तृतीयशतकम्
'न मेऽन्यत्रासक्ति:, जनस्तु मिथ्या तथोद्घोषयति’ इत्यनुनयन्तं कान्तं मानिनी सप्रणय-रोषमाह-
आस्तां वा जनवादस्तव प्रमाणं स्वयं हृदयमेव।
मन्दस्नेहोऽसि तथा न यथोपालम्भयोग्योऽसि।।१।।१
अयं साम्प्रतमस्यां मन्दस्नेह इति जनप्रवाद: अस्तु तावत्, दूरे तिष्ठत्वित्यर्थ:। तव हृदयमेव स्वयं प्रमाणम्। मां प्रति शिथिलानुरागतायामहं तवैव हृदयं प्रमाणीकरोमीति भाव:। तथा मन्दस्नेहोऽसि यथा उपालम्भप्रदानस्यापि योग्यो नासीत्यर्थ:। स्नेहशालिन एव प्रणयिने दीयते किलोपालम्भ:। स एव च दाक्षिण्येन तमुपालम्भं सहते। त्वं तूदासीन इति नोपालम्भ-मर्हसीत्याशय:। उपालम्भं प्रददत्या अपि नोपालम्भयोग्य इति विशेषार्थसूचको निषेधोऽत्राभा-सरूपस्तथा च अलङ्कारसर्वस्वकारादीनां मतेनाक्षेपालङ्कार:, 'निषेधाभासमाक्षेपं बुधा: केचन मन्वते।’ अनेन च मुहुर्मुहुस्तव व्यलीकशतैरनुमितादनुरागशैथिल्यात्तवोपालम्भप्रदानमपि नाभिरोचयामि, किं पुनरन्यत्, इति मानिन्या: प्रणयकोपविजृम्भितमभिव्यज्यते।
शृण्वन्तं कञ्चन युवानं वशीकर्तुं यथाभिमतवल्लभाऽप्राप्तिं सूचयन्ती काचित्कुलटा हृदयोपालम्भच्छलेनाह-
आत्मच्छन्दभ्रामक दुर्लभलम्भं जनं मृगयमाण।
आकाशपथैर्भ्याम्यत्कदापि हृदयायि भंक्ष्यसे तात।।२।।२
१. अच्छउ ता जणवाओ हिअअं विअ अत्तणो तुह पमाणम्।
तह तं सि मन्दणेहो जह ण उवालम्भजोग्गो सि।।१।।
[अस्तु तावज्जनवादो हृदयमेवात्मनस्तव प्रमाणम्।
तथा त्वमसि मन्दस्नेहो यथा नेपालम्भयोग्योऽसि।।]
२. अप्पच्छन्दपहाविर दुल्लहलम्भं जणं वि मग्गन्त।
आआसपहेहिँ भमन्त हिअअ कइआवि भज्जिहिसि।।२।।
[आत्मच्छन्दप्रधावनशील दुर्लभलम्भं जनमपि मृगयमाण।
आकाशपथैर्भ्रमद्धृदय कदापि भङ्क्ष्यसे।।]
आत्मच्छन्देन धावनशील! अनेन हि हृदयस्य स्वच्छाचारितां सूचयन्त्यपि सङ्गमादिषु गुरुजनपारतन्त्र्यं व्यनक्ति। दुर्लभो लम्भ: प्राप्तिर्यस्य, सहजमेवाऽसुलभमित्यर्थ:, ईदृशं जनं मृगयमाण अन्विष्यत्! अनेनात्मन उच्चाभिलाषितया रसिकाभिलषणीयत्वमभिव्यज्यते। निरवलम्बनमार्गैर्भ्राम्यत्! रहस्यमेदभिया दूतीप्रमुखोपायपरिहारात् निरवलम्बनं भ्राम्यदित्यर्थ:। नाहं दूत्यादिष्वपि रहस्यं विश्वसिमि। स्वयं हृदयमेव मे तावदान्तरसन्तर्पकं कान्तमन्वेक्ष्यतीति आत्मनो रहस्यगोपनयोग्यतया विश्वसनीयतां सूचयति। अयि हृदय! एवं कुर्वत् कदापि भङ्क्ष्यसे भद्मं भविष्यसि। कदापीत्यपिशब्द: सम्भावनायाम्। सहसैवासुलभं कान्तजनमनन्यसाहाय्ये-नान्विच्छत् पदप्राप्तिदु:खेन निरस्तं भविष्यसीति भूयसी सम्भावनास्तीति भाव:। तथा चैवंविध-विश्वसनीयामुन्नतहृदयां मां चेदनुरज्यसि तर्हि ते परं सौभाग्यमिति शृण्वन्तं प्रति ध्वन्यते। ''दुर्लभलम्भं दुर्लभस्य सुरतसुखस्य लम्भ: प्राप्तिर्यस्मात्तम्। आकाशपथैर्भ्रमत्, दूतीप्रमुखोपा-यादिति भाव:। कदापीत्यपिशब्द: सम्भावनायाम्। क: खलु सुभगो यस्तव भ्रमणं शमयिष्यतीति भाव:’’ इति गङ्गाधरटीका।
गुणगर्विता काचिद् स्वल्पेनैव कालेन विरज्यन्तं विटं निन्दन्ती दूतीमाह-
सुगुणा एव नु लघवोऽथवा गुणज्ञोस्ति न स लोक:।
अथवास्मि निर्गुणा वा बहुगुणवान्वा जनस्तस्य।।३।।१
अपि किं गुणा अनादरणीया जाता इत्यर्थ:। अथवाहं निर्गुणास्मि, यथा मेऽभिमानस्तथा मयि गुणा एव न सन्तीत्यर्थ:। तस्य भुजङ्गस्य जनो गृहिणीरूपो बहुगुणवान् मदपेक्षयाऽधिकगुण-शाली वा, येन न तस्य मयि बहुमान:। एवंविधगुणशालिनीं मां नाद्रियत इति दयित एव गुणपरीक्षणदाक्षिण्यशून्य इत्याशय:।
'आत्मनो हृदयवेदनामावेद्य अन्यासक्तं प्रियतममभिमुखीकुरु’ इति शिक्षयन्तीं मातुलानीं प्रति काचित्प्रियतमस्यास्निग्धतामेवमुदीरयति-
१. अहव गुणव्विअ लहुआ अहवा गुणअणुओँ ण सों लोओ।
अहव ह्मि णिग्गुणा वा बहुगुणवन्तो जणो तस्स।।३।।
[अथवा गुणा लघवोऽथवा गुणज्ञो न स लोका:।
अथवास्मि निर्गुणा वा बहुगुणवाञ्जनस्तस्य।।]
हृदयेन स्फुटतापि च मातुलि तस्मिन्नवेद्यते नु कथम्।
प्रतिबिम्बमिवादर्शे यस्मिन्सङ्क्राम्यति न दु:खम्।।४।।१
सपत्नीजनवश्यतामवगत्य स्फुटता, दु:खेन वशीर्यतापि। अनेन चिरात्क्लेशं सहमानस्य हृदयस्य दु:खभरैरापूर्णता द्योत्यते। दर्पणे प्रतिबिम्बो यथा उपर्येव तिष्ठन्ति नान्त: प्रविशति तथा तस्मिन्प्रियतमेऽपि निवेद्यमानं निजदु:खं न तस्य हृदये स्थानं लभत इत्याशय:। आदर्शदृष्टान्तेन प्रियहृदयस्य बहिश्चाकचक्यशालिता काठिन्यं चाभिव्यज्यतेतथा दूरत एव स स्निग्ध इव प्रतीयते नान्तस्तस्यानुराग:। दु:खं च द्वितीयहृदयान्त:सङ्क्रमणं विना न कारुण्यमुत्पादयेदिति ध्वनितम्।
प्रवासाय कृतोद्यमं नायकं निजसंख्या भाविनीं विरहवेदनामन्यवृत्तान्तप्रदर्शननैपुणेन सूचयन्तीं सखी पथिकगृहिणीवृत्तान्तमवतारयति-
पाशाशङ्की काको नेच्छति दत्तमपि पथिकगेहिन्या।
अवनतकरतलविगलितवलयकमध्यस्थितं पिण्डम्।।५।।२
पथिकगृहिण्या दत्तमपि, पिण्डाऽऽवर्जनार्थमवनतात् अधोमुखीकृतात्करतलाद्विगलि-तस्य वलयस्य मध्यस्थितम्। विरहवेदनया एतावत्कार्श्यं यत्कङ्कणोऽपि कराद्विगलतीति भाव:। ओदनपिण्डं काक: पाशशङ्कया नेच्छतीत्यर्थ:। अत्र गेहिनीपदेन प्रियतमचिन्तया सहैव गृहभार-सञ्चालनक्लिष्टतया विरहस्य सुभृशोत्पीडकत्वं सूच्यते। तथा च विरहकृशाया: शकुनलाभाशया काकाय बलिमुपहरन्त्या: सेयं पथिकगेहिन्या दशा, तादृशीं मा मे प्रियसख्या: करिष्यसीति नायकं प्रत्यभिव्यज्यते। ''प्रयत्नसाधितामपि युवतिं विमृश्यकारितया नोपगच्छन्तं नायकमुत्साह-यितुं दूती सोपालम्भमयापदेशेनाह- इत्यवतार्य पाशशङ्कया पिण्डं यथा काको नेच्छति तथा त्वमपि दीयमानामप्येनां भयशङ्कया परिहरसि’’ इति गङ्गाधरटीका।
१. फुट्टन्तेण वि हिअएण मामि कह णिव्वरिज्जए तम्मि।
आदंसे पडिबिम्बं व्व ज्जम्मि दु:खं ण संकमइ।।४।।
[स्फुटतापि हृदयेन मातुलानि कथं निवेद्यते तस्मिन्।
आदर्शे प्रतिबिम्बमिव यस्मिन्दु:खं न सङ्क्रामति।।]
२. पासासङ्की काओ णेच्छदि दिण्णं पि पहिअघरणीए।
ओअन्तकरअलोगलिअवलअमज्झट्ठिअं पिण्डम्।।५।।
[पाशाशाङ्की काको नेच्छति दत्तमपि पथिकगृहिण्या।
अवनतकरतलावगलितवलयमध्यस्थितं पिण्डम्।।]
प्रोषितपतिकाया: सखी तत्प्रियतमाय त्वरितमागमनमभिसूचयन्ती तदन्तिकगामिनं पथिकमाह-
अवधिदिनागमशङ्काकुलाभिरिह कुड्यविलिखिता रेखा:।
आलीभि: प्रोञ्छ्यन्ते द्वित्रास्तत्रैव चोरिकाया।।६।।१
प्रियतमाऽऽगमनस्यावधिदिनं मागच्छतु इति शङ्कायुक्ताभि: सखीभिर्भित्तिलिखिता दिनगणनारेखा: चोरिकाया चौर्येण तत्प्रच्छन्नमिति यावत्। द्वित्रा: प्रोञ्छ्यन्ते उन्मार्ज्यन्ते अपनीयन्ते। अवधिदिनगणनार्थं नायिकाया प्रत्यहं भित्तौ रेखा: कृता:। अवधिदिनपूरणेऽपि तस्मिन्ननागच्छति इयं प्राणान् जह्यादिति शङ्कया अवधिदिनानागमनार्थं सखीभिर्द्वित्रा रेखा अलक्षितं प्रोञ्छ्यन्ते। यदि तु नियतसमये आगच्छेत्तर्हि एतस्या दृष्टौ अवधिदिनात्पूर्वमेवागमनात्सविशेषानन्द इत्याशय:। अवधिदिनं सम्प्रति कियत्सन्निहितमेतद्धि प्रतिक्षणं सम्मुखे तिष्ठेदित्युत्कण्ठाविनोद: 'कुड्यविलिखित’ पदेन सूच्यते। एतेन नायिकाया: समधिकौत्कण्ठ्यमभिव्यञ्जितम्। एवं चावधिदिनपूरणे सति न यावदियं प्राणान् जह्यात्तावत्वरितमेव भवता सेयं सम्भावनीयेति तद्वल्लभयाभिव्यज्यते।
चाटूक्तिभि: प्रियापरितोषणेन निजाभिलाषं साधयितुकाम: कामुकश्चन्द्रमालोक्यैवमाह-
तव मुखसादृश्यं नो लभत इति हि पूर्णमण्डलो विधिना।
घटयितुमिहान्यमयमिव पुनरपि परिखण्ड्यते शशभृत्।।७।।२
अन्यमयम् अन्यप्रकारं घटयितुमिव निर्मातुमिव। शशभृत् चन्द्रो विधिना विधात्रा पुनरपि पूर्णमण्डलत्वेऽपि परिखण्ड्यते एकद्व्यादिकलाक्रमेण हीन: क्रियते। अन्यप्रकाररचनार्थम्
१. ओहिदिअहागमासंकिरीहिँ सहिआहिँ कुड्डलिहिआओ।
दोतिण्णि तहिं विअ चोरिआएँ रेहा पुसिज्जन्ति।।६।।
[अवधिदिवसागमाशङ्किनीभि: सखीभि: कुड्यलिखिता:।
द्वित्रास्तत्रैव चोरिकया रेखा: प्रोञ्छ्यन्ते।।]
२. तुह मुहसारिच्छं ण लहइ त्ति संपुण्णमण्डलो विहिणा।
अण्णमअं व्व घडइउं पुणो वि खण्डिज्जइ मिअङ्को।।७।।
[तव मुखसादृश्यं न लभत इति सम्पूर्णमण्डलो विधिना।
अन्यमयमिव घटयितुं पुनरपि खण्ड्यते मृगाङ्क:।।]
एकामेकां कलां न्यूनीकृत्य 'मुखसदृशं जातं न वा’ इति मुहुर्मुहुर्निजनिर्माणनिरीक्षणसंरम्भं विधेर्व्यञ्जयत्-परित एकैककलाखण्डनक्रमसूचकं परिखण्ड्यत इति परिपदं मत्कृतच्छायाया-मुपात्तम्। अनया हेतूत्प्रेक्षया चन्द्रमसो मुहुर्मण्डलपूरणं मुहु: खण्डनं चेति व्यतिकरस्य कल्पान्तं यावदसमाप्त्या 'तव मुखसादृश्यं चन्द्र: कल्पान्तपर्यन्तमपि न लप्स्यते’ इति मुखशोभातिशयो मधुरमभिव्यज्यते।
देशान्तरप्रवासाय कृतप्रस्थानस्य गेहान्तरे स्थितस्य नायकस्य 'त्वद्गमने मत्सख्या: का दशा भाविनी’ इति प्रदर्शनेन गमनं निरुन्धती नायिकासखी तद्वृत्तान्तमाह-
अद्य गतोऽद्य गतो बत सोऽद्य गतश्चेति गणयन्त्या।
प्रथमे दिनार्द्ध एव हि रेखाभिश्चित्रितं कुड्यम्।।८।।१
स: 'अद्य गत:, अद्य गत:’ इति कृत्वा, एकदिनार्थमेकां रेखां विलिख्य गणयन्त्या अनया प्रथमे दिनार्द्ध रेखाभिर्गृहभित्तिश्चित्रितेति भाव:। अत्र 'गणयन्त्या’ इति वर्तमानार्थाभिधायिना शतृप्रत्यनेन 'चित्रितम्’ इति भूतार्थवाचकेन क्तप्रत्ययेन च 'गणनाया: पूरणं तु न जातं परं भित्ति: सर्वापि रेखाभि: पूरिता’ इति नायिकाचेष्टितसूचनेन प्रियवरहे क्षणक्षणस्य बहुदिवस-गमनवत् समधिकवेदनादायित्वमभिव्यज्यते। प्रतिदिनमेकां रेखां प्रदाय गणयन्त्या तया दिनार्द्ध एव बहुदिनव्यत्यये सत्यनुभवनीयं विरहदु:खमनुभूतमित्येवकारसहकारेणातिशयोक्तिर्ध्वन्यते। तथा च दिनार्द्ध एव एतावद्विरहवैक्लव्यमनुभवन्त्या अस्या: का वाऽग्रे दशा भवेदिति त्वयैव विचारणीयमिति नायकं प्रत्यभिव्यज्यते। 'कुड्यं रेखाभि: पूरितम्’ इति वक्तव्ये चित्रितमित्युक्त्या सरणिबद्धा रेखा: प्रदाय भित्ति पूरणे सति पुनरवकाशनुसारं नीचैरूपरि वा रेखाप्रदानेन चित्राकारता सूच्यते, एतेन भित्तौ बहुरेखाविलेखनेन विरहक्लेशातिशयो ध्वनित:। एकस्मिन्दिन एव 'अद्य गत: अद्य गत:’ बहुदिवसज्ञानेन नायिकाया: प्रियानुस्मरणजन्यो मोहातिशयोऽपि न विस्मार्य: पाठकै:। रेखाभिश्चत्रितंकुड्यमित्यनेन सा कुड्याभिमुखं मुखं विधाय स्थितेति कार्यान्तरपरिहारेण प्रियचिन्तैकतानतया प्रियप्रेमातिशयो ध्वन्यत इत्यहो गाथाकर्तुरनन्यसाधारणो नि:सीमार्थगुम्फन-महिमा।
प्रथमसमागमे समुपलब्धात्सुरतसुखादपि समधिकसुखकरं भवति व्यतीतप्रथमदिन-घटनास्मरणेन परस्मिन्दिवसे नायिकाया: सलज्जमधुरमवलोकितमित्यात्मन: सहृदयतां सूचयन्नायक: प्रियसुहृदमाह-
१. अज्जं गओत्ति अज्जं गओत्ति अज्जं गोओत्ति गणरीए।
पढम व्विअ दिअहद्धे कुड्डो रेहाहिँ चित्तलिओ।।८।।
[अद्य गत इत्यद्य गत इत्यद्य गत इति गणनशीलया।
प्रथम एव दिवसार्धे कुड्यं रेखाभिश्चित्रितम्।।]
न तथा प्रथमसमागमसुरतसुखाऽऽसादनेऽपि परितोष:।
वदने द्वितीयवासरसविलक्षनिरीक्षिते हि यथा।।९।।१
प्रथमसमागमे यत्सुरतसुखं तस्य प्राप्तावपि तादृक् परितोषो न, यादृक् द्वितीयदिवसे सविलक्षं (रात्रिघटनास्मरणेन सलज्जम्) लक्षितम् अवलोकनं यस्मिन्नीदृशे वदनकमले भवति। तादृशवदनकमलस्य विषय इति वैषयिकसप्तमी सेयम्। यदि तु प्राकृतपदाङ्कानुसरणाग्रहस्तर्हि- ''सुरतसुखे प्रापितेऽपि परितोष:’’ इति रामो राज्यमचीकरदितिवत्स्वार्थणिजन्तघटितं पठनीयम्। एवं सति 'सुरतसुखे प्राप्तेऽपि तथा न परितोषो यथा सलज्जविलोकिते वदने प्राप्त इत्यर्थ: स्यात्। प्रथमसमागमे लज्जासाध्वसौकुमार्यादिभिर्न सुकर: सुरतसुखलाभ इति दुर्लभतमे प्रथमसमागमसुरतसुखे प्राप्तेऽपीत्यत्र अपिपदेन ध्वन्यते। तथा च प्रथमसमागमे सुचिरयत्नशतै: प्राप्तं स्याद्यथाकथञ्चित्सुरतं केनचिन्न तु अवधीरण-जघनाकुञ्चनादिकाठिन्येन सुरतसुखमुपलब्धं भवेत्, परं मया निजदाक्षिण्यगुणेन प्रथमसमागम एव सुरतसुखमुपलब्धमित्यात्मन: सौभाग्यं ध्वनयन् 'तादृशसुखादपि परितोषकरं तस्या: सलज्जावलोकितम्’ इति मार्मिकतां सूचयति। स्वकीयैव चात्र नायिका। गङ्गाधरटीकायां तु- ''पूर्वमकृतस्वीकाराया: पश्चाच्चिरप्रार्थनया स्वीकारं कृतवत्या: प्रथमसमागम एव नायकगुणरञ्जिताया: प्रथमाऽस्वीकारजनितविलक्षं वदनमालोक्य निजगुणगर्वितो नायक: सहचरमाह’’ इत्यवतरणम्।
काचिदनुशयाना मदनशरान्प्रस्तुवतीं सखीमनुनयावधीरणात्परावृत्तस्य प्रियतमस्य साभिलाषमवलोकितमेवमाह-
येऽभिमुखागतविचलद्वलितप्रिययोजिताक्षिविक्षोभा:।
तेऽस्माकं स्मरविशिखा जनस्य ये सन्ति ते सन्तु।।१०।।२
अनुनयार्थं सम्मुखागतेन पुनस्तदवधीरणया व्यतिक्रम्य चलता। मम विमुखनिवर्तनेन कदाचिद्विगतमाना स्यादित्युत्कण्ठावशाद्विवलितेन परिवृत्तेन प्रियेण योजिता: प्रेषिता ये
१. ण वि तह पढमसमागमसुरअसुहे पाविएवि परिओसो।
जह वीअदिअहसविलक्खलक्खिए वअणकमलम्मि।।९।।
[नापि तथा प्रथमसमागमसुरतसुखे प्राप्तेऽपि परितोष:।
यथा द्वितीयदिवससविलक्षलक्षिते वदनकमले।।]
२. जे सँमुहागअबोलन्तवलिअपि अपेसिअच्छिविच्छोहा।
अम्हं ते मअणसरा जणस्स जे होन्ति ते होन्तु।।१०।।
[ये सम्मुखागतव्यतिक्रान्तवलितप्रियप्रेषिताक्षिविक्षोभा:।
अस्माकं ते मदनशरा जनस्य ये भवन्ति ते भवन्तु।।]
अक्षिविक्षोभा:, त एवास्माकं मदनशरा:। जनस्य अन्यजनस्य ये भवन्ति ते भवन्तु। मन्मथशरा यथा मानसमुन्मथयन्ति तथा तादृगवस्थप्रियतमावलोकितान्यपि मे मनसि उत्कण्ठामुत्पाद-यन्तीत्याशय:। 'अपि सत्यं कुसुममया बाणा मन्मथस्येति सख्या पृष्टा सखी सवैदग्ध्यमाह’ इति गङ्गाधरावतरणम्। 'बोलन्त’ इति शत्रन्तस्य व्यतिक्रान्तेतिच्छाया तु न मनोरमा।
श्रोणितटलम्बितकनकदामशालिनीं काञ्चन नितम्बिनीमवलोक्य कनकसूत्रवर्णनच्छलेन निजाभिलाषमेवमाह कश्चित्सहृदय:-
इतरो जनो न लभते तव जघनारोहसङ्गसुखकेलिम्।
अनुभवति कनकदोरो वह्निवरुणयोर्हि माहात्म्यम्।।११।।१
तव जघनारोहणपूर्वकेण सङ्गमेन या सुखसरसा केलिस्ताम् इतरो देवताप्रसादशून्य: अग्निपानीयाख्य- (श्यामशबलाख्य) व्रतरहितो वा जनो न प्राप्नोति। यत्र पूर्वमग्नौ कठिनं सन्तप्य जले प्रविश्यत एवंविधकठिनव्रतधारिणमन्तरा तव जघनारोहपूर्वकं सुरतसुखं न कस्यचित्सुलभमिति भाव:। हुतवहवरुणयोर्देवयोर्महिमानं कनकसूत्रमनु भवति। काञ्चीनिर्माण-समये मुहुरग्नौ मुहुर्जले प्रवेशस्य फलं कनकदोरकोऽनुभवतीत्यर्थ:। किमहमप्येवंविधसौभाग्य-भाक्कदाचन भविष्यामीत्यात्माभिलाषस्तां प्रति ध्वन्यते।
शृण्वन्तं कामुकं प्ररोचयितुं दूती नायिकाया: सौभाग्यातिशयमाह-
यो यस्य विभवसारस्तं स ददातीति किं न्विहाश्चर्यम्।
चित्रमभवदपि दत्तं दौर्भाग्यं तु त्वया सपत्नीनाम्।।१२।।२
विभवसारो धनसङ्ग्रह:। प्रियप्रेमातिशयसौभाग्यशालिन्या, त्वया अभवदपि अवर्तमानमपि दौर्भाग्यं (प्रियप्रणयवञ्चितता) सपत्नीनां दत्तमिति तु सत्यमाश्चर्यम्। प्रियप्राण-
१. इअरो जणो ण पावइ तुह जघणारुहणसंगमसुहेल्लिम्।
अणुहवइ कणअडोरो हुअवहवरुणाणँ माहप्पम्।।११।।
[इतरो जनो न प्राप्नोति तव जघनारोहणसङ्गमसुखकेलिम्।
अनुभवति कनकदोरो हुतवहवरुणयोर्माहात्म्यम्।।]
२. जो जस्स विहवसारो तं सो देइ त्ति किं त्थ अच्छेरम्।
अणहोन्तं पि खु दिण्णं दोहग्गं तइ सवत्तीणम्।।१२।।
[यो यस्य विभवसारस्तं स ददातीति किमत्राश्चर्यम्।
अभवदपि खलु दत्तं दौर्भाग्यं त्वया सपत्नीनाम्।।]
वल्लभायास्तव सविधदेशमपि दौर्भाग्यं न स्पृशति पुनस्त्वया तत्कथं सपत्नीभ्यो दत्तमिति भाव:। अनेन विरोधालङ्कारेण 'यासां सपत्नीनां पूर्वं समधिकप्रियप्रणयशालितासीत्प्रियतमं निजवशमानयन्त्या त्वयैव तासां विरुद्धमपि दौर्भाग्यं घटितमित्यहो ते गुणलावण्यादिमहिमा’ इति वस्तु ध्वन्यते। अभवदपि दौर्भाग्यं त्वया दत्तमित्यक्षरै: 'बहुवल्लभस्य दयितस्य नवागतया कयाचिदपि वल्लभया रूपगुणशालिनीनां पूर्वसपत्नीनां दौर्भाग्यं न जनितं त्वया तत् अभवदपि अजायमानमपि सम्पादितम्’ इत्यर्थोऽपि स्फुटीभवति। अनेन सर्वेण 'एवंविधसौभाग्यशालिन्यपि सुन्दरी भवदर्थे मया संसाध्यते, पश्य ते सौभाग्यम्।’ इति शृण्वन्तं कामुकं प्रति प्ररोचना ध्वन्यते।
प्रवासे तिष्ठन्कश्चित्प्रियतमासमागमसुखानुस्मरणेनोत्कण्ठां विनोदयितुमात्मसुहृदमाह-
चन्द्रसमं तद्वदनं सदृशो ह्यमृतस्य मुखरसस्तस्या:।
सकचग्रहरभसोज्ज्वलचुम्बनमिह कस्य सन्निभं तस्या:।।१३।।१
मुखरस: अधररस:। निधुवनसमये सकचग्रहं रभसोज्ज्वलं च यच्चुम्बनम्, सप्रेम केशग्रहणपूर्वकं कामवेगसरभसतया कमनीयतमं च यत्तस्याश्चुम्बनं तत्कस्य सदृशं, न कस्या-पीत्यर्थ:। सुरतसामयिकं यत्तस्याश्चुम्बनं तदनुपममित्याशय:। तन्मुखस्याधररसस्य चास्मिंल्लोके तुलामलभमाना दिव्याभ्यां चन्द्रामृताभ्यां तौ तुलयाम: कथञ्चित्, परं सुरतसमयसंघटितस्य तत्प्रणयचुम्बनस्य तु त्रिषु लोकेष्वपि साम्यं न प्राप्नुम इत्यनुपममेवेति गाथाकर्तुराकूतम्।
प्रयत्नशतानुमतामपि काञ्चन नायिकां विमृश्यकारितया नानुपगच्छन्तं नायकमुत्तेजयितुं दूत्याह-
उत्पन्नार्थे कार्ये गुणागुणावतिविचिन्तयंस्तस्मिन्।
पुरुषो विहन्ति कार्यं चिरकालसुमन्दवीक्षितया।।१४।।२
१. चन्दसरिसं मुहं से सरिसो अमअस्स मुहरसो तिस्सा।
सकअग्गहरहसुज्जलचुम्बणअं कस्स सरिसं से।।१३।।
[चन्द्रसदृशं मुखं तस्या: सदृशोऽमृतस्य मुखरसस्तस्या:।
सकचग्रहरभसोज्ज्वलचुम्बनकं कस्य सदृशं तस्या:।।]
२. उप्पण्णत्थे कज्जे अइचिन्तन्तो गुणागुणौतसम्मि।
चिरआलमन्दपेच्छित्तणेण पुरिसो हणइ कज्जम्।।१४।।
[उत्पन्नार्थे कार्येऽतिचिन्तयन्गुणागुणौ तस्मिन्।
चिरकालमन्दप्रेक्षित्वेन पुरुषो हन्ति कार्यम्।।]
कार्ये उत्पन्नार्थे सति। उत्पन्न: सिद्ध: अर्थ: अभिलषितपदार्थो यत्र तस्मिन्, कार्ये फलाभिमुखे सतीति यावत्। तस्मिन्कार्ये गुणदोषयोरावश्यकतोऽधिकं विचारं कुर्वन्पुरुष: चिरकालं मन्दप्रेक्षितया नीतिमार्गेण प्रतिक्षणमपायशङ्कित्वेन निजकार्यं विहन्तीत्यर्थ:। त्वत्प्रार्थनया तामनुकूलयन्त्या मया कार्यं साधितमिदानीं त्वं स्वयमेव विलम्बनेन विहंसि। तत्कृतं विचारेण। साधय समीहितमिति दूतीकृतं नायकप्रोत्साहनमभिव्यज्यते।
निजगाढानुरागप्रदर्शनेन प्रणयकुपितं नायकमनुनयन्ती काचित्सचातुर्यमाह-
बालक भवतोऽप्यधिकं मम जीवितमेव वल्लभं निजकम्।
तत्त्वां विना न भवतीति तेन कुपितं प्रसादयामि त्वाम्।।१५।।१
प्रणयपरिणामानभिज्ञत्वेन बालकेति व्यपदेशार्ह। त्वत्तोऽप्यधिकं मम स्वीयं जीवनमेव प्रियम्। तज्जीवितं त्वया विना न भवतीति कारणेन कुपितं त्वां प्रसादयामि। त्वां विना जीवितुमेव न शक्नोमीति व्यङ्ग्यस्य अनया भङ्ग्या कथनेन पर्यायोक्तमलङ्कार:। अनेन च 'त्वया सह निबद्ध्यमानप्राणाया: कीदृशो मे प्रेमबन्धस्त्वं तु तमपि यथावन्न वेत्सि’ इति बालकपदसहकारेण द्योत्यते।
प्रथमं कुपितां ततश्चाटूक्ति- चरणप्रणामादिभि: प्रसन्नां ससान्त्वनदाक्षिण्येन च व्यपग-मितपूर्वं संशयाम् अत एव 'मिथ्या खलवचनदूषितचित्तया मया खेदितोऽसि’ इति वदन्तीं प्रियां सशिरश्चालनकाकूक्तया भूय: खलवचने प्रतीहीति विधिमुखेन युक्त्या निषेधयन्नायक आह-
न प्रतियती प्रतीहि प्ररुदत्या वाष्पबिन्दवो यदि ते।
एते हि भिद्यमाना न पृष्ठपुलकोद्रमेन मम।।१६।।२
१. वालअ तुमाहि अहिअं णिअअं विअ वल्लहं महं जीअम्।
तं तइ विणा ण होइ त्ति तेण कुविअं पसाएमि।।१५।।
[बालक त्वतोऽधिकं निजकमेव वल्लभं मम जीवितम्।
तत्त्वया विना न भवतीति तेन कुपितं प्रसादयामि।।]
२. पत्तिअ ण पत्तिअन्ती जइ तुज्झ इमे ण मज्झ रुअईए।
पुट्ठीअ बाहबिन्दू पुलउब्भेएण भिज्जन्ता।।१६।।
[प्रतीहि न प्रतीयन्ती यदि तवेमे न मम रोदनशीलाया:।
पृष्ठस्य वाष्पबिन्दव: पुलकोद्भेदेन भिद्यमाना:।।]
खलवचनप्रत्ययेन मय्यविश्वासाद् रुदत्या: तव एते वाष्पबिन्दव:। एते इत्यनेन स्पृष्ठे प्रत्यक्षं वाष्पबिन्दुप्रदर्शनं सूचितम्। तथा च नाहं त्वां मद्वचनादेव विश्वासं कर्तुमनुरुन्धे, प्रत्यक्षं ते मम प्रणयप्रमाणमिति ध्वन्यते। मम पृष्ठस्य पुलकाद्गमेन रोमाश्चोद्गमेन यदि न भिद्यमाना न चूर्णीक्रियमाणा भवेयुस्तर्हि न प्रतियती शपथशतै: शोधितापराधेऽपि मयि प्रत्ययं न कुर्वन्ती त्वं खलवचने प्रतीहि पुनर्विश्वासं कुरु। 'पुन: प्रतीहि’ इति सशिरश्चालनं काकूक्त्या प्रोच्यते, तथा च सरलोक्तौ अग्रे खलवचसि न विश्वास: कर्तव्य इत्यर्थ:। अयमाशय:- तवाश्रुबिन्दुभिरपि मम पृष्ठे पुलकोद्गमो जात:। प्रत्यक्षं ममैतत्प्रेमनिदर्शनं पश्यन्त्यपि मयि प्रत्ययमकुर्वाणा त्वं खलवचने प्रत्ययं कुरु। (काकूक्ति:)। अर्थात् एवं प्रणयशालिनि मयि अविश्वासं कृत्वा खलवचसि न भूयो विश्वास: कर्तव्य इति। पततां वाष्पबिन्दूनां पृष्ठपुलकेन चूर्णनोक्त्या रोमाञ्चस्य सुदृढता सूच्यते। तेनाश्रुबिन्दुभिरप्येवं घन: पुलकोद्गमो भवति किं पुनस्त्वत्स्पर्शादिनेति प्रेमातिशयो द्योत्यते। 'भिद्यमाना न भवेयु:’ इति वर्तमानार्थं सूचयता शानचा 'अधुनापि वाष्पबिन्दवो मम पुलकोद्गमेन भिद्यमाना: सन्ति’ इति प्रत्यक्षप्रदर्शनसंरम्भेण नायकस्य प्रेमाध्यवसायातिशय: प्रतीयते।
अत्र गङ्गाधरस्तु 'रोदनशीलायास्तव वाष्पबिन्दवो मम पृष्ठपुलकोद्गमेन भिद्यमानाभिन्ना यदि नाभविष्यन्, तदा त्वं न प्रतीयन्ती प्रत्ययं नाकरिष्य एवेत्यर्थ:’ इत्याह। 'पत्तिअ ण पत्तिअन्ती’ इत्यनेन कथमयमर्थ:? प्रतीयन्तीतिपदस्य प्रत्ययं नाकरिष्य एवेति कथमर्थो जात इति तु विचारणीयमेव। किञ्च प्रतीयन्तीत्यपि च्युतसंस्कृति। एवमनक्षरं जल्पन् गङ्गाधरोऽ-त्रोपेक्षणीय एव। यदि तु स्यात्तत्रापि किञ्चिनमूलमित्याग्रहस्तर्हि तत्पदाङ्कानुसारं व्याकरणस्खलितं परिहृत्यैवं छाया व्याख्यानं च स्यात्-
भूय: प्रतीहि भामिनि न प्रत्यैष्यस्त्वमश्रुपृषतास्ते।
यद्यभविष्यन् भिन्ना न पृष्ठपुलकोद्गमेन मम।।१६।।
हे प्रणयकोपशीले! पुन: प्रतीहि! सशिरश्चालनं काकूक्त्या 'खलवचने पुन: प्रत्ययं कुरु!’ सरलोक्तौ 'प्रत्ययो न कर्तव्य:’ इत्यर्थ:! रुदत्यास्तव वाष्पबिन्दवो यदि मत्पृष्ठस्य पुलकोद्भेदेन रोमाञ्चोद्गमेन न भिन्ना अभविष्यन् तदा त्वं न प्रत्यैष्य: मयि प्रत्ययं नाकरिष्य एव। तवाश्रुजलस्पर्शादपि मम पृष्ठे रोमाञ्चो जात:, त्वत्स्पर्शे तु का कथा। त्वं तु खलवचने प्रत्ययं कुर्वती मुधैव मां व्यथयसीति भाव:। तथा च अश्रुजलस्पर्शादपि रोमाञ्चं वहतो ममानुरागमनुसन्धाय न पुनरग्रे खलवचसि विश्वासं करिष्यसीति नायिकां प्रत्यभिव्यज्यते।
नायकस्य प्रेमदृढीकरणार्थं तस्मिन्नाकर्णयति काचिद्दूतीमाह-
तन्मित्रं कर्तव्यं यह्यसने चापि देशकालेषु।
आलिखितभित्तिपुत्तलकमिव न तिष्ठति पराङ्मुखं जातु।।१७।।१
यन्मित्रं व्यसने विपदि, देशेषु दूरदेशान्तरेषु, कालेषु बहुसमयान्तरालेषु यौवनाद्यपगमे इति यावत्। भित्तौ चित्रलिखितपुत्तलिकेव जातु कदाचिदपि स्वतो विमुखं न तिष्ठति, तादृङ्मित्रं कर्तव्यम्। 'वाउल्लअम्’ पुत्तिलिकेति देशी। आलिखितेति कथनेन चेष्टारहितत्वेन प्रियपरा-धीनता सूच्यते। तथा च य: स्वेच्छया न किमप्याचेष्टितुं शक्नुयात् किन्तु प्रणयपरवश: प्रियजनेच्छयैव किमपि कुर्यादित्यर्थो ध्वन्यते। 'तन्मित्रं युज्यते’ इति स्थाने 'कर्तव्यम्’ इत्युक्त्या निजप्रयत्नेन मैत्री चेद्बध्यते तर्हि परीक्ष्य तादृशमेव मित्रं कर्तव्यमिति सूच्यते। एवं च मत्प्रयत्नेन सञ्जातसौहृदोऽयं मत्प्रेयान् न विश्वासं भङ्क्ष्यतीति प्रेमदृढीकरणमभिव्यज्यते।
अस्मिन्स्थाने जायमानं वृत्तं मया विदितमिति निजनैपुण्यं सूचयन्कश्चित्सहचरमाह-
वध्वा नदीकुञ्जे प्रथमोद्गतशील खण्डन विलक्षणम्।
भणदिव हा हा पक्षैरूड्डीयत इह विहङ्गकुलम्।।१८।।२
वध्वा: नवतरुण्या: प्रथममेव सञ्जातेन शीलखण्डनेन चारित्र्यभङ्गेन विलक्षणं सलज्जम्। अत एव पक्षै: 'हा हा’ इति शब्दं कुर्वदिव इह नदीनिकुञ्जे पक्षिकुलम् उड्डीयते। स्वतो जायमानस्य हा हेत्याकारकपक्षरवस्य शीलखण्डनवैलक्ष्यं हेतुरुत्प्रेक्ष्यते। तथा च निभृतनदीनिकुञ्जे रहोविहितमपि वधूव्यवसितं पक्षिणोऽप्यविदन् किमहमिङ्गितवेदीत्यात्मनो विज्ञत्वं द्योत्यते। वधूपदेन गुरुजनसत्तास्मरणात् गुरुजनपरवशाया अपि तादृक्साहसं कठिनमिति व्यज्यते।
१. तं मित्तं काअव्वं जं किर वसणम्मि देसआलम्मि।
आलिहिअभित्तिवाउल्लअं व ण परम्मुहं ठाइ।।१७।।
[तन्मित्रं कर्तव्यं यत्किल व्यसने देशकालेषु।
आलिखितभित्तिपुत्तलकमिव न पराङ्मुखं तिष्ठति।।]
२. बहुआइ णइणिउञ्जे पढमुग्गअसीलखण्डणविलक्खम्।
उड्डेइ विहंगउलं हा हा पक्खेहिँ व भणन्तम्।।१८।।
[वध्वा नदीनिकुञ्जे प्रथमोद्गतशीलखण्डनविलक्षम्।
उड्डीयते विहङ्गकुलं हा हा पक्षैरिव भणत्।।]
प्रोषितपतिकाया: सखी तत्कान्तागमनत्वरार्थं पथिकद्वारा सन्दिशति-
सत्यं भणामि बालक न चास्त्यशक्यं वसन्तमासस्य।
गन्धेन कुरबकाणामसतीत्वं न हि गता मनागपि सा।।१९।।२
विरहचरित्रानभिज्ञत्वाद् बालकेति सम्बोधनीय! अहं सत्यं भणामि। सम्बोध्यमुद्दिश्य वक्तव्यविषयकथनेनैव सिद्धे पुन: 'सत्यं भणामि’ इत्युक्त्या अहं बोधनीयं त्वां सत्यं बोधयामि इति लक्ष्यते। तेन च 'अहं तव हितैषिणी अस्मि’ इति निजवचनस्य विश्वसनीयत्वं ध्वन्यते। वसन्तमासस्य अशक्यं नास्ति, मनउन्मादकतया शीलखण्डनादिकं वसन्तमासस्य दुष्करं नास्तीत्यर्थ:। परं सा कुरबकाणां परिमलेन ईषदपि असतीत्वं न गता। अनेन 'सा त्वय्येव धृतव्रता वर्तते, आश्वसिहि’ इति द्योत्यते। परमेतेन सहैव 'नास्त्यशक्यं वसन्तमासस्य’ इत्यनेन नायकहृदयेऽधैर्यमप्युत्पाद्यते। तथा च 'विरहे नारीणां हृदयवेदना न ते विदिता, अत एव यावदियं त्वदागमनबद्धलक्ष्या न खण्डितशीला भवति तावदेनामचिरमुपगच्छ’ इति नायकं प्रत्यभिव्यज्यते।
नायकमुत्कण्ठयितुं दूती कस्याश्चिदनुरागातिशयमाह-
एकैककवृतिवेष्टनविवरान्तरदत्ततरललोचनया।
व्युत्क्रामति बाल त्वयि पञ्जरशकुनायितं हि तया।।२०।।२
अवसरे दृष्टिक्षेपानभिज्ञत्वाद् बालकल्प! तामतिक्रम्य त्वयि आगच्छति सति। एकैकस्मिन् वृतिवेष्टनस्य विवरान्तरे प्रहितं चञ्चलं नयनं यया एतादृश्या तया पञ्जरबद्धपक्षिवदा-चरितम्। पञ्जरबद्ध: पक्षी यथा प्रतिविवरं दत्तदृष्टिर्भ्रमति तथा त्वद्दर्शनलालसया तया
१. सच्चं भणामि बालअ णत्थि असक्कं वसन्तमासस्स।
गन्धेण कुरवआणं मणं पि असइत्तणं ण गआ।।१९।।
[सत्यं भणामि बालक नास्त्यशक्यं वसन्तमासस्य।
गन्धेन कुरबकाणां मनागप्यसतीत्वं न गता।।]
२. एक्केक्कभवइवेठणविवरन्तरदिण्णतरलणअणाए।
तइ बोलन्ते बालअ पञ्जरसउणाइअं तीए।।२०।।
[एकैकवृतिवेष्टनविवरान्तरदत्ततरलनयनया।
त्वयि व्यतिक्रान्ते बालक पञ्जरशकुनायितं तया।।]
भ्रान्तमित्यर्थ:। एकैकस्मिन्नित्यनेन 'कदाचिदस्मिन्विवरान्तरे दर्शनसौकर्यं स्यादिति प्रत्येकच्छि-द्रान्तरतो दर्शनेनोत्कण्ठातिशयो द्योत्यते। प्रेषितलोचनयेति वक्तव्ये दत्तपदेन नयनस्य दर्शने गाढसंसक्तत्वं लक्ष्यते। तथा च प्रियदर्शने परवशं नयनमित्युत्कण्ठातिशय: प्रतीयते। तरल-विशेषणेनापि 'नयनमार्गात् प्रिय: शीघ्रं नापक्रामेत्’ इति दर्शनशीघ्रतया उत्कण्ठातिशयो द्योत्यते। शकुनिदृष्टान्तेन 'त्वद्दर्शनादुत्कण्ठिता सा त्वदन्तिके पक्षीवोड्डीयागच्छेत्, परं पक्षिणो यथा पञ्जरबन्धेन पारवश्यं तथा तस्या गृहबन्धने पराधीनता’ इति नायिकानुरागातिशयो ध्वन्यते। तथा च 'एवं बद्धानुरागात्वद्दर्शनार्थमतिप्रयतमानापि सा आगमनसमये त्वया न दृष्टा’ इति 'बालक’ पदसहकारेण नायकस्योत्तेजनं ध्वन्यते।
तस्या गेहमार्गेण गतोऽप्यहं तया न दृष्ट इत्युपालभमानं नायकं नायिकादोषपरिहारार्थं दूती आह-
तत्किं करोतु चेत्त्वं तया हि वृतिवेष्टनाहितस्तनया।
दृष्टोऽसि यन्न पादाङ्गुष्ठार्द्धक्षिप्तनि:सहाङ्ग्यापि।।२१।।१
वृतिवेष्टनस्योच्चतया त्वद्दर्शनाय उच्चैर्नयनप्रेषणार्थं पादाङ्गुष्ठस्य (आद्ये) अर्धभागे क्षिप्तं समर्पितं नि:सहम् अङ्गं यया। 'दर्शनोत्कण्ठावशाद्देहस्यापि नानुसन्धानमासीत्’ इति देहस्याऽनादरसूचनार्थं साऽवहेलं पातनार्थकं 'क्षिप्तं’ पदं प्रयुक्तम्। 'नि:सहम्’ इत्यनेन 'त्वदुत्कण्ठया पूर्वमेव शरीरमवशमासीदिदानीमङ्गुष्ठाग्रे सर्वशरीरभरसमर्पणस्य क्वासीत्सामर्थ्यम्’ इत्युत्कण्ठा-तिशयो व्यज्यते। अत एव शरीराग्रसन्तोलनार्थं वृतिवेष्टने आहितौ स्तनौ यथा। अनेन स्तनयोस्तुङ्गता शरीराग्रस्य च गुरुता सूच्यते। एवं कृतप्रयत्नयापि तया यदि त्वं न दृष्टोऽसि, तर्हि सा किं करोतु? त्वद्दर्शनार्थमत्युत्कठिता कृतप्रयत्नापि सा न द्रष्टुमपारयदिति न तस्या दोष इति भाव:।
कस्यचित्प्रवासिनो जायामभिलषन्तं कञ्चन कामुकं तस्या निजनायके दृढानुराग-सूचनेनासाध्यतां प्रतिपादयन्ती दूती आह-
१. ता किं करेउ जइ तं सि तीअ वइवेट्ठपेल्लिअथणीए।
पाअङ्गुट्ठद्धक्खित्तणीसहङ्गीअ वि ण दिट्ठो।।२१।।
[तत्किं करोतु यदि त्वमसि तया वृतिवेष्टनप्रेरितस्तनया।
पादाङ्गुष्टार्धक्षिप्तनि:सहाङ्ग्यापि न दृष्ट:।।]
प्रियसंस्मरणप्रलुठद्दृग्जलधारानिपातशङ्कितया।
आवक्रितकन्धरया पथिकगृहिण्या प्रदीयते दीप:।।२२।।१
दीपप्रदानोत्तरं प्रियतमसन्निधानसुखं पूर्वमन्वभूवमिति प्रियसंस्मरणेन प्रलुठत् नेत्रयोर्मध्ये सर्वत: सञ्चरत् यत् दृग्जलमश्रु तस्य धारानिपातशङ्काशालिन्या। 'प्रलुठत्’ पदेन दीपदानसमये वाष्पविसर्जनस्यामङ्गलतया तदवरोधनेन वाष्पस्य नेत्राद् बहिरनिष्क्रमणात् नेत्रमध्य एव इतस्तत: सञ्चरणं सूच्यते। 'धारा’ पदेन 'बहो: कालादुपचितमश्रुजलमतो विवशतया तन्निपाते न बिन्दुरपि तु धारा स्यात्’ इति स्मृतिभावविजृम्भणेन प्रियेऽनुरागातिशयो ध्वन्यते। एवं च अश्रुजलं दीपे मा पतदिति वक्रीकृतग्रीवया पथिकगृहिण्या दीप: प्रदीयते। 'गृहिणी’ पदेन गृहसञ्चालनव्यग्रतया, अपवादेन गृहापकीर्त्या च परप्रेमवैमुख्यं ध्वन्यते। एवं प्रेयसि दृढबद्धभावा सा नान्यत्र रतिं कुर्यादिति तदसाध्यता उपनायकं प्रत्यभिव्यज्यते। प्रवासे स्त्रिया विप्रलम्भचेष्टासु सेयमुदाहृता सरस्वतीकण्ठाभरणे।
स्नेहदैन्यसूचकेन कस्याश्चित्परिवृत्त्यावलोकनेन कमपि कामुकयुवानमनुरञ्जयितुं दूती आह-
व्यतिसरति त्वयि बालक वलितान्यङ्गानि किल तथा तस्या:।
मध्येपृष्ठं निपतद्वाष्पकधारा यथा हि दृश्यन्ते।।२३।।२
परप्रेमानभिज्ञत्वाद्बालकल्प! त्वयि व्यतिक्रामति तामतिक्रम्य त्वयि आगच्छति सति तस्या अङ्गानि त्वद्दर्शनार्थं तथा किल वलितानि परिवृत्तानि, यथा भाविना तवाऽदर्शनदु:खेन उत्कठितायास्तस्या निपतन्त्यो बाष्पधारा: पृष्ठमध्ये विलोक्यन्ते। दृश्यन्त इति वर्तमानार्थकलटा
१. पिअसंभरणपलोट्टन्तवाहधाराणिवाअभीआए।
दिज्जइ वङ्कग्गीवाएँ दीवओ पहिअजाआए।।२२।।
[प्रियसंस्मरणप्रलुठद्वाष्पधारानिपातभीतया।
दीयते वक्रग्रीवया दीपक: पथिकजायया।।]
२. इत बोलन्ते बालअ तिस्सा अङ्गाइँ तह णु वलिआइं।
जह पुट्ठिमज्झणिवतन्तवाहधाराओं दीसन्ति।।२३।।
[त्वयि व्यतिक्रामति बालक तस्या अङ्गानि तथा नु वलितानि।
यथा पृष्ठमध्यनिपतद्वाष्पधारा दृश्यन्ते।।]
इदानीमप्यश्रुधारा: सन्तीति प्रदर्शनसम्म्भातिशयेनोत्कण्ठातिशयो द्योत्यते। परिवृत्यावलोकन-समये अङ्गवलनेन तन्वङ्ग्यास्तस्या विरहदौर्बल्यं द्योत्यते। धारा इति बहुत्वेन तस्मिन्नेव समये तावद्बाष्पनिपतनाद् वेदनातिशयो व्यज्यते। तथा च 'त्वदर्थमेवमत्युत्कण्ठिता सा, त्वं तु तस्या अनुरागमविजानन्वराकीं तां क्लेशयसीति तामविलम्बितं किं न सम्भावयसि’ इति बालकपद-सहकारेण सोपालम्भं नायकप्रोत्साहनमभिव्यज्यते।
कापि प्रियतमविरहस्य दु:सहत्वमन्यापदेशेनाह-
मध्यम एव वरं तन्न हि कार्यं सुजनदुर्जनाभ्यां न:।
दृष्टस्तपति यथा किल खलस्तथाऽदृश्यमान इह सुजन:।।२४।।१
यथा दुर्जन: दृष्टो दर्शनपथमायातस्तापयति तथा सुजन: अदृश्यमानो नेत्रयोरगोचरस्ता-पयति। तस्मात् सुजनदुर्जनाभ्यामस्माकं न कार्यम्। मध्यम एव साधारणजन एव श्रेष्ठ इत्याशय:। दृष्ट इति भूतकालिकक्तप्रत्ययेन, अदृश्यमान इति वर्तमानार्थकशानचा च 'पूर्णदर्शनेऽपि दुर्जनो व्यथयति, सज्जनस्य पूर्णाऽदर्शनस्य का कथा वर्तमानमप्यदर्शनं तापयति’ इति तापतार-तम्यमभिव्यज्यते। तपतीत्यन्तर्भावितण्यर्थ:। यथा 'निर्घृणतपति बलीय:’ इति शाकुन्तलम्। तस्य सौजन्यस्मरणेन दु:सहो मे विरह इति नायिकयाभिव्यज्यते।
निजवल्लभं साभिलाषमालोकयन्त्या: कस्याश्चित्कटाक्षनिरीक्षणेनेर्ष्यालु: काचिदाह-
स्वाभाविकं प्रलोकय न कुरुष्वार्द्धाक्षिवीक्षितं सुभगे।
स सुदृष्टोऽपि भविष्यति मुग्धा कलयिष्यसे त्वमपि।।२५।।१
अर्द्धाक्षिवीक्षितं कटाक्षनिरीक्षणम्। पूर्णोन्मीलितनेत्राभ्यां विलोकनात्प्रियदर्शने आधिक्येन सौविध्यमपि भविष्यति। कटाक्षनिरीक्षणं नाधुनापि जानातीति त्वमपि जनैर्मुग्धा
१. ता मज्झिमो व्विअ वरं दुज्जणसुअणेहिँ दोहिँ वि ण कज्जम्।
जह दिट्ठो तवइ खलो तहेअ सुअणो अईसन्तो।।२४।।
[तन्मध्यम एव वरं दुर्जनसुजनाभ्यां द्वाभ्यामपि न कार्यम्।
यथा दृष्टस्तापयति खलस्तथैव सुजनोऽदृश्यमान:।।]
२. अद्धच्छिपेच्छिअं मा करेहि साहाविअं पलोएहि।
सो वि सुदिट्ठो होहिइ तुमं पि मुद्धा कलिज्जिहिसि।।२५।।
[अर्धाक्षिप्रेक्षितं मा कुरु स्वाभाविकं प्रलोकय।
सोऽपि सुदृष्टो भविष्यति त्वमपि मुग्धा कलिष्यसे।।]
गणयिष्यसे। सुभगे! इति सम्बोधनेन 'प्रियसौभाग्यशालिनी त्वमसीति तु ज्ञातमेवास्माभि:’ इति साकूतोक्त्या ईर्ष्याभिव्यज्यते। तदेतदधिकं मच्छायायाम्।
प्रवासे तिष्ठन्कश्चित्कुलशीलपालिकाया निजदयितायाश्चरितमनुस्मरन् विरहविनोद-नेच्छया वयस्यमाह-
गृहकार्यं किल कृत्वा दिवसं तस्या हि रोषमूकाया:।
गुरुकेऽपि मन्युदु:खे स्मरामि पादान्तसुप्तस्य।।२६।।१
समग्रं दिवसमभिव्याप्य गृहव्यापारं कृत्वा। रोषेण मूकायास्तस्या: क्रधजनितोपताप-दु:खे महत्यपि सति। मदनुरागवशाच्छय्यायां मत्पादान्तभागे शयनं स्मरामीत्यर्थ:। पादान्तसुप्त-स्येति मातु: स्मरतीतिवत्कर्मण: शेषत्वविवक्षया षष्ठी। दिवसे गृहकार्यं कृत्वेति वक्तव्ये दिवसमित्यत्यन्तसंयोगेन अनावश्यकेनापि गृहकार्येण दिवससमापनं सूच्यते। तथा च कार्यव्यस्ततामिषात्समग्रदिवसपर्यन्तमभाषणेन कोपातिशयो ध्वनित:। मन्युदु:खमहत्त्वेऽपि पादान्तशयनेन प्रियं प्रत्युत्कण्ठासूचनाद्दयितेऽनुरागातिशय:, कौलीन्यं च ध्वन्यते। क्रोधवशादेक-त्राऽशयनात् 'शय्यान्तसुप्तस्य’ इति वक्तव्ये 'पादान्तसुप्तस्य’ इत्यनेन 'चरणेन मदङ्गस्पर्शे सति सञ्जातकामोदय: कान्तो मामनुनयेत्’ इत्यभिप्रायादौत्मुक्यस्योदय:, कोपस्य च प्रशम इति भावसन्धिर्ध्वन्यते। स च अञ्जितस्य स्मृतिभावस्याङ्गमिति बोध्यम्। 'खुडक्किआ’ रोषमूका।
अधमवनितासक्त इत्यनुरक्तमपि कञ्चन धनिकं परिहरन्तीं दुहितरं वेश्यामाता शिक्षा-निमित्तमाह-
प्रज्वल्य पानकुट्यां हुतवहनो ज्वलति यज्ञवाटेऽपि।
न हि ते परिहर्तव्या विषमदशासंस्थिता: पुरुषा:।।२७।।२
१. दिअहं खुडक्किआए तीए काऊण गेहवावारम्।
गरुए वि मण्णुदु:खे भरिमो पाअन्तसुत्तस्स।।२६।।
[दिवसं रोषमूकायास्तस्या: कृत्वा गेहव्यापारम्।
गुरुकेऽपि मन्युदु:खे स्मराम: पादान्तसुप्तस्य।।]
२. पाणउडीअ वि जलिऊण हुअवहो जलइ जण्णवाडम्मि।
ण हु ते परिहरिअव्वा विसमदसासंठिआ पुरिसा।।२७।।
[पानकुट्यामपि ज्वलित्वा हुतवहो ज्वलति यज्ञवाटेऽपि।
न खलु ते परिहर्तव्या विषमदशासंस्थिता: पुरुषा:।।]
पानकुट्यां मद्यपानस्थाने (शौण्डिककुट्याम्) ज्वलित्वा वह्निर्यज्ञस्थानेऽपि ज्वलति। पवित्रेऽप्यपवित्रे च स्थले लुगुप्सां परिहृत्य समं व्यवहरतीत्यर्थ:। एवमेव विषमदशासंस्थिता: स्वानुचितदशामापन्ना: पुरुषा न परिहारमर्हन्ति। अत्र हुतवहदृष्टान्तेन वह्निं यत्र नयन्ति लोकास्तत्रैव स स्वकार्यं करोति, एवमेव यादृशोऽपि कामुक आयातु अस्माभिर्धनहरणं कर्तव्यमेवेति सूच्यते। तथा च अस्मत्प्रयोजनसाधक: स धनिको न त्वयाऽवधीरणीय इत्यभिव्यज्यते। 'पानकुटी चण्डालकुटी’ इति गङ्गाधर:।
स्वस्य सम्मुखमेव सतीं निजभार्यां बहु मन्यमानमुपनायकं काचिदसती साधिक्षेपमाह-
यत्तव जाया हि सती यच्च सुभग वयमसत्य: स्म:।
तत्किं बीजं स्फुटतु त्वया समानो युवा नास्ति।।२८।।१
त्वयि अव्यभिचरितं प्रेम कुर्वाणा यत्तव जाया सती, स्वभर्तारमवधीर्य त्वयि प्रणयं विदधाना यच्च वयं कुलटा: स्म:, हे सुभग! तत्र बीजं कारणं किं स्फुटतु प्रकटीभवतु? एतदेव कारणं यत्त्वया समानोऽन्यो युवा नास्ति। हे सुभगेत्यामन्त्रणेन त्वमेवातदृश एव सौभाग्यशाली असि!! इति साकूतोक्त्या अधिक्षेपोऽभिव्यज्यते। सापि त्वय्यनुरक्ता वयमप्यन्य-परिहारपूर्वकं भवत्येवाऽऽसक्ता अत एव त्वसदृशो नान्य: कश्चन जगति युवेति सिध्यतीत्यर्थ:। तथा च सर्वपरिहारपूर्वकं भवत्येव निहितप्रणयसर्वस्वां मा प्रत्यक्षमेवापमन्यमानस्य अहो ते यौवनगर्व इत्युपालम्भोऽभिव्यज्यते। 'वयमसत्य: स्म:’ इति बहुवचनेन 'एका तव जायैव सती तदन्या वयं सर्वा अपि या भर्तुरतिचारेणापराद्धास्ता: केवलं त्वत्कारणादेव। अहो धन्यस्त्वं यत्समस्तकामिनीनां त्वमेवावलम्बनम्’ इत्याक्षेपो द्योत्यते। गङ्गाधरस्तु- ''स्वभर्तरि विरागं सूचयन्ती कमप्यसती सतीं निजभार्यां बहुमन्यमानं युवानं सवैदग्ध्यानुरागमाह-’’ इत्यवतरणं कुर्वन्निदं प्रणयवचनमेवाह।
कस्मिन्नपि प्रणयातिशयं प्रकटयन्ती काचिद्दूतीमाह-
सर्वस्वेऽपि च दग्धे निर्वृतिरेव हि तथापि हृदयस्य।
हस्ताहस्तिकया यत्तेन गृहीतो घटो वसतिदाहे।।२९।।२
१. जं तुज्झ सई जाआ असईओ जं च सुहअ अह्मे वि।
ता किं फुट्टउ वीअं तुज्झ समाणो जुआ णत्थि।।२८।।
[यत्तव सती जाया असत्यो यच्च सुभग वयमपि।
तत्किं स्फुटतु बीजं तव समानो युवा नास्ति।।]
२. सव्वस्सम्मि वि दद्धे तहवि हु हिअअस्स णिव्वुदि च्चेअ।
जं तेण गामडाहे हत्थाहत्थिं कुडो गहिओ।।२९।।
[सर्वस्वेऽपि दग्धे तथापि खलु हृदयस्य निर्वृतिरेव।
यत्तेन ग्रामदाहे हस्ताहस्तिकया कुटो गृहीत:।।]
निर्वृतिरनुपमसुखम्। वसतिदाहे ग्रामदाहे यत्तेन मत्प्रेमात्रेण हस्ताहस्तिकया मम हस्तान्निजहस्तेन घटो गृहीत: एतावन्मात्रेणापि ममालौकिकं सुखमित्यर्थ:। तत्करस्पर्शस्य कृते सर्वस्वनाशमपि न किञ्चिद्गणयन्त्या मे कियांस्तस्मिन्ननुराग इति त्वमेवानुमिनुहीति दूतीं सूचयन्त्यानिजप्रणयो ध्वनित:। हर्षाख्य: सञ्चारी द्योत्यत इति सरस्वतीकण्ठाभरणम्।
गुरुजनसविधे गृहकर्मव्यापृता काचिदसती दूतीसमानीतकामुकसमागमवृत्तमाकर्ण्य तत्रासमर्थतामन्यापदेशेनाह-
कुब्जोपि जायतां किल नि:शाखो गलितपल्लवो विपिने।
मा मानुषे तु लोके त्यागी रसिको दरिद्रश्च।।३०।।२
वनोद्देशे पत्रशाखारहित: कुब्जो मध्यकुटिलो लघुवृक्षक एव कामं जायताम्, परं त्यागी दानशील:, रसिक: सानुराग: शृङ्गारी च जनो दरिद्रो निर्धन: अवसररहितश्च लोके मा जायतामित्यर्थ:। वने कदाचिदेवावश्यकतायां कुब्जवृक्ष: काष्ठादिद्वारा निजोपयोगं समुन्नयेत्, परं जनसमाजे प्रतिक्षणव्यवहारापेक्षायां त्यागिनो रसिकजनस्य दरिद्रा वस्थायां को वा जीवनोपयोग इत्याकूतम्। तथा च तं प्रति सानुरागाया अपि अवसरदरिद्राया मे तदसमागमनिमित्तं महद्दु:खमिति दूतीं प्रत्यभिव्यज्यते। 'जाएज्ज’ इत्यस्य जायतामिति छाया गङ्गाधरानुरोधेन। वस्तुतो 'जायेय’ इत्येवोचिता प्रतीयते।
उपपतिं प्रति गाढानुरागं सूचयन्तीं काचितन्मित्रमाह-
तस्य च सौभाग्यगुणं मम साहसमेतदमहिलासदृशम्।
बोधति गोदापूरो वर्षासमयोऽर्द्धरात्रश्च।।३१।।२
१. जाएज्ज वणुद्देसे कुज्जो वि हु णीसहो झडिअपत्तो।
मा माणुसम्मि लोए ताई रसिओ दरिद्दो अ।।३०।।
[जायतां वनोद्देशे कुब्जोऽपि खलु नि:शाख: शिथिलपत्र:।
मा मानुषे लोके त्यागी रसिको दरिद्रश्च।।]
२. तस्स अ सोहग्गगुणं अमहिलसरिसं च साहसं मज्झ।
जाणइ गोलाऊरो वासारत्तोद्धरत्तो अ।।३१।।
[तस्य च सौभाग्यगुणममहिलासदृशं च साहसं मम।
जानाति गोदापूरो वर्षारात्रार्धरात्रश्च।।]
अमहिलासदृशं स्वभावभीरुषु वनितास्वप्राप्यम्। मामन्तरा न काचिदपि रामा एतद्विधातुं समर्थेति भाव:। एतदिति स्ववर्णितस्य विश्वासार्थमिति बोध्यम्। एतन्मम साहसं वर्षासमयार्द्धरात्रे गोदावरीतरणं कृत्वा तदभिसरणरूपम्। बोधति जानाति। तस्यैतावत्सौभाग्यं यत्तदर्थमहं वर्षासु वेगवाहिनीं गोदावरीमन्धकारितदिगन्तेऽर्द्धरात्रेप्युत्तरामीति भाव:। तथा चावयोर्मिथोनुरागवृत्तं न कोऽपि मानुषो जानातीति निभृतमभिव्यज्यते। अत्र वर्षासमय इति निगुम्फनं पुनरुक्तिपरिहारार्थम्। यदि तु मूलानु-रोधस्तर्हिं- 'वर्षारात्रोऽर्द्धरात्रश्च’ इति पाठ्यम्। वर्षारात्रोऽर्द्धरात्र इति द्वि:पाठेन 'तदभिसरणे रात्र्यर्द्धं व्यतीतम्, कदाचित्कदाचित्समग्रा रात्रिरेव व्यतीतेति सूचनेन नायकेऽनुरागा-तिशयो ध्वन्यते।
कथमधुना प्रेमचर्या परित्यक्तेति केनचित्कामुकेन साकूतमुक कता कुलटा तं प्रति सखेदमाह-
ते व्यतिगता वयस्या: कुञ्जास्ते स्थाणुमात्रपरिशेषा:।
बत वयमपि गतवयसो मूलोच्छेदं गतं प्रेम।।३२।।१
यै: सह तादृशोऽनुराग आसीत्ते वयस्या: समानशीला व्यतिक्रान्ता:, अस्मानतीत्य दूरं गता इत्यर्थ:। येषु तै: सह सुरतसुखमनुभूतं तेषां लताभवनानां स्थाणवोऽवशिष्टा:। अस्माकमपि तदनुकूलं वयो व्यतीतम्। अतो हन्ते प्रेम मूलोच्छेदं गतम्, मूलतो नाशं प्राप्तमित्यर्थ:। 'ते वयस्या:’ इति वयस्यपदेन 'अस्माकं समानवयसस्त एवासन्, नववयोगर्वितस्त्वं तु नास्माकं वय: परिपाककृतां प्रौढतां जानीया इति गूढमात्माभिप्रायो ध्वन्यते। मूलोच्छेद्यमिति तु गङ्गाधरानुमत: पाठ:।
गतयौवनामपि सुरताद्यसक्तां काञ्चिदसतीं प्रति परिहासशील: कश्चिदाह-
गतवयसां वनितानां स्तनजघननितम्बरूढनखराङ्का:।
उद्वसितस्मरवसतेर्मूलविबन्धा इवावलोक्यन्ते।।३३।।२
१. ते वोलिआ वअस्सा ताण कुडङ्गाण थाणुआ सेसा।
अह्मे वि गअवआओ मूलुच्छेअं गअं पेम्मम्।।३२।।
[ते व्यतिक्रान्ता वयस्यास्तेषां कुञ्जानां स्थाणव: शेषा:।
वयमपि गतवयस्का मूलोच्छेद्यं गतं प्रेम।।]
२. थणजहणणिअम्बोवरि णहरङ्का गअवआणँ वणिआणम्।
उव्वसिआणङ्गणिवासमूलबन्ध व्व दीसन्ति।।३३।।
[स्तनजघननितम्बोपरि नखराङ्का गतवयसां वनितानाम्।
उद्वसितानङ्गनिवासमूलबन्धा इव दृश्यन्ते।।]
स्तनजघननितम्बोपरि जातानि नखक्षातानि, उद्वसिता शून्यीकृता या स्मरवसतिरनङ्ग-निवासस्तस्या मूलबन्धा इव मूलबन्धनचिह्नानीव दृश्यन्त इत्यर्थ:। कस्यचन पुरातनगृहस्योपरि-भाग: कालान्नश्यति केवलं मूलबन्धनमात्रं यथा दृश्यते तथेति भाव:। एवं च स्तनजघननितम्बानां कामकेलिसमुचिता श्रीस्तु गता तत्स्मृतिचिह्नमात्र मेवेदानीमवशिष्यत इति निपुणमभिव्यञ्जितम्।
सर्वेऽपि यूयं तां दृष्ट्वा आगता:। कथयत कीदृक्तस्या रूपमिति नायकेन पृष्टा: सहचरा आहु:-
तस्या अङ्गे प्रथमं यत्रैव हि यस्य निपतिता दृष्टि:।
तत्रैव तस्य मग्ना, सर्वाङ्गं किल न केनचिद्दृष्टम्।।३४।।१
'विनिहिता’दिस्थाने 'निपतिता’ इति कथनेन यदृच्छयापि गता दृष्टिर्निबध्यते किं पुनरभिलाषपुरस्सरमित्यङ्गानां लावण्यातिशयो व्यज्यते। तस्मिन्नेवाङ्गे तस्य दृष्टिर्मग्रेत्यत्र 'मग्रा’ इति पदेन अधिकालोचनबुध्द्या दृष्टे: स्थिरतया अवशत्वं लक्ष्यते। तेन च लावण्यसिन्धुरिव सा सौन्दर्येणाऽगाधेति ध्वन्यते तदेतन्मच्छायायामाधिक्यम्। सौन्दर्यसिन्धोस्तस्या एकैकाङ्गशो-भादर्शने निश्चलनिलीना दृष्टिर्न सर्वाङ्गशोभादर्शनसमर्थेत्याशय:। एवं चाऽनिर्वचनीयं तस्या लावण्यमिति ध्वनितम्।
प्रवासे विरहवेदनामत्यन्तमनुभूय गृहमागत: प्रियतमासमागमेन सन्तुष्ट: कश्चिदाह-
विरहे विषमिव विषमाऽप्यमृतमयी भवति सङ्गमेऽभ्यधिकम्।
किं विधिना सममेव द्वाभ्यामपि निर्मिता दयिता।।३५।।२
वियोगे विषमिव विषमापि जीवितसंशयस्थानमपि संयोगे अत्यन्तममृतमयी जीवनौषधिर्भवति। अत: किं विधात्रा सममेव समभागाभ्यामेव द्वाभ्यां विषामृताभ्यां प्रिया
१. जस्स जहं विअ पढमं तिस्सा अङ्गम्मि णिवडिआ दिट्ठी।
तस्स तहिं चेअ ठिआ सव्वङ्गं केण वि ण दिट्ठम्।।३४।।
[यस्य यत्रैव प्रथमं तस्या अङ्गे निपतिता दृष्टि:।
तस्य तत्रैव स्थिता सर्वाङ्गं केनापि न दृष्टम्।।]
२. विरहे विसं व विसमा अमअमआ होइ संगमे अहिअम्।
किं विहिणा समअं विअ दोहिं वि पिआ विणिम्मिअआ।।३५।।
[विरहे विषमिव विषमामृतमया भवत सङ्गमेऽधिकम्।
किं विधिना सममेव द्वाभ्यामपि प्रिया विनिर्मिता।।]
निर्मिता? तथा च प्रियैव मे जीवनसर्वस्वम्, इमां विना नाहं जीवितुं समर्थ इति नायकेना-भिव्यज्यते।
नायिकेच्छानुसारं नायकस्य चिरप्रवासं युक्त्या निवारयन्ती वयोऽधिका काचिद्दूती आह-
सुत चिरमददर्शनेन हि सुष्ठ्वपि रागानुबन्धघटितानि।
प्रेमाण्यञ्जलिसलिलानीव गलन्तीह कालेन।।३६।।१
पुत्र! सुष्ठु सम्यक्प्रकारेण। स्नेहानुबन्धेन घटितानि परस्परमचलीकृतान्यपि प्रेमाणि, कालेन यथा हस्तपुटे नीतानि पानीयानि गलन्ति तथा चिरकालमदर्शनेन गलन्ति न्यूनी-भवन्तीत्यर्थ:। कालविलम्बे सति शनै: शनै: प्रस्रवणेन न्यूनीभवतामञ्जलिजलानां यथा न भवति प्रतीतिस्तथैव चिरकालं यावत्परस्परदर्शनाभावे शनैर्न्यूनीभवन्ति प्रेमाणि नप्रतीयन्त इति भाव:। पुत्रेत्यनेन अवञ्चनीयतया हितोपदेश्यत्वं द्योत्यते। तथा च चिरप्रवासेन कदाचित्तस्या: प्रेमबन्ध: शिथिलीभवेदिति भयं प्रदर्श्य प्रवासनिवारणं युक्त्या ध्वन्यते। ''चिरप्रवासागतेन भुजङ्गेनोपालब्धा वेश्यामाता भुजङ्गान्तरलग्नाया दुहितुर्दोषं परिहरन्ती आह’’ इति गङ्गाधरटी-कावतरणम्।
गृहजनसत्तायां कथं मत्समीहितं सेत्स्यतीति संशयानं कञ्चन युवानं प्रत्यायन्ती दूती स्त्रीणां बहुच्छलत्वमाह-
पतिपुरत एव नीता वृश्चिकदष्टेति जारवैद्यगृहम्।
निपुणसखीकरविधृता भुजयुगलान्दोलिनी बाला।।३७।।२
१. अद्दंसणेण पुत्तअ सुट्ठु वि णेहाणुबन्धघडिआइं।
हत्थउडपाणिआइँ व कालेण गलन्ति पेम्माइं।।३६।।
[अदर्शनेन पुत्रक सुष्ठ्वपि स्नेहानुबन्धघटितानि।
हस्तपुटपानीयानीव कालेन गलन्ति प्रेमाणि।।]
२. पइपुरओ व्विअ णिज्जइ विच्छुअदट्ठेति जारवेज्जघरम्।
णिउणसहीकरधारिअ भुअजुअलन्दोलिणी बाला।।३७।।
[पतिपुरत एव नीयते वृश्चिकदष्टेति जारवैद्यगृहम्।
निपुणसखीकरधृता भुजयुगलान्दोलनशीला बाला।।]
निपुणाभि: रहस्यगोपनचतुराभि: सखीभि:, पीडाविकला माऽसौ पथि खिद्यतामिति करे धृता। विषजनितवेदनाव्याजेन करयुगमितस्तत: प्रक्षिपन्ती बाला। वृश्चिकदष्टेति व्याजेन पत्युरग्रत एव जारवैद्यगृहं नीता। अत्र वर्तमानार्थेन नार्थविशेषपुष्टिरिति 'नीयते’ इत्यस्य स्थाने 'नीता’ इति भूतकालिकप्रयोगो बन्धानुरोधेन। बालापदेन 'बालाया एव एतावत्पाटवं प्रगल्भा-यास्तस्यास्तु तत्किं वक्तव्यमित्याकूतमभिव्यज्यते। ततश्च 'पत्युरग्रत एव चेदेवं भवेत्तर्हि अन्यपरिजनस्य का गणनेति मा तल्लाभे सन्दिह्यताम्’ इति दूत्या नायकप्रोत्साहनमभिव्यज्यते।
क्षुद्रजना: प्रयोजनैकमित्राणि भवन्तीति चातुर्येण सूचयन्ती पूर्वसुभगा नववधूसमर्पित-प्रणयसर्वस्वं कान्तमन्यापदेशेनाह-
विक्रीणीते माघे प्रावरणं पामरो हि बलदेन।
निर्धूममुर्मुरनिभौ नूनं श्यामास्तनौ पश्यन्।।३८।।१
प्रावरणमुपर्यावरणपटम्। प्रावरणं प्रदाय बलीवर्दं क्रीणातीत्यर्थ:। निर्धूममुर्मुरनिभौ सोष्मत्वेन शीतनिवारकत्वान्निर्धूमतुषाग्निसदृशौ। षोडशवार्षिक्या: नववध्वा: स्तनौ पश्यन्। पामरदृष्टौ शीतनिवारकयो: कुचयोर्मुर्मुरसादृश्यमिति ग्राम्यत्वं गुणो न दोष:। 'माघे’ इत्यनेन शीतबाहुल्यं सूचितम्। तथा च पामरो यथा सम्प्रति शीतबाधानिवारकौ श्यामास्तनावुपलभ्य दु:सहशीतसङ्कटनिवर्तकतया पूर्वं बहुधा कृतोपकारमपि प्रावरणं परित्यजति, तथा लब्धाभिन-ववधूकस्य तव पूर्वं दत्तप्रेमसर्वस्वयापि मया किं कार्यम्। परं तदिदं क्षुद्रतासूचकमित्युपालम्भो व्यज्यते। अत्र हीनपात्रनिष्ठा रतिरिति रसाभास इति सरस्वतीकण्ठाभरणम्। परमेतत्प्रौढिवाद-मात्रम्। अनौचित्यमेव हि आभासताप्रयोजकम्। स्वस्वभावानुसारमापामरमपि सर्वेषां रत्यादिभावानुभावित्वादास्वादस्याऽबाधत्वेन स्यादेव रस:। को वा तत्रानौचित्यप्रसङ्ग:? किं च हीनत्वं नाम सापेक्षम्। स्यादस्मद्वर्ण्यानामपि कस्यचिदुच्चपात्रस्यापेक्षया हीनत्वमित्यनवस्था। अतो यत्रानौचित्यं तत्रैव रसाभासता। अनौचित्यं च सहृदयव्यवहारतो ज्ञेयम्। यत्र तेषामनुचित-मिति धी: प्रसज्यते तत्रैव तदिति कृतं प्रसक्तानुप्रसक्तेन।
स्वभावरक्तानां काल-वयो-व्यत्ययेऽपि न मानसा भावा विपरिवर्तन्त इति सूचयन्ती काचिदाह-
१. विक्किणइ माहमासम्मि पामरो पाइडिं वइल्लेण।
णिद्धूममुम्मुर व्विअ सामलीँअ थणो पडिच्छन्तो।।३८।।
[विक्रीणीते माघमासे पामर: प्रावरणं बलीवर्देन।
निर्धूममुर्मुरनिभौ श्यामल्या: स्तनौ पश्यन्।।]
सत्यं भणामि मरणे स्थितास्मि पुण्ये तटे ताप्या:।
अद्यापि तत्र कुञ्जे निपतति दृष्टिस्तथैव मम।।३९।।१
मरणे स्थितास्मि, मरणपथसन्निहिता जातास्मीति वार्द्धक्यं सूच्यते। सेयं लोकशैली। तापीनद्या: पवित्रे तटे च स्थितास्मीति देहलीदीपवदुभयत्र सम्बन्ध:। अथवा पवित्रे तापीतटे अभिसारार्थं य: कुञ्जस्तत्रेत्यग्रतनेन सम्बन्ध:। तत्र, यत्र बहुवारमभिसारो विहितस्तस्मिन्कुञ्जे। यथा पूर्वमनुरागोन्मादादभिसारोत्सुका पतति स्म, तथैव। कथयतो जनस्य भणामीत्युक्तेर्बाधितत्वेन 'सत्यं विश्वासं जनयामि’ इति लक्ष्यते। तथा च त्वां सत्यमात्मानुभवं कथयामीत्यात्मनो विश्वसनीयवाक्यत्वं द्योत्यते। एवं चास्मिन् समयेऽपि बहुसमये व्यतीतेऽपि न मे पूर्वभावाप-मार्जनमिति मञ्जिष्ठारागशालिनां न कदाचिद्भावेषु परिवर्तनं भवतीति रसिकचेत: स्थेमता ध्वन्यते। ''स्त्रीषु कदापि विश्वासो न कर्तव्य इति बन्धुजनशिक्षार्थं काचिदाह’’ इति गङ्गाधराव-तरणम्।
कापि कुलयोषित्कुलटाजनप्रलोभितं भर्तारमुद्दिश्य सखीजनमाह-
अन्धकरबदरभाजनमिव मम लुण्ठन्ति मातरो दयितम्।
ईर्ष्यन्ति मह्यमेव च लाङ्गूलेभ्य: फणो जात:।।४०।।२
हे मातर:! एतेन सखीनां वय: प्रौढिरात्महितेच्छुकत्वं च सूच्यते। तेन च मामस्मात्स-ङ्कटात्परित्रास्यध्वे इति कारुण्यमभिव्यज्यते। अन्धकरस्थितं बदरफलपात्रमिव मम दयितं लुण्ठन्ति आच्छिन्दन्ति चौर्येणाभिसरन्तीत्यर्थ:। अथ मह्यमेव च ईर्ष्यन्ति, मम प्रियतमोपाश्रय-णान्मत्तो विनययोग्यतायामपि मया सहैव ईर्ष्यां कुर्वन्तीति भाव:। अतो लाङ्गूलेभ्य: पुच्छेभ्य:
१. सच्चं भणामि मरणे ट्ठिअह्मि पुण्णे तडम्मि तावीए।
अज्ज वि तत्थ कुडङ्गे णिवडइ दिट्ठी तह च्चेअ।।३९।।
[सत्यं भणामि मरणे स्थितास्मि पुण्ये तटे ताप्या:।
अद्यापि तत्र निकुञ्जे निपतति दृष्टिस्तथैव।।]
२. अन्धअरबोरपत्तं व माउआ मह पइं विलुम्पन्ति।
ईसाअन्ति महं विअ छेप्पाहिन्तो फणो जाओ।।४०।।
[अन्धकरबदरपात्रमिव मातरो मम पतिं विलुम्पन्ति।
ईर्ष्यन्ति मह्यमेव लाङ्गूलेभ्य: फणो जात:।।]
फणो जात:। यद्धि पुच्छं पश्चाद्भावित्वेन निगूहनयोग्यं तदेव अग्रस्थानमासाद्य फणारूपेण दंशकमभवदित्यर्थ:। लौकिकमाभाणकं चेदम्। अन्धकरे स्थितमित्यनेन सखीबुद्ध्या न ताभ्यो मया प्रियतम: पूर्वमवेक्षित इत्यात्मनो विश्वासवशादनवहितत्वं द्योत्यते। बदरपात्रमिवेत्युप-मया 'अतिसमर्घं बदरपात्रं यथा हेलया लोका आच्छिन्दन्ति, तथा असतीनां कृते अतिसुलभोऽ-भून्मे भर्ता’ इत्यभिव्यज्यते। बदरभाजनमिति 'भाजन’ पदेन बदरफलानामुपरित्वचि सुमसृणतया उन्मुक्तपात्रस्थितानां तेषामन्धहस्तान्निभृतमपसारणे न भवति प्रतीतिरिति सूच्यते। तेन च सरलानुरक्तहृदयो मे प्रियतम: सहजमेव प्रलोभ्य इति ध्वन्यते। विलुम्पन्तीति मूलपदेन दयितस्यैकान्तवशीकरणं सूच्यते। तेन च 'मत्त: सर्वथा तमाच्छिन्दन्ति’ इति द्योत्यते। संस्कृते तु तथाशैल्यभावालुण्ठन्तीति प्रायुज्यत। तथा च कृतविश्वासाया मम व्यलीकमनुष्ठायापि मयैव सहेर्ष्यां कुर्वतीनामासामसतीनां प्रलोभनाद्दयितं विमोच्याहं रक्षणीयेति सखी: प्रत्यभिव्यज्यते।
कस्याश्चित्स्वल्पद्रव्यसाध्यतां सूचयितुं क्षुद्राणामल्पलाभेन गर्वशालितां नायकं प्रति प्रतिपादयति दूती-
हलिकस्नुषा हि लब्ध्वा नवनवरङ्गकमलभ्यलाभमिदम्।
पश्यत न माति बृहतीष्वपि तन्वी ग्रामरथ्यासु।।४१।।१
न लभ्यो लाभो यस्य तत्, पूर्वं कदापि न प्राप्तमित्यर्थ:। अप्राप्ता प्राप्तिर्यस्येति मूले। नवरङ्गकं कुसुम्भवस्रं नवं च तत् नवरङ्गकं च नवनवरङ्गकम् लब्ध्वा। स्वभावतस्तन्वी अपि विस्तीर्णास्वपि ग्रामरथ्यासु न माति इति पश्यत। इदमिति प्रत्यक्षप्रदर्शनेन स्ववचसो विश्वसनीयत्वं व्यज्यते। ग्रामरथ्यास्वित्यनेन हर्षातिशयाल्लोकानां पुरतो भ्रमणेन तत्प्रदर्शनोत्साहो ध्वन्यते। रथ्यास्विति बहुवचनेन ग्रामस्य सर्वरथ्यास्था लोका: पश्यन्तित्वति बुद्ध्या बहुरथ्याभ्रमणेन तदतिशयो द्योत्यते। स्नुषापदेन नवयौवनचाञ्चल्यसुलभो हर्षप्रकाशनरभसो व्यज्यते। एवं च ग्रामरथ्यास्वपि न मातीत्यतिशयोक्त्या असाधारणहर्षातिशयसहकृतो गर्वोऽभिव्यज्यते।
प्रियप्रत्यक्षदृष्टमप्यपराधं वाक्चातुर्येणापनीतवतीं सखीं काचित्ससन्तोषबहुमानमाह-
१. अप्पत्तपत्तअं पाविऊण णवरङ्गअं हलिअसोण्हा।
उअह तणुई ण माअइ रुन्दासु वि गामरच्छासु।।४१।।
[अप्राप्तप्राप्तं प्राप्य नवरङ्गकं हलिकस्नुषा।
पश्यत तन्वी न माति विस्तीर्णास्वपि ग्रामरथ्यासु।।]
वाक्क्षेपकाणि परहृन्निर्वृतिदानि प्रियाणि गदितानि।
विरलो जानाति जनो ह्युत्पन्ने जल्पितव्यानि।।४२।।१
वाक्क्षेपकाणि प्रतिवादिवचनास्कन्दकानि। सम्प्रत्ययजननात्परहृदयस्य निर्वृतिदाय-कानि सन्तोषकराणि। उत्पन्ने अपराधादौ जल्पितव्यानि, प्रियाणि गदितानि (प्रियवचनानि) विरलो जनो जानातीत्यर्थ:। प्रत्यक्षमुत्पन्नमपराधं वीक्ष्यं सन्दिहानस्य भर्तुर्वचनान्यभिभूय मधुरवचनकौशलेन त्वयैव तत्सन्तोष उत्पादित इति त्वमसाधारणासीत्याशय:।
नायकस्यानीप्सितामपि गृहीतमानां सखीं बोधयितुं सखी आह-
ललितं प्रभो: प्रियाया मानो भाति क्षमा समर्थस्य।
भणितं च जानत: किल मौनं चाजानतो नूनम्।।४३।।२
प्रभो: समर्थस्य स्वामिनो ललितं स्वेच्छाक्रीडितं भाति शोभते। प्रियाया मान: शोभते न तु अमनोनीततया अप्रियाया:। एवं भातीति सर्वत्र योज्यम्। अनेन च दीपकेन 'अप्रियायास्तव मानो दयितस्य कोपोद्दीपक एव भवेदतो न त्वया मान: कार्य:’ इति सखीं प्रत्यभिव्यज्यते।
मदनलेखेन प्रियं प्रत्यात्मवेदनां सूचयेति सख्योक्त्या दर्शनश्रवणादिना प्रथममेव प्ररूढनायकरागा काचिदाह-
कम्प्रस्विन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे।
स्वस्त्येव पूर्यते नो प्रियसखि लेखे लिखाम: किम्।।४४।।३
१. आक्खेवआइँ पिअजम्पिआइँ परहिअअणिव्वुदिअराइं।
विरलो खु जाणइ जणो उप्पण्णे जम्पिअव्वाइं।।४२।।
[वाक्क्षेपकाणि प्रियजल्पितानि परहृदयनिर्वृतिकराणि।
विरल: खलु जानाति जन उत्पन्ने जल्पितव्यानि।।]
२. छज्जइ पहुस्स ललिअं पिआइ माणो खमा समत्थस्स।
जाणन्तस्स अ भणिअं मोणं च अआणमाणस्स।।४३।।
[शोभते प्रभोर्ललितं प्रियाया मान: क्षमा समर्थस्य।
जानतश्च भणितं मौनं चाजानत:।।]
३. वेविरसिण्णकरङ्गुलिपरिग्गहक्खसिअलेहणीमग्गे।
सोत्थि व्विअ ण समप्पइ पिअसहि लेहम्मि किं लिहिमो।।४४।।
[वेपनशीलस्विन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे।
स्वस्त्येव न समाप्यते प्रियसखि लेखे किं लिखाम:।।]
कम्पमाना: स्वेदयुक्ताश्च या: कराङ्गुलयस्ताभि: परिग्रहणेन स्खलिता विस्रस्ता या लेखनी तस्या: मार्गे। स्वस्तीति प्रारम्भिकवर्णद्वयमेव न समाप्यते, आत्मवेदानादिकमन्यत् लेखे किं लिखाम इत्यर्थ:। प्रियस्मरणेनाङ्गुलीषु कम्पस्वेदोदयात्तथाविधाङ्गुलिमध्यान्मुहुर्विगलि-ताया लेखन्या लेखे स्वस्तिमात्रमपि लेखितुं न पारयामि किमन्यदिति भाव:। स्मरणमात्रेण कम्पस्वेदादिसात्त्विकभावोदयान्नायकं प्रति निरतिशय: प्रणयोऽभिव्यज्यते। एतद्व्याख्याने 'स्विन्नाभिरङ्गुलिभि: परिग्रहेण स्खलिते लेखनीमार्गे स्वस्तीति न पूर्यते’ इति गङ्गाधरोक्तिर्विचार-णीयैव। स्विन्नाङ्गुलिद्वारा ग्रहणेन लेखनी स्खलति न पुनर्लेखनीमार्ग:। किञ्च 'मदनलेखं लिखेति सख्योक्ता प्रोषितभर्तृका आह’ इत्यवतरणमपि नवीनमेव। पूर्वानुराग एव अप्राप्तनायक-समागमाया नायिकाया: शाकुन्तलादौ मदनलेखो दृष्टो न पुन: शतश: प्रियोपभुक्ताया: प्रोषितभर्तृकाया:। अत एव 'विप्रलम्भपरीष्टिषु लेखविधानेन प्रेमपरीक्षा’ इत्यादिना पूर्वानुरागे लेखद्वारा नायिकाया: प्रेमावेदनप्रसङ्ग एवोदाहृता सेयं गाथा सरस्वतीकण्ठाभरण इति दिक्।
कार्यस्यानिष्पत्तौ स्वदोषमपनयन्ती दूती नायिकामाह-
दैवे प्रतीहि विमुखे घटितमपि च हन्त विघटते पुंसाम्।
कार्यं कथमपि बन्धं नैति यथा बालुकावरण:।।४५।।१
दैवे पराङ्मुखे सति नराणां घटितमपि कार्यं हन्त विघटते नश्यति, इति प्रतीहि विश्वसिहि। तत्र निदर्शनमाह- यथा वालुकावरण: वालुकाभि: कृत: प्रकार: कथमपि बन्धं नैति, तथा कार्यं कथमपि बन्धं नैति, सिध्द्यनुकूलं मार्गं नानुगच्छतीत्याशय:। तथा च दैवप्राति-कूल्यादेव कार्यं विघटितं न पुनर्मम कौशले काचित्र्रुटिरिति स्वस्यापाटवशङ्कापनयनमभिव्यज्यते। अत्र 'बन्धमेव न ददाति’ इति च्छाया, तस्याश्च 'घटयितुमेव न शक्यते’ इति गङ्गाधरकृता टीका च विचारणीयैव। 'एइ’ इत्यस्य 'ददाति’ इति च्छाया न स्यात्, नापि च 'देइ’ इति कुहचित्पाठोऽवलोकित:।
रहस्यप्रविष्टया मातुलान्या सह नदीस्नानार्थं गतप्रत्यागत काचित्तत्रावलोकिते नायके निजमन: प्रसक्तिमाह-
१. देव्वम्मि पराहुत्ते पत्तिअ घडिअं पि विहडइ णराणम्।
कज्जं वालुअवरणं व्व कहँ वि बन्धं विअ ण एइ।।४५।।
[दैवे पराङ्मुखे प्रतीहि घटितमपि विघटते नराणाम्।
कार्यं वालुकावरण इव कथमपि बन्धमेव न ददाति।।]
यूना तेन निपीतं मज्जन्त्या मातुलानि हृदयमिव।
स्नानहरिद्राकटुकं पिबता किल जलमनुस्रोत:।।४६।।१
हे मातुलानि! मज्जन्त्या: स्नात्या मम स्नानहरिद्राकटुकम्। स्नानसमये उद्वर्तनार्थं प्रयुक्तया हरिद्रया कटुकं जलम्। अनुस्रत: जलप्रवाहानुगतं यथा स्यात्तथा। प्रवाहागतहरिद्राजलपाने नान्यलोकानां प्रेम प्रतीतं स्यादिति तथाकरणेन नायकनैपुण्यं सूच्यते। मय्यनुरक्ततया मदङ्गसङ्ग-बहुमानात्पिबता तेन यूना मम हृदयमिव पीतम्। तल्लावण्यदर्शनेन पूर्वमेव विवशीकृताया मम उद्वर्तनहरिद्राजलपानान्मयि प्रणयप्रकटनात्तेन हृदयमपहृतमिति भाव:। प्रथमानुरागे लावण्य-दर्शनेन स्नेहदर्शनेन चेत्युभयथा प्रेमप्रसक्तिराख्यायते, तत्र परस्योदाहरणमिति सरस्वतीकण्ठा-भरणम्। अनेन ''मातुलान्यापूर्वकथितसौन्दर्यादिगुणस्य’’ इति गङ्गाधरावतरणोक्तमपास्तम्। हृदयमिव पीतमित्युत्प्रेक्षया 'मम हृदयमिदानीं तदायत्तं तथा च तत्प्राप्त्यैव मम जीवनमतस्तदु-पलम्भाय त्वरितं प्रयत्यताम्’ इति ध्वन्यते।
कृतमानां नायिकां दाक्षिण्येनानुनयन्कान्त आह-
जीवितमशाश्वतं किल न च यौवनमपि निवर्ततेऽतीतम्।
दिवसा दिवसैर्न समा भवन्ति, किं निष्ठुरो लोक:।।४७।।२
जीवितमस्थिरमिति 'किल’ निश्चय एव। अतिक्रान्तं यौवनमपि न पुनरावर्तते। यौवनेऽ-नुभवनीयानि सुखानि पुनरग्रे दुर्लभानि भवेयुरिति निभृतं सूच्यते। दिवसा अपि समाना न भवन्ति। अग्रे सन्तानोत्पत्त्यादिना एषु दिनेष्विव भोगस्वच्छन्दता स्यान्न वेति द्योत्यते। एवं स्थितावपि लोक: किमिति सुखोपभागोदिकर्मणि निष्ठुर:, इति न प्रतीयत इत्यर्थ:। एवं च 'याचमानस्य मे प्रार्थनया प्रसादानुगुणमाचर, मा किल रोषपरुषतया अग्रे स्मरणीयसुदुर्लभसुखा-
१. मामि हिअअं व पीअं तेण जुआणेण मज्जमाणाए।
ण्हाणहलिद्दाकडुअं अणुसोत्तजलं पिअन्तेण।।४६।।
[मातुलानि हृदयमिव पीतं तेन यूना मज्जन्त्या:।
स्नानहरिद्राकटुकमनुस्रोतोजलं पिबता।।]
२. जिविअं असासअं विअ ण णिवत्तइ जोव्वणं अतिक्कन्तम्।
दिअहा दिअहेहिँ समा ण होन्ति किं णिठ्ठुरो लोओ।।४७।।
[जीवितमशाश्वतमेव न निवर्तते यौवनमतिक्रान्तम्।
दिवसा दिवसै: समा न भवन्ति किं निष्ठुरो लोक:।।]
नुभवादात्मानं च सहचरं च वञ्चय’ इत्यभिव्यज्यते। 'कृतकलहयोर्दम्पत्यो: प्रणयारोषभङ्गार्थं सखी आह’ इति गङ्गाधरावतरणम्।
पारदारिकविनियुज्यमानविभवं प्रियतमं काचिदसहमानतया सासूयमाह-
अर्जितविभवानामपि खल एव हि भाजनं खलानां स्यात्।
निम्बफलानि विपक्वान्यपि काकैरेव खाद्यन्ते।।४८।।१
उपार्जितं द्रव्यं यैस्तेषामपि खलानां भाजनं दानपात्रं खल एव स्यात्। मूले 'उपार्जित-द्रव्याणां खलानां भाजनं क:?’ खल एवेति प्रश्नोत्तररूपमिव, इह तु सरलमेवेति बोध्यम्। विपक्वान्यपीत्यपिना 'पक्वान्येव फलानि न सुजनोपयोगीनि तदा अपक्वानां तु का कथा, तथा च 'धनार्जने सत्यपि नास्मदादीनां तत्कृतं सौख्यं तदभावे तु किं वाच्यम्’ इति दयितं प्रति गूढमाक्षेपोऽभिव्यज्यते।
कस्याश्चिद् गृहवृत्तान्तमवलोक्य निजस्येङ्गितज्ञतां सूचयन्नागरिक: सुहृदमाह-
अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
आर्या निमीलिताक्षी पदपरिपाटीं गृहे कुरुते।।४९।।२
तस्य सुभगस्य सविधे इत्यर्थ:। पदपरिपाटीं पादपरिचारणम्। अद्य मया गन्तव्यमित्य-नेन अनभ्यस्ततम:सञ्चारा भाविकृष्णाभिसारिका सेयम्। अद्यैव निशि गन्तव्यं यत: स 'सुभग:’, प्रियाप्रणयावलम्बनतया सौभाग्यशालीति न विलम्बावसर:। अत एव स्वल्पसमय एवाभ्याससिध्यर्थं गृहे पदपरिपाटीकरणम्, एवं च नायिकाया मौग्ध्यमभिव्यज्यते। परिपाटीपदेन 'तमसि गमने उच्चावचपदनिक्षेपेण भूषणध्वनिसम्भवान्माभूत्प्रकटता’ इति पदन्यासपाटवाभ्यासे सावधानता ध्वन्यते। आर्या उत्तममहिला। तथा च कौलीन्यभयेनाभिसारनिह्नवार्थमतिसतर्कता-
१. उप्पाइअदव्वाणँ वि खलाणँ को भाअणं खलो च्चेअ।
पक्वाइँ वि णिम्बफलाइँ णवरँ काएहिँ खज्जन्ति।।४८।।
[उत्पादितद्रव्याणामपि खलानां को भाजनं खल एव।
पक्वान्यपि निम्बफलानि केवलं काकै: खाद्यन्ते।।]
२. अज्ज मए गन्तव्वं घणन्धआरे वि तस्स सुहअस्स।
अज्जा णिमीलिअच्छी पअपरिवाडिं घरे कुणइ।।४९।।
[अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
आर्यां निमीलिताक्षी पदपरिपाटीं गृहे करोति।।]
भिव्यज्यते। स्मरणादिना उद्दीप्तका माया नायिकाया: प्रियतमानुरागसूचकोऽभिसरणचेष्टानुभावो-ऽयमिति सरस्वतीकण्ठाभरणम्। अयत्नोपलब्धं आर्याच्छन्द: सिद्धिकृतो मुद्रालङ्कारोऽपि नात्र विस्मार्य:। 'नायिकानुरागं प्रकाशयन्त्या दूत्या: कामुकं प्रत्युक्तिरियमिति केचित्’ इति गङ्गाधरटीका।
कुपितान्नायकाद्व्यलीकशङ्कया तमनभिसरन्तीं नायिकां काचिद्विदग्धा दूती सुजनचर्या-माह-
कुप्यत्येव न सुजनो यदि कुप्यति विप्रियं न चिन्तयति।
यदि चिन्तयति न जल्पति यदि जल्पति लज्जितो भवति।।५०।।१
यदि विप्रियं चिन्तयति तथापि मुखान्न कथयति, अहमस्यैवमेवं करिष्यामीति विकत्थनस्य सुजनचर्याविप्रतीपत्वात्, फलोदयात्पूर्वं कार्यप्रकटनस्य नीतिबाह्यत्वाच्च। अथवा 'कृते प्रतिकृतन्यायेन विप्रियमस्य शिक्षार्थं कर्तव्यमेव, पुनर्जनसमक्षं किमित्येनमानमयामीति चिन्तयन्न जल्पतीति भाव:। तेन सुजनस्य विचारगाम्भीर्यमभिव्यज्यते। यदि जल्पति रोषावेशव-शान्मुखान्नि: सारयति, तर्हि रोषापगमे निजस्खलितमनुसन्धाय 'स्वयमपि तु जिह्रेति विबुध:’। ''कृतविप्रियं प्रति प्रतिकूलाचरणप्रवृत्तस्य कस्यचिन्निवारणाय कश्चित्सुजनचरित्रं वर्णयति’’ इति गङ्गाधर:।
'रूपमात्रसारां तां किं बहु मन्यसे’ इति सपत्नीमभिभूय निजगुणगणगौरवमभि-व्यञ्जयन्ती काचित्कान्तमाह-
सोऽर्थो यो निजहस्ते तन्मित्रं यन्निरन्तरं व्यसने।
तद्रूपं यत्र गुणास्तद्विज्ञानं च यत्र धर्म: स्यात्।।५१।।२
१. सुअणो ण कुप्पइ व्विअ अह कुप्पइ विप्पिअं ण चिन्तेइ।
अह चिन्तेइ ण जम्पइ अह जम्पइ लज्जिओ होई।।५०।।
[सुजनो न कुप्यत्येव अथ कुप्यति विप्रियं न चिन्तयति।
अथ चिन्तयति न जल्पति अथ जल्पति अथ जल्पति लज्जितो भवति।।]
१. सो अत्थो जो हत्थे तं मित्तं जं णिरन्तरं वसणे।
तं रूअं जत्थ गुणा तं विण्णाणं जहिं धम्मो।।५१।।
[सोऽर्थो यो हस्ते तन्मिन्त्रं यन्निरन्तरं व्यसने।
तद्रूपं यत्र गुणास्तद्विज्ञानं यत्र धर्म:।।]
अर्थो धनम्। व्यसने विपदि यन्निरन्तरम् आन्तर्येण व्यवधानेन शून्यं स्यात्। तच्च शरीरद्वारा मनोद्वारेति द्विधा। तथा च अव्यवधनेन सहचरं मनसा प्रणवं च यत्तन्मित्रमित्यर्थ:। विज्ञानं लोकशास्त्रादिषु बहुज्ञता। एवं च केवलं बाह्यसौन्दर्यशालिनीमत एव रूपगर्वेण त्वयि तथा नानुरज्यन्तीं तां किं मुधाऽनुवर्तसे हृदयेन त्वदनुवर्तनादिगुणसम्पन्नां बहु मन्यस्व मामित्यभिव्यज्यते। अन्योक्तिविधया एतदनुहारि रुचिरमाह आचार्यगोवर्द्धन:-
'इह रूपमात्रसारे चित्रकृते कनककह्लारे। न रसो नापि च गन्धो मधुकरबन्धो मुधा भ्रमसि।।’ ''भाविधनप्रत्याशया भुजङ्गे कृतानुरागां दुहितरं वारयन्ती वेश्यामाता धनादीनामुपादेय-ताप्रयोजकमाह’’ इति गङ्गाधरटीकावतरणम्।
'प्रवासे कथमिव व्यत्येति स्म रजनि:’ इति निशि विश्रम्भालापेषु प्रिययाऽनुयुक्तश्चिर-प्रवासादागत: प्रियतमस्तामाह-
चन्द्रमुखि चन्द्रधवला दीर्घा दीर्घाक्षि तव विरहे।
कथमपि गमिता रजनी शतयामेव हि चतुर्यामा।।५२।।१
चन्द्रमुखीति सम्बोधनेन चन्द्रेणाऽवदातायां रात्रौ चन्द्रमालोक्य त्वन्मुखं स्मृतमिति विरहे शतगुणितवेदनाधिक्यमभिव्यज्यते। पूर्वार्द्धे दीर्घेति कथितेऽपि पुन: 'चतुर्यामायामिनी शतयामेव कथमपि गमिता’ इत्यनेन 'अधिकादधिकं रात्रेश्चत्वार: प्रहरा भवन्ति परमद्य किं शतं प्रहरा जाता:?’ इत्येवमविनिद्रं रात्र्यवसानप्रतीक्षया रजनीदैर्घ्यातिशयप्रतीतेर्नायकस्य वेदनातिशयो ध्वन्यते। कथमपीत्यनेन 'जीवितविरामात्पूर्वं नासीन्निशावसानसम्भावना, परं यथाकथञ्चिन्नीता’ इति कष्टातिशयो ध्वन्यते। अतिक्रान्तेति परिवर्ते गमितेति ण्यन्तप्रयोगेण 'क्षणदापि मदर्थमक्षणदा वैरिणी रात्रि: किं स्वेच्छया गता? बलान्मया कथञ्चिद् गमितेति विरहिणोऽसहनताऽतिशयो व्यज्यते। यदि तु प्रकृतिनियमानुसारं रात्रि: कथमपि गतेति मूलानुरोधस्तर्हि 'याता’ इति पाठो बोध्य:। चतुर्यामा शतयामेव गतेत्युत्प्रेक्षया 'त्वद्विरहे रात्रेश्चत्वारो यामा: शतं जाता:’ इति विरोधालङ्कारध्वनिरपि स्वत उपतिष्ठते। चन्द्रमुखि चन्द्रधवला, दीर्घा दीर्घाक्षीत्यादिरनुप्रासस्तु स्वयं वाचमनुधावतीति किं तत्र समीक्षापेक्षया।
यथेष्टधनालाभेनापरितुष्टाया: कस्याश्चन दूत्या: परिवादपैशुन्यमभिव्यञ्जन्ती सखी खलचरितमाह-
१. चन्दमुहि चन्दधवला दीहा दीहच्छि तुह विओअम्मि।
चउजामा सअजाम व्व जामिणी कहँ वि वोलीणा।।५२।।
[चन्द्रमुखि चन्द्रधवला दीर्घा दीर्घाक्षि तव वियोगे।
चतुर्यामा शतयामेव यामिनी कथमप्यतिक्रान्ता।।]
अकुलीनोऽथ द्विमुखस्तावन्मधुरोऽन्नमानने यावत्।
जीर्णेऽन्ने तु मुरज इव पिशुनो बत विरसमारसति।।५३।।१
अकुलीन: असत्कुलजात:। समक्षपरोक्षयोवर्चनभेदेन द्विजिह्वितया द्विमुख:। पिशुन: खलो मुरज इव मृदङ्ग इव तावन्मधुरो यावन्मुखे अन्नं भोजनं भवति। मृदङ्गसादृश्येन-चूर्णलिप्तमुखत्वे मृदङ्गे ह्यन्यवाद्यान्यभिभूयापि यथा मधुरं रसति, तथैव भोजनादिसन्तुष्ट: खलस्तदवस्थायामन्यलोकापेक्षयाऽधिकप्रशंसाचाटुकृद्भवतीति स्वार्थमात्रमैत्रीरूपा क्षुद्रता व्यज्यते। भोजने जीर्णे तु विरसमप्रियम् आरसति जल्पति, निन्दतीत्यर्थ:। एवम्, अकुलीन: कौ पृथिव्यां न लीन:, मृदङ्गस्य बन्धुरत्वेन आलवालीकृतवोपर्यवस्थापनात्। द्विमुख उभयमुख:, उभयतो वाद्यढक्कासत्त्वात्। एवंविधो मुरजोऽपि यावन्मुखेऽन्नं पिष्टलेपो भवति तावदेव मधुरो नादेन श्रुतिसुखावहो भवति। पिष्टलेपे जीर्णे शुष्कतया समाहरणोचिते तु विरसं नीरसं रूक्षं यथा स्यात्तथा आरसतीत्यर्थ:। आनने यावदन्नं तावन्मधुर इत्यत्र आन इति सप्तम्या 'अन्नाननसम्बन्धे सत्येव अर्थात् भुञ्जानदशायामेव स चाटूनि कुरुते’ इत्यर्थसूचनेन मुरजोपमानस्य पिशुनस्य अत्यन्तं स्वार्थपरताभिव्यज्यते। अकुलीन इति पदेन 'सत्कुलजाता: न स्वार्थमात्रैक-मित्राणि भवन्ति’ इति सूच्यते। मत्कृतच्छायायामन्नपदं मुरजपक्षेऽपि भोजनपदापेक्षया कियदर्थ-समर्पकमिति सहृदयहृदयमेव परीक्षकम्। 'दुर्जनमैत्री न चिरकालस्थायिनीति सखी नायिकां शिक्षयति’ इति गङ्गाधर:। किं वा दुर्जनमुखपिण्डदानार्थं कुलटां शिक्षयन्त्या: कुट्टन्या इयमुक्ति-रिति दुर्जनार्थं पिण्डदानव्यवस्थां कुर्वन्नवसरोचितमाह गङ्गाधर इति हृदयेन ब्रूम:।
तटस्था: पथिका अपि तत्कटाक्षशरविद्धा: परिताम्यन्तीति कस्याश्चिदुपवर्णनया नायकमन: समाकर्षन्ती दूती आह-
स्नुषया तथाऽवलोकित ईषद्वलिकार्द्धतारकं पथिक:।
सुप्तो निभृतमलिन्दे गृहपतिना वारितोऽपि यथा।।५४।।२
१. अउलीणो दोमुहओ ता महुरो भोअणं मुहे जाव।
मुरओ व्व खलो जिण्णम्मि भोअणे विरसमारसइ।।५३।।
[अकुलीनो द्विमुखस्तावन्मधुरो भोजनं मुखे यावत्।
मुरज इव खलो जीर्णे भोजने विरसमारसति।।]
२. तह सेाण्हाइ पुलइओ दरवलिअन्तद्धतारअं पहिओ।
जह वारिओ वि घरसामिएण ओलिन्दए वसिओ।।५४।।
[तथा स्नुषया प्रलोकितो दरवलितार्धतारकं पथिक:।
यथा वारितोऽपि गृहस्वामिना अलिकन्दके सुप्त:।।]
ईषद्वलितार्द्धतारकं विभ्रमवशेन किञ्चिदुच्चलितम् अर्द्धतारकं यस्मिन्दर्शने यथा भवति तथा। तारकाया अक्षिकनीनिकाया अर्द्धमर्द्धतारकम्। कटाक्षपुरस्सरमवलोकनेन नायिकाया अभिलाषो व्यज्यते। अलिन्दे बहिर्द्वारपार्श्वस्थे प्रकोष्ठे। गृहस्वामिनेत्यनेन गृहाधिकारिणो नायिकाश्वशुरस्य सत्तायामपि पथिको नयनशरविद्धतया न निशि निवासलोभं त्युक्तं प्राभवदिति स्नुषावलोकनस्याऽत्यन्तमाकर्षकता सूच्यते। निभृतमित्यनेन निवारणाद् हिर्निष्क्रान्तोऽपि स्नुषावलोकनेनाऽनुमिततदभिलाषस्तत्समागमलालसया पुनरविज्ञातमागत्य सुप्त इति पथिक-स्यौत्सुक्यातिशयो ध्वन्यत इति मच्छायायामाधिक्यम्। सुप्त इत्यत्र गृहान्निर्गत्य सङ्गमाशया पुन: परावृत्तस्य शयनं बोधयितुमिष्टमिति शयनेन सकलविज्ञातं तूष्णीं संवेशमात्रं (न तु निद्रा) लक्ष्यते, तेन च नायिकासङ्गमाभिलाषो ध्वन्यत इति विज्ञातमेव विज्ञानाम्। अलिन्दस्य शून्यतासत्तायामपि पथिकलङ्घनपरिश्रान्तस्य पान्थस्य निवासवारणादनुभविता श्वशुरेण प्रतिषिद्धस्य पथिकस्य तरुणत्वं द्योत्यते। अत एव पूर्वमपि कदाचिदवलोकितपरसङ्गमां स्नुषां सकटाक्षम-ध्वगमवलोकयन्तीं वीक्ष्य स वारित इति नायिकाया: सुसाध्यत्वं ध्वन्यते। तथा चैवंविध-विभ्रमवतीं साभिलाषां च किं नानुसरसीति नायकं प्रत्यभिव्यज्यते दूत्या। 'दर्शनमात्रेणैव विदग्धा भावमाविष्कुर्वन्ति लक्षयन्ति चेति दर्शयन्नागरिक: सहचरमाह’ इति गङ्गाधरावतरणम्।
न किल सुजना: स्वमुखेन स्वगुणकीर्तनं प्रशंसन्तीति निजश्लाघनपरं कञ्चन शिक्षयितुं कश्चिद्विदग्धचर्यानिष्णात आह-
शैलोन्नतमपि पुरुषं लघु विलघयतश्चिराय कार्ये द्वे।
निर्वरणमनिर्व्यूढे निर्व्यूढे यच्च निर्वरणम्।।५५।।१
अनिर्व्यूढे अकृते कार्ये निर्वरणं निवेदनम्, आत्मगुणप्रकाशनार्थमिति भाव:। निर्व्यूढे कृते च कार्ये आत्मश्लाघार्थं यन्निवेदनम्, एते द्वे अपि कार्ये शैलोन्नतमपि अत्यन्तगुरुकमपि पुरुषं लघु शीघ्रं चिराय चिरकालार्थं लघयतो लघूकुरुत:। लघुशब्दात्तत्करोति तदाचष्ट इति णिच्। अकृतकार्यस्य व्यर्थमेव निवेदनम्, कृते च कार्ये स्वमुखेन नोचितं श्लाघाहेतुकं तत्कथनमित्युभयो: कार्ययोर्लाघवकरत्वमुचितमेवेत्यर्थ:। यद्वा असम्पादितनायकसमागमामपि निजकार्यं वर्णयन्तीं दूतीं प्रति नायिकाया उक्तिरियम्।
केनचन यूना सह बद्धभावापि त्वं मत्तस्तदपलापमकार्षीरेतावत्कालम्, परमद्य मया लक्षितासीति सूचयन्ती वय:स्था काचित्काञ्चन सुन्दरीमाह-
१. लहुअन्ति लहुं पुरिसं पव्वअमेत्तं पि दो वि कज्जाइं।
णिव्वरणमणिव्वूढे णिव्वूढे जं अ णिव्वरणम्।।५५।।
[लघयतो लघु पुरुषं पर्वतमात्रमपि द्वे अपि कार्ये।
निर्वरणमनिर्व्यूढे निर्व्यूढे यच्च निर्वरणम्।।]
द्वारगता कं पश्यसि तुङ्गकुचोत्सङ्गसङ्गिना पुत्रि।
उन्नमितकलशनिहितार्घवारिजेनेव वदनेन।।५६।।१
दूरादवलोकनार्थं पूर्वकायस्योन्नामितत्वात् लोकेभ्यो दर्शनव्यग्रतागोपनार्थं मुखस्य क्षणमवनामितत्वाच्च तुङ्गस्तनोपरि स्थितेन। अत एव उन्नामितयो: कलशयोरुपरि निवेशितेन अर्घवारिजेनेव अर्घकमलेनेव मुखेन हे पुत्रि द्वारस्थिता सती कं प्रलोकयसि। यदि न तव केनापि सह मैत्री तर्हि उत्कण्ठाधिक्यवर्द्धितप्रश्वासतया दूरविलोकनतत्परतया चोन्नतकुच-पूर्वकाया लोकेभ्यो मार्गदर्शनव्यग्रतानिह्नवार्थमवनमितमुखी च द्वारि स्थिता कं वीक्षसे? द्वारस्थित्या च त्वं सुखसाध्यतया प्राप्तासि कामुकेन। तथा चोक्तमनङ्गरङ्गे-'निर्लज्जा विधवा कलासु कुशला.’ इत्यादि। अत एव विदितरहस्याया मत्तस्तव गोपनं व्यर्थमेवेति भाव:। पुत्रीत्यामन्त्रणेन 'त्वमिदानीमेव प्रबुद्धासि, अहं तु बहो: कालादेतत्परिज्ञायानुभूय च परित्यक्तवती’ इत्यात्मनोऽ-भिज्ञतातिशयो द्योत्यते। अत एव मा परिज्ञातमप्यर्थमपलप। त्वं मम वात्सल्यपात्रमसीति मत्त: साहाय्यमेव ते भावीति भूयानर्थाे ध्वन्यते। 'द्वारस्थितिकलितशीलखण्डनां कुलजां कुट्टनी विश्वासयितुमाह’ इति गङ्गाधरावतरणम्।
स्थानेऽस्मिन् रूपगुणपन्नाप्यनधिकारिकरपतिता काचित्सुस्तनी सुलभेति नागरिकं काचिद्दूती सूचयति-
वृतिविवरनिर्गतच्छद एरण्ड: शंसतीव तरुणेभ्य:।
हलिकवधूर्भवनेऽस्मिन्नेतावन्मात्रसुस्तनी वसति।।५७।।२
ग्रामे गृहवृतिनिरन्ध्रीकरणार्थमेरण्डो रोप्यत इति ग्राम्याणां पद्धति:। ततश्च गृहवृतिविवरात् निर्गतो बहिर्निष्कान्तश्छद:पल्लवो यस्य, ईदृश एरण्डवृक्ष:। पयोधरातिपरिणाहसूच-
१. कं तुङ्गथणुक्खित्तेण पुत्ति दारट्ठिआ पलोएसि।
उण्णामिअकलसणिवेसिअग्घकमलेण व मुहेण।।५६।।
[कं तुङ्गस्तनोत्क्षिप्तेन पुत्रि द्वारस्थिता प्रलोकयसि।
उन्नामितकलशनिवेशितार्घकमलेनेव मुखेन।।]
२. वइविवरणिग्गअदलो एरण्डो साहइ व्व तरुणाणम्।
एत्थ घरे हलिअवहू एद्दहमेत्तत्थणी वसइ।।५७।।
[वृतिविवरनिर्गतदल एरण्ड: साधयतीव तरुणेभ्य:।
अत्र गृहे हलिकवधूरेतावन्मात्रस्तनी वसति।।]
कोत्तानप्रसारिताङ्गुलेर्हस्तस्याभिनयसन्निभेन स्वसन्निवेशेन-एतावन्मात्रो सुन्दरो स्तनौ यस्या ईदृशीति तरुणेभ्यो हालिकवधुस्तनपरिणाहं शंसति कथयतीत्यर्थ:। हलिकवधूरित्यनेन लावण्यत्यास्तस्या अननुरूपस्तत्पतिर्हलावनादिकर्मणा प्रायो बहिरेव तिष्ठतीति तत्सौलभ्यं द्योत्यते। तरुणेभ्य इति साधरणनिर्देशेन 'तरुणास्तल्लाभलालसया तदवसरप्रतीक्षायां भ्राम्यन्तेव न पुनरद्यावधि केनापि सा सङ्गतेति यावन्नासौ केनचिद्यूना वशीक्रियते तावत्त्वरितमेनामनुसर’ इति नागरिकं प्रत्यभिव्यज्यते। उत्तानप्रसारिताङ्गुलिहस्तसन्निवेशेन वस्त्वन्तरपरिणाहप्रतिबिम्बनं लोकप्रसिद्धं तदिहाऽप्यभिनयरूपेण जातमित्यभिनय एवालङ्कार इति सरस्वतीकण्ठाभरणम्। ''गुप्त्यर्थं निवेशितोऽपि खल: प्रत्युत रहस्यमेव प्रकाशयतीति प्रदर्शयन्नागरिक: सहचरमाह’’ इति गङ्गाधर:।
धनिकभुजङ्गं साभिलाषीकर्तुं व्याजेन दुहितुर्घनस्तनभारं प्रशंसन्ती, शीघ्रानयनार्थं भुजङ्गेनोक्ता कुट्टनी तमाह-
गजकलभकुम्भसन्निभघनपीननिरन्तराभितुङ्गाभ्याम् ।
तीरयति नोच्छ्वसितुमपि हतस्तनाभ्यां पुनस्तु गन्तुं किम्।।५८।।१
गज इव प्रौढ: कलभो गजकलभस्तत्कुम्भसन्निभौ अत एव घनपीनौ निबिडस्थूलौ, एवं निरन्तरौ पीनतया परस्परव्यवधानशून्यौ च अभितुङ्गौ च कठोरतया अग्रोत्थितौ च यौ ताभ्याम्। हतस्तनाभ्यां स्तनहतकाभ्यामित्यर्थ:। उच्छ्वसितुमपि न तीरयति न पारयति (शक्नोति), पुनर्गन्तुं तु किं पारयेदित्यर्थ:। अत्र तुङ्गपदेनैव स्तनस्थूलताप्रतीतौ सत्यां पुन: 'गजकुम्भसन्निभ-पीन-निरतन्तरादिपदैर्विशेषो द्योत्यते। प्रौढकरिशावककुम्भसादृश्येन न केवलं पीनतैव किन्तु तादृक्कलभस्य यथा कुम्भ: संहतावयवतया कठिनो भवति तथा कठिनौ। अत एव समासे 'गजकलकुम्भसन्निभौ अत एव घनपीनौ’ इति पूर्वविग्रहो दर्शित:। यौ किल अतिपीनतया निरन्तरौ भवतस्तौ गौरवेण कदाचिन्नतौ स्यातामिति तन्निवारणार्थं पुनर्विशेषणम् 'अभितुङ्गौ’ इति। एतादृग्घनपीनतायामपि अभितुङ्गौ अभिमुखं तुङ्गतया स्थिताविति गाथाकुर्तु: प्रतिपदमाकूतं बोध्यम्। अनया च व्याजस्तुत्या 'घनयौवनेन मदालसा करिकुम्भस्तनी सौभाग्येन त्वयोपलब्धा न किल सरभसमवहेलया सामान्यवदाकारणीया, प्रत्युत सौन्दर्याधिदेवतेव त्वयैव
१. गअकलहकुम्भसंणिहघणपीणणिरन्तरेहिँ तुङ्गेहिं।
उस्ससिउं पि ण तीरह किं उण गन्तुं हअथणेहिं।।५८।।
[गजकलभकुम्भसन्निभघनपीननिरन्तराभ्यां तुङ्गाभ्याम्।
उच्छ्वसितुमपि न तीरयति किं पुनर्गन्तुं हतस्तनाभ्याम्।।]
सम्मुखमुपसर्पणीयेति वृद्धयाभिध्वन्यते। 'क्वचिद् गुणोऽपि दोषतां यातीति निदर्शयन्नागरिकोऽ-भिसारिकाया: सत्वराभिसारगमनविरोधिस्तनभारं प्रत्युद्वेगाहिदमाहेति केचित्।
बहो: कालात्पूर्णधनदानेन तोषयन्तं धनिकभुजङ्गं प्रति कामशारहस्योपदेशेन निजनिर्मायतां सूचयन्ती सहैव नर्तनकर्मीणां स्वदुहितरं प्रति तं साभिलाषं कुर्वती च वृद्धा वेश्यामाता आह-
मासकसूतां दिवसज्वरिणीं षण्मासगर्भिणीं चापि।
रङ्गोत्तीर्णां पुत्रक कामयमान: प्रियामेधि।।५९।।१
एकमासप्रसूताम्, एकदिवसज्वरिताम्, षण्मासिकगर्भधारिणीम्, नर्तनं कृत्वा रङ्गशालात आगतां च प्रियां कामयमानो भव। पुत्रकेत्यामन्त्रणेन स्नेहभाजनतया गुह्यमपि त्वत्तो न गोपनीयमित्यभिव्यज्यते। अथवा नववयस्को बहुधोपदेशसापेक्षो भवानत एव त्वां किञ्चिद् गुह्यमुपदिशामिति वा। एवंविधा: सुरतकर्मणि सुखसाध्या भवन्ति, प्रसन्ना: सुभृशमनुरज्यन्ति, आनन्दविह्वलाश्च महत्सुरतसुखं प्रसुवत इति वेश्याभिरधिकं निह्नवनीयमप्यहं ते प्रकाशयामीति पक्षपातो ध्वन्यते। 'नृत्यादिव्यग्रामेनां किञ्चित्प्रतीक्षमाणोऽपि विलम्बेन नोत्ताम्य, यतस्त्वत्सु-खायैवेदम्’ इति स्वप्रयोजनसाधनध्वनिमपि वृद्धा न व्यस्मार्षीदिति सहृदयैर्बोध्यम्। मासप्रसूता-दीनां स्वल्पसाध्यत्वं प्रोक्तं कामशास्त्रे। यथा ह्यनङ्गरङ्गम्-
'रङ्गाद्विश्रान्तदेहा चिरविरहवती मासमात्रप्रसूता
गर्भालस्या च नव्यप्रिययुततनुका त्यक्तमानप्रसङ्गा।
स्नाता पुष्पावसाने नवरतिसमये मेघकाले वसन्ते
प्राय: सम्पन्नरागा मृगशिशुनयना स्वल्पसाध्या रते स्यात्।।’
'रम्याणां तत्तद्विशेषप्राप्त्या रम्यतातिशयो भवतीति प्रतिपादयन्ती कुट्टनी भुजङ्गं नर्तकीं स्वदुहितरं प्रति साभिलाषं कर्तुमाह’ इति गङ्गाधर:।
१. मासपसूअं छम्मासगब्भिणिं एक्कदिअहजरिअं च।
रङ्गत्तिण्णं च पिअं पुत्तअ कामन्तओ होहि।।५९।।
[मासप्रसूतां षण्मासगर्भिणीमेकदिवसज्वरितां च।
रङ्गोत्तीर्णा च प्रियां पुत्रक कामयमाने भव।।]
उत्तुङ्गपीनपयोधरां काञ्चन नायिकां प्रति निजाभिलाषं प्रकाशयन्कश्चित्सहृदय आह-
प्रतिपक्षमन्युपुञ्जौ लावण्यघटावनङ्गगजकुम्भौ।
पुरुषशतहृदयविधृतौ स्तनौ स्तनन्ती (सगर्वा) किमिति वहसि।।६०।।१
प्रतिपक्षस्य सपत्नीजनस्य क्रोधजनितोपतापपुञ्जौ, प्रियप्रणयेर्ष्यावशानां सपत्नीनां चितक्षोभजननात्। अनेन सपत्नीबाहुल्येऽपि 'एतत्स्तनसौन्दर्यमहिम्ना त्वमेव सर्वातिशायिनी स्या:, तत्सन्तु काममन्या: कान्तास्त्वं किमिति नानुकम्पसे’ इत्यात्माभिप्रायो व्यज्यते। लावण्यस्य घटौ, सौन्दर्यातिशयात्। अनङ्गरूपगजस्य कुम्भौ मूर्द्धाशौ। गजकुम्भस्थलं यथा निबिडं भवति तदभेदेन स्तनयो: काठिन्यं व्यज्यते। किञ्च कामोऽपि त्वत्कुचसौन्दर्यं मूर्ध्ना वहति किं पुनरन्य इत्यनयोर्महिमातिशयो व्यज्यते। मन्युपुञ्जौ, लावण्यघटौ, गजकुम्भौ, एभिस्त्रिभी रूपणै: क्रमश: कुचयोरुत्तुङ्गत्वं महत्त्वं काठिन्यं च द्योत्यते। पुरुषशतेन हृदये मनसि विधृतौ अभिलषितौ। अनेन सर्वकामुकजनाकर्षकत्वं सूच्यते। तथा चाहमेतौ दृष्ट्वा यदि एतल्लाभायाऽभिलाषं प्रकाशयामि तर्हि न मे दोष इत्यभिव्यज्ते। एवंविधौ स्तनौ सगर्वा त्वं किमिति वहसि। यावदनयोरनुरूपे जने नोपयोगस्तावत्तव गर्वो वृथेति भाव:। तथा च एतयोर्महत्त्ववेदिनि मयि किमिति नानुकम्पस इति ध्वन्यते। पूर्वार्द्धे मन्युपुञ्जदीनां विशेष्यानाकलनदशायां रूपकत्वेऽपि 'स्तनौ’ इति विशेष्यावबोधे सति गम्योम्प्रेक्षैवेति मन्मतम्। अत्र 'थणन्ती’ इति मूलं 'स्तनन्ती’ ति तच्छाया गङ्गाधरेणोपवर्णिता विचारणीयैव। ष्टन वन शब्दे, स्तन गदी देवशब्दे, अनयोर्द्वयोरपि धात्वोरत्र नोपयोग:। 'शब्दं कुर्वती त्वं किमिति स्तनौ वहसि’ अत्र शब्दायमानत्वं स्तनवहनं च द्वे अपि अस्वरसे एवेति न परोक्षं परीक्षकाणाम्। तस्मात् गर्वार्थकप्राकृतथुणघातोर्निष्पन्नोऽत्र 'थुणन्ती’ शब्द एवेति मदभिप्राय:। 'थुण्ण: दृप्त:’ इति तद्धातुनिष्पन्न: शब्दो देशीनाममाला-यामालोक्यते।
कस्यचित्कृते प्रतिकूलमपि किञ्चित् कस्यचित्कृतेऽनुकूलं भवतीति निदर्शयन्सहृदय आह-
१. पडिवक्खमण्णुपुञ्जे लावण्णउडे अणङ्गगअकुम्भे।
पुरिससअहिअअधरिए कीस थणन्ती थणे वहसि।।६०।।
[प्रतिपक्षमन्युपुञ्जौ लावण्यकुटावनङ्गगजकुम्भौ।
पुरुषशतहृदयधृतौ किमिति स्तनन्ती स्तनौ वहसि।।]
गृहिणीघनकुचपीडनसुखकेलिगतस्य भाविपथिकस्य।
सुखयन्ति चापशकुनाङ्गारकवारान्यविष्टिदिवसाश्च।।६१।।१
गृहिण्या: कठिनकुचयोर्निष्पीडनसुखकेलिपतितस्य भविष्यत्पथिकस्य यात्रां करिष्यत इत्यर्थ:। अपशकुनानि अङ्गारकवाराणि अन्ये विष्टिदिवसाश्च सुखयन्ति। विष्टिर्भद्रा। अपशकु-नादिप्रतिबन्धेन प्रियतमाविरहकारिणी यात्रा न भवतीति भाव:। विरुद्धात्कार्यसम्पत्तिसिद्धा पञ्चमी विभावना, अयत्नं वाञ्छितसिद्ध्या प्रहर्षणं च। आभ्यामलङ्काराभ्यां प्रियासङ्गसुखवश्यस्य नायकस्य प्रवासरूपक्रियायामालस्यं व्यज्यते। उक्तं च सरस्वतीकण्ठाभरणे-'क्रियाविद्वेष आलस्यं सुखसम्विन्मदादिभि:’। अनेन चालस्यव्यभिचारिणा तत्सामयिकचेष्टारूपानुभावसह-कारेण गृहिणीरूपालम्बनगताया रते: परिपुष्टिरिति कण्ठाभरणे स्पष्टम्। तत्र हि 'पेल्लणसुखे णिवडिअस्स’ इति पाठ:।
नायकं गमनायोत्कण्ठयितुं दूती नायिकाया अनुरागातिशयमाह-
सा तव कृतेन बालक सततगृहद्वारतोरणनिषण्णा।
अवशुष्यति हि वराकी वन्दनमालेव दिवसमेव बत।।६२।।२
विरहवेदनानभिज्ञत्वाद् हे बालककल्प वन्दनमालेव सततं निरन्तरं गृहद्वारस्य तोरणे उपरिदेशे निषण्णा। सततमित्यनेन 'न जाने कस्मिन्क्षणे स आयायात्’ इति उत्कण्ठातिशयो द्योत्यते। सा वराकी तव कृतेन बत दिवसमेव समस्तं दिनमभिव्याप्यैव शुष्यति। दिवसमित्य-त्यन्तसंयोगेन शोषस्य दिनावसानपर्यन्तभावितयाऽतिशयो व्यज्यते। शुष्यतीति वर्तमानार्थकलटा 'त्वम्प्रतीक्षाहेतुक: शोषो न तस्या: पूर्यते’ इति सूचनया प्रतिदिनं समस्तदिन व्यापी प्रतीक्षाक्लेशो ध्वन्यते्। अत एव 'यहि अवशुष्यत्य नुदिवसं वन्दनमालेव बत वराकीयम्’ इति
१. घरिणिघणत्थणपेल्लणसुहेल्लिपडिअस्स होन्तपहिअस्स।
अवसउणङ्गाधअवारविट्ठिदिअहा सुहावेन्ति।।६१।।
[गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशकुनाङ्गारकवारविष्टिदिवसा: सुखयन्ति।।]
२. सा तुह कएण बालअ अणिसं घरदारतोरणणिसण्णा।
ओससई वन्दणमालिअ व्व दिअहं विअ वराई।।६२।।
[सा तव कृतेन बालकानिशं गृहद्वारतोरणनिषण्णा।
अवशुष्यति वन्दनमालिकेव दिवसमेव बराकी।।]
पाठोऽभविष्यत्तर्हि वरम्। वन्दनमालेव शुष्यतीत्युपमया तोरणे यथा वन्दनमाला अविचलभावेन परेच्छया आगन्तुकस्यागमनं प्रतीक्षमाणा तिष्ठति, तदनागमने च मुधा शुष्यति, तथा सापि त्वद्गतचित्ता निश्चेष्टमवतिष्ठत इति नायिकाया अनुरागातिशयो द्योत्यते। तथा चैवं त्वय्यनुरक्तामपि तां तत्प्रणयगाम्भीर्यापरिज्ञानान्न बहु मन्यसे, इत्युपालम्भोपबृंहितं द्रुतगमनाय नायकस्योत्तेजनं ध्वन्यते।
कपटानुरागशालिनं त्वामासाद्याऽहं वञ्चिताऽस्मीति नायकमुपालभमानाऽन्यापदेशेने काचिदाह-
हसितं सहस्ततालं विशुष्कवटमुपगतै: पथिकै:।
पत्रफलानां सदृशे शुकवृन्दे सभयमुड्डीने।।६३।।१
पत्रफलाढ्योऽयं वृक्ष इति बुध्या विश्रमार्थं शुष्कवटवृक्षमुपगतै: पथिकै: पत्रफलानां सदृशे शुकवृन्दे मनुष्यागमनेन सभयमुड्डीने सति सहस्ततालं यथा स्यात्तथा तालिका: प्रदाय साश्चर्यकौतुकं हसितमित्यर्थं:। शुकानां पक्षावृतं हरितशरीरं पत्र्रसदृशं रक्ताश्चञ्चवश्च फलसदृश्य इति भाव:। तथा च तव कृत्रिममनुरागं वीक्ष्य त्वयि विश्वासमकरवमिदानीं स तवानुरागो द्रागेव व्यपगत इति नायिकोपालम्भो ध्वन्यते। ''सहजगुणहीनानामाहार्यगुणाधानं न चिरकाल-स्थायीति काचिदन्यापदेशेनाह’’ इत्यवतरणं 'सङ्केतस्थाने जनावस्थितिसूचनेनाऽभिसारिकां निवारयन्त्या दूत्या इयमुक्तिरिति केचित्’ इत्युपसंहारश्च गङ्गाधरटीकायाम्।
'सखि अत्याकृष्टेन मानेन दयितो विरज्येदत एव परिहर साम्प्रतं मानम्, अलमेतावता’ इति सखीभिर्बहुबोधिताया अप्याग्रहिलाया नायिकाया रात्रिवृत्तान्तं निभृतमनुसन्धायाऽऽगता सखी रहस्यप्रविष्टया मातुलान्या पृष्टा मानकलहे सख्या विजयमाह-
मातुलि तथा निपतता पदयोरद्यास्मि हासिता तेन।
दीपकदशां ज्वलन्तीं तया किलाभ्युन्नयन्त्या च।।६४।।२
१. हसिअं सहत्थतालं सुक्खवडं उवगएहिँ पहिएहिं।
पत्तअफलाणँ सरिसे उड्डीणे सूअविन्दम्मि।।६३।।
[हसितं सहस्ततालं शुष्कवटमुपगतै: पथिकै:।
पत्रफलानां सदृशे उड्डीने शुकवृन्दे।।]
२. अज्ज म्मि हासिआ मामि तेण पाएसु तह पडन्तेण।
तीए वि जलन्तिं दीववत्तिमब्भुण्णअन्तीए।।६४।।
[अद्यास्मि हासिता मातुलानि तेन पादयोस्तथा पतता।
तथापि ज्वलन्तीं दीपवर्तिमभ्युत्तेजयन्त्या।।]
हे मातुलानि! अद्य तथा तादृक्प्रकारेण तस्या: पादयो: पतता तेन, 'उज्ज्वलप्रकाशे सम्यक्पश्याधुना मत्सौभाग्यम्’ इति गर्वेण मत्प्रदर्शनार्थं प्रज्वलन्तीमपि दीपदशां दीपकवर्ति-मुत्तेजयन्त्या तया च हासितास्मीत्यर्थ:। तथेति पादप्रणामप्रकारं प्रतीङ्गितम्, ततश्च नायकस्य तत्समयेऽपराधस्वीकारसङ्कोचसूचिका पुन: सङ्गमोत्कण्ठालौल्येन परवशतया अनुनयप्रवृत्ति-पिशुना च विलक्षणा भावभङ्गी सूच्यते। तेनानुनये नायकस्य दैन्यातिशयो ध्वन्यते। दिवा तथादृढतां प्रदर्शयतस्तस्य रात्रौ तादृशं विचित्रं दैन्यं तस्याश्च तद्दर्शनाय तादृशीं दीपोत्तेजनचेष्टां च दृष्ट्वा सम हासो जात इत्यर्थ:। अत्र 'अन्येऽपि मम सौभाग्यं पश्यन्तु’ इति बुध्द्या दीपोत्तेजनं कुर्वत्या इति गङ्गाधरोक्तिर्विचारणीयैव। निशि विश्रब्धं शयनगृहमधिवसतोरनयो: कथं नामान्यजनसम्भव:? तस्मात्कपाटरन्ध्रादिद्वारेण निभृतं पश्यन्तीं सखीमनुसन्धायैव दीपोत्तेजनमिति बोध्यम्। किञ्च 'पतिं प्रत्यनादरं दृष्ष हासो जात:’ इत्यपि नोचिता तदुक्ति:। दीपोत्तेजनेन 'पश्य मयि कियदनुरक्तोवल्लभ:’ इति स्वसौभाग्यप्रदर्शने आग्रहो न पत्यनादरसूचने। मान-पतिकृतपादप्रणामादिषु अनुरागस्यैव विजृम्भणेनाऽनादरकथयाया एवानुदयात्।
पूर्वसुभगामनुवर्तमानं प्रियं दृष्ट्वा निजसौभाग्यमबहुमन्यमानां नवसुभगां सान्त्वयितुं सखी सुजनस्वभावमाह-
अनुवर्तनमिह कुर्वन्द्वेष्येऽपि जने ह्यभिन्नमुखराग:।
आत्मवशोऽपि च सुजन: कुलीनताया: परवशोलम्।।६५।।१
द्वेष्येऽपि जने अभिन्नमुखराग: सन्, न भिन्न: परिवर्तित: स्नेहदाक्षिण्यजनितो मुखप्रसादो येनैवंभूत: सन्। मुखरागे किश्चिदपि परिवर्तनं न जानीयादनुवर्तनीयो जनस्तथा अनुवर्तनं कुर्वन्। अभिन्नमुखराग इत्यनेन द्वेष्यतया तं प्रति स्नेहाभावेऽपि बाह्यामुखवर्णपरावृत्तिर्न भवेदिति सूच्यते। आत्मवशोऽपि उच्चाशयतया पारवश्यमवधीरयन्स्वतन्त्रोऽपि सुजन: कुलीनताया: सत्कुलप्रसूतताया:, आभिजात्यस्येत्यर्थ:। अलं भूयस्तरां परवश:। आत्मवशोऽपि परवश इति विरोधालङ्कारेण 'पूर्वसुभगानुवर्तनमनभीष्टमपि दाक्षिण्यानुगतया कुलीनतया करोति न स्नेहेन अतएव न त्वया विमनायितव्यम्’ इति नवीनां प्रति ध्वन्यते।
आभिजात्येन कोपेऽपि प्रियं प्रत्यादरं प्रदर्शयन्त्या नायिकाया मानमज्ञात्वा नेयं विजना-तीति भ्रान्तिवशादन्यवनितासु प्रसज्यन्तं दुर्विदग्धं शिक्षयनती काचिज्जरद्वधूराह-
१. अणुवत्तणं कुणन्तो वेसे वि जणे अहिण्णमुहराओ।
अप्पवसो वि हु सुअणो परव्वसो आहिआईए।।६५।।
[अनुवर्तनं कुर्वन्द्वेष्येऽपि जनेऽभिन्नमुखराग:।
आत्मवशोऽपि खलु सुजन: परवश: कुलीनताया:।।]
अनुदिवसवर्द्धितादरविज्ञानगुणैर्जनितमाहात्म्य:।
अभिजातजन: पुत्रक विरज्यमानोऽपि दुर्लक्ष्य:।।६६।।१
हे पुत्रक! अनेन-नाधुना जानासि विदग्धवनिताव्यवहारान्, शिक्षस्वेदानीमिति स्वस्यानुभवित्वं द्योत्यते। अनुदिवसं वर्द्धित आदरो यैरेवंभूतैर्विज्ञानप्रमुखैर्गुणै:। जनितं माहात्म्यं महत्त्वं यस्यैतादृश:। प्रतिदिनमादरं प्रदर्शयद्भिर्विज्ञतादिगुणै: स्थापितनिजमहत्त्व इत्यर्थ:। एवंभूत: कुलीनजनो विरज्यमानोऽपि दुर्लक्ष्य:। तथा च- परमविदग्धासेयं तवान्यवनितासु प्रसक्तिं ज्ञात्वा विरज्यमानापि कुलजात्वेन प्रत्यहमादरातिशयं प्रदर्शयति, त्वं च नेदं विजानासि। अहो तेऽपाटवमिति पुत्रकपदसहकारेण ध्वन्यते। दुर्लक्ष्य इत्यनेन कठिनतया प्रत्येयत्वं सूच्यते। तेन - च सूक्ष्मतयावलोकनेन लक्षणीयमपि अविदग्धतया न त्वमज्ञासीरिति व्यज्यते। विरज्यमान इति वर्तमानार्थकशानचा 'तव प्रणयवैमुख्येन जनिता अस्या विरक्तिर्नाधुनापि पूर्णतया दृढीभूता’ इति सूच्यते। एवं च अद्यावधि कृतमपराधं प्रणिपातादिना प्रसाद्य प्रमार्जयेति ध्वन्यते।
लोकापवादभाजने कस्मिञ्श्चिज्जने बलादनुरागप्रदर्शनार्थमागृह्णतीं दूतीं काचिदाह-
विज्ञानगुणमहार्घे पुरुषे द्वेष्यत्वमपि हि रमणीयम्।
लज्जामहे प्रियत्वेनापि जने जनविनिन्दिते नूनम्।।६७।।२
विज्ञानगुणमहार्घे विज्ञतागुणेन परमादरणीये। जनविनिन्दिते जने प्रियत्वेनापि अनुकूल-त्वेनापि लज्जामहे। आनुकूल्यप्रदर्शनेनापि लज्जामहे किं पुनरनुरागस्थापनेनेति विरागातिशयो ध्वन्यते। 'विदग्धं प्रति साभिलाषा कापि स्वभर्तरि वैराग्यं सूचयन्ती आह’ इति गङ्गाधरावतरणम्।
१. अणुदिअहवड्ढिआअरविण्णाणगुणेहिँ जणिअमाहप्पो।
पुत्तअ अहिआअजणो विरज्जमाणो वि दुल्लक्खो।।६६।।
[अनुदिवसवर्धितादरविज्ञानगुणैर्जनितमाहात्म्य:।
पुत्रकाभिजातजनो विरज्यमानोऽपि दुर्लक्ष्य:।।]
२. विण्णाणगुणमहग्घे पुरिसे वेसत्तणं पि रमणिज्जम्।
जणणिन्दिए उण जणे पिअत्तणेणावि लज्जामो।।६७।।
[विज्ञानगुणमहार्घे पुरुषे द्वेष्यत्वमपि रमणीयम्।
जननिन्दिते पुनर्जने प्रियत्वेनापि लज्जामहे।।]
सं. गा... १२
पीनोत्तुङ्गकुचां कामपि कामिनीमचिरेणैव कालेन पतितकुचामालोक्य कश्चित्सहृदयो वयस्यामहा-
कथमिव तस्या: स तथा स्वभावगुरुकोऽपि कुचभर: पतित:।
अथवा महिलानां हृदि न चिरं सन्तिष्ठते कोऽपि।।६८।।१
स्वभावेन गुरुक: उत्तुङ्ग:, पक्षे निसर्गेण गौरवभाजनम्। स्वयं विचार्य उत्तररूपेण स्वयमेवाह- 'अथवा महिलानां हृदि कोऽपि चिरं न संतिष्ठते’ इति। अनेन सामान्येन विशेष-समर्थनरूपार्थान्तरन्यासेन 'निसर्गगौरवशाल्यपि पुरुष: स्त्रीणां हृदि स्वल्पकालमेवावकाशं लभते किं पुन: साधारण:’ इति स्त्रीणामस्थिरप्रेमता अभिव्यज्यते। तथा स्वभावगुरुक इत्यत्र तथेतिनिर्देशेन स्तनयोरनन्यसाधारणो निबिडतोच्चतादिगुण: परामृश्यते, तेन तयो: पूर्वमतितुङ्गता निबिडता चासीदिति ध्वन्यते।
वसनाञ्चलेन बालातपं वारयन्तीं प्रियतमां प्रति प्रियश्चाटूक्तिविधया आह-
सुतनु वदनं स्पृशन्तं सूर्यं वसनाञ्चलेन वारय मा।
एतस्य पङ्कजस्य च स वेत्तु कतरत्सुखस्पर्शम्।।६९।।२
'साउली’ति वस्त्रञ्चलवाचको देशी। 'साउली’ इत्यस्य साकुलीति च्छाया, साकुलीति च पल्लविकाविषये वर्तते। तथा च 'पल्लवच्छत्रिकया वदनं मा वारयं’ इत्यर्थं इति कुलबालदेवटीका। एतस्य वदनस्य पङ्कजस्य च मध्ये कतरत्सुखस्पर्शमस्ति इति स वेत्तु जानातु। प्रत्यहं पङ्कजं करेण स्पृशन्नयमेवाद्योभयो: स्पर्शसुखतारतम्यं निर्णेष्यतीति भाव:। अनेन- तव वदनं कमलमिव मृदु सुरभि सुन्दरमस्तीत्युपमालङ्कारो ध्वन्यते। स वेत्तु कतरत्सुख-स्पर्शमित्यनेन तव मुखमेव स्पर्शे समधिकसुखकारकमिति वक्तुराकूतेन व्यतिरेकध्वनिरेव वा। अत्र पङ्कजपदेन पङ्कोत्पन्नस्यास्य कियत्स्पर्शसौरभादि भविष्यतीति जानात्विति अर्थगाम्भीर्यं
१. कहँ णाम तीअ तह सो सहावगुरुओ वि थणहरो पडिओ।
अहवा महिलाणँ चिरं को वि ण हिअअम्मि संठाइ।।६८।।
[कथं नाम तस्यास्तथा स स्वभावगुरुकोऽपि स्तनभर: पतित:।
अथवा महिलानां चिरं कोऽपि न हृदये सन्तिष्ठते।।]
२. सुअणु वअणं छिवन्तं सूरं मा साउलीअ वारेहि।
एअस्स पङ्कअस्स अ जाणउ कअरं सुहप्फंसम्।।६९।।
[सुतनु वदनं स्पृशन्तं सूर्यं मा वस्त्राञ्चलेन वारय।
एतस्य पङ्कजस्य च जानातु कतरत्सुखस्पर्शम्।।]
ध्वन्यते। ततश्च व्यतिरेकध्वनिरेव कवेरभिप्रेत इति स्फुटीभवति। 'स वेत्तु कतरत्सुखस्पर्शम्’ अनेन मत्परीक्षणं चाटूक्तिरिति कदाचन न विश्वास्यं परमयं तटस्थ उभयो: करस्पर्शेन तारतम्यं परीक्षमाणो निर्णेष्यतीति 'स:’ पदोद्वलितेन ध्वन्यते इति मार्मिकैराकलनीयम्। 'नायकप्रलोभनाय सखी नायिकामुखं वर्णयतीति’ गङ्गाधर:। तत्र 'सुतनु’ इत्यामन्त्रणसमन्वये कस्योक्तिरिुचितेति मार्मिकैर्विमृश्यम्।
सीधुपानेनोपारूढमदा प्रमदा मानेऽपि मृदुर्भवतीति मानिनीमानापनोदनोपायं नागरिक: स्वसुहृदमाह-
करसंपुटवलितोर्द्ध्वाननया प्रियया मनस्विन्या।
मानौषधमिव मदिरागण्डूष: पीयते प्रियतमस्य।।७०।।१
प्रियस्य करसम्पुटेन बलितं ग्रहणपुरस्सरमुन्नमितम्, अत एव ऊर्द्ध्वमाननं यस्या:। अनेन अनिच्छन्त्या अपि सीधुपानार्थं प्रसह्याभिमुखीकरणं सूच्यते, तेन नायिकामानवैमुख्यं व्यज्यते। मनस्विन्या मानदार्ढ्येनोन्नतमनसा मानिन्येत्यर्थ:। प्रियया प्रियतमस्य मदिरागण्डूष: (आकुञ्चितवदने पूरिता मदिरा) मानापनयनौषधमिव पीयत इत्यर्थ:। औषधं यथा मृदुप्रकृति-भिर्बलात्कथञ्चित्पीयते तथा मानवैमुख्येन अनिच्छन्त्या, अतएव प्रियस्य करसम्पुटेन बलादूर्ध्वी-कृताननया दयितया मुखसमीपानीतदयितमुखेनावर्जित: सीधुगण्डूष: पीयत इति भाव:। तथा च- तत्समये बलादावर्जितापि मदिरा शीघ्रमेव मानिनीमावर्जयतीति सिद्धयोगोऽयमिति नागरिकेण सुहृदं प्रत्यभिव्यज्यते।
नायकोत्कण्ठासंवर्द्धनार्थं दूती नायिकाया: सौन्दर्यातिशयमाह-
निर्वर्ण्यतां कथं सा यस्या अङ्गे यथा दृष्टे।
दुर्बलगवीव दृष्टि: पङ्कनिपतिता हि नोत्तरति।।७१।।२
१. माणोसहं व पिज्जइ पिआइ माणंसिणीअ दइअस्स।
करसंपुडवलिउद्धाणणाइ मइराइ गण्डूसो।।७०।।
[मानौषधमिव पीयते प्रियया मनस्विन्या दयितस्य।
करसंपुटवलितोर्ध्वाननया मदिराया गण्डूष:।।]
२. कहँ सा णिव्वण्णिज्जइ जीअ जहा लोइअम्मि अङ्गम्मि।
दिट्ठी दुव्वलगाई व्व पङ्कपडिआ ण उत्तरइ।।७१।।
[कथं सा निर्वर्ण्यतां यस्या यथालोकितेऽङ्गे।
दृष्टिर्दुर्बला गौरिव पङ्कपतिता नोत्तरति।।]
निर्वर्ण्यतां विलोक्यताम्, सा सर्वाङ्गेषु कथं दृश्यतामित्यर्थ:। यस्या नायिकाया अङ्गे यथा येन प्रकारेणावलोकिते सति दृष्टि: पङ्कपतिता दुर्बला गौरिव नोत्तरति, अग्रे न चलति तदङ्गलावण्यवशीभूता तत्रैवावतिष्ठत इति भाव:। अनेन नायिकालावण्यस्य आसेचनकत्वं ध्वन्यते। यदास्माभिर्लावण्यवशीभूतया दृष्ट्या सम्पूर्णा साऽवलोकितैव न तदा कथमस्माकं तत्सुन्दरता वचनगोचरा भवतु। एवंविधामसामान्यसुन्दरीमनुपदमेव वशयेति दूत्या व्यज्यते। एतदर्थसंवादिनी पूर्वमपि गाथा वर्णिता- 'जस्स जहँ विअ.’।।३४।।
कस्मिन्नपि स्नेहबन्धमास्थापयितुं वदन्तीं दूतीं नायिका आह-
क्रियमाणैव विनश्यत्युदके रेखेव खलजने मैत्री।
सुजने कृता तु सा पुनरनघा पाषाणरेखेव।।७२।।१
क्रियमाणैवेति वर्तमानार्थकशानचा मैत्रीस्थापनव्यापारस्यापूर्णता सूच्यते। तेन यावत्पर्यन्तं पूर्णा मैत्र्यापि न सिद्धयति, तत: पूर्वमेव खलस्य दौरात्म्येन सा भज्यत इति व्यज्यते। अनघा निरपाया, कालान्तरेऽपि नाशायोग्येत्यर्थ:। तथा च- अस्थिरस्नेहे तस्मिन्प्रणयबन्धो मुधैवेति दूतीं प्रति द्योत्यते। अत्र पाषाणरेखेति लौकिकनिदर्शनस्य कियन्माधुर्येण निर्वाह इति सहृदयैरालोच्यम्।
चिरप्रवासादागत्य पुन: प्रवासाय विचारयन्तं कान्तं काचित्सदैन्योपालम्भमाह-
हंहो दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य।
नाद्यापि हन्त सरला भवन्ति वेण्यास्तरङ्गिणश्चिकुरा:।।७३।।२
हंहो दुष्करकारकेत्यत्र 'हंहो’ इति साश्चर्यचमत्कारे। एवं च 'प्रवासे तवानुस्मरणेन भूयान्मया क्लेशोऽनुभूत:’ इत्यादि विश्रब्धमालपितवानपि पुन: प्रवासं विचारयसीत्याश्चर्यमेवेति
१. कीरन्ती व्विअ णासइ उअए रेह व्व खलअणे मेत्ती।
सा उण सुअणम्मि कआ अणहा पाहाणरेह व्व।।७२।।
[क्रियमाणैव नश्यत्युदके रेखेव खलजने मैत्री।
सा पुन: सुजने कृता अनघा पाषाणरेखेव।।]
२. अव्वो दुक्करआरअ पुणो वि तन्तिं करेसि गमणस्स।
अज्ज वि ण होन्ति सरला वेणीअ तरङ्गिणो चिउरा।।७३।।
[अव्वो दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य।
अद्यापि न भवन्ति सरला वेण्यास्तरङ्गिणश्चिकुरा:।।]
नायिकयाऽभिव्यज्यते। पुनरपि चिन्तां करोषीत्यनेन प्रवासेऽनुभूतानि दु:खानि संस्मार्य, तानि पुनरुपस्थापयितुं विचारयसीति पूर्वदु:खानुभवं प्रतीङ्गितं द्योत्यते। चिन्तां करोषीत्यनेन 'गमनस्य का कथा, तच्चिन्तामात्रमपि मम प्रवाससमदु:खानुभावकतया वेदनादायीति’ ग्लानिसञ्चारी द्योत्यते। करोषीति परस्मैपदेन 'एतच्चिन्ताकरणस्य फलमात्मने न स्यात्तादृग्भयावहं परं परस्मै तदैकान्तिकवेदनापदं भवेदित्युपालम्भो व्यज्यते। त्वद्विरहे केशानामप्रसाधनाद्वेणीरूपमावाप्ता अत एव तरङ्गिण: कुटिलीभूता: केशा हन्त अद्यापि सरला न भवन्ति। तव विरहे केशानां तादृग्वेणी बद्धा यदेषु दिनेषु प्रतिदिनं प्रसाधनेऽपि कौटिल्यभाजां केशानां सरलता न जातेति भाव:। अनेन प्रवासादागमनस्य स्वल्पकालता सूच्यते। तथा च- केशपर्यन्तेष्वपि त्वत्प्रवासचि-ह्नमद्यापि वर्तते, एतावत्तवरितं पुनर्गन्तुं चिन्तयसीति नायकं प्रति गमनशीघ्रताजनितवेदनातिशयो द्योत्यते। एवं च - स्मर्यन्तां प्रवासे यानि दु:खानि भवता मया च पूर्वमनुभूतानि, तानि पुन: सन्निधापयितुं विचारमपि हृदि आनयसीति दुष्करं करोषीति नायकस्य कठिनहृदयतां सूचयन्ती सा दैन्येन सह दुष्करकारकपदोपोद्वलितमुपालम्भं ध्वनयतीति सहृदयैर्विभावनीयम्। प्रवासोद्भूत-भृशोत्कण्ठादिभिश्चित्तवासना प्रवासानन्तरेऽपि तस्या नोपशाम्यतीति वेणीवर्णनादिना सूच्यते, एतदुदाहरणे दत्ता सेयं गाथा सरस्वतीकण्ठाभरणे।१
निधुवनेऽतथाव्युत्पन्नत्वादिच्छासत्त्वेऽपि अकौशलप्रकटनभयेनाप्रवर्तमानस्य धनिक-नवयुवकस्य वैलक्ष्यव्यपगमनपूर्वकं तत्कर्मणि प्रवृत्तिपाटवार्थं धूर्ता काचित्सद्भावस्नेहरत-प्रशंसामाह-
१. एतद्गाथार्थमुपजीव्य व्रजभाषाकविमूर्द्धन्येन परममार्मिकेण विहारिणा दोहाछन्द उपनिबद्धम्-
'अज्यौं न आये सहजरँग बिरह दूबरे गात।
अबही कहा चलाइयत ललन चलनकी बात।।’
'विरहकृशान्यङ्गानि नाद्यापि शरीरस्वास्थ्यसूचिकां सहजामवस्थामवाप्तानि 'हे ललन’ अधुनैव गमनस्य वार्तां किमिति प्रवर्तयसि।’ इदानीं विचार्यतां कस्यातिशायि वर्णनमिति। 'अबहीं कहा चलाइयत’ पदेन ज्ञायते यद् गमनशीघ्रतानिवारणमत्राप्यभिप्रेतम्। शरीरे कृशतानिवृत्तिपूर्वकं सहजशोभागम: पूर्वभावी, उत प्रत्यहं प्रसाधनेन सरलीक्रियमाणानां केशानां पूर्वावस्था? रसरक्ताद्युपचयद्वारा भाविनी प्रायो नात्महस्तगता शरीरपुष्टिरवश्यं बहुभिर्दिनै: स्यात्। उन्मार्जनप्रसाधनादिद्वारा आत्मायत्ता केशानां पूर्वावस्था तत: शीघ्रभाविन्येव। ततश्च केशपर्यन्तादपि पूर्वं विरहचिह्नं न निवृत्तं भवांश्च पुनर्गन्तुं चिन्तयतीति गमनशीघ्र-ताप्रदर्शनकृतं नायकस्य कठिनहृदयत्वं गाथवौशधिकं सूचितवतीति निर्विवादम्। किञ्च गमनस्य वार्तां प्रवर्तयसीत्यपेक्षया 'गमनस्य चिन्तामपि करोषीति’ चिन्तामात्रस्य विरहवेदनादायकत्वं सूचयन्गाथाकार एवाधिकं मार्मिक इति सूक्ष्मं विचार्यताम्। किञ्चैवं विरहवेदनासमये हृदयावेगप्रकाशनकृत-प्रणयजिह्म-ताप्रदर्शनावसरेऽपि 'ललन’ इति शिथिलसम्बोधनं न च्छायां तथा पुष्यति, यथा 'हंहो! दुष्करकारक’ इत्यत्र चिन्तामपि करोषि तद्दुष्करं करोषीति कठिनहृदयताचित्रोपस्थापकं दुष्करकारकेति सम्बोधनम्। किञ्च 'पुनरपि’ पदेन यत्पूर्वदु:खानुभवं प्रतीङ्गितं तदपि दोहाछन्दसि लुप्तप्रायम्। परस्मैपदव्यञ्जनं तु भाषायामसम्भवमेव। एवं स्थितेऽपि गाथात आधिक्यस्थापनं केषाञ्चित्पक्षपात एव। विहारिण: सूक्ते: संस्कृतपद्येऽनुवादस्तद्विमर्शनं च 'कवितानिकुञ्जान्तर्गत-मत्सङ्कलित-'साहित्यवैभव’ तोऽवगन्तव्यम्।
न तथा छेकरतान्यपि हरन्ति पुनरुक्तरागरसिकानि।
सद्भावस्नेहरतानि यथेच्छविधानि यत्र तत्र यथा।।७४।।१
पुनरुक्ते पुन: पुन: परिशीलिते रागे रञ्जने रतव्यापारे रसिकानि रसानुभवशालीनि। छेकानां कामशास्त्रप्रसिद्धरतशिल्पकुशलानां रतान्यपि तथा न हरन्ति यथा यत्र तत्र अवसरलाभानुसारं यस्मिन्कस्मिञ्श्चित्स्थाने प्रवृत्तानि, यथेच्छं विधा येषां तानि यथेच्छविधानि। येन केनापि प्रकारेण कल्पितानीत्यर्थ:। एवंविधानि सद्भावस्नेहेन यानि रतानि तानि हरन्ति मनो वशीकुर्वन्ति। विदग्धजनरतानि कामशास्त्रप्रसिद्धबन्धालिङ्गनादिपूर्वक्षुण्णमार्गानुसारित्वेन पुनरुक्तिपरिशीलकत्वाच्चर्वितचर्वणोपमानि। अनेन बहुविदग्धजनैर्बहुधा रमणेऽहमुररीकृता, तथा च भवतोऽपि मत्समागमेन तत्कौशलमुदयेदिति युवकोत्साहनं व्यज्यते। एवंविधेषु विदग्धरतेषु स्नेहापेक्षया कौशलप्रदर्शनस्पर्द्धाऽधिका भवति, नवजनरते तु सद्भावस्नेह एव निर्भरं भवतीति भाव:। तथा च 'मा सङ्कोचं कार्षीरहं त्वत्स्नेहनिर्भराणि रतानि भृशमभिरोचयामि’ इति तत्प्रवृत्तौ तस्य प्रोत्साहनमभिव्यज्यते। सरस्वतीकण्ठाभरणे 'उपचारानपेक्षो विस्रम्भज: प्रेमप्रकारो यथा’ इति प्रसङ्गे उदाहृता सेयं गाथा।
नववनितासक्तं स्वामिनं तत्प्रणयवञ्चिता पूर्वसुभगा प्रश्नस्योत्तरे आह-
सममुह्यसे दयितया तथापि कृशितासि किमिति रे भणसि।
अनभिज्ञोपरिभरतो मुञ्चति बलदोऽपि चाङ्गानि।।७५।।२
प्रियया सह उह्यसे उरसि धार्यसे। तथापि 'किमिति कृशिता कृशेव जातासि’ इति रे भणसि। 'रे’ इति अवस्कन्दितचित्तया प्रणयधार्ष्ट्येन प्रयुक्तमिति बोध्यम्। हे अनभिज्ञ!
१. ण वि तह छेअरआइँ वि हरन्ति पुणरुत्तराअरसिआइं।
जह जत्थ व तत्थ व जह व तह व सब्भावणेहरमिआइं।।७४।।
[नापि तथा छेकरतान्यपि हरन्ति पुनरुक्तरागरसिकानि।
यथा यत्र वा तत्र वा यथा वा तथा वा सद्भावस्नेहरमितानि।।]
२. उज्झसि पिआइ समअं तह विहुरेभणसि कीस किसिअं त्ति।
उवरिभरेण अ अण्णुअ मुअइ बइल्लो वि अङ्गाइं।।७५।।
[उह्यसे प्रियया समं तथापि खलु रे भणसि किमिति कृशेति।
उपरि (भरेण) च हे अज्ञ मुञ्चति बलीवर्दोऽप्यङ्गानि।।]
उपरिभरतो उपरिनिहितभारवशाद् बलीवर्दोऽप्यङ्गानि मुञ्चति, सोऽप्यङ्गै: क्षीयत इत्यर्थ:। अपिना बलीवर्दस्यापीयं दशा, तदा किं ममाऽबलाया वाच्यमिति सूच्यते। दयितया सममुह्यस इत्यनेन नवाङ्गनायां तव प्रेमसङ्क्रमणेऽपि मम तथैव त्वयि प्रणय:, प्रत्युत त्वत्प्रियेति त्वत्प्रणयबहुमानेन तामपि हृदये करोमीत्यात्मन: प्रेमातिशय: प्रकाश्यते। किं वा- त्वद्गतचित्ततया मम हृदयात्तवाऽपसरणमसम्भवमेव, त्वं चैषु दिनेषु नवीनया तया तव प्रियया विना क्षणं न तिष्ठस्येव। अत एव त्वन्मूर्त्या सह सपत्नीरूपेण सापि मम हृदये प्रतिक्षणमुदयतीत्युपालम्भोऽभिव्यज्यते। तथापि भणसीत्यनेन 'प्रणयभङ्गेन मद्दैन्यं जानतस्तव 'किमिति इयं कृशास्ति’ इति विचारानयनमप्यनुचितं तथापि त्वं मुखेन प्रत्यक्षं मां प्रति कथयसीत्यहो ते नैर्घृण्यम्’ इत्युपालम्भोऽभिव्यज्यते। सरस्वतीकण्ठाभरणानुसारं वैसादृश्यवती सेयं सहोक्ति:। कृशतायामुपरि-भारस्य कारणत्वमुक्तमिति काव्यलिङ्गम्। आभ्यामलङ्काराभ्यां 'नवप्रियासङ्क्रान्तप्रणयस्य ते वैमुख्यत एव मम सेयं दशा। त्वं दुर्बलतामेव पृच्छसि परं कदाचित्प्रेमभङ्गदु:खान्ममान्तोऽपि भवेत् (अङ्गानि मुञ्चतीति अङ्गमोचनार्थोपन्यासात्), परं परगतदु:खाननुभवान्न च त्वमिदं वेत्सि’ इति सोपालम्भं प्रणयावेदनं ध्वन्यते।
चिरप्रवासादागतस्य दयितस्य रमणवृत्तान्तं सख्याऽनुयुक्ता नायिका सानुरागमाह-
दृढगूढग्रन्थी इव कथमपि मे तेन मोचितौ बाहू।
अस्माभिरपि तदुरसि स्तनौ निखाताविवोत्खातौ।।७६।।२
दृढं गूढा ग्रन्थिर्ययो:, अनुरागनिर्भरपरिरम्भणवशादन्योन्यं निबिडावसक्तौ मे बाहू तेन कथमपि मोचितौ। ग्रन्थिपदेन, अनर्घमभिलषितधनं यथा दृढग्रन्थ्या निबध्यते तथा बहो: कालादुपलब्ध: प्रेयान्न पुनरपसरेदिति दृढभुजबन्धेन बध्यत इति सूच्यते। तेन दयितं प्रत्यनुराग उत्कण्ठातिशयश्च ध्वनित:। कथमपीति पदेन सुखविह्वलाया मे नासीद्दयितं मोक्तुमवबोध:, परं दयितेन कष्टाद्बाहुबन्धो मोचित इति जडता ध्वन्यते। अस्माभिरपि तदुरसि निखाताविव भूमिनिहितन्यासाविव अन्तरवरोपितौ स्तनौ कथमपि उत्खातौ उद्धृतौ। तदुरसि निखातावित्यनेन स्तनयो: काठिन्यमुत्तुङ्गता चाभिव्यज्यते। निखातावित्यनेन- निधिकुम्भौ यथा भूमौ निखन्येते तथा दृढमाश्लिष्यता प्रियतमेन स्तनौ निजोरसि निखाताविति स्तनयोर्बहुमानेनानुरागातिशयो ध्वनित:। दृढग्रन्थीइव, निखाताविवेति, उपमाभ्यां नायकयो: परस्परममूल्यधनबुद्धया मिथ: प्रणयपरिपाकातिशयो व्यज्यते।
१. दिढमूलबन्धगण्ठि व्व मोइआ कहँ वि तेण मे बाहू।
अम्हेहिँ वि तस्स उरे खुत्त व्व समुक्खआ थणआ।।७६।।
[दृढमूलबन्धग्रन्थी इव मोचितौ कथमपि तेन मे बाहू।
अस्माभिरपि तस्योरसि निखताविव समुत्खातौ स्तनौ।।]
मुग्धां कलहान्तरितामनुनीयागता सखी तत्कान्तमाह-
अनुनयपरितोषितया तवापराधांश्चिरेण गणयन्त्या।
अप्रभवत्करयुग्माङ्गुल्या च तया चिरं रुदितम्।।७७।।१
चिरेण बहुकालपर्यन्तम्, अनेनापराधानां बहुत्वं व्यज्यते। गणनावसरे अपराधानां बहुत्वादप्रभवन्त्य: (गणनां कर्तुमशक्नुवत्य:) करयुग्मस्य उभयो: करयोरङ्गुल्यो यस्यास्तया। इयतोपराधान् कथं गणयामीत्याकुलया तया बहुकालं रुदितम्। ननु अपराधगणनायामपि कथमियं मुग्धेति चेत् मुग्धाया अपि तथाचेष्टा वर्ण्यते। उक्तं स्वयं कोषकारेण-'हत्थेसु अ पाएसु अ’ (४/७), किञ्च सख्यनुनयेनैव प्रसाद:, तदग्र एवापराधगणनापि मुग्धात्वे साधिका। तथा च 'मुग्धया तया बहवस्तवापराधा इदानीं मदनुनयेन सोढा:, न पुनरेवमग्रे करिष्यसि’ इति नायकं प्रत्यभिव्यज्यते।
प्रियतमसकाशादागतां प्रस्विन्नाङ्गीं नायिकामुद्दिश्य सखी सखी: प्रति सपरिहासमाह-
स्वेदच्छलेन पश्यत तनुनि तदङ्गे विमातुमसमर्थम्।
लावण्यं सरतीव त्रिवलिसोपानपङ्क्त्येदम्।।७८।।२
तनुनि तस्या अङ्गे विमातुमसमर्थम् (अमात्) इदं लावण्यं त्रिवलीरूपसोपानपङ्क्त्या स्वेदच्छलेन सरति बहिर्नि:सरतीति पश्यत। तथा च- दयितेन सह यौवनसुखमुपभुज्य समागतेयमिति सखी: प्रति सरसपरिहासो व्यज्यते। 'नर्तनश्रमप्रस्विन्नाङ्ग्या दुहितु: सौन्दर्यातिशयं कामुकचित्तप्रलोभनाय कुट्टनी वर्णयति’ इति गङ्गाधरावतरणम्। चौर्यरतगोपनार्थं सख्या उक्तिरियमिति केचित्।
१. अणुणअपसाइआए तुज्झ वराहे चिरं गणन्तीए।
अपहुत्तोहअहत्थङ्गुरीअ तीए चिरं रुण्णम्।।७७।।
[अनुनयप्रसादितया तवापराधाञ्श्चिरं गणयन्त्या।
अप्रभूतोभयहस्ताङ्गुल्या तया चिरं रुदितम्।।]
२. सेअच्छलेण पेच्छह तणुए अङ्गम्मि से अमाअन्तम्।
लावण्णं ओसरइ व्व तिवलिसोवाणवत्तीए।।७८।।
[स्वेदच्छलेन पश्यत तनुकेऽङ्गे तस्या अमात्।
लावण्यमपसरतीव त्रिवलीसोपानपङ्क्तिभि:।।]
कस्याश्चित्प्रभूतधनाप्राप्तिरूपं दोषं परिहर्तुं भुजङ्गजनोत्कण्ठां संवर्धयन्ती कुट्टनी सौन्दर्यप्रशस्तिमन्यापदेशेनाह-
दैवायत्ते तु फले किं क्रियतां पुनरियद् ब्रूम:।
कङ्केल्लिपल्लवानां न पल्लवा: सन्ति सदृशोऽन्ये।।७९।।१
कङ्केलिरशोकवृक्ष इति त्रिकाण्डशेषो राजनिघण्टश्च। अन्ये पल्लवा अशोकपल्लवानां न सन्ति सदृशा इत्यवश्यं भणाम:। फलमाम्रादिवन्नास्ति एतत्तु दैवाधीनमत्र किं क्रियताम्, इत्यभिधया वाच्यार्थबोधे पर्यवसिते फलपदेन शब्दशक्तिमूलानुरणनव्यङ्ग्यरूपेण 'सर्वातिशायि-नोऽपि जनस्य फलं सम्पल्लक्षणं दैवाधीनतया कदाचिन्न भवति’ इति सामान्यरूपं विशेषस्य समर्थकं प्रतीयत इत्यर्थान्तरन्यासस्य ध्वनि:। सम्पूर्णवाक्यार्थेन तु 'दैवायत्तौ लाभसत्कारौ मा भवतां नाम, परमेतत्सदृशी पर:शतेष्वपि सुन्दरी न प्राप्स्यते, तत्किं विचारयसि, निजसौभाग्यं बहु मन्यस्व’’ इति भुजङ्गं प्रति ध्वन्यते। अप्रस्तुतेनाशोकवृत्तान्तेन प्रस्तुतस्य नायिकावृत्तान्तस्य प्रतीतिरित्यप्रस्तुतप्रशंसाध्वनिरिति सेयं गाथा ध्वन्यालोक उदाहृता।
कलाहन्तरितां नायिकामनुनेतुमागत: कान्त: स्वसौभाग्यख्यापनाय निजसुहृदं प्रति तां प्रदर्शयन्नाह-
क्षालयतीव कलङ्कं कपोलपतितस्य मानिनी शशिन:।
अनवरतवाष्पजलभृतनयनघटाभ्यां विलोकयत।।८०।।२
मानिनी कपोले प्रतिबिम्बितस्य चन्द्रस्य कलङ्कमनवरतवाष्पजलेन भृताभ्यां नयन-कलशाभ्यां क्षालयतीव इति पश्यत। चन्द्रप्रतिबिम्बसङ्क्रमणेन कपोलयोर्मसृणता-स्वच्छता-
१. देव्वाअत्तम्मि फले किं कीरइ एत्तिअं पुणो भणिमो।
कङ्केल्लिपल्लवाणं ण पल्लवा होन्ति सारिच्छा।।७९।।
[दैवायत्ते फले किं क्रियतामियत्पुनर्भणाम:।
कङ्केल्लिपल्लवानां न पल्लवा भवन्ति सदृशा:।।]
२. धुअइ व्व मअकलङ्कं कवोलपडिअस्स माणिणी उ अह।
अणवरअवाहजलभरिअणअणकरसेहिँ चन्दस्स।।८०।।
[धावतीव मृगकलङ्कं कपोलपतितस्य मानिनी पश्यत।
अनवरतवाष्पजलभृतनयनकलशाभ्यां चन्द्रस्य।।]
तिशयश्च सूच्यते, तेन च नायिकाया: सौन्दर्यातिशयो द्योत्यते। शशिन: कलङ्कं क्षालयती-वेत्युत्प्रेक्षया 'त्वन्मुखस्याग्रे कलङ्कीति प्रत्यक्षं चन्द्रोऽवधीरित एव, परमिदानीं मानेनाप्रसन्नं मुखं दधती त्वं चन्द्रापमानकलङ्कं स्वयं प्रक्षाल्य मुखसाम्ये तं स्थापयितुमिच्छसीति मुखाप्रसाद-नकरं मानहतकं लघु परित्यज’ इत्यनुनयो ध्वन्यते। अथवा वाष्पजलै कपोलक्षालने कज्जल-श्यामिकासङ्गेन चन्द्रमध्ये निष्कलङ्कस्य तवाननस्य सादृश्यप्रतिबन्धको यो मृगकलङ्क आसीत्तं क्षालयसि, तवापि कज्जलकालिम्राऽङ्कसम्बन्धान्मुखेन सह चन्द्रसादृश्ये प्रतिबन्धाभा-वाच्चन्द्रकलङ्कक्षालनमेवेति पश्य विरोधिनो जयम्, ततश्चालं मानप्रसङ्गेनेति नायकाकूतं ध्वन्यते। किञ्च कपोले कज्जलेन कलङ्कं कुर्वत्यपि कलङ्कं क्षालयसीति विरोधध्वनिरपि सहृदयैरनु-भवनीय:। एवं च- असामान्यसुन्दर्या अपि मद्वियोगे कियदस्या दु:खम्, अत एव पश्य मे सौभाग्यमित्यनवरतवाष्पेत्युक्त्या सूचयन्नायक: स्वसौभाग्यगर्व सुहृदं प्रत्यभिव्यनक्ति।
बहुपत्नीकस्य भर्तुर्नेयमत्यन्तवल्लभा भविष्यति, ततश्च त्वद्गतमानसा सेयं पुनराग-मिष्यत्येवात्र, तत: किमेतावद्विक्लवोऽसीति वयस्येनाश्वास्यमान: पितृगृहात्पतिगृहं प्रयान्त्या: कस्याश्चिदुपनायकस्तं प्रत्यन्यापदेशेनाह-
अन्यकुसुममालासु च्यवेत नवमालिका न गन्धेन।
कोऽप्यन्य: किल मांसलपरिमलपटलो हताशाया:।।८१।।१
अन्यपुष्पप्रथितमालिकानां मध्ये नवमालिका (पुष्पम्) आत्मनो गन्धेन न च्युता भवेत्, न न्यूना भविष्यतीत्यर्थ:। यत: किल हताशाया अस्या मांसलो बहल: परिमलपुञ्ज: कोप्यन्य एव अन्यपुष्पेभ्यो विलक्षण एव। हताशाया इति प्रेमभर्त्सनयोक्ति:। अथवा हता आशा अन्यासां सपत्नीनां यया तस्या इत्यर्थ:। तथा च- स्वलावण्येन अन्य सपत्नीनामियं परिभवप्रदा स्यादिति व्यज्यते। कोऽपीत्यनेन परिमलस्यानिर्वचनीयता सूच्यते। तथा च- ये किलास्या: सौन्दर्यसौकुमार्यादयो गुणा: सन्ति तानहमेव जानामि, न त्वां वचनेन प्रत्याययितुं प्रभवामीति सुहृदं प्रत्यभिव्यज्यते। मांसल इत्यनेन बहलमस्या: सौन्दर्यं तथा चोपभोगादिना मन्दीभूतलावण्यच्छायतया शिथिलितभर्तृप्रणयाया अस्या: कदाचिल्लाभ: स्यात्साप्याशा नेति द्योत्यते। एवं च- सर्वसपत्नीजनमूर्धन्या सेयं भर्तु: परमवल्लभा स्यादतोऽस्या: पुन: समागमाय सुमृशं विमनाये इत्यात्मनोऽभिप्राय: सुहृदं प्रतिध्वन्यते।
१. गन्धेण अप्पणो मालिआणँ णेमालिआ ण फुट्टिहइ।
अण्णो को वि हआसाइ मंसलो परिमलुग्गारो।।८१।।
[गन्धेनात्मनो मालिकानां नवमालिका न च्युता भविष्यति।
अन्य: कोऽपि हताशाया मांसल: परिमलोद्गार:।।]
नष्टधनं भुजङ्गमुत्साहयितुं कुट्टनी सत्पुरुषप्रशंसामाह-
तुङ्गानि फलविपत्त्या फलसम्पत्या नितान्तनम्राणि।
हृदयानि सुपुरुषाणां महातरूणामिवोच्चशिखराणि।।८२।।१
दैवदत्तवैभवसम्पदा अत्यन्तमवनतानि, गर्वशून्यत्वात्। वैभवक्षये तु दैन्यजनितहृदया-धोगतिराहित्येन सुपुरुषाणां हृदयानि महाशयत्वादुन्नतानीति भाव:। शिखराणि अग्राणि। फलशब्दस्य श्लिष्टत्वेन श्लेषानुप्राणिता सेयमुपमा। अनया च 'धनापगमेऽपि उन्नतहृदयेन न त्वया विमानायितव्यम्’ इति भुजङ्गं प्रत्यभिव्यज्यते।
प्रोषितभर्तृकाया: सखी तत्कान्तस्य सत्वरं गृहागमनार्थं तत्समीपगामिनं पान्थमाह-
आश्वासयति परिजनं विलुठन्त्या हन्त पथिकजायाया:।
नि:स्थामवर्तने किल वलयरवो वलितकरमुखर:।।८३।।२
विलुठन्त्या: शयनीयतले विरहवेदनया इतस्तत: परिवर्तमानाया: पथिकजायाया नि:स्थाम नि:सहं यद्वर्तनं पार्श्वपरिवर्तनं तस्मिन्। वलिते चलिते करे, मुखरोऽनुबद्धझणत्कारो वलयशब्द: परिजनमाश्वासयति सान्त्वयति। कङ्कणशब्दं श्रुत्वा जीवतीति ज्ञानेन परिजनस्याश्वासो भवतीति भाव:। चङ्क्रमणादिकस्य तु का कथा, शयनीयेऽपि सा यदा वेदनया पार्श्वपरिवर्तनं करोति तदैव जीवतीति ज्ञायते, तेन च विरहक्लेशातिशयो व्यज्यते। नि:स्थामेत्यनेन पार्श्वपरिवर्तनमपि वेदनातिशयेन नि:सहतयैव करोति, अन्यथा तु पार्श्वपरिवर्तनायासमपि सा
१. फलसंपत्तीअ समोणआइँ तुङ्गाइँ फलविपत्तीए।
हिअआइ सुपुरिसाणं महातरूणं व सिहराइं।।८२।।
[फलसम्पत्या समवनतानि तुङ्गानि फलविपत्या।
हृदयानि सुपुरुषाणां महातरूणामिव शिखराणि।।]
२. आसासेइ परिअणं परिवत्तन्तीअ पहिअजाआए।
णित्थाणुवत्तणे वलिअहत्थमुहलो वलअसद्दो।।८३।।
[आश्वासयति परिजनं परिवर्तमानाया: पथिकजायाया:।
नि:स्थामवर्तने वलितहस्तमुखरो वलयशब्द:।।]
न सहते इति सूच्यते। वलित एव करे मुखर इत्यनेन-अशक्ततया किञ्चिद्धस्तस्पन्दन एव वलयशब्दो भवति, एवं च वलयानां समधिकशैथिल्येन कृशतातिशयो ध्वन्यते। जीवतीत्येता-वन्मात्रेणापि सान्त्वनया विरहवेदनातिशयात्तस्या जीवनं परिजनस्य सन्दिग्धमेवेति ध्वन्यते। परिजनमाश्वासयति न पुनरन्यजनमित्यनेन समीपस्थतया परिजनेनैव कङ्कणशब्दो विरहदुर्बलाया: श्रूयत इति शय्योपान्तस्थितपरिजना सन्दिग्धजीवना सा कथञ्चिन्नाद्यापि दशमीं दशामुपगतेति सत्वरं गृहमुपगच्छेति प्रवासिनं प्रत्यभिव्यज्यते।
क्षीणविभवोऽपि स न कदाचिदनुदाराशय: स्यादिति नायिकामनुकूलयितुं दूती नायकौदार्यमाह-
उन्नतमेव मन: स्यान्मनस्विनो ह्यन्तिमास्वपि दशासु।
किरणा: स्फुरन्ति सन्ततमस्तमनेप्यूर्ध्वमेव रवे:।।८४।।१
अस्तमनेऽपि रवे: किरणा: सन्ततं नित्यमूर्ध्वमेव स्फुरन्ति प्रसरन्ति। अनेन दृष्टान्तेन उन्नतमना: स त्वामेव कामयते न कदाचिदधमां स्पृहयेन्न चास्य वदान्यतायां विशङ्कस्वेति नायिकाया: प्रोत्साहनं व्यज्यते।
अतीवोदाराशय: कारुणिकश्च स इति नायकगुणसूचनेन काञ्चिदुन्नतहृदयां नायिकामनुर-ञ्जयन्ती दूती सुजनप्रशंसामाह-
उदरं भरन्ति मात: शकुना अप्यात्मनो ह्यनुद्विग्ना:।
विकलोद्धरणनिसर्गा भवन्ति यदि केऽपि सत्पुरुषा:।।८५।।२
१. तुङ्गो च्चिअ होइ मणो मणंसिणो अन्तिमासु वि दसासु।
अत्थमणम्मि वि रइणो किरणा उद्धं चिअ फुरन्ति।।८४।।
[तुङ्गमेव भवति मनो मनस्विनोऽन्तिमास्वपि दशासु।
अस्तमनेऽपि रवे: किरणा ऊर्ध्वमेव स्फुरन्ति।।]
२. पोट्टं भरन्ति सउणा वि माउआ अप्पणो अणुव्विग्गा।
विहलुद्धरणसहावा हुवन्ति जइ के वि सप्पुरिसा।।८५।।
[उदरं बिभ्रति शकुना अपि हे मातर आत्मनोऽनुद्विग्ना:।
विह्वलोद्धरणस्वभावा भवन्ति यदि केऽपि सत्पुरुषा:।।]
परोदरपूरणचिन्ताशून्यतया अनुद्विग्ना: शकुना: पक्षिणोऽपि आत्मन उदरं पूरयन्ति। यदि केऽपि महान्त: पुरुषा भवन्ति ते विकलस्य दुर्गतस्य उद्धरण आपन्निवारको निसर्ग: स्वभावो येषां तादृश भवन्तीत्यर्थ:। केपीत्यनेन तादृशा महापुरुषा दुर्लभा भवन्तीत्यभिव्यज्यते। तथा चैतादृशमसुलभमुदाराशयं सत्वरमुपगच्छेति दूत्या ध्वन्यते। अत्र 'भरन्तीत्यस्य बिभ्रती’ति गङ्गाधरकृतच्छाया तु विच्छायैव, धारणार्थकस्य पूरणार्थेऽवाचकत्वात्। 'पोट्टं भरन्ती’ति मूलस्य उदरभरण एव तात्पर्याद्धारणार्थस्याऽसङ्गते:।
कृत्रिमेणापि भावेन सोऽनुरञ्जनीय इति वारं वारमनभिरुचितपुरुषानुरागार्थमागृह्णतीं दूतीं काचिद्विदग्धवधूराह-
लोक: परमार्थज्ञ: सद्भावमृते न गृह्यते जातु।
वञ्चयितुं काञ्जिकया को वा शक्नोति जीर्णमार्जारम्।।८६।।१
परमार्थज्ञो वस्तुतत्त्वज्ञो लोक: सद्भावं विना कदाचिदपि न गृह्यते न वशीक्रियते। जीर्णमार्जारं वृद्धबिडालं दध्यादिस्थाने काञ्जिकां प्रदाय को वा प्रतारयितुं शक्नोति। काञ्जिक-येत्यनेनकृत्रिमभाव: स्नेहाग्रेऽतिलघु: सत्वरपरिचेयश्चेति सूच्यते। एतेन-बहुवनितासु कृतास-क्तितया अनुभवशाली स न कृत्रिमभावेन प्रतारयितुं सुशक इति दूतीं प्रति ध्वन्यते।
अलङ्काराद्यलानापरितुष्टां नायिकामवबोधयितुमकारणस्नेहमहिमानमन्यापदेशेन दूत्याह-
विपिनात्तृणमथ विपिनात्पानीयं सर्वत: स्वयंग्राह्यम्।
हरिणानां हरिणीनां तथापि च प्रेम मरणान्तम्।।८७।।२
१. ण विणा सब्भावेण ग्घेप्पइ परमत्थजाणुओ लोओ।
को जुण्णमञ्जरं कञ्जिएण वेआरिउं तरइ।।८६।।
[न विना सद्भावेन गृह्यते परमार्थज्ञो लोक:।
को जीर्णमार्जारं काञ्जिकया प्रतारयितुं शक्नोति।।]
२. रण्णाउ तणं रण्णाउ पाणिअं सव्वअं सअंगाहम्।
तह वि मआणँ मईणँ अ आमरणन्ताइँ पेम्माइं।।८७।।
[अरण्यात्तृणमरण्यात्पानीयं सर्वत: स्वयंग्राहम्।
तथापि मृगाणां मृगीणां चामरणान्तानि प्रेमाणि।।]
स्वयं ग्राह्यमित्यनेन भोजनादिभारोऽपि न पुरुषसात्तथापि मृगीणामपरिमित: प्रेमेति तां प्रत्यभिव्यज्यते। तथा च-केवलमलङ्काराद्यप्राप्त्यैव प्रणयशिथिलीकरणं नोचितं प्रत्युत निरुपाधिकं प्रेमैव श्लाघ्यमिति ध्यन्यते।
ग्रीष्मेऽपि कामिनो: परिरम्भणादि यथा सुखकरं न तथान्यदिति कश्चित्सहृदय: सुहृदमाह-
न तथापनयति तापं चन्दनपङ्कोऽपि कामिमिथुनानाम्।
ग्रीष्मे यथा सुविषमेऽपि मिथ: परिरम्भसुखकेलि:।।८८।।१
चन्दनपङ्को ग्रीष्मे बाह्यं तापमपनयति नाभ्यन्तरम्, अन्योऽन्यालिङ्गनकेलिश्च पुनरुभयविधमिति भाव:। ऊष्मोत्पादकस्यापि तापापनोदकत्वेन विरोध:, ततश्च ग्रीष्मेऽपि सर्वापेक्षया प्रियायामेवानन्दमधिकमुपलभे इति द्योत्यते। अत्र 'सन्तापातिशयखण्डनाय चन्दनलेपाद्युपचारं कुर्वाणां वारयन्ती विरहिणी काचिदाह’ इति गङ्गाधरावतरणम्। सम्भोगचेष्टा-स्वालिङ्गनं यथेति प्रघट्टके उदाहृता सेयं गाथा कण्ठाभरणे।
कुलयुवतीनां सलज्जत्वेऽपि भावसूचनचातुर्यं प्रियतमेषु कियत्सुखावहमिति कस्याश्चन वृत्तान्तं नागरिक: सुहृदमाह-
किमिति घृतलिप्तवदना तिष्ठसि परिपृष्टयेति कुलवध्वा।
द्विगुणावेष्टितजघनस्थलया लज्जानतं हसितम्।।८९।।२
घृतलिप्तवदना किमिति तिष्ठसीति स्त्रीष्वनधिकं प्रवृत्तेन प्रियतमेन परिपृष्टया वध्वा द्विगुणावेष्टितं पूर्वतोऽप्यधिकं प्रच्छादितं जघनस्थलं यया एतादृश्या सत्या त्रपया लज्जयावनतं
१. तावमवणेइ ण तहा चन्दणपङ्को वि कामिमिहुणाणम्।
जह दूसहे वि गिम्हे अण्णोण्णालिङ्गणसुहेल्ली।।८८।।
[तापमपनयति न तथा चन्दनपङ्कोऽपि कामिमिथुनानाम्।
यथा दु:सहेऽपि ग्रीष्मे अन्योन्यालिङ्गनसुखकेलि:।।]
२. तुप्पाणणा किणो चिट्ठसि त्ति पडिपुच्छिआएँ वहुआए।
विउणावेट्ठिअजहणत्थलाइ लज्जोणअं हसिअम्।।८९।।
[घृतलिप्तानना किमिति तिष्ठसीति परिपृष्टया वध्वा।
द्विगुणावेष्टितजघनस्थलया लज्जावनतं हसितम्।।]
यथा स्यात्तथा हसितम्। जघनस्थलप्रच्छादनसहकृतेन सलज्जहसितेनात्मनो रजोदर्शनमा-विष्कृतमिति भाव:। रजोदर्शनसमये घृतलिप्ताननया स्थीयत इति स्त्रीणामाचार:। 'सपत्न्या दुश्चारित्र्यख्यापनार्थं मुग्धवधूवृत्तविरुद्धां प्रथमरजोयोगसूचनव्युत्पत्तिं तस्या: सूचयन्ती कापि सेर्ष्यमाह’ इति गङ्गाधर:।
कुलयुवतीनां कठिनं किल चारित्र्यमिति शिक्षयन्ती पुरन्ध्री कुलवधूमाह-
स्वहृदय एव विलीनो नोक्तो ज्ञात्वा तु गृहसारम्।
बान्धवकुटिलवचनमिव दुर्गतवध्वा स्वदोहदो हन्त।।९०।।१
दरिद्रस्य पत्न्या आत्मनो गृहस्य सामर्थ्यं ज्ञात्वा बन्धुजनानां सन्तापजनकं वचनमिव स्वदोहदो गर्भिणीत्वकाले सञ्जात: स्वमनोऽभिलाष: पतिश्वस्र्वादीनामग्रे न कथित: किन्तु हन्त स हृदय एव विलीन:। 'प्रसवोत्सवे एवमिव धनवितरणादिकं भविष्यति’ इति सन्तापनार्थं बान्धवैर्वक्रोक्त्या कथितं वचनं गृहजनानां केवलं क्लेशकरमेव भवेन्न पुन: सामर्थ्याभावात्तत्प्रतीकार: क्षम इति बुद्ध्वा यथा न कथितं तथा तत्पूरणसामर्थ्याभावं ज्ञात्वा स्वदोहदोऽपि नोक्त इति भाव:। दोहदस्योत्पत्तिमनुक्त्वा 'स्वहृदय एव विलीन:’ इति केवलं तद्विलयस्यैव कथनेन उत्पन्नोऽपि दोहद: सुशीलतया न हृदये क्षणमपि स्थाप्यते किन्तु उत्पत्तिक्षण एव विलीयत इति सूच्यते, तथा च सोऽयमतिशयोक्तिध्वनि:। अथवा हृदय एव विलीन इत्यनेन इच्छाया: प्रबलत्वेन वारं वारं सा हृदय एव भ्राम्यन्तीं विलीयते न बहि: प्रकाश्यत इति सूच्यते। एवं च गृहजनस्य मन:क्लेशनिवारणार्थं स्वयं मन:क्लेशं सहन्ते कुलनार्य इति तां प्रत्यभिव्यज्यते।
पुत्रवत्या अपि गृहिण्या: कियत्सौन्दर्यमिति दर्शयितुं सहृदय: स्वसुहृदमाह-
धावति विगलितकचभरसिचयनियमनावरुद्धकरकमला।
चन्दिलभयविपलायितबालकपरिमार्गिणी गृहिणी।।९१।।२
१. हिअअ च्चेअ विलीणो ण साहिओ जाणिऊण घरसारम्।
बान्धवदुव्वअणं विअ दोहलओ दुग्गअवहूए।।९०।।
[हृदय एव विलीनो न कथितो ज्ञात्वा गृहसारम्।
बान्धवदुर्वचनमिव दोहदो दुर्गतवध्वा।।]
२. धावइ विअलिअधम्मिल्लसिचअसंजमणवावडकरग्गा।
चन्दिलभअविवलाअन्तडिम्भपरिमग्गिणी घरिणी।।९१।।
[धावति विगलितधम्मिल्लसिचयसंयमनव्यापृतकराग्रा।
चन्दिलभयविपलायमानडिम्भपरिमार्गिणी गृहिणी।।]
विगलितयो: कचभरसिचययो: (केशपाश-पटयो:) नियमने संयमने अवरुद्धे व्यापृते करकमले यस्या: सा। चन्दिलो नापितस्तस्य भयेन विपलायितस्य बालकस्यान्वेषिणी गृहिणी धावति। ससम्भ्रमगमनेन विलुलितकेशवसनाञ्चलाया भुजमूलशोभां पश्येति भाव:। क्षौरकष्टा-शङ्कया बालका नापिताद्बिभ्यतीति लोक:। 'चन्दिल: पुंसि वास्तूकशाके गर्भे च नापिते’ इति मेदिनी। तथा च चन्दिलेति देशीशब्द: प्राकृतपर्यवसायीति यैरुक्तं तदपास्तम्। अत एव ध्वन्यालोके 'अर्थान्तरगति: काक्वा या चैषा परिदृश्यते’ इत्यत्र काक्वा अर्थान्तरप्रतीतेरुदाहरणस्य 'आम असइओ ओरम.’ (५/१७) गाथाया व्याख्याने 'चन्दिलं नापितमेव पामरप्रकृतिं न कामयामहे’ इति लोचनकारेण नापितवचनश्चन्दिलशब्द: संस्कृतभाषायामुपात्त:। 'कुलस्त्रीचरित-विरुद्धं सपत्न्या धार्ष्ट्यं ख्यापयन्ती कापि बन्धुवधूजनमाह’ इति गङ्गाधरावतरणम्। अत्र पलायमानेति मूलानुरोधे तु 'चन्दिलभयपरिधावद्बालक’ इति पाठो बोध्य:।
नायिकाया वय:सन्धि सौभाग्यं च भुजङ्गजनमनोहरणार्थं दूती आह-
वहति वधूर्नवयौवनमनोहराणि हि यथा यथाङ्गानि।
कृशति न तथा तथास्या मध्यो दयित: सपत्नश्च।।९२।।१
यथा यथा येन येन क्रमेण। सपत्न: प्रतिपक्ष:। कृशति कृशो भवति, आचारार्थे क्किप्। यौवनस्वाभावान्मध्य: कटिदेश:, अत्यासक्तया दयित:, ईर्ष्यासन्तापाच्च सपत्नीप्रभृति: प्रतिपक्ष: कृशो भवतीति भाव:। यौवनरूपकारणस्य मध्यादिकृशतारूपकार्यस्य च समानका-लिकतावर्णनेनाक्रमातिशयोक्ति:। मध्यो दयित: सपत्नश्च कृशतीत्येकदेशे तु दयिते सपत्ने च तुल्यव्यापारवर्णनात्सरस्वतीकण्ठाभरणोक्ता द्वितीया तुल्ययोगिता ज्ञेया। एताभ्यामलङ्कारा-भ्यामलङ्कृतेन वस्तुना तु वय:सन्धिकृतेन नायिकाया: सौन्दर्येण सह दयितस्यात्यन्तं वल्लभा सा प्रचुरप्रयत्नेन साध्येति दूत्याकूतं ध्वन्यते।
कुलवधूनां निजदयिते निरुपाधिक: प्रेमा भवतीति वृद्धपतिपद्वेषिणीं काञ्चन चञ्चलशीलां शिक्षयन्ती काचिद्विदग्धवधूराह-
१. जह जह उव्वहइ वहू णवजोव्वणमणहराइँ अङ्गाइं।
तह तह से तणुआअइ मज्झो दइओ अ पडिवक्खो।।९२।।
[यथा यथोद्वहते वधूर्नवयौवनमनोहराण्यङ्गानि।
तथा तथा तस्यास्तनूयते मध्यो दयितश्च प्रतिपक्ष:।।]
भवति पति: किल जीर्णो यथा यथा दुर्गतो विरूपोऽपि।
कुलयुवतीनामधिकं तथा तथा वल्लभो भवति।।९३।।१
यौवनं धनं सौन्दर्यं वावलम्ब्य निरुपाधिकप्रेमवतीनां न प्रणय:। प्रत्युत वृद्धादि: किल नान्ययुवतीनां प्रेमभाजनं भविष्यतीति निरंशप्रेमलाभसन्तोषेण निसर्गत: पतिप्रणयिनीनां कुलरमणीनामधिकाधिकां प्रीतिरिति भाव:।
कस्मिन्नपि युवके बद्धप्रणया काचित्पथि गच्छन्तं तं समानवय:शीलां मातुलीं दर्शयन्ती आह-
मातुलि सोऽयं युवको वारंवारेण यमसत्य:।
ग्रामैकवटोदकमिव कृच्छ्रेण प्राप्नुवन्ति घनघर्मे।।९४।।२
हे मातुलि, अयं स युवकोऽस्ति यम् असत्यो घनघर्मे निर्भरग्रीष्मसमये ग्रामस्य एकं वटोदकमिव, वटवृक्षसमीपस्थस्य एकमात्रकूपस्य जलमिवेत्यर्थ:। वारंवारेण वारक्रमेण, पर्यायेणेति यावत्, कृच्छ्रेण प्राप्नुवन्ति। ग्रामैकवटोदकमिवेत्यनेन ग्रामे सर्वासामयमेव स्पृहणीय इति तस्यासाधारणसौन्दर्यं ध्वन्यते। घनघर्मे शीतलजलं विना जीवितं यथा दुर्वहं तथा सर्वासामप्यसतीनामयमालम्बनमिति तस्य दुर्लभत्वं व्यज्यते। पर्यायेण प्राप्नुवन्तीत्यनेन एकस्या उत्तरमेका प्राप्नोतीति तस्य स्वल्पकालाय लभ्यत्वं द्योत्यते। तथा-च यमन्या: स्वल्पकालर्थमपि महता कष्टेन प्राप्नुवन्ति स मयानायासेन प्राप्त इति निजसौभाग्यमभिव्यज्यते। 'अडअणाओ’ असत्य:, इति गङ्गाधरटीका। कुलबालदेवस्तु 'जं अडअणाओ’ इत्यस्य 'यं च ललना:’ इति च्छायामाह।
१. जह जह जरापरिणओ होइ पई दुग्गओ विरूओ वि।
कुलवालिआणँ तह तह अहिअअरं वल्लहो होइ।।९३।।
[यथा यथा जरापरिणतो भवति पतिर्दुर्गतो विरूपोऽपि।
कुलपालिकानां तथा तथाधिकतरं वल्लभो भवति।।]
२. एसो मामि जुवाणो बारंबारेण जं अडअणाओ।
गिम्हे गामेक्कवडोअअं व किच्छेण पावन्ति।।९४।।
[एव मातुलानि युवा वारंवारेण यमसत्य:।
ग्रीष्मे ग्रामैकवटोदकमिव कृच्छ्रेण प्राप्नुवन्ति।।]
पराङ्गनासङ्गदुर्ललितस्य निजदयितस्य सङ्केतस्थानभङ्गेन परितुष्टा काचित्कुलवधू: पितृष्वसारमाह-
ग्रामवटस्य पितृष्वस आपाण्डुरकान्ति पाण्डुरमुखीनाम्।
सममसतीनां मनसा निपतति वाताहतं पत्रम्।।९५।।१
हे पितृष्वस:! ग्रामवटस्य ग्राममध्यस्थवटस्य। अनेन जटापत्रगहनतया रात्रौ चौर्यसुरत-सौकर्यं व्यज्यते। आपाण्डुरकान्ति परिणततया सर्वत: पाण्डुरच्छायं पत्रं वाताहतं सत् सङ्केतस्थान-भङ्गात् विघटितसुरतसौख्यतया पाण्डुरमुखीनामसतीनां हृदयेन समं पतति। पत्रमित्येकवचनेन एकैकपत्रपतने हृदयपतनसमदु:खं भवतीति ध्वन्यते। सङ्केतस्थानभङ्गेनोभयोर्दु:खसम्भवेऽपि केवलमसतीनां दु:खवर्णनाद्दयितापवादं जिहीर्षन्त्या नायिकाया दाक्षिण्यं पतिपरायणत्वं च द्योत्यते। अनया च सहोक्तया 'अहं दयिताभिसारस्थानानि जानन्त्यपि तदनुवृत्तकौशलेन सर्वं सहे’ इत्यात्मनो धैर्यं व्यज्यते।
आत्मन इङ्गितज्ञतां सूचयन्नागरिक: स्वसुहृदमाह-
पश्यत्यलब्धलक्ष्यं विहसति शून्यं श्वसिति दीर्घम्।
जल्पति यथाऽस्फुटार्थं तथा तु हृदयस्थितं किमप्यस्या:।।९६।।२
यथा इयं अलब्धलक्ष्यं यथा स्यात्तथा, लक्ष्यं विनैव पश्यतीत्यर्थ:। दीर्घं निश्वसिति, अनेन चिन्ता व्यज्यते। शून्यं हसति, विनैव लक्ष्यं हसतीत्यर्थ:। अस्फुटार्थं जल्पति, प्रियं हृदये स्मृत्वा तेन सममस्पष्टार्थं यथा तथा संलापादिकं करोतीत्यर्थ:। अनेन स्मृतिर्व्यज्यते-'स्मृति: पूर्वानुभूतार्थविषयं ज्ञानमुच्यते’। तथा अस्या: किमपि हृदयस्थितमस्ति। अलक्ष्यं
१. गामवडस्स पिउच्छा आवण्डुमुहीणँ पण्डुरच्छाअम्।
हिअएण समं असईणँ पडइ वआहअं पत्तम्।।९५।।
[ग्रामवटस्य पितृष्वस आपाण्डुमुखीनां पाण्डुरच्छायम्।
हृदयेन सममसतीनां पतति वाताहतं पत्रम्।।]
२. पेच्छइ अलद्धलक्खं दीहं णीससइ सुण्णअं हसइ।
जह जम्पइ अफुडत्थं तह से हिअअट्ठिअं किं पि।।९६।।
[पश्यत्यलब्धलक्ष्यं दीर्घं नि:श्वसिति शून्यं हसति।
यथा जल्पत्यस्फुटार्थं तथा तस्या हृदयस्थितं किमपि।।]
वीक्षणादिभिर्ज्ञायते यदियं प्रियतमदत्तहृदयास्तीति भाव:। एषा प्रथमानुरागे नायिकाया विप्रलम्भचेष्टेति सरस्वतीकण्ठाभरणम्।
प्रत्युत्पन्नमतय: कुलटा: पतिमपि प्रतारयन्तीति शिक्षयन्नागरिक: सहचरमाह-
अयि गृहपते गतो न: शरणं रक्षैनमिति भणन्त्यसती।
सहसागतस्य तूर्णं स्वभर्तुरेव स्वजारमपर्यती।।९७।।१
जारागमनोत्तरमेव सहसा अतर्कितमागतस्य स्वभर्तुरेव निर्मायताप्रदशनार्थं त्वरितं स्वस्य जारमर्पयति। गृहपते। इत्यामन्त्रणेन गृहस्य त्वं स्वामीति गौरवबुद्धया तुभ्यमेव सोऽयं समर्पणीय इति द्योत्यते। अथवा शरणागतोऽयमेतावत्कालं गृहस्वामिन्या मया रक्षित:, इदानीं त्वं साक्षात्स्वामी समागत इति तदुपरि गौरवभरविन्यसनं द्योत्यते। स्वभर्तुरेवेत्येवकारेण स्वभर्तुरेव तासां प्रतारणं सुकरं किं पुनरन्यस्येत्यतिशयो द्योत्यते। भर्तृपदेन स केवलं रक्षणभरणकर्तैव न पुनर्दयित इति द्योत्यते।
न किल प्रणयो निह्नयमानोऽपि निपुणैर्न लक्ष्यत इति प्रतिपादयन्ती काचित्सखीं प्रति कस्याश्चिद्वृत्तनिदर्शनमाह-
हृदयस्थिताय वितरत कृशितां पश्यत पितृष्वसर्नो किम्।
हृदयस्थित: कुतो न मोहमगादिति कुमारिका ब्रुवती।।९८।।२
कौमारावस्थायामेव केनचन यूना सह कस्याश्चित्प्रणयमालक्ष्य विदग्धया कयाचित्कु-मार्या: पितृष्वसारं प्रत्युक्तम्-अनया यस्मै हृदये स्थानं दत्तं तस्मै अस्या हृदयेप्सिताय इयं दीयताम्। इमां पूर्वमकृशामपि निरन्तरानुध्यानवशात्सम्प्रति कृशां किं न पश्यथ? तत:
१. गहवइ गओम्ह सरणं रक्खसु एअं त्ति अडअणा भणिरी।
सहसागअस्स तुरिअ पइणो व्विअ जारमप्पेइ।।९७।।
[गृहपते गतोऽस्माकं शरणै रक्षैनमित्यसती भणित्वा।।
सहसागतस्य त्वरितं पत्युरेव जारमर्यपयति।।]
२. हिअअट्ठिअस्स दिज्जउ तणुआअन्तिं ण पेच्छह पिउच्छा।
हिअअट्ठिओम्ह कंतो भणिउं मोहं गआ कुमरी।।९८।।
[हृदयेप्सितस्य दीयतां तनुभवन्तीं न पश्यथ पितृष्वस:।
हृदयेप्सितोऽस्माकं कुतो भणित्वा मोहं गता कुमारी।।]
स्वप्रणयवृत्तप्रकाशनेन लज्जिता सा- 'कुमारीणां न: हृदयस्थित: कुत:?’ इति ब्रुवती कुमारी प्रियस्मारणावेगान्मोहं गतेति भाव:। 'हिअअट्ठिअस्स’ इत्यस्य 'हृदयेप्सिताय’ इति गङ्गाधर-च्छाया।
सुरतावसानोपचारचातुर्यं शिक्षयन्ती सखी कस्याश्चिद्वृतं नायिकां प्रत्याह-
खिन्नस्योरसि वितरति पत्युर्ग्रीष्मपराह्णरमितस्य।
आर्द्रे विगलत्कुसुमं स्नानसुगन्धं चिकुरभारम्।।९९।।१
ग्रीष्मपराह्णे रमितस्य अत एव खिन्नस्य पत्युरुरसि चिकुरभारं वितरति स्थापयतीति: सम्बन्ध:। सुगन्धिशीतलस्य स्नानमृदुलस्य केशपाशस्य स्थापनकौशलेन वल्लभस्य तापपरिश्र-मावपनयतीति भाव:। वय: कौशलाभ्यां सम्पूर्णतया प्रगल्भा सेयं नायिकेति सरस्वतीकण्ठाभरणम्। 'भुजङ्गप्रलोभनाय दूती नायिकाया: सुरतवसानोपचारचातुर्यमाह’ इति गङ्गाधरवतरणम्।
कलितकौमुद्यां केलिरसिक: कश्चन कोविद: कान्ताया: कपोलकान्तिं कीर्तयति-
सरसदशनमण्डलयुतकपोलबिम्बागतोऽयमेणाक्ष्या:।
अन्तर्दरसिन्दूरितशङ्खसुभाजनतुलां वहति चन्द्र:।।१००।।२
मृगाक्ष्या: सरसदशनमण्डलेन मण्डलकारेण सरसदन्तक्षतेन मणिमालानामकेन युतो य: कपोलस्तत्र बिम्बेन प्रतिबिम्बद्वारा आगत: अयं चन्द्र:, अन्त: मध्ये ईषत्सिन्दूरयुक्तस्य शङ्खभाजनस्य तुलां सादृश्यं वहति। मृगाक्ष्या: रक्तवर्णकान्तदन्तक्षतयुक्ते स्वच्छकपोले प्रति-फलितो गोलाकारश्चन्द्रबिम्बो मध्ये सिन्दूरयुक्तस्य शङ्खनिर्मितपात्रस्य सादृश्यं वहतीत्यर्थ:।
१. खिण्णस्स उरे पइणो ठवेइ गिम्हावरण्हरमिअस्स।
ओलं गलन्तकुसुमं ण्हाणसुअन्धं चिउरभारम्।।९९।।
[खिन्नस्योरसि पत्यु: स्थापयति ग्रीष्मपराह्णरमितस्य।
आर्द्रे गलत्कुसुमं स्नानसुगन्धं चिकुरभारम्।।]
२. अह सरसदन्तमण्डलकवोलपडिमागओ मअच्छीए।
अन्तो सिन्दूरिअसङ्खवत्तकरणिं वहइ चन्दो।।१००।।
[असौ सरसदन्तमण्डलकपोलप्रतिमागतो मृगाक्ष्या:।
अन्त: सिन्दूरीतशङ्खपात्रसादृश्यं वहति चन्द्र:।।]
शुभ्रकान्तित्वाच्चन्द्रबिम्बस्य शङ्खपात्रसादृश्यम्। दन्तक्षतमण्डलस्यारक्तत्वात्सिन्दूरसाम्यं बोध्यम्। मणिमालालक्षणं तु-'दन्तौष्ठसंयोगाभ्यासनिष्पादनात्प्रवालमणियिसिद्धि:’। 'सर्वस्येयं मणिमालायाश्च’ इति सूत्रयोर्वात्स्यायनेनोक्तम्। ['उच्छूनकं प्रवालमणिश्च कपोले’ इति पूर्वसूत्रानुसारं कपोले उत्तरदन्ताधरोष्ठाभ्यां स्थानस्य गृहीत्वा पीडनं तदभ्यास: (पुन: पुन: करणम्) प्रवालमणिसम्पादकम्, मालाकारश्चेन्मणिमाला]। एतद्गाथाव्याख्याने 'कपोलयोरिति द्विवचनम्, कपोलयोरेव च शङ्खपात्रसादृश्यं गङ्गाधरेणोक्तमनन्वयि। शङ्खपात्रसादृश्यं वहति चन्द्र इति स्पष्टमेककपोलमुद्दिश्यैव मूले प्रोक्तत्वात्। किञ्च चन्द्रमण्डलाभिमुखकपोलाया: कान्ताया एकस्मिन्नेव कपोले चन्द्रप्रतिबिम्ब: प्रतिफलेन्नोभयो:, अत एव 'कपोलयो: प्रतिमागत: सङ्क्रान्तप्रतिबिम्बश्चन्द्र:’ इत्यादि व्याख्यानं विचारणीयेव।
शतकमुपसंहरति
रसिकजनहृदयदयिते कविवत्सलकुशलसुकविपरिरचिते।
सप्तशतके समाप्तं गाथाशतकं तृतीयमिदम्।।१०१।।१
कविवत्सल: (हाल:) कुशल: प्रमुखो येषु तादृशै: सुकविभि: परिरचिते।।
(इति तृतीयशतकम्)
१. रसिअजणहिअअदइए कइवच्छलपमुहसुकइणिम्मअए।
सत्तसअम्मि समत्तं तीअं गाहासअं एअम्।।१०१।।
[रसिकजनहृदयदयिते कविवत्सलप्रमुखसुकविनिर्मिते।
सप्तशतके समाप्तं तृतीयं गाथाशतकमेतत्।।]