चतुर्थशतकम्
अविदग्धं भर्तारमासाद्य कुलटा नानाविधैश्छद्मभिर्जारनिह्नवं कुर्वत इति शिक्षार्थं नागरिक आह-
अयमागतोऽद्य न: किल कुलगेहादिति हि जारमसती स्वम्।
सहसाऽऽगतस्य पत्युस्त्वरितं कण्ठे नियोजयति।।१।।१
असती 'अयमद्य न: कुलगेहात्पितृगृहादागत:’ इति स्वमुपपतिम्। जारागमनोत्तरमेव सहसा अतर्कितमागतस्य पत्यु: कण्ठे तूर्ण नियोजयति लगयतीति यावत्। पत्युरित्युक्तया केवलं पालनकर्तैव स न तु हृदयदयित इति सूच्यते। न: इति बहुत्वोक्तया 'केवलं ममैव परिचितो न किन्तु अस्माकं पितृकौटुम्बिकानां सर्वेषामेवायं परिज्ञात:’ इति प्रथितपरिचयो द्योत्यते। कण्ठे योजनेन निकटसम्बन्धीति प्रतीत्या शङ्कानवसरात्स्वरहस्यप्रच्छादनमित्याकूतं व्यज्यते। त्वरितमित्यनेन विचाराऽनवसरप्रदानान्नि: सन्देहतया स्वस्य सत्यत्वं व्यज्यते। एवंविधाभिरसतीचेष्टाभिर्न व्यामोग्धव्यमिति सहचरं प्रत्याभिव्यज्यते। 'छेञ्छई’ इत्यसतीवाचको देशी।
स्वाधीनोऽस्या: प्रियतम इति नायिकाया: सौभाग्यं ख्यापयन्ती सखी सखी: प्रत्याह-
मृष्टा: कर्णाभरणेन्द्रनीलकिरणाहता: शशिमयूखा:।
दयितेनाञ्जनमलिनाश्रुशङ्कया मानिनीवदने।।२।।२
१. अह अम्ह आअदो अज्ज कुलहराओ त्ति छेञ्छई जारम्।
सहसागअस्स तुरिअं पइणो कण्ठं मिलावेइ।।१।।
[असावस्माकमागतोऽद्य कुलगृहादित्यसती जारम्।
सहसागतस्य त्वरितं पत्यु: कण्ठे लगयति।।]
२. पुसिआ अण्णाहरणेन्दणीलकिरणाहआ ससिमऊहा।
माणिणिवअणम्मि सकज्जलंसुसङ्काइ दइएण।।२।।
[प्रोञ्छिता: कर्णाभरणेन्द्रनीलकिरणाहता: शशिमयूखा:।
मानिनीवदने सकज्जलाश्रुशङ्कया दयितेन।।]
मानिनीवदने कर्णाभरणस्थस्य इन्द्रनीलमणे: किरणैराहता: सम्भिन्ना: शशिकिरणा: अञ्जनमलिनस्य कज्जलमिश्रस्य अश्रुण: शङ्कया दयितेन मृष्टा: प्रोञ्छिता:। आहतपदेन इन्द्रनील-किरणानां गाढत्वं द्योत्यते, अतएव तत्सम्भेदेन शशिकिरणानामपि नीलवर्णतासम्पत्ति:। चन्द्रमयूखप्रतिफलनेन नायिकाकपोलयो: स्वच्छतातिशयो व्यज्यते। दयितपदेन सोऽपि तस्या: परमप्रेयानिति सूच्यते, ततश्च द्वयोरेव मिथो गाढप्रणयो ध्वन्यते। अविषयेऽपि मानिनीमिमामनुनेतुं प्रियतमो दर्शितादार इति कियदस्या: सौभाग्यमिति चरमं ध्वन्यते।
कस्याश्चन सौन्दर्यातिशयवर्णनेन नायकमधिकाधिकमुत्साहयन्ती दूत्याह-
एतावति भुवनेऽस्मिन्सुन्दरमहिलासहस्रभरितेऽपि।
केवलमनुहरतेऽस्या वामार्द्धं दक्षिणार्द्धस्य।।३।।२
केवल अस्या वामार्द्धं दक्षिणार्द्धस्यानुहरते। वामार्द्धभागस्य सादृश्यवाहि दक्षिणार्द्धमेव, नान्या काचन सुन्दरी अस्या अनुहारिणीति भाव:। महिलासहस्रभरिते इत्यनेन बह्व्य: सुन्दर्यो भरिता: सन्ति, ततश्चान्यसुन्दरी: प्रति सौलभ्यकृतोऽनादरो ध्वन्यते। तस्या: शरीरार्द्धं तस्या: शरीरार्द्धेन सममित्यनन्वयालङ्कारेण साऽद्वितीया सुन्दरी साम्प्रतमस्मिँल्लोके इति दूत्याभिव्यज्यते। किञ्च वामार्द्ध दक्षिणार्द्धस्यानुहरते इत्यनेन यथा तस्या वामार्द्धं सर्वप्रकारेण सुन्दरं तथा दक्षिणार्द्धमपीति सर्वाङ्गं तस्या: सौन्दर्यप्रसवि न त्वन्यासामिव कस्मिन्कस्मिन्नङ्ग इव काचित्रुटिरीक्ष्यत इत्यपि ध्वन्यते। तथा चैवंविधामसामान्यसुन्दरीमुपलब्धुं त्वरितमाचेष्टनीयमिति नायकप्रोत्साहनं द्योत्यते।
कृतापराधमपि दयितं मानावलम्बनेन किमिति नावरुणत्सि, किमेतावदायत्तासीति शिक्षयन्तीं सखीं काचिदात्मनोऽनुरागमाह-
रणयति दयितो हि यथा तथा प्रनृत्यामि चञ्चले प्रेम्णि।
वल्ली वलयत्यङ्गं वृक्षे स्तब्धेऽपि निजनिसर्गेण।।४।।३
१. 'नांच नचांना’।
२. एद्द हमेत्तम्मि जए सुन्दरमहिलासहस्सभरएि वि।
अणुहरइ णवर तिस्सा वामद्धं दाहिणद्धस्स।।३।।
[एतावन्मात्रे जगति सुन्दरमहिलासहस्रभृतेऽपि।
अनुहरति केवलं तस्या वामार्ध दक्षिणार्धस्य।।]
३. जह जह वाएइ पिओ तह तह णच्चामि चञ्चले पेम्मे।
वल्ली वलेइ अङ्गं सहावथद्धे वि रुक्खम्मि।।४।।
[यथा यथा वादयति प्रियस्तथा तथा नृत्यामि चञ्चले प्रेम्णि।
वल्ली वलयत्यङ्गं स्वभावस्तब्धेऽपि वृक्षे।।]v
प्रियतमो यथा यथा वाद्यं वादयति तथा तथाहं चञ्चले प्रेम्णि नृत्यामि। नर्तको यथा वादकस्य वाद्यलयानुसारमेव पदनिक्षेपं कर्तुं शक्नुयात्तथाहमपि प्रियस्याभिप्रायानुसारमेव प्रेमवशंवदा समाचरामीति प्रियानुवर्तनं ध्वन्यते। किञ्च नर्तकवादकयोर्लयस्य संवाद एव यथा सङ्गीतकसौष्ठवं भवति तथैव दम्पत्योरभिप्रायसाम्ये एव प्रणयगार्हस्थ्यं शोभत इति गृहच्छन्दा-नुरोधेन मिथाऽनुवर्तनमपि गाथाकारेण सूच्यते। 'नृत्यामि चञ्चले प्रेम्णि’ इत्यनेन चाञ्चल्यकरं प्रेम आत्मच्छन्देन मां नर्तयतीति लोकोक्त्यनुकरणेन नाहमात्वशंवदेति ध्वन्यते। वल्ली निजस्वभावेन स्तब्धेऽपि वृक्षे अङ्गं वलयति वेष्टयति, अनेन दृष्टान्तेन प्रिय: काममस्तु स्वैरचेष्टि-तोऽहं तु तस्मै आत्मसमर्पणं कृतवतीत्यात्मनोऽनुरागातिशयो ध्वन्यते। किञ्च मत्कृतच्छायायां निजनिसर्गेणेति पृथक्पदस्थापनेन वृक्षस्य स्तब्धत्वं यथा निजस्वभावस्तथा लताया अपि वृक्षवेष्टनं निज: स्वभाव इति 'स्तब्धेऽपि वृक्षे वल्ली निजनिसर्गेणाङ्गं वलयति’ इत्यर्थसम्पत्त्या स्त्रिया: पतिच्छन्दानुवर्तनं स्वभाव एवेति दयितानुवृत्तिदाक्षिण्यं ध्वन्यते। पूर्वार्द्धे नाहमात्मवशगेत्यर्थान्तर-गर्भिताया लोकोक्तेरनुकरणाच्छेकोक्तिरलङ्कार: 'छेकोक्तिर्यदि लोकोक्ति: स्यादर्थान्तरगर्भिता’। तथा च-प्रेमवंशवदा नाहमात्मनोऽपि प्रभवामि किं पुनर्दयिते मानमनुष्ठातुमिति नायिकया सखीं प्रत्यभिव्यज्यते। 'यद्वा निराश्रयतया स्थातुमशक्ता लता यथा स्तब्धं वृक्षमाश्रित्य तिष्ठति तथाहमपि नटप्रायमननुरक्तमधममप्याश्रित्य तिष्ठामि यावदुत्तमं कमप्यासादयामीति दूतीं प्रति कुलटाया: कस्याश्चिदियमुक्ति:’ इति गङ्गाधरटीका।
महता प्रयत्नेन प्राप्तस्य दयितस्य हृदयेच्छानुवर्तनवैमुख्यं सूचयन्ती नायिका स्वसखी-माह-
दयितो दु:खैराप्यत आप्तो दु:खैर्हि भवति चाधीन:।
आप्तोऽप्यनाप्त एव तु न हि यदि हृदयानुकूल: स्यात्।।५।।१
स्वामी भर्ता वा सुखं प्राप्य: परं य: किल हृदयामीप्सित: प्रिय: स हि दु:खैर्लभ्यत इति दयितपदस्याकूतम्। यदि प्रियो लब्धस्तर्ह्यपि सौन्दर्यगुणाद्यभिमानेन दयिताया वशीभूतो न भवति प्रत्युत तामेवाभिभूय स्वयं स्वैरचारी स्यादेवं च महता कष्टेन पुन: स्वाधीनो भवतीति भाव:। यदि तु हृदयानुकूलो न भवति तर्हि लब्धोऽप्यलब्ध एव। 'महताऽऽयासेन प्राप्तोऽपि न मे हृदयानुवर्तनं करोति’ इति नायिकाया सनिर्वेदमात्माभिप्रायो व्यज्यते।
१. दुक्खेहिँ लम्भइ पिओ लद्धो दुक्खेहिँ होइ साहीणो।
लद्धो वि अलद्धो व्विअ जइ जइ हिअअं तह ण होइ।।५।।
[दु:खैर्लभ्यते प्रियो लब्धो दु:खैर्भवति स्वाधीन:।
लब्धोऽप्यलब्ध एव यदि यथा हृदयं तथा न भवति।।]
प्रियं प्रति सोत्कण्ठा कलहान्तरिता प्रियसखीमाह-
अनुनयसुखलोलुपया कष्टमकृतमपि कृतं प्रकुर्वत्या।
दयित: सरलनिसर्गोऽप्यविनयमार्गं बलान्नीत:।।६।।१
अपराधे सिद्धे सति विलक्ष: प्रियो मामनुनयेदिति प्रियसकाशादनुनयसुखं काङ्क्षन्त्या अत एव प्रियेण अकृतमप्यपराधं कृतं कुर्वत्या साधयन्त्या मया। सरलस्वाभावोऽपि प्रियो बलादविनयमार्ग नीत इति कष्टम्। अव्वो इति कष्टमित्यर्थे देशी। कष्टमविनयमार्गं नीत इति मतिप्राबल्येन कोपभावस्य शान्ति:। भर्त्रादिपदमनुच्चार्य दयितपदप्रयोगेण वल्लभं प्रति तत्प्रणयादिस्मरणेनोत्कण्ठाख्यभावस्योदयश्च व्यज्यत इति भावसन्धि:। 'काङ्क्षिण्या’ इति संस्कृते दु:श्रवं स्यादिति 'लोलुपया’ इति परिवर्तितं छायायाम्। ये तु केवलं मूलपदाङ्कानुसारिणस्तेषां कृते 'अनुनयसुखकाङ्क्षिण्या’ इति पाठ:। 'करोतिरत्रोच्चारणे। अकृतमप्यपराधं कृतमिति समुच्चारयन्त्येत्यर्थ:।।’ इति गङ्गाधर:। किञ्च जातानुतापा कलहान्तरितेत्यपि गङ्गाधरोक्तं व्यर्थमेव, अनुतापे सत्येव कलहान्तरितात्वव्यपदेशसिद्धे:। 'चाटुकारमपि प्राणनाथं कोपादपास्य या। पश्चात् तापमवाप्नोति कलहान्तरिता तु सा।।’ इति सरस्वतीकण्ठाभरणम्।
प्रोषितपतिकाया विरहवेदनां मुग्धतां च संसूच्य तत्कान्तस्यागमनत्वरार्थं तत्सखी तत्समीपगामिनं पान्थमाह-
करयो: पदयोश्चाङ्गुलिसङ्गणनेनेह यापिता दिवसा:।
कथमधुना गण्यन्तामित्युक्त्वा रोदिति हि मुग्धा।।७।।२
हस्तयो: पादयोश्चाङ्गुलिगणनया दिवसा व्यतीता:। इदानीमङ्गुलिसंख्यामतिक्रम्य व्यतीतानि दिनानि केन गण्यन्तामित्युक्त्वा मुग्धा रोदिति। एतावत्कालमङ्गुलिगणनाव्यापारेण
१. अव्वो अणुणअसुहकङ्खिरीअ अकअं कअं कुणन्तीए।
सरलसहावो वि पिओ अविणअमग्गं बलण्णीओ।।६।।
[कष्टमनुनयसुखकाङ्क्षणशीलयाकृतं कृतं कुर्वत्या।
सरलस्वाभावोऽपि प्रियोऽविनयमार्गं बलान्नीत:।।]
२. हत्थेसु अ पाएसु अ अङ्गुलिगणणाइ अइगआ दिअहा।
एण्हिं उण केण गणिज्जउ त्ति भणिऊ रुअइ मुद्धा।।७।।
[हस्तयोश्च पादयोश्चाङ्गुलिगणनयातिगता दिवसा:।
इदानीं पुन: केन गण्यतामिति भणित्वा रोदिति मुग्धा।।]
अद्य श्व इत्याशामवलम्ब्य दिवसा यापिता इत्युत्कण्ठातिशयो व्यज्यते। तथा च गणनासाध-नानुपलम्भेन निर्विनोदा सेयं नाधुना कालविलम्बं सहेतेति त्वरातिशयो ध्वन्यते। मुग्धेत्यनेन मुग्धतया नेयं गणनाया: साधनान्तरं जानीयात्, तथा चैवंविधापि सेयं निर्घृणेन त्वया समधिकं पीड्यत इत्युपालम्भो व्यज्यते।
प्रवासोद्यतस्य नायकस्य गमनप्रतिरोधार्थं काचिदुन्मादकं वसन्तं सहैव यात्राप्रतिरोध-कमपशकुनं च स्मारयति-
शुकमुखसच्छायै: किल पलाशकुसुमैर्विराजते वसुधा।
बुद्धस्य चरणवन्दनपतितैरिव भिक्षुसङ्घातै:।।८।।१
अरुणवर्णैरत एव शुकमुखसदृशै:। मध्ये आसीनस्य बुद्धदेवस्य चरणवन्दनार्थं पर्यन्ततो दण्डवत्पतितैर्भिक्षुसङ्घैरिव। लोहितानि कुसुमपत्राणि वस्त्रस्थानीयानि तद्वृन्तञ्च शिर:स्थानीयमिति प्रणतभिक्षुसादृश्यं बोध्यम्। तथा च विरहिजनदुरन्तोऽयं वसन्त: समागतस्ततोऽपि हन्त गन्तुम-भिलष्यसीति स्मारणं व्यङ्ग्यम्। कठिनहृदयतया ततोपि चेन्न निरुध्यसे अथापि यात्रासमयेऽप-शकुनानि त्ववश्यं परिहेयानीत्यपशकुनार्थं भिक्षुसङ्घातस्मारणाकूतम्। उक्तं हि वसन्तराजशकुने-
'वमद्विकेशो हतमानगर्व: क्षिण्णाङ्गनग्नान्त्यजतैलदिग्धा:।
रजस्वला गर्भवती रुदन्ती मलान्वितोन्मत्तजराधवाश्च।।
दीनो द्विषत्कृष्णविमुक्तकेशा: क्रमेलकस्था: खरसैरिभस्था:।
संन्यासिसांक्रन्दनपुंसकाद्या दु:खावहा: सर्वसमीहितेषु।।’
किञ्च पतितैरिति पदमप्यपशकुनमेव। उक्तं हि तत्रैव-
'स्थैर्यं स्थिरार्थाद् गमनं तदर्थाद्वाक्यान्निवृत्तिर्विनिवर्तितार्थात्।
लाभं जयं भङ्गममङ्गलं वा बुध्येत तत्तत्प्रतिपादनार्थात्।।’
मानिनीमनुनेतुं प्रियतम: सदाक्षिण्यमाह-
१. कीरमुहसच्छहेहिं रेहइ वसुरा पलासकुसुमेहिं।
बुद्धस्स चलणवन्दणपडिएहिँ व भिक्सुसंघेहिं।।८।।
[कीरमुखसदृक्षै राजते वसुधा पलाशकुसुमै:।
बुद्धस्य चरणवन्दनपतितैरिव भिक्षुसङ्घै:।।]
अङ्गं यद्यत्पृथुलं तत्तज्जातं कृशोदरि कृशं ते।
यद्यत्तनु तत्तदीपि च तनुतरमभवत्किमत्र मानेन।।९।।१
मानजेन मन्युदु:खेन तव सेयं दशा, ततश्चैवंविधक्लेशकरं मानं मुञ्चेति भाव:। मानसामयिकेन वियोगदु:खेन तनोस्तनुतरतावर्णनादतिशयोक्ति:। अनया च-तवेव ममापि समधिकवेदनावहं मानमिदानीमवमुञ्चेति ध्वन्यते। गाथायामस्यां 'णिट्ठिअम्’ इत्सस्य संस्कृतपदशय्यानुरोधेन तनुतरमित्युपनिबन्ध:। मूलपदाङ्कानुसरणे तु 'यद्यत्तनुतत्तदपि च निष्ठितमिह किं नु मानेन’ इति पाठ्यम्। निष्ठितं निष्ठां प्रकर्षं गतम्। अति दुर्बलं जातमित्यर्थ:। ''अनुनयं ग्राहयितं, सखी मानवतीमाह’’ इति गङ्गाधरावतरणम्।
गुणवतीं तां विहाय कथमयमन्यस्यामनुरक्त इति सख्यानुयुक्ता नायिकासखी तामाह-
ह्रियते गुणेन न जनो ह्रियते यो येन भावितस्तेन।
मुक्ताफलानि मुक्त्वा गुञ्जा गृह्णन्ति किल पुलिन्दगणा:।।१०।।२
ह्रियते वशीक्रियते। गुणकर्तृकहरणस्यानुपपत्त्या अभिमुखीकरणं लक्ष्यम्। तेन च वशीकरणं व्यङ्ग्यम्। गुणेन जनो न वशीक्रियते किं तु यो जनो येन भावित: प्रणयवशाद-नुध्यातस्तेन अर्थात् प्रेमभाजनेन जनेन वशीक्रियते। यस्य यत्र प्रेम भवति तत्र गुणाभावेऽपि सोऽनुरज्यतीति भाव:। मौक्तिकेषु महामूल्यबहुमानं त्यक्त्वा स्वाभाविकप्रेमवशात्पुलिन्दा गुञ्जास्वनुरज्यन्तीत्याशय:। मुक्तागुञ्जादृष्टान्तेन 'परमादरणीयां मत्सखीं विहाय अन्यस्यामनुरक्तस्य तस्य वनेचरवन्न गुणपरिचयवैदग्ध्यम्’ इति ध्वन्यते। 'निजभर्तुरेव न सा वल्लभा तत्कथं तस्या गुणानस्तौषीरित्यभियोज्येनोक्ता दूती तमाह’ इति गङ्गाधर:।
१. जं जं पिहुलं अङ्गं तं तं जाअं किसोअरि किसं ते।
जं जं तणुअं तं तं पि णिट्ठिअं किं त्थ माणेण।।९।।
[यद्यत्पृथुलमङ्गं तत्तज्जातं कृशोदरि कृशं ते।
यद्यत्तनुकं तत्तदपि निष्ठितं किमत्र मानेन।।]
२. ण गुणेण हीरइ जणो हीरइ जो जेण भाविओ तेण।
मोत्तूण पुलिन्दा मोत्तिआइँ गुञ्जाओँ गेह्णन्ति।।१०।।
[न गुणेन ह्रियते जनो ह्रियते यो येन भावितस्तेन।
मुक्त्वा पुलिन्दा मौक्तिकानि गुञ्जा गृह्णन्ति।।]
गमनानुमतिं याचते मे किमिति किमप्युत्तरं न ददासीति प्रियतमेनोक्ताया नायिकाया: सम्बन्धिनी काचिद्वृद्धा तमाह-
लङ्कानिलयानां सुत वसन्तमासैकलब्धविभवानाम्।
[वसान्त्रमांसैकलब्धविभवानाम्।]
आपीतलोहितानां बिभेति लोक: पलाशानाम्।।११।।१
हे पुत्र लङ्का शाखा स्थानं येषां तेषाम्। वसन्तमासे प्राप्तात्यन्तप्रसराणाम्। आ ईषत्पीत-वर्णानि च लोहितानि च तेषाम्। पलाशानां किंशुकपुष्पाणां लोक: प्रियविरहवेदनाकातरो वधूजनो बिभेति। पलाशकुसुमैर्विरहिजनदुरन्तं वसन्तमालक्ष्य प्रवासविषये सेयमुत्तरं न प्रतिपद्यत इति भाव:। पलाशानामिति शेषत्वविवक्षायां पञ्चम्यर्थे षष्ठी। यत्र यात्रानुमतियाचनरूपप्रकरणेन पलाशादिपदानां किंशुकादिष्वर्थेषु वक्तृतात्पर्यावगमात् शक्तेर्नियमने सति पूर्वोक्तार्थसम्पत्तावपि 'लङ्कालआणम्’ 'वसन्तमासेक्कलद्धपसराणम्’ इत्यादिषु पलाशादिशब्दैरनुरणनव्यङ्ग्यविधया- लङ्कापुरीवासिनाम्, वसा अन्त्राणि मांसं च एभि: प्राप्तात्यन्तप्रसराणां समन्तात्पीतरुधिराणां पलाशानाम् (पलं मासमश्रन्ति तेषाम्) राक्षसानां लोको बिभेतीत्यर्थो ध्वन्यते। तथा च पलाशकुसुमै: सह एकपदोपस्थितिवशाद्राक्षसरूपस्यार्थस्योपमानोपमेयभावप्रतीत्या शब्दशक्तिमूल उपमालङ्कारध्वनि:। एवं च विरहिणीजनघस्मराणि किंशककुसुमानि राक्षसानिव वीक्षमाण सेयं भवत्प्रवासानुमतौ नोत्तरं ददातीति नायकं प्रति चरममभिव्यज्यते। 'जन:’ इति सामान्यनिर्देशेन 'य: किल मानुष: स तु पलाशेभ्यो बिभेति परं भवानस्मिन्नपि समये प्रवासमभ्युपगच्छन् न जाने एभ्यो बिभेति न वा, हन्त भवत: कीदृशी क्रूरहृदयता’ इत्युपालम्भोऽपि ध्वन्यते। 'लङ्का रक्ष:पुरी शाखाशाकिनीकुलटासु च’ इति मेदिनी। अत्र 'राक्षसेभ्यो जनो बिभेतीति श्लेष:’ इति गङ्गाधरव्याख्यानं तु विचारणीयमेव। स्वयंप्रदर्शितेन गमनानुमति-याचनप्रकरणेन किंशुकार्थे पलाशपदस्याभिधाया नियन्त्रणेन राक्षसरूपार्थस्य व्यञ्जनां विनानुपपत्ते:। युगपद्यत्र द्वयोरर्थयो-स्तात्पर्यावगमस्तत्रैव श्लेष इति स्पष्टं प्रतिभावताम्। न च भयदायकराक्षसार्थोऽपि सहैव प्रतीयत इति वाच्यम्। यात्राप्रश्ने राक्षसार्थस्य असम्बद्धत्वात्। किं च पलाशपदेन किंशुक-रूपमर्थमवगत्य ततो विरहिणीजनघस्मरतया पलाशेषु (किंशुकेषु) पलाशता राक्षसता आरोप्यते।
१. लङ्कालआणँ पुत्तअ वसन्तमासेक्कलद्धपसराणम्।
आपीअलोहिआणं वीहेइ जणो पलासाणम्।।११।।
[लङ्कालयानां पुत्रक वसन्तमासैकलब्धप्रसराणाम्।
आपीतलोहितानां बिभेति जन: पलाशानाम्।।]
आलम्बनं विना राक्षसत्वरूपस्यारोपस्यानुपपत्ते:। अत एव पूर्वं पलाशपदस्य किंशुकरूपार्थं एव शक्ति:, अनन्तरं च राक्षसरूपार्थप्रतीति:। सा च काञ्चिद्वृत्तिं विना दुरुपपादा, वृत्तिं विना शब्दादर्थबोधस्वीकारेऽतिप्रसङ्गात्। लक्षणा तु मुख्यार्थबाधाद्यभावान्न, ततस्तु व्यञ्जनाऽत्रावश्यं स्वीकार्या। सा चेयं पलाशादिपदानां परिवृत्त्यसहत्वाच्छाब्दीति कृतं प्रसक्तानुप्रसक्तेन।
दयितं प्रति नायिकाया: प्रणयातिशयं सखी सखीमाह-
आदाय चूर्णमुष्टिं हर्षोत्सुक्येन वेपमानाया:।
प्रियमवकिरामि पुर इति हस्ते गन्धोदकं जातम्।।१२।।१
पुर: प्रियतममवकिरामि विच्छुरयामीति चूर्णमुष्टिं मुष्टौ कर्पूरादिगन्धद्रव्यकृतवर्ण-धूलिमादाय हर्षजनितेनौत्सुक्येन वेपमानाया नायिकाया हस्ते गन्धोदकं जातम्। प्रियतमदर्शन-जनितसात्त्विकभावात्मकस्वेदेन चूर्णमुष्टिरेव गन्धोदकं जातमिति भाव:। कान्तावलोकनमात्रेण तस्या एतावान् भावोदय इति नायकं प्रत्यनुरागातिशयो व्यज्यते। औत्सुक्येनेत्यनेन प्रियतमदर्श-नोत्तरं तदुपरि वर्णमुष्टिप्रक्षेपकालविलम्बाऽसहनत्वं सूच्यते। तथा च चूर्णमुष्टिग्रहणोत्तरं कदा प्रियं विच्छुरयामीत्युत्कण्ठया स्वेदोद्गमरूपोऽनुभावोऽभिव्यञ्जित:। उक्तं हि सरस्वतीकण्ठा-भरणे- 'औत्सुक्यं वाञ्छितप्राप्तौ कालक्षेपासहिष्णुता। चित्ततापत्वरास्वेददीर्घनिश्वसितादिकृत्।।’ 'भिसिणेमि’ इति विच्छुरणार्थे देशी।
देवराभिसारस्ते मया ज्ञात इति सूचयन्ती सपत्नी सपत्नीमाह-
पृष्ठं प्रोञ्छ कृशोदरि पृष्ठगृहाङ्कोटपत्रचित्रयुतम्।
मा ज्ञास्यसेऽतिऋ जुके देवरजायाभिरतिविदग्धाभि:।।१३।।२
१. घेत्तूण चुण्णमुट्ठिं हरिसूससिआएँ वेपमाणाए।
भिसिणेमित्ति पिअअमं हत्थे गन्धोदअं जाअम्।।१२।।
[गृहीत्वा चूर्णमुष्टिं हर्षोत्सुकिताया वेपमानाया:।
अवकिरामीति प्रियतमं हस्ते गन्धोदकं जातम्।।]
२. पुट्ठिं पुससु किसोअरि पडोहरङ्कोल्लपत्तचित्तलिअम्।
छेआहिँ दिअरजाआहिँ उज्जुए मा कलिज्जिहिसि।।१३।।
[पृष्ठं प्रोञ्छ कृशोदरि पश्चाद्गृहाङ्कोटपत्रचित्रितम्।
विदग्धाभिर्देवरजायाभि ऋ जुके मा कलिष्यसे।।]
हे कृशोदरि पृष्ठगृहे पश्चाद्भागवर्तिगृहे योऽङ्कोटवृक्षस्तत्पत्रैश्चित्रितं पृष्ठभागं प्रोञ्छ मार्जय। अयि सरले! ऋ जुतयाऽभिसरणप्रच्छादनानभिज्ञे! एवं सति अतिविदग्धाभिर्देवरजायाभिर्मा ज्ञास्यते। पृष्ठप्रोञ्छनाभावे तु विदग्धाभिस्ताभिर्निजदयिताभिसारिणीति त्वं लक्षयिष्यस इति भाव:। तथा च-अक्षोटतरुतले देवरेण सह त्वं साम्प्रतमेव सङ्गतवतीत्यहं जाने। नेदमधुना त्वयापलपितुं शक्यम्, उत्तानसंवेशनेन रममाणायास्तव पृष्ठस्य तत्पत्रैश्चित्रितत्वादिति सपत्नीं प्रत्यभिव्यज्यते। देवरजायाभिरित्यनेन 'देवरपत्न्योऽपि दयिताभिसारेर्ष्यया त्वदन्वेषणपरा: सन्ति, ततो नाहमेवैतदभिज्ञा ता अपि सन्तीति’ ध्वन्यते। अवसरालाभान्निरास्तरण एव तरुतले त्वया रतं ततोऽपि ऋजुतया त्वं तद्गोपयितुं नाशक इति ऋ जुके इत्यामन्त्रणेन द्योत्यते। अतिविदग्धा अपि देवरजायास्त्वया तद्दयितवशीकरणेन सम्यक् विजिता इत्युपालम्भगर्भाऽसूयापि ऋजुके इत्यामन्त्रणेन ध्वन्यते। कृशोदरीत्यामन्त्रणेन तु कृशमध्यायास्तवोत्तानबन्ध एव सुखावहोऽभूदिति स्वस्य बन्धचातुर्यममिव्यज्यते। 'पडोहर’ शब्द: पश्चाद्गृहवाचको देशी। 'अक्षोटकन्दरालौ द्वावङ्कोटे तु’ इत्यमर:।
कृतापराधे दयिते मानावलम्बनेन क्षणमात्मगौरवं स्थापनीयमिति शिक्षयन्तीं सखीमात्मनोऽनुरागातिशयात्तत्राक्षमतां काचिदाह-
स्थगयिष्यामि कराभ्यां नयने तस्मिन्विलोकिते द्वाभ्याम्।
अपिधास्यामि कथं मम पुलकितमङ्गं कदम्बकुसुममिव।।१४।।१
तस्मिन्दृष्टे सति द्वाभ्यां कराभ्यां नयने स्थगयिष्यामि आच्छादयिष्यामि, परं तद्दर्शनेन पुलकितं रोमाञ्चयुक्तमत एव कदम्बकुसुममिव स्थितं ममाङ्गं कथम् अपिधास्यामि आच्छादयिष्यामि। सर्वाङ्गव्यापितत्वात्पुलकं गोपयितुमशक्यमिति भाव:। स्थगयिष्यामीत्यनेन 'यत्किल मत्प्रयत्नेन साध्यं तदधीनं मम, यत्तु मम हृदयाधीनं तत्राहमवशा, हृदयस्य प्रियतम-वशीभूतत्वात्’ इत्यभिव्यज्यते। कदम्बकुसुममिवेत्युपमया कदम्बकुसुमे यथा केसरा: स्वभावतो भवन्ति तथा प्रियतमस्यावलोकनमात्रेण ममापि स्वतो रोमाञ्चोद्गमो भवतीति प्रियं प्रति निसर्गतोऽनुरागो द्योत्यते। तथा च प्रियतमे एवमनुरक्ताया मम शारीरिकविकारगोपनमेव तस्मिन्नवसरे दुष्करं किं पुनर्मानावलम्बनमिति सखीं प्रति ध्वन्यते।
१. अच्छीइँ ता थइस्सं दोहिँ वि हत्थेर्हिं वि तस्सिं दिट्ठे।
अङ्गं कलम्बकुसुमं व पुलइअं कहँ णु ढक्किस्सम्।।१४।।
[अक्षिणी तावत्स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन्दृष्टे।
अङ्गं कदम्बकुसुममिव पुलकितं कथं नु च्छादयिष्यामि।।]
सं. गा... १४
नायकसमीपगामिनं पान्थं प्रति सखीजनो नायिकाया अवस्थां गृहस्यापि च दुर्दशां सूचयन् तस्य त्वरितागमनार्थं सन्दिशति-
झञ्झावतोत्तृणिते गृहे रुदित्वा हि नि:सहनिषण्णाम्।
दर्शयतीव घनानां प्रोषितपतिकां नु विद्युदुद्द्योत:।।१५।।१
झञ्झावातेन वर्षावायुना उत्तृणिते तृणशून्यीकृते गृहे प्रियस्मरणोत्कण्ठया रुदित्वा नि:सहं यथा स्यात्तथा निषण्णां प्रोषितपतिकां विद्युदुद्द्योतो घनानां घनान् प्रति दर्शयतीव। घनानामिति कर्मण: शेषत्वविवक्षया षष्ठी। भवतामुदयादियमेतामवस्थां तु प्राप्ता, किमिदानीम-बलामधिकं क्लेशयथ, प्रत्युत पत्युरेतस्या: कुरुतोत्कण्ठां येन इमां दुर्दशामवाप्ता सेयं जीवितुं शक्नुयादित्याशयेन मेघान् प्रदर्शयतीति भाव:। स्त्रीत्वान्मृदुहृदयतया विद्युत: प्रोषितपतिकां प्रति पक्षपात:, अत एव दयमाना विद्युत्प्रोषितपतिकाया उपरि दयाप्रकाशनार्थं तां मेघेभ्यो दर्शयतीत्याशय:। यथा मृच्छकटिकेऽप्युक्तम्- 'यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुरा: पुरुषा:। अयि विद्युत्प्रमदानां त्वमपि च दु:खं न जानासि।।’ अथवा प्रियविरहवेदनया समधि-कक्लिष्टामत एव दु:खाधिक्यसम्भवभिया मेघदर्शनमसहित्वा गृहे निलीय निषण्णां प्रेाषितपतिकां विद्युत्प्रकाशो मेघान् प्रति दर्शयति। स्त्रीत्वात्स्त्रीरहस्याभिज्ञा विद्युद् उपजापकारिणीव निजदयितान् मेघान् प्रति क्लेशनार्थं तां प्रकाशयतीति भाव:। किंवा उत्कण्ठोच्छ्वसितहृदयतया मेघदर्शनात्पराजीय गृहे निलीनां प्रोषितपतिकां विद्युत्प्रकाशो घनानाम् (घनान् कर्मभूतान्) दर्शयतीव। विरहोद्दीपकान्मेघान्द्रष्टुमनिच्छन्तीमपि प्रोषितपतिकां विशीर्णगृहप्रविष्टो विद्युत्प्रकाशस्तान्मेघान्बलाद्दर्शयतीत्यर्थ:। 'दृशेश्चेत्यनेन प्रयोज्यकर्तु: प्रोषितपतिकाया: कर्मत्वेन द्वितीया। मेघान् अपश्यन्तीमपि प्रयोज्यां प्रयोजको विद्युत्प्रकाशो बलात्पश्यन्तीं ज्ञात्वा प्रदर्शनकर्मणि प्रयोजयतीत्यहो वैयाकरणानामविषयो विषय:!! [धातुवाच्यव्यापारस्य कर्तुरेव प्रयोज्यत्वमालम्ब्य प्रयोजककर्त्रा प्रेरणे कृते धातोर्णिच् वैयाकरणैरनुशिष्ट:; न तु धातुवाच्य-व्यापाराद्दूरं पलायमानस्य कर्तुर्बलात्कारेण प्रयोज्यत्वं संस्थाप्य णिजर्थं प्रेरणं क्रियते। अत्र हि प्रोषितपतिका दृशधातुवाच्यव्यापारादवलोकनाद्दूरं पलाय्य गृहे निलीना तथापि तां पश्यन्तीं प्रयोज्य बलात्कारप्रयोजकेन विद्युत्प्रकाशेन बलादेव णिजर्थं प्रेरणं कृत्वा दर्शयतीति प्रसेधित-मेवेति विलोक्यतामाश्चर्यम्!!] तथा च त्वद्विरहवेदनया क्लिष्टायां तस्यां वर्षाकालिको मेघाडम्बरो बलादत्याचरतीति ध्वन्यते। वातेनैव तृणानामुड्डयनेन गलितमुञ्जबन्धनस्य च्छदिषो गृहस्वामि-
१. झञ्झावउत्तणिए घरम्मि रोऊण णीसहणिसण्णम्।
दावेइ व गअवइअं विज्जुज्जोओ जलहराणम्।।१५।।
[झञ्झावतोत्तृणिते गृहे रुदित्वा नि:सहनिषण्णाम्।
दर्शयतीव गतपतिकां विद्युद्द्योतो जलधराणाम्।।]
कर्तृकं बहुकालादप्रत्यवेक्षणं सूच्यते। तथा च बहो: कालात्ते विरहवेदनामेषा विसोढवतीति व्यज्यते। नि:सहमित्यनेन 'त्वदनुध्यायेन उत्कण्ठितहृदयतया यावद्बलं सा रोदिति, विरहकृशतया तत्राप्यसमर्थत्वे तु नि:सहतया निषीदति’ इति विरहदौर्बल्यातिशयो व्यज्यते। गृहे निषण्णामित्यनेन त्वद्गतचित्ततया न गृहजनसङ्कथास्वस्या मनो रमते, अत एव विजने गृहे निषीदतीति ग्लान्या प्रियानुरागातिशयो ध्वन्यते। दर्शयतीवेत्यनेन 'नासौ खिन्ना मेघान्पश्यति परं साम्प्रतं त्रुटितगृहान्त-रालान्मेघा इमां पश्यन्ति, इति दैन्यदूना सेयमचिरादुज्जीवनीया’ इति ध्वन्यते। तथा चैवं गृहदारिद्यदशायामपि त्वदनुरागवशात्केवलं त्वदनुध्यानमात्रावलम्बनामिमां त्वरितं सम्भावय, अन्यथा सम्प्रति मेघैरवेक्षिता सेयं नाधिककालमेवं तिष्ठेदिति त्वरितागमनं ध्वन्यते। गतपतिका-मिति मूलपाठो न सुन्दर इति प्रोषितपतिकामिति प्रयुक्तम्।
अनुरक्तायामपि कस्याञ्चन ग्राम्यवेषादिना मन्दादरं नायकं प्रवर्तयितुं दूती साकूतमन्या-पदेशेनाह-
भुङ्क्ष्व यदायत्तं नो लवणं कुग्रामरन्धने तु कुत:।
सुभग सलवणेनापि च किं तेन हि यत्र न स्नेह:।।१६।।१
यत् न: आयत्तम् अधीनं तद् भुङ्क्ष्व। रिद्धं रन्धनम्। सुलभलवणात्प्रदेशात्सुदूरवर्तितया कुत्सितस्यास्य ग्रामस्य रन्धने लवणं सामुद्रादि कुत: स्यात्। हे सुभग! तेन सलवणेनापि किं यत्र स्नेहो घृतादिर्न स्यात्। सुभगेत्यनेन त्वं तादृशसौभाग्यशाल्यसि, यद्दृष्टमात्र एव त्वयि सेयं स्नेहानुबन्धमधिगतवतीति नैतस्या: स्नेहनिर्भरं मनो मन्दादरताप्रदर्शनेन कदर्थनीयमिति सौन्दर्य-गर्वितं प्रत्यभिव्यज्यते। वाच्येनानेन वस्तुना 'कुग्रामे (यत्र समयेऽपेक्षितस्याभीष्टवस्तुन: कामं नोपलम्भ एतादृशे लघौ ग्रामे) यदृच्छयाऽऽगतस्य प्राघुणिकस्य यदि विवशतया यथामनोरथं परिचरणं न स्यात्तदा दक्षिणेनागन्तुकेनापि यदेतेषां स्वाधीनं (यद्धि मनोरागान्निवेद्यते) नेदं यत्र कुत्रचित्सुलभमिति परिज्ञाय तत्स्वीकारेणैव सन्तोष्टव्यम्। लवणं हि अन्यान्यस्थलेषु सुलभम्, किञ्चिद्व्ययेनापि लब्धुं शक्यम्। स्नेह: (घृतादिकम्) तु शुद्धो भूरिव्ययेनापि कदाचिदेवोपल-भ्येत नागरिकैर्भवादृशैरिति स्नेह एव बहुमानदृशावलोकनीयो न तावदापातमञ्जुलं लवणम्। किं च लवणं यदि विशेषपरिमाणे भुज्यते तर्हि त्वरितमेव वैरस्यमापादयति। स्नेहस्तु अधिका-धिकमपि व्यामिश्रित आसेव्यते तर्ह्यपि न प्रकृतरसस्य भङ्ग:, प्रत्युत शरीरस्येव तस्य भूयान्परिपोष
१. भुञ्जसु जं साहीणं कुत्तो लोणं कुगामरिद्धम्मि।
सुहअ सलोणेण वि किं तेण सिणेहो जहिँ णत्थि।।१६।।
[भुङ्क्ष्व यत्स्वाधीनं कुतो लवणं कुग्रामरिद्धे।
सुभग सलवणेनापि किं तेन स्नेहो यत्र नास्ति।।]
एव। तथा च- लावण्यमात्रलोलुपतया नास्या: स्वाभाविक: स्नेहोऽवधीरणीय इति दूत्या कञ्चिन्नागरिकतादर्पशालिनं प्रति प्रतिबोध्यते। यत्स्वाधीनमित्यनेन सौन्दर्यं नास्या अधीनं तद्धि दैवायत्तम्। यत्रास्या: स्ववश: स किल बहुत्र दुर्लभ: स्नेहो भाग्यवशात्सुलभस्ते जात इति त्वत्सौन्दर्याग्रे निजस्य सौन्दर्यमकिञ्चिनमन्वानतया विनयातिशयमाविष्कुर्वत्यां सुदत्यामस्या-मवश्यं दयनीयमिति व्यज्यते। व्यञ्जनादिपदमनुपादाय रन्धनपदनिबन्धनेन- रन्धितमोदनादिकं यथाऽपरस्यैव कार्ये समुपयुज्यते, न च वैरस्योत्पादकं कालहरणमत्र प्रशस्यते। तथा च नेयं केनचिदन्येन यावदभियुज्यते तावदेनामुपस्थितामनुकम्पस्वेति ध्वन्यते। छायायां 'न:’ इति बहुत्वेनगैकस्य कस्यचन वश: किं तु बहवोऽपि वयमस्मिन्कुस्थलेऽन्यं प्रबन्धं कर्तुं न प्रभवाम इति विवशतातिशयोऽभिव्यज्यते। भुङ्क्ष्वेति मूलानुरोधि पदम्। अन्यथा तु 'स्वादय यत्स्वा-धीनम्’ इत्यपि बन्धबन्धुरं स्यात्। कुगामरिद्धम्मीति प्राकृतेन सह 'रिद्धम्’ इत्येव छायामुप-कल्पयन् गङ्गाधरस्तु विच्छाय एव, रिद्धस्यानिष्पत्ते:। प्राकृते तु रन्धितस्य सम्भवेद्रिद्धमिति।
नीरसमपि स्नेहवशान्मनोऽनुकूलं भवतीति समीपोपस्थितं नायकं श्रावयितुं काचित्सखीं प्रत्यन्यापदेशेनाह-
सुखपृच्छिकामुखाम्बुजसुरभिपवनशीतलीकृतं हलिक:।
प्रकृतिकटुकमपि निपिबति तथौषधं तिष्ठति हि न यथा।।१७।।
प्रकृत्या स्वभावेनैव कटुकं तिक्तम्। औषधं तथा पिबति यथा न तिष्ठति, नावशिष्यत इत्यर्थ:। अयमभिप्राय:- ज्वरार्तस्य नायकस्य सुखप्रश्नार्थमागतया नायिकया तत्समयप्रदेयमुष्णं क्वाथौषधं फूत्कारेण शीतलीकृतम्। स चानुरागानुप्राणित: कटुकमपि तन्नि:शेषं पीतवानिति। हलिक इत्यनेन हालिकोऽपि तावदेवमनुरागरमणीयां दाक्षिण्यचर्यामनुरुणद्धि। भवांस्तु नागरिकत्वाभिमानीति किं पुनर्भवति विशेषवचनेनेति साकूतं ध्वन्यते। औषधमित्यनेन मयाऽयमनुरागस्तव महान्तमपि मनोव्याधिमपनयेदत: किञ्चिद्धैर्येण नियमे स्थातव्यमित्यभि-व्यज्यते। प्रकृतिकटुकमित्यनेन 'न मेऽनुरागस्तव हृदयावर्जकस्तथापि परिमाणे सुखप्रद इत्यौषधरूपेणापि सोऽभ्युपगन्तव्य:’ इति सूच्यते। ''विरसमप्यनुरागात्सुरसं भवतीति कापि सखीमाह’’ इति गङ्गाधरावतरणम्।
१. सुहपुच्छिआइ हलिओ मुहपङ्कअसुरहिपवणणिव्वविअम्।
तह पिअइ पअइकडुअं पि ओसहं जह ण णिट्ठाइ।।१७।।
[सुखपृच्छिकाया हलिको मुखपङ्कजसुरभिपवननिर्वापितम्।
तथा पिबति प्रकृतिकटुकमप्यौषधं यथा न तिष्ठति।।]
सा न समागता अहं तु निकुञ्जे चिरं स्थित्वा समागत इति वदन्तं नायकं पुन: सङ्केतस्थाने नेतुं नायिकायास्तत्र गमनं समागमोत्कण्ठां च दूती निपुणतयाभिव्यनक्ति-
सा विस्मृतसङ्केता वानीरवनेऽथ तत्र तत्रैव।
तव दर्शनं विमार्गति विभ्रष्टनिधानदेशमिव।।१८।।१
विस्मृतं सङ्केतस्थलं यया एतादृशी सा। तत्र तत्र तस्मिंस्तस्मिन्नेव वानीरवने वेतसवने। विस्मृतं निधानदेशमिव निधिस्थलमिव तव दर्शनमन्वेषयतीति भाव:। निधानस्थाने विस्मृते सति तत्सन्निधानस्य यथा सर्वोऽपि देश: पुङ्खानुपुङ्खरूपेणान्विष्यते, तथा सापि सर्वत्रैव तस्मिन्वा-नीरवने भवन्तं विमार्गतीत्याशय:। तत्र तत्रैवेत्यनेन पुन: पुनस्तेष्वेवान्वेषणं करोतीत्युत्कण्ठा-तिशयो ध्वन्यते। त्वां विमार्गतीत्यस्य स्थाने तव दर्शनं विमार्गतीत्यनेन विस्मृतसङ्केततया त्वामलभमानासौ त्वद्दर्शनमपि साम्प्रतं बहु मन्यते किं पुनस्त्वत्समागमसुखमित्यनुरागातिशयो व्यज्यते। विमार्गतीति वर्तमानार्थं सूचयता लटा, अधुनापि सा त्वद्गतचित्ततया वानीरवनान्वेषण-मेव करोति, न कथञ्चित्ततो निवर्तितुं कामयत इति तामेतां त्वरितं सम्भावयेति नायकार्थं त्वरातिशयो व्यज्यते। गङ्गाधरस्त्वेतदवतरणे 'अहं तु गत: सा न गता’ इति वदन्तं नायकं प्रति नायिकायास्तत्र गमनं प्रतिपादयन्ती दूत्याह’ इति केवलं नायिका तत्र गताऽभूदित्येव सूचयति, न तु नायकस्य सम्प्रति गमनमभ्यर्थयते। एतदभावे 'विमार्गणं चकार’ इत्येव वक्तव्यमासीत् 'विमार्गती’ति वर्तमानार्थस्य किं स्वारस्यमिति मार्मिकैर्विचार्यम्।
रोषमुपगता सेयं रहस्यं प्रकाशयेदिति भयेन दूतीतो मनोगतं गोपयन्तीं काञ्चन सुजन-चरितेन समाश्वासयन्ती काचिदाह-
वदनात्सुजनस्य कुतोऽप्रियं सुदृढरोषकलुषितस्यापि।
राहुमुखेऽपि हि शशिन: किरणा: पीयूषमेव मुञ्चन्ति।।१९।।२
१. अह सा तहिं तहिं व्विअ वाणीरवणम्मि चुक्कसंकेआ।
तुह दंसणं विमग्गइ पब्भट्ठणिहाणठाणं व।।१८।।
[अथ सा तत्र तत्रैव वानीरवने विस्मृतसङ्केता।
तव दर्शनं विमार्गति प्रभ्रष्टनिधानस्थानमिव।।]
२. दृढरोसकलुसिअस्स वि सुअणस्स मुहाहिँ विप्पिअं कन्तो।
राहुमुहम्मि वि ससिणो किरणा अमअं विअ मुअन्ति।।१९।।
[दृढरोषकलुषितस्यापि सुजनस्य मुखादप्रियं कुत:।
राहुमुखेऽपि शशिन: किरणा अमृतमेव मुञ्चन्ति।।]
सुदृढरोषेण कलुषितस्य दुर्मनायितस्यापि सुजनस्य मुखात्। अप्रियं परमर्मवेधकं वचनं कुत:? नैवेति काक्वा सूच्यते। राहुमुखेऽपीत्यनेन- वैरिणा सुभृशमाक्रान्तोऽपि शीतभा-नुर्यथाऽमृतमेव वर्षति न कालकूटं तथैव दुर्जनै: खेदितापि नेयं भवत्या रहस्यं प्रकाशयेदिति तस्या मनस्वितया समाश्वसिहीति सान्त्वनमभिव्यज्यते। राहुदृष्टान्तेन-सर्वथा ग्रासेऽपि नेयं प्रणयभङ्गं कुर्यादिति ध्वन्यते। 'कृतापराधं नायकसहचरं भयान्नायकोपसर्पणविमुखमभिमुखयितुं काचिदाह’ इति गङ्गाधर:।
आत्मना प्रहितस्य प्रणयोपहारस्य परावर्तनेन नायिकाया: प्रणयभङ्गमनुमाय विषीदन्तं कान्तं सान्त्वयन्ती नायिकासखी सुजनचरितमाह-
अवमानितोऽपि सुजनो विभवविहीनोऽपि दूयते न तथा।
असमर्थ: प्रतिकर्तुं यथा परैर्मान्यमानो हि।।२०।।२
धनादिवैभवरहित: सुजनस्तिरस्कृतोऽपि तथा न दूयते न व्यथते तथा प्रत्युपकारं कर्तुमसमर्थ:, अन्यैर्जनैर्धनदानादिना सम्मान्यमान: सन् व्यथते। प्रत्युपकारं विना अन्यै: कृतेन सम्मानेन महतीं मनोव्यथामनुभवतीति भाव:। तथा च नेयं त्वयि विरक्ता किन्तु भवदभिलाष-सम्पादनस्य नास्ति तस्या वश इति मनस्वितया भवदुपहारं स्वीकर्तुं सङ्कुचतीति नायिकाया उदाराशयत्वं ध्वन्यते। अवमानित इत्यनेन त्वं यस्मिन्समये तां प्रति न तथानुरक्तोभूस्तदापि नासीत्तस्यास्त्वां प्रति काचिदीर्ष्येति ध्वन्यते। परैर्मान्यमानो दूयत इत्यनेन न सा भवदुपायन-लालसा प्रणयातिशयं दर्शयति प्रत्युत स्वाभाविकानुरागशालिनी सा तस्मादपत्रपत इति नायिकाया नैसर्गिकस्नेहोऽभिव्यज्यते। परैरिति बहुवचनेन-अन्येऽपि बहव उपायनद्वारा तामनुकूलयितुं प्रभवेयुर्यदि सा उपायनलोभिनी भवेत्, परं सा त्वयि सत्यानुरागिणीति नायिकाया अनन्यल-भ्योऽनुरागो ध्वन्यते। तथा च-एवमुन्नतमानसा सा त्वयि सुदृढमनुरज्यतीत्यहो ते सौभाग्यमिति नायकं प्रति प्रोत्साहनं ध्वन्यते। 'कापि जाराभिमतसम्पादनासमर्थां तत्कृतोपहारं परिहरन्ती कोऽत्र दोष इति वदन्तीं दूतीमाह’ इति गङ्गाधरटीका।
मयि विश्रब्धं प्रकाशय रहस्यमिति प्रोत्साहयन्ती दूती नायिकामन्यापदेशेनाह-
१. अवमाणिओ वि ण तहा दुम्मिज्जइ सज्जणो विहवहीणो।
एडिकाउं असमत्थो माणिज्जन्तो जह परेण।।२०।।
[अवमानितोऽपि न तथा दूयते सज्जनो विभवहीन:।
प्रतिकर्तुमसमर्थो मान्यमानो यथा परेण।।]
अविनिर्गतानि कलहान्तरेऽपि हृदये जरामुपेतानि।
सुजनश्रुतानि दहनो दहति रहस्यानि चायुष: पूर्तौ।।२१।।१
कहलान्तरेऽपि कलहमध्येऽपि अविनिर्गतानि मुखाद्बहिरनि:सृतानि। हृदये जरामुपेतानि बहुकालं स्थितानि। सुजनेन श्रुतानि रहस्यानि गोप्यवृत्तानि आयुष: क्षये अग्निर्दहति, न पुनरन्य-स्मिन्सङ्क्रामन्तीति भाव:। हृदये जरामुपेतानीत्यनेन सुजन: स्वयमपि न तानि पुन: स्मरणेना-वर्तयति, किन्तु स्वयमेव तानि शनै: शनैर्मन्दीभूतानि भवन्तीति सौजन्यातिशयो ध्वन्यते। तथा च रोषमुपगतापि नाहं रहस्यं प्रकटयेयमिति विश्वस्यतां मयीति दूत्या स्वविश्वसनीयत्वं ध्वन्यते।
वसन्तसमुद्भवेन समुज्जृम्भमाणां विरहवेदनामनुभवन्त्या: प्रोषितपतिकाया अवस्थां नायकसमीपगामिनं पान्थं प्रति सखी सवैदग्ध्यमाह-
अङ्गणमाधविकानां स्तबका द्वारार्गला जाता:।
विगतो गतपतिकानां पान्थविलोकेऽपि चाश्वास:।।२२।।२
अङ्गणे प्ररूढा या माधविका वासन्त्यो लतास्तासाम्। स्तबका गुच्छका:। तवानुध्यान-निश्चला सा प्रायो निर्जने भवनमध्य एव तिष्ठति। साम्प्रतं च वसन्तसमागमेन अङ्गणमाधविकानां स्तबकोद्गम: सञ्जात:। तथा च समुद्दीपितविरहहुतवहा चिन्तालीनमानसतया नोत्थाय बहिरप्यागन्तुं प्रभवतीति स्तबका द्वारस्यार्गलायिता: समभवन्नित्याशय:। अत एव गतपतिकानां प्रोषितपति-कानाम्। पान्थानां विलोकनेऽपि आश्वासो विगत: आशावलम्बनं नष्टम्। भवत्पथमवलोकन्यती सा समजीवदेतावत्कालं तदपि माधविकागुच्छकैस्तिरोहितमिति वेदनातिशयो ध्वन्यते। पान्थविलोकेऽपि चाश्वासो विगत इत्यनेन- न सा अन्यं प्रति दृष्टिमपि निक्षिपति, तदेवं त्वदेकमात्रजीवितामेतां नाधिकं क्लेशयेहित्यपि ध्वन्यते। द्वारार्गला जाता इत्यनेन न कश्चनान्य:
१. कलहन्तरे वि अविणिग्गआइँ हिअअम्मि जरमुवगआइं।
सुअणकआइँ रहस्साइँ डहइ आउक्स्वए अग्गी।।२१।।
[कलहान्तरेऽप्यविनिर्गतानि हृदये जरामुपगतानि।
सुजनश्रुतानि रहस्यानि दहत्यायु:क्षयेऽग्नि:।।]
२. लुम्बीओ अङ्गणमाहवीणँ दारग्गलाउ जाआउ।
आसासो पन्थपलोअणे वि पिट्टो गअवईणम्।।२२।।
[स्तबका अङ्गणमाधवीनां द्वारार्गला जाता:।
आश्वास: पान्थप्रलोकनेऽपि नष्टो गतपतिकानाम्।।]
पुरुषो द्वारमात्रमपि प्रवेष्टुं लभत इति द्योत्यते, किं बहुना मनोविनोदाय पान्थान्प्रति दृङ्निक्षेपोऽपि नास्या: सुलभ इति परिरक्षितचारित्रैव सेयमिति सूच्यते। गतपतिकानामिति बहुवचनेन विरहिजनदुरन्तेऽस्मिन्वसन्ते सर्वासामेव प्रोषितपतिकानां सामान्येनेयं दशा, तत्रापि सेयं त्वदेकमात्रावलम्बना, त्वन्मार्गावलोकनविनोदमप्यलभमाना दु:खातिशयमनुभवतीति न यावदियं शोचनीयां दशामधिगच्छति तावत्त्वरितमेव सञ्जीवनीयेति तत्कान्तं प्रति ध्वन्यते। लुम्बीति स्तबकवाचको देशी। 'दूती प्रोषितभर्तृकाङ्गणस्य माधवीलताकुञ्जगहनत्वेन दिवैवाभिसरण-योग्यताम्, नायिकायाश्च वसन्तकालप्राप्त्योत्कण्ठातिशयेन सुसाध्यतां प्रतिपादयन्तीं नायकमाह’ इति गङ्गाधरावतरणम्।
प्रियतमं प्रति नायिकाया: प्रणयातिशयं नयनयो: सौन्दर्यं च प्रकटयितुं सखी आह-
यदि नयने न हि भवत: प्रियदर्शनसुखनिमीलिते तस्या:।
कर्णरचितं तदा कै: कुवलयमालक्ष्यते तस्या:।।२३।।२
तस्या नयने प्रियदर्शनसुखस्य रसेन मुकुलिते यदि न भवत:, तदा कर्णयो रचितं निवेशितं तस्या: कुवलयं कैर्जनैरालक्ष्यते। आयतरुचिरयोस्तया नयनयो: कर्णकुवलययोश्च परस्परं न विशेष:। केवलं नयनमुकुलीभावेनैव मिथोभेद: परिज्ञायत इत्यर्थ:। नयनकुवलययो: सादृश्याद्विशेषाप्रतीतौ प्राप्तायां मुकुलीभावेन विशेषस्फूर्तिवशाद्विशेषकालङ्कार:। ''भेदवैशिष्ट्ययो: स्फूर्तावुन्मीलितविशेषकौ’’ इति पीयूषवर्षलक्षणम्। [सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कारणाद्विशेषस्फूर्तौ तत्प्रतिद्वन्द्वी (सामान्य प्रतिद्वन्द्वी) विशेषक:] इति कुवलयानन्द:। अनेन च नयनयो: शोभातिशयो व्यज्यते। प्रियतमस्य दर्शनमात्रेणैवैतादृशं सुखं तदा समागमादिना कियत्स्यादिति प्रियं प्रति सख्या: प्रणयातिशयो ध्वन्यते। मूलोपात्तेन दर्शनसुखरसेति रसपदेन न विशेषार्थपरिपोष इत्यनुपादानमत्र। 'आद्यस्य नयनपदेन द्वितीयस्य च कुवलयपदेनान्वयात्तस्या इति पदद्वयस्य न वैयर्थ्यमिति ध्येयम्।’ इति गङ्गाधरटीका।
जलधरोल्लासमय: प्रावृट्समय सर्वानेवानन्दयतीति घनसमयमभिस्तुवन्तं सहचरं प्रति नागरिको निजनैपुण्यमभिनयन्नाह-
१. पिअदंसणसुहरसमउलिआइँ जइ से ण होन्ति णअणाइं।
ता केण कण्णरइअं लक्खिज्जइ कुवलअं तिस्सा।।२३।।
[प्रियदर्शनसुखरसमुकुलिते यदि तस्या न भवतो नयने।
तदा केन कर्णरचितं लक्ष्यते कुवलयं तस्या:।।]
कर्दममग्रहलाग्रोत्कर्षणशिथिलेऽथ निद्रिते पत्यौ।
अप्राप्तमोहनसुखा घनसमयं पामरी शपते।।२४।।१
कर्दमे मग्नं यत् हलाग्रं हलमुखं तस्यात्कर्षणेन शिथिले पत्यौ अनिच्छायामपि श्रमवशात् झटिति सुप्ते सति, न प्राप्तं मोहनसुखं सुरतसुखं यया एतादृशी पामरी कृषीवलभृत्यस्त्री घनसमयं शपति आक्रुश्यति। अन्यसमये यावानानन्द आसीत्सोऽप्यनेन लोपित इति वर्षासमयं निन्द-तीत्यर्थ:। वर्षासमये भवद्भूयानानन्द इति प्रतीक्षमाणाय: पूर्वानन्दस्याऽप्यभावाद्विषादनमलङ्कार:- ''इष्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम्’’। एतेन वर्षासमये अन्येषामृतूनामपेक्षया अधिक-सुखस्य परिवर्तेऽधिकदु:खमेव पामरगेहिन्या उपलभ्यत इति नागरिकेण सूच्येत। वास्तवे तु पत्युर्गृहवर्तित्वेऽपि हालिकवध्वा: सुलभत्वं साधयन्त्या दूत्या विटं प्रत्युक्ति:। कर्दममग्रेत्युक्त्या हलवाहनसमये मध्ये मध्ये उपवेशनविश्रामोऽपि कर्दममग्रे स्थले दुर्लभ इति सूच्यते। ततश्च सम्पूर्णदिनं यावदुपवेशनमात्रविश्राममप्यलभमानस्य हालिकस्य रात्रौ दिवसानुभूतपरिश्रमाधिक्येन गाढनिद्राक्रान्तत्वं ध्वन्यते। मोहनसुखेत्यनेन सुरतसुखं सा सम्यक्तया वेत्तीति सुखापेक्षिण्या-स्तस्या: अभिसरणीयत्वं ध्वन्यते। घनसमयमिति नागरपदविन्यासादस्ति तस्या अपि घनघटा-विच्छुरितासु वर्षासु प्रवृद्धा भूयसी समुत्कण्ठेति तस्या: सुसाध्यत्वमभिव्यज्यते। कृषकस्य गृहे यो भृत्य: कार्यं करोति स एवात्र प्राय: पामरपदेन व्यवह्रियते। तथा च पामरीपदेन-अन्य-सेवावश्यस्य तत्पतेर्न स्वातन्त्र्यं यद्धलवाहनकार्ये शैथिल्यं कुर्यादिति सुखसाध्यत्वं तद्गेहिन्या: सूच्यते। शपतीत्यनेन आक्रोशं विहाय न तस्या अन्यो वश इति मेघान्प्रत्यसूयोदयेनोत्कण्ठा-तिशयोऽभिव्यज्यते। असिमन्पक्षे पूर्वप्रतिपादितेन विषादालङ्कारेण उत्कण्ठारूपो व्यभिचारी ध्वन्यत इति भावध्वनि:। पर्यन्ततस्तु पामरीनिष्ठा रतिरेव परिपुष्यतीति रसध्वनि:। ''अभ्युदय-हेतुरपि कार्यवशादुद्वेगं जनयतीति प्रतिपादयन्नागरिक: सहचरमाह’ इति गङ्गाधरावतरणम्।
प्रवासार्थमुद्यतस्य दयितस्य गमननिवारणेच्छया विरहे भाविनं वेदनातिशयं सूचयितुं काचित्कामशरनमस्कारापदेशेनाह-
१. चिक्खिल्लखुत्तहलमुहकढ्ढणसिठिले पइम्मि पासुत्ते।
अप्पत्तमोहणसुहा घणसमअं पामरी सवइ।।२४।।
[कर्दममग्रहलमुखकर्षणशिथिले पत्यौ प्रसुप्ते।
अप्राप्तमोहनसुखा घनसमयं पामरी शपति।।]
दुन्वन्ति ददति सौख्यं कुर्वन्त्यनुरागमथ च रमयन्ति।
अरतिरतिबान्धवेभ्यो नमो नमो मदनबाणेभ्य:।।२५।।१
कामबाणा दुन्वन्ति उपतापयन्ति, उत्कण्ठां सम्वर्ध्य मनोवेदनां जनयन्तीत्यर्थ:। नैकमात्रं परिहरणीया एवेत्याह-सौख्यं ददति, दयितसांन्निध्ये रतेरभिवर्द्धनेन सुखं परिपोषयन्तीति भाव:। ननु शनै:शनैरुत्कण्ठाशान्त्या स्यादुपरम इत्याह-अनुरागं कुर्वन्ति रते: प्रवर्द्धनेन प्रेमाणं प्रकर्षयन्तीत्यर्थ:। अत एव रमयन्ति, सौमनस्यमेव सम्पादयन्ति। तथा च विरहे दु:खदातृत्वात् सङ्गमे च सुखकारकत्वात् अरतेर्व्याकुलताया: रतेश्चत्तञ्जनस्यापि कारकेभ्यो मदनबाणेभ्यो नम:। अरतिबान्धवानामपि रतिबान्धत्वेन विरोधालङ्कार:। तथा च तव विरहे उत्कण्ठाभि-वर्द्धनात्कियतीं पीडां जनयेयुरिमे, त्वत्सत्तायां तु अनुरागसम्वर्द्धनान्मनोरमा एवेति त्वमेव विचारयेति प्रियं प्रति प्रवासस्थगनमभिध्वन्यते। दुन्वन्ति अरति इत्यनयो: प्रथमोक्त्या विरहे दु:सहवेदनाधिक्यं सूच्यते। तथा च सुखापेक्षया विरहे दु:खमेवाधिकमुत्पाद्यते स्मरशरैरिति गमनस्थगन एव तात्पर्यम्। बाणेभ्य इति बहुवचनेन पञ्चापि मयि युगपत्पीडां सञ्चारयेयुरिति पीडातिशयो ध्वन्यते।
शृण्वन्तं कञ्चन कामुकं प्रत्यात्मनो मनोव्यथां सूचयन्ती काचन मनसिजशरवर्ण-नाव्यपदेशेनाह-
कुसुममया अपि निशिता अकृतस्पर्शा अपि प्रतापाढ्या:।
भिन्दन्तोऽपि च रतिदा: कामशरा: किल बहुविकल्पा।।२६।।२
निशिता: अतिखरा: अतितीक्ष्णा इति यावत्। प्रतापाढ्या: दु:सहपरितापकारका:। हृदयं छिन्दन्तोऽपि रतिकरा:, पूर्वोक्तक्लेशदायका: सन्तोऽपि प्रियं प्रत्युत्कण्ठासम्वर्द्धनेन रतिं पोषयन्तीति
१. दुम्मेन्ति देन्ति सोक्खं कुणन्ति अणुराअअं रमावेन्ति।
अरइरइबन्धवाणं णमो णमो मअणबाणाणम्।।२५।।
[दुन्वन्ति ददति सौख्यं कुर्वन्त्यनुरागं रमयन्ति।
अरतिरतिबान्धवेभ्यो नमो नमो मदनबाणेभ्य:।।]
२. कुसुममआ वि अइखरा अनद्धफंसा वि दूसहपआवा।
भिन्दन्ता वि रइअरा कामस्स सरा बहुविअप्पा।।२६।।
[कुसममया अप्यतिखरा अलब्धस्पर्शा अपि दु:सहप्रतापा:।
भिन्दन्तोऽपि रतिकरा: कामस्य शरा बहुविकल्पा:।।]
भाव:। एवं च कामस्य बाणा बहुविकल्पा बहुप्रकारा:। कुसुममया अपि निशिता इत्यादि-विरोधालङ्कारेण 'विरुद्धधर्माश्रयतया ते स्पष्टं बहुप्रकारा:’ इति सूच्यते। तथा च 'तवावलोकेन भूयांसं परितापमहमनुभवामि, वितर मयि करुणादृशमिति’ कामुकं प्रत्यभि-व्यज्यते।
काचन प्रोषितपतिका प्रियगुणस्मरणेनोत्कण्ठां विनोदयन्ती सखीमाह-
जनयन्तीर्ष्यां मदनं प्रदीपयन्ति प्रसाहयन्त्यसुखम्।
विरहे न ददति मर्तुं हन्त गुणास्तस्य बहुमार्गा:।।२७।।१
अन्य महिला अपि तं कामयन्त इति मनसि ईर्ष्यामुत्पादयन्ति। अनेन रमणीमोहक: प्रियस्य सौन्दर्यातिशयो व्यज्यते। चन्द्रकलादिस्थानवेदित्वात्सङ्गमे मदनं प्रदीपयन्ति, काममङ्गेषूत्तेजनामुत्पाद-यन्तीत्यर्थ:। अनेन दयितस्य सुरतकलाकौशलमभिव्यज्यते। असुखम् अननुकूलमपि प्रसाहयन्ति बलात्सह्यं सम्पादयन्ति, अतिशयविप्रियकरणेऽपि मानं जनयितुम-वकाशं न प्रददतीत्यर्थ:। अनेन वल्लभस्यानुनयचातुर्यं ध्वन्यते। विरहे मर्तुं न ददति, समागमाशां जनयित्वा मरणायाऽवकाशं न प्रयच्छन्तीत्यर्थ:। अनेन प्रेयसो नैसर्गिकप्रेमभाजनत्वं ध्वन्यते। अत एव तस्य दयितस्य गुणा बहुमार्गा बहुप्रकारा:। एकेन प्रकारेण चेन्मनो न बध्येत तर्हि प्रकारान्तरेण ते मानसं वशयेयुरिति गुणानां बहुप्रकारशालित्वं सूच्यते। एवंविधगुणशालिन: प्रियतमस्य विप्रयोग इत्यात्मनो वेदनातिशयश्चरमं ध्वन्यते। ''तस्य कामशरस्य गुणा बहुमार्ग इत्यर्थ इति कश्चित्’’ इति गङ्गाधर:।
वायनकदानव्यपदेशेन प्रतिगृहं भ्रमन्ती त्वद्दर्शनलालसया भवद्गृहमपि प्रययौ सा। तत्रापि भवतोऽवलोकनं न तस्या: समघटतेति नायिकाया: प्रेमातिशयं सूचयन्ती दूती काचिदाह-
नीतानि निबिडनिर्दय पिनद्धनवरङ्गया वराक्याऽद्य।
गृहपतिपाट्या वायनकानि तवालोकलालसया।।२८।।२
१. ईसं जणेन्ति दावेन्ति मम्महं विप्पिअं सहावेन्ति।
विरहे ण देन्ति मरिउं अहो गुणा तस्स बहुमग्गा।।२७।।
[ईर्ष्यां जनयन्ति दीपयन्ति मन्मथं विप्रियं साहयन्ति।
विरहे न ददति मर्तुमहो गुणास्तस्य बहुमार्गा:।।]
२. णीआइँ अज्ज णिक्किव पिणद्धणवरङ्गऑइ वराईए।
घरपरिवाडीअ पहेणआइँ तुह दंसणासाए।।२८।।
[नीतान्यद्य निष्कृप पिनद्धनवरङ्गकया वराक्या।
गृहपरिपाट्या प्रहेणकानि तव दर्शनाशया।।]
अयि भूरिनिर्दय! पिनद्धनवरङ्गया पिनद्धं धारितं नूनतरक्तवस्त्रं यया, वराक्या दयनीयया तया गृहपरिपाट्या गृहाद् गृहमित्यनुक्रमेण। वायनकानि प्रहेणकानि नीतानि। 'प्रहेणकं वायनकम्’ इति हारावली। 'वायन’ इति व्रजभाषा। वायनकप्रदाने यावन्तो गृहमनुष्या भवन्ति तावन्त्येव वायनानि प्रदीयन्त इति गृहान्त:प्रविष्टाया विलम्बसम्भवेऽपि गणनाव्याजेन तन्निगूहनमिति नायिकायाश्चातुर्यमपि सूच्यते। पिनद्धनवरङ्गयेति स्वस्य प्रसाधनेच्छया प्रियदर्शने उत्साह:, तं प्रत्यनुरागश्चाभिव्यज्यते। 'अनलङ्कृता दर्शनपथं परिहरति’ इति वात्स्यायन:। 'भूषाविहीना न ददाति दर्शनम्’ इत्यादि इच्छाशालिन्या लक्षणमिति चानङ्गरङ्गम्। तथा च-पश्य तव सौभाग्यं यत्तव दर्शनमात्रार्थं सा गृहगृहभ्रमणायासमकिञ्चिद् गणयन्ती परिताम्यति। अत एवंविधप्रणय-शालिन्यां तस्यां त्वरितमनुकम्पितव्यमिति दूत्या नायकं प्रत्यभिव्यज्यते।
धनशालिनं कञ्चिदनादृत्य दरिद्रनायकेऽनुरक्तां काञ्चन निवारयन्ती सखी दुर्गतानां लक्षणानि सूचयितुमाह-
सूच्यत इह हेमन्ते करीषशिखिगन्धिनातिदुर्गतक:।
परिविरलतन्तुना बत जीर्णपटेनैव धूमकपिलेन।।२९।।१
करीषाग्रेर्गन्धो विद्यते यस्मिन्नेवंविधेन। करीषाणां पशुविचरणस्थानेभ्यो निर्मूल्यं सुलभत्वात्, बहुकालस्थायित्वाच्च तदग्ने:, तत्सङ्ग्राहकस्य दरिद्रस्य दीनतातिशय: सूच्यते। करीषाग्निधूमात् कपिलेन धूम्रवर्णेन। करीषाग्नि: शनैर्मन्दो भवति चेदतिसमीपस्थित्या तापोऽनु-भूयत इति तस्यामवस्थायां बहुकालं धूमानुभवेन वस्य कपिशवर्णत्वं जायत एवेति सूच्यते। परिविरलतन्तुना बहो: कालादेकस्यैव धारणेन बहवस्तन्तवो विशीर्णा इति असान्द्रसूत्रेण। जीर्णवस्त्रेणैवातिदुर्गतक: अतिदरिद्र: सूच्यते परिचीयत इत्यर्थ:। इह हेमन्त इत्यनेन अस्मिन्नेव समये त्वं परिचिनुहीति सख्या परिबोधपाटवं द्योत्यते। एवंविधं वस्त्रादिदौर्गत्यमनुभवन्तं तं किमिति बहुमन्यस इति सख्या समवबोध्यते। पुप्फुआ इति करीषाग्निवाचको देशी।
बहव: क्लेशा: किल हेमन्तकालप्रवास इति प्रवासोद्यतं नायकं प्रवासादुपरमयितुं काचन शिशिरकालप्रवासिनोऽवस्थां वर्णयति-
१. सूइज्जइ हेमन्तम्मि दुग्गओ पुप्फुआसुअन्धेण।
धूमकविलेण परिविरलतन्तुणा जुण्णवडएण।।२९।।
[सूच्यते हेमन्ते दुर्गत: करीषाग्निसुगन्धेन।
धूमकपिलेन परिविरलतन्तुना जीर्णपटकेन।।]
तीक्ष्णपलालोल्लिखितानि वहति पथिको हिमागमविभाते।
अङ्गान्याचमनाम्भ:स्तिमितकरस्पर्शमसृणानि।।३०।।१
पथिको हिमागमस्य विभाते प्रभाते 'व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते’ इत्यमर:। तीक्ष्णा: ये पलाला क्षेत्रेषु छिन्नधान्याग्रगुच्छकास्तृणकाण्डास्तै: उल्लिखितानि अवघृष्टानि अङ्गानि। आचमनस्य प्रातर्मुखगण्डूषकरणस्य यत् अम्भ: जलं तेन स्तिमित: आर्द्र: य: करस्तस्य स्पर्शेन मसृणानि चिक्कणानि वहति धारयति। पूर्वदिने छिन्नधान्यकणिशेषु क्षेत्रेषु चलनेन तृणकाण्डोल्लिखितान्यङ्गानि प्रात:काले आचमनजलार्द्रकरेण मसृणानि कृत्वा तानि विगतवेदनानि करोतीत्यर्थ:। 'नाडी नालं च काण्डोऽस्य पलालोऽस्त्री स निष्फल:’ इत्यमर:। सिप्पिरं पलाल:, ओल्लिओ आद्रित:, इति देशीद्वयम्। तथा च निर्भरानङ्गसङ्गररमणीयेऽस्मिन् समये यदि भवानपि प्रवासमङ्गीकरिष्यति तर्हि भवेद्भवतोऽपि सेयमवस्था, तत्स्थगय गमन-विचारमिति नायिकया कान्तं प्रत्यभिव्यज्यते।
स्वस्मादतिशयितरूपगुणशालिनीमुत्तमस्त्रियमाग्रहेण परिगृहीतवत: कस्यचिदधमस्य वरवर्णिनीलाभलालसयाऽनुसरणं कुर्वन्तं कामुकजनं प्रदर्श्य, उत्कृष्टनायिकापरिग्रहप्रयतं कञ्चिदधमं स्वाध्यवसायान्निवारयितुं कश्चिदन्यापदेशेनाह-
सहकारमञ्जरीं किल पामरशीर्षे नखरलूनाम्।
ह्रियमाणां बन्दीमिव मधुपयुवानोऽनुधावन्ति।।३१।।२
बलात् ह्रियमाणां बन्दीकृतां स्त्रियं यथा तद्विमोचनकामनया युवानोऽनुसरन्ति तथा नखैरुत्खण्डितां पामरशीर्षस्थां सहकारमञ्जरीं भ्रमरयुवानोऽनुसरन्तीति भाव:। पामरशीर्षे इत्यनेन अलभ्यलाभां तामाकलय्य सोऽत्यादरेण तस्यां व्यवहरतीति व्यज्यते। नखरैर्लूनामित्यनेन 'न स्वयमुपलब्धा प्रत्युत बलात् सा आकर्षितेति’ तस्या अधमेऽननुरागो ध्वन्यते। तथा च-यद्येवं
१. खरसिप्पिरउल्लिहिआइँ कुणइ पहिओ हिमागमपहाए।
आअमणजलोल्लिअहत्थफंसमसिणाइँ अङ्गाइं।।३०।।
[तीक्ष्णपलालोल्लिखितानि करोति पथिको हिमागमप्रभाते।
आचमनजलार्द्रितहस्तस्पर्शमसृणान्यङ्गानि।।]
२. णक्खक्खुडिअं सहआरमञ्जरिं पामरस्स सीसम्मि।
बन्दिम्मिव हीरन्तीं भमरजुआणा अणुसरन्ति।।३१।।
[नखोत्खण्डितां सहकारमञ्जरीं पामरस्य शीर्षे।
बन्दीमिव ह्रियमाणां भ्रमरयुवानोऽनुसरन्ति।।]
त्वमप्युत्तमां स्त्रियं बलात्परिग्रहीष्यसि तर्हि तवापि युवभिरभिधावनं भविष्यतीति तं प्रत्य-भिव्यज्यते। वस्तुतस्तु-अधमेन केनचिद्बलादपहृत्य विपदमवापितां नायिकामुपेक्षमाणस्य नायकस्य शिक्षायै नायिकासखी तदुद्धरणाय त्वरयितुमन्यापदेशेनाह-भ्रमरैर्यस्या: सहकारमञ्जर्या: पूर्वं रसोनुऽभूतस्तां नखखण्डनखेदखिन्नां पामरजनसङ्गपतितां चालोक्य तदुद्धारकामनया अवशत्वेऽपि तस्या अनुसरणं क्रियते। भवाश्च समर्थोऽपि नागरिकतामनभिवीक्ष्य तामुपेक्षत इत्यहो ते स्वार्थपरायणता, तदुद्धर तां द्रुतमिति नायकं प्रत्यावेद्यते।
काञ्चन सुन्दरीमभिलक्ष्य त्वं प्रणत्यादिचेष्टां करोषीति त्वं मयाभिलक्षितोऽसीति सूचयन्ती काचित्प्रौढा दूती नायकमाह-
सूर्यच्छलेन कस्मै त्वमञ्जलिं पुत्रक प्रणामयसि।
हास्यकटाक्षोन्मिश्रा देवानां नो भवन्ति जयकारा:।।३२।।१
अञ्जलिं प्रणामयसि अञ्जलिं बध्वा प्रणामं करोषीत्यर्थ:। देवानां जयकारा: जय जयेत्यादिका: स्तुतय:। हास्येन, कटाक्षेण नेत्रप्रगान्तावलोकनेन च सम्पुटिता न भवन्तीत्यर्थ:। पुत्रकेति सम्बोधनेन प्रणयभाजनत्वं लक्ष्यते। तेन ''त्वयि मम भूयान्स्नेह:, अत एव रहस्यवेदिन्यां मयि सूर्यप्रणामादि कपटमपहाय सत्यं वद, कस्यामनुरक्तोऽसि, अहं ते कार्यं साधयिष्यामि, न पुनस्तवापवादं प्रचारयिष्यामि’’ इति नायकं प्रति विश्वासोत्पादनमभिव्यज्यते।
निजदयितरतासक्तां नायिकां चौर्यसुरतप्रशंसया उत्कण्ठयितुं दूती काचिदाह-
मुखविध्मापितदीपं रुद्धश्वासं सशङ्कितोल्लापम्।
शपथशतरक्षितोष्ठं सुखयति किल चोरिकारमितम्।।३३।।२
१. सूरच्छलेण पुत्तअ कस्स तुमं अञ्जलिं पणामेसि।
हासकडक्खुम्मिस्सा ण होन्ति देवाणँ जेक्कारा।।३२।।
[सूर्यच्छलेन पुत्रक कस्मै त्वमञ्जलिं प्रणामयसि।
हास्यकटाक्षोन्मिश्रा न भवन्ति देवानां जयकारा:।।]
२. मुहविज्झविअपईवं णिरुद्धसासं ससङ्किओल्लावम्।
सवहसअरक्खिओट्ठं चोरिअरमिअं सुहावेइ।।३३।।
[मुखविध्मापितप्रदीपं निरुद्धश्वासं सशङ्कितोल्लापम्।
शपथशतरक्षितोष्ठं चोरिकारमितं सुखयति।।]
हस्तादिवायुना शब्दो विलम्बश्च स्यादिति मुखेन मुखवातेन विध्मापितो निर्वापित: प्रदीपो यत्र तत्। मा कश्चन श्रौषीदिति निरुद्ध: श्वासो यत्र, शङ्कितेन शङ्कया सह उल्लाप: संलापश्च यत्र तत्। अधरदंशनेन गृहजनो मा ज्ञासीदिति शपथशतेन शपथशतं कारयित्वा रक्षितो दंशानाद् गोपित: ओष्ठोऽधरो यत्र तत्। चोरिकया चौर्येण रमितं रमणम्। तथा चैतादृशं सुखं स्वानुभवेनैव त्वं ज्ञास्यसीति दूतीकृतमुत्कण्ठासम्वर्द्धनमभिव्यज्यते।
गानव्याजेन त्वं कञ्चन प्रणयिनं सोत्कण्ठामनुध्याय रोदिषीति अहं जाने इति नायिकाया: स्वस्मिन्विश्वासमास्थापयन्ती दूती नायिकामाह-
गेयच्छलेन कस्य स्मृत्वा रोदिषि सुनिर्भरोत्कण्ठम्।
मन्युनिरुद्धगलार्द्धान्निर्यत्स्खलिताक्षरोल्लापम्।।३४।।१
गेयच्छलेन गानव्याजेन। कस्य स्मृत्वा कं स्मृत्वा, कर्मण: शेषत्वविवक्षया षष्ठी। सुनिर्भरा उत्कण्ठा यस्मिन्कर्मणि यथा भवति तथा। मन्युना शोकेन रुद्धो यो गल: कण्ठस्तस्मात् अर्द्धम् उन्निर्यन् नि:सरन्, अतएव स्खलिताक्षर: स्खलितान्यक्षराणि यस्मिन्नीदृश उल्लापो वाक्यविन्यासो यस्मिन् कर्मणि यथा भवति तथा। त्वं रोदिषीति स्वरहस्यं मह्यमावेदयेत्यर्थ:। मन्युरुद्धकण्ठं स्खलिताक्षरमिति क्रियाविशेषणाभ्यां हृदये भावानां भृशमावेशोऽभिव्यज्यते। तेन त्वं कञ्चित्स्मृत्वैवोत्कण्ठया रोदिषि न पुनर्गानमेवं भवतीति विदितं मया। तन्मयि विश्वस्य रहस्यं प्रकाश्यतां येनाहमेवं खेदमनुभवन्त्यास्ते साहाय्यं सम्पादयामीति दूत्या नायिकां प्रत्यभिव्यज्यते।
स्वयंदूती प्रतिवेशिनमुपपतिं प्रति सङ्केतसमयं सूचयितुमाह-
बहलतमा हतरात्रि: पतिरद्य प्रोषितो गृहं शून्यम्।
प्रतिवेशिन्नयि जागृहि तथा; विमुष्यामहे न यथा।।३५।।२
१. गेअच्छलेण भरिउं कस्स तुमं रुअसि णिब्भरुक्कण्ठम्।
मण्णुपडिरुद्धकण्ठद्धणिन्तखलिअक्खरुल्लावम्।।३४।।
[गेयच्छलेन स्मृत्वा कस्य त्वं रोदिषि निर्भरोत्कण्ठम्।
मन्युप्रतिरुद्धकण्ठार्धनिर्यत्स्खलिताक्षरोल्लापम्।।]
२. बहलतमा हअराई अज्ज पउत्थो पई घरं सुण्णम्।
तह जग्गेसु सअज्जिअ ण जहा अम्हे मुसिज्जामो।।३५।।
[बहलतमा हतरात्रिरद्य प्रोषित: पतिर्गृहं शून्यम्।
तथा जागृहि प्रतिवेशिन्न यथा वयं मुष्यामहे।।]
बहलं निबिडं तम: अन्धकारो यस्याम्। अनेन अन्धकारवशान्नागच्छन्तं कोऽपि विलोकयिष्यतीति द्योत्यते। अद्यैव प्रोषित इत्यनेन अद्यैव प्रवासं गतस्य तस्यागमनशङ्का नास्तीति विश्रब्धत्वं व्यज्यते। गृहं शून्यमित्यनेन, अन्यजनशङ्कारहितेऽस्मिन्नेव गृहे आगम्यतां नान्यदिवसवत् भवद्गृह इति सङ्केतो ध्वन्यते। तथा जागृहि यथा न विमुष्यामहे इत्यनेन त्वं सन्नद्धो भूत्वा इममवसरं प्रतिपालय, अन्यथा भाग्यवशादुपलब्धस्याऽस्याऽवसरस्यावधीरणे वञ्चिता एव वयमिति सतर्कीकरणमभिव्यज्यते। एवंविधवाक्चातुर्येण नायिकाया: प्रौढि: प्रागल्भ्यं च ध्वन्यते।
पूर्ववयसि आत्मनाऽनुभूतं दु:खमनुसन्धाय गृहिणीपदप्राप्तौ स्नुषादिष्वपि सदयमेव व्यवहरन्ति कुटुम्बिन्य इत्यात्मनो व्यवहारपाटवमभिव्यञ्जयन्नागरिक: सहचरमाह-
सञ्जीवनौषधीमिव सुतस्य रक्षत्यनन्यकर्मैव।
श्वश्रूर्नवाभ्रदर्शनकण्ठागतजीवितां स्नुषामेताम्।।३६।।१
श्वश्रू: नवाभ्राणां नवीनमेघानां दर्शनेन कण्ठागतजीवितामेतां स्नुषाम्। सुतस्य निजपुत्रस्य पुनरुज्जीवनमहौषधिमिव अनन्यकर्मैव त्यक्तान्यव्यापारैव सती रक्षति। विरहवेदनया संस्थिता-यामस्यां मम पुत्रोऽपि न भवेदित्याशङ्कया तां सतर्कमुपचरतीत्यर्थ:। सुतस्य सञ्जीवनौषधि-मिवेत्यनेन पुत्रोऽस्यामेकान्ततो बद्धप्रणय इति अनुभवमार्मिकत्वं श्वश्र्वा द्योत्यते। नवाभ्रेत्यनेन पूर्वमननुभूतस्य सहसैव सजलजलदावलोकनसमुद्दीपितस्य विरहस्य दु:सहत्वं ध्वन्यते। अनन्यकर्मैवेत्यनेन सर्वस्मिन्नेव काले स्नुषायाश्चिन्तासन्तापस्ततो विरहदु:खस्यातिशय: सूच्यते। पुत्रप्रेमवशात् सावधानं विहितेन श्वश्रूकृतोपचारेण निजवल्लभालम्बनाया नायिकानिष्ठरतेरतिशय:, पर्यन्ततो ध्वन्यत इति सुधीभिरनुसन्धेयम्। ''प्रोषितभर्तृकाया: सखी तत्कान्तस्यागमनत्वरार्थं तत्समीपगामिनं पथिकमाह’’ इति गङ्गधरावतरणम्।
केवलं वल्लभायैवोक्तं सुगुप्तं निजमनोऽभिलाषं सपत्न्या मुखादाकर्ण्य रहस्यभङ्गा-त्कोपमुपगता नायिका प्रियतममुपालभमाना सवैदग्ध्यमाह-
१. संजीवणोसहिम्मिव सुअस्स रक्खइ अणण्णवावारा।
सासू णवब्भदंसणकण्ठागअजीविअं सोह्णम्।।३६।।
[सञ्जीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा:।
श्वश्रूर्नवाभ्रदर्शनकण्ठागतजीवितां स्नुषाम्।।]
निवससि हृदयनिहितया हृदयेऽस्माकं स्वजायया साकम्।
कथमन्यथा तया मे मनोरथा: सुभग विज्ञाता:।।३७।।१
हे सुभग हृदयनिहितया स्वजायया सह अस्माकं हृदये निवसति। अन्यथा एतदभावे तया मे मनोरथा: कथं विज्ञाता:? मनोगतपरिज्ञानरूपस्य हेतोर्विन्यासात्काव्यलिङ्गम्। तेन च अहर्निशं त्वामेव हृदयेऽनुचिन्तयाम्यहम्, परं त्वं मां विहाय तस्यां सपत्न्यामनुरक्त:। अत एव गोपनीयमपि रहस्यं तस्या: प्रकाशयसीति गूढोपालम्भो ध्वन्यते। स्वजायेत्यनेन 'सैव ते साम्प्रतं पत्नी यस्यास्त्वं मद्विश्रम्भजल्पितमपि प्रकाशयसि। अहं तु स्त्रीसामान्यमिति’र्ष्याऽभिव्यज्यते। सुभगेत्यनेनापि ''अहमन्यस्यामनुरक्तस्तथापीयं मामेवानुध्यायतीत्यात्मन: सौभाग्येनैवाव-लिप्तोऽसि’’ इति गूढमुपालम्भो द्योत्यते। 'खण्डिता प्रातरागतं नखदन्तक्षताङ्कितं कान्तं सेर्ष्यमाहेति’’ गङ्गधरावतरणम्।
नायिकाया: प्रणयातिशयं प्रकाशयन्तीं दूती नायकमाह-
अयि सुभग त्वयि गतवति तन्नयनाभ्यां नु कर्णलग्नाभ्याम्।
दत्तं स्फुरदस्राभ्यां पानीयं हन्त दर्शनसुखेभ्य:।।३८।।२
त्वयि गतवति दर्शनपथमतिक्रम्य अदृश्यमाने सति त्वद्दर्शनकौतुकात् विकसिताभ्यामत एव कर्णपर्यन्तविस्तृताभ्यां स्फुरत् प्रसरत् अस्रम् अश्रु ययो: सकाशादेतादृशाभ्यां तस्या: (नायिकाया:) नयनाभ्यां कर्तृभ्यां दर्शनसुखेभ्य: पानीयं दत्तम्, न पुनरेवंविधानि दर्शनसुखानि स्युरिति तेभ्यो विसर्जनजो जलाञ्जलिर्दत्त इत्यर्थ:। सुखेभ्य: पानीयं दत्तमिति छेकोक्ति:। 'छेकोक्तिर्यदि लोकोक्ति: स्यादर्थान्तरगर्भिता’। त्वदागमनविरहदु:खान्न तया रुदितं किन्तु स सुखेभ्यो जलाञ्जलिर्दत्त इत्यपह्नुतिर्व्यज्यते। किं वा 'न पुनरेवंविधस्य दर्शनसुखस्याशेति तस्मै
१. णूणं हिअअणिहित्ताइ वससि जाआइ अम्ह हिअअम्मि।
अण्णह मणोरहा मे सुहअ कहं तीअ विण्णाआ।।३७।।
[नूनं हृदयनिहितया वससि जाययास्माकं हृदये।
अन्यथा मनोरथा मे सुभग कथं तया विज्ञाता:।।]
२. तइ सुहअ अईसन्ते तिस्सा अच्छीहिँ कण्णलग्गेहिं।
दिण्णं घोलिरवाहेहिँ पाणिअं दंसणसुहाणम्।।३८।।
[त्वयि सुभग अदृश्यमाने तस्या अक्षिभ्यां कर्णलग्नाभ्याम्।
दत्तं धूर्णनशीलवाष्पाभ्यां पानीयं दर्शनसुखेभ्य:।।]
जलाञ्जलिरिव प्रत्त:’ इत्युत्प्रेक्षा। अन्ततस्तु त्वद्दर्शनसुखस्याग्रे सा न किञ्चित्सुखं गणयति इति सुखेभ्य इति बहुवचनसहकारेण नायिकानिष्ठोऽनुरागातिशयो ध्वन्यते। सुभगेत्यामन्त्रणेन 'पश्य ते सौभाग्यं यत्सा त्वय्येवं दृढानुरागा’ इति नायकप्रोत्साहनं ध्वन्यते। नयनयो: कर्णलग्नतायां तु- ''श्रवणाद्दर्शनाद्वापि मिथ: संरूढरागयोरित्यनुसारं गुणश्रवणेनैव पूर्वं नायिकाया नायकेऽ-नुरागोऽभवत्। ततश्च रूपगुणकीर्तिं श्रावयद्भयां कर्णाभ्यामेव स्वल्पसमागमसुखोत्तरं सेयं विरहवेदना दत्तेति, उपालम्भदानार्थमिव नयनयोर्गमनम्’’ इति 'नु’ पदोत्प्रेक्षितं तात्पर्यं ध्वन्यते।
काचित्प्रोषितभर्तृका प्रियतमं प्रति सन्देशं प्रहिण्वती आह-
ध्यानागतभवदाननदर्शनविनिरुद्धजीवितैषणया।
दु:खितया हि मया किल कालो नेय: कियन्मात्र:।।३९।।१
ध्यानेन भावनया आगतं यत् त्वन्मुखं तस्य दर्शनेन विनिरुद्धा स्थापिता जीवितैषणा जीविताशा यया एतादृश्या दु:खाकुलया मया कियत्परिमाण: कालो यापनीय:। अहं तवानुध्यानादेव जीवामि नान्यन्मेऽवलम्बनमित्यात्मनोऽनुरागो ध्वन्यते। जीविताशयेत्यनेन विरहदु:खान्मम जीवने निर्वेद एव जात: परं भावनया आगतं त्वन्मुखं दृष्ट्वा तत्सुखमनुभूय ''भावनयैव एतावत्सुखम्, प्रत्यक्षदर्शनं तु न जाने कियन्मात्रं स्यादिति त्वद्दर्शनप्रत्याशयैव मे जीवितस्थितिरिति’’ प्रियतमं प्रति सूच्यते। कियन्मात्रो नेतव्य इत्यनेन नाधिककालमेवं जीवेयमिति आगमनत्वरार्थं सूचयति। 'निरुद्ध’ पदेन 'जीविताशा तु दु:खनिर्विण्णा वेगेन गच्छन्त्यासीत्, परं बलपूर्वकं त्वन्मुखध्यानेन सा वारिता’ इति विरहातिशयो ध्वन्यते।
पूर्व रूपयौवनसम्पन्नामपि बहूपभोगेन सम्प्रति विगतरूपयौवनां काञ्चन कुलटामालोक्यं कुट्टन्याह-
कं नहि दुनोषि विगतानालक्षितरूपयौवना पुत्रि।
दृष्टा नष्टपुरातनजनपदपटला हि जन्मभूमिरिव।।४०।।२
१. उप्पेक्खागअतुअमुहदंसणपडिरुद्धजीविआसाइ।
दुहिआइ मए कालो कित्तिअमेत्तो व्व णेअव्वो।।३९।।
[उत्प्रेक्षागतत्वन्मुखदर्शनप्रतिरुद्धजीविताशया।
दु:खितया मया काल: कियन्मात्रो वा नेतव्य:।।]
२. वोलीणालक्खिअरूअजोव्वणा पुत्ति कं ण दुम्मेसि।
दिट्ठा पणट्ठपोराणजणवआ जम्भूमि व्व।।४०।।
[व्यतिक्रान्तालक्षितरूपयौवना पुत्रि कं न दुनोषि।
दृष्ट्वा प्रणष्टपौराणजनपदा जन्मभूमिरिव।।]
हे पुत्रि! विगतं व्यतिक्रान्तमत एव अनालक्षितम् अवीक्षितं रूपं यौवनं च यस्या एतादृशी त्वम्। नष्टं पुरातनं जनपदपटलं जनसमूहो यस्या: सा। बहो: कालाद् दृष्टा जन्मभूमिरिव त्वं कं वा न दुनोषि परितापयसि। गलितपूर्वरूपयौवनां त्वामालोक्य विनष्टजनसमूहाया आत्मनो निवासभूमेरालोकनेन यथा दु:खं भवति तथा सर्वस्याप्यालोकयितुर्भवतीत्याशय:। अनालक्षित-मित्याङुपसर्गेण समन्तादपि तवाङ्गे रूपयौवनचिह्नं नास्ति, एवंविधस्ते भोगोपमर्द इति द्योत्यते। जनपद-जन्मभूमिपदाभ्यां बहव एव जना: पूर्वकाले त्वद्यौवनमुपभुक्तवन्तस्ते साम्प्रतं त्वामेवं-विधामालोक्य दूयन्त इति व्यज्यते। पुत्रीत्यनेन त्वयि मम निष्कपटवात्सल्यमिति विश्वसनीयत्वं द्योत्यते।
इमौ द्वावपि परस्परमनुरक्तावित्यात्मनो गूढेङ्गितपरिज्ञानपाटवमभिव्यञ्जयन्नागरिक: सहचरमाह-
परितोषविकसिताभ्यां जनमध्ये तेन भणितमक्षिभ्याम्।
तदभिमतं प्रतिपन्नं तयाऽङ्गकैरुद्वमत्स्वेदै:।।४१।।१
तेन नायकेन। परितोषेण अनुरागजनितेन हर्षेण विकसिताभ्याम्। अक्षिभ्यां (करणम्) जनमध्ये अभिमतं भणितम्। नायिकाया उद्वमत्स्वेदै: निष्पतद्घर्मजलैरङ्गै: तस्याभिमतं वाञ्छितं प्रतिपन्नं स्वीकृतम्। नयनविकासेन औत्सुक्यं द्योत्यते। तथा च त्वया मे मानसं वशीकृतमिति नायकेन नेत्रद्वारैवात्मनोऽभिमतं प्रकाशितम्। अङ्गेषु स्वेदरूपस्य सात्विकभावस्योदयात्, तयापि तं प्रत्यात्मनोऽनुरागं प्रकाश्य नायकस्याभिमतमङ्गीकृतमिति गूढमप्यनयोरनुरागमहं विदितवानिति नागरिकेण सूच्यते। निष्पतदिति स्थाने उद्वमदिति कथनेन स्वेदाधिक्यं लक्ष्यते, तथा च सात्विकभावप्रकर्षेण रत्यतिशयो ध्वन्यते। अक्षिभ्यां भणितमिति अर्थान्तरसङ्क्रमितवाच्यम्। तेन च, स्पष्टमात्माभिप्राय: प्रकाशित इति निवेदनेऽतिशयो व्यज्यते। ''वयस्यस्याभिमतं सम्पत्स्यत इति नायकसहचरेण पृष्टा दूती तमाह’’ इति गङ्गाधरावतरणम्।
परस्परमाबद्धानुरागावपि समुचितावसराप्राप्त्या समागमसौख्यं नानुभवितुं शक्नुत इति कयोश्चिदवस्थां सूचयन्नागरिक: सहचरमाह-
१. परिओसविअसिएहिं भणिअं अच्छीहिँ तेण जणमज्झे।
पडिवण्णं तीअ वि उव्वमन्तसेएहिँ अङ्गेहिं।।४१।।
[परितोषविकसिताभ्यां भणितमक्षिभ्यां तेन जनमध्ये।
प्रतिपन्नं तयाप्युद्वमत्स्वेदैरङ्गै:।।]
अन्योऽन्यं सन्देशानुरागसंवर्द्धमानकुतुकानि।
दु:खं ह्यसमाप्तमनोरथानि तिष्ठन्ति मिथुनानि।।४२।।२
परस्परं य: सन्देशो दूतीद्वारानुरागावेदनम्, तेन (सञ्जनित:) योऽनुरागस्तेन वर्धमानं कौतूहलं समागमौत्सुक्यं येषां तानि। न समाप्तो मनोरथ: समागमाभिलाषो येषां तानि। मिथुनानि युगलानि दु:खं यथा स्यात्तथा तिष्ठन्तीत्यर्थ:। परस्परदर्शनं विना दूतीद्वारा सन्देशप्रेषणेन दर्शनेऽपि कौतुकं द्योत्यते, तेनोत्कण्ठातिशयो व्यज्यते। असमाप्तमनोरथानीत्यनेन यावदभिलषितपूर्तिर्न जायते तावदुत्कण्ठाधिक्यमिति नागरिक: स्वमार्मिकत्वं सूचयति। मिथुनं तिष्ठतीत्येव वक्तव्येऽपि बहुत्वं प्राकृतानुरोधेन।
प्रियतमं प्रति सञ्जनितमात्मानुरागं गोपयन्तीं नायिकां सखी सदैवदग्ध्यमाह-
वल्लभ एव स न हि यदि गोत्रग्रहणेन तस्य सखि किमिति।
भवति मुखं तव रविकरसम्भेदोद्भिन्नमिव नलिनम्।।४३।।२
तस्य गोत्रग्रहणेन नामग्रहणेन। 'गोत्रं तु नाम्नि च’ इत्यमर:। रविकराणां सम्भेदेन स्पर्शेन उद्भिन्नं विकसितं कमलमिव तव मुखं किमिति भवतीति सम्बन्ध:। रविकरयोगविकसि-तस्य कमलस्य साम्येन स्वभावसुन्दरस्यापि पद्मस्य रविकरान् विना यथा न विकासलक्ष्मीस्तथा तवापि सहजमनोहरमपि मुखं तस्य नामश्रवणेनैव लज्जानुरागजनितमपूर्वमुल्लासमनुभवतीति सूच्यते। तथा च नामश्रवणमात्रेण तवेदृशमौत्सुक्यं किं पुनर्दर्शनादिषु सत्सु, एवं च तवानुराग-मभिजानत्यां मयि नैतद् गोपनीयमिति सख्याभिव्यज्यते।
१. एक्कक्कमसंदेसाणुराअवड्ढन्ताकोउहल्लाइं।
दु:खं असमत्तमणोरहाइँ अच्छन्ति मिहुणाइं।।४२।।
[अन्योन्यसन्देशानुरागवर्धमानकौतूहलानि।
दु:खमसमाप्तमनोरथानि तिष्ठन्ति मिथुनानि।।]
२. जइ सो ण वल्लहो व्विअ गोत्तग्गहणेण तस्स सहि कीस।
होइ मुहं ते रविअरफंसव्विसदं व तामरसम्।।४३।।
[यदि स न वल्लभ एव गोत्रग्रहणेन तस्य सखि किमिति।
भवति मुखं तव रविकरस्पर्शविकसितमिव तामरसम्।।]
गाढं गृहीतमानापि कथङ्कारमनुनीता दयितेन भवतीति रहस्याभिज्ञया मातुलान्या पृष्टा काचिदाह-
मानतरुपरुषमरुतो मातुलि सर्वाङ्गनिर्वृतिकरस्य।
अवगूहनस्य भद्रं रतिनाटकपूर्वरङ्गस्य।।४४।।१
मानद्रुमार्थं परुषपवनस्थानीयस्य। मानजनितवियोगकाले उपतप्तानां सर्वाङ्गाणाम-निर्वचनीयसुखकारकस्य। सुरतरूपनाटके पूर्वरङ्गभूतस्य, अवगूहनस्यालिङ्गनस्य भद्रम्। भवत्विति शेष:। पूर्वरङ्गरूपणेन नाट्यविघ्नशान्तये यथा पूर्वरङ्गे नान्दीपाठद्युपाय: क्रियते येन नाट्यं निर्विघ्रमानन्दप्रसु भवेत्तथात्रापि निष्कण्टकं निधुवनसिद्धये पूर्वं मानादिविघ्नविध्वं-सकमवगूहनं क्रियत इति सूच्यते। पूर्वरङ्गविषये उक्तं दर्पणे- ''यन्नाट्यवस्तुन: पूर्वं रङ्गविघ्नोप-शान्तये। कुशीलवा: प्रकुर्वन्ति पूर्वरङ्ग: स उच्यते।।’’ एतत्प्रसङ्गे भावप्रकाशिकापि मनोहरमाह- ''सभापति: सभासभ्या गायका वादका अपि। नटीनटाश्च मोदन्ते यत्रान्योऽन्यानुरञ्जनात्।। अतो रङ्ग इति ज्ञेय: पूर्वं यत्स प्रकल्पते। तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते।।’’ तीव्रपवनेन महतोऽपि वृक्षस्य भङ्गो यथा भवत, तथा आलिङ्गनेन दृढोऽपि मे मानो भग्न इति भाव:।
कस्मिन्नपि युवके जातानुरागा काचित्तस्मिन् शृण्वन्ति सति हृदयामन्त्रणच्छलेनात्मन:-समागमोत्कण्ठामेवमाह-
विरमाधुना हृदय हे नूनं निजकानुमाननि:शङ्क।
अविदितपरमार्थजनानुलग्न लघयसि किमित्यस्मान्।।४५।।२
मम यथा विरहदु:खं तथान्यस्यापि स्यादिति निजानुमानेन मनोरथभङ्गशङ्कारहित हे हृदय। अतएव (नि:शङ्कतया) न विदित: परमार्थ: अन्यदीयविरहवेदनारूपं रहस्यं येन ईदृशे
१. माणदुमपरुसपवणस्स मामि सव्वङ्गणिव्वुइअरस्स।
अवऊहणस्स भद्दं रइणाडअपुव्वरङ्गस्स।।४४।।
[मानद्रुमपरुषपवनस्य मातुलानि सर्वाङ्गनिर्वृतिकरस्य।
अवगूहनस्य भद्रं रतिनाटकपूर्वरङ्गस्य।।]
२. णिअआणुमाणीसङ्क हिअअ दे विरम एत्ताहे।
अमुणिअपरमत्थजणाणुलग्ग कीस म्ह लहुएसि।।४५।।
[निजकानुमाननि:शङ्क हृदय हे प्रसीद विरमेदानीम्।
अज्ञातपरमार्थजनानुलग्न किमित्यस्मांल्लघयसि।।]
जने अनुलग्न! भृशमासक्त! (हृदय) अस्थाने प्रार्थनारूपेण कार्येण अस्मान् किमिति लघूकरोषि। विरामाधुनास्मात्कर्मण इत्यर्थ:। निजकानुमानेत्यादिविशेषणेन अहं त्वयि बद्धदृढानुरागा समागमार्थं भृशमुत्कण्ठितेति व्यज्यते। (यथाहमुत्कण्ठिता तथान्योऽपि स्यादिति सम्बोधनेन सूचनात्)। अस्मान् लघयसीत्युक्त्या न वयमेवंविधा लघवो यदस्माकं प्रार्थना उपेक्षणीया भवेदिति सूचनेन स्वस्यासुलभत्वं ध्वनयति। विरमेत्यनेन अहं पूर्वानुरागस्य चरमसीमामुपग-तास्मि, न मे इतोऽग्रे कश्चन वश इति द्योत्यते। तथा च सामान्यतोऽसुलभाप्यहं त्वसौभाग्येन भवन्तं कामयमानास्मि, त्वं च न मेऽनुरागं यथावद्वेत्सीति नायिकयाभिव्यज्यते।
समीपस्थितमुपपतिं श्रावयितुं नायिकाया: सौन्दर्यप्रशंसां काचित्सखी तां प्रत्यव-मवतारयति-
हसित: प्रशंसता सखि चिरमावसथिकजन: पत्या।
विधुरिति तव किल वदने वितीर्णकुसुमाञ्जलिविलक्ष:।।४६।।१
हे सखि! 'अहो पश्य ते रूपमहिमानमिति’ प्रशंसता श्लाघमानेन पत्या। विधु: चन्द्रोयमिति बुध्या तव वदने वितीर्ण: कुसुमाञ्जलिर्येन, अतएव विलक्षो लज्जित:, आवसथि-कजन:- चन्द्रार्घदानादिव्रतनियमस्थो जनश्चिरं हसित:। अथवा अहो एषां वस्तुपरिचयपाटवमिति आवसथिकजनं साकूतं प्रशंसता पत्या विलक्ष आवसथिकजनो हसित इत्यर्थ:। दयितादिपदमनादृत्य पत्या इत्युक्त्या सम्बन्धानुरोधेन पतिमात्रं सोऽस्या न वल्लभ इति जारं प्रति सुसाध्यत्वमस्या ध्वन्यते। तथा चैवमसामान्यलावण्यशालिनीमिमां कामयमानस्याहो ते सौभाग्यमिति शृण्वन्तमुपपतिं प्रति प्ररोचनमभिव्यज्यते। 'जारव्यामोहनाय दूती नायिकाया: सौन्दर्यातिशयं ख्यापयितुमाह’ इति गङ्गाधर:।
तव दुर्बलतामालोक्य तत्कारणं पृच्छन्तीभ्य: सखीभ्य: किं त्वया प्रत्युत्तरं दीयत इति शठनायकेनोक्ता नायिका तमाह-
१. ओसहिअजणो पइण सलाहमाणेण अइचिरं हसिओ।
चन्दो त्ति तुज्झ वअणे विइण्णकुसुमञ्जलिविलक्खो।।४६।।
[आवसथिकजन: पत्या श्लाघमानेनातिचिरं हसित:।
चन्द्र इति तव वदने वितीर्णकुसुमाञ्जलिविलक्ष:।।]
भवति प्रत्यक्षेऽपि प्रतिदिनमङ्गैर्नु हीयमानैर्हि।
बालक नो जानीम: कस्य भणामोऽत्र पृच्छ्यमाना: किम्।।४७।।१
हे बालक! भवति त्वयि प्रत्यक्षेऽपि सन्निहितेऽपि, प्रतिदिनं क्षीयमाणैरङ्गैरुपलक्षिता: अत एव किमिति दुर्बलासीति जनै: पृच्छयमाना वयमत्र कस्य किं भणाम इति न जानीम:। पूर्वं तव विदेशगमनं दुर्बलतायां कारणमासीत्, इदानीं त्वयि सन्निहितेऽपि, सपत्नीजनर-मणादिभिस्तव दुश्चेष्टितै: सञ्जाताया: कृशतायास्तद्विश्वासमकुर्वतीभ्य: सखीभ्य: किं कारणं वक्तव्यमित्यहं न जाने इति भाव:। बालकेति सम्बोधनेन 'अहो त्वमुन्मुग्ध: शिशुरसि यत्प्रत्य-क्षव्यलीकानि कुर्वन्नपि तानि न जानासि’ इति विपरीतलक्षणया आक्षेपो ध्वन्यते। तथा च तवैव व्यलीकशतै: खिन्नामपि मां त्वमेव किं प्रत्युत्तरं जिज्ञाससे, अहो ते धौर्त्यमिति नायकं प्रत्याशयोऽभिव्यज्यते। प्राकृते वचनस्यानियमात् 'पुच्छिज्जन्ती’ (पृच्छयमाना) इत्येकवचनेन सह जानीमो भणाम इति बहुवचनस्य सम्बन्धे न विरोध इति ज्ञेयम्। 'बालक उचितानभिज्ञ’ इति गङ्गाधरटीका।
पूर्वमनुरागप्रदर्शनेन कृतशीलखण्डनं ततो मन्दादरं नायकं नायिकाया: प्रणयातिशयं प्रदर्श्य तदनुकूलं कर्तुं दूती सवैदग्ध्योपालम्भमेवमाह-
अङ्गानां तनुकारक शिक्षक किल दीर्घरोदितव्यानान्।
विनयातिक्रमकारक मा मैनां प्रस्मरिष्यसि हि।।४८।।२
तन्विति भावप्रधानो निर्देश:। अङ्गानां तनुताकारकेत्यर्थ:। विनयस्य गुरुजनानामाज्ञापा-लनस्य अतिक्रमम् उल्लङ्घनं कारयति तच्छीलस्तत्सम्बुद्धौ। एनां पुनर्मा मा स्मरिष्यसि। सा
१. छिज्जन्तेहिँ अणुदिणं पच्चक्खम्मि वि तुमम्मि अङ्गेहिं।
बालअ पुच्छिज्जन्तीं ण आणिमो कस्स किं भणिमो।।४७।।
[क्षीयमाणैरनुदिनं प्रत्यक्षेऽपि त्वय्यङ्गै:।
बालक पृच्छयमाना न जानीम: कस्य किं भणाम:।।]
२. अङ्गाणं तणुआरअ सिक्खावअ दीहरोइअव्वाणम्।
विणआइक्कमआरअ मा मा णं पम्हसिज्जासु।।४८।।
[अङ्गानां तनुकारक शिक्षक दीर्घरोदितव्यानाम्।
विनयातिक्रमकारक मा मा एनां प्रस्मरिष्यसि।।]
किल तव विरहे अङ्गानि क्षपयति, दीर्घ रोदिति, गुरुणामाज्ञामपि त्वत्कृते न किञ्चिदगणयति, एवंविधामनुरागशालिनीं मा स्मरिष्यसि- मा भूय: स्मर। विपरीतलक्षणया त्वदेकावलम्बनां तां शीघ्रमेव जीवयेति दूत्याभिव्यज्यते। 'विनयस्य शीलस्यातिक्रम: खण्डनं तत्कारकेति’’ गङ्गाधर:। त्वदनुरागपरायणया तया त्वत्कृते इयन्ति दु:खानि सोढानि, त्वं तु स्मरणमात्रमपि न करोषीत्य-पालम्भ:। तथा च यदि किञ्चिन्मात्रमपि तत्प्रणयानुरोधस्तर्हि तामनुसर सत्वरमिति दूत्या द्योत्यते।
प्रवासोन्मुखं नायकं प्रवासान्निवारयितुं शृण्वति तस्मिन्काचित्सखीमाह-
अयि शक्यतेऽन्यथा नो प्रियस्य परिवर्द्धमानगुरु कामम्।
मरणविनोदेन विना विरमयितुं बत विरहदु:खम्।।४९।।१
अयि सखि कामं यथेच्छं परिवर्द्धमानं शनै: शनैर्वृद्धिं गतमत एव गुरु महत्, दु:स-हमिति यावत्। प्रियस्य विरहदु:खम्। मरणविनोदेन विना निजप्राणत्यागं विना अन्यथा अन्येन प्रकारेण विरमयितुं दूरीकर्तुं बत न शक्यत एवेत्यर्थ:। विनोदपदेन विरहवेदनाया अग्रे मरणमपि विनोदरूपमेव, येन तत्तादृशघोरदु:खनिवृत्तिर्भवतीति विरहदु:खस्य दु:सहत्वमभिव्यज्यते। तथाच- तव प्रस्थाने विरहदु:खं मया न शक्येत सोढुम्, मरणं विना च तदुपशमस्य नास्त्युपाय:, अत एव शनै: शनैरुपचितं तन्मम जीवनमेव समापयेदतस्त्वमेव विदेशगमनौचित्यं विचारयेति नायकं प्रत्यभिव्यज्यते।
अन्यासक्तं नायकं सवैदग्ध्यमुपालभमाना काचिदाह-
असतीपुरतोऽस्माभिस्तव सुगुणान् भूरि वर्णयन्तीभि:।
स्वयमेव बालक कृतोऽसि दुर्लभ: कस्य कुप्याम:।।५०।।२
असतीनामग्रत:। त्वद्गुणवर्णनेनानुरक्तास्त्वां कामयन्ते ता:। त्वं च पूर्ववल्लभां विहाय तास्वेवानुरज्यसि, अत एवास्माकं दुर्लभोऽसि संवृत्त इति भाव:। असतीपदेन भ्रष्टचारि-
१. अण्णह ण तीरइ च्चिअ परिवड्ढन्तगरुअं पिअअमस्स।
मरणविणोएण विना विरमावेउं विरहदुक्खम्।।४९।।
[अन्यथा न शक्यत एव परिवर्धमानगुरुकं प्रियतमस्य।
मरणविनोदेन विना विरमयितुं विरहदु:खम्।।]
२. वण्णन्तीहिँ तुह गुणे बहुसो अम्हेहिँ छिञ्छईपुरओ।
बालअ सअमेअ कओसि दुल्लहो कस्स कुप्पामो।।५०।।
[वर्णयन्तीभिस्तव गुणान्बहुशोऽस्माभिरसतीपुरत:।
बालक स्वयमेव कृतोऽसि दुर्लभ: कस्मै कुप्याम:।।]
त्रास्वनुरज्यसि, यास्तवानुरागवशात्सततं गुणवर्णनमुखरास्तासु विरज्यसीत्याक्षेपो व्यज्यते। बालकपदेन- 'या: परपरिरम्भपरायणत्वेन प्रसिद्धा असत्य: सन्ति तासां पुरतोऽपि (इमा मद्दयितं वशयेयुरिति परिज्ञानेऽपि) अनुरागप्रवणत्वेन तव गुणरणनिका मया उदारतया विहिता। त्वं च तासां मम चानुरागतारतम्यमविदन्नेव तास्वधिकमनुरज्यसि। अतएव एवमुचितानभिज्ञतया बालकल्पे त्वयि किं कोपेन’ इत्युपालम्भो ध्वन्यते। किंपदेन वाच्यं प्रति कोपाभावात् 'क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोप:’ इति न चतुर्थी, किं तु शेषत्वेन विवक्षया षष्ठी। तया चास्मदनुरागमुपेक्षमाणं त्वां प्रत्येव कोप इति व्यज्यते। कोपं कुर्वत्या अपि 'कस्य कुप्याम:’ इति प्रतिषेधादाक्षेपालङ्कार:। 'निषेधाभासमाक्षेपं बुधा: केचन मन्वते’ इति कुवलयानन्द:। तेन च नायकं प्रति कोपोऽभिव्यज्यते। छिञ्छई असती। 'काप्यात्मनोऽनुरागं तस्य चान्यासक्तिं सूचयन्ती नायकमाह’ इति गङ्गाधरावतरणम्।
प्रियस्यात्मनश्च परस्परानुरागप्रकटनेन निजसौभाग्यमभिव्यञ्जयन्ती काचित्सखीमाह-
जात: सोऽपि विलक्षो विहस्य मयकापि गाढमुपगूढ:।
ग्रन्थिं मार्गयमाण: प्रथमापसृतस्य वसनस्य।।५१।।१
विलक्षो लज्जित:। मयका मया। प्रथमेति.- तत् करस्पर्शात्पूर्वमेव अनुरागनिर्भरत्वा-त्स्खलितस्याधोवसनस्य बन्धनग्रन्थिमन्विष्यन्। तस्य लज्जानुरागरमणीयं मुखमालोक्य समुद्भवदुत्कलिकया मया तद्वैलक्ष्यमपनेतुं दयितो गाढमालिङ्गित इत्यर्थ:। दर्शनमात्रादेव वसनविगलनेन औत्सुक्यातिशयो ध्वन्यते। तेन च दयितं प्रति एतावान्मेऽनुराग:, सोऽपि च मय्येवमनुरज्यतीति निजसौभाग्यमभिव्यज्यते।
कलहान्तरिताया दूती नायकमनुनयाभिमुखं कर्तुं तद्विरहवैकल्यमाह-
काण्डर्जुका वराकी त्वयाद्य सा किल कृतापराधेन।
दिवसेन शिक्षिता मुहुरलसायितरुदितजृम्भितान्यनिशम्।।५२।।२
१. जाओ सो वि विलक्खो मए वि हसिऊण गाढमुवगूढो।
पढमोसरिअस्स णिअंसणस्स गण्ठिं विमग्गन्तो।।५१।।
[जात: सोऽपि विलक्षो मयापि हसित्वा गाढमुपगूढ:।
प्रथमापसृतस्य निवसनस्य ग्रन्थिं विमार्गयमाण:।।]
२. कण्डुज्जुआ वराई अज्ज तए सा कआवराहेण।
अलसाइअरुण्णविअम्भिआइँ दिअहेण सिक्खविआ।।५२।।
[काण्डर्जुका वराकी अद्य त्वया सा कृतापराधेन।
अलसायितरुदितविजृम्भितानि दिवसेन शिक्षिता।।]
शरकाण्डवत् ॠजुका सरला। कृत: सपत्न्यभिसारादिरपराधो येन, ईदृशेन त्वया। अद्य दिवसेन दिवसमभिव्याप्य मुहुर्वारंवारम्। अनिशं भृशमलसायित- रुदित-जृम्भितानि शिक्षिता। अद्य दिवसमात्रेण त्वया तस्यै रुदितादीनां पूर्णा शिक्षा दत्तेत्यर्थ:। काण्डवदित्युक्त्या स्वभावसरल: शरकाण्डो यथा न पुनर्वक्रीकर्तुं शक्येत तथैव निसर्गसरला सेयं सपत्न्यनुरोधरूपं कृत्रिमदाक्षिण्यं दर्शयितुं न समर्था। एवं च नायिकाया: शुद्धानुरागप्रवणत्वं द्योत्यते। दिवसेनेत्य-त्यन्तसंयोगे अपवर्गे तृतयेति तृतीया। अनया च तृतीयया- 'दिवसमात्रेणैवानया विरहजनिताना-मलसायितरुदितादीनां शिक्षाया: फलं प्राप्तम्’ इति नायिकाया ग्लानिभावजनितो वेदनातिशयो ध्वन्यते। त्वया शिक्षा दत्तेत्यनेन रोदनादिदु:खं यत्सानुभवति तत्र भवानेव निदानमित्युपालम्भो द्योत्यते। तथा च कृतापराधेन त्वया विहितमनुनयं कोपवशादगृह्णत्या: दिवसं यावदनुभूतविरह-वेदनायास्तस्या: साम्प्रतं ग्लानिवशान्नाधिकं विरहसहनसामर्थ्यमित्ययमेवानुनयावसर इति दूत्याभिव्यज्यते। 'कण्णुज्जुआ’ इति पाठे कर्णॠजुका कर्णदुर्बलेत्यर्थ:। यथानया श्रुतं तथैवानया विश्वस्तमिति स्वभावत: सारल्यमस्या इति भाव:। 'कन्या ॠजुका’ इत्यर्थ:’’ इति तु केषाञ्चिदाग्रह एव। 'अन्यासक्तं नायकमनुकूलयितुं दूती नायिकाया विरहवैधुर्यमाह’ इति गङ्गाधरावतरणम्।
मन्दादरतया कृतापराधमथ सद्भावशून्येन दाक्षिण्येनानुनयन्तं शठनायकं नायिकाह-
अपराधैरपि न तथा प्रतीहि मामेभिरभिदुनोषि यथा।
अपहस्तितसद्भावै: सुभग सुदाक्षिण्यभणितैस्ते।।५३।।१
(वारं वारं विहितैर्बहुसंख्यकै:) एभिरपराधैरपि मां तथा न दुनोषि, यथा अपहस्तित-सद्भावै: अपहस्तितो हस्ताभ्यामपसारित: सद्भाव: स्नेहो यै:, एतादृशैस्ते तव समधिकदाक्षिण्य-भाषितैस्त्वं मां दुनोषि, इति त्वं प्रतीहि विश्वसिहि। आन्तरिकस्नेहशून्येन तवानेन कृत्रिमदाक्षिण्ये-नापराधतोऽप्यधिकं मे दु:खं जायत इति भाव:। मत्कृतच्छायायां दाक्षिण्यस्य 'सु’ इति विशेषणेन 'अपराधं कृत्वापि कृत्रिमदाक्षिण्येन मां प्रसादयितुमभिलषसि, अहो सुष्ठु ते दाक्षिण्यम्!’ इत्याक्षेपोऽभिव्यज्यते। सुभगेति सम्बोधनेन एवमुपेक्षणेऽपि अहं त्वयि किदनुरक्ता, त्वं तु तथापि व्यलीकान्न विरमसीत्यहो ते सौभाग्यमित्युपालम्भगर्भं प्रणयावेदनमभिव्यज्यते।
मनसि शिथिलीभूतमानापि उपरित: कोपमौनेन मानमभिनयन्ती काचिन्मानिनी अनुनयार्थं नायकेन समालिङ्गिता। कोपस्य प्रशमेन, उत्कण्ठायाश्चोदयेन परिरम्भसमये अनुराग-
१. अवराहेहिँ वि ण तहा पत्तिअ जह मं इमेहिँ दुम्मेसि।
अवहत्थिअसब्भावेहिँ सुहअ दक्खिण्णभणिएहिँ।।५३।।
[अपराधैरपि न तथा प्रतीहि यथा मामेभिर्दुनोषि।
अपहस्तितसद्भावै: सुभग दाक्षिण्यभणितै:।।]
वशात्स्वत एव तस्या भुजभ्रमणविभ्रमोऽभवत्। अत एव 'भावं प्रकटयद्भ्यमाभ्यामहं विलक्षी-कृतास्मि’ इति बाहुलतिकयोरुपरि सवाष्पमभिक्रुध्यन्तीं नायिकां सप्रणयदाक्षिण्यं नायक आह-
दयितालिङ्गनरभसभ्रमिताभ्यां कुप्य भुजलताभ्यां मा।
एतेन ननु मनस्विनि मुखेन तूष्णीकरुदितेन।।५४।।१
हे मनस्विनि मानिनि तूष्णीकं यथा स्यात्तथा रुदितेन सवाष्पेण अनेन मुखेन [उपलक्षिता] त्वम्। दयितस्य अभीष्टस्य आलिङ्गने सरभसं भ्रम: कम्पाद्युद्गम: सञ्जातो ययो: ईदृशीभ्यां भुजलताभ्यां मा कुप्य मा कोपं कार्षी:। भुजलताभ्यामिति 'क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोप:’ इति चतुर्थी। प्राकृतधातुघटितस्य 'जूर’ इत्यस्य विभ्रमेण मृदुक्रोधप्रदर्शनमर्थ:, यस्याविकलं हिन्दीभाषा 'खिजना’। स्पर्शे सुखं प्राप्तमिति कारणात् मां प्रियमनुकूलं भावयद्भ्यां भुजाभ्यां विभ्रमभ्रमणं स्वीकृतमिति विवशयोर्नानयोर्भुजलतिकयोर्दोष:, किं तु परिरम्भणापराधी अयं ते जनो दोषीति भुजयोरुपरि मा क्रोधं कार्षीरिति भाव:। दोष्णोर्दोषरूपकारणस्याभावेऽपि कोपोदयात्प्रथमा विभावना। 'विभावना विनापि स्यात्कारणं कार्यजन्म चेत्’ इति तल्लक्षणे पीयूषवर्ष:। आलिङ्गनापराधं कृतवत्यपि वल्लभे कारणसत्तायामपि कोपस्यानुदयाद्विशेषोक्ति:। 'कार्याजनिर्विशेषोक्ति: सति पुष्कलकारणे’ इति तल्लक्षणम्। प्रशान्तकोपा त्वमिति कम्पविभ्रमेण परिज्ञातवानहं ततश्च माधुना मुधा मानं कार्षीरित्याशय:। त्वं यदि कोपवशान्मां प्रियं न गणयसि तर्हि तथा कुर्वत्यौ भुजलते अपि किं निवारयसीति नायकस्यानुनयचातुर्यमभिव्यज्यते। पर्यन्ततस्तु कोपस्य शान्ति:, उत्कण्ठायाश्चोदय इति भावसन्धिरभिव्यज्यते। 'प्रियाशय जिज्ञासया भ्रमन्तौ भुजौ निर्भर्त्सयन्तीं नायिकां नायक आहं’ इति गङ्गाधरावतरं तु स्पष्टमस्पष्टार्थम्। नायक आत्मन: कृते प्रियपदं कथं व्यवहरेत्? 'प्रिया’ पदं तु न सम्बध्येत, निद्राव्याजगतायास्तस्या: 'प्रिया’ आशयजिज्ञासयेति विरुद्धार्थत्वादिति।
कुसुमावचयव्याजेन गोदावरीतटनिकटनिकुञ्जे कामप्यभिसरसीति विदितं मया ते रहस्यमिति कञ्चन विलासिनं सूचयन्ती जरत्कुट्टनी सपरिहासवैदग्ध्यमाह-
१. मा जूर पिआलिङ्गणसरहसभमिरीणँ बाहुलइआणम्।
तुह्णिक्कपरुण्णेण अ इमिणा माणंसिणि मुहेण।।५४।।
[मा क्रुध्यस्व प्रियालिङ्गनसरभसभ्रमणशीलाभ्यां बाहुलतिकाभ्याम्।
तूष्णीकप्ररुदितेन चानेन मनस्विनि मुखेन।। ]
मा पुष्पलावक व्रज तुष्यन्त्युदकाञ्जलिभिरपि देवा:।
पुत्रक गोदावर्या: शीलोन्मूलानि कूलानि।।५५।।१
मा व्रज, गोदावरीकूलमिति यावत्। देवा: केवलेनार्घ्यदानेनापि तुष्यन्ति। गोदावर्या: कूलानि शीलं सच्चरितमुन्मूलयन्ति मूलत: अपनयन्ति एवं भूतानि (उन्मूलयते: पचाद्यच्) सन्ति। पुत्रकेति सम्बोधनेन 'मया बहुकालमेवंविधानि कौतुकानि दृष्टानीत्यात्मन: प्रागल्भ्यम्, त्वं मे स्नेहपात्रमसीति’ सान्त्वनं चाभिव्यज्यते। तथा च- परिज्ञातरहस्यापि नाहं ते विरोधिनी, प्रत्युत स्नेहवशात्सहायैवेति परिहासपूर्वकमभिद्योत्यते। मा व्रजेति वाच्ये निषेधे चमत्कारवि-श्रान्तेस्तात्पर्यस्य चाभावात्सूक्ष्म-पिहितादयो व्यङ्ग्यसम्बन्धरमणीया अलङ्कारा नात्र, किन्तु 'कामं व्रज परमहं ते जाने गोदावरीतीरनिभृतविलासरसिकत्वम्’ इति ध्वनिरेव। उदकाञ्जलिभि-स्तुष्यन्तीत्युक्त्या जलार्थमपि गोदावरीगमनसम्भवात्, देवानामर्घ्याञ्जलौ पुष्पाणामावश्यकत्वाच्च गोदावरीगमनवारणे न तात्पर्यम्। ततश्च-देवतार्चनकुसुमा वचयमिषेण यदि त्वं लङ्का गोदावरीनिकुञ्जमभिव्रजसि तर्हि कामं व्रज, परमेवंविधैरेव कौतुकै: शुक्लीकृतकेशेष्व-स्मादृशेषु सोऽयं ते मिष: स्थूल एव। निपुणमभिज्ञातमस्माभिर्यन्मिषपूर्वकं त्वं काञ्चिदभिसरसि। तत्सुखेन साधय समीहितम्। अहं तेऽनुकूलैव। किन्तु न मया सह कैतवलीला ते सफला समुचिता चेति विलासिनं प्रत्यभिव्यज्यते।
तस्यैव विरहे उन्मनायिता त्वमसि, माऽस्मत्तो गोपयेति सखी नायिकामाह-
वचने वचने प्रचलच्छीर्षं शून्यावधानहुङ्कारम्।
सखि ददती निश्वासान्तरेषु किं तापयस्यस्मान्।।५६।।२
१. मा वच्च पुप्फलाविर देवा उअअञ्जलीहिँ तूसन्ति।
गोआअरीअ पुत्तअ सीलुम्मूलाइँ कूलाइं।।५५।।
[मा व्रज पुष्पलवनशील देवा उदकाञ्जलिभिस्तुष्यन्ति।
गोदावर्या: पुत्रक शीलोन्मूलानि कूलानि।।]
२. वअणे वअणम्मि चलन्तसीससुण्णावहाणहुंकारम्।
सहि देन्ती णीसासन्तरेसु कीस म्ह दुम्मेसि।।५६।।
[वचने वचने चलच्छीर्षशून्यावधानहुङ्कारम्।
सखि ददती नि:श्वासान्तरेषु किमित्यस्मान्दुनोषि।।]
सं. गा... १६
हे सखि वचने वचने मम प्रत्येकवचने, निश्वासानाम् अन्तरेषु मध्यावसरेषु, मध्ये मध्ये निश्वासं मुक्त्वेत्यर्थ:। प्रचलच्छीषं प्रश्नस्योत्तरप्रदानकाले सम्मतिं सूचयितुं प्रचलत् शीर्षं यस्मिन्नेवं यथा स्यात्तथा। शून्यावधानहुङ्कारं प्रियानुध्यानमग्रतया प्रत्यक्षालम्बनवस्तुनोऽभावात् शून्यं यदवधानं चित्तैकार्ग्यं तन्मध्ये हुङ्कारं 'शृणोमीति’ सूचकं हुमिति शब्दं ददती उच्चारयन्ती त्वमस्मान् किमिति दुनोषि। एकाग्रचित्ता त्वमन्यदेव किञ्चिदनुचिन्तयसि, मम वचनोत्तरे तु निरवधानमेव कम्पितशीर्षं हुङ्कारं ददासि। तथा चान्तरङ्गाया अपि मत्त: प्रियप्रणयं गोपयन्ती त्वं मम मनसि दु:खमुत्पादयसीति भाव:। मानसिकध्यानमग्रतायां चक्षुरादीनां किञ्चिदालम्बनं विनैव बद्धावधानता प्रायो भवत्यनुरक्तवियुक्तानामिति अन्यमनस्कजनस्वभाववर्णनात्स्व-भावोक्ति:। अनया च 'वचनानामुत्तरस्थाने सन्निश्वसितेनानेन ते शून्यावधानहुङ्कारेण ज्ञातोऽस्मा-भिस्तेऽनुराग:। तत्किमिति मुधा तदपह्नवेनास्मान् प्रतापयसि। वयं त्वत्स्नेहेन त्वत्समानसन्तापा:, तदस्मासु विश्वसिहि’ इति वस्तु व्यज्यत इत्यलङ्कारेण वस्तुध्वनि:।
कुपितां नायिकां प्रसादयितुं प्रेषिता काचित्प्रौढा दूती नायकमहा-
सद्भावं पृच्छन्ती बालक तव रोदिता प्रियया।
नास्त्येवेति सशपथं हासोन्मिश्रं भणन्त्या हि।।५७।।१
सद्भावं तस्यां तव स्नेहं पृच्छन्ती अहम्, सद्भावो नास्त्येवेति सशपथं सहासं च तदुत्तरे भणन्त्या तव प्रियया रोदितास्मीत्यर्थ:। शपथं कृत्वा कथनेन स्नेहाभावे सत्यता, हास्येन च तद्गोपने प्रयासोऽभिव्यज्यते। तथा च- तवापराधैस्तथा सा व्यथिता यथा तव नि:स्नेहतामेव निश्चिनोति, परं दाक्षिण्येन तां व्यथां कृत्रिमहासेन निह्नोतुं यतत इत्येतादृशं तस्या हृदयदु:खं मौग्ध्यं च दृष्ट्वा मे बलादश्रूण्यागतानीति भाव:। तव प्रिययेत्यनेन 'सा तव प्रियेति त्वं प्रसेधयसि, तथापि तामेव क्लेशयति। अहो ते प्रीति:’ इत्युपालम्भो व्यज्यते। बालकेत्या-मन्त्रणेन एवमनुगतामपि तां खेदयंस्त्वमुचितानभिज्ञ एवेति ध्वन्यते।
ग्रामीणानामपि सङ्कल्पमात्रादेव सात्त्विकभावा: प्रादुर्भवन्ति किं पुना रसिकानामिति निजमार्मिकतां ख्यापयितुं कश्चन नागरिकताभिमानी सहचरमाह-
१. सब्भावं पुच्छन्ती बालअ रोआविआ तुअ पिआए।
णत्थि व्विअ कअसवहं हासुम्मिस्सं भणन्तीए।।५७।।
[सद्भावं पृच्छन्ती बालक रोदिता तव प्रियया।
नास्त्येव कृतशपथं हासोन्मिश्रं भणन्त्या।।]
अत्र मया रन्तव्यं तया सहेत्याकलय्य हृदयेन।
कृषककरस्वेदार्द्रा निपतति तुवरी समुप्यमानेयम्।।५८।।१
अत्र अस्मिन्नाढकीक्षेत्रे तया सह मया रन्तव्यमिति हृदयेनाकलय्य चिन्तयित्वा समुप्यमाना क्षेत्रभूमौ सम्यग्विकीर्यमाणा इयं तुवरी आढकी [अरहर इति भाषायां प्रसिद्धा] कृषककरयो: स्वेदेन आर्द्रा सती निपततीति योजना। तुवरीक्षेत्रस्य वसन्तेऽपि निबिडहरितत्वेन तत्सुरतसङ्केतस्थानं भविता, ततश्च तत्र भावि सुरतसुखमनुस्मृत्य पामरकरयो: स्वेदरूपसात्त्वि-कभावोदयो जात इति भाव:। 'अथाढकी। काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजा’ इत्यमर:। 'आढकी तु तुवर्यां स्त्री परिमाणान्तरे त्रिषु’ इति च मेदिनी। 'सङ्कल्पमात्रात्सात्त्विकभावा भवन्तीति कापि स्ववैदग्ध्यं ख्यापयितुं सखीमाह’ इति गङ्गाधर:।
कार्पासवृन्तावचयाय समागता सेयं मद्दयितं प्रत्यनुरक्तेति ग्रामणीस्नुषा निजसखीमाह-
गृहपतिसुतोच्चितेष्वपि पश्यत कार्पासवृन्तेषु।
मोघं भ्रमति पुलकितो लग्नस्वेदाङ्गुलि: करो वध्वा:।।५९।।२
गृहपते: सुतेन मम पत्येति यावत्। एतेन वक्त्र्या: स्नुषात्वसाधनान्नववयस्कत्वं सूच्यते। उच्चितेष्वपि अवचितेष्वपि फुल्लकार्पासयुक्तेषु वृन्तेषु। पुलकित: विलग्न: स्वेदो यासु ईदृश्योऽङ्गुलयो यस्मिन्नीदृशश्च। वध्वा हस्तो मोघं भ्रमति, अवचेयकार्पासाभावेऽपि वल्लभप्रेम्णा भ्रमति, इति यूयं पश्यत। स्वेदरोमाञ्चौ भ्रमतीत्यनेन सूचितो वेपथुश्चेति सात्त्विकभावा ग्रामणीसुते नायिकाया रतिमनुभावयन्ति। तथा च- किञ्चित्कालार्थमुपागतापि सेयं मद्दयितेऽनुरक्ताभूदिति स्वपते: कामनीयत्वम्, परं स च मद्वशीभूत इत्यात्मन: सौभाग्यं च गृहपतिपदस्वारस्यसहकारेण ध्वन्यते।
१. एत्थ मए रमिअव्वं तीअ समं चिन्तिऊण हिअएण।
पामरकरसेओल्ला णिवअइ तुवरी वविज्जन्ती।।५८।।
[अत्र मया रन्तव्यं तथा समं चिन्तयित्वा हृदयेन।
पामरकरस्वेदार्द्रा निपतति तुवरी उप्यमाना।।]
२. गहवइसुओच्चिएसु वि फलहीवेण्टेसु उअह वहुआए।
मोहं भमइ पुलइओ विलग्गसेअङ्गुली हत्थो।।५९।।
[गृहपतिसुतावचितेष्वपि कर्पासवृन्तेषु पश्यत वध्वा:।
मोघं भ्रमति पुलकितो विलग्नस्वेदाङ्गुलिर्हस्त:।।]
ग्रामीणस्य मुग्धतां सूचयन्तकश्चन नागरिकताभिमानी सहचरमाह-
आर्यां मोहनसुखितां मृतेति मुक्त्वा पलायिते हलिके।
दरविकचवृन्तभारादवनतया हसितमिव हि कार्पास्या।।६०।।१
आर्यां श्रेष्ठां ग्रामनेतृसुतामित्यर्थ:। मोहनेन सुरतेन सुखितां सुरतसुखनिमीलिताक्षीमिति यावत्। मृतेति भयेन मुक्त्वा पलायिते सति। आर्यामित्युक्त्या ग्रामनेतु: सुता कामान्धतया उपभुक्ता, दुर्दैवान्मृता चेति भयातिशय: सूच्यते। अतएव पलायिते इत्युक्तं न तु गते इति। ईषद्विकसितवृन्तभारद्वारा प्रकटितश्वेतवर्णहासा लज्जया नम्रमुखीव कार्पासी जहासेत्युत्प्रेक्षा। आर्यामिति छन्दोनामसूचनान्मुद्रालङ्कारोऽप्ययत्नलभ्यो बोद्धव्य:। [सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरै: पदै:]। पर्यन्ते तु 'ग्रामीणस्यानभिज्ञतामवलोक्य स्त्रीभावात्स्त्रीरहस्यवेदिनी जडापि कार्पासी जहास, किं पुनरन्य इति तन्मुग्धतातिशयप्रकटनेनात्मनो गौरवं द्योत्यते।
काचिदात्मनो निन्दाव्याजेन प्रियतमं प्रत्युनरागातिशयं सौभाग्यं च सूचयन्ती सखीमाह-
नर्तितुमिह नि:श्वासोत्कम्पपुलकितैर्हि जानते धन्या:।
अवलोकितेऽपि दयिते विस्मृत आत्मापि मादृशीभिस्तु।।६१।।२
नर्तनसमये दयितकरस्पर्शवशात् नि:श्वासेन उत्कम्पेन पुलकितेन (पुलकनमेव पुलकितं भावे क्त:) उपलक्षिता या नर्तितुं जानन्ति ता धन्या:। अस्मादृशीभिस्तु दयितस्याव-लोकनेऽपि सति आत्मापि निजशरीरादिकमपि विस्मृतं किं पुनरन्यदित्यर्थ:। 'अहमधन्या’ इत्यात्मानं निन्दन्त्यपि दयितप्रणयसौभाग्यवत्यहमेवेति स्तुतिं सूचयतीति व्याजस्तुति:। पर्यन्ततस्तु 'नर्तनकलामञ्जुला अपि ता न धन्या:’ प्रियप्रणयपीयूषपायिन्यहमेव धन्येति व्यतिरेकालङ्कारो व्यङ्ग्य। नर्तनप्रकरणाभावे तु नर्तितुमित्यत्र 'दयितसमागमे नि:श्वासादिभिरुप-
१. अज्जं मोहणसुहिअं मुअत्ति मोत्तू पलाइए हलिए।
दरफुडिअवेण्टभारोणआइ हसिअं व फलहीए।।६०।।
[आर्यां मोहनसुखितां मृतेति मुक्त्वा पलायिते हलिके।
दरस्फुटितवृन्तभारावनतया हसितमिव कार्पास्या।।]
२. णीसासुक्कम्पिअपुलइएहिँ जाणन्ति णच्चिउं धण्णा।
अम्हारिसीहिँ दिट्ठे पिअम्मि अप्पा वि वीसरिओ।।६१।।
[नि:श्वासोत्कम्पितपुलकितैर्जानन्ति नर्तितुं धन्या:।
अस्मादृशीभिर्दृष्टे प्रिये आत्मापि विस्मृत:।।]
लक्षिता या नानाविधान्गात्रविभ्रमान्कर्तुं जानन्ति ता धन्या:’ इत्यर्थन्तरसङ्क्र-मितावाच्यो ध्वनिर्बोध्य:, नर्तनस्य स्वार्थे बाधेन शारीरिकविभ्रमार्थे लाक्षणिकत्वात्। ततस्तु व्यतिरेकाल-ङ्कारध्वनिना सह पूर्वोक्तध्वने: संसृष्टिर्बोद्धव्येत्यलं साहित्यगहनपद्धत्या।
सपत्नीषु त्वं नवयौवनेन लब्धविजयासीति काचित्प्रौढा मुग्धां नायिकामामह-
क्षीणेनापि क्षीयत एतेन तनूयतेऽथ तनुनापि। कथमिव ते प्रतिपक्षो मध्यस्थेनापि पुत्रि मध्येन।।६२।।१
हे पुत्रि ते प्रतिपक्ष: सपत्नीजन: क्षीणेन: अपचयं प्राप्तेनापि मध्यस्थेन वपुर्मध्यभा-गस्थितेन ते मध्येन (करणे तृतीया) कथं क्षीयते अपचीयते। तनुना दुर्बलेनापि (मध्येन) कथं तनूयते दुर्बलतया [आचारार्थे क्यङ्]। मध्यस्थ उभयो: पक्षमनालम्ब्य मध्यस्थत्वेन उदासीनतया स्थित: सन् यदि क्षयमधिगत: कृशोऽपि भवेत्तार्हि प्रतिपक्षं न पीडयति, प्रबलादेव पीडासम्भवात्। किं तु तवायं मध्यस्थत्वादिगुणयुक्तोऽपि मध्य: सपत्नीजनं पीडयतीत्यपिशब्द-वाच्यो विरोधाङ्कालर:। अनेन चालङ्कारेण 'श्रोण्याद्यङ्गपरिष्कारकेणानेन ते नवयौवनेन सपत्नीज-नोऽपचयमाप्य परां पीडामनुभवति, त्वं च मुग्धतया न जानासि तासां रहस्यम्।’ इत्यर्थो ध्वन्यते। 'पुत्रि’ इति सम्बोधनेन त्वं मे स्नेहपात्रमसीति निजपक्षपातो नायिकाया मौग्ध्यं च द्योत्यते। 'इष्टसिद्धये दूती नायिकाया व्याजस्तुतिमाह’ इति गङ्गाधरावतरणम्।
तव वियोगे मम मर्मवेधिनी पीडा जायत इति निजप्रणयिनां काचित्सवैदग्ध्यं सानुरागं चाह-
व्याधिरिव वैद्यरहितो धनरहित: स्वजनमध्यवास इव।
दर्शनमिव रिपुलक्ष्म्या दु:सहनीयस्तव वियोग:।।६३।।२
१. तणुएण वि तणुइज्जइ खीएण वि खिज्जए बला इमिणा।
मज्झत्थेण वि मज्झेण पुत्ति कहँ तुज्झ पडिवक्खो।।६२।।
[तनुकेनापि तनूयते क्षीणेनापि क्षीयते बलादनेन।
मध्यस्थेनापि मध्येन पुत्रि कथं तव प्रतिपक्ष:।।]
२. वाहिव्व वेज्जरहिओ धणरहिओ सुअणमज्झवासो व्व।
रिउरिद्धिदंसणम्मिव दूसहणीओ तुह विओओ।।६३।।
[व्याधिरिव वैद्यरहितो धनरहित: स्वजनमध्यवास इव।
रिपुऋद्धिदर्शनमिव दु:सहनीयस्तव वियोग:।।]
रिपुलक्ष्म्या वैरिसमृद्धेर्दर्शनमिव, तव वियोगो दु:सह। स्वनेत्राभ्यां दर्शनस्य श्रवणा-द्यपेक्षया समधिकक्षोभकारित्वाद्दर्शनमिवेत्यनेन वेदनातिशय: सूच्यते। वैद्यरहितव्याध्या-देरेकैकस्य मरणान्तिकपीडाकारकत्वाद्दु: सहनीयत्वं सर्वेषां साधारणो धर्मस्तथा च सेयमभिन्नधर्मा मालोपमा। एवं च तव वियोगे मम प्राणान्तिकपीडा जायत इत्यात्मनोऽनुरागातिशयो ध्वन्यते। प्रियं प्रति नायिकाया: सन्देशगाथेयमिति केचित्।
वृद्धवराङ्गाना निजदुहितु: पीनोन्नतपयोधरतामभिधाय विलासिनं राजानं चाटूक्तिभिर-नुकूलं कुर्वत्याह-
क: स्थगयितुं समर्थोऽत्र जगति विस्तीर्णनिर्मलोत्तुङ्गम्।
हृदयं च तव नराधिप गगनं च पयोधरान्मुक्त्वा।।६४।।१
विस्तीर्णं गभीराशयतया महावकाशम्, निर्मलं कपटादिकालुष्यरहितम्, उत्तुङ्गम् उच्चाभिलाषितया उन्नतम् ईदृशं तव हृदयम्, व्यापकं रजोमालिन्यरहितमुन्नतं गगनं च। राजपक्षे पयोधरान् स्तनान्, गगनपक्षे मेघान् मुक्त्वा क: स्थगयितुमधिकर्तुं समर्थ:, न कोऽपीत्यर्थ:। पयोधरानिति बहुत्वेन एकैव रमणी किं बह्व्योऽपि सुन्दर्यो दैवदत्तराजपदस्य तेऽनायासमेव सुलभा इति प्रोत्साहनं ध्वन्यते। पयोधरान् मुक्त्वा क: समर्थ इत्यनेन 'महावीरस्य तव विस्तीर्णत्वादिपूर्वोक्तगुणयुक्ते हृदि शौर्यादिद्वारा बलात्प्रभावस्थापनं तु दुष्करम्, किं तु शौर्यद्वारा प्राप्तं विभवं भोगद्वारा सफलयतस्तव रसिकस्य हृदि नारीविलास एव स्थानं प्राप्तुं शक्नुयादिति तच्छौर्यस्तुतिर्विलासार्थं राज्ञ उत्तेजनं च ध्वन्यते। वर्ण्यस्य हृदयस्य अप्रस्तुतस्य गगनस्य च स्थगनरूपैकधर्मान्वयाद्दीपकम्। 'वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधा:’। पर्यन्ततस्तु उच्चाभिलाषी भवानन्या: सामान्या वारवधूर्विहाय बहुव्ययलभ्यामपि नवयौवनामिमां मत्तनयामेव कामयिष्यते, यतो विस्तीर्णहृदयो रसिकश्च भवानिति वस्तु ध्वन्यते।
इयं निकुञ्जे दत्तसङ्केतेति परिज्ञातमस्या रहस्यमिति निजमार्मिकतां सूचयन्नागरिक: सहचरमाह-
१. कोत्थ जअम्मि समत्थो थइउं वित्थिण्णणिम्मलुत्तुङ्गम्।
हिअअं तुज्झ णराहिव गअणं च पओहरं मोत्तुम्।।६४।।
[कोऽत्र जगति समर्थ: स्थगयितुं विस्तीर्णनिर्मलोत्तुङ्गम्।
हृदयं तव नराधिप गगनं च पयोधरान्मुक्त्वा।।
आकर्णयते ह्यसति कुञ्जतले दत्तसङ्केता।
अग्रपदपीडितानां मर्मरकं जीर्णपत्राणाम्।।६५।।१
अग्रपदेन निजपादाग्रभागेन पीडितानामवमर्दितानां पुराणपर्णानां मर्मरकं चूर्णनकालिकं 'मरमर’ इति शब्दम्। सहजचङ्क्रमणे पादतलपश्चाद्भागस्य भूमौ पूर्वमवस्थापनस्वभावात्सर्व-शरीरभरस्य तत्रैव सङ्क्रमणेन शुष्कपत्राणामतिशयितचूर्णीभावान्न तथा शब्दो यथा शनैर्निहिताद-ग्रभागादर्धार्धमर्दितानां पत्राणामित्यग्रपदप्रयोगेणातिशयो व्यज्यते। अथवा कुञ्जतले सङ्केतकरणात्त-त्तलेऽवनमितपूर्वकायं शनै: शनैर्गमनसमये मा कश्चन श्रौषीदिति सतर्कतास्वाभाव्याच्चकित-चकितमग्रपदमेव विन्यस्यते, अतएव अग्रपदपीडितानामिति सतर्कतातिशयसूचनार्थमुक्ति:। तथा चैवमतिसतर्कं पदानि विन्यस्यन्त्यपि पत्रचूर्णनशब्दं सभयचकितमाकर्णयन्ती जारं कुट्टनी समाश्वसयितुमाह’’ इति गङ्गाधरावतरणम्। 'त्वत्पदशब्दमाकर्णयन्ती सङ्केतस्थिता सा ते दयिता तिष्ठति, मा व्याकुली भू:’ इति तद्व्याख्यातात्पर्यम्। अत्र अग्रपादं जारस्य परिगृह्यते। परं स्वयमेव प्रोत्साह्यानयन्ती कुट्टनी प्रणयिनमेव प्रति तामसतीति कथं व्यपदिशेदित्येव विचार्यम्।
नायकमुत्कण्ठयन्ती दूती कस्याश्चिन्मुखसौरभं वर्णयति-
सुरभिमुखानिलपरिमलनिबद्धमण्डलमभिद्रवन्त्यलय:।
अज्ञातचन्द्रपरिभवमपूर्वकमलं मुखं तस्या:।।६६।।२
अलयो भ्रमरा:। न ज्ञातश्चन्द्रपरिभव: चन्द्रसकाशान्मीलनं येन ईदृशम् अत एवापूर्व-कमलं तस्या मुखम् सुरभिर्यो मुखानिलस्तस्य परिमलेन विशिष्टसुगन्धेन (हेतौतृतीया)निबद्धं मण्डलं मण्डलभ्रमणं यस्मिन्कर्मणि यथा भवति तथा अभिद्रवन्ति तन्मुखपर्यन्ततो लीयन्त
१. आअण्णेइ अडअणा कुडङ्गहेट्ठम्मि दिण्णसंकेआ।
अग्गपअपेल्लिआणं मम्मरअं जुण्णपत्ताणम्।।६५।।
[आकर्णयत्यसती कुञ्जाधो दत्तसङ्केता।
अग्रपदप्रेरितानां मर्मरकं जीर्णपत्राणाम्।।]
२. अहिलेन्ति सुरहिणीससिअपरिमलाबद्धमण्डलं भमरा।
अमुणिअचन्दपरिहवं अपुव्वकमलं मुहं तिस्सा।।६६।।
[अभिलीयन्ते सुरभिनि:श्वसितपरिमलाबद्धमण्डलं भ्रमरा:।
अज्ञातचन्द्रपरिभवमपूर्वकमलं मुखं तस्या:।।]
इत्यर्थ:। अज्ञातचन्द्रपरिभवमिति व्यतिरेक:। अपूर्वकमलमिति गम्योत्प्रेक्षा रूपकं वा। अलयोऽभिद्रवन्तीत्यनेन बहव: कामुकास्तामनिशमनुबध्नन्तीति कामनीयत्वातिशयो द्योत्यते। अज्ञातचन्द्रपरिभवमित्यनेन उत्कृष्टादप्युत्कृष्टं मुखं न तन्मुखं पराजेतुमलमिति सौन्दर्यातिशय: सूच्यते। ततश्च 'बहव: कामिनस्तामहर्निशमनुसरन्ति, अत एव सौभाग्यवता भवता सा त्वरितमुपगन्तव्या, न च तस्या: समागमे कश्चित्प्रतिबन्ध: (अज्ञातचन्द्रपरिभवमिति)’ इति नायकं प्रति चरमं व्यङ्ग्यम्। अहिलेन्तीत्यस्य अभिलषन्तीति च्छायेति कश्चित्।
नायिकाया: प्रणयातिशयं सूचयन्ती दूती नायकमाह-
धैर्यलम्बिन्या अपि गुरुजनपुरतस्त्वयि व्यतिक्रान्ते।
पतितोऽक्षिनिमीलनतो वाष्प पक्ष्मस्थितस्तस्या:।।६७।।१
गुरुजनानां पुरस्तात्, विकारगोपनार्थ धैर्यालम्बनशीलाया अपि तस्या: [ताच्छील्ये णिनि:]। त्वयि व्यतिक्रान्ते तामतिक्रम्य आगते सति। अक्षिनिमीलनत: विरहजनितविषादेन नेत्रनिमीलनात्, तस्या: पक्ष्मस्थित: एतावत्कालं धैर्येणावरोधात्पक्ष्मस्वेव स्थापितो वाष्प: पतित: कपोलयो: प्रावहत्। प्रयत्नवशाद् गुरुजनानुरोधादवरुद्धोऽपि दु:खावेगस्त्वदेकमात्रालम्बनया तया नाधिकं सोढुमपार्यत, अवशया तया पर्यन्ते गुर्वनुरोधोऽपि न बहु मानित:। एवं किल तस्या सुदृढोऽनुराग इति नायकोत्कण्ठायै दूत्याभिव्यज्यते। पक्ष्मसु किञ्चित्कालं वाष्पस्थित्या नेत्रयोर्विशालता व्यज्यते। अत्र ''गुरुजनलज्जया तया नानुगमनं कृतं वाष्पेण पुन: कृतमेव’’ इत्यपदलभ्यमपि रमणीयमाह गङ्गाधर:।
'मानालम्बनेऽपि गाढानुरागवशान्नाधिककालं मां व्यथयति सा’ इत्यात्मन: सौभाग्यं सूचयन्नागरिक: सहचरमाह-
विगलन्मानभराया: शयनपराञ्च्या: स्मरामोऽस्या:।
कैतवसुप्तोद्वर्तनकुचकलशापीडसुखकेलिम् ।।६८।।२
१. घीरावलम्बिरीअ वि गुरुअणपुरओ तुमम्मि वोलीणे।
पडिओ से अच्छिणिमीलणेण पम्हट्ठिओ वाहो।।६७।।
[धैर्यावलम्बनशीलाया अपि गुरुजनपुरतस्त्वयि व्यतिक्रान्ते।
पतितस्तस्या अक्षिनिमीलनेन पक्ष्मस्थितो वाष्प:।।]
२. भरिमो से सअणपरम्मुहीअ विअलन्तमाणपसराए।
कइअवसुत्तुव्वत्तणथणकलसप्पेल्लणसुहेल्लिम्।।६८।।
[स्मरामस्तस्या: शयनपराङ्मुख्या विगलन्मानप्रसराया:।
कैतवसुप्तोद्वर्तनस्तनकलशप्रेरणसुखकेलिम्।।]
मानवशात् शयने पराञ्च्या: पार्श्वं परिवर्त्य पराङ्मुखं सुप्ताया:। पश्चात् अनुरागोत्कण्ठया विगलन् शाम्यन् मानभरो यस्यास्तस्या:। विगलदिति वर्तमानार्थकशतृप्रत्ययेन तस्मिन्नेव क्षणे कोपशान्तिरारब्धेति सूचनेन नायिकाया नवीनोत्कण्ठोदयो ध्वन्यते। अतएव कैतनेव कपटेन युत्सुप्तोद्वर्तनं पार्श्वपरिवर्तनं कैतवेन सुप्ते शयने यद्, उद्वर्तनं पार्श्वपरिवर्तनमिति वार्थ:। तत्र कुचकलशाभ्यां य आपीडो निबिडावमर्दस्तत्सुखकेलिं स्मराम:। औत्सुक्योदयेन पार्श्वपरिवर्तने कृते पीनोत्तुङ्गयो: कुचयोर्य: स्वयमेव गाढसम्मर्दस्तत्सुखं नाद्यापि विस्मराम इत्यर्थ:। अनुनयं विनापि मद्गतगाढानुरागवशात्सा विगलितमानाऽभवदित्यात्मन: सौभाग्यं ध्वन्यते।
येन सह फाल्गुनोत्सवकेलिमन्वभूरस्ति तस्मिंस्तेऽनुराग इति सूचयन्ती सखी नायिकां सपरिहासमाह-
फाल्गुनमहनिर्दोषं दत्तं केनापि पङ्कमण्डनकम्।
स्तनकलशाननविलुठत्स्वेदविधौतं हि किमिति धावयसि।।६९।।१
फाल्गुनमहे फाल्गुनोत्सवे निर्दोषं निन्दनीयतारहितम्। 'मम उद्धव: उत्सव:’ अमर:। केनापि दत्तम्। केनापीत्यनेन न वयं तं परिजानीमो मा लज्जस्वेति नायिकाया अश्वासनं ध्वन्यते। पङ्कमण्डनकं कर्दमरूपं प्रसाधनम्। कर्दमोऽपि निसर्गसुन्दरे त्वद्वपुषि भूषणमिव जातमिति नायिकाया: सौन्दर्यं गूढमभिव्यज्यते। स्तनकलशयोर्मुखात् विलुठन् विगलन् य: स्वेदस्तेन धौतं क्षालितमपि पुन: किमिति धावयसि क्षालयसि। कर्दमप्रक्षेपसमये प्रक्षेप्तरि अनुरागवशात्ते स्वेदोद्गमो बभूवेति लक्षितमस्माभि:। ततश्च त्वं किमित्यस्मत्तो गोपयसि। फाल्गुनोत्सवे त निन्दनीयमिदिमित सख्या ध्वन्यते।
त्वद्वचनादहमगमं तस्या निकटे, परं मामालोक्यापि न सा किञ्चिदुक्तवतीति वदन्तं नायकं प्रौढा दूती सुमधुरमाह-
१. फग्गुच्छणणिद्दोसं केण वि कद्दमपसाहणं दिण्णम्।।
थणअलसमुहपलोट्ठन्तसेअधोअं किणो धुअसि।।६९।।
[फाल्गुनोत्सवनिर्दोषं केनापि कर्दमप्रसाधनं दत्तम्।
स्तनकलशमुखप्रलुठत्स्वेदधौतं किमिति धावयसि।।]
ग्रामणिसुतया बालक गुरुजननिकटेऽपि किं न भणितोऽसि।
अनिमिषमीषद्विवलद्वदनसुनयनार्धसन्दृष्टै।।७०।।१
ग्रामणिसुतया ग्रामनायकपुत्र्या 'इको ह्रस्वोऽङ्ग्य’ इति ह्रस्व:। अनेन पितृगृहस्थिताया-स्तस्या: सुलभत्वं नववय:शालिनत्वं च द्योत्यते। अनिमिषं निमेषशून्यं यथा स्यात्तथा। ईषद्विवलत् किञ्चित्परवर्तमानं वदनं मुखं येषु एवंभूतानि यानि सुन्दराणि नयनार्धदृष्टानि कटाक्षवीक्षितानि तै: (करणे तृतीया)। गुरुजनसविधेऽपि किं न भणितोऽसि, एतादृशमावश्यकं किमस्ति यन्न भणितोऽसि, अपि तु सर्वं भणितोऽसीत्यर्थ:। नयनार्धसन्दृष्टैर्भणितोऽसीत्यत्र वाच्यार्थतिरस्कारेण लक्षणा। तथा च तया गूढं सूचितोऽसीति व्यङ्ग्योऽर्थ:। पर्यन्ते तु 'गुरुजनसन्निधानेऽपि सा इङ्गितै: सर्वमात्मगतं प्रकाशयामास, त्वं तु न तत्तात्पर्यमज्ञासीरित्यहो ते मौग्ध्यम्’ इति बालकेतिसम्बोधनसहकारेणाभिव्यज्यते। ''ईषद्विवलितवदनं च नयनार्धदृष्टानि चेति कर्मधारय:’’ इति गङ्गाधरटीका। 'धूआए’ इत्यस्य 'स्नुषाया:’ इति च्छायां केचिद्वदन्ति, तेषां मते गुरुजनसमक्षमित्यस्य श्वशुरादिनिकटे इत्यर्थ: स्यात्।
एतमेवार्थं प्रकारान्तरेणाह-
नयनाभ्यन्तरविसरद्वाष्पभरोद्बन्धमन्दया दृष्ट्या।
पुनरुक्तप्रेक्षितया बालक किं यन्न भणितोऽसि।।७१।।२
तवावलोकनजातेन हर्षेण नयनाभ्यन्तरे विसरन् घूर्णमानो यो बाष्पभरस्तस्योद्बन्धेन आपूरणेन मन्दया मन्थरया दृष्ट्या। पुनरक्तं प्रेक्षितं यस्या:, वारं वारं विलोकनशालिन्येति यावत्। ईदृश्या तया। उत्कण्ठावशात् मुहुर्विलोकनशालिन्या तया त्वद्दर्शनजातहर्षेण सवाष्पमन्थरया दृष्ट्या सर्वमात्मगतं भणितोऽसीति भाव:। व्यङ्ग्यार्थस्तु पूर्ववत्। अश्रुरूपेणा-नुभावेन रते: प्रतीतिरत्रेति सरस्वतीकण्ठाभरणम्।
१. किं ण भणिओ सि बालअ गामणिधूआइ गुरुअणसमक्खम्।
अणिमिसमीसीसिवलन्तवअणणअणद्धदिट्ठेहिं।।७०।।
[किं न भणितोऽसि बालक ग्रामणीपुत्र्या गुरुजनसमक्षम्।
अनिमिषमीषदीषद्वलद्वदननयनार्धदृष्टै:।।]
२. णअणब्भन्तरघोलन्तबाहभरमन्थराइ दिट्ठीए।
पुणरुत्तपेछिरीए बालअ किं जं ण भणिओ सि।।७१।।
[नयनाभ्यन्तरघूर्णमानवाष्पभरमन्थरया दृष्टया।
पुनरुक्तप्रेक्षणशीलया बालक किं यन्न भणितोऽसि।।]
घनतरुणवयसि रसाकुलया कयाचित्सुरतसमये गणपतिमूर्तिरुपधानीकृता। यौवना-वेगशान्तौ तामेव पूजयन्ती सा जरामुपालभते-
शिरसि वितीर्णो युवभिर्गणपतिरिह मम पुरा योऽभूत्।
प्रणमामि बत तमधुना तुष्टा भव हतजरे कामम्।।७२।।१
एकं तद्दिनमासीद्यत्र निर्भरयौवनाया मम तावानावेगोऽभवत्, सर्वमेतदद्य तिरोहितम्। हतायास्तवैव तदिदं कर्तव्यमिति जरां प्रति सासूय उपालम्भ:।
पामरेणापि दु:सहं विरहदु:खमिति कञ्चित्साकूतमुपालभमाना नायिकासखी निदर्शन-विधया आह-
जायाशून्ये भवने हालिकतनयो विदह्यतेऽन्तरत:।
पश्यन् रमितस्थानान्युत्खातनिधानकानीव।।७३।।२
रमितस्य जायया सह रमणस्य स्थलानि, उत्खातं भूमिमुत्खाय गृहीतं निधानं निधिद्रव्यं येभ्यस्तानि, निधिशून्यानि स्थानानीवेत्यर्थ:। पश्यन् सन् अन्तरत: हृदयाभ्यन्तरे दह्यते। निधानकानीवेत्यत्र उत्खातनिधानतया शून्यानि तानि स्थानानि निन्दायोग्यानीति तेषां निन्दाद्योतक: कप्रत्यय:। निधिलाभ इव प्रेयस्या: समागम:, तया विरहित: पामरोऽपि अन्त:पुटपाकं दह्यते किं पुन: सहृदय:। त्वं च पुनरात्मनं रसिकचूडामणिं मन्यसे। ततश्च मत्प्रियसखीविरहमुपेक्ष-माणस्य किं ते वक्तव्यमिति नायकं प्रत्युपालम्भो ध्वन्यते। गङ्गाधरस्तु ''मृतचौरिकामहिलां शोचन्तं कमप्यन्यापदेशेनाह’ इत्यवतरणमुक्त्वा 'विज्ञोपि त्वं मृतचौरिकामहिलां प्रतिशोच-सीत्ययुक्तमिति’’ भावमाह। विरहदु:सहत्वसाधनेन प्रणयसर्वस्वमाविष्कुर्वत्या अस्या गाथाया: 'मृताया: शोको न कर्तव्य:’ इति तात्पर्यकल्पने कियत्स्वारस्यमिति सहृदयैर्विभाव्यम्।
१. जो सीसम्मि विइण्णो मज्झ जुआणेहिँ गणवई आसी। तं व्विअ एह्णिं पणमामि हअजरे होहि संतुट्ठा।।७२।।
[य: शीर्षे वितीर्णो मम युवभिर्गणपतिरासीत्।
तमेवेदानीं प्रणमामि हतजरे भव सन्तुष्टा।।]
२. अन्तोहुत्तं डज्जइ जाआसुण्णे घरे हलिअउत्तो।
उक्खाअणिहाणाइँ व रमिअट्ठाणाइँ पेच्छन्तो।।७३।।
[अन्तरभिमुखं दह्यते जायाशून्ये गृहे हालिकपुत्र:।
उत्खानिधानानीव रमितस्थानानि पश्यन्।।]
मानमङ्गीकृत्य दयितानुनयसुखमनुभवेति सख्योपदिश्यमाना काचिन्निजहृदय-दशामाह-
आपाण्डुरता निद्राभङ्गो दीर्घाश्च नि:श्वासा:।
जायन्ते यद्विरहे तेन समं कीदृशो मान:।।७४।।१
यद्विरहे यस्य विरहे। विरहकार्श्येन आ-ईषत् पाण्डुरता, अधिकाया रोपरूपत्वाद्रसप्राति-कूल्यम्। नाहं तस्य विरहं मनागपि सोढुं क्षमेत्यात्मनोऽनुरागातिशयो द्योत्यते। कथं कुपितासीति नायकेन पृष्टाया धीरानायिकाया उक्तिरियमिति केचित्।
प्रियव्यलीकै: सुभृशमुपतप्ता काचन तं प्रति सप्रणयकोपोपालम्भमाह-
विसृजामि तेन नासून् मन्युभिरभिपूरिता सुभग येन।
म्रियमाणा मा पुनरपि लप्स्ये त्वां त्वद्गतस्वान्ता।।७५।।२
मन्युभिर्हृदयोपतापजातै: क्रोधै: पूरिता 'मन्युर्दैन्ये क्रतौ क्रु धि’ इत्यमर:। बहुवचनेन 'भवता वारंवारमेव विप्रियमाचर्यते येन मे मुहु: क्रोध:’ इति द्योत्यते। असून् प्राणान्। त्वद्गतमना: सती म्रियमाणा जन्मान्तरेऽपि पूर्वसंस्कारवशात्त्वामेव विप्रियकारिणं पतिं येन लभेय, तेन प्राणान्न त्यजामीत्यर्थ:। तव दुश्चेष्टितैर्भृशमुपतप्य दु:खान्म्रियमाणाप्यहं मरणसमयेऽपि भवदनुध्यानं न त्युक्तं क्षमेत्येतावान्मेऽनुराग:। अहो ते सुभगतागर्व इति सुभगसम्बोधनो- ज्जृम्भित उपालम्भ: प्रणयश्चाभिव्यज्यते। लगिष्यामीति प्राकृतशैलीसुभगमपि संस्कृतबन्धे न सुन्दरमिति 'लप्स्ये’ इति परिवर्तितम्।
प्रियापराधै: कुपिता काचिद्विदग्धचर्योचितं सुमधुरमुपालभते-
१. णिद्दाभङ्गो आवण्डुरत्तणं दीहरा अ णीसासा।
जाअन्ति जस्स विरहे तेण समं कीरिसो माणो।।७४।।
[निद्राभङ्ग आपाण्डुरत्वं दीर्घाश्च नि:श्वासा:।
जायन्ते यस्य विरहे तेन समं कीदृशो मान:।।]
२. तेण ण मरामि मण्णूहिँ पूरिआ अज्ज जेण रे सुहअ।
तोग्गअमणा मरन्ती मा तुज्झ पुणो वि लग्गिस्सम्।।७५।।
[तेन न म्रिये मन्युभि: पूरिताद्य येन रे सुभग।
त्वद्गतमना म्रियमाणा मा तव पुनरपि लगिष्यामि।।]
सुभग ते सर्वम्, विश्रब्धमपराध्य।
गुणनिर्भरे हि हृदये प्रतीहि दोषा न मान्त्येव।।७६।।१
सर्वं भवत्कृतमपराधजातं वयं विषहामहे। विश्रब्धं विश्वासेन सहितं यथा स्यात्तथा अपराध्य अपराधान्कुरु। त्वदीयैर्गुणैर्निर्भरे पूर्णे मम हृदये दोषा मान्त्येव न, अवकाशमेव न लभन्ते इति प्रतीहि विश्वसिहि। अहं त्वद्गतचित्ततया बलात्सर्वं विप्रियं सहे। अत एव लब्धसाहसस्त्वम-पराधान् कर्तुं पारयसि। एवंगुणानुरक्तायां मयि नोचितं ते व्यलीककरणमित्युपालम्भो ध्वन्यते। दोषा न मान्त्येवेत्यनेन दोषां प्रतिपदं ते जायन्ते, किन्तु त्वद्गुणानुरक्तहृदयया मया न ते गृह्यन्ते इत्याक्रोशो व्यज्यते। विषहामहे इति बहुत्वोक्तया केवलमस्माभिरेव न अन्याभिरपि त्वयि कृतानुरागामिर्भवदपराधा: सोढव्या भवन्तीति सूच्यते, आत्मगौरवं वा ध्वन्यते। मुहुर्मुहुरपराधेषु सत्स्वपि त्वदनुरागवशीकृतया न मे परिजानासि धैर्यमहो ते सुभगतादर्प इति सुभगपदसहकृतं वस्तु ध्वन्यते। अस्यां गाथायामपराध्यस्वेत्यात्मनेपदं गङ्गाधरकृतच्छायायां व्याकरणविरुद्धत्वाद्विच्छायमेव।
नायकसमीपगामिनं पान्थं प्रति नायिकाया विरहवेदनां प्रतिपादयन्ती सखी सन्दिशति-
भरितोच्चरत्प्रविसृतप्रियसंस्मरणाभिसूचको वाष्प:।
नयनस्थितो वराक्या दु:खपरीवाह इव वहति।।७७।।२
भरित: पूर्ण: अतएव नयनमुत्क्रम्य निर्गच्छन्, प्रविसृत: प्रवृद्ध:। तथा प्रियसंस्मरण-स्याभिसूचको वराक्या दीनायास्तस्या नयनस्थितो वाष्पो दु:खस्य प्रवाह इव वहति। दु:खप्रवाहोऽपि पूर्णत्वे सति आधारदेशमुल्लङ्घ्य गच्छन् प्रियस्मरणसूचको भवतीति द्वयोरपि तदिदं विशेषणम्। नायमश्रुप्रवाह: किन्तु प्रवृद्धत्वाद्बहिर्निर्गच्छन्प्रियविरहजन्मा दु:खप्रवाहोऽ-यमित्यपह्नुतिर्ध्वन्यते। पर्यन्ततस्तु 'विरहवेदनया परिपूर्णं दु:खितामत एव दयनीयामिमां त्वरितं सम्भावयस्व’ इति नायकं प्रति ध्वन्यते। 'नायिकाया विरहार्तिं प्रतिपादयन्ती दूती नायकं
१. अवरज्झसु वीसद्धं सव्वं ते सुहअ विसहिमो अम्हे।
गुणणिब्भरम्मि हिअए पत्तिअ दोसा ण माअन्ति।।७६।।
[अपराध्यस्व विस्रब्धं सर्वं ते सुभग विषहामहे वयम्।
गुणनिर्भरे हृदय प्रतीहि दोषा न मान्ति।।]
२. भरिउच्चरन्तपसरिअपिअसंभरणपिसुणो वराईए।
परिवाहो विअ दुक्खस्स वहइ णअणट्ठिओ वाहो।।७७।।
[भृतोच्चरत्प्रसृतप्रियसंस्मरणपिशुनो वराक्या:।
परीवाह इव दु:खस्य वहति नयनस्थितो वाष्प:।।]
त्वरयितुमाह’ इति गङ्गाधरावतरणम्। अत्र प्रियमेवामिमुखीकृत्य कथनेऽपि पुन: 'प्रियसंस्मरण’ इत्युक्तेर्न स्वारस्यमिति मन्मति:।
नायिकाया: प्रणयातिशयं द्योतयन्ती दूती नायकमाह-
यद्यत्करोषि यद्यज्जल्पसि यद्यन्निरीक्षसे त्वं हि।
दीर्घो दिवसोऽपि भवति, न तत्तदनुशिक्षमाणाया:।।७८।।१
अनुशिक्षमाणाया: तत्तत्पूर्वोक्तं करणादिकमनुशिक्षमाणाया:, अनुकरणं कृत्वा शिक्ष-माणाया:। त्वदाचरणस्य त्वद्भाषणस्य त्वद्विलोकनस्य चानुकरणेन विरहवेदनां विनोदयन्त्यास्तस्या दिवसोऽपि लघुर्भवतीत्यर्थ:। अपिपदेन सम्पूर्णो दिवसोऽपि दीर्घो न प्रतीयत इति सूच्यते। तथाच-त्वन्मयत्वात्त्वद्विरहे त्वद्भावनयैव सा समस्तं दिवसं यापयपि, न देहकार्यमपि करोति, एवं किल तस्यास्तवय्यनुराग इति नायकं प्रति द्योत्यते। जल्पनादेरनुकरणेनतव कृति-भाषणादिकं तस्या हृदि तथा मधुरं प्रतीयते यथा सा स्वयमपि तदनुकरणे विवशा भवतीति गुणमुग्धत्वसूचनेन नायकप्रोत्साहनं ध्वन्यते। जं जं करेसीत्यादिवाक्यद्वये वीप्सायामपि, तृतीये 'जह तुम’ इत्युपलब्धपाठे तद्भङ्ग:, परं मच्छायायां तत्रापि वीप्सानिर्वाह इति द्रष्टव्यम्। 'जह तुम’ इत्यत्र यथा येन प्रकारेण त्वं पश्यसीति प्रकारनिर्देशान्न वीप्साया आवश्यकतेति सिद्धस्य समाधानम्।
रात्रौ निवासार्थं स्थानं शयनीनं च याचते पथिकाय कयाचित्साक्रोशं तृणान्येव दत्तानि। अनन्तरं तु तद्रूपलावण्यमुग्धा सा तेन संसक्ताभूत्। अत एव तद्गुणमुग्धतया प्रभाते विरहाकातरायास्तस्या अवस्थां स्वमार्मिकताप्रदर्शनाय नागरिक: सहचरमाह-
शयितुं हि भर्त्सयन्त्या तृणानि दत्तानि यानि पथिकस्य।
तान्येव हन्त रुदती वरतनुराकर्षति प्रात:।।७९।।२
१. जं जं करेसि जं जं जप्पसि जह तुम णिअच्छेसि।
तं तमणुसिक्खिरीए दीहो दिअहो ण संपडइ।।७८।।
[यद्यत्करोषि यद्यज्जल्पसि यथा त्वं निरीक्षसे।
तत्तदनुशिक्षणशीलाया दीर्घो दिवसो न सम्पद्यते।।]
२. भण्डन्तीअ तणाइं सोत्तुं दिण्णाइँ जाइँ पहिअस्स।
ताइं च्चेअ पहाए अज्जा आअट्टइ रुअन्ती।।७९।।
[भर्त्सयन्त्या तृणानि स्वप्तुं दत्तानि यानि पथिकस्य।
तान्येव प्रभाते आर्या आकर्षति रुदती।।]
सं. गा... १७
भर्त्सयन्त्या नात्र स्थानमिति कलहं कुर्वाणया। शयितुं शयनार्थम्। वरतनुरार्या। तद्गत-चित्ततया तान्येव तृणानि रुदती सती आकर्षति। पूर्वं यानि तृणान्यवहेलया शयानार्थं दत्तानि, तान्येव पथिकगुणस्मरणाद्रुदत्या पथिकाङ्गसङ्गभावनया सगौरवमवचितानीत्यर्थ:। पथिकास-क्तहृदयतया तद्विरहे सा भृशमुत्ताप्तभूदिति स्वस्य प्रणयपरिज्ञानपाटवं सुहृदं प्रति सूच्यते वक्त्रा।
गृहजनभयेन मनोऽभिलषितामपि नायिकां नोपसरन्तं नायकं सत्पुरुषस्वभाववर्णन-च्छलेन दूती बोधयति-
व्यसनेऽनुद्विग्ना: किल भयेऽपि धीरा अगर्विता विभवे।
अविषमशीला: सन्ति हि समेषु विषमेषु सत्पुरुषा:।।८०।।१
व्यसने दु:खे उद्वेगरहिता:। भये उपस्थितेऽपि अविचलचित्ता:। समेषु आत्मनोऽनु-कूलेषु, विषमेषु आत्मन: प्रतिकूलेषु उभयविधेष्वपि सत्पुरुषा: अविषमशीला अभिन्नस्वभावा भवन्ति, स्वभाववैषम्यं न दर्शयन्तीत्यर्थ:। भयं परिहाय धैर्येण कार्यं कर्तव्यमिति दूत्या नायकप्रोत्साहन-मभिव्यज्यते। 'कोऽपि सहचरस्य गाम्भीर्यशिक्षार्थ सत्पुरुषप्रशंसामाह’ इति गङ्गाधरावतरणम्।
प्रात: प्रियतमास्मरणोत्कण्ठया गीतं पथिकजनगीतमाकर्ण्य समुद्दीपितविरहहुतवहा काचित्प्रोषितपतिका सखीमाह-
अद्य सखि केन कल्ये कामपि मन्ये स्ववल्लभां स्मरता।
अस्माकं स्मरविशिखाहतहृदयव्रणविघट्टनं गीतम्।।८१।।२
१. वसणम्मि अणुव्विग्गा विहवम्मि अगव्विआ भए धीरा।
होन्ति अहिण्णसहावा समेसु विसमेसु सप्पुरिसा।।८०।।
[व्यसनेऽनुद्विग्ना विभवेऽगर्विता भये धीरा:।
भवन्त्यभिन्नस्वभावा: समेषु विषमेषु सत्पुरुषा:।।]
२. अज्ज सहि केण गोसे कं पि मणे वल्लहं भरन्तेण।
अम्हं मअणसराहअहिअअव्वणफोडनं गीअम्।।८१।।
[अद्य सखि केन प्रात: कामपि मन्ये वल्लभां स्मरता।
अस्माकं मदनशराहतहृदयव्रणस्फोटनं गीतम्।।]
कल्ये प्रात:। 'प्रत्यूषोऽहर्मुखं कल्यं, इत्यमर:। स्वां वल्लभां स्मरतां, रात्रौ मार्गगमनश्रमेण कथञ्चिदायाता निद्रा। अत एव अतिप्रत्यूषे निद्राभङ्गोत्तरं पुन: प्रियास्मरणमनुवृत्तमिति विरहातिशयो व्यज्यते। केन केनचित्। स्मरविशिखैराहतं यद् हृदयं तस्य व्रणानां विघट्टनं स्फोटनं यस्मिन्कर्मणि यथा भवति तथा गीतम्। कामबाणैर्विद्धस्य विरहिहृदयस्य पीडा प्रात:- काले कथञ्चित्सह्यवेदना जातापि, करुणकरुणेन पथिकगीतेन स्फुटितव्रणदधिकदु:-सहाभूदित्यर्थ:। तद्धृदयस्य चित्तौत्सुक्यादिकं भावनया आत्मसम्बन्धि समभवदत एव प्रियतमविरहानल: समुददीप्यते भृशं प्रियचिन्तया नायिकागतस्यानुरागस्यातिशय: प्रीतयते।
भाविन: सपत्नीर्ष्यादु:खस्य भावनामात्रमपि सपत्नीजनं पीडयतीति काचित्प्रौढा स्ववयस्यामाह-
आलोक्य मुग्धवध्वा: स्तनौ समुदन्यमहारम्भौ।
दीर्घं प्रथमगृहिण्या ह्यवसन्नकपोलया श्वसितम्।।८२।।१
सम्मुदयन् उत्तिष्ठन् महान् आरम्भ: प्रारम्भदशा ययोस्तौ। अवसन्नौ शुष्कौ कपोलौयस्या-स्तया। आरम्भदशायामेव स्तनयोरियान् परिणाहस्तर्हि पूर्णयौवने परस्पराश्लिष्टपीनपयोधराया अस्या: सौन्दर्य कीदृग्भावीति भावनीयमेवेति भाव:। मुग्धवध्वा इत्यनेन 'साम्प्रतमस्या मुग्धता, पूर्णयौवनोपलब्धौ प्रवर्धमानसौन्दर्यामिमामालक्ष्य पतितकुचायां मयि शिथिलानुरागो भविष्यति वल्लभ:’ इति चिन्ताख्यसञ्चारिभावेन दीर्घनि:श्वासरूपानुभावेन च प्रथमपत्नीगतस्य नायकालम्ब-नस्यानुरागस्य परिपोषो भवतीति सहृदयैरास्वादनीयम्। गृहिणीपदेन-गृहप्रबन्धमात्रे तस्या अधिकार: स्याद्दयितस्य विषये तु मुग्धाया एव प्रभुत्वं भवेदिति चिन्तातिशयो ध्वन्यते। दीर्घं श्वसितमित्यनेन भाविनीं तामिमां हृदयवेदनां कस्मै प्रकाशयामीति निगूढो दु:खातिशयो ध्वन्यते। ''आयतिखेदकरं तदात्वेऽपि खेदयतीति निदर्शयन्कोऽपि सहचरमाह’’ इति गङ्गाधर:।
शिथिलानुरागं नायकं श्रावयितुं काचित्करिकरेण्वोरनुरागं व्यपदेशेनाह-
१. उट्ठन्तमहारम्भे थणए दट्ठूण मुद्धवहुआए।
ओसण्णकवोलाए णीससिअं पढमघरिणीए।।८२।।
[उतिष्टन्महारम्भौ स्तनौ दृष्ट्वा मुग्धवध्वा:।
अवसन्नकपोलया नि:श्वसितं प्रथमगृहिण्या।।]
विकलस्यापि क्षुधया वल्लभकरिणीमुखं स्मरत:।
सरसो मृणालकवलो गजस्य कर एव संम्लान:।।८३।।१
क्षुधया विकलस्यापि अत्यन्तं क्षुधातुरस्यापि। वल्लभाया: करिण्या मुखम्। कर एव संम्लान इत्यनेन क्षुधातिशायन्मृणालकवलं परित्यक्तुमपि न शक्नोति, प्रियास्मरणात्तं भोक्तुमपि न पारयतीति जडताख्यसञ्चारिभावोऽभिव्यज्यते। तथा च-मदमत्तत्वेन जगति प्रसिद्ध: पशुर्गजोऽपि निजप्रेयस्यामेवं स्निह्यति, भवान्परमसहृदयोऽपि मामपहाय अन्यत्रानुरज्यसि, अहो भवतो दाक्षिण्यमिति गूढोपालम्भो ध्वन्यते। क्षुधाकुलस्यापीत्यनेन क्षुधया भोजनस्यावश्यकतायां सत्यामपि गजो न तं भुङ्क्ते, भवांस्तु मत्सत्तया उत्कण्ठापनयेन उत्कटावश्यकताऽभावेऽपि अन्याभि: सङ्गच्छते इत्युपालम्भेऽतिशय: सूच्यते। करिणीमुखमित्यनेन पूर्वं तस्या मुखे कवलं समर्प्य पश्चान्मया भोक्तव्यमिति मत्या रतेरतिशय: प्रतीयते। स्वभावत: सरसस्यापि मृणालस्य सरसो म्लान इति सरसताविशेषणेन सद्यस्कत्व जललवलाञ्छितत्वं च लक्ष्यते, ततश्च तथाविधस्यापि म्लानिवर्णनाद्विलम्बो व्यज्यते।
मानावलम्बनेऽपि प्रियतमेन सह दाक्षिण्येन वर्तितव्यमित्युपदिशन्ती काचिद्धीराया नायिकाया: प्रियतमेन सह परस्परसन्लापं वर्णयति-
दयिते प्रसीद, कुपिता का, सुतनु त्वम्, परेऽस्ति क: कोप:।
कोस्तिपरो, नाथ त्वम्, किमिति हि, मम दुरितशक्तिरियम्।।८४।।२
परे अपरस्मिन् स्नेहसम्बन्धरहिते इति यावत्। मम दुरितानामपुण्यानामियं शक्तिर्यत्त्वं स्वोऽपि पर: संवृत्त इति भाव:। मे अपुण्यानामित्यनेन, ता: किल पुण्यवत्यो यासु त्वमनुरज्य-सीति दयितश्लाघा चोपालम्भश्च सूच्यते। तथाच-सपत्नीस्नेहसक्ततया पर इव मयि व्यवहरसीत्यु-
१. गरुअछुहाउलिस्स वि वल्लहकरिणीमुहं भरन्तस्स।
सरसो मुणालकवलो गअस्स हत्थे च्चिअ मिलाणो।।८३।।
[गुरुकक्षुधाकुलितस्यापि वल्लभकरिणीमुखं स्मरत:।
सरसो मृणालकवलो गजस्य हस्त एव म्लान:।।]
२. पसिअ पिए का कुविआ सुअणु तुमं परअणम्मि को कोवे।
को हु परो नाथ तुमं कीस अपुण्णाण मे सत्ती।।८४।।
[प्रसीद प्रिये का कुपिता सुतनु त्वं परजने: क: कोप:।
क: खलु परो नाथ त्वं किमित्यपुण्यानां मे शक्ति:।।]
पालम्भेन नायिकाया: सधैर्य: प्रणयकोपोऽभिव्यज्यते। दयिते इति सम्बोधनेन 'त्वं मे अत्यन्तं प्रेयसी, अत एव त्वत्प्रसादं विना न मे मनस्तोष:’ इति प्रियतमेव यथा निजप्रणयातिशय: सूच्यते तथा पर: कोऽस्ति? इति प्रश्नस्योत्तरे 'नाथ त्वम्’ इति सम्बोधयन्त्या तयापि 'प्रियपत्न्या मम नियमत: स्वामी सन्नपि मां मुखेन दयिते इति व्यपदिशन्नपि त्वं पर इवाविचारसुखदु:-खपरिणामं व्यवहरसि, यत: प्रत्यक्षमेव मत्सपत्नीषु स्निह्यसि, अहो तेऽलौकिक: प्रणय: स्नेहसद्व्यवहारश्चेति गूढोपालम्भेऽतिशयो ध्वन्यते।
विप्रलब्धाया विरहवेदनामनुरागातिशयं च सूचयन्ती दूती नायकमाह-
निमिषमिव हि जागरितं रात्रे: प्रथमार्धमेष्यसि त्वमिति।
सन्तापपरवशाया वर्षमिव व्यतिगतं शेषम्।।८५।।१
त्वमेष्यसि इत्युत्साहेन रात्रे: प्रथमार्धं निमिषमिव निमेष इव जागरितम्, तयेति शेष:। रात्रे: प्रथमार्धमित्यत्यन्तसंयोगे द्वितीया। सम्पूर्णेऽप्यर्धरात्रे सा सोत्साहं जागरितवतीति भाव:। शेषम् अवशिष्टमर्द्धं सन्तप्तायास्तस्या नायिकाया वर्षमिव व्यतिक्रान्तम्। शेषोऽस्या-स्तीत्यर्श आद्यच्, अन्यथा क्लीवतानुपपत्ते:। संस्कृते तु पुंस्त्वमेव साधु। तव समागमस्य भावना-मात्रेणापि कालहरणं न दु:खकरम्, वियोगे तु घटिका अपि वर्षायन्त इति नायकानुरागो ध्वन्यते। भावनामात्रेणापि तावान्सुखातिशयस्त्वत्समागमे तु किं वाच्यं तस्या इति तदतिशयो द्योत्यते।
वैचित्त्येन भ्राम्यन्तीं प्रोषितपतिकां भूतोन्मादभयात्परिहरन्तं जनं प्रति तत्सखीं सदैन्यमाह-
अवलम्बध्वं भ्राम्यति नेयं ग्रहलङ्घिता न शङ्कध्वम्।
आकस्मिकघनरसितोद्भ्रान्तत्रस्तान्तरा पथिकजाया।।८६।।२
१. एहिसि तुमं त्ति णिमिसं व जग्गिअं जामिणीअ पढमद्धम्।
सेसं संतावपरव्वसाइ वरिसं व वोलीणम्।।८५।।
[एष्यसि त्वमिति निमिषमिव जागरितं यामिन्या: प्रथमार्धम्।
शेषं सन्तापपरवशाया वर्षमिव व्यतिक्रान्तम्।।]
२. अवलम्बह मा सङ्कह ण इमा गहलङ्घिआ परिब्भमइ।
अत्थक्कगज्जिउब्भन्तहित्थहिअआ पहिअजाआ।।८६।।
[अवलम्बध्वं मा शङ्कध्वं नेयं ग्रहलङ्घिता परिभ्रमति।
आकस्मिकगर्जितोद्भ्रान्तत्रस्तहृदया पथिकजाया।।]
भूतादिग्रहै: लङ्घिता आक्रान्ता इयं न भ्राम्यति। इमामवलम्बध्वम्। अवलम्बनदानेन गमनान्निवारयत। न शङ्कध्वम् उन्मादशङ्कया नोद्विजत। आकस्मिकं यद् घनरसितं मेघगर्जितं तेनोद्भ्रान्तं त्रस्तं च अन्तरं मानसं यस्या: सा। सहसा मेघगर्जनादेव तावानुत्कण्ठोदय:, प्रावृषि निरन्तरं वर्षत्सु वारिदेषु तु न जाने किं भावीति प्रोषितपतिकाया विरहवेदनातिशयो द्योत्यते। 'हित्थम्’ त्रस्तम्।
नायिकाया गुणोत्कर्षं सूचयन्ती सखी बहुवल्लभाप्रणयिनं नायकं मधुकरव्यपदेशेनाह-
केसररज:समूहे मकरन्दो भवति सरसिजे यावान्।
अन्यत्रापि हि तावांस्तदा भ्रमन् शोभसे भ्रमर।।८७।।२
सरसिजे, केसररजसां किञ्जल्कपरागाणां समूहे। 'किञ्जल्क: केसरोऽस्त्रियाम्’ इत्यमर:। उभयत्राप्याधारतया सप्तमी। कमलगतकेसररज:समूहे इति तात्पर्यम्। यावान् मकरन्दो रसो भवति, अन्यत्रापि पुष्पे तावानेव मकरन्दो भवेत्तदा भ्रमन् शोभसे। भ्रमरेतिसम्बोधनेन रसिकतया नानापुष्पेषु भ्रमणं यथा तत्स्वभावस्तथा तवापि नानाविधस्त्रीलम्पटत्वमित्याक्षेप:। तथा च-न तावानन्यमहिलासु गुणोत्कर्षों यावान्मत्सख्याम्, तथापि त्वमन्यत्र व्रजसि। अहो ते गुणपरिचयवैमुख्यमित्युपालम्भो ध्वन्यते। 'स्वस्य गुणोत्कर्षं ख्यापयन्ती काचित्कान्तमाह- इति गङ्गाधर:। स्वमुखेन स्वगुणवर्णने न दाक्षिण्यमिति मन्मति:।
स्वभावसुन्दराणां विकृतिरपि श्रियमेव तनोति न वैरूप्यमिति निदर्शयन्कोऽपि सहचरमाह-
प्रेक्षन्तेऽनिमिषाक्षा: पथिका हलिकस्य पिष्टपाण्डुरिताम्।
तनयां दुग्धसमुद्रोत्तरत्सुलक्ष्मीमिव सतृष्णा:।।८८।।२
१. केसररअविच्छड्डे मअरन्दो होइ जेन्तिओ कमले।
जइ भमर तेन्तिओ अण्णहिंपि ता सोहसि भमन्तो।।८७।।
[केसररज:समूहे मकरन्दो भवति यावान्कमले।
यदि भ्रमर तावानन्यत्रापि तदा शोभसे भ्रमन्।]
२. पेच्छन्ति अणिमिसच्छा पहिआ हलिअस्स पिट्ठपण्डुरिअम्।
धूअं दुद्धसमुद्दुत्तरन्तलच्छिं विअ सअह्णा।।८८।।
[प्रेक्षन्तेऽनिमिषाक्षा: पथिका हलिकस्य पिष्टपाण्डुरिताम्।
दुहितरं दुग्धसमुद्रोत्तरल्लक्ष्मीमिव सतृष्णा:।।]
अनिमिषनयना देवा दुग्धसमुद्रादुत्तरन्तीमत एव पाण्डुरितां लक्ष्मीं यथापश्यन् तथा सतृष्णा: सलालसा: पथिका: पिष्टेन तण्डुलगोधूमादिचूर्णेन पाण्डुरितां हालिकस्य तनयाम-निमिषा: सन्त: प्रेक्षन्ते। तथा च-अस्माक मध्ये कस्य वा भवेल्लाभसौभाग्यमिति यथा तेऽचिन्तयं-स्तथैतेऽपीति पथिकौत्सुक्येन हालिकसुताया: सौन्दर्यातिशयो ध्वन्यते। 'हालिकसुतामपि सतृष्णं पश्यतामेषां गृहे वासो न देय:’ इति सुहृदं प्रति नागरिकस्योक्तिरिति केचित्।
कलहान्तरितायास्तस्या: शीघ्रमेव मनोवेदनाऽपनेयेती दूती नायकमाह-
कं स्मरसीति निगदिते क: किल मेऽस्तीति जल्पन्त्या।
उद्विग्नं च रुदत्या वयमपि बहु रोदिता हि तया।।८९।।१
मम क: स्नेहानुवृत्तिपरोऽस्तीति जल्पन्त्या। प्रियतमो यदि ममाभविष्यत्तर्हि न मामेवमखेदयिष्यदिति भाव:। सोद्वेगं रोदनेन प्रियतमप्रणयविच्छेदस्मरणाद्दु:खातिशयो जात इत्याकूतम्। तस्या रोदनेन अहमपि अरोदमिति भाव:। तथा च निरन्तरमपराधैस्तव प्रणयभङ्गा-नुमानान्निरतिशयं खिन्ना सा त्वरितमनुनेयेति नायकं प्रत्यभिव्यज्यते।
बहुविधेनाप्यनुनयेन मानमत्यजन्तीं नायिकां सखी सरोषमाह-
पदयो: पतितमभव्ये नोत्थापयसि प्रियं नु किमिदानीम्।
अवसानमेतदेव प्रेम्णो दूरं गतस्यापि।।९०।।२
१. कस्स भरिसि त्ति भणिए को मे अत्थि त्ति जम्पमाणाए।
उव्विग्गरोइरीए अम्हे वि रुआविआ तीए।।८९।।
[कस्य स्मरसीति भणिते को मेऽस्तीति जल्पमानया।
उद्विग्नरोदनशीलया वयमपि रोदितास्तया।।]
२. पाअपडिअं अहव्वे किं दाणिँ उट्ठेवेसि भत्तारम्।
एअं विअ अवसाणं दूरं पि गअस्स पेम्मस्स।।९०।।
[पादपतितमभव्ये किमिदानीं नोत्थापयसि भर्तारम्।
एतदेवावसानं दूरमपि गतस्य प्रेम्ण:।।]
अभव्ये इति सखीं प्रति सप्रणयरोषं सम्बोधनम्। दूरं गतस्यापि अतिप्रवृद्धस्यापि प्रणयस्य एतदेव पदप्रणामरूपमेव अवसानं चरमसीमा। एवं च, इदानीमपि यद्यनुनयं न ग्रहीष्यसि तर्हि प्रियतमस्य द्वेष्या भविष्यसीति सूच्यते। दूरं गतस्यापीत्यपिना 'अतिमानं मानं कुर्वती त्वं प्रणयस्य चरमसीमानं परीक्षसे, ततश्च भवदभीष्टा सेयं प्रेम्ण: परा काष्ठैवेति’ नायिकाया: प्रेमातिशयकामना सूच्यते। इह भर्तारमितिस्थाने प्रियमितिपदं तु 'एवं त्वत्प्रणयपरिपालनेनायमपि तेऽवश्यं प्रीतिपात्रतामर्हति, ततश्चैतादृशं प्रियमपि प्रणमन्तं किं नोत्थापयसि’ इति भर्तृपदापेक्षयाधिकमेव स्वारस्यं पुष्णातीति सहृदया: परीक्षेरन्।
आत्मनो विपरीतरतपाटवप्रकटनेन शृण्वन्तं कान्तमुत्कण्ठयन्ती काचित्सखीमाह-
तटविनिहिताग्रहस्ता वारितङ्गैर्भ्रमन्नितम्बेयम्।
शालूरी प्रतिबिम्बे विभाति पुरुषायमाणेव।।९१।।१
भ्रमन्नितस्तत: प्रचलन्नितम्बो यस्या: सा। शालूरी मण्डूकी, 'भेके मण्डूकवर्षाभूशा-लूरप्लवदर्दुरा:’ इत्यमर:। प्रतिबिम्बे जलान्त: स्वीयप्रतिच्छायाया उपरि, विपरीतरतोचितं पुरुषायितं कुवाणेव प्रतिभाति। 'अस्मिन्बन्धेऽहमपि नितम्बपरिचालनचतुरास्मि, येन भवेत्ते मनस्तोष:’ इति शृण्वन्तं कान्तं प्रत्यभिव्यज्यते। 'आत्मनो विपरीतरताभिलाषं सूचयन्ती नायिका कान्तमाह’ इति गङ्गाधरावतरणम्।
कुसुम्भवाटिकायां कृतसुरता काचिदात्मन: सुरतचिह्नगोपनार्थमाह-
सीत्कृतमुखपरिवेपितमणितविधुतहस्तशिञ्जितव्यानि।
शिक्षन्तां कुलबाला: कुसुम्भ युष्मत्प्रसादेन।।९२।।२
१. तडविणिहिअग्गहत्था वारितरङ्गेहिँ घोलिरणिअम्बा। सालूरी पडिबिम्बे पुरिसाअन्तिव्व पडिहाइ।।९१।।
[तटविनिहिताग्रहस्ता वारितङ्गैर्घूर्णनशीलनितम्बा।
शालूरी प्रतिबिम्बे पुरुषायमाणेव प्रतिभाति।।]
२. सिक्किरिअमणिअमुहवेविआइँ धुअहत्थसिञ्जिअव्वाइं।
सिक्खन्तु वोडहीओ कुसुम्भ तुम्ह प्पसाएण।।९२।।
[सीत्कृतमणितमुखवेपितानि धुतहस्तशिञ्जितव्यानि।
शिक्षन्तु कुमार्य: कुसुम्भ युष्मत्प्रसादेन।।]
सीत्कृतं सीत्कार:, मुखपरिवेपितं 'स्फुरितकादिषु’ चुम्बनविशेषेषु अधराद्यपसारणार्थं मुखस्य परिचालनम्। 'वदने प्रवेशितं चौष्ठं मनागपत्रपावग्रहीतुमिच्छन्ती स्पन्दयति स्वमोष्ठं नोत्तरमुत्सहत इति स्फुरितकम्’ इति वात्स्यायन:। मणितं रते कूजितविशेष:। विधुतहस्तं यथा स्यात्तथा शिञ्जितव्यं भूषणझणत्कार:। एतानि सीत्कृतादीनि नखक्षताधरखण्डमुष्ट्याघातैरपि भवन्ति, कण्टकवेधेनापि च भवन्ति। एवं च सीत्कारदयो मम कुसुम्भकण्टकक्षताज्जाता:, न तु सुरतेनेति नायिकाकृतं वृत्तसुरतगोपनं ध्वन्यते। मूलस्थितस्य 'बोडही’ शब्दस्य कुमारी तरुणी वेति सन्देहग्रस्तेव गङ्गाधरादिकृता छाया। कुलबालापदेन तु तदुभयं सङ्गृह्यते। स्वभावतो लज्जाशालिनीनां कुलललनानां लज्जाप्रतिद्वन्द्विसीत्कारदिकं को वा शिक्षयेदतो हे कुसुम्भ भवत एवायं प्रसाद:। एवं च नाहं सुरतकाले जायमानमेवंविधं वैयात्यं जानामि, कुलजत्वादिति स्वस्य सारल्यं सूच्यते। 'शिक्षन्तु’ इति गङ्गाधरटीकापुस्तकेषूपलभ्यमान: परस्मैपदपाठस्तु व्याकरणविरुद्ध एव।
शृण्वन्तं निजमुपपतिं प्ररोचयितुं काचित्तं प्रत्यनुरागातिशयं सूचयन्ती व्यपदेशेनाह-
यावन्मात्रा रथ्या नितम्ब तावान्कथं न जातोऽसि।
यत्स्पृश्यते हि गुरुजनलज्जापसृतोऽपि सुभगोऽसौ।।९३।।१
यावत्परिमाणं यस्या इति यावन्मात्रा। प्रमाणे मात्रच्। यत् येन, गुरुजनानां लज्जावशाद् रथ्याया: प्रान्तभागेन अपसृतोऽप्यसौ स्पृश्यते। अस्मान्परिहृत्याऽपसृतस्यापि तव स्पर्शमात्रमपि अस्माभि: सबहुमानमाशास्यते, पश्य ते सौभाग्यमिति सुभगपदसहकारेण ध्वन्यते। हस्तादिना स्पर्शे सति लोकानां परिज्ञानं स्यात् जनसम्बाधे नितम्बस्पर्शे तु न कस्यचित्सन्देह: प्रत्युतानन्दा-वाप्तिरित्याशय:।
सङ्केतनिकेतनीकृते नास्मिंस्तृणलतागृहे त्वमागत: इति कञ्चन कामुकं सूचयन्ती दूती तस्य जनसञ्चारशून्यतां वर्णयति-
१. जेत्तिअमेत्ता रच्छा णिअम्ब कह तेत्तिओ ण जाओसि।
जं छिप्पइ गुरुअणलज्जिओ सरन्तो वि सो सुहओ।।९३।।
[यावत्प्रमाणा रथ्या नितम्बं कथं तावन्न जातोऽसि।
येन स्पृश्यते गुरुजनलज्जापसृतोऽपि स सुभग:।।]
मौक्तिकमायतकण्ठो मरकतसूचीनिविद्धमिव पिबति।
प्रावृट्काले बर्ही तृणाग्रसङ्गतमुदकबिन्दुम्।।९४।।१
बर्ही मयूर: प्रावृटकाले मरकतसूचीनिविद्धं हरितवर्णस्य गारुत्मतमणे: सूच्या तनुश-लाकया निबिद्धं कृतच्छिद्रतया प्रोतं मौक्तिकमिव स्थितं तृणाग्रसङ्गतं जलबिन्दूम्, आयतकण्ठ: सन् पिबति। पानसमये जलबिन्दुपर्यन्तं चञ्चुसञ्चालनार्थं लम्बायमानग्रीवो भवतीत्यर्थ:। वर्षाकाले जलबिन्दुसुन्दरतृणपटलशोभास्वभावस्य, पानकाले मयूरस्वभावस्य च वर्णनात्स्वभावोक्ति:। वृष्टेरनन्तरं तृणाग्रलग्नो जलबिन्दुर्मयूरेण पीयत इत्यनेन स्थानस्य जनसञ्चारशून्यता सूच्यते। [जनसञ्चारे सति कम्पनेन तृणाग्रभागे जलबिन्दोरवस्थितिर्न स्यात्।] तेन त्वं सङ्केतस्थानेऽ-स्मिन्नागत इति दूत्या ध्वन्यते। मरकतसूच्या मौक्तिकवेधवत् दुष्प्रापया तया नायिकाया तव समागमोऽसम्भावित एवेति दूती सूचयतीति केचित्। 'तृणलतागृहं सङ्केतस्थानमिति जारं श्रावयन्ती काप्याह’ इति गङ्गाधर:।
अभिसारसमये कञ्चुकपरिधानोत्तरं जायमानां नायिकालावण्यशोभां कामुकमनस्तोषाय दूती वर्णयति-
भाति सुतनुकुचपृष्ठं सुनीलकञ्चुकभृतोर्वरितम्।
जलभृतसलिलधरान्तरदरोद्गतं चन्द्रबिम्बमिव।।९५।।२
१. मरगअसूईविद्धं व मोत्तिअं पिअइ आअअग्गीओ।
मोरो पाउसआले तणग्गलग्गं उअअबिन्दुम्।।९४।।
[मरमतसूचीविद्धमिव मौक्तिकं पिबत्यायतग्रीव:।
मयूर: प्रावृट्काले तृणाग्रलग्नमुदकबिन्दुम्।।]
२. अज्जाइ णीलकञ्चुअभरिउव्वरिअं विहाइ थणवट्टम्।
जलभरिअजलहरन्तरदरुग्गअं चन्दबिम्ब व्व।।९५।।
[आर्याया नीलकञ्चुकभृतोर्वरितं विभाति स्तनपृष्ठम्।
जलभृतजलधरान्तरदरोद्गतं चन्द्रबिम्बमिव।।]
सुन्दरे नीलकञ्चुके भृते च उर्वरितं च। नीलकञ्चुलिकामापूर्य महत्त्वादुर्वरितमित्यर्थ:। सुतनो: कुचमण्डलम्, जलभृततया सान्द्रश्यामस्य सलिलधरस्य मेघस्य अन्तरात् दरोद्गतम् ईषन्निर्गतं चन्द्रमण्डलमिव भाति। अनया चन्द्रोपमया, परमाह्लादजनकगौरमञ्जुलशरीरयष्टि:। सा त्वामद्यैवाभिसरिष्यति, पश्य ते भाग्यवैभवमिति वस्तु दूत्या नायकं प्रत्यभिद्योत्यते।
प्रवासाय कृतोद्यमं वल्लभं निवारयितुं काचिद्वसन्तसमयस्य पथिकजनभयहेतुतां वर्णयति-
पथिक: पथिकस्य कथां राजविरुद्धामिवाह साशङ्कम्।
यत आम्राणां पर्णं तत ईषन्निर्गतं किमपि।।९६।।१
आम्रवृक्षाणां यतो यस्मात् स्थानात् पत्रं निर्गच्छति तत:। ईषत्किञ्चिद्दृश्यमानं किमपि निर्गतमिति राजविरुद्धां कथामिव सभयशङ्कं पथिक: पथिकस्याह कथयति। अङ्कुर इत्यनुक्त्वा किमपीति कथनेन नामग्रहणेऽपि भयोत्पादात्पथिकस्य भयाकुलता द्योत्यते। राजविरुद्धक-थाजल्पेन यथा वक्तुर्भयं भवति तथा पथिकस्यापि आम्राङ्कुरकथाकथने भीतिरिति भाव:। ईषन्निर्गतमित्यनेन वसन्तविजृम्भणसूचिका यावदाम्राणां मञ्जरी समग्रं न निर्गच्छति तावदेव प्रवास: समापनीय इति पथिकं प्रत्यभिव्यज्ते। तथा च वसन्तसमये प्रवासं गतस्य तवापि सेयं दशा भाविनीति परिहर गमनमिति नायकं प्रति नायिकायाभिव्यज्यते। अस्यां गाथायां 'राअविरुद्धं व’ इत्यस्य 'राजविरुद्धामपि’ इति गङ्गाधरच्छाया तु अनक्षरर्थत्वाद्विच्छायैव।
स्वप्ने प्रियसन्दर्शनेन विनोदयन्ति विरहवेदनां वनिता: प्रायश इति विरहविनोदप्रस्तावे सखीभिरुक्ता कदाचिदात्मनोऽनुरागं प्रथयन्त्याह- सखीभिरुक्ता काचिदात्मनोऽनुरागं प्रथयन्त्याह-
धन्यास्ता महिला या दयितं स्वप्नेऽपि वीक्षन्ते।
तेन विना मम निद्रैव नैति का प्रेक्षते स्वप्नम्।।९७।।२
१. राअविरुद्धं व कहं पहिओ पहिअस्स साहइ ससङ्कम्।
जत्तो अम्बाण दलं तत्तो दरणिग्गअं किं पि।।९६।।
[राजविरुद्धामपि कथां पथिक: पथिकस्य कथयति सशङ्कम्।
यत आम्राणां दलं तत ईषन्निर्गतं किमपि।।]
२. धण्णा ता महिलाओ जा दइअं सिविणए वि पेच्छन्ति।
णिद्द व्विअ तेण विणा ण एइ का पेच्छए सिविणम्।।९७।।
[धन्यास्ता महिला या दयितं स्पप्नेऽपि प्रेक्षन्ते।
निद्रैव तेन विना नैति का प्रेक्षते स्वप्नम्।।]
नैति नागच्छति। दयितदर्शनं विनैव स्वस्थानां यासां निद्रा आयाति, प्रियप्रणयरहितास्ता न धन्या इति स्तुतिव्याजेन निन्दाप्रदर्शनाद्व्याजस्तुतिर्वाच्योऽलङ्कार:। तेन च ता: अधन्या: प्रियप्रणयशालिनी अहं तु धन्येति व्यतिरेकालङ्कारो ध्वन्यते। पर्यन्ते तु तद्विरहिण्या मम स्वप्नेऽपि तद्दर्शनं सुदुर्लर्भमिति प्रियतमरतिपरिपोषाद्विप्रलम्भध्वनिरित्यलम्।
लावण्यशालिनीमपि सारल्याद्वन्यवेषभूषितां काञ्चन सुन्दरीमवधीरणदृशा पश्यन्तं नायकं प्रतिबोधयितुं दूती अन्यापदेशेनाह-
परिरन्धकनककुण्डलगण्डस्थलमञ्जुनो: श्रवसो:।
अपि समयान्तरवशतो ध्रियते किल तालवृन्तयुगम्।।९८।।१
परिरब्धे चुम्बिते स्पृष्टे इति यावत् कनककुण्डले येन ईदृशे गण्डस्थले मञ्जुनो: शोभाशालिनो:। श्रवसो: कर्णयोरपि समयान्तरवशात् तालवृन्तयुगं तालपत्रकर्णभूषणद्वयं ध्रियते। परिरब्धेत्यनेन कपोलयोर्निबिड: स्पर्शो लक्ष्यते, तेन च उत्तुङ्गमांसलतया नायिकाकपोलयो: सौन्दर्यं ध्वन्यते। तथा च-कनककुण्डलमण्डितयोर्निसर्गसुन्दरीकपोलयोर्यथा समयान्तरे तालपत्रताटङ्कधारणेनापि न परिहीयते शोभा, तथैव नेयं सरलवेषभूषिता निसर्गसुन्दरी तिरस्कारदृशा विलोकनीयेति दूत्याभिद्योत्यते। अस्यां गाथायां 'तत्थवि’ इति पाठ:, 'तत्रापि’ इति च्छायाकरणं च केषाञ्चिदविचार एव। तत्रापि श्रवसोरिति विधेयाविमर्शात् [याभ्यां कनककुण्डले परिरब्धे तयो: श्रवसोरिति व्यस्तपाठ एव तत्स्वारस्यात्]। 'पूर्वं समृद्धस्य कालवशेन गलिताविभवस्य कस्यापि मन:समाधानाय दूत्यन्यापदेशेनाह’ इति गङ्गाधरावतरणम्।
प्रियतमासमागमसमुत्कण्ठमानानां प्रवासिनामुत्साहोत्कण्ठावशान्मध्याह्नतापोऽपि न प्रतिबन्धको भवतीति निजसहृदयतां सूचयन्कश्चिन्नागरिक: सहचरमाह-
१. परिरद्धकणअकुण्डलगण्डत्थलमणहरेसु सवणेसु।
अण्णअसमअवसेण अ पहिरज्जइ तालवेण्टजुअम्।।९८।।
परिरब्धकनककुण्डलगण्डस्थलमनोहरयो: श्रवणयो:।
अन्यसमयवशेन [च] परिध्रियते तालवृन्तयुगम्।।]
पथिकस्य हरति तापं ग्रीष्मे मध्याह्ननिर्गतस्यापि।
हृदयस्थितजायामुखचन्द्रज्योत्स्नाजलप्रवाहोऽयम्।।९९।।१
अहर्निशं ध्यानवशात् हृदये स्थितो यो जायामुखचन्द्र:, तस्य ज्योत्स्नाजलप्रवाह:। सुधांशुकिरणेभ्यो यदिदं चन्द्रकान्तमणिषु रसप्रस्रवणं भवति तदाभिषेकाद् ग्रीष्मो यथा न भवति सन्ताप:, प्रत्युत काचिदनिर्वचनीया निवृत्ति: सम्पद्यते, तथैव मध्याह्ने गृहगमानार्थं पथि चलतां पथिकानामपि प्रियतमामुखस्मरणादित्याशय:। जायापदेन दम्पत्यो: स्वाभाविक: प्रेमबन्ध: परामृश्यते, तेन च नायिकालम्बनाया रतेरतिशयो ध्वन्यते। 'कथमेतादृशे ग्रीष्मे मम प्रिय आगमिष्यतीति चिन्तयन्तीं नायिकां सख्याह’ इति गङ्गाधर:।
अनवसरे प्रार्थिताया नायिकाया भ्रूभङ्गीमभिवीक्ष्य विमनायमानं नायकं विनोदयन्ती दूती मधुरमाह-
वद को न कुप्यति जनो निवेद्यमानो ह्यदेशकाले तु।
रतिसङ्गता रुदन्तं प्रियमपि शपते सुतं माता।।१००।।२
देशयुक्त: कालो देशकाल: न देशकालोऽदेशकालस्तस्मिन्निति मध्यमदलोपिसमासो मूलैकवचनानुरोधात्। अस्थाने असमये चेत्यर्थ:। शपते क्रोधेनाक्रुश्यति। प्रियमपीत्यनेन अनवसरमालोक्यैव तया प्रत्याख्यातोऽसि न पुनरनुरागभङ्गादिति नायकं प्रति सूच्यते।
१. मज्झह्णपत्थिअस्स वि गिम्हे पहिअस्स हरइ संतावम्।
हिअअट्ठिअजाआमुहमअङ्कजोह्णाजलप्पवहो।।९९।।
[मध्याह्नप्रस्थितस्यापि ग्रीष्मे पथिकस्य हरति सन्तापम्।
हृदयस्थितजायामुखमृगाङ्कज्येात्स्नाजलप्रवाह:।।]
२. भण को ण रुस्सइ जणो पत्थिज्जन्तो अएसकालम्मि।
रतिवाअडा रुअन्तं पिअं वि पुत्तं सवइ माआ।।१००।।
[भण को न रुष्यति जन: प्रार्थ्यमानोऽदेशकाले।
रतिव्यापृता रुदन्तं प्रियमपि पुत्रं शपते माता।।]
उपसंहरति-
अत्र चतुर्थं विरमति निसर्र्गरम्यं शतं हि गाथानाम्।
मधुरत्वेनामृतमपि यच्छ्रुत्वा नो लगति हृदये।।१०१।।१
शतं शतकम्। यच्छ्रुत्वा अमृतमपि मधुरत्वेन हृदये स्थानं न लभत इत्यर्थ:।
(इति चतुर्थशतकम्)
१. एत्थ चउत्थं विरमइ गाहाणँ सअं सहावरमणिज्जम्।
सोऊण जं ण लग्गइ हिअए महुरत्तणेण अमअं पि।।१०१।।
[अत्र चतुर्थं विरमति गाथानां शतं स्वभावरमणीयम्।
श्रुत्वा यन्न लगति हृदय मधुरत्वेनामृतमपि।।]