नायिकामनुकूलयितुं कश्चिद्विदग्धनायको हृदयामन्त्रणव्याजेनाह-
स्वल्पसरिज्जलवेगह्रियमाणसुदीर्घदारुवन्नूनम्।
स्थाने स्थाने विलगत्सम्प्रति केनापि धक्ष्यसे हृदय।।५।।१
हे हृदय! स्वल्पसरितो जलरवेण ह्रियमाणं सुदीर्घदारु इव स्थाने स्थान एव विलगत्। स्वल्पजले प्रवहत: सुदीर्घतया तलस्पर्शवशात्स्थाने स्थाने संसक्तिरित्याशय:। त्वं सम्प्रति एतावत्कालमनुकूलदैवेन रक्षितमसि साम्प्रतं केनापि धक्ष्यसे। कस्यामपि हृदयहारिण्यां संसक्तं सत्तस्या: क्षणविरहेणापि दग्धं भविष्यसीत्याशय:। स्वल्पाशयत्वेन अनभिमतासु नानावनितासु सुदीर्घाशयत्वेन रसतलस्पर्शिनो मम मनोयोगाभावादेव नाभून्निश्चला स्थितिरत एव स्थाने स्थाने मदासक्तिरभून्न तु दुर्विदग्धतयेति 'स्वल्पसरित्- सुदीर्घा’ दिपदैर्विचार्यमाणगभीररमणीयोऽर्थो ध्वन्यते। 'मडह’ शब्द: स्वल्पवाचको देशी। 'नायकस्यास्थिरप्रेमतया तद्वचनमस्वीकुर्वतीं नायिकामभिमुखीकर्तुं कश्चिद्विदग्ध आह’ इति गङ्गाधर:। नायकार्थं नायिकामनुकूलयतोऽ-न्यजनस्य 'हृदय!’ इत्यामन्त्रणं कियदुचितमिति सुधीभिरेव विचार्यम्।
नायिकासपत्नीनां वचनोपतप्ता काचन निजसख्या: सौभाग्यं बन्धुजनगोष्ठ्यामेवमाह-
तस्या योऽधररागो रात्रावुद्वासित: प्रियतमेन।
उषसि स एव सपत्नीनयनेष्वालोक्यते नु सङ्क्रान्त:।।६।।२
१. ओ हिअअ मडहसरिआजलरअहीरन्तदीहदारु व्व।
ठाणे ठाणे व्विअ लग्गमाण केणावि डज्झिहसि।।५।।
[हे हृदय स्वल्पसरिज्जलरयह्रियमाणदीर्घदारुवत्।
स्थाने स्थाने एव लगत्केनापि धक्ष्यसे।।]
२. जो तीएँ अहरराओ रत्तिं उव्वासिओ पिअअमेण।
सो व्विअ दीसइ गोसे सवित्तणअणेसु संकन्तो।।६।।
[यस्तस्या अधररागो रात्रावुद्वासित: प्रियतमेन।
स एव दृश्यते प्रात: सपत्नीनयनेषु सङ्क्रान्त:।।]
उद्वासित: निरन्तरपानेन विसर्जित:। 'गोसे’ उषसि, प्रात:। स एव रागोऽरुणिमा सपत्नीनयनेषु संक्रन्तो दृश्यते। रात्रौ प्रियतमनिर्दयपीतविगतरागनायिकाधरदर्शनेन प्रात: सपत्नीनयनेष्वरुणिमोदयोऽभवदित्याशय:। सपत्नीनयनै: स्वगुणं परित्यज्यान्यदीयोऽरुणिमगुण: स्वीकृत इति तद्गुणेन अन्यासु वल्लभासु सतीष्वपि प्रियतमोपभोगशालिनी सैव सुभगेति नायिकाया: सौभाग्यमभिव्यज्यते। नयनेष्विति बहुवचनेन सर्वासामपि सपत्नीनामीर्ष्योद-यात्सर्वापेक्षयाऽप्युत्कर्षो ध्वन्यते। एकस्या: सौभाग्यवर्णनेन अन्यासां तत्सपत्नीनामीर्ष्यालुतया सुखसाध्यत्वं सूचयितुं रसिकं प्रति दूत्या उक्तिरियमिति कश्चित्। व्यत्ययवत्यमुख्या परिवृत्ति-रलङ्कार इति सरस्वतीकण्ठाभरणे भोज:। (३ परि. ३०)।
'विदग्धा महिला: प्रसङ्गेन प्रियप्रणयं परीक्षन्ते’ इति काचन चतुरा कान्तस्नेहमनिशं गवेषयन्तीं सखीं शिक्षयति-
हलिकस्नुषा हि गृहपतिसुतमनुगोदातटस्थितं वीक्ष्य।
आरब्धाऽवतरीतुं सा दु:खोत्तारया बत पदव्या।।७।।१
अनुगोदातटस्थितम्। गोदातटसमीपे स्थितं गृहपतिसुतं निजदयितं वीक्ष्य। सा दु:खोत्तारया दु:खेनाऽवतरणं यस्यामीदृश्या पदव्या मार्गेण अवतरीतुमारब्धा बत। नदीपूरे गच्छन्तीं पदस्खलनतो निमज्जन्तीं मामयमवलम्बते न वेति परीक्षार्थं विषममार्गेणाऽवतरीतु-मारब्धेत्याशय:। हालिकस्नुषाया गृहपतिसूनोश्च 'हस्तावलम्बदानेनावयोरङ्गसङ्गम: सम्पद्यताम्’ इति अभिप्रायात्सोऽयं भावो नामालङ्कार:, कार्यद्वाराऽप्रकटनात्सोऽयं निरुद्भेदश्चेति सरस्वतीकण्ठाभरणे भोज: (३ परि. ४३)।
मनोऽभिलषिते नायके शृण्वति तत्प्रलोभनार्थमात्मन: सौभाग्यं श्रावयन्ती कापि सखीमाह-
चरणान्तिकपतितस्यानालपतस्तस्य संस्मरामोऽद्य।
पादाङ्गुष्ठावेष्टितकेशदृढाकर्षणातिसुखकेलिम्।।८।।२
१. गोलाअडट्ठिअं पेछिऊण गहवइसुअं हलिअसोह्णा।
आढत्ता उत्तरिउं दु:खुत्ताराएँ पअवीए।।७।।
[गोदावरीतटस्थितं प्रेक्ष्य गृहपतिसुतं हलिकस्नुषा।
आरब्धा उत्तरीतुं दु:खोत्तारया पदव्या।।]

२. चलणोआसणिसण्णस्स तस्स भरिमो अणालवन्तस्स।
पाअङ्गुट्ठावेट्ठिअकेसदिढाअड्ढणसुहेल्लिम्।।८।।
[चरणावकाशनिषण्णस्य तस्य स्मरामोऽनालपत:।
पादाङ्गुष्ठावेष्टितकेशदृढाकर्षणसुखम्।।]
प्रणयकोपेनाऽनुनयममानयन्त्या मम प्रसादनार्थं चरणान्तिकपतितस्य। पतितस्यैव हि केशा: पादाङ्गुष्ठेनावेष्टयितुं शक्यन्ते न निषण्णस्य। भयवशादनालपत: न त्वभिमानेन। मदीयपादाङ्गुष्ठेनावेष्टितानां केशानां दृढाकर्षणेन जाता या तस्यातिसुखकेलिस्ताम्, अद्य संस्मराम:। मम रूपगुणवशीकृतो दयितो मामेवमनुवर्तते, सैवाहं त्वां कामये, अत एव पश्य ते सौभाग्यमिति जारं प्रत्यभिव्यज्यते। संस्मराम इति बहुवचनेन स्मरणसामान्यताप्रदर्शनेनात्मनो वचनेऽकृत्रिमता प्रकाश्यते।
'सङ्केतस्थाने सम्प्रति कश्चित्पथिकोऽवतिष्ठते’ इति जारं श्रावयितुं काचित्कुलटा सखीमाह-
भल्लमिव पाटयति भो: पश्यत कुग्रामदेवकुलनिकटे।
हेमन्तकालपथिको निर्वान्तं किल पलालाग्निम्।।९।।१
हेमन्तकालस्य पथिक:। कुग्रामे यद्देवकुलं तस्य निकटे, द्वार इत्यर्थ:। निर्वान्तम्। (विध्मायन्तम्) पलालाग्नि फलशून्यव्रीहिनालाग्निं किल भल्लमिव भल्लूकमिव पाटयति इति भो: पश्यत। हेमन्तकाले न कुत्रापि शीतनिवारणोचित: पथिकनिवासो लभ्यत इति कुग्रामता। पलालकूटेऽग्रौ दीयमाने तृणानि दग्ध्वा द्रुतमेव स निर्वाति। निर्वाणे तस्मिन् पलालभस्मकूटो दग्धतृणश्यामतन्तुसंवलितत्वेनोपरिभागे श्याम:, फूत्कारेणान्तरग्नौ दृष्टे सति लोहितभागदर्शनाद्रक्त इति पाट्यमानस्य भल्लूकस्य साम्यं स्वाभाविकरीत्या सङ्घटत इत्याशय:। 'नाडी नालं च काण्डोऽस्य पलालोऽस्त्री स निष्फल:’ इत्यमर:। एवं च पथिकसत्तया सङ्केतस्थाने नाधुना सङ्गन्तुं शक्यते। हेमन्तकाले च पथिको न रात्रौ प्रस्थास्यते, तथा च नाद्य समागमो भावीति भूयानर्थोऽभिव्यज्यते।
ग्रामतडागसमीपे कयोश्चित्सङ्केत आसीत्। तत्र किञ्चिच्छेषायामेव रात्रौ 'जनकराऽ-नालोडितं विमलजलमानयामि’ इति व्याजेनाऽऽगता नायिका जारेण विप्रलब्धा। ततोऽपरदिने 'अहं तत्र गताऽभूवम्’ इति जारं श्रावयन्ती पितृष्वसारमुद्दिश्य तत्र दृष्टाद्भुतकथनच्छलेनाह-
१. फालेइ अच्छभल्लं व उअह कुग्गामदेउलद्दारे।
हेमन्तआलपहिओ विज्झाअन्तं पलालग्गिम्।।९।।
[पाटयत्यच्छमल्लमिव पश्यत कुग्रामदेवकुलद्वारे।
हेमन्तकालपथिको विध्मायमानं पलालाग्रिम्।।]
कमलाकरा न मृदिता हंसा नोड्डायिता: पितुर्भगिनि।
ग्रामतडागे केनचिदभ्रमिहोत्तानितं क्षिप्तम्।।१०।।१
हे पितृष्वस:! ग्रामतडागे केनचित् अभ्रमाकाशं पतनसमये अनुत्तानमपि उत्तानीकृत्य क्षिप्तम्। एवं सत्यपि कमलोपमर्दनादिकं न जातमित्यद्भुतम्। ततश्च 'अतिप्रत्यूषेऽहं तत्र गता, त्वं तु न गत:। यदि त्वं गतोऽभविष्यस्तर्हि हंसा न निभृतमस्थास्यन्’ इति जारं प्रत्युपालम्भ-गर्भोऽयमर्थोऽभिव्यज्यते। 'विमलजलप्रतिबिम्बितस्याकाशस्योत्तानतया भानादियमुत्प्रेक्षेति’ गङ्गाधर:। प्रतीयमानमपि जलधरप्रतिबिम्बदर्शनं वाच्यस्याङ्गमिति नात्र ध्वनिव्यवहार:, किन्तु गुणीभूतव्यङ्ग्यव्यवहार:, वाच्येन विस्मयविभावरूपेण मुग्धिमातिशयप्रतीत्या चारुत्वनिष्पत्तेरिति ध्वन्यालोके सेयमुदाहृता (२ उद्द्योत: ३४)।
जारप्रवासवार्ताश्रवणेन विमनस्कतया गृहकृत्येष्वसज्जामानां सपत्नीं प्रति ईर्ष्योपालम्भ-सम्भृतं वयोज्येष्ठा सपत्नी आह-
मन्ये केन विमर्दितमनोरथेन प्रवास इति लपितम्।
येनाङ्गानि हि वध्वा: सविषाणीवालसायन्ते।।११।।२
मन्ये, भग्नमनोरथेन हताशेनेति यावत्। केनचित्प्रवासो विदेशगमनमिति लपितम्। अत्र केनेति केनचिदित्यर्थे। येन कारणेन दत्तविषाणीव वध्वा अङ्गानि अलसायन्ते। एवं च 'जारप्रवासकथाद्य विषमिव तेऽप्रियाऽभवत्, येनावश्यकानि गृहकार्याण्यपि कर्तुं न प्रभवसि। अहो ते उच्छृङ्खलत्वम्।’ इतीर्ष्योपालम्भौ सप्त्नीं प्रत्यभिव्यज्येते। यद्वा पतिप्रवासवार्ताश्रवणेन विमनस्काया: प्रोष्यत्पतिकाया: प्रियतमेऽनुरागातिशयं प्रकाशयन्ती दूती येन प्राप्तुं शक्येति जारं प्रति तस्या असाध्यतां सूचयति। 'गृहकृत्यपराङ्मुखीं वधूं प्रति श्वश्रूरुपालम्भच्छलेनाह’ इति गङ्गाधराऽवतरणम्।
१. कमलाअरा ण मलिआ हंसा उड्डाविआ ण अ पिउच्छा।
केणॉवि गामतडाए अब्भं उत्ताणअं व्वूढम्।।१०।।
[कमलाकरा न मृदिता हंसा उड्डायिता न च पितृष्वस:।
केनापि ग्रामतडागे अभ्रमुत्तानितं क्षिप्तम्।।]
२. केण मणे भग्गमणोरहेण संलाविअं पवासो त्ति।
सविसाइँ व अलसाअन्ति जेण बहुआएँ अङ्गाइं।।११।।
[केन मन्ये भग्नमनोरथेन संलपितं प्रवास इति।
सविषाणीवालसायन्ते येन वध्वा अङ्गानि।।]
'चतुरा: स्फुटीभवन्तमपि भावमिङ्गिताकारगोपनेनाच्छादयन्ति’ इति शिक्षयन्ती काचिद् गोपीगतं वैदग्ध्यं स्वसखीं प्रत्याह-
गदिते यशोदयेति हि बालो दामोदरोऽद्यापि।
कृष्णमुखनिहितनयनं निभृतं हसितं व्रजवधूभि:।।१२।।
दामोदर: अद्यापि बाल इति यशोदया जल्पिते सति। दामोदरपदेन 'दुग्धभाण्डादि- भङ्गे यथा पूर्वं दाम्ना अबध्यत, तादृशमेवाऽधुनापि मन्ये’ इति पूर्वकथा द्योत्यते। व्रजवधूभिरनुभूततरुणातिशायिकृष्णप्रौढभावाभि: निभृतं यथा रहस्याभिज्ञमन्तराऽन्यो न जानाति तथा हसितम्। 'कृष्णमुखनिहितनयनम्’ इत्यनेन कृष्णेन सह नानाविधविलासानुभवो व्रजवधूभि: प्रकाश्यते। य: किल तथाविधनानासुरतविमर्दपाटूपट: सोऽपि बाल इत्युदीर्यत इति हासहेतुत्वेऽपि सोऽयं हासो वैदग्ध्यान्नाभिव्यञ्जित इति विदग्धचर्या प्रकाश्यत इति भाव:। वधूभिरिति बहुवचनेन बहुत्र प्रकाशितासाधारणप्रौढितया कृष्णे सुरतवैदग्ध्यातिशय: प्रकाश्यते। साकाङ्क्ष: अवसरात्मक: सोऽयं पर्यायालङ्कार इति सरस्वतीकण्ठाभरणम् (४ परि. ८० श्लोक:)।
कापि निपुणा सुजनप्रशंसाच्छलेन चिरकालमप्यमन्दप्रणयरक्षार्थं नायकमुपच्छन्द-यति-
ते विरला: सत्पुरुषा: स्नेहो येषामभिन्नमुखराग:।
अनुदिवसवर्धमान: पुत्रेष्वृणमिव हि सङ्क्रामेत्।।१३।।२
न भिन्नो मन्दीकृतो मुखरागो मुखप्रसादो यत्र, एवं भूतो येषां स्नेह: अनुदिवसं क्रमेणोपचीयमान: सन् [न तु प्रारम्भगुर्वी खलमैत्रीव सहसैव वर्धमान:] ॠणमिव पुत्रेषु
१. अज्जवि बालो दामोअरो त्ति इअ जम्पिए जसोआए।
कह्णमुहपेसिअच्छं णिहुअं हसिअं वअवूहिं।।१२।।
[अद्यापि बालो दामोदर इति इति जल्पिते यशोदया।
कृष्णमुखप्रेषिताक्षं निभृतं हसितं व्रजवधूभि:।।]
२. ते विरला सप्पुरिसा जाण सिणेहो अहिण्णमुहराओ।
अणुदिअहवड्ढमाणो रिणं व पुत्तेसु संकमइ।।१२।।
[ते विरला: सत्पुरुषा येषां स्नेहोऽभिन्नमुखराग:।
अनुदिवसवर्धमान ॠणमिव पुत्रेषु सङ्क्रामति।।]v
सङ्क्रामेत अवतरेत्। अन्तेऽपि न विलीयते किन्तु उत्तमर्णाय दयतया ऋणं यथा पुत्रेषु सङ्क्रामति, तथा वंशपरम्परया अग्रेऽप्यनुवर्तत इत्यपरिहरणीयत्वं सुजनस्नेहस्य सूचयति। पुत्रेष्विति बहुवचनेन वंशव्यापकत्वं सुजनस्नेहस्य ध्वनितम्। इह तु पुत्रेषु सङ्क्रामेत् इत्युक्त्या 'प्रसवोत्तरमपि मयि तथैव स्निह्यतां,न वक्षोजादिशैथिल्येन विमनाय्यताम् प्रत्युत स्वीयबद्ध्या सन्ततावपि स्नेहोऽनुवर्तयितव्य:’ स्निहोनुवर्तयितव्य:’ इति स्वसमीहितमभिव्यनक्ति। पितृकृतस्य ॠणस्य परिशोधो यथावश्यकस्तथा स्नेहनिर्वाहोऽपीति पुत्राणां कर्तव्यभारं ध्वनयितुमृण-पदोपादानम्। 'अनुवर्तेत’ इत्याद्यनुक्त्वा सङ्क्रामेदित्यनेन 'पितरि य: स्नेह आसीत्स एवाविकलं पुत्रेषु गच्छेत्’ इति स्नेहस्याऽकिञ्चित्परिवर्तनीयत्वं ध्वन्यते।
काचिज्जनसमक्षमेव प्रकटितप्रणयभावां निजसखीं शिक्षयन्ती कृष्णानुरक्तगोप्या: परमनैपुण्यमाह-
नृत्यश्लाघननिभत: पार्श्वे परिसंस्थिता निपुणगोपी।
समगोपीनां चुम्बति कपोलविम्बागतं कृष्णम्।।१४।।१
समीपे स्थिता निपुणा गोपी, समगोपीनां समीपस्थित्या सदृशीनां गोपीनां कपोले बिम्बेन प्रतिबिम्बरूपेणागतम्। तथा च गोपीषु पार्श्वस्थितास्वपि चुम्बनानुभावं चातुर्येण पिदधातीत्यर्थ:। समगोपीनामित्यस्य कृष्णानुरागितया सदृशीनां गोपीनामित्यप्यर्थ:। तथा च अनुरक्तानामपि पुरत: स्वानुरागं वैदग्ध्येन न तथा प्रकाशयति, त्वं तु साधारणानामपि समक्षमुद्भटभावा भवसीति भाव:। अथवा नृत्यकर्मणा सदृशीनां गोपीनाम् 'सम्यगियं नृत्यति’ इति कर्णे कथनापदेशेनेत्यर्थ:। अत्र गोपीनामिति बहुत्वेन प्रत्येकं गोपीनां नृत्यश्लाघनसम्भवेन असकृच्चुम्बनेऽपि न रहस्यभङ्ग: प्रत्युत तत्कृतो नायिकाया: कृष्णालम्बन: प्रेमातिशयो ध्वन्यत इत्याकूतम्। किं च 'निपुणगोपी समगोपीनाम्’ इत्यस्य निपुणत्वेन समानां गोपीनामिति वार्थ:।
विजृम्भमाणेऽस्मिन् जलदकाले कथं त्वया गन्तव्यमिति ध्वन्यन्ती कान्तं प्रति काचिद्वर्षागममाह-
१. णच्चणसलाहणणिहेण पासपरिसंठिआ णिउणगोवी।
सरिसगोविआणँ चुम्बइ कवोलपडिमागअं कह्णम्।।१४।।
[नर्तनश्लाघननिभेन पार्श्वपरिसंस्थिता निपुणगोपी।v
सदृशगोपीनां चुम्बति कपोलप्रतिमागतं कृष्णम्।।]
अन्योन्यकटकलगनै: सर्वत्र दिशामुखेषु विसरद्भि:।
छल्लीमिव बत मुञ्चति विन्ध्यो मेघैर्विघटमानै:।।१५।।१
अन्योऽन्यं कटके पर्वते नितम्बे लग्नैः, पर्वते निबिडमामिलितैरिति यावत्। पुनर्विघट-मानैर्विश्लिष्यद्भि:, अत एव सर्वेषु दिशामुखेषु व्याप्नुवद्भिर्मेघै:, विन्ध्य: छल्लीमिव वल्कलमिव मुञ्चति। यथा कश्चनोपरितनं वल्कलं विमुच्याभिनवो भवति तथा विन्ध्यो मेघाडम्बरं त्वचमि-वावमुच्य नवां सुषमां धारयतीति भाव:। तथा चैवंविधे विरहिजनदुरन्ते घनसमयेऽपि किं भवता प्रस्थातव्यमिति निभृतं गमननिरोधो ध्वन्यते। 'छल्ली वीरुधि सन्ताने वल्कले कुसुमान्तरे’ इति मेदिनी।
गाथान्तरेऽपि तमेवार्थं भङ्ग्यन्तरेणाह-
परिपश्यन्ति पुलिन्दा: पर्वतशिखरस्थिता धनु:सक्ता:।
हस्तिकुलैरिव विन्ध्यं विपूर्यमाणं नवाम्भोदै:।।१६।।२
पर्वतशिखरे स्थिता: धनुषि सक्ता:, क्षितितलनिहितकोटिकं चापमवलम्ब्य स्थिता इत्यर्थ:। पुलिन्दा: शबरा:। वर्णेन ध्वनिना देहमहत्त्वेन च गजयूथसदृशैर्नवाभ्रैर्विपूर्यमाणं विन्ध्यमालोकयन्ति, उपरि शिखरे हस्तिकुलैरिव पूर्यमाणं विन्ध्यं कुञ्जरमृगयासक्ता अपि धनुर्निषण्णा एव साश्चर्यमालोकयन्तीति भाव:। शबराणां पर्वतेऽवस्थानान्न विन्ध्यवनेऽभि-सारसम्भव इति नायिकाया जारं प्रत्युक्तिरिति केचित्।।
प्रशान्तमार्गान्तराय: सन्निहित: प्रियोपगमनयोग्य: शरत्समय इति प्रोषितपतिकां सान्त्वयन्ती सखी वर्षावसानमाह-
१. सव्वत्थ दिसामुहपसॉरिएहिँ अण्णेण्णकडअलग्गेहिं।
छल्लिं व्व मुअइ विञ्झो मेहेहिँ विसंघडन्तेहिं।।१५।।
[सर्वत्र दिशामुखप्रसृतैरन्योन्यकटकलग्नैः।
छल्लीमिव मुञ्चति विन्ध्यो मैघैर्विसङ्घटमानै:।।]
२. आलोअन्ति पुलिन्दा पव्वअसिहरट्ठिआ धणुणिसण्णा।
हत्थिउलेहिँ व विञ्झं पूरिज्जन्तं णवब्भेहिं।।१६।।
[आलोकयन्ति पुलिन्दा: पर्वतशिखरस्थिता धनुर्निषण्णा:।
हस्तिकुलैरिव विन्ध्यं पूर्यमाणं नवाभ्रै:।।]
वनदवमसीमलिनितो राजति विन्ध्यो घनैर्धवलै:।
मधुमथन: क्षीरोदधिमथनोद्धतदुग्धसिक्त इव।।१७।।१
उज्ज्वलोऽपि वनदवकालिम्ना मलिनीकृतो विन्ध्य:, जलाऽपायाद्धवलैर्घनै:, क्षीरोदधेर्म-थनेन उद्धतम् उच्छलितं यद्दुग्धं तेन सिक्त: श्रीकृष्ण इव राजति। वनदवेत्याद्युक्त्या मार्गावरोधि-तृणकण्टकादिदाहान्मार्गस्य सुगमता सूच्यते।।
गुणानुरागादपि सचेतसां चित्तवृत्तिराकृष्टा भवति, न पुन: सर्वत्र समागम एव कामनीय इति चक्षूरागादिभिर्नायिकाया: परपुरुषानुरागमाशङ्कमानं नायकं प्रति सखी आह-
बन्द्या प्रवीर इति हतबान्धवविमनस्कयापि चोरयुवा।
अवलोकितोऽनुरागाद् गुणेषु को मत्सरं वहति।।१८।।२
हतबान्धवत्वेन विमनस्कयापि बन्द्या, प्रत्यक्षदृष्टशौर्यानुभावतया प्रवीर इति कृत्वा चोरयुवा अनुरागाद्विलोकित:, न तु सुरताऽभिलाषादिति भाव:। गुणेषु को मात्सर्यं वहतीत्यर्थान्त-रन्यासेन 'गुणवशंवदं स्वत एव चित्तमाह्रियते, न पुनस्तत्र सहृदयैरन्यथा शङ्कनीयम्’ इति सूच्यते।
व्याधवध्वा: सौभाग्यवर्णनेन नायकान्तस्य तत्राऽनवकाशं सूचयन्ती काचिद्दूती आह-
अद्य कतमोऽपि दिवसो व्याधवधू रूपयौवनोन्मत्ता।
तष्टधनुस्त्वक्छलतो विकिरति रथ्यासु सौभाग्यम्।।१९।।३
१. वणदवमसिमइलङ्गो रेहइ विञ्झो गणेहिँ धवलेहिं।
खीरोअमन्थणुच्छलिअदुद्धसित्तो व्व महुमहणो।।१७।।
[वनदवमषीमलिनाङ्गो विन्ध्यो घनैर्धवलै:।
क्षीरोदमथनोच्छलितदुग्धसिक्त इव मधुमथन:।।]
२. वन्दीअ णिहअबन्धवविमणाइ वि पक्वलो त्ति चोरजुआ।
अणुराएण पलोइओॅ गुणेसु को मच्छरं बहइ।।१८।।
[वन्द्या निहतबान्धवविमनस्कयापि प्रवीर इति चोरयुवा।
अनुरागेण प्रलोकितो गुणेषु को मत्सरं वहति।।]
३. अज्ज कइमो वि दिअहो वाहबहू रूवजोव्वणुम्मत्ता।
सोहग्गं धणुरुम्पच्छलेण रच्छासु विक्किरइ।।१९।।
[अद्य कतमोऽपि दिवसो व्याधवधू रूपयौवनोन्मत्ता।
सौभाग्यं धनुस्तष्टत्वक्छलेन रथ्यासु विकिरति।।]
अद्य कियन्तिचिद्दिनानि व्यतीतानि, रूपयौवनाभ्यामुन्मत्तेव व्याधवधू:। रूपयौवनव-शीकृतस्य दयितस्य सततसुरतासक्तिकृतदौर्बल्यादाक्रष्टुमशक्यतया तष्टस्य कृतावतक्षणस्य धनुष: त्वक्छलेन सौभाग्यं रथ्यासु विकिरति इतस्तत: प्रक्षिपतीत्यर्थ:। रथ्यासु विकिरतीत्यनेन सौभाग्यस्य सुलभता सूचिता। इतस्ततो रथ्यापर्यन्तं व्याधवधूसौभाग्यं सुप्रसिद्धं त्वं कथमजान-न्निव तत्र यतस इति भाव:। 'रुम्प’ शब्दस्य अभिनवजाता सूक्ष्मा त्वग् अर्थ:। 'धणुरम्प.’ इति पाठं स्वीकुर्वन् कुलबालदेवस्तु 'रम्प’ शब्द: कच्छे वर्तत इत्याह। अतिसुरतासक्तं मित्रं प्रति तन्निवृत्त्यर्थं सहचरोक्तिरिति कश्चित्।
एतमेवार्थं प्रकारान्तरेणाह-
उत्क्षिप्यतेऽद्य मण्डलमरुता व्याधस्त्रिया गृहाङ्गणत:।
सूक्ष्मधनुस्त्वक्पक्तिः सौभाग्यध्वजपताकेव।।२०।।१
मण्डलाकारवाहिना मारुतेन ('भभूलिया’ इति ख्यातेन)। सूक्ष्मा: या: धनुषस्त्वचस्तासां परम्परा। उपरि प्रस्फुरत्तया सौभाग्यवैजयन्तीव उड्डाय्यते। तदेतत्पश्यतेति प्राकृतच्छायानुसार्यर्थ:। आत्मनो विज्ञताप्रकाशनार्थं नागरिकस्य निजसहचरं प्रत्युक्तिरिति कश्चित्।
'कथनं विनापि चिह्नेनैव चतुरा: कञ्चिदर्थमवबुध्यन्ते’ इति निजसखीमिङ्गितचातुर्य-मवबोधयन्ती काचिदेवमाह-
गजगण्डस्थलघर्षणमदमलिनीकृतकरञ्जशाखाभि:।
आयान्त्या कुलगेहाज्ज्ञातं व्याधस्त्रिया हि पतिमरणम्।।२१।।२
१. उक्खिप्पइ मण्डलिमारुएण गेहङ्गणाहि वाहीए।
सोहग्गधअवडाअ व्व उअह धणुरुम्परिञ्छोली।।२०।।
[उत्क्षिप्यते मण्डलीमारुतेन गेहाङ्गणाद्व्याधस्त्रिया:।
सौभाग्यध्वजपताकेव पश्यत धनु: सूक्ष्मत्वक्पक्तिः।।]
२. गअगण्डत्थलणिहसणमअमइलीकअकरञ्जसाहाहिं।
एत्तीअ कुलहराओ णाणं वाहीअ पइमरणम्।।२१।।
[गजगण्डस्थलनिघर्षणमदमलिनीकृतकरञ्जशाखाभि:।
आगच्छन्त्या कुलगृहाज्ज्ञातं व्याधस्त्रिया पतिमरणम्।।]
कुलगृहात् पितृगृहात्। आयान्त्या व्याधस्त्रिया। गजानां गण्डस्थलघर्षणे सति निषक्तो यो मदस्तेन मलिनीकृताभि: करञ्जशाखाभि:। पतिभयेन दूरं पलायितानां गजानां पुनरागत्य मदस्रवणेन पतिमरणमनुमितमित्यर्थ:। तज्जीवितदशायां तत्रागमनम्, आगमनेऽपि मदस्रवण-मनुपपन्नम्, ततश्च ममाऽभावे महावीर: स विपन्न इति भाव:। नायिकान्तरासक्तस्य पूर्वमिव गजमारणासामर्थ्यान्मत्सरैर्गजै: स व्यापादयिष्यत इति निश्चितमित्यर्थं इति कश्चित्।
वनचारिणोऽपि पूर्वप्रेमानुवृत्तिं न विस्मरन्ति किं पुन: सहृदया इति पूर्वप्रियाप्रणया-नुवृत्त्यर्थं काचिद्दूती नायकमाह-
व्याधोऽभिनववधूरतितनूकृत: प्रथमगेहिनीप्रणयम्।
रक्षन् नयत्यरण्यं तनितदुराकर्षमपि च धनु:।।२२।।१
नववध्वा: सुरतेन दुर्बलीकृत:। गृहगताया: पत्न्या: प्रेममात्रेण तनुता स्फुटं न प्रसिध्यतीति उभयार्थवाहि 'रति’ पदमुपात्तं छायायामिति बोध्यम्। प्रथमगेहिन्या: प्रणयं रक्षन् व्याध:। अवतक्षणादिना तनूकृतं तनितम् [तत्करोति तदाचष्टे इति ण्यन्तात् क्त:] तथापि दुराकर्षं धनुररण्यं नयतीत्यर्थ:। 'सुचिरविरहोत्तरमपि, अभिनवयौवनामपि वधूमुपलभ्य वनेचरोऽपि व्याध: पूर्वप्रियतमाप्रणयं न विस्मरति, प्रत्युत तत्प्रणयरक्षार्थं तदभिज्ञानभूतं दुराकर्षमपि धनु: सुलभसङ्कटे गहने नयति। त्वं तु सततमनुरक्तामपि सहजमिमां कथं विस्मरसि’ इति नायकं प्रति ध्वयति। पूर्वप्रियाप्रेमानुवृत्तिशिक्षार्थं सहचरं प्रति नागरिकस्योक्तिरिति गङ्गाधरावतरणम्। पत्युर्नववधू-वशीभूतत्वेन प्रथमगृहिण्या: साध्यत्वं सूचयितुं जारं प्रति दूत्या उक्तिरियमिति कश्चित्।
सुभगां प्रति केनचित्कारणेन प्रकुप्य तया सह पुन: सङ्गमं सप्रतिज्ञावचनं मुहुर्मुहु: प्रत्याचक्षाणस्य वल्लभस्य तदिदं प्रत्याख्यानमस्थिरत्वादुपहासजनकमेवेति काचन सपत्नी सोत्प्रासमुपवर्णयति-
प्रथमं प्रसूयमाना हासयति श्यामला जनानखिलान्।
वल्लभवादेनालं ममेति बहुशो भणन्त्येव।।२३।।२
१. णववहुपेम्मतणुइओ पणअं पढमघरणीअ रक्खन्तो।
आलिहिअदुप्परिल्लं पि णेइ रण्णं धणुं वाहो।।२२।।
[नववधूप्रेमतनूकृत: प्रणयं प्रथमगृहिण्या रक्षन्।
तनूकृतदुराकर्षमपि नयत्यरण्यं धनुर्व्याध:।।]
२. हासाविओ जणो सामलीअ पढमं पसूअमाणाए।
वल्लहवाएण अलं मम त्ति बहुसो भणन्तीए।।२३।।
[हासितो जन: श्यामया प्रथमं प्रसूयमानया।
वल्लभवादेनालं ममेति बहुशो भणन्त्या।।]
श्यामला परिभाषितरूपसौन्दर्यशालिनी वरस्त्री। वल्लभसमागमेनैव प्रसवदु:खोपल-म्भात् वल्लभवादेन प्रियतमस्य वर्णनेन। वल्लभस्य नामग्रहणेनापि मम अलम्, नास्ति प्रयोजनमिति बहुश: कथयन्त्येव अखिलान् जनान्हासयति, पुन: प्रियतमसमागमादेतस्य वचनस्य स्फुटमेव हासहेतुत्वात्। सहजसुकुमाराङ्गी श्यामा प्रथमप्रसववेदनाकुलतया तथा तत्कालं प्रियसमागमं प्रत्याख्याति तथा तवापि वचनमिदमिति भाव:। मूले कर्मवाच्यस्यापि इह कर्तृवाच्यत्वं बन्धानुकूल्येन सारल्येन च।
आगमने विलम्बेन प्रेम्ण: कृत्रिमतामाशङ्क्य प्रियतमनिमित्तमुत्ताम्यन्ती प्रोषितभर्तृका निजाश्वासनपरां मातुलानीं सनिर्वेदमाह-
कैतवरहितं मातुलि नास्त्येव प्रेम मानुषे लोके।
अथ भवति कस्य विरहो विरहे वा भवति जीवति क:।।२४।।१
येषां निर्मायं प्रेम भवति, तेषु कस्य विरहो भवति? न कस्यापीत्यर्थ:। अन्योन्यानुराग-मात्रजीवितयो: क्षणमदर्शनमप्यसहमानयो: कथं वा विरह: स्वेच्छया स्यादिति भाव:। दैववशाद्विरहे भवति जायमाने वा को जीवति? न कोऽपीत्यर्थ:। तद्विरहेऽप्यहं जीवामि, सोऽपि च मामपहायान्यत्र तिष्ठति, इति प्रेम्णो निष्कैतवत्वमविश्वसनीयमिति भाव:। 'मानुषे लोके’ इत्यनेन एवंविधस्य प्रणयस्य लोकोत्तरता सूचिता।
कामिनीजनमनोहरणार्थमात्मन: कामुकतातिशयं ख्यापयन् रसिकताभिमानी कश्चिद् भुजङ्ग: कस्याश्चन कुलसरोजदृश: स्नानसमयेऽङ्गप्रक्षालनार्थं वस्त्रपरिवर्तनार्थमुद्घाटित-सुन्दरावयवदर्शनेनात्मन: परितोषमेवमाह-
आश्चर्यमिव च निधिरिव दिवि राज्यमिवालममृतपानमिव।
आसीन्मुहूर्तमिव नस्तद्विवसनदर्शनं तस्या:।।२५।।२
१. कैअवरहिअं पेम्मं णत्थि व्विअ मामि माणुसे लोए।
अह होइ कस्म विरहो विरहे होत्तम्मि को जिअइ।।२४।।
[कैतवरहितं प्रेम नास्त्येव मातुलानि मानुषे लोके।
अथ भवति कस्य विरहो विरहे भवति को जीवति।।]
२. अच्छेरं व णिहिं विअ सग्गे रज्जं व अमअपाणं व।
आसि म्ह तं महुत्तं विणिअंसणदंसणं तीए।।२५।।
[आश्चर्यमिव निधिमिव स्वर्गे राज्यमिवामृतपानमिव।
आसीदस्माकं तन्मुहूर्तं विनिवसनदर्शनं तस्या:।।]
न: अस्माकं तस्या: सुन्दर्या: तद्विवसनदर्शनं तादृशं विवसनं दर्शनम्। विवस्त्रायास्तस्या अवलोकनमिति वाऽर्थ:। इह अस्मिन् लोके। आश्चर्यमिव लोकोत्तरत्वादद्भुतमिव। परमसुखक-रत्वान्निधिरिव। प्राकृते लिङ्गविभक्त्यादेर्नियमाभावात् 'णिहिं व’ [निधिमिव] इति प्रयुक्तम्। अलौकिकभूमिकास्पर्शात् निधीश्वरत्वलाभाद्वा दिवि स्वर्गे राज्यमिव। मदनहुतवहक्लान्तसकल-शरीरनिर्वृतिजनकत्वात् निरतिशयतृप्तिकारकत्वात् विलीनानामपि मनोभावानामुज्जीवनाच्च अलं पर्याप्तम् अमृतपानमिव आसीत्। एतादृशभावुकोऽपि भवती: कामयत इत्यहो भवतीनां सौभाग्यमिति शृण्वत्कामिनीभ्यो ध्वन्यते।
सपत्न्यां द्वेषम्, आत्मनि चानुरागमुत्पादयितुं काचिन्निपुणा नायिकान्तरासक्तमस्थिरप्रेमाणं नायकमेवमाह-
सा ते प्रिया, त्वमसि मे, तस्या द्वेष्यस्त्वमस्यहं ते च।
बाल! स्फुटं भणाम: प्रेमेदं बहुविकारमिति।।२६।।१
या त्वयि नानुरज्यति सा ते प्रियास्ति। त्वं मे प्रियोऽसीति लिङ्गविपरिणामेनान्वय:। अन्यनायके दत्तचित्तायास्तस्यास्त्वं द्वेष्योऽसि। अहं च ते, द्वेष्याऽस्मीति विपरिणामेनानुषङ्ग:। [अत एव] बाल! उचितानभिज्ञतया नितान्तमप्रौढ! इदं प्रेम बहुविकारम्, प्रकृतिभेदानुसारेण बहुप्रकारमिति स्पष्टं कथयाम इत्यर्थ:। अनुरक्तां मां विहाय तस्यामननुरक्तायां तव प्रणय: कियद्रसोचित:, अहं च त्वां तथापि तयैव स्नेहदृशा पश्यामीति प्रेमचरितं त्वमेव प्रौढ्या विचारयेति व्यङ्ग्योऽर्थ:।
कान्तस्य नितान्तमनुरागमात्मनश्च सौभाग्यं लज्जाशीलतां च सूचयन्ती काचित्सत्स्वा-धीनभर्तृका पादयोरलक्तकं विन्यस्यन्तीं प्रसाधिकामाह-v
एषाहं लज्जालु: प्रेमाण्युन्मत्सराणि किल तस्य।
आलीगणोऽपि निपुणोऽपगच्छ किं पादरागेण।।२७।।२v
१. सा तुज्झ वल्लहा तं सि मज्झ वेसो सि तीअ तुज्झ अहम्।
बालअ फुडं भणामो पेम्मं किर बहुविआरं त्ति।।२६।।
[सा तव वल्लभा त्वमसि मम द्वेष्योऽसि तस्यास्तवाहम्।
बालक स्फुटं भणाम: प्रेम किल बहुविकारमिति।।]
२. अहअं लज्जालुइणी तस्स अ उम्मचछराइँ पेम्माइं।
सहिआअणो वि णिउणो अलाहि किं पाअराएण।।२७।।
[अहं लज्जालुस्तस्य चोन्मत्सराणि प्रेमाणि।
सखीजनोऽपि निपुणोऽपगच्छ किं पादरागेण।।]
तस्य मद्दयितस्य प्रेमाणि उन्मत्सराणि स्वल्पस्यापि सङ्गमविघ्रस्याऽसहनतया उत्कटानि सन्ति। सखीगणोऽपि निपुण: किञ्चिच्चिह्नमात्रेण सर्वं रहस्यं जानातीत्यर्थ:। 'अलाहि’ शब्दो निवारणे। अत: अपेहीत्यर्थ:। चरणयोररुणिम्नः: स्वत:सिद्धतया पादरागेण किं प्रयोजनमित्यर्थ:। लाक्षारसे पादयोर्विन्यस्तेऽपि स्वल्पमपि सङ्गमविघ्नमसहमानो दयितस्तादृशीमेव सङ्गमकेलौ मां व्यापारयिष्यति, ततश्च प्रियस्योदरादिषु चरणचिह्नोदयेन सखीजन: सर्वमिदमवगत्य मां लज्जयिष्यति, अहं च लज्जाशीलास्मीति किं मुधानेन पादरागेणेत्याशय:। ''उन्मत्सराण्युद्भटानि। उदरालक्तकादिष्वव्याजप्रवृत्तानीत्यर्थ:’’ इति तु दुर्बोधेव गङ्गाधरटीका।
अरण्ये दत्तसङ्केता सा तिष्ठति। त्वरितमिमामनुसरेति सूचयन्ती दूती जारं प्रत्याह-
मधुमासमारुताहतमधुकरझङ्कारनिर्भरेऽरण्ये।
गायति विरहाक्षरकृतपथिकमनोमोहनं गोपी।।२८।।१
मधुमासमारुतेन आहते, मधुकरझङ्कारेण पूरिते अरण्ये। विरहसूचकैरक्षरै: कृतं पथिकानां मनोमोहनं यथा भवति तथा गोपी गायति। मधुकरझङ्कारसहकारेण गीतेर्मधुरगभीरनादिता पवनेन तद्विजृम्भणं च ध्वन्यते। अत एव पथिकमनोमोहकत्वमिति भाव:। अस्मद्वनितानामप्येवं विरहवेदना भविष्यतीति चिन्तया पथिकानां मनोमोहो भवतीति तात्पर्यार्थ:। मलयमारुताद्युद्दीपन-सामग्रीसहिते विपिने भावमयगीतिभिर्विरहवेदनां विनोदयन्ती सा त्वत्प्रतीक्षया तिष्ठति। उदासीना: पथिका अपि तद्विरहेण द्रवन्ति। तत्त्वरितमिमामानन्दयेति ध्वन्यते। गृहगमनाय पथिकान्तरं त्वरयितुं पथिकस्योक्तिरिति कश्चित्।
अतिभूमिं गतो मान: कदाचिद्दयितस्यासह्योऽपि भवतीति काञ्चिन्मानविषये शिक्षयन्ती सखी कस्याश्चन कलहान्तरिताया वृत्तान्तमुपवर्णयति-
मानधनयाऽनुबद्धस्तया तथा मान एवमेव भृशम्।
प्रोषित एकग्रामेऽप्यनुनीय यथा प्रियस्तस्या:।।२९।।२
१. महुमासमारुआहअमहुअरझंकारणिब्भरे रण्णे।
गाअइ विरहक्खरॉबद्धपहिअमणमोहणं गोवी।।२८।।
[मधुमासमारुताहतमधुकरझङ्कारनिर्भरेऽरण्ये।
गायति विरहाक्षराबद्धपथिकमनोमोहनं गोपी।।]
२. तह माणो भाणधणाएँ तीअ एमेअ दूरमणुबद्धो।
जह से अणुणीअ पिओ एक्कग्गाम व्विअ पउत्थो।।२९।।
[तथा मानो मानधनया तया एवमेव दूरमनुबद्ध:।
यथा तस्य अनुनीय प्रिय एकग्राम एव प्रोषित:।।]
मान एव धनं यस्या: सा मानधना तया एवमेव कारणं विनैव मान: तथा तेन प्रकारेण भृशं दूरमनुबद्ध:, यथा तस्या: प्रिय: अनुनीय एकग्रामेऽपि प्रोषितोऽभूदित्यर्थ:। एकग्रामे विद्यमानस्यापि प्रियादर्शनाभावात्प्रवास एवेति भाव:। तथा च सामान्यकारणे तावानेव मान: प्रशस्यते यावान्नासौ दयितस्यासह्यो भवेदिति सूच्यते। ''निष्कारणमानग्रहनिन्दाच्छलेन दूती जारस्यागमनावसरमाह’’ इति गङ्गाधरटीकाऽवतरणम्।
विदग्धवनिता: प्रियतमस्य परवनितासक्तिं चतुरचेष्टयैव निवारयन्ति न पुन: कलहैरिति वैदग्ध्यं शिक्षयन्ती काचित्सखीं प्रति मधुरमाह-
सालोक एव सूर्ये गृहभर्तुरनिच्छतोऽपि गृहिणीयम्।
पश्य गृहीत्वा धावति पादौ हसतो हसन्त्येव।।३०।।१
सूर्ये आलोकसहिते एव। सूर्यप्रकाशसत्तायामेवेत्यर्थ:। इयं गृहिणी। गृहिणीपदेन गृहभारसञ्चालकतया गृहकार्यविशृङ्खलतोत्पादके कलहे विमुखत्वं सूच्यते। अन्यवनितागतचि-त्ततया अनिच्छतोऽपि। चातुर्येण गृह एवावस्थितिं साधयन्त्या: गृहिण्या: वैदग्ध्यमालोक्य दाक्षिण्येन हसतो गृहस्वामिन: पादौ गृहीत्वा। विदिताभिप्रायस्य दयितस्य हास्यं हास्येनैवोत्तरयन्ती न तु वाचा। धावति प्रक्षालयति इति त्वं पश्य साधु समीक्षस्वेत्यर्थ:। गृहोपवेशनसमये पादौ प्रक्षालनीयाविति सतामाचार:। असमय एव पादप्रक्षालनादन्यत्र गमननिषेधे चतुरगृहिण्यास्तात्प-र्यमवगत्य हसतो गृहस्वामिन: पादौ गृहिणी 'मदभिप्रायो दयितेन विदित:’ इति हसन्ती सती प्रक्षालयतीति भाव:। गृहिणीनां दयितेषु परासक्तिनिवारणस्य सेयं पद्धतिरिति सखीं प्रति ध्वन्यते। अभित: सोद्भेद: [प्रकाश:] सोऽयं भावालङ्कार इति सरस्वतीकण्ठाभरणम्। स्वाधीन-पतिकोदाहरणेऽपि सेयं कण्ठाभरणे गृहीता (५परि.)। मूले 'घरिणी घरसामिअस्स घेत्तूण’ इत्यादिर्दूरान्वयश्छायापद्ये निवारित:।
अधिकासक्तिवशात्सपत्नीनाम्ना व्यवहरन्तं कान्तं प्रति 'प्रत्यक्षोपस्थितामपि नेमां पश्यसि’ इति गोत्रस्खलितकुपितां निजसखीं निवारयन्तीं वाग्विदग्धा काचन सगूढोपालम्भमाह-
१. सालोए व्विअ सूरे घरिणी धरसामिअस्स घेत्तूण।
णेच्छन्तस्स वि पाए धुअइ हसन्ती हसन्तस्स।।३०।।
[सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा।
अनिच्छतोऽपि पादौ धावति हसन्ती हसत:।।]
सख्यो मां व्याहरतां तस्य गोत्रेण किमिह भणितेन।
मा भणत किमप्येनं यतस्ततोऽप्यस्तु सुस्थिरप्रेमा।।३१।।१
हे सख्य:! तस्या गोत्रेण (नाम्ना) मां व्याहरतां व्यवहरतु। अत्र स्थूलव्यवहारसूचकेन कथनेन किम्। एनम् अनुरक्तामपि मां विहाय अन्यत्र कृतासक्तिकम्, किमपि मा कथयत। यतस्ततोऽपि यस्यां कस्याञ्चन नायिकायामेष सुस्थिरप्रेमा भवतु। पूर्वमयं मयि सुदृढमनुरज्यति स्म, तत: शीघ्रमेव मामपहाय अन्यस्यामासक्तिं बबन्ध, या हि सम्प्रति निरन्तरमेतस्याऽऽन्तरमधिवसति। वाचि निहितसपत्नीगोत्र: सोऽयं तत्रैव स्थिरप्राय: स्यादेतदेवाऽस्तु, परं नास्य प्रेम्ण: स्थिरतेति भाव:। एवमस्थिरप्रणये त्वयि किं वोपालम्भवचनैरिति दयितं प्रति ध्वन्यते।
दयितविरहावकाशमुपलभ्य निजवाञ्छितं साधयितुमिच्छन्तीं दुष्टदूतीं प्रतिनिवर्तयन्ती काचित्साध्वी प्रोषितभर्तृका दयितेऽनुरागातिशयमेवमाह-
स्थितमक्ष्णोस्तद्रूपं स्पर्शो ह्यङ्गेषु जल्पितं श्रवसो: (कर्णे)।
हृदयं हृदये निहतं वियोजितं किमिह दैवेन।।३२।।२
तमेव निरन्तरं भावयन्त्या ममाक्ष्णोस्तस्य रूपं स्थितम्। अङ्गेषु (तदङ्गानाम्) स्पर्श: स्थित इत्यादिलिङ्गविपरिणामेन योजनीयम्। रूपम्, सौकुमार्यम्, प्रियवचनानि, सद्भाववर्तनानि च यथाक्रमं भावयन्त्या मम विरहवेदना न समुदेतीति भाव:। 'अत्र दैवेन किं वियोजितम्’ इत्यनेन दैवमपि दयितेन सह मम वियोगं साधयितुं न प्राभवत्। प्रियेण सहाऽविश्वासोपदेशकानि तव वचनानि तु कानीति दूतीं प्रति ध्वन्यते।
प्रोषितभर्तृकाया: सखी तत्कान्तसमीपगामिनं पान्थं प्रति निजसख्या: सुविषमां विरहवेदनां गृहागमनाय त्वरयितुमेवमुपवर्णयति-
१. वाहरउ मं सहीओ तिस्सा गोत्तेण किं त्थ भणिएण।
थिरपेम्मा होउ जहिं तहिं पि मा किं पि णं भणह।।३१।।
[व्याहरतु मां सख्यस्तस्या गोत्रेण किमत्र भणितेन।
स्थिरप्रेमा भवतु यत्र तत्रापि मा किमप्येनं भणत।।]
२. रूअं अच्छीसु ठिअं फरिसो अङ्गेसु जम्पिअं कण्णे।
हिअअं हिअए णिहिअं विओइअं किं त्थ देव्वेण।।३२।।
[रूपमक्ष्णो: स्थितं स्पर्शोऽङ्गेषु जल्पितं कर्णे।
हृदयं हृदये निहितं वियोजितं किमत्र दैवेन।।]
शयने निमीलिताक्ष्या कृत्वा चिन्तामयं प्रियं तावत्।
प्रशिथिलवलयाभ्यामुपगूढो ह्यात्मैव बाहुभ्याम्।।३३।।१
भावनासमुपस्थितदयितसमागमनेनानन्दातिशयात् निमीलितनेत्रया अनया मत्सख्या शयने शयनीये भावनामयं दयितं कृत्वा कल्पयित्वा। विरहदौर्बल्यात्प्रशिथिलवलयाभ्यां बाहुभ्याम् आत्मैव उपगूढ:। दयितभावनया स्वशरीरमेवालिङ्गितमिति भाव:। 'आलिङ्गित:’ इत्याद्यनुक्त्वा 'उपगूढ:’ इत्यत्र 'गुह’ धातुरूपप्रकृत्या विरहोत्तरं दयितलाभेनोत्कण्ठातिशयान्न पुनरपसरेदिति हृदयैकीकरणरूपं सुदृढं परिरम्भणमभिव्यज्यते। तद्यावदियं दशमीं दशां न प्रयाति तावदेव लघुतरमनुकम्पस्वेति तद्दयितं प्रति समीहितं सूच्यते।
प्रणयकलहेन दूरमवस्थितयोर्यूनो: समञ्जसकरणाय गतागतखिन्ना दूती द्वयोरपि मानशमनार्थमात्मनिन्दामाह-
परिभूतेनाऽपि दिनं गृहं गृहं भ्रामिणाऽन्यकार्येण (अन्नकार्येण)।
चिरजीवितेन सपदि क्षपिता: स्मोऽनेन दग्धकायेन (काकेन)।।३४।।२
रोषकटुवचनै: परिभूतेन तिरस्कृतेन। दिनं समस्तदिनपर्यन्तम् अन्यकार्येण परप्रयोजन-सिद्ध्यर्थम्। युवयो: प्रणयकलहनिवृत्त्यर्थमिति भाव:। गृहं गृहं प्रति भ्रमणशीलेन। चिरजीवितेन बहो: कालादेवंविधजीवनयापकेन वृद्धेन अनेन दग्धकायेन सपदि अधुना क्षपिता: स्म: उद्वेजिता: स्म:। प्राकृते 'अण्णकज्जम्मि’ 'दड्ढकाएण’ इति पदाभ्यां 'अन्नकार्येण’ 'दग्धकाकेन’ इत्यपि बुध्येते। ततश्च पक्षान्तरे- लोष्टप्रक्षेपादिना परिभूतेन। अन्नकार्येण अन्नप्राप्त्यर्थं समस्तदिनं यावत् प्रतिगृहं भ्रमता, चिरजीवितेन दीर्घायुषा ['स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलि:’
१. सअणे चिन्तामइअं काऊण पिअं णिमीलिअच्छीए।
अप्पाणो उवऊढो पसिठिलवलआहिँ बाहाहिं।।३३।।
[शयने चिन्तामयं कृत्वा प्रियं निमीलिताक्ष्या।
आत्मा उपगूढ: प्रशिथिलवलयाभ्यां बहुभ्याम्।।]
२. परिहूएण वि दिअहं घरघरभमिरेण अण्णकज्जम्मि।
चिरजीविएण इमिणा खविअह्मो दड्ढकाएण।।३४।।
[परिभूतेनापि दिवसं गृहगृहभ्रमणशीलेनाऽन्यकार्ये।
चिरजीवितेनाऽनेन क्षपिता: स्मो दग्धकायेन।।]
इत्यमर:] काकहतकेन दध्याद्युपघाताद्युपद्रवादुद्विग्ना: स्म:, इत्यर्थ: प्रतीयते। 'अण्णकज्जम्मि’ 'दड्ढकाएण’ इत्यादिशब्दशक्तिमूलध्वनिना 'अहं युवयो: प्रसादनाय गृहाद् गृहं परिभ्रमन्ती काकस्येव तिरस्क्रियामनुभवामि, युवां नैतद्विचारयथस्तदात्मनो मम च क्लेशमात्रदायकेनाऽनेेन हठहतकेन सम्प्रति किं वा फलम्’ इत्यर्थ: प्रकाश्यते।
दुर्जनसविधे न रहस्यं प्रकाशनीयमिति शिक्षयन्कश्चित्सहचरमाह-
यत्रैव पोष्यमाणो वसति खल: स्नेहदानेन।
दीपक इवाचिरेणाऽऽलयं तमेवैष मलिनयति।।३५।।१
स्नेहपूर्वकमाश्रयदानेन, स्नेहस्य प्रणयस्य दानेन वा। पोष्यमाण: संवध्र्यमानो दुर्जन: यत्रैव वसति यदाश्रयेणैव वसतीत्यर्थ:। एष खलस्तमेवालयमाश्रयभूतं जनमचिरेणैव पोषणदशायामेव मलिनयति अपवादप्रचारणादिना दूषयतीत्यर्थ:। पक्षे-तैलदानेन दीप्यमानो दीपक: स्वाश्रयभूमिभागमचिरेणैव कज्जलादिभिर्मलिनयतीत्यर्थो बोध्य:। तथा चैवंविधविश्वास-वञ्चकेभ्य: सुतरामवधेयमिति भाव:। 'सिणेहदाणेहिं’ इति मूलपदाङ्केन बहुत्वाग्रहे तु 'स्नेहदानैर्हि’ इति पाठ्यम्।
गृहायातं कञ्चन भुजङ्गं बहुधनदानाय प्रोत्साहयन्ती कुट्टनी कृपणनिन्दामुपन्यस्यति-
भवति कृपणपुरुषस्य प्रभवन्त्यपि निष्फलैव धनवृद्धि:।
ग्रीष्मातपसन्तप्तस्य निजच्छायेव पथिकस्य।।३६।।२
प्रकर्षेण भवन्त्यपि, प्रभूतेत्यर्थ:। यथा पथिकस्य स्वीया छाया नात्मनो नापि वा परस्य सन्तापं हरति तथा कृपणस्य धनमिति भाव:। आतपसन्तप्तस्यापि यथा स्वच्छायया न सुखोपलब्धिस्तथा स्वधनेनापि न तस्य सुखमित्याशय:। छायोपमया छायावत्सर्वदा धनेन साकं सहभावेऽपि तत्कृत: सुखाभावो ध्वन्यते। पथिश्रान्ततया अनातपं वाञ्छन्नपि स्वच्छायया
१. वसइ जहिं चेअ खलो पोसिज्जन्तो सिणेहदाणेहिं।
तं चेअ आलअं दीअओ व्व अइरेण मइलेइ।।३५।।
[वसति यत्रैव खल: पोष्यमाण: स्नेहदानै:।
तमेवालयं दीपक इवाचिरेण मलिनयति।।]
२. होन्ती वि विप्फलच्चिअ धणरिद्धी होई किविणपुरिसस्स।
गिह्माअवसंतत्तस्स णिअअछाहि व्व पहिअस्स।।३६।।
[भवन्त्यपि निष्फलैव धनऋद्भिर्भवति कृपणपुरुषस्य।
ग्रीष्मातपसन्तप्तस्य निजकच्छायेव पथिकस्य।।]
सौख्यमलब्ध्वैव पथिको यथा यात्रां समापयति, तथा कृपण: आवश्यकत्वेऽपि धनसौख्यमल-भमान एव जीवनयात्रां कष्टं समापयतीति पथिकपदेन ध्वन्यते।
स्त्रीणां वामनेत्रस्फुरणं शुभशकुनसूचकमित्याकलय्य स्फुरितवामनेत्रा प्रोषितपतिका प्रियतमागमनपरितोषेण वामनयनमेवमामन्त्रयते-
स्फुरिते वामाक्षि! त्वयि यद्येष्यति स प्रियोऽद्य तत्सुचिरम्।
सम्मील्य दक्षिणं तत्प्रेक्षिष्येऽहं त्वयैवैतम्।।३७।।१
हे वामनेत्र! त्वयि स्फुरिते विदेशगत: स प्रियो यदि अद्यैष्यति तत् तर्हि दक्षिणं तत् (नयनम्) निमील्य तदागमनसम्वाददायकेन त्वयैव एतं प्रियं सुचिरं प्रेक्षिष्ये। अन्यत्र सर्वत्र कृतसमादरमपि दक्षिणं नयनं निमील्य कृतज्ञताबुद्ध्या त्वामेवैकं प्रियतमदर्शनेन कृतार्थयिष्या-मीति भाव:।
कामुकान्तरसम्भोगभयं प्रदर्श्य कयाचिन्नायिकया सह कञ्चन नायकं संयोजयितुकामा दूती तस्या अनुरागातिशयमाह-v
शुनकप्रचुरे ग्रामे भ्राम्यन्ती तव कृतेन सा बाला।
पाशकशारीव गृहं गृहेण खादिष्यते कदाऽप्यङ्ग।।३८।।२
शुनकप्रचुरे सारमेयबहुले ग्रामे तव कृतेन भवद्दर्शनार्थं पाशकशारीव चतुष्पटीगुटिकेव ('चौपड़कीऽसार’)। द्यूतगुटिका यथा द्यूतपट्टस्य प्रतिगेहं भ्राम्यति तथा गृहेण गृहं भ्राम्यन्ती सा बाला। 'अङ्ग’ इति सम्बोधने, हे भद्र! कदापि कस्मिंश्च लोकानामनवधानसमये खादिष्यते शुनकैर्भक्षयिष्यते। ततश्च शुनकप्रायकामुकबहुले ग्रामे भ्राम्यन्ती सैषा नवयौवना यावदन्येन
१. फुरिए वामच्छि तुए जइ एहिइ सो पिओ ज्ज ता सुइरम्।
संमीलिअ दाहिणअं तुइ अवि एहं पलोइस्सम्।।३७।।
[स्फुरिते वामाक्षि त्वयि यद्येष्यति स प्रियोऽद्य तत्सुचिरम्।
सम्मील्य दक्षिणं त्वयैवैतं प्रेक्षिष्ये।।]
२. सुणअपउरम्मि गामे हिण्डन्ती तुह कएण सा बाला।
पासअसारिव्व घरं घरेण कइआ वि खज्जिहिइ।।३८।।
[शुनकप्रचुरे ग्रामे हिण्डमाना तव कृतेन सा बाला।
पाशकशारीव गृहं गृहेण कदापि खादिष्यते।।]
नोपभुज्यते तावदेव त्वय्यनुरक्ता सेयं द्रुतमनुकम्पनीयेति कामुकं प्रति व्यज्यते। शुनकपदेन 'त्वदग्रे अन्ये कामुका: शुनका इव दृश्यन्ते’ इति दूत्युपदर्शित: कामुके बहुमानातिशय: सूचित:। 'सारी’ इति दन्त्यपाठस्थापने 'पाशयुक्ता सारीव सारिकेव खादिष्यते’ इत्यर्थोऽपीति केचित्।
यस्मिन्यूनि त्वं बद्धानुरागा स किल चञ्चलप्रणय इति कथयन्तीं सखीं नायिका निजसौभाग्यं साभिमानमाह-
कुसुमरसमन्यमन्यं मधुकर इच्छति स यत्पातुम्।
दोष: स नीरसानां कुसुमानां नैव मधुपस्य।।३९।।१
अन्यम् अन्यं नानाविधं कुसुमरसमित्यर्थ:। एकत्र निजेच्छानुरूपस्य मधुनोऽलाभादेव यथा मधुकरो नानाकुसुमेषु भ्रमति, तद्वदयमपि इच्छानुकूलां नायिकामलभमान एव नैकत्र स्थिरतां लभते। मामुपलभ्य यथामनोरथं रसमुपभुञ्जानस्याऽस्य यथा चाञ्चल्यं शाम्यति तादृक्सौभाग्यं मे भवतीभिर्द्रक्ष्यत इति व्यज्यते। 'मधुप’ पदेन मधुपानं तस्य स्वभावस्ततश्च नीरसेषु तदलाभे को दोषस्तस्य। एवमेव रसिकस्याऽस्य न दोष:, प्रत्युत रसमार्गमजानतीनां नारीणामेव इति सूच्यते।
मन्द्रस्नेहं नायकं नायिकया सङ्घटयितुं दूती तस्या: प्रणयातिशयमाह-
रथ्याप्रकीर्णनयनोत्पलोपयन्तं प्रतीक्षते सा त्वाम्।
द्वारधृताभ्यां मङ्गलकलााभ्यामिव कुचाभ्यां हि।।४०।।२
स्वागतनिमित्तं रथ्यायां प्रकीर्णे प्रसारिते नयने एवोत्पले यया [अभीष्टस्यागमने चरणन्यासार्थं पथि वरवम् ('पगपाँवडा’) आस्त्रियते इत्याचार:] पूजार्थं रथ्यायां
१. अण्णण्णं कुसुमरसं जं किर सो महइ महुअरो पाउम्।
तं णीरसाणँ दोसो कुसुमाणं णेअ भरस्स।।३९।।
[अन्यमन्यं कुसुमरसं यत्किल स इच्छति मधुकर: पातुम्।
तन्नीरसानां दोष: कुसुमानां नैव भ्रमरस्य।।]
२. रत्थापइण्णणअणुप्पला तुमं सा पडिच्छए एन्तम्।
दारणिहिएहिँ दोहिँ वि मङ्गलकलसेहिँ व थणेहिं।।४०।।
[रथ्याप्रकीर्णनयनोत्पला त्वां सा प्रतीक्षते आयान्तम्।
द्वारनिहिताभ्यां द्वाभ्यामपि मङ्गलकलशाभ्यामिव स्तनाभ्याम्।।]
निहितनयनोत्पला वा। द्वारधृताभ्यां मङ्गलकलशाभ्यामिव स्तनाभ्याम् (उपलक्षिता) सती उपनयन्तम् आगच्छन्तं त्वां प्रतीक्षते। आगच्छन्तं प्रतीक्षते इत्युक्त्या 'भवान् मार्गे आगच्छतीव’ इति दिवानिशं भवदनुध्यानादुत्कण्ठातिशयस्तस्या दूत्या सूच्यते। अथवा-त्वदाह्वानाय मां सम्प्रेष्य भवदनुरागे सुदृढविश्वासा सा त्वां प्रतीक्षते इति। 'तुमं सा पडिच्छए एन्तम्’ इति स्थाने 'तुमं पुत्ति कं पलोएसि’ इति क्वचित्पुस्तके पाठो दृश्यते। 'त्वं पुत्रि कं प्रलोकयसि’ इति तस्याऽर्थ:। तत्रेत्थं व्याख्या- रथ्यावलोकन-द्वारस्थिति-स्तनप्रदर्शनै: कलितशीलखण्डनां कुलवधूं प्रति आह- रत्थेति। अयं भाव:- नयनोत्पलाभ्यां कृतरथ्यापूजा द्वारि कलशाविव स्तनौ निधाय यस्य वर्त्म प्रतीक्षसे तं कथय मया तदानयने यत्नो विधेय इति गङ्गाधरटीका।
अगृहीतानुनयां कलहान्तरितां विमुच्य रोषविलक्षतया तिष्ठन्तं नायकं पुनरनुनयाय प्ररोचयितुं दूती तस्या: परितापमाह-
रुदितं तावद्यावद्रुद्येत क्षीणमङ्गमपि तावत्।
नि:श्वसितं च वराक्या तावत्प्रभवन्ति यावदुच्छ्वासा:।।४१।।१
वराक्या दयनीया तया यावद्रुद्येत रोदितुं शक्येत तावद् रुदितम्। रुद्येत इति सम्भावनार्थ-कलिङा यतोऽधिकं रोदनं न सम्भवति तावद्रुदितमित्यतिशयो द्योत्यते। अङ्गमपि तावत्क्षीणं यावत्क्षेतुं शक्येत इति पूर्वानुषङ्गेणार्थ:। यावन्नि:श्वासा: प्रभवन्ति तावन्नि:श्वसितम्। त्वदवधी-रणेन रुदन्त्यास्तस्यास्तथा क्षीणमङ्गं यथेदानीं श्वसितुमपि न सामर्थ्यम्। तदिदानीं भवदुपेक्षया म्रियमाणामिमामनुनयेनानुकम्पस्वेति दूत्याभिव्यज्यते।
कस्याञ्चन नायिकायां शृण्वन्त्यामुपरतदयिताविरहविह्वलमात्मानमनुशोचन्कश्चिदात्मन: स्थिरस्नेहतासूचनेन तां प्ररोचयितुमाह-
समसुखदु:खसमितयो रूढप्रेम्णोस्ततस्तु कालेन।
दम्पत्योर्म्रियते यो जीविति सोऽन्यो मृतो भवति।।४२।।२
१. ता रुण्णं जा रुव्वइ ता छीणं जाव छिज्जए अङ्गम्।
ता णीससिअँ वराइअ जाव अ सासा पहुप्पन्ति।।४१।।
[तावद्रुदितं यावद्रुद्यते तावत्क्षीणं यावत्क्षीयतेऽङ्गम्।
तावन्नि:श्वसितं वराक्या यावत् [च] श्वासा: प्रभवन्ति।।]
२. समसोक्खदुक्खपरिवड्ढिआणँ कालेण रूढपेम्माणम्।
मिहुणाणँ मरइ जं तं खु जिअइ इअरं मुअं होइ।।४२।।
[समसौख्यदु:खपरिवर्धितयो: कालेन रूढप्रेम्णो:।
मिथुनयोर्म्रियते यत्तत्खलु जीवति इतरन्मृतं भवति।।]
समाभ्यामुभयो: साधारणाभ्यां सुखदु:खाभ्यां समितयोरेकीभूतयो:। सुखदु:खावस्था-यामेकीभूय परिवर्धितयोरिति भाव:। तत: क्रमेण गच्छता कालेन दृढप्रणययोर्दम्पत्योर्मध्ये य: (जाया पतिर्वा) म्रियते स जीवति। अन्यस्तादृशवियोगदु:खान्मृतो भवति। विरहदु:खदग्धादीदृ-शाज्जीवितान्मरणमेव वरमिति भाव:। प्राकृते 'मिथुन’ शब्द: समुदायवाचकोऽपि लक्षणया प्रत्येकं पत्यौ जायायां च प्रयुक्त:, गङ्गाधरेण तु संस्कृतच्छायायामपि तथैव गृहीत:। मत्कृतच्छा-यायां तु दम्पतीशब्दप्रयोगान्न तादृशक्लेश:। ईदृशे दृढप्रेमणि मयि चेदनुरज्यसि, तर्हि पश्य कीदृक्त्वामनुवर्ते इति शृण्वन्तीं प्रति द्योत्यते।
वसन्ते प्रियप्रवासश्रवणेन समधिकविह्वलां कुलवतीमाश्वासयन्ती चतुरा काचित्सखी ससान्त्वनमाह-
पुत्रि प्रस्थानकलशमुखनिहित: प्रथममञ्जरीसहित:।
नवचूतपल्लवोऽयं हर्ता गमनं प्रियस्य, मा रोदी:।।४३।।१
आश्वासनीयतया वात्सल्यपात्रतया वा अयि पुत्रितुल्ये! शकुनच्छलेन मया प्रस्थानकलशमुखे स्थापित:। वसन्तकालोद्भिन्नप्रथममञ्जरीसहित: अयम् अभिनवरसालकिसलय: प्रियस्य प्रस्थानं हर्ता हरिष्यति, अत एव मा रोदीरित्यर्थ:। वसन्तागमनलक्षणं विलोक्य रसिक: प्रिय: स्वयमेव गमनं परिहरिष्यतीति भाव:। 'हर्ता’ इति अनद्यतनभविष्यत्कालवाचकेन लुटा 'अद्य न चेत्तर्हि श्व: अवश्यं विरहदु:खभावनया वसन्ते प्रस्थानं परिहरिष्यति’ इति सूच्यते। मूले 'पत्त्थाणकलसमुह-संठिओ गमणम्’ इति पदद्वयं क्रियाया: सुदूरं स्थितम् मत्कृतच्छायायां तु न तादृश: क्लेश:।
'सखीभिर्दृढमानाय भृशं प्रतिबोधितापि किमिति विनैवानुनयं मानममुच:’ इति पृष्टा काचिच्चतुरा सपरिहासमाह-
कथमपि सखीभिरिह यश्छिद्रं लब्ध्वा प्रवेशितो हृदि मे।
दृष्टे प्रेयसि नष्ट: स हि मानश्चौरकामीव।।४४।।२
१. हरिहिइ पिअस्स णवचूअपल्लवो पढममञ्जरिसणाहो।
मा रुवसु पुत्ति पत्थाणकलसमुहसंठिओ गमणम्।।४३।।
[हरिष्यति प्रियस्य गवचूतपल्ल्व: प्रथममञ्जरीसनाथ:।
मा रोदी: पुत्रि प्रस्थानकलशमुखसंस्थितो गमनम्।।]
२. जो कहँ वि मह सहीहिं छिद्दं लहिऊण पेसिओ हिअए।
सो माणो चोरिअकामुअ व्व दिट्ठे पिए णट्ठो।।४४।।
[य: कथमपि मम सखीभिश्छिद्रं लब्ध्वा प्रवेशितो हृदये।
स मानश्चोरकामुक इव दृष्टे प्रिये नष्ट:।।]
प्रणयकलहरूपं छिद्रम् अवसरं लब्ध्वा यो मान: सखीभिर्मम हृदये बलात्सञ्चारित: न तु मया स्वीकृत इति भाव:। स मानश्चौर्येणागतो जार इव प्रिये दृष्टे सति नष्ट: पलायित:। प्रियदर्शनाभावदशायामेव मानो हृदयेऽवकाशं लभते, सति तु प्रियदर्शने स स्वत एवापसरतीति कुत्रानुनयावसर: इति प्रियऽनुरागातिशय: सूचित:। 'अनुनयार्थमागतं कान्तं दृष्ट्वा कलहान्तरि-तात्मनोऽनुरागं सूचयन्त्याह’ इति गङ्गाधरावतरणम्। अनुनयात्पूर्वमेव मानपलायने कथं कलहान्तरितात्वमिति विचारणीयमेव।
कुसुम्भावचयव्याजेन गताया: सपत्न्या: शीलखण्डनं जातमिति सूचयितुं काचित्सपत्नी सोत्प्रासमाह-
आलीभिरुच्यमाना स्तने विलग्नं कुसुम्भपुष्पमिति।
नखरपदान्यपनुदती मुग्धवधूर्हस्यते नाम।।४५।।१
कामशाचतुरेण नायकेन स्तनकुड्मलाग्रे निहितं 'शशप्लुतम्’ दृष्ट्वा स्तने कुसुम्भपुष्पं लग्नमिति आलिभिरुच्यमाना मुग्धवधू: नखपदानि अपनुदती अपनयन्ती हस्यते। मुग्धवधूरिति सोल्लुण्ठनमुपालम्भवचनम्। 'ईदृशी सेयं मुग्धा या किल प्रियदत्तं नखक्षतमपि न परिजानाति। अवश्यमियं मुग्धा या किल कुसुम्भवाटिकायां नायकस्य कामशाप्रयोगपट्टिकाऽभूदिति’ सापत्न्यमभिव्यज्यते। 'शशप्लुतं पञ्च नखव्रणानि सान्द्राणि तच्चूचुकचिह्नमाहु:’ इति कामशाम्।
काप्यात्मन: सुदृढानुरागं प्रदर्श्य मन्दस्नेहं नायकमभिमुखीकर्तुं मरणभयमभि-व्यञ्जयन्त्याह-
उन्मथयन्तीवान्तरमिमानि रे तव विरज्यमानस्य।
अवधीरणसुविसंष्ठुलविवलन्नयनार्द्धदृष्टानि।।४६।।२
१. सहिआहिँ भण्णमाणा थणए लग्गं कुसुम्भपुप्फं त्ति।
मुद्धबहुआ हसिज्जइ पप्फोडन्ती णहवआइं।।४५।।
[सखीभिर्भण्यमाना स्तने लग्नं कुसुम्भपुष्पमिति।
मुग्धवधूर्हस्यते प्रस्फोटयन्ती नखपदानि।।]
२. उम्मूलेन्ति व हिअअं इमाइँ रे तुह विरज्जमाणस्स।
अवहीँरणवसविसंठुलवलन्तणअणद्धदिट्ठाइं।।४६।।
[उन्मूलयन्तीव हृदयं इमानि रे तव विरज्यमानस्य।
अवधीरणवशविसंष्ठुलवलन्नयनार्धदृष्टानि।।]
रेशब्द: साक्षेपसम्बोधने। सुदृढानुरागायां मयि विरज्यमानस्य तव अवधीरणवशेन सुविसंष्ठुलम् अत्यन्तमबद्धलक्ष्यं यथा भवति तथा विवलत् परावर्तमानं नयनार्धं येषु, एतादृशानि इमानि प्रत्यक्षमनुभूयमानानि दृष्टानि अवलोकनानि मम अन्तरं हृदयमुन्मूलयन्तीव। विरागस्तु तव दूरे, विरागसूचकेनावलोकनेनाप्युन्मूलितहृदयाऽहं मरणोन्मुखी भवामीति गूढं सूचितम्। इमानीत्युक्त्या 'पश्य! प्रत्यक्षमेव मयि त्वं विरागं प्रकाशयसि, अहं च तव तादृशमवलोकन-मात्रमपि न सोढुं क्षमा’ इत्यनुरागातिशयोऽभिव्यञ्जित:। 'रे’ इति सम्बोधनेन 'त्वत्प्रेमाधीन-जीवितामपि मां न सम्यक्परिचिनोषि’ इतीर्ष्याभिव्यज्यते।
बहुवल्लभतया विरलदर्शनं नायकं काचिदात्मनो विरहविकलतामेवमाह-
न रुदन्ति हन्त न कृशा भवन्ति नोज्झन्ति दीर्घनि:श्वासान्।
धन्यास्ता: किल यासां बहुवल्लभ! वल्लभो न त्वम्।।४७।।१
वह्वयो वल्लभा यस्य तत्सम्बोधनम्। यासां किल त्वं वल्लभो न, [केवलं त्वमेवानुरागं प्रकाशयसि न ता इत्यर्थ:] रोदनादिदु:खानभिज्ञतया ता एव धन्या:। अस्माभिस्तु त्वयि निहितानुरागाभि: सर्वमिदमनुभूयत इति भाव:। तथा च 'बहुवल्लभोऽपि त्वमेव विचारय, बह्वीषु वल्लभासु कास्त्वय्यनुरज्यन्ति? मादृशीषु च तव विरहरौक्ष्यं कियदुचितम्’ इति निपुणमभिव्यज्यते। कामबाधया वाच्याऽप्रस्तुतप्रशंसायां माने विरुद्धमित्यत्र चोदाहृता सेयं गाथा सरस्वतीकण्ठाभरणे।
प्रात: शयनागारतो निर्गच्छन्त्या: प्रियाया: परिवृत्त्याऽवलोकनवर्णनेन स्वसौभाग्यं प्रथयन्नायक आह-
निद्रालसपरिघूर्णत्तिर्यग्वलदर्द्धतारकालोका:।
दुर्विषहा: शशिमुख्या दृष्टिनिपाता: स्मरस्यापि।।४८।।२
१. ण मुअन्ति दीहसासं ण रुअन्ति चिरं ण होन्ति किसिआओ।
धण्णाओॅ ताओॅ जाणं बहुवल्लह वल्लहो ण तुमम्।।४७।।
[न मुञ्चन्ति दीर्घश्वासान्न रुदन्ति चिरं न भवन्ति कृशा:।
धन्यास्ता यासां बहुवल्लभ वल्लभो न त्वम्।।]
२. णिद्दालसपरिघुम्मिरतंसवलन्तद्धतारआलोआ।
कामस्स वि दुव्विसहा दिट्ठिणिवाआ ससिमुहीए।।४८।।
[निद्रालसपरिघूर्णनशीलतिर्यग्वलदर्धतारकालोका:।
कामस्यापि दुर्विषहा दृष्टिनिपाता: शशिमुख्या:।।]
सुरतजारगान्निद्रालस:, अत एव परिघूर्णन् परिभ्राम्यन्, अनुरागातिशयात्तिर्यग्वलन् अर्द्धतारकाऽऽलोको येषु तादृशा: शशिवदनाया दृष्टिप्रपञ्चा: कामस्यापि दुर्विषहा धैर्यच्युतिं कुर्वन्ति, किं पुनरस्मादृशानां कामातुराणामिति भाव:। स्मर: सर्वान्मोहयति परं तद्दृष्टिस्तमपि वशीकरोतीत्यतिशयो व्यज्यते। रात्रिं साधु रममाणे मयि सा विधुवदना प्रातस्तथाविधमनुरागमनोहरं दृष्टिनिपातबहुमानां प्रादादिति स्वसौभाग्यसूचनं चरमं व्यङ्ग्यम्। निद्राव्यभिचारिण उदाहरणे परिगृहीता सेयं गाथा सरस्वतीकण्ठाभरणे भोजेन। (५ परि.)।
चिरप्रोषितनिजप्रियागमने निराशतां प्रदर्शयन्ती काचित् शृण्वन्तं जारं प्रत्यनुरागं हृदयोपालम्भव्याजेनाभिसूचयति-
प्रेम्णो मया कथञ्चिद्दुर्दोली जीवशेषया गमिता।
रे दग्धहृदया विरमेदानीं मा रज्य कुत्रापि।।४९।।१
प्रियविदेशगमने चिरकालद्विरहक्षीणतया जीवितशेषया प्राणमात्रावशेषया मया प्रेम्णो दुर्दोली तस्य (प्रियस्य) मम च प्रणयस्य परस्परानुबन्धेनातिदुर्मोच्यो ग्रन्थि: कथञ्चित् कथं कथमपि [इदानीमागमिष्यतीति प्रत्याशया, सखीजनसान्त्वनेन, आत्मवधपातकभयाद्वा] गमिता निर्वाहिता। पाशानामन्योऽन्यबन्धेन दृढीकृतो दुर्मोच्यो ग्रन्थिर्दुर्दोलीत्युच्यते। 'गमिता’ इति भूतकालिक- 'क्तेन’ एतावत्कालं प्रेमबन्धो निर्वाह्य समापित:, नाधुना निर्वोढुं शक्यत इति प्रियागमने नैराश्यं सौभाग्यं दृढानुरागिता चात्मनोऽभिव्यज्यते। प्रेमबन्धे तादृशविरहदाहमनुभूयापि पुरन्यत्रानुरत्यसीति सनिर्वेदमाह- 'रे’ दग्धहृदय! पुन: पुनर्विरहवेदनाभिमुखगामित्वादभिक्रोशनीय! इदानीं विरम। प्रेमबन्धादुपरमस्व, कुत्रापि मा रज्य।’ अननुरक्तस्य निषेधायोगात् शृण्वन्तं जारं प्रत्यनुराग: प्रेमबन्धे मम कीदृग्दार्ढ्यमिति प्ररोचना च सूच्यते।
काञ्चिन्नायिकां प्रति नायकमभिमुखीकर्तुं चतुरा दूती तस्या नखक्षतावलोकनकौतुकमाह-
आर्याया नवनखपदनिरीक्षणे गुरुकयौवनोत्तुङ्गम्।
प्रतिमागतनिजनयनोत्पलार्चितं भवति कुचपृष्ठम्।।५०।।२
१. जीविअसेसाइ मए गमिहा कहँ कहँ वि पेम्मदुद्दोली।
एह्णिं विरमसु रे डड्ढहिअअ मा रज्जसु कहिं पि।।४९।।
[जीवितशेषया मया गमिता कथं कथमपि प्रेमदुर्दोली।
इदानीं विरम रे दग्धहृदय मा रज्यस्व कुत्रापि।।]
२. अज्जाएँ णवणहक्खअणिरीक्खणे गरुअजोव्वणुत्तुङ्गम्।
पडिमागअणिअणअणुप्पलच्चिअं होइ थणवट्ठम्।।५०।।
[आर्याया नवनखक्षतनिरीक्षणे गुरुकयौवनोत्तुङ्गम्।
प्रतिमागतनिजनयनोत्पलार्चितं भवति स्तनपृष्ठम्।।]
गुरुकं च यौवनेनोत्तुङ्ग च आर्याया वरस्त्रिया: स्तनपृष्ठं स्तनोपरितनो भाग:। वदन-मण्डलमवनाम्य नवनखक्षतनिरीक्षणसमये। प्रतिमया प्रतिबिम्बरूपेण गते ये नयनोत्पले ताभ्याम-र्चितमिव भवति। पूर्णयौवनामेतादृशीं सुन्दरीमन्यैरुपभुज्यमानां सहस इति कामुकं प्रत्याकूतम्। प्रथमानुरागानन्तरं नखक्षतमित्युदाहृता सेयं गाथा कण्ठाभरणे (५ परि.)।
स्त्रीषु नाधिकमनुरज्यन्तं नायकमभिमुखयितुं विपरीतरतानभिज्ञां नायिकां च तत्र शिक्षयितुं काचिद्दूती भगवत: श्रीकृष्णस्य लक्ष्म्याश्च कामकलासेवनपाटवं नमस्कारव्याजेनाह-
तं नमत यस्य वक्षसि लक्ष्मीमुखं कौस्तुभेऽभिसङ्क्रान्तम्।
मृगहीनं शशिबिम्बं विलोक्यते सूर्यबिम्ब इव।।५१।।१
विपरीतरतावस्थायां यस्य वक्षसि कौस्तुभे मणौ अभिसङ्क्रान्तं प्रतिबिम्बितं लक्ष्मीमुखं सूर्यबिम्बेऽनुसङ्क्रान्तं मृगपरिहीनं निष्कलङ्कं शशिबिम्बमिव दृश्यते, तं नमतेत्यर्थ:। भगवन्तौ लक्ष्मीनारायणावपि परस्परप्रेमानुबन्धसुन्दरं बन्धविशेषबन्धुरं च सुरतसुखमुपभुञ्जाते, किमन्ये संसारिण इति नायकौ प्रति स्वाकूतमभिसूच्यते।v
प्रियतमानुनयपराङ्मुखीं कलहान्तरितां प्रौढा दूती प्रियानुनयार्थमाह-
मा प्रतिपक्षसुखं कुरु दयितमनुनय प्रसादलोभयुतम्।
अतिनीतगुरुकमानाद्राशिरिव क्षीयसे पुत्रि।।५२।।२
वात्सल्यभाजनत्वेन हे पुत्रि! प्रतिपक्षस्य सपत्नीजनस्य अवसरदानेन सुखं मा कुरु। किं वा युवयो: कलहदर्शनेन ईर्ष्याशील: प्रतिपक्षजनो मोदते, अत एव तस्य मनोऽनुकूलं मा कुरु। प्रसादलोलुपं प्रियमनुनय। त्वत्कृतानुनयप्रतीक्षी सोऽयं त्वदनुनयेन भृशं वशंवद: स्यादिति भाव:। अतिनीतात् अतिगृहीतात् गुरुकान्मानाद् राशिरिव क्षीयसे। अतिभूमिं नीतेन मानेन हृदयदा-हात्साम्प्रतमेव क्षीणा भवसि, भविष्यति तु का कथेति भाव:। मूलानुरोधेन भविष्यदर्थ एव
१. तं णमह जस्स वच्छे लच्छिमुहं कोत्थहम्मि संकन्तम्।
दीसइ मअपरिहीणं ससिबिम्बं सूरबिम्ब व्व।।५१।।
[तं नमत यस्य वक्षसि लक्ष्मीमुखं कौस्तुभे सङ्क्रान्तम्।
दृश्यते मृगपरिहीनं शशिबिम्बं सूर्यबिम्ब इव।।]
२. मा कुण पडिवक्खसुहं अणुणेहि पिअं पसाअलोहिल्लम्।
अइगहिअगरुअमाणेण पुत्ति रासि व्व छिञ्जिहिसि।।५२।।
[मा कुरु प्रतिपक्षसुखमनुनय प्रियं प्रसादलोभयुतम्।
अतिगृहीतगुरुकमानेन पुत्रि राशिरिव क्षीणा भविष्यसि।।]
चेदिष्टस्तर्हि 'क्षेष्यसि हे पुत्रि राशिरिव’ पाठ: कार्य:। मानपदं श्लिष्टम्। तथा च गृहीतेन अतिगुरुणा मानेन द्रोणाढकादिपरिमाणेन यथा माषादिराशि: क्षीयते, तोलने सति न्यूनीभवति तथेत्यर्थ:। यदि परिमाणं [परिमीयते अनेन, लोहनिर्मितं परिमाणसाधनम् 'बाट’] गुरु (अधिकं महत्) भवेत्तर्हि राशेर्मानं न्यूनं भवत्येवेति भाव:। ''माषादिराशिरुपरि पाषाणादिना नियन्त्रितो यथा क्षीयते’’ इति त्वस्फुटार्थेव गङ्गाधरटीका। एष मानी त्वत्कृतानुनयलुब्धो न त्वामनुनेष्यति, तदेतद्विचारयस्वेति तां प्रति सूच्यते।
नायिकाया विरहवेदनामावेद्य तत्सङ्गमाय त्वरयन्ती दूती तत्कान्तमाह-
तस्या हृदये दु:सहवियोगकरपत्र्त्रपाट्यमाने हि।
प्रतिभाति वाष्पसलिलं कज्जलमलिनं प्रमाणसूत्रमिव।।५३।।१
दु:सहविरहरूपेण करपत्र्त्रेण क्रकचेन विदार्यमाणे तस्या हृदये कज्जलेन श्यामं प्रवहत् नयनसलिलं विपाटनधाराया: सामञ्जस्यार्थं कृतं प्रमाणसूत्रमिव प्रतिभाति। वृक्षस्कन्धा-वपाटका: क्रकचधारासारल्यार्थं कृष्णं मानसूत्रं पूर्वं विन्यस्यन्तीति व्यवहार:। प्राकृते पूर्वनिपाता-नियमाद्दु:सहपदं विरहकरपत्र्त्रादुत्तरं प्रयुक्तम्, मत्कृतच्छायायां तु न तथा नियमभङ्ग। विरहिण्या: कञ्जलसमासञ्जनं तु नायकानुरागदार्ढ्येन 'इदानीमायात एव’ इति विश्रम्भमूलकमुत्कण्ठाति-शयमभिव्यनक्तीति बोद्ध्यम्। तथा च भवदागमनदृढविश्वासेन सज्जा सेयं चिराद्विरहवेदना-व्याकुलिता सम्प्रति सत्वरमेवानुकम्पनीयेति ध्वन्यते।
कस्याश्चन विदग्धनायिकाया: कृते परमोत्कण्ठितं नायकं निषेधमुखेनाधिकं प्ररोचयन्ती वय:प्रौढा दूती सचातुर्यमाह-
दुर्निक्षेपकमेतत्पुत्रक मा साहसं कार्षी:।
अत्र निहितानि मन्ये हृदयानि पुनर्न लभ्यन्ते।।५४।।२
१. विरहकरवत्तदूसहफालिज्जन्तम्मि तीअ हिअअम्मि।
अंसू कज्जलमइलं पमाणसुत्तं व्व पडिहाइ।।५३।।
[विरहकरपत्र्त्रदु:सहपाट्यमाने तस्या हृदये।
अश्रु कज्जलमलिनं प्रमाणसूत्रमिव प्रतिभाति।।]
२. दुण्णिक्खेवअमेअं पुत्तअ मा साहसं करिज्जासु।
एत्थ णिहिताइँ मण्णे हिअआइँ पुणो ण लब्भन्ति।।५४।।
[दुर्निक्षेपकमेतत्पुत्रक मा साहसं करिष्यसि।
अत्र निहितानि मन्ये हृदयानि पुनर्न लभ्यन्ते।।]
आत्मनो वचने विश्वासार्थं स्नेहत: सम्बोधयति- हे पुत्रक। तस्या: सविधे हृदयनिक्षेप-रूपमेतत्साहसं मा कार्षी: मा करिष्यसि। प्राकृते माङ्योगे लुङ्लकारनियमाभावेन 'करिज्जासु’ प्रयुक्तम्। यत: एतद्दुर्निक्षेपकम्, यो निक्षेप: (न्यास:) पुनर्न लभ्यते, लोके स दुर्निक्षेप इति व्यवह्रियते। अत्र अस्यां रूपचातुर्यादिशालिन्यां नायिकायां न्यासीकृतानि हृदयानि पुनर्न लभ्यन्ते। अन्यासु नायिकासु दत्तं हृदयं कदाचन प्रेमरूपद्रव्यस्य परावर्तने परावर्ततेऽपि। विदग्धायामस्यां तु न तदाशेति वैदग्ध्यं सुदृढप्रेमत्वं च ध्वन्यते। हृदयानीति बहुवचनेन 'परमविदग्धा बहवोऽपि यदि मानसान्यात्मन: समर्पयेयुस्तर्हि तेऽपि वशंवदा भवेयु:, किं पुनस्त्वमेव’ इति आकर्षकता-तिशयो ध्वन्यते। साहसपदेन 'एवंविधया दुर्लभया वामया प्रेमकल्पना साहसमात्रम्’ इति प्ररोचनातिशयो व्यज्यते। तथाच 'रूपलावण्यवैदग्ध्यादिभि: परममनोहरा सेयमवश्यमनुसर्तव्या इति वाच्येऽपि निषेधे विधिरूपेण व्यज्यते।
रतावसाने मौग्ध्येन शून्यं स्थिताया नायिकाया: सुरतादपरितोषमाकलय्य विलक्षणं नायकं तस्याश्चिररततादोषनिवृत्त्यर्थं दूती बोधयति-
निर्वृत्तरतापि वधू: सुरतविरामस्थितिं न जानन्ती।
अविरतहृदयाऽन्यदपि च किञ्चिदिहास्तीति चिन्तयति।।५५।।१
सञ्जातसुरतसुखापि मुग्धतया सुरतविरतौ या स्थितिस्तां न जानन्ती वधूस्त्वदनुरागवशेन अविरतं अविश्रान्तं हृदयं यस्या ईदृशी सती, इह अस्मिन्समारम्भे अन्यदपि किञ्चिदस्तीति चिन्तयतीत्यर्थ:। तथा च सेयं त्वत्प्रेमवशंवदा मौग्ध्यादेव तवान्यविधसुखलालसया निभृतं स्थिता, नाऽपरितोषेणेति भाव:। एतेन तवेच्छानुपालनतत्परा मुग्धा त्वत्समागमसुखिता च सेयमिति दूत्या द्योत्यते।।
विटजनं प्रोत्साहयितुं कुट्टनी वेश्याप्रेमप्रशंसामवतारयति-
नन्दन्तु सुरतसुखरसतृष्णाऽपहराणि सकललोकस्य।
वेश्यानां प्रेमाणि हि बहुकैतवमार्गरचितानि।।५६।।२
१. णिव्वुत्तरआ वि वहू सुरअविरामट्ठिइं अआणन्ती।
अविरअहिअआ अण्णं पि किं पि अत्थि त्ति चिन्तेइ।।५५।।
[निर्वृत्तरतापि वधू: सुरतविरामस्थितिमजानती।
अविरतहृदयान्यदपि किमप्यस्तीति चिन्तयति।।]
२. णन्दन्तु सुरअसुहरसतह्णावहराइँ सअललोअस्स।
बहुकैअवमग्गविणिम्मिआइँ वेसाणँ पेम्माइं।।५६।।
[नन्दन्तु सुरतसुखरसतृष्णापहराणि सकललोकस्य।
बहुकैतवमार्गविनिर्मितानि वेश्यानां प्रेमाणि।।]
नानाविधस्वभावस्य उत्तममध्यमाधमरूपस्य वा सकललोकस्य सुरते य: सुखरसस्तत्र या तृष्णा अपरितृप्ति: तदपहारकाणि। गृहस्त्रीषु यद्विधसुरतवितृष्णा न परिशाम्यति साप्यत्र निवर्तत इति विशेष: सूच्यते। तथा च यथाभिलषितसम्पादकानीति फलितम्। तथा बहुभि: कैतवमार्गै: हसितशुष्करुदितचाटुप्रभृतिभिविनिर्मितानि। प्रेममार्गे एवंविधैर्हावविशेषै: परमरोचकता भवतीति सूचितम्ं। एवंविधानि वेश्यानां प्रेमाणि नन्दन्तु, लाभसत्कारादिभि रसिकानामभिनन्दनीयानि भवन्त्वित्यर्थ:। क्वचित् 'सुरतसरभसतृष्णापहराणि’ इति पाठो दृश्यते। तत्र सुरते सरभसानि च तानि तृष्णापहाराणि चेति कर्मधारय:। गृहयोषासु लज्जापारतन्त्र्येण सरभसता दुर्लभेति तत्र विशेष:। कुट्टनीविटादिवक्तृबोद्धव्यवशात्प्रशंसापरापि सेयं सूक्ति:- 'सुरतमुखतृष्णाया: अस्वाभाविकमार्गैर्बलक्षयात् अपहारकाणि, बहुकपटमार्गनिचितत्वाद्वैमुख्य-सम्पादकानि वेश्याप्रेमाणि तादृशानामेव कृते नन्दन्तु’ इति तत्त्वतो विचारे निन्दामपि सूचयतीति गाथाग्रन्थितुश्चातुर्यं समीक्षणीयं सहृदयै:।
किमिति कृशासीति नायकेन सहासं पृष्टा विरहोत्कण्ठिता रुचिरं तमुत्तरयति-
अप्राप्तमन्युदु:ख: कृशेति पृच्छसि हसन्किं माम्।
प्राप्स्यसि यदि चलचित्तं प्रियं जनं तव तदा वदिष्यामि।।५७।।१v
न प्राप्तं मन्युकृतं दु:खं येन तादृशस्त्वम्। प्रियापराधजनितश्चित्तक्षोभो मन्यु:। 'मन्युर्दैन्ये क्रतौ क्रुधि’ इत्यमर:। परदु:खानभिज्ञतया हसन् सन् कृोशेति मां किं पृच्छसि। हसन्नित्यनेन 'तव प्रेम वेदनानभिज्ञत्वान्न हार्दिकम्’ इति सूच्यते। यदि चलचित्तं प्रियं जनं प्राप्स्यसि तदा तव वदिष्यामि, एतस्योत्तरं दास्यामीत्यर्थ:। इदानीं कथितेऽपि न ते प्रत्ययो भविष्यति। तवास्थिरस्नेहत्वादेव ममेयं दशा। तथापि मामेव निरनुक्रोशो हसन्पृच्छसि, अहो ते हार्दिकं प्रेमेति सोपालम्भमभिव्यनक्ति।
चिरादुपगतं जारं तत्प्रेमणि सोढबहुसङ्कटा विरहोत्कण्ठिता सनिर्वेदमाह-
१. अप्पत्तमण्णुदुक्खो किं मं किसिअत्ति पुच्छसि हसन्तो।
पावसि जइ चलचित्तं पिअं जणं ता तुह कहिस्सम्।।५७।।
[अप्राप्तमन्युदु:ख: किं मां कृशेति पृच्छसि हसन्।
प्राप्स्यसि यदि चलचित्तं प्रियं जनं तदा तव कथयिष्यामि।।]
येषां कृतेन रमितोऽस्यपहस्त्य सखीजनस्य गदितानि।
एतानि तानि सौख्यानि संशयो यैर्हि जीवस्य।।५८।।१
हस्ताभ्यां निरस्यतीति हस्तयते 'णिङङ्गान्निरसने’ इति णिङ्। अपपूर्वात्ततो-ल्यप्। सखीजनजल्पितानि अपहस्त्य बलान्निरस्येत्यर्थ:। येषां सङ्गमसौख्यानां कृतेन त्वं रमितोऽसि, एतानि तानि सौख्यानि सन्ति, यैर्हि जीवितस्य संशय उपस्थित इत्यर्थ:। त्वं नावधत्से परं त्वद्विरहेण मम जीवितमेव सन्दिग्धं सुखं तु तावद्दूरे। तथा च समागमसुखाशावलम्बनाहं त्वद्विरहं सोढुमक्षमेति स्पष्टमभिव्यज्यते। 'अपहस्तयित्वा’ इति गङ्गाधरटीकापाठस्तु च्युतसंस्कृति:। 'कृते न’ इति पदविच्छेदोऽपि कैश्चन कृत: प्रकृतार्थविरोधी। रमणाभावे निर्वेदस्यानुदयात्।
मधूकनिकुञ्जे दत्तसङ्केतं जारं प्रतिवेशिन्यालापव्याजेन दूती संकेतस्थानान्तरं सूचयितु-माह-
ईर्ष्यालु: पतिरस्या दत्ते निशि नो मधूकमुच्चेतुम्।
उच्चिनुते स्वयमेव हि मातर्ऋ जुकस्वभावोऽयम्।।५९।।२
रात्रौ तां मधूकमुच्चेतुं न ददाति। हे मात:! सरलस्वभाव: अयं स्वयमेव उच्चिनुते इति योजना। गृहे जायमानस्य जारसमागमस्याज्ञानादृजुस्वभावत्वम्। तथा च 'मधूकानिकुञ्जे न गन्तव्यं किन्तु तस्या गृहमेव विश्रब्धं गच्छ’ इति जारं प्रति ध्वन्यते। 'स्वयमेव’ इत्येवकारेण 'अन्यस्य सहायकस्य सहाऽनुपादानान्मधूकावचयकार्यान्न शीघ्रं गृहे प्रत्यागमनम्।’ अत एव विश्रब्धतापि जारं प्रति व्यज्यते।
१. अवहत्थिऊण सहिजम्पिआइँ जाणं कएण रमिओसि।
एआइँ ताइँ सोक्खाइँ संसओ जेहिँ जीअस्स।।५८।।
[अपहस्तयित्वा सखीजल्पितानि येषां कृते न रमितोऽसि।
एतानि तानि सौख्यानि संशयो यैर्जीवस्य।।]
२. ईसालुओ पई से रत्तिं महुअं ण देइ उच्चेउम्।
उच्चेइ अप्पण च्चिअ माए अइउज्जुअसुहाओ।।५९।।
[ईर्ष्याशील: पतिस्तस्या रात्रौ मधूकं न ददात्युच्चेतुम्।
उच्चिनोत्यात्मनैव मातरतिऋ जुकस्वभाव:।।]v
अनुनयमगृहीत्वा घृतं च वस्त्राञ्चलं बलादाकृष्य साभिमानं गच्छन्तीं नायिकां नायक-श्चाटुपुरस्सरमाह-
रभसावकृष्टवसनार्द्धान्तप्रसृते! व्रज त्वमामन्दम्।
मध्यस्यापि न भङ्गं स्तनभारायासितस्य चिन्तयसि।।६०।।१
रभसात् बलादाकृष्टं वसनार्द्धान्तं वस्त्राञ्चलो यया सा चासौ प्रसृता (प्रस्थिता) चेति कर्मधारय: तत्सम्बुद्धौ। अनुनयाऽस्वीकारान्ममाऽनुरोधभङ्गस्तु तावदास्तां दूरे, परं क्षिप्रगमनेन स्तनभारायासितस्य मध्यस्यापि भङ्गं न विचारयसि। अहो मुग्धतया ते परिणामानभिज्ञतेति भाव:। अनेन मध्ययातिलघुत्वं नायिकायाश्च सौकुमार्यमभिव्यज्य चाटुद्वारा मानमोचनचेष्टाचातुर्यं व्यज्यते।।
द्वयोर्युगपदनुरागाङ्कुरणेन मनोभवविजृम्भितं शोभत इति पथिकप्रपापालिकयोर्वृत्तान्त-मवतारयति नागरिक:-
चिरमूर्ध्वाक्षोऽम्बु पिबति यथा यथा हि विरलाङ्गुलि: पथिक:।
तनुमपि तनयति धारां तथा तथा सा प्रपापाली।।६१।।२
पिपासापगमेऽपि जलपानव्याजेन प्रपापालिकामुखावलोकनकौतुकादूर्ध्वाक्ष: पथिको यथा यथा जलनिर्गलनाय विरलाङ्गुलि: सच्छिद्राङ्गुलि: सन् चिरम् अम्बु जलं पिबति तथा तथा तन्मुखावलोकनार्थं तनुं सूक्ष्मामपि धारां सा प्रपापाली तनयति तनूकरोति। 'तत्करोति तदाचष्टे’ इति तनुशब्दाण्णिच्। यथा स मुखावलोकनार्थं जलपानं केवलमभिनयति, न तु
१. अच्छोडिअवत्थद्धन्तपत्थिए मन्थरं तुमं वच्च।
चिन्तेसि थणहराआसिअस्स मज्झस्स वि ण भङ्गम्।।६०।।
[बलादाकृष्टवस्त्रार्धान्तप्रस्थिते मन्थरं त्वं व्रज।
चिन्तयसि स्तनभरायासितस्य मध्यस्यापि न भङ्गम्।।]
२. उद्धच्छो पिअइ जलं जह जह विरलङ्गुली चिरं पहिओ।
पावालिआ वि तह तह धारं तणुइं पि तणुएइ।।६१।।
[ऊर्ध्वाक्ष: पिबति जलं यथा यथा विरलाङ्गुलिश्चिरं पथिक:।
प्रपापालिकापि तथा तथा धारां तनुकामपि तनूकरोति।।]
जलं पिबति, तथा सापि तदनुरोधं मन्वाना तन्मुखावलोकनकौतुकेन तनुमपि धारां पुनस्तनूकरोति न तु यथावज्जलं पाययति। तथा च द्वयोरेव कालविलम्बनेन परस्परमुखावलोकने तात्पर्यमव-गम्यते। एवं च द्वयोरेव परस्परमनुरागोऽभिव्यज्यते। यद्यस्मिन्पद्ये विरलाङ्गुलिता-धारातनूकरणादिना कालविलम्बो व्यङ्ग्य एवाभविष्यन्न तु 'चिरम्’ इति शब्दोपात्तस्तर्हि रुचिरमभविष्यत्। यथा अप्पयदीक्षितदत्तोदाहरणे-
'यथोर्ध्वाक्ष: पिबत्यम्बु पथिको विरलाङ्गुलि:।
तथा प्रपापालिकापि धारां वितनुते तनुम्।।’
यत्तु विरलाङ्गुलिकरणेन, मुखावलोकनमिच्छन्त्या: प्रपापालिकाया: पथिकेनोपकार: कृत:, एवं धारातनूकरणेन मुखावलोकनकौतुकिन:पथिकस्य प्रपापालिकयोपकार: कृत इत्यन्योन्यालङ्कार: साधयितुं वाञ्छितस्तदेतन्न सुन्दरम्। द्वयोरेव व्यापारे अन्यकर्तृकमुखावलोकन-साहाय्यसम्पादनरूपोपकारस्थापनेन शृङ्गारापरिपोषात्। स्वेच्छया मुखावलोकनविलम्बनमेव चमत्कारि, न तु स्वमुखावलोकनार्थमन्यस्य व्यापारे साहाय्यमित्यादि रसगङ्गाधरतोऽवगन्तव्यम्। प्रतीयमानाऽन्योन्यालङ्कारे सेयमुदाहृता गाथा कण्ठाभरणे भोजेन। (३ परि. २०)
श्वश्रूप्रभृतिभि: सुभृशमवेक्षितां कामपि नायिकामुपायान्तरेण प्राप्तुमसमर्थ: कोऽपि कामुको भिक्षाटनमिषेण तदीयगृहं प्रविष्ट:। सा च तमवलोक्य स्वयमेव भिक्षां दातुं गता। तदनन्तरं 'भिक्षादानाय गता वधू: किमिति चिरयति’ इति पृच्छन्तीं श्वश्रूं प्रति सपत्नी भिक्षाचरभिक्षादात्रोरनुरागचेष्टिमेवं वक्ति-
भिक्षाचरोऽनुपश्यति नाभितटं सापि तस्य मुखचन्द्रम्।
तच्चटुकं च करङ्कं द्वावपि काका विलुम्पन्ति।।६२।।१
अन्यजनावगमसाध्वसेन नीचीकृतनयनो भिक्षादातुर्नाभिमण्डलं शिथिलितवसनसन्धि-दृश्यमानमनुपश्यति प्रेक्षते। तथा च नायकदर्शनेन वसनश्लथीभावसूचितो भावोदयो व्यज्यते। तस्या: चटुकं भिक्षादानपात्रं दर्वीमिति यावत्। करङ्कं भिक्षाग्रहणपात्रं च। करङ्कपदं वंशादिनिर्मित-पात्रविशेषे प्रयुज्यते, यथा 'ताम्बूलकरङ्कवाहिनी’ इति बाण:। द्वावपि चटुककरङ्कौ काका विलुम्पन्ति तद्गतमन्नं खादन्तीति भाव:। परस्परदर्शनेन द्वयोरपि स्तम्भाख्यसात्त्विकोदयात् काकानां निर्भयत्वमिति भाव:।
१. भिच्छाअरो पेच्छइ णाहिमण्डलं सावि तस्स मुहअन्दम्।
तं चटुअं अ करङ्कं दोह्ण वि काआ विलुम्पन्ति।।६२।।
[भिक्षाचार: प्रेक्षते नाभिमण्डलं सापि तस्य मुखचन्द्रम्।
तच्चटुकं च करङ्कं द्वयोरपि काका विलुम्पन्ति।।]
पुन: पुन: कृतापराधं प्रियमनुनेतुं विप्रतिपद्यमानां कलहान्तरितां सखी समवबोधयति-
यं जीव्यते विना नोऽनुनीयते स हि कृतापराधोऽपि।
प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभो वह्नि:।।६३।।१
नगरदाहेन कृतापराधोऽपि वह्नि: कस्य न प्रिय:, अपि तु सर्वस्येत्यर्थ:। पाकाद्यर्थं तस्य सर्वैरेवोपादानात्। तथा च क्रधोपशमे सति दयितं विना त्वज्जीवितं संशयापन्नं स्यादिति नायकानुरागोऽभिव्यज्यते।
शृण्वन्तं विदग्धनायकं प्रत्यात्मनो वैदग्ध्यं सूचयितुं काचिद् ग्रामनिन्दाच्छलेनाह-
कस्य मुखमीक्ष्यतां वा कस्य सुखं कथ्यतां च दु:खं च।
केन समं वा पामरबहुले परिहस्यतां हतग्रामे।।६४।।२
पामरभूयिष्ठेऽस्मिन्ग्रामहतके केन सह वा हासपरिहासौ स्यातामित्यर्थ:। इङ्गितज्ञाभावेन मुखदर्शनादौ कटाक्षादेर्निष्फलत्वादिति भाव:। एवं च विदग्धस्त्वं यदि वैदग्ध्यमङ्गनासु मृगयसे तर्हि तदिहावलोकयेत्यत्माभिमुखीकरणमभिव्यज्यते।
भाविनीं मनोरथसिद्धिमनुचिन्त्यापि पराभिसारसंलग्नमानसा: सरोजदृश: प्रसीदन्तीति साधयितुं कृषकवध्वा रहस्यवेदी कश्चन नागरिक: सहचरमाह-
१. जेण विणा ण जिविज्जइ अणुणिज्जइ सो कआवराहो वि।
पत्ते वि णअरदाहे भण कस्स ण वल्लहो अग्गी।।६३।।
[येन विना न जीव्यतेऽनुनीयते स कृतापराधोऽपि।
प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्रि:।।]
२. वक्कं को पुलइज्जउ कस्स कहिज्जउ सुहं व दुक्खं वा।
केण समं व हसिज्जउ पामरपउरे हअग्गामे।।६४।।
[वक्त्रं क: प्रलोक्यतां कस्य कथ्यतां सुख वा दु:खं वा।
केन समं वा हस्यतां पामरप्रचुरे हतग्रामे।।]
कार्पासवप्रकर्षणदिनमङ्गलमधिहलं प्रकुर्वन्त्या:।
हृदि धृतमनोरथाया: करावसत्या हि थरथरायेते।।६५।।१
फलहीवाहणं कार्पासक्षेत्रकर्षणम्। कार्पासक्षेत्रकर्षणस्य शुभदिने यन्मङ्गलम् आलेपना-दिदानं तत् अधिहलं हलोपरि प्रकुर्वत्या:, हृदि धृतमनोरथाया: 'कार्पासगुल्मेषूत्पन्नेषु मयाऽस्मिन् क्षेत्रे रन्तव्यम्’ इति मनोरथं धारयन्त्या: असत्या: (कुलटाया:) कृषकवध्वा: हस्तौ थरथरायेते कम्पं प्राप्नुत:। 'पुंनपुंसकयोर्वप्र: केदार: क्षेत्रमस्त्रियाम्।’ इत्यमर:। सुरतसुखविचिन्त्या स्मरोदयात्कम्पोदय इति भाव:।
मायाविनो युक्त्या निजकार्यं साधयन्तीति सखीं शिक्षयन्तीं सखी धूर्तविचेष्टितमाह-
बहलतिमिरस्य पथिकच्छेदनशङ्काकुलाभिरसतीभि:।
आलेपनेन निभृतं वटस्य सिक्तानि पत्राणि।।६६।।२
घनपल्लवतया बहलतिमिरस्य अन्धकारबहलस्य अत एव सङ्केतस्थानभूतस्य वटस्य पत्राणि। भोजनकार्याद्युपयोगार्थम्, अन्धकारनिरासार्थं वा पथिकाश्छेत्स्यन्तीति शङ्कया आकुलाभि: कुलटाभि:, आलेपनेन पिष्टतण्डुलद्रवेण ('ऐपन’ इति व्रजभाषया) निभृतं सिक्तानि। अन्धकारप्रायेऽस्मिन् काकविष्ठाशङ्कया पान्था: पत्राणि न स्प्रक्ष्यन्तीति भाव:।
सङ्केतस्थानभूतस्य करञ्जस्य शाखा दन्तधावनार्थं भञ्जन्तं धार्मिकं सोपालम्भमाह-
स्वर्गामिनो नदीतटकरञ्जशाखा विभञ्जतोऽपि तव।
स्पृशतोऽद्यापि च पादौ तवधार्मिक धरणिमेव कथम्।।६७।।३
१. फलहीवाहणपुण्णाहमङ्गलं लङ्गले कुणन्तीए।
असईअ मणोरहगब्भिणीअ हत्था थरहरन्ति।।६५।।
[कार्पासीक्षेत्रकर्षणपुण्याहमङ्गलं लाङ्गले कुर्वत्या:।
असत्या मनोरथगर्भिण्या हस्तौ थरथरायेते।।]
२. पहिउल्लूरणसङ्काउलाहिँ असईहिँ बहलतिमिरस्स।
आइप्पणेण णिहुअं वडस्स सित्ताइँ पत्ताइं।।६६।।
[पथिकच्छेदनशङ्काकुलाभिरसतीभिर्बहलतिमिरस्य।
आलेपनेन निभृतं वटस्य सिक्तानि पत्राणि।।]
३. भञ्जन्तस्स वि तुह सग्गगामिणो णइकरञ्जसाहाओ।
पाआ अज्ज वि धम्मिअ तुह कहँ धरणिं विह छिवन्ति।।६७।।
[भञ्जतोऽपि तव स्वर्गगामिनो नदीकरञ्जशाखा:।
पादावद्यापि धार्मिक तव कथं धरणीमेव स्पृशत:।।]
अग्रपादिकयाऽवस्थितो दूरस्थितशाखाभङ्गं कुर्वन् नूनं क्रान्त्वैव स्वर्गं जिगमिषुरिव त्वं कथमद्यापि स्वर्गं न गतोऽसीति भाव:। एवंविधस्य ते स्वर्गप्रयाणमेव साधीय इति शब्दशक्त्युत्थापित आक्रोशोऽपि रसज्ञेभ्यो ध्वन्यत इत्यतिरोहितम्।
शृण्वन्तीं काञ्चिदन्यां नायिकां प्ररोचयितुमात्मन: सुदृढानुरागितां कामुकतां च प्रथयन्नागरिक: सहचरमाह-
प्रेयस्या मुखदर्शनमतिसुमहार्घं मनोहरं चास्तु।
दृष्टा झटिति सुखयते तद्ग्रामक्षेत्रसीमापि।।६८।।१
असहजलभ्यतया अतिसुमहार्घम्, यद्धि चेत: समर्पणेन लभ्यते, अत एव मनोहरं च प्रियाया दर्शनमस्तु तावत्। तत्तु दूरे इति भाव:। सा यत्र ग्रामे वसति तस्य ग्रामस्य यत्क्षेत्रं तस्य सीमापि दृष्टा सती झटिति सुखयतीत्यर्थ:। तथा चैवंविधसुदृढप्रेमाणं मां चेत्कामयसे तर्हि कथं न धन्यासीति नायिकां प्रत्यभिव्यज्यते।
प्रतिवेशिनो हलिकस्य मृतायामपि जायायां प्रेमातिशयं प्रशंसन्ती काचिन्मन्दस्नेहं नायकमभिमुखीकर्तुं सोत्प्रासमाह-
निष्कर्मणोऽपि शून्यात्क्षेत्राद्वसतिं न पामरो व्रजति।
मृतदयिताशून्यीकृत्गृहदु:खं परिहरन् हन्त।।६९।।२
मृता या दयिता प्रियजाया तया शून्यीकृतं यद् गृहं तत्र यत्प्रियाप्रणयस्मरणजं दु:खं तत्परिहरन् पामरो हलिक:। 'पामर’ पदेन पांसुलपादोऽपि प्रियाप्रेमानुवृत्तिमेवं निर्वहति त्वं तु चतुराभिमानीत्याक्षेप: सूच्यते। निष्कर्मण: कार्यरहितात् अत एव जनशून्यात्क्षेत्राद् वसतिं निजावासं गृहमिति यावत्, हन्त न व्रजति। 'वसति’ पदेन गृहमेव किं जनावासमेव स न
१. अच्छउ दाव मणहरं पिआइ मुहदंसणं अइमहग्घम्।
तग्गामछेत्तसीमा वि झत्ति दिट्ठा सुहावेइ।।६८।।
[अस्तु तावन्मनोहरं प्रियाया मुखदर्शनमतिमहार्घम्।
तद्ग्रामक्षेत्रसीमापि झटिति दृष्टा सुखयति।।]
२. णिक्कमाहिँ वि छेत्ताहिँ पामरो णेअ वच्चए वसइं।
मुअपिअजाआसुण्णइअगेहदु:क्खं परिहरन्तो।।६९।।
[निष्कर्मणोऽपि क्षेत्रात्पामरो नैव व्रजति वसतिम्।
मृतप्रियजायाशून्यीकृतगेहदु:खं परिहरन्।।]
वाञ्छति, यतस्तत्र स्त्रीणामवलोकनेन जायाया: स्मरणं तस्य भवतीत्यर्थ: सूच्यते। तथा च 'हालिकोऽपि प्रेमानुवृत्तिं निर्वहन् मृतभार्याप्रणयानुरोधेन गृहवासादरण्यनिवासमेव बहु मन्यते, त्वं तु विदग्धाभिमानी जीवितायामपि त्वच्छन्दानुवर्तिन्यां मयि मन्दस्नेह:’ इत्युपालम्भोऽभि-व्यज्यते।
प्रोषितपतिकाया: सखी सत्कान्तसमीपगामिनं पथिकमेवं सन्दिशिति-
झञ्झानिलोत्तृणीकृतगृहविवरप्रपतदम्बुधाराभ्य:।
कुड्यलिखितावधिदिनं रक्षत्यार्या करतलाभ्याम्।।७०।।१
आर्या साध्वी एषा झञ्झावातेन उत्तृणीकृतम् (उड्डायितान्याच्छादनतृणानि यस्य) यद् गृहं तस्य विवरात् प्रपतन्त्यो या: सलिलधारास्ताभ्य:। कुड्ये लिखितं यत्प्रवासस्यावधिदिनं तत्करतलाभ्यां रक्षति, करतलाभ्यामाच्छाद्य तं लेखं रक्षतीत्यर्थ:। जलधारातोनिजरक्षणापेक्षयाऽपि प्रियलिखितावधिदिनरक्षणं बहुमतमिति प्रेमोत्कर्षो ध्वन्यते। 'आर्या’ पदेन तन्नामाङ्कितं छन्दोऽपि सूचितमिति मुद्रालङ्कारोऽपि करतलोपनत:। तथा च 'भवल्लिखितमवधिदिवसं प्रतीक्षमाणैव एषा दीना कथञ्चित्कालं यापयति, तद्दिनातिक्रमे तु सुदुष्करं तस्या जीवनमिति’ प्रियं प्रत्यभिव्यज्यते। अत्र 'अम्बुधाराभि:’ इति तृतीया, करतलैरिति बहुवचनं च छायायामुपलभ्यमानं प्रमाद एव।
'संकेतस्थाने नायकस्त्वत्प्रतीक्षया कामपीडामनुभवन्नुत्ताम्यति’ इति नायिकाम् अन्यान् प्रति च तत्र गमने भयं सूचयन्ती दूती तावदन्यापदेशेनाह-
पत्राणि राजिकायाश्चर्वन् गोदानदीतीरे।
कपिरुत्पतति च कुरुते खोक्खरवं चोदरं च ताडयति।।७१।।२
१. झञ्झावाउत्तिण्णिअघरविवरपलोट्टसलिलधाराहिं।
कुड्डलिहिओहिदिअहं रक्खइ अज्जा करअलेहिं।।७०।।
[झञ्झावातोत्तृणीकृतगृहविवरप्रपतत्सलिलधाराभि:।
कुड्यलिखितावधिदिवसं रक्षत्यार्या करतलै:।।]
२. गोलाणइए कच्छे चक्खन्तो राइआइ पत्ताइं।
उप्पडइ मक्कडो खोक्खएइ पोट्टं अ पिट्टेइ।।७१।।
[गोदावरीनद्या: कच्छे चर्वयन्राजिकाया: पत्राणि।
उत्पतति मर्कट: खोक्खशब्दं करोत्युदरं च ताडयति।।]
राजिकाया: 'राई’ इति ख्याताया:। तत्पत्राणां तीव्रतया वदनदाहमनुभवन्वेदनया उत्पतति, तत्प्रतिचिकीर्षन्निव 'खोक्खो’ इति शब्दं करोति, अवशश्चाप्रभवन्नुदरं ताडयतीति कपिस्वभावोक्ति:। एतेन च 'भवत्प्रतीक्षया इतस्तत: पर्यटन् मुहुर्मुहुरुद्ग्रीविकया त्वां विलोकयँश्चपलस्वभावोऽसौ विलम्बेन वेदनातिशयमनुभवति’ इति कुलटां प्रति, 'क्रोधान्धो मर्कटस्तिष्ठतीत्यनुपसर्पणीयं गोदावरीतटम्’ इति चान्यान्प्रत्यभिव्यज्यते।
सुभगाया: पूर्वपत्न्या: अलङ्कारेण तदसमानामन्यां मण्डयितुमिच्छोर्नायकस्यावधीरणार्थं पूर्वपत्न्या: सखी स्वभर्तु: प्रणयौचित्यमेव वर्णयति-
गृहपतिना मृतसैरिभसुबृहद्घण्टास्रजं सुचिरमूढ्वा।
वर्गशतान्यपि नीत्वाऽनन्तरमार्यागृहे बद्धा।।७२।।१
गृहपतिना मृतमहिषस्य बृहद्घण्टायुक्तां स्रजं (दाम) तत्सदृशस्य इतरमहिषस्य प्रतीक्षया सुचिरमूढ्वा, पुनस्तादृशमहिषप्राप्तिकामनया महिषाणां वर्गशतान्यापि नीत्वा (क्र स्त्रीत्वा) तत्सदृशाऽपरमहिषाप्राप्तया सा स्रक् पर्यन्ते आर्यागृहे चण्डिकायतने बद्धा, न त्वयोग्यस्य अन्यमहिषस्य कण्ठे इत्यर्थ:। मम स्वामिना मृतस्य पशोरपि स्नेहमनुरुन्धानेन एवं कृतम्, त्वं तु जीवन्त्यामेव प्रियदयितायां तन्मण्डनेन तदननुरूपामन्यामलङ्कर्तुमिच्छसीत्यहो ते प्रणयवैमुख्य-मिति नायकं प्रत्यभिव्यज्यते। 'गृहपति’ पदेन गृहाधिष्ठातृत्वेन स्वतन्त्रोऽपि स नैवं कृतवानिति सूच्यते। 'सुचिरमूढ्वा’ इत्यने योग्यप्राप्तये तेन बहुतरं प्रतीक्षा कृता, त्वं तु तिष्ठन्त्यामेव तस्यां न तामाद्रियसे इत्युपालम्भो ध्वन्यते। 'डुण्डुभ’ शब्दो बृहद्घण्टायां वर्तते।
सपत्नीनां विभवातिशयमालोक्यापमानेन म्लायन्तीं सुभगामभिनववधूं 'विभवादपि प्रियप्रणयो गरीयान्’ इति ससान्त्वनं बोध्यन्ती तत्सखी निदर्शयति-
शिखिपिच्छकावतंसा व्याधवधूर्गर्विता भ्रमति।
गजमौक्तिकपरिरचितप्रसाधनानां पुर: सपत्नीनाम्।।७३।।२
१. गहवइणा मुअसेरिहडुण्डुअदामं चिरं वहेऊण।
वग्गसआइं णेउण णवरिअ अज्जाघरे बद्धं।।७२।।
[गृहपतिना मृतसैरिभबृहद्धण्टादाम चिरमूढ्वा।
वर्गशतानि नीत्वानन्तरमार्यागृहे बद्धम्।।]
२. सिहिपेहुणावअंसा बहुआ वाहस्स गव्विरी भमइ।
गअमोत्तिअरइअपसाहणाणँ मज्झे सवत्तीणं।।७३।।
[शिखिपिच्छवतंसा वधूर्व्याधस्य गर्विता भ्रमति।
गजमौक्तिकरचितप्रसाधनानां मध्ये सपत्नीनाम्।।]
गजमौक्तिकै: परिरचितं सम्यक्तया कलितं प्रसाधनं याभिस्तादृशीनाम्। 'परि’णा स्वसौन्दर्यसमुज्जृम्भणार्थं प्रसाधने यत्नातिशय: स्फोट्यते। एवंविधानां सपत्नीनां पुर: शिखिपिच्छकमवतंसो यस्या:। 'पिच्छक’ इति लाघवद्योतकेन केन तदवतंसनेप्ययत्न: प्रतीयते। तथा च 'येन महाबलिन: कुञ्जरान् हत्वा तत्कुम्भमुक्ताफलैर्भवत्य: प्रसाधिता:, स एव व्याधकुलपति-र्मत्सम्भोगात्यन्तप्रसङ्गेन सम्प्रति तथा क्षीणो यथा मयूरमात्रमारणे प्रभु: संवृत्त:’ इति प्रियतमसौभाग्येन गर्विता तदभिप्रायप्रकटनाय तासां पुरो भ्रमतीति भाव:। 'वनवासिन्योऽपि सम्पदपेक्षया सौभाग्यमेव बहु मन्यन्ते, त्वं तु विदग्धापि किमिति नैतत्परीक्षसे’ इति नायिकां प्रति ध्वन्यते। 'याति’ इत्याद्यनुक्त्वा 'भ्रमति’ पदेन 'कस्याश्चन सपत्नया दृष्टौ पिच्छभूषणं पतेन्न वा’ इति समन्तत: स्वप्रसाधनप्रदर्शनचेष्टा सूच्यते। ततश्च भ्रमणरूपेणानुभावेन गर्वाख्यसञ्चारिण: परिपोषो ध्वन्यते।
भुजङ्गप्रोत्साहनार्थं कुट्टनी वेशवामानां वक्रिमाणमेवमाह-
वक्राक्षिवीक्षितानां वक्रगतीनां व वक्रलपितानाम्।
वक्रपरिहासिनीनां पुत्रक पुण्यैर्जन: प्रियो भवति।।७४।।१
वक्रता स्वाभाव्यान्मूर्तद्रव्यधर्मोऽपि लक्षणया वीक्षणादिविशेषे सङ्क्राम्यति। तथा च क्रमेण अक्षिवीक्षित-गत्यादीनां कटाक्षनिरीक्षणम्, विभ्रमभङ्गुरा गति:, सव्यङ्ग्यवचनप्रयोग:, साकूतं हसितं चार्थं:। जन: एवंविधानां वेशवधूनां प्रिय: पुण्यैर्भवति। पुत्रकेत्यनेन विश्रम्भात्त्वयि सत्यमाख्यायत इति सूचितम्। तथा च 'त्वं धन्योऽसि, येनैवंविधशीलापि मद्दुहिता त्वयि नितान्तमनुरक्ता’ इति भुजङ्गं प्रत्यभिव्यज्यते। 'त्वमपि दानबहुमानादिभिरेनां निरन्तरं सन्तोषय’ इति कुट्टन्यास्तं प्रति चरमं व्यङ्ग्यम्।
गोदावरीतीस्थिलताभवने कृतसङ्केता काचित्-एकान्तस्थानमिति ध्यानाद्यवस्थित्या तत्र विघ्नकारिणं धार्मिकं भीषयितुमाह-
भ्रम धार्मिक विश्रब्ध: शुनकोऽद्य स मारितस्तेन।
गोदातटविकटोद्भटनिकुञ्जवासेन दृप्तसिंहेन।।७५।।२
१. वङ्कच्छिपेच्छिरीणं वङ्कुल्लविरीणँ वङ्कभमिरीणम्।
वङ्कहसिरीणँ पुत्तअ पुण्णेहिँ जणो पिओ होइ।।७४।।
[वक्राक्षिप्रेक्षणशीलानां वक्रोल्लपनशीलानां वक्रभ्रमणशीलानाम्।
वक्रहासशीलानां पुत्रक पुण्यैर्जन: प्रियो भवति।।]
२. भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ तेण।
गोलाअडविअडकुडङ्गवासिणा दरिअसीहेण।।७५।।
[भ्रम धार्मिक विस्रब्ध: स शुनकोऽद्य मारितस्तेन।
गोदातटविकटकुञ्जवासिना दृप्तसिंहेन।।]
धार्मिकेति साक्षेपबोधनम्, परस्य कार्यविघातकस्त्वमवश्यं धार्मिकोऽसीति। त्वं विश्रब्ध: सन् भ्रम, नगररथ्यास्विति भाव:। स शुनक: श्वा स इत्यनेन यद्भयात्त्वया ग्रामे भ्रमणं त्यक्तमासीदिति सूच्यते। गोदातटस्य विकटश्च उद्भटश्च यो निकुञ्ज: स वासस्थानं यस्य तेन। उच्चावचभूमितयाऽपरिज्ञेयविन्यास इत्युद्भट उक्त:। अत एव च सिंहाधिष्ठिततया विकट: स:। दृप्तसिंहेन अद्य मारित:। नगरमागत्य हननात्सिंहस्य दृप्तता ज्ञायते। अद्येत्यनेन मया न श्रुतमिति विश्वासे न स्थातव्यम्, यतोऽद्यतनी घटनेति पूर्वं श्रवणासम्भवादिति निश्चय: सूच्यते। 'लब्धभोजनो नाऽद्य मनुष्यमाक्रमिष्यति’ इत्यपि न विश्वसनीयम्, यत: स न केवलं भोजनापेक्ष एवाक्रामति, अपि तु स बलगर्विष्ठ इति दृप्तपदेनाभिव्यज्यते। तथा च गोदावरीतीरे सिंहसद्भावेन तत्र गमननिषेध:, रथ्यासु च श्वनिवृत्त्या भ्रमणमभिव्यज्यते। यत्तु शुष्कतार्किकेण महिमभट्टेन 'यद् यद् भीरुभ्रमणं तत्तद्भयकारणनिवृत्त्युपलब्धिपूर्वकम्’ इति व्याप्त्या गोदावरीतीरे सिंहोप-लब्धिरूपभयकारणसत्त्वात् 'गोदावरीतीरं भीरुभ्रमणायोग्यं सिंहवत्त्वात्’ इत्यनुमानेनैव गोदातटे निषेधो ज्ञायते न व्यञ्जनयेति साधितुम्। तत्तु ध्वनिस्थापकै: श्रीमम्मटभट्टै: 'भीरुरपि गुरो: प्रभोर्वा आज्ञया निधिलाभाद्याशया च भयकारणसत्त्वेऽपि परिभ्रमतीति व्यतिरेकव्याप्तिरेव न सिध्यति। किं च सिंहवत्त्वमिति हेतुर्विरुद्धोऽपि। यतो हि वास्तवे वीर: स्पर्शदोषात् शुनो बिभ्यदपि सिंहान्न बिभेतीति सिंहवत्त्वं हेतुरभ्रमणमनुमापयितुमप्रभु:, इत्यादिसमुचिताभि-रुपपत्तिभि: सुदूरं तिरस्कृतमित्यादि काव्यप्रकाशादिभ्योऽवगन्तव्यम्।
कयाचन नायिकाया सह दाक्षिण्येन निजाभिलाषं पूरयन्तं कमपि युवानं परिहासकुशल: कश्चिदाह-
कर्णावतंससरसिजरजसा वातेरितेन भृतमक्षि।
फूत्कुर्वन्नवितृष्णं चुम्बन्नयि कोऽसि देवानाम्।।७६।।१
पवनाक्षिप्तेन कर्णावतंसीकृतस्य उत्पलस्य रजसा भृतं नायिकाया नयनं तद्रजोपनयनार्थं फूत्कुर्वन्। नेत्रपीडने सति मुखोष्मणा तत्सुखयन्तीति प्रसिद्धि:। फूत्कारमिषेण च अपूरिताभिलाषं चुम्बन् अयि! त्वं देवानां मध्ये कतमोऽसि। नायिकावलोकनकौतुकेन अनिमिषनयनत्वात्त्वं देवानां मध्ये कोऽप्यसीति भाव:। देवानां कोऽसीत्यनेन प्रसिद्धदेवा अप्येवंविधपुण्यफलभाजो न सन्ति किं पुनर्मनुष्या इति नायिकाया: सौन्दर्यातिशय: समभिव्यज्यते।
१. वाएरिएण भरिअं अच्छिं कणऊरउप्पलरएण।
फुक्कन्तो अविइह्णं चुम्बन्तो को सि देवाणम्।।७६।।
[वातेरितेन भृतमक्षि कर्णपूरोत्पलरजसा।
फूत्कुर्वन्नवितृष्णं चुम्बन्कोऽसि देवानाम्।।]
दयितविरहेण भृशं पीडिता प्रोषितभर्तृका दयितसमागमाय त्वरयन्ती सखीमाह-
नान्यकुसुमानि सखि मां व्यथयन्ति तथा यथा कदम्बानि।
वहति हि कामो नूनं गुटिकाधनुरेषु दिवसेषु।।७७।।१
एषु प्रावृड्दिवसेषु। गुटिकाक्षेपकं धनुर्गुटिकाधनु: ('गुलेल’ इति भाषायाम्)। गुटिकाकारेण कदम्बकुसुमेन कलिता: कुसुमशरो मां व्यथयतीति भाव:। तथा च वसन्ते यथा कथञ्चिद् गमितेऽपि सम्प्रति वर्षाकालं यापयितुं नाहं प्रभवामीति विरहे वसन्तापेक्षयापि वर्षाकालस्य दु:सहता ध्वन्यते।
काचिद्दूती विरहोत्कण्ठिताया: सुविषया विरहवेदनाया मरणभयं प्रदर्श्य तदुपगमार्थं त्वरयन्ती तत्कान्तमाह-
नाहं दूती न त्वं प्रिय इति किं वात्र कार्यमस्माकम्।
सा म्रियते ह्ययशस्तव तेन च धर्माक्षरं भणामोऽङ्ग।।७८।।२
त्वदाह्वाने प्रयत्नभावान्नाहं दूती। तस्यामेवंनिरनुक्रोशत्वान्न त्वं प्रिय:। यदि त्वं प्रियोऽभविष्यस्तर्हि विरहेण पीड्यमानामिमां नैवमुपैक्षिष्यथा इति भाव:। अत एवात्रास्माकं को वा व्यापार:। तन्मरणं तव चापयश: प्रसमीक्ष्य। अङ्गेति सम्बोधने, हे विवेचकेति भाव:। धर्माक्षरं धर्म्यां वार्तां वयं ब्रूम:। यद्यपि तस्यां तव नानुरागस्तथापि स्त्रीवधपातकभयेनैव साऽनुकम्पनीयेति भाव:। प्रियानयनार्थमागताया दूत्या निजदूतीत्वं प्रिये प्रियत्वं च निषिध्यन्त्या निषेधाभासभूतेनानेनाक्षेपालङ्कारेण ''त्वदुपेक्षया म्रियमाणा सा यावन्नोपैति पञ्चत्वं तावदेव सा सत्वरमुपगन्तव्या’’ इति दयितं प्रत्यभिव्यज्यते। 'निषेधाभासमाक्षेपं बुधा: केचन मन्वते’
१. सहि दुम्मेन्ति कलम्बाइं जह मं तह ण सेसकुसुमाइं।
णूणं इमेसु दिअहेसु वहइ गुडिआधणुं कामो।।७७।।
[सखि व्यथयन्ति कदम्बानि यथा मां तथा न शेषकुसुमानि।
नूनमेषु दिवसेषु वहति गुटिकाधनु: काम:।।]
२. णाहं दूई ण तुमं पिओ त्ति को अह्म एत्थ वावारो।
सा मरइ तुज्झ अअसो तेण अ धम्मक्खरं भणिमो।।७८।।
[नाहं दूती न त्वं प्रिय इति कोऽस्माकमत्र व्यापार:।
सा म्रियते तवायशस्तेन च धर्माक्षरं भणाम:।।]
इत्यप्पयदीक्षित:। गङ्गाधरटीकावतरणे तु 'विरहोत्कण्ठिताया: सखी तत्कान्तमाह’ इति सख्युक्ति: स्वीकृता। तारतम्यं सहृदयैरवगन्तव्यम्।
चरणयो: प्रणिपातेनानुनयन्तं कान्तमन्यस्त्रीसङ्गचिह्नं नैपुण्येन प्रदर्शयन्ती खण्डिता सोपालम्भमाह-
तस्या मुखात्तव मुखं मुखाच्च तव मम ततश्चरणे।
हस्ताहस्तिकयाऽगादतिदुष्करकारकस्तिलक:।।७९।।१
रात्रौ रमितायास्तस्या युवत्या मुखात् ललाटिकाख्योपगूहनविशेषसमये तव मुखम्, ततस्तव मुखाच्च प्रणिपातसमये मम चरणे, एवमेकस्मात्स्थानादन्यत्र सङ्क्रामकत्वादतिदुष्कर-कार्यकारकस्तिलक:। हस्ताहस्तिकया हस्तपरम्परया अगात् गत:। उपालम्भविधया तिलकं निन्दन्त्या खण्डितयाऽन्यरतिलम्पटस्य नायकस्य निन्दा सूचिता। तथा च 'निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते’ इति लक्षितो व्याजनिन्दालङ्कार:। अनेन च 'युवत्यन्तरसङ्गचिह्नं प्रत्यक्षं ललाटे वहन्नपि मुधैवानुनयेन व्यामोहयसि’ इत्युपालम्भ: प्रियं प्रत्यभिव्यज्यते। ललाटिकालक्षणं तु- 'मुखे मुखमासज्ज्याक्षिणी अक्ष्णोर्ललाटेन ललाटमाहन्यात्सा ललाटिका’ इति वात्स्यायन:।
कस्याश्चन हलिकपुत्रेऽनुरागं सूचयन्नागरिक: सहचरमाह-
श्यामाया मुखशोभा श्यामति नयनार्द्धसमवलोकिन्या:।
जम्बूदलकृतकर्णवतंसे हलिकात्मजे भ्रमति।।८०।।२
अहं सङ्केतस्थले स्थित्वाऽऽगत इति सूचकेन जम्बूकिसलयेन कृत: कर्णावतंसो येन एतादृशे हलिकपुत्रे भ्रमति सति। हलिकेति प्राकृतानुरोधात्। जनेभ्योऽनुरागगोपनार्थमर्द्धाक्षि-विलोकनशीलाया: श्यामलाया उत्तमस्त्रिया: षोडशवार्षिक्या वा मुखशोभा सङ्केतकालविलङ्घन-वैलक्ष्येण विरहखेदेन च श्यामति अश्यामापि श्यामायते। आचारार्थे क्किप्। जम्बूदलकृतकर्णपूरं
१. तीअ मुहाहिं तुह मुहँ तुज्झ मुहाओ अ मज्झ चलणम्मि।
हत्थाहत्थीअ गओ अइदुक्करआरओ तिलओ।।७९।।
[तस्या मुखात्तव मुखं तव मुखाच्च मम चरणे।
हस्ताहस्तिकया गतोऽतिदुष्करकारकस्तिलक:।।]
२. सामाइ सामलिज्जइ अद्धच्छिपलोइरीअ मुहसोहा।
जम्बूदलकअकण्णावअंसभरिए हलिअपुत्ते।।८०।।
[श्यामाया: श्यामलायतेऽर्धाक्षिप्रलोकनशीलाया मुखशोभा।
जम्बूदलकृतकर्णावतंसभ्रमणशीले हलिकपुत्रे।।]
हलिकसुतं वीक्ष्य स्वयमेव मलिना भवतीत्यर्थ:। तथा च मुखमालिन्यरूपेणानुभावेन नायिकानिष्ठो विप्रलम्भ: पोष्यत इति ध्वनित्वं प्रस्फुटम्। विप्रलम्भापोषकतयाऽधिकशोभाकारकं वाच्यं मुखमालिन्यं प्रति सङ्केतभङ्गरूपस्य व्यङ्ग्यस्य गुणीभूततया तु मध्यमकाव्यत्वम्। एतद्गाथानुहारी रुद्रटालङ्कारे उदाहृतं पद्यम्- 'ग्रामतरुणं तरुण्या नव.।’
अनुनयाऽग्रहणवैलक्ष्येण कोपकलुषं नायकमनुनेतुं कलहान्तरिता दूतीमाह-
दूति त्वमेव कुशला वक्तुं जानासि कर्कशमृदूनि।
तं किल तथा करिष्यसि कण्डूयितपाण्डुरं यथा न स्यात्।।८१।।१
कण्डूयनेन कण्डूर्यथा शाम्यति पाण्डूरतया चर्मवैरूप्यं च न भवति तथा किल तं नायकं करिष्यसि। कटुतर्जनैर्यथा नोद्विजते मृदुभाषितैर्यथा मां भजते त्वमपि तथा वक्ष्यसीत्या-कूतम्।
बहुवल्लभं नायकं प्रति चतुरा दूती कस्याश्चिदनुरागमेवं सूचयति।
महिलासहस्रभरिते तव हृदये सुभग सा किलाऽमान्ती।
अनुदिनमनन्यकर्मा ह्यङ्ग तन्वपि तनूकुरुते।।८२।।२
महिलासहस्रेण भरिते व्याप्ते तव हृदये अमान्ती अवकाशमलभमाना सा मत्सखी। महिलासहस्रेत्यनेन 'त्वमेव तास्वनुरज्यसि न ता धूर्ता:’ इति सूच्यत। अनुदिनं समग्रमपि दिवसं व्याप्य अनन्यकर्मा त्यक्तान्यकार्या सती। तनु स्वत: कृशमपि अङ्गं तनूकुरुते हृदयेऽ-वकाशलाभार्थं कृशमपि कृशतरं करोतीत्यर्थ:। अनन्यकर्मेत्यनेन त्वत्समागमोपायचिन्तां विहाय नान्यत्किमपि कार्यमिति गृहकार्यविरत्या अनुरागातिशयो द्योत्यते। महिलासहस्रभरितमत एव अमान्ती, एवं तव हृदये अमान्ती अत एव अङ्ग तनूकरोतीत्युभयत्र काव्यलिङ्गालङ्कार:।
१. दूइ तुमं विअ कुसला कक्खडमउआइँ जाणसे वोल्लुम्।
कण्डूइअमण्डुरँ जह ण होइ तह तं करेज्जासु।।८१।।
[दूति त्वमेव कुशला कर्कशमृदुकानि जानासि वक्तुम्।
कण्डूयितपाण्डुरं यथा न भवति तथा तं करिष्यसि।।]
२. महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती।
दिअहं अणण्णकम्मा अङ्गं तणुअं पि तणुएइ।।८२।।
[महिलासहस्रभृते तव हृदये सुभग सा अमान्ती।
दिवसमनन्यकर्मा अङ्ग तनुकमपि तनूकरोति।।]
आभ्यां काव्यलिङ्गाभ्यां 'कृशस्य कृशतरकरणेऽपि तव हृदये सा स्थानं नासादयति’ इति विशेषेक्तिर्व्यज्यते। ततश्चात्र अर्थशक्तिसमुत्थेनालङ्कारेणालङ्कारध्वनि:।
कश्चित्कस्याञ्चिन्निजानुरागं सहचरं प्रत्येवमाह-
क्षणमपि नापसरति पुनरनुदिवसवितीर्णगुरुकसन्तापा।
श्यामा मम हृदयादयि नूनं प्रच्छन्नपापशङ्केव।।८३।।१
प्रतिदिनं वितीर्णो गुरुक: सन्तापो विरहजनिता पीडा ययेति श्यामापक्षे। पापशङ्कापक्षे सन्तापस्तत्पापानुस्मरणजन्य:। यथा प्रच्छन्नपापस्य लोकेषु प्रकाशनशङ्का सुभृशमनुतापयन्त्यपि न क्षणमात्रमप्यपयाति, तथा श्यामा सा उत्तमस्त्री मम हृदयान्नापैतीत्यर्थ:। प्रच्छन्नपापशङ्केत्यनेन पापशङ्का विश्वस्तायापि यथा न प्रकाश्यते तथा दृढप्रणया कुलरमणी सापि न कस्मैचिदपि प्रकाशनीया, तथापि तुभ्यं मया साऽऽवेदितेति सुहृदं प्रति विश्वासातिशय: सूचित:।
कृतापराधतायामपि परिरम्भणादिद्वाराऽनुनयन्तं कान्तं प्रणयरोषकलुषा काचित्प्रगल्भा वक्रया सरण्या समभिधत्ते-
ऋजुकाऽहं नहि कुपितास्म्युपगूह नु किं मुधा प्रसादयसि।
मानेनापि न कार्यं तव मन्युविधायकेन मम।।८४।।२
हे ऋजुक! कृतापराधोऽपि सारल्येन प्रसन्नामिव मां मन्वान: परिरम्भणकपटेन मां प्रसादयितुमिच्छसीत्यहो ते सारल्यमिति विपरीतलक्षणया सूचितम्। अहं कुपिता नास्मि, त्वं निरपराध इति नाहं कुपिता। उपगूह परिरभस्व। प्रसादनकपटेन मुधा किम्? तव मन्युसमुत्पादकेन मम मानेनापि न कार्यम्। त्वं यथेच्छमन्यमहिलासु रमसे, मम तु तव वेदनादायकतया मानं कर्तुमपि नाधिकार इति सर्वं वक्रया सरण्या समुदीर्यते। मानापनोदन-
१. खणमेत्तं पि ण फिट्टइ अणुदिअहविइण्णगरुअसंतावा।
पच्छण्णपावसङ्के व्व सामली मज्झ हिअआओ।।८३।।
[क्षणमात्रमपि नापयात्यनुदिवसवितीर्णगुरुकसन्तापा।
प्रच्छन्नपापशङ्केव श्यामला मम हृदयात्।।]
२. अज्जअ णाहं कुविआ अवऊहसु किं सुहा पसाएसि।
तुह मण्णुसमुप्पाअएँण मज्झ माणेण वि ण कज्जम्।।८४।।
[अज्ञ नाहं कुपिता उपगूह किं मुधा प्रसादयसि।
तव मन्युसमुत्पादकेन मम मानेनापि न कार्यम्।।]
मन्तरैवालिङ्गनमङ्गीकुर्वन् कपटेन मां प्रतारयितुमिच्छसि। अहं चैतदभिज्ञेति निपुणमभिव्यज्यते। गङ्गाधरभट्टस्तु 'सुशीला नायिका कृतापराधमनुनयन्तं कान्तं सप्रणयरोषमाह’ इत्यवतारयन् 'अनभिज्ञे स्वामिनि मानो निष्फल:’ इति समर्थयते। तत्र सुशीलाया अपि स्वामिन्यनभिज्ञ-तासमर्थनं रोषोक्तौ 'उपगूह’ इति कथनं च कियत्स्वारस्यावहमिति विचारणीयमेव। अत एव 'व्यलीकविप्रिययोगादिभिरालिङ्गनादीनां निराकरणमयथावत्प्रदानत्वात्, विसंवादनमेवोच्यते’ इति प्रसङ्गे उदाहृता सेयं सरस्तीकण्ठाभरणे (५ परि.)।
विरहिण्या: सखी सङ्गमाय त्वरामुत्पादयितुं तत्कान्तमाह-
वाष्पसलिलपरिषिक्तस्तप्तो दीर्घोष्णबहुलनि:श्वासै:।
श्यामशबलमिव तस्या अधर: साधयति तव विरहे।।८५।।१
दीर्घैरुष्णै: प्रचुरैश्च नि:श्वासैस्तापित:, पुनर्नयनसलिलेन सम्यक् स्नान: अधर:। श्यामशबलं व्रतविशेषं साधयतीव। तत्र हि पूर्वमग्नौ प्रविश्य जले प्रविश्यते। तथा च 'तदधर-व्रतस्य पारणं त्वदधरसमागमरूपं त्वदायत्तमेव’ इति नायकं प्रत्यभिव्यज्यते।
कोपमनुमाय नायकसमागमे सङ्कुचन्तीं नायिकां 'गम्भीराशयानां नान्तरे कोप:, केवल-मुपरित एव तेषां तथा प्रतीति:’ इति तदनुनयाय प्रेरयन्ती दूती जनसमक्षं शरत्सरोवर्णन-व्याजेनाह-
शरदि हि महाह्रदानामन्त: शिशिराणि बहिरथोष्णानि।
जातानि कुपितसज्जनहृदयसदृक्षाणि सलिलानि।।८६।।२
नातिप्रखरतापायां शरदि गभीरावकाशतया अन्त:शीतलानि, अथ बहि: (उपरित:) उष्णानि। कापि मध्याह्नाभिसारिका 'सङ्केतितह्रदतीरलतागृहमहं गता, त्वं तु न गत:’ इति जारं प्रति प्रतिपादयन्ती सत्यपि हृदयस्य स्थिरस्नेहतां सज्जनहृदयप्रशंसाछलेनाह’ इति गङ्गाधराव-तरणम्।
प्रथमाभिसारे साध्वसमुत्पद्यत एवेति सान्त्वयन्ती दूती कस्याश्चिन्मौग्ध्यवर्णनप्रस्तावे प्रथमाभिसारिकामाह-
१. दीहुह्णपउरणीसासपआविओँ वाहसलिलपरिसित्तो।
साहेइ सामसवलं व तीएँ अहरो तुह विओए।।८५।।
[दीर्घोष्णप्रचुरनि:श्वासप्रतप्तो वाष्पसलिलपरिसिक्त:।
साधयति श्यामशबलमिव तस्या अधरस्तव वियोगे।।]
२. सरए महद्धदाणं अन्ते सिसिराइँ वाहिरुह्णाइं।
जाआइँ कुविअसज्जणहिअअसरिच्छाइँ सलिलाइं।।८६।।
[शरदि महाहृदानामन्त: शिशिराणि बहिरुष्णानि।
जातानि कुपितसज्जनहृदयसदृक्षाणि सलिलानि।।]
किं वाऽऽगतस्य किं नु करिष्ये कथं नु भवितेदम्।
प्रथमोद्गतनवसाहसकारिण्यास्थरथरायते हृदयम्।।८७।।१
आगतस्य नायकस्य किं वक्ष्यामि किं नु करिष्यामि। इदमभिसरणसाहसं कथं नु भविता, कथं सिद्धिमागन्ता नु? साहससिद्धौ संशयेन मौग्ध्यमभिद्योत्यते। प्रथमोद्भूतमत एव नवं साहसं कर्तुमग्रेसर्या: हृदयं थरथरायते साहसोत्कण्ठाभ्यां कम्पत इत्यर्थ:। 'थरथरायते’ इत्यनुकरणनिष्पन्नो नामधातु:।
अनुनयाऽग्रहणवैलक्ष्येण कलहान्तरिताया नायिकाया ग्रहिलत्वदोषं साधयन्तं कान्तं प्रति तत्परिहरन्ती दूती तस्या वैदग्ध्यमेवमाह-
नुपुरकोटिविलग्नं चिकुरं दयितस्य पादपतितस्य।
हृदयं प्रोषितमानं कथयत्युन्मोचयन्त्येव।।८८।।२
मानापनोदनार्थं पादपतितस्य दयितस्य परमप्रेष्ठस्य न तु स्वामिसामान्यस्य, तवेत्यर्थ:। नुपुरशिखरावसक्तं केशं 'तदवकर्षणेन तव पीडा मा भूत्’ इति नुपुरतोऽवमोचयन्त्येव सा हृदयं प्रोषितमानं (गतमानम्) कथयति। निरवधिप्रणया हि विदग्धमानिन्यो मुखतो मुखरागतो वा न प्रसादमाविष्कुर्वन्ति, किं तु चेष्टाविशेषेण तं निभृतमभिव्यञ्जन्ति। तथा च तया तव पीडानुमानेन निजनुपुरविलग्नं त्वत्केशमवमोचयन्त्या चातुर्येण प्रसन्नमात्महृदयमाविष्कृतमेव। परं तत: परावर्तमानेन, न त्वयानुरूपमाचरितम्। अत: परमविदग्धायास्तत्या न ग्रहिलत्वदोष:, किन्तु तवैव तावदवैदग्ध्यमिति चतुरं सूच्यते।
कस्याश्चिदनुरागातिशयं प्रतिपाद्य तत्सङ्गमाय नायकमुत्कण्ठयन्ती दूती आह-
१. आअस्स किं णु करिहिम्मि किँ बोलिस्सं कहं णु होइहि [इमि]ति
पढमुग्गअसाहसआरिआइ हिअअं थरहरेइ।।८७।।
[आगतस्य किं नु करिष्यामि किं वक्ष्यामि कथं नु भविष्यति [इदम्] इति।
प्रथमोद्गतसाहसकारिकाया हृदयं थरथरायते।।]
२. णेउरकोडिविलग्गं चिउरं दइअस्स पाअपडिअस्स।
हिअअं पउत्थमाणं उम्मोअन्ती व्विअ कहेइ।।८८।
[नुपुरकोटिविलग्नं चिकुरं दयितस्य पादपतितस्य।
हृदयं प्रोषितमानमुन्मोचयन्त्येव कथयति।।]
श्यामा सुकुमारा तव तथा खरेणाङ्गरागशेषेण।
सा किल गोदाकूले स्नाता जम्बूकषायेण।।८९।।१
कृतगात्रोद्वर्तनस्य तवाङ्गरागशेषेण तीक्ष्णतया मलापनोदकेन जम्बूकषायेण, सुकुमारतया तथातीक्ष्णजम्बूकषायानर्हापि स वरवर्णिनी स्नातेत्याशया:। किलेत्यरुचौ। तथा च मलिनतीक्ष्णता-दृशकषायमनभिरोचयन्त्यपि त्वत्प्रेम्णा स्नातेति द्योत्यते। एवं च भवदङ्गसङ्गाभिलाषेण तवाङ्गरागोच्छिष्टग्रहणं स्नानच्छद्मना कुर्वन्त्या तया स्पष्टं त्वय्यनुराग: प्रकाशित:, तथा चैतादृशीं किमिति नोपसेवसे इति ध्वनि:।
निजदयितस्य सकलग्नामजनगोष्ठीमण्डनतां सूचयन्ती प्रोषितभर्तृका सखीजनमाह-
प्रोषित एषोऽद्यैव च शून्यान्यद्यैव जातानि।
रथ्यामुखसुरमन्दिरचत्वरकाणि च मनांसि चास्माकम्।।९०।।२
अद्यैव गत: अद्यैव च रथ्यामुख-देवमन्दिर-प्राङ्गणानि अस्माकं मनांसि च शून्यानि जातानि। 'अङ्गणं चत्वराजिरे’ इत्यमर:।
गुणवतोऽवराया: कस्याश्चन गणिकाया भुजङ्गगणेन क्रियमाणां प्रशंसामसहमाना गुणगर्विता गणिका काचिदाह-
वर्णानप्यविदन्तो लोका लोकैर्हि गौरवाभ्यधिका:।
स्कन्धैर्निरक्षरा अपि सुवर्णकारकतुला इवोह्यन्ते।।९१।।३
१. तुज्झङ्गराअसेसेण सामली तह खरेण सोमारा।
सा किर गोलाऊले ह्णाआ जम्बूकसाएण।८९।।
[तवाङ्गरागशेषेण श्यामला तथा खरेण सुकुमारा।
सा किल गोदाकूले स्नाता जम्बूकषायेण।।]
२. अज्ज व्वेअ पउत्थो अज्ज व्विअ सुण्ण्आइँ जाआइं।
रत्थामुहदेउलचत्तराइँ अह्मं च हिअआइं।।९०।।
[अद्यैव प्रोषितोऽद्यैव शून्यकानि जातानि।
रथ्यामुखदेवकुलचत्वराण्यस्माकं च हृदयानि।।]
३. चिरडिं पि अआणन्तो लोआ लोएहिँ गोरवब्भहिआ।
सोणारतुले व्व णिरक्खरा वि खन्धेहिँ उब्भन्ति।।९१।।
[सिद्धिरस्तु इत्यादि]वर्णावलीमप्यजानन्तो लोका लोकैर्गौरवाभ्यधिका:।
सुवर्णकारतुला इव निरक्षरा अपि स्कन्धैरुह्यन्ते।।]
जनै:, ॐ नम: सिद्धम् सिद्धिरस्तु’ इत्यारभ्यां वर्णमालामप्यजानन्तो लोका: गौरवाभ्याधिका: परमादरणीया इतिकृत्वा निरक्षरा अपि निर्विद्या अपि सुवर्णकारतुला इव स्कन्धैरुह्यन्ते सादरं नीयन्त इत्यर्थ:। सुवर्णकारतुला अक्षतोऽधिकमतोलयन्त्य: [निरक्षं रान्तीति निरक्षरा:] अपि गौरवाभ्याधिका: दत्ताधिकगौरवा: स्कन्धैर्नीयन्ते सावधानं नीयन्ते। षोडशमाषकैरक्ष इत्यमर:। वैद्यकमते तु तोलकद्वयमित:। एवं च ममाग्रत: प्रशस्यमानासौ वर्णपट्टिकामजानतीवेति सुभृशमात्मनो गुणगर्वोऽभिव्यज्यते। अत्र तुलापक्षे अक्षरेखारहिता इति गङ्गाधरभट्ट:। अङ्करेखारहिता इति कुलबालदेव:। चिरडीति वर्णमालापर्यायो देशीशब्द:।
कलहान्तरिताया: स्मरणेन समयविनोदमिच्छन् तत्कान्त: सहचरमाह-
अन्तस्ताम्रकपोलां स्फुरदोष्ठीं स्खलितवर्णविन्यासाम्।
मा मा स्पृशेति सक्रु धमपसर्पन्तीं प्रियां स्मरामोऽङ्ग।।९२।।१
कोपवशतया स्खलिताक्षरं जल्पन्तीम्। अङ्गेति सुहृत्सम्बोधने।
गोदावरीमुत्तरतोरनयोरस्ति परस्परं प्रीतिरित्यात्मनोऽभिज्ञतां सूचयन्नागरिक: सहचरमाह-
आत्मा तदुरसि मुक्तो गोदाविषमावतारकैतवत:।
अनुकम्पानिर्दोषं तेनापि च सा प्रगाढमुपगूढा।।९३।।२
गोदावर्या अवतरणस्थलमिदमुच्चावचमिति च्छलेन नायकोरसि, अनया स्वशरीरमव-रोपितम्। 'भीरु! मा भूत्पतनभयम्’ इति सान्त्वनदयां प्रदर्शयतेव तेन। गाढालिङ्गने भयनिवारणा-नुकम्पा मिष इति भाव:। प्रतीयमानोऽयमन्योऽन्यालङ्कार इत्यत्र प्रत्यभियोगत: प्रेमपरीक्षायां चोदाहृता सरस्वतीकण्ठाभरणे।
नायिकानुरागप्रदर्शनेन मन्दानुरागं नायकमनुकूलयितुं दूती आह-
१. आअम्बन्तकवोलं खलिअक्खरजम्पिरिं फुरन्तोट्ठिम्।
मा छिवसु त्ति सरोसं समोसरन्तिं पिअं भरिमो।।९२।।
[आताम्रान्त:कपोलां स्खलिताक्षरजल्पनशीलां स्फुरदोष्ठीम्।
मा स्पृशेति सरोषं समपर्सन्तीं प्रियां स्मराम:।।]
२. गोलाविसमोआरच्छेलण अप्पा उरम्मि से मुक्को।
अणुअम्पाणिद्दोसं तेण वि सा आढमुवऊढा।।९३।।
[गोदावरीविषमावतारच्छलेनात्मा उरसि तस्य मुक्त:।
अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा।।]
भवता स्वहस्तदत्तां निर्गन्धामपि हि सुभग साऽद्यापि।
अवमालिकां विसर्जितनगरीगृहदेवतेव बत वहति।।९४।।१
हे सुभग! गन्धरहितामपि अवमोचनयोग्यां मलिकां त्वया स्वोपभोगमङ्गलीकृता प्रेमप्रसादबुद्ध्या स्वहस्तेन दत्तेति भवत्करस्पर्शबहुमानात् उद्वासितनगरगृहदेवतेव सा अद्यापि धारयति। उद्वासिता हि नगरदेवता पूर्वं जनैरारोपितां कालानन्तरं शुष्कामेव कुसुममालिकां धारयति, तथा त्वद्विरहवेदनयाऽन्यविधमण्डनमनभिरोचयन्ती दिव्यसौन्दर्यसुभगा सापि विसर्जनयोग्यामपि निर्गन्धमालिकां त्वत्करसम्बन्धसौख्यप्रदेति सबहुमानं धत्त इत्याशय:। तथा च त्वयि निर्मायमनुरज्यन्तीं त्वद्विरहवेदनाया निर्जीवालेख्यपुत्रिकामिव शोच्यां दशामुपगतां तां किमिति नानुकम्पस इति बतशब्दसहकारेण सूचितम्। सुभगेत्यनेन एतादृशं तव सौभाग्यमतस्तन्मा वृथा कृथा इत्यपि ध्वन्यते। नगरगृहदेवतेत्यत्र नगरपदेन सर्वेऽपि नागरिकास्तां सौन्दर्यादिबहुमान-कारणात्स्पृहयन्ति, अतस्तेषामवमर्शनं यावन्न स्यात्तावदेनामनुसरेत्यपि गूढमभिव्यज्यते। धारणेन पर्युषितत्वेन च अवमर्दिता माला अवमालिका।
'केलिभवनमागते तस्मिन्मानवलम्ब्य निजसमीहितं साधय’ इति कस्मैचित् कार्याय मानग्रहणं शिक्षयन्तीं बन्धुपुरन्ध्रीं काचिदाह-
तस्मिंश्च्युतविनये किल रोषितुमिह शक्यते न केल्यापि।
एभिर्याचितकैरिव मातर्विवशासहैरङ्गै।।९५।।२
च्युतविनये रतिलौल्यलङ्घितलज्जतया विनयमवधीरयमाणे तस्मिन् (प्रेयसी) याचितकैरिव अभ्यर्थ्यानीतैरिव अवशैरत एव अनभिरुचितविषये ममाधीनतामसहमानैरेभिरङ्गैर्हे मात:! केल्यापि परिहासेनापि किल रोष: कर्तुं न शक्यते। मातरित्यनेन अप्रतारणीयतया निजवचसि प्रत्येयता सूच्यते। एवं च परिहास एव यदाहं मानमवलम्बितुमवशा तर्हि प्रणयचर्यात: सुतरां विप्रकृष्टं स्वार्थमुद्दिश्य कथङ्कारं कोप: कर्तुं शक्य इति 'अपि’ शब्दस्वारस्येन प्रियप्रणय-पारवश्यमभिव्यज्यते। याचितकं वस्तु यथा न स्वीयं भवति नापि यथेच्छं बलकार्येषूपयुज्यते,
१. सा तुइ सहत्थदिण्णं अज्ज वि रे सुहअ गन्धरहिअं पि।
उव्वसिअणअरघरदेवदे व्व ओमालिअं वहइ।।९४।।
[सा त्वया स्वहस्तदत्तामद्यापि रे सुभग गन्धरहितामपि।
उद्वसितनगरगृहदेवतेव अवमालिकां वहति।।]
२. केलीअ वि रूसेउं तीरए तम्मि चुक्कविणअम्मि।
जाइअएहिँ व माए इमेहिँ अवसेहिँ अङ्गेहिं।।९५।।
[केल्यापि रुषितुं न शक्यते तस्मिं2च्युतविनये।
याचितकैरिव मातरेभिरवशैरङ्गै।।]
तथैव ममाङ्गान्यपि तस्मिन्समये प्रियतमसाद्भवन्तीति बलत: कार्यक्षमाणि नेति पारतत्र्यातिशयो ध्वन्यते। गङ्गाधरटीकावतरणे 'अपि’ पदस्वरस्यं न भाति।
उत्फुल्लिकया क्रीडन्तीं बालिकामपवारयन्तीं सखीं कामुकजनमन: समाकार्षणार्थ-मात्मनो विपरीतरतपाटवमभिसूचयितुं काचिदाह-
उत्फुल्लिकाया खेलतु मैनां वारयत जायतां क्षामा।
मा जघनभारगुर्वी दधती पुरुषायितं क्लमिष्यति यत्।।९६।।१
उत्तानं शयानस्य पादयोरुपविष्टानां बालानां मुहु: पतनोत्पतनरूपा क्रीडा उत्फुल्लिकेत्या-ख्यायते। एनां मा निवारयत। क्षामा श्रमेण जितश्वासा कृशमध्या च भवत्वित्यर्थ:। यत: पुरुषायितं कुर्वति यौवने जघनभारगौरवेण न क्लान्तिमेष्यतीति भाव:। अत्र सखीमुद्दिश्य सपरिहासमुक्तावपि शिशुविषये एवमुदीरणया रसाभासता कष्टं समाधेया।
शीलखण्डनविलक्षां काञ्चन कुलवधूं तच्चित्तसमाधानेन समाश्वासयन्ती तत्पक्षपातिनी काचिद्विरोधिजनवचननिरोधार्थमाह-
प्रचुरयुवासौ ग्रामो मधुमासो यौवनं पति: स्थविर:।
जीर्णसुरा स्वाधीना ह्यसती मा भवतु किं म्रियताम्।।९७।।२
प्रचुरा युवानो यस्मिन्। प्रचुरतया कस्मात्कस्माद्वा शीलरक्षणेऽवधीयेतेति सूच्यते। जीर्णसुरा प्राचीनमद्यम्। पुरातनं हि तत्प्रीतिकरं भूरिमादकं च। स्वाधीनेत्यनेन यथेच्छपानसौकर्यान्मनसो भूयस्तरामवशता द्योत्यते। एकैकमपि शीलखण्डसमर्थेष्वेषु सर्वेष्वेकत्र मिलितेषु चरित्रभ्रंशोऽस्या नापराधायेर्थ:। अत्र 'असती मा भवतु’ इति निषेधस्य प्रचुरयुवा ग्राम इत्यादि कारणमुक्त्वा 'तत: किं म्रियताम्’ इत्यनेन रोध: क्रियते। सातूयप्रश्नार्थकस्य किम: काक्वा निषेधार्थत्वं गम्यत इति सोऽयं युक्त्या रोध इति सरस्वतीकण्ठाभरणानुसारं निषेधे प्रतिकूलो रोधालङ्कार:। 'प्रतिकूलोऽनुकूलश्च विधौ रोधोऽभिधीयते। निषेधेऽप्युक्तियुक्तिभ्यां द्विप्रकार: स कथ्यते।।’ तथा चैवंविधघटनापारवश्येन खण्डितशीलासौ न वचनीयभाजनमिति विरोधिनि-रोधोऽभिव्यज्यते।
१. उप्फुल्लिआइ खेल्लउ मा णं वारेहि होउ परिऊढा।
मा जहणभारगरुई पुरिसाअन्ती किलिम्मिहिइ।।९६।।
[उत्फुल्लिकया खेलतु मैनां वारयत भवतु परिक्षामा।
मा जघनभारगुर्वी पुरुषायितं कुर्वती क्लमिष्यति।।]
२. पउरजुवाणो गामो महुमासो जोअणं पई ठेरो।
जुण्णसुरा साहीणा असई मा होउ किं मरउ।।९७।।
[प्रचुरयुवा ग्रामो मधुमासो यौवनं पति: स्थविर:।
जीर्णसुरा स्वाधीना असती मा भवतु किं म्रियताम्।।]
प्रणयिनो मनोहरणार्थं नायिकायामासक्तिदृढीकरणार्थं च दूती तस्या अनुरागातिशयमाह-
बहुशोऽपि कथ्यमानं तव वचनं मम हि हस्तसन्दिष्टम्।
न श्रुतमिति जल्पन्ती पुनरुक्तशतं करोत्यार्या।।९८।।१
मम हस्तेन सन्दिष्टं मद्द्वारा तवाभिमुखमुपस्थापितम्। वाचा सन्दिष्टमपि शैलीसिद्धत्वेन हस्तसन्दिष्टमित्युक्तम्। वारंवारं कथनेन पुनरुक्तशतं यद्यपि दूत्येव करोति, परं निभृततरमुक्ता एवंविधवर्णसङ्घटना कदाचन न श्रुता स्यादिति श्रवणसौकर्यार्थं प्रत्येककथनावृत्तौ शब्दशय्या-परिवर्तनेन दूतीवचने न पौनरुक्त्यं किन्तु 'न श्रुतं न श्रुतं’ इति तमेव शब्दं वारं वारमावर्तयन्ती नायिकैव पुनरुक्तशतं करोतीति गाथाकर्तुराकूतम्। बहुश इत्यत्र शस्प्रत्ययेन बहुवारं बहुप्रकारं चेति कथ्यमाने पौन: पुन्येन प्रकारभेदेन चातिशयो द्योत्यते। तथा च सम्यक्श्रवणनिमित्तं मुहु: शब्दशैलीपरिवर्तनेऽपि मुहुर्मुहुराकर्णनानुरागादश्रवणसूचितोऽ-नुरागातिशयो ध्वन्यते। एवमनुरक्ता सेयं भवतापि सबहुमानमनुवर्तनीयेति दूत्या: प्रेमदृढीकरणे तात्पर्यम्। 'मुद्रा’ हस्तगता।
कस्याञ्चन कुलजायामनुरक्तं नायकं प्रति तस्या अनुरागं चान्यजनदृष्टिभ्यस्तद्गोपन-दाक्षिण्यं च दूती नायकप्रोत्साहनार्थमाह-
त्वं किल तया प्रकटितानुरागसद्भावनिर्भरं हि यथा।
संवरणव्यापृतया तथैव दृष्टो जनोऽन्योऽपि।।९९।।२
प्रकटित: स्नेहसद्भावो यस्मिन्कर्मणि यथा भवति तथा। प्रकटितस्नेहसद्भावं च निर्भरं चेति तत: कर्मधारय:। अथवा प्रकटितस्नेहं च सद्भावनिर्भरं चेति। संवरणे परस्परप्रेमबन्धस्य गोपने व्यापृतया प्रवृत्तया। प्रकटितप्रेम सरसं निभृतनिर्भरतया यथा त्वं दृष्ट:, 'एतस्मिन्नियमनुरक्ता’ इति कश्चिन्मा ज्ञासीदिति गोपनव्यापृतया तया अन्योऽपि जनस्तथैव दृष्ट इत्याशया:। लोकेभ्यो गोपनार्थं सर्वत्र समानदृष्टिनिपातेन नायके प्रेमदृष्टिस्तिरोहितेति सरस्वतीकण्ठाभरणकारमतेन पिहिताख्यो मीलितभेद:। 'वस्त्वन्तरतिरस्कारो वस्तुना मीलितं स्मृतम्। पिहितापिहिते चैव तद्गुणातद्गुणौ च तत्।।’ अनेन च मीलितेन त्वयि प्रेमविवशापि सा कियच्चतुरेति नायिका-
१. बहुसो वि कहिज्जन्तं तुह वअण मज्झ हत्थसंदिट्ठम्।
ण सुअं त्ति जम्पमाणा पुणरुत्तसअं कुणइ अज्जा।।९८।।
[बहुशोऽपि कथ्यमानं तव वचनं मम हस्तसन्दिष्टम्।
न श्रुतमिति जल्पन्ती पुररुक्तशतं करोत्यार्या।।]
२. पाअडिअणेहसब्भावणिब्भरं तीअ जह तुमं दिट्ठो।।
संवरणवावडाए अण्णो वि जणो तह व्वेअ।।९९।।
[प्रकटिस्नेहसद्भावनिर्भरं तया यथा त्वं दृष्ट:।
संवरणव्यापृतया अन्योऽपि जनस्तथैव।।]
दाक्षिण्यमुन्मीलितम्। तथा चैवंविधा निर्भरप्रेमसरसहृदयापि परमकुशला सेयं त्वय्यनुरक्तेति पश्य ते सौभाग्यमिति दूतीकर्तव्यान्तर्भूतं नायकमनोहरणमभिव्यज्यते।
प्रसवानन्तरं रमणेन रमणे न परिगृहीता काचित्पुत्रस्य दन्तोद्गमकथनव्याजेन सम्प्रति सम्भोगसुखानुभवयोग्यतामात्मन एवमाह-
गृह्णीत पश्यतेदं प्रहसितवदना हि पत्युरर्पयति।
जाया तनयनवोद्गतदन्तयुगेनाङ्कितं बदरम्।।१००।।१
स्मेरमुखी जाया 'इदं गृह्णीत प्रलोकयत’ इति सुतस्य प्रथमोद्भिन्नदन्तयुगलेनाङ्कितं बदरं प्रियस्यार्पयतीत्यर्थ:। तनयदन्तदष्टस्य बदरस्य दूरतो दर्शनसम्भवेऽपि 'गृह्णीत पश्यतेति प्रियकरसमर्पणेन तद्दन्तक्षतस्य सूक्ष्मदृष्टिदानदर्शनीयतया दन्तयोरङ्कुरावस्था ध्वन्यते। अत एवोत्तरार्द्धे नवोद्गतदन्तयुगेनेत्युच्यते। एवं च तनयस्य दन्तजननेन प्रसवोत्तरजायमानसरससम्भोग-सुखानुभवसमयोऽयं प्राप्त इति प्रियनिवेदनौत्कण्ठ्यं प्रहसितवदनेति पदेनाभिव्यज्यते। सरस्वतीकण्ठाभरणकारस्तु- ''निजस्योपभोगयोग्यताप्रकाशनाभिप्रायेण सहासं बदरदर्शन-प्रवृत्ति:।’’ इति स्वकल्पितं भावाख्यमलङ्कारमाह- 'अभिप्रायनुकूल्येन प्रवृत्तिर्भाव उच्यते।’ कण्ठाभरणानुमत: 'विकसितनयना’ इति पाठ:। प्रशस्तश्चायमत्रत्यपाठापेक्षया। गाथायामस्यां गङ्गाधरस्तु 'स्वयमेव क्षतं सम्पाद्य पुत्रेण क्षतमिति मिथ्यैव दर्शयतीति प्रहसितवदनेति पदेन ध्वन्यते’ इत्याह। इदं कुलवध्वा: सम्भोगभूरितृष्णासूचकतया न तथा रसानुकूलं स्यादिति मे मति:। कण्ठाभरणपाठस्तु तनयदन्तजननरूपप्रियदर्शनेन विकसितनयनतया निष्कपटमात्मगत एव हर्षातिशय: प्रतीयत इति सोऽस्मदनुकूल:।
रसिकजनहृदयदयिते कविवत्सलकुशलसुकविपरिरचिते।
सप्तशतके समाप्तं गाथाशतकं द्वितीयमिदम्।।१०१।।२
कविवत्सलो हाल: कुशल: प्रमुखो येषु तै: सुकविभिर्निर्मिते।
१. गेह्णह पलोअह इमं पहसिअवअणा पइस्स अप्पेइ।
जाआ सुअपढमुब्भिण्ण्दन्तजुअलङ्किअं बोरम्।।१००।।
[गृह्णीत प्रालोकयतेदं प्रहसितवदना पत्युरर्पयति।
जाया सुतप्रथामोद्भिन्नदन्तयुगलाङ्कितं बदरम्।।]
२. रसिअजणहिअअदइए कइवच्छलपमुहसुकइणिम्मइए।
सत्तसअम्मि समत्तं वीअं गाहासअं एअम्।।१०१।।
[रसिकजनहृदयदयिते कविवत्सलप्रमुखसुकविनिर्मिते।
सप्तशतके समाप्तं द्वितीयं गाथाशतकमेतत्।।]