पञ्चमशतकम्
प्रियतमापराधैर्मुहुर्मुहु: खेदिता मानिनि हृदयामन्त्रणव्याजेन प्रियतममुपालभते-
दह्यस्व दह्यसे चेत्स्फुटसि स्फुट पच्यसेऽथ पच्यस्व।
हृदय गलितसद्भाव: परिशेषित एव स खलु मया।।१।।१
हे हृदय! विरहे यदि त्वं दह्यसे अनलज्वालामिवानुभवसि तर्हि दह्यस्व। पच्यसे पुटपाकस्येव वेदनामनुभवसि तर्हि पच्यस्व। दाहक्वाथोत्तरमथ स्फुटसि विदीर्यसे तर्हि स्फुट। दाह क्वाथ-स्फोटानां क्रमिकत्वमन्वयेन योजनीयम्। दह्यसे इत्यादिषु कर्मण: कर्तृतया यगात्मनेपदे। य: खलु तादृशमनिर्वचनीयं क्लेशं साहयामास स किल गलित: सद्भाव: स्नेहहतको मया परिशेषित एव परिसमापित एव। प्रियतमस्नेहवशाद् हृदयदाहमनुभवन्त्या अपि स्नेहपरित्यागोक्तेर्बाधितत्वात्स्नेहाभावस्याभासरूपतया आक्षेपालङ्कार:। 'निषेधाभासमाक्षेपं बुधा: केचन मन्वते’। तथा च त्वद्गतस्नेहेनैवाहं हृदयदाहादिदारुणदु:खमनुभवामि, अत एव स स्नेहो नि:शेषयितुमिष्टोऽपि मया न तथा पार्यते, त्वं तु तथापि विप्रियकरणान्न निवर्तते इति प्रियतमं प्रति सरोषातिशयमुपालम्भोऽभिव्यज्यते। 'प्रणामकाङ्क्षिणी मानिनी नायकानुरक्तं स्वहृदयमाह’ इति गङ्गाधरावतरणम्। अत्र परिशेषित इत्यस्य 'परिच्छन्नो निर्णीत:’ इत्यर्थस्तु गङ्गाधराभ्यूहितोऽक्षरैरनवसेय एव। तन्मते गलित: सद्भावो यस्य, स दयितो मया निर्णीत इत्यर्थ: परिकल्पनीयो भवेत्।
शृण्वन्तमुपपतिं प्रति 'यवक्षेत्रं सङ्केतस्थानम्’ इति सूचयन्ती काचिदन्येषां तत्र गमने भयप्रदर्शनार्थमाह-
१. डज्झसि डज्झसु कट्टसि कट्टसु अह फुडसि हिअअ ता फुडसु।
तह वि परिसेसिओ च्चिअ सोहु मए गलिआसब्भावो।।१।।
[दह्यसे दह्यस्व क्वथ्यसे क्वथयस्व अथ स्फुटसि हृदय तत्स्फुट।
तथापि परिशेषित एव स खलु मया गलितसद्भाव:।।]
दृष्ट्वा विशालतुण्डाग्रनिर्गतं निजसुतस्य दंष्ट्राग्रम्।
क्रोडी विनापि कार्यं चरति यवान्ग्रामसन्निधानेऽपि।।२।।१
विशालं यत्तुण्डं मुखं तदग्रे निर्गतम्। क्रोडी सूकरी। 'क्रोडो भूदार इत्यपि’ इत्यमर:। कार्य विनापि आवश्यकतां विनापि। सुतस्य विशालदंष्ट्राग्राद्भयभीता न केचिदनिष्टं कर्तुं प्रभवेयुरित्याशयेन ग्रामनिकटेऽपि यवान् भक्षयतीत्यर्थ:। क्रोडी सुतेन सह भ्रमतीत्यनेन द्वयो: सूकरयोर्मध्ये गमनं सिंहस्यापि भयावहं किं पुनरन्यस्येति सूचनाल्लोकानां गमननिवारणे तात्पर्यं ध्वन्यते। विनापि कार्यमित्यनेन तृप्तापि सा यवक्षेत्रे भ्राम्यति, अत एव न तस्या आगमने समयनियमो नापि च निवृत्ते: सम्भावनेति आत्यन्तिको जनसञ्चाराभाव: सूच्यते। क्रोडीति स्त्रीत्वद्योतकप्रत्ययेन पशुषु मातर्येव प्रेमाधिक्यात् 'द्वादशपुत्रायास्तस्या: कियन्तो वा सुता मातु: स्नेहेन तस्या: सहायतायै आगच्छेयुरिति न निश्चय:’ इति भयप्रदर्शनातिशयो व्यज्यते। तथा च 'ग्रामनिकटवर्तिन्यपि यवक्षेत्रे न भवद्भिर्गन्तव्यम्’ इति अन्यान्प्रति, 'जनसञ्चारशून्ये तस्मिन्निर्भयं सङ्गन्तव्यम्’ इति चोपपतिं प्रति ध्वन्यते।
सर्वसमर्थे ग्रामनायके तस्मिन्कृतप्रणयायास्तव तदभिसारादिषु न किञ्चिद्भयमिति नायिकां सान्त्वयन्ती दूती अन्यापदेशेनाह-
हेलाकराग्रकर्षितजलरिक्तं सागरं कलयन्।
जयतादविहतबडवाग्निभरितगगनो गणाधिपति:।।३।।२
हेलापुरस्सरं कराग्रेणाकर्षितं यज्जलं तेन रिक्तं सागरं कलयन् प्रकाशयन् सन्। जलनिग्रहात् अविहतेन निष्प्रतिबन्धं प्रवृद्धेन बडवाग्निना भरितं गगनं येन ईदृशो गणाधिप-
१. दठ्ठूण रुन्दतुण्डग्गणिग्गअं णिअसुअस्स दाढग्गम्।
भोण्डी विणावि कज्जेण गामणिअडे जवे चरइ।।२।।
[दृष्ट्वा विशालतुण्डाग्रनिर्गतं निजसुतस्य दंष्ट्राग्रम्।
सूकरी विनापि कार्येण ग्रामनिकटे यवाञ्श्चरति।।]
२. हेलाकरग्गअट्ठिअजलरिक्कं साअरं पआसन्तो।
जअइ अणिग्गअवडवग्गिभरिअगगणो गणाहिवई।।३।।
[हेलाकराग्राकृष्टजलरिक्तं सागरं प्रकाशयन्।
जयत्यनिग्रहबडवाग्निभृतगगनो गणाधिपति:।।]
तिर्विनायको जयतात् इति वाच्योऽर्थ:। अनन्तरं तु गणस्य ग्राममण्डलस्याधिपतिरिति शब्दशक्त-युद्भवेनानुरणनेन ''हेलयैव करेण ग्रामात्सङ्ग्राह्येण शुल्केन अग्रे प्रथममेव सम्पूर्णस्य द्रव्यसामर्थ्यस्यायत्तीकृतत्वाद् ग्रामे न कश्चित्तत्प्रतिद्वन्द्वी, अत एव अविहतं स ग्रामे व्याप्तप्रभाव:’’ इति वक्रया दूत्या वैशिष्ट्यात् ग्रामनायके तस्मिन्नाहितस्नेहाया न ते लोकेभ्यो भयमित्यर्थान्तरं ध्वन्यते। जयतादिति आशीरर्थकेन तातङा 'अहं तस्या: प्रत्यहं शुभाशंसिना’ इत्यात्मपक्ष-पातोऽभिव्यज्यते।
शृण्वन्तीं काञ्चन सुन्दरीमनुरञ्जयितुं स्वरसिकताप्रदर्शनाय चाटूक्तिविधया नायिकाकर-कोमलताप्रशंसामन्यापदेशेनाह कश्चित्-
कङ्केल्ले तव मन्येऽमुनैव तन्नास्ति यन्न पर्याप्तम्।
उपमीयते हि यत्तव दलेन वरकामिनीहस्त:।।४।।१
कङ्केल्ले हे अशोक तव यत्पर्याप्तं न भवेत् तत्किञ्चिन्नास्ति, अपि तु सर्वमेव पर्याप्तम्, इत्यहममुनैव मन्ये यत्तव पल्लवेन वरवर्णिनीहस्त उपमीयते। अधिकगुणशाल्यपि कामिनीहस्तस्त्वत्पल्लवेन सह साम्यमानीयते इत्यनेन उपमानस्य पल्लवस्यपेक्षया उपमेये हस्ते गुणाधिक्यवर्णनाद्व्यतिरेक:। मन्ये इत्यनेन पर्याप्तगुणानामुत्प्रेक्षणादुत्प्रेक्षा चेति सङ्कर:। वरकामिनीकरे तावन्तो गुणा: सन्ति यैरसौ निरुपमान एव लोके। परमशोकपल्लवास्तच्छायाम-नुहरन्ति, अत एवाहमशोकं धन्यं मन्ये, इति कामिनीष्वतिशयबहुमानप्रदर्शनेन शृण्वन्त्या नायिकाया अनुरञ्जनप्रयत्नोऽभिव्यज्यते। मूलोक्तस्यार्थस्य स्पष्टप्रतिपत्तये अलङ्कारसम्पत्तयेऽत्र मन्ये इति मत्कृतच्छायायामधिकमुपात्तम्। अमुनैवेत्येवकारेण-पल्लवद्वारा कामिनीहस्तोपमाला-भमात्रेणैव स्थालीपुलाकन्यायेन मया सर्वे तव पर्याप्ता गुणा अनुमिता इति श्रद्धातिशयो ध्वन्यते। तव तन्नास्ति यन्न पर्याप्तमिति सर्वनामनिर्देशेन तव गुणान्नाहं शब्दत: प्रकाशयितुं शक्नोमीति गुणानां पर्याप्ततातिशयो व्यज्यते।
मन्दस्नेहं नायकमुत्साहयितुं शृण्वति तस्मिन्नायिकासखी अशोकामन्त्रणव्याजेन सुमधुरमाह-
१. एएण च्चिअ कङ्केल्लि तुज्झ तं णत्थि जं ण पज्जत्तम्।
उवमिज्जइ जं पल्लवेण वरकामिणीहत्थो।।४।।
[एतेनैव कङ्केल्ले तव तन्नास्ति यन्न पर्याप्तम्।
उपमीयते यत्तव पल्लवेन वरकामिनीहस्त:।।]
सं. गा... १८
रसिक विदग्ध विलासिन्सत्यमशोकोऽसि समयज्ञ।
वरयुवतिचरणकमलाहतोऽपि यद्विकससि सतृष्णम्।।५।।१
रसिको रसानुभवशील:। विदग्धश्चतुर:। समयं दोहदकालं जानातीति समयज्ञ:। ध्वन्यर्थपक्षे तु समयं रसिकानामाचारं जानातीति। सतृष्णं सलालसम्। वरयुवतिचरणकमले-नाहतोऽपि यद्विकासं गच्छसि तेन त्वं सत्यमेव अशोकोऽसि। आघातेनापि तव न दु:खं प्रत्युत विकास एवेति ततस्तवाऽशोकेति नाम सत्यमस्तीत्यर्थ:। पर्यन्ते तु शब्दशक्तिसमुत्थेनानुरणनेन-वैदग्ध्यशालिनो रसिका: प्रियतमाचरणाऽऽहतिमपि प्राप्य आचारं विदन्तो न कुप्यन्ति, प्रत्युत साभिलाषं विकासं लभन्ते। इयं किल विदग्धानां सरणिस्त्वं तु प्रणयादपि तां वञ्चयसीति अहो ते असमयज्ञतेति शृण्वन्तं नायकं प्रति साकूतं ध्वन्यते। 'पूर्वागाथार्थमेव भङ्ग्ययन्तरेणाह’ इति गङ्गाधर:। नायिकाचरणघात: प्रसाद एव मन्तव्य इति नायकं शिक्षयितुं कुट्टन्या उक्तिरियमिति केचित्।
'त्वदाहरणसमये वाक्चातुर्येण सर्वं सङ्कटमुल्लङ्घितवान् स ते कामुक:’ इति नायिकां सूचयितुं दूती वामनहरेरुपश्लोकनव्यपदेशेनाह-
अपि बलिवाचाबन्धे नैपुणमाश्चर्यमुन्नयन्प्रकटम्।
सुरसार्थकृतानन्दो वामनरूपो हरिर्जयति।।६।।२
बलेर्दैत्यराजस्य वाचया वचनेन बन्धे नियमने। वाचेत्याबन्तम्। नैपुण्यमाश्चर्यमपि च प्रकटं यथा स्यात्तथा उन्नयन् प्रकाशयन्। अत एव सुरसार्थस्य देवसमूहस्य जनितानन्दो
१. रसिअ विअट्ठ विलासिअ समअण्णअ सच्चअं असोओ सि।
वरजुअइचलणकमलाहओ वि जं विअससि सएह्णम्।।५।।
[रसिक विदग्ध विलासिन्समयज्ञ सत्यमशोकोऽसि।
वरयुवतिचरणकमलाहतोऽपि यद्विकससि सतृष्णम्।।]
२. बलिणो बाआबन्धे चोज्जं णिउअत्तणं च पअडन्तो।
सुरसत्थकआणन्दो वामणरूवो हरी जअइ।।६।।
[बलेर्वाचाबन्धे आश्चर्यं निपुणत्वं च प्रकटयन्।
सुरसार्थकृतानन्दो वामनरूपो हरिर्जयति।।]
वामनरूपधारी हरिर्जयति। वाङ्नियमनमात्रेण स्वर्गराज्यं बलेराहृतवानेवं किल तन्नैपुण्यमित्य-न्यावतारापेक्षया स एव सर्वोत्कर्षेण वर्तते इति वाच्योऽर्थ:। अनुरणनेन तु- बलिनो बलवतो गृहजनस्य वाचया वचनेन निरुत्तरीकरणे नैपुण्यं प्रकटयन्, सुष्ठु रसार्थवद्भिर्वचनैर्जनि-ताखिलप्रीति: वामनरूपो न्यग्भावितात्मा अवसरमभिलक्ष्य विनयमुपगत इत्यर्थ:। एतादृशो हरि: परदारापहारी स ते कामुको जयतीति ध्वन्यमानोऽर्थ:। अवसरानुसारं मधुरवचनचातुर्येण विनयेन च स निजगौरवं रक्षितवानिति नायिकां प्रति निभृतं सूच्यते। 'चोज्जम्’ इति चोद्यपद-स्याश्चर्यमर्थ:। 'चोद्यं स्यादद्भुते प्रश्ने चोदनार्हे तु वाच्यवत्’ इति मेदिनी। अत्र गाथायां 'बले:’ इति व्यस्तां छायां कृत्वा तस्य 'दैत्यराजो बलवांश्च’ इत्यर्थद्वयोपपादनं गङ्गाधरस्य दु:शकमेव, बलवदर्थकस्य बलिशब्दस्य षष्ठ्यां बलिन इति रूपापत्ते:। बलिन इति छायाकल्पने तु दैत्यार्थनुपपत्ति:। मम तूभयं सङ्गतमिति सहृदयैरालोचनीयम्। अत्र 'दौ:साधिकाभिशस्तस्य जारस्य परिहासकौशलं दूती तत्प्रियामानन्दयितुमाह’ इति दुर्घटार्थमिवावतरणं गङ्गाधरटीकायाम्।
प्रियतमस्यावसानेऽपि प्रणयं न मुञ्चन्ति कुलललना इति हि नारीणां दृढप्रणयतां प्रतिपादयन्ती काचित् प्रियतमे शृण्वति सखीं प्रत्याह-
निर्वाप्यते हि दहनो गृहपतिसुतयातिविस्तृतशिखोऽपि।
अनुमरणघनालिङ्गितदयितसुखस्वेदशिशिराङ्ग्या।।७।।१
अतिविस्तृता: शिखा ज्वाला यस्य स:। दहनो दाहकस्वभावोऽपि ज्वलनोऽग्नि:। अनुमरणसमये घनमालिङ्गितस्य दयितस्य सम्बन्धि यत्सुखं तज्जनितेन स्वेदेन शिशिरीभूत-शरीरया गृहपतिसुतया निर्वाप्यते शान्तीक्रियते। स्वेदजलेन प्रज्वलितोऽपि वह्नि: शाम्यतीत्यर्थ:। प्राकृते पूर्वनिपातानियमात् 'घणालिङ्गणपिअअमसुह’ इत्यस्य प्रियतमघनालिङ्गनसुखमित्य-र्थयोजनम्। मत्कृतच्छायायां तु न तत्क्लेश:। प्राकृतपदाङ्कानुसरणश्रद्धायां तु आलिङ्गितमिति भावे क्तेन तत्पूर्तिर्विधेया। आलिङ्गनजातेन स्वेदोद्गमसात्त्विकभावेन तस्मिन्नपि समये तासाम-नुरागातिशयो न न्यूनीभवतीति व्यज्यते। तथा च- कुलयुवत्यो वयमेवं दृढानुरागा इति निज-सौभाग्यं बहु मन्यस्वेति शृण्वन्तं दयितं प्रत्यभिद्योत्यते।
एनमेवार्थमुपपतिमनोरञ्जनार्थं प्रकारान्तरेण सखीं प्रति काचिदाह-
१. विज्जाविज्जइ जलणो गहवइधूआइ वित्थअसिहो वि।
अणुमरणघणालिङ्गणपिअअमसुहसिज्जिरङ्गीए।।७।।
[निर्वाप्वते ज्वलनो गृहपतिदुहित्रा विस्तृतशिखोऽपि।
अनुमरणघनालिङ्गनप्रियतमसुखस्वेदशीताङ्ग्या।।]
उपपतिचितासमुद्भवभूतिसुखस्वेदसलिलसिक्ताङ्ग्या:।
अभिनवकापालिक्या उद्धूलनमेव पूर्यते न किल।।८।।१
उपपतिचितासमुद्भवाया भूतेर्भस्मन: स्पर्शजनितेन सुखेन जातं यत्स्वेदजलं तेन सिक्तं स्नातमङ्गं यस्या:। अभिनवकापालिक्या: गृहीताभिनवकापालिकव्रताया वियोगिन्या: उद्धूलनमेव शरीरे भस्मालेपनमेव न समाप्यते। उद्धूलनसमये उपपतिचिताभस्मन: स्पर्शसुखेन स्वेदोद्गमो भवति, तच्छोषणाय पुनर्भस्मना विच्छुरयति सा, ततश्च पुनरपि उपपतिचिताभस्म-स्पर्शात्स्वेदोद्गमो भवतीत्येवमुद्धूलनावसानमेव न भवतीति भाव:। उद्धूलनमेवेत्येवकारेण कापालिकव्रतालम्बनेऽपि न निर्वाहो यत: प्रारम्भसम्पाद्यं भस्मधारणमेव न तत्र सम्पूर्यते किमग्रे सम्पत्स्यत इति विवशतातिशयेन प्रेमातिरेको व्यज्यते। आरम्भपदाभावेऽपि तदर्थोऽत्र प्रतीयत इति ज्ञेयं सुधीभि:। 'जरा-श्मशान’ पदयोरश्लीलतया संस्कृतबन्धशय्यायां न गुम्फ: समुचित इति तत्परिवर्तनं बोध्यम्।
प्रसवानन्तरं महिलानां प्रणयबन्धनमन्यादृशं भवतीति निदर्शयन्ती काचित्सखीं प्रत्याह-
प्रस्नौति स्तन एक: पर: पुलकितोऽस्ति नखमुखालिखित:।
पुत्रस्य च प्रियस्य च मध्यगताया हि दयिताया:।।९।।२
प्रस्नोति सुतप्रेम्णा स्तन्यं प्रस्नवति। परो द्वितीय: स्तन: प्रियतमकृतनखालेखनेन रोमाञ्चयुक्तो भवति। सुतं प्रति वात्सल्यस्य प्रियं प्रति चानुरागस्य युगपदुदयेन भावद्वयसमावेशो बोध्य:। तथा च प्रियसमागममहिम्नैव समवाप्तसुतस्नेहसुखा: सुदृश: प्रसन्नान्त:करण: सत्य: प्रियतमे सुबहुलमनुरज्यन्ति, त्वयापि तथैव समनुष्ठेयमिति नायिकां प्रति सख्याभिव्यज्यते।
१. जारमसाणसमुब्भवभूइसुहप्फंससिज्जिरङ्गीए।
ण समप्पइ णवकावालिआइ उद्धूलणारम्भो।।८।।
[जारश्मशानसमुद्भवभूतिसुखस्पर्शस्वेदशीलाङ्ग्या:।
न समाप्यते नवकापालिक्या उद्धूलनारम्भ:।।]
२. एक्को पह्णुअइ थणो बीओ पुलएइ णहमुहालिहिओ।
पुत्तस्स पिअअमस्स अ मज्झणिसण्णाएँ घरणीए।।९।।
[एक: प्रस्नौति स्तनो द्वितीय: पुलकितो भवति नखमुखालिखित:।
पुत्रस्य प्रियतमस्य च मध्यनिषण्णाया गृहिण्या:।।]
'तत्तत्कारणसान्निध्यादेकस्मिन्ननेके भावा भवन्तीति निदर्शयन्कोऽपि सहचरमाह’ इति गङ्गाधर:। जारं प्रत्यनवसरप्रकटनपरं दूत्या वचनमिदमिति केचित्।
बालायां ग्रामनायकतनयायां बद्धसाभिलाषदृष्टि: कश्चन सहचरमाह-
एतावत्यपि मोहं जनयति बाल्येऽपि वर्तमानेयम्।
विषकन्दलीव कुर्याद् ग्रामणिदुहिता हि वर्द्धितानर्थम्।।१०।।१
एतावत्यपि एतावन्मात्रवयस्कैव। अपिरेवार्थे। मोहं जनयति चित्तं मोहयति। अग्रे वर्धिता वृद्धिं गता इयं ग्रामणीदुहिता विषकन्दलीव विषाङ्कुर इवानर्थं कुर्यात्। विषकन्दली पूर्वं लघ्व्यपि अग्रे यथानर्थं करोति तथेयमपि यौवने कामुकानां विषमविषमशरविवर्धितं वेदनातिशयमुत्पादयेदित्यर्थ:। ग्रामणिदुहितेत्यत्र इको ह्रस्वो ङ्य इति ह्रस्व: पूर्वमप्युक्त एव। यौवने जनिष्यमाणं ग्रामणीसुताया: शोभातिशयं भावनाद्वाराधुनैवानुमाय बद्धाभिलाषस्यास्य रसिकशिरोमणेरुक्तौ रसाभासता कथञ्चित्समाधेया। 'ग्रामणीपुत्र्यां साभिलाष: कोऽपि प्रहसनमाह’ इत्यवतरणमात्रेणैव गङ्गाधरस्तु सङ्कटगङ्गामुल्लङ्घितवान्।
कामकलाकुशलेन तेन सह कथमिव रात्रौ सुरतमभूदिति रहस्यान्तर्भुक्तया वयस्यया पृष्टा काचिद्धरिनमस्कारापदेशेन सपरिहासमाह-
अप्रभवद्भूमितले हरेर्नभ:संस्थितं सुचिरम्।
ताराकुसुमप्रकराञ्चितमिव चरणं तृतीयमानमत।।११।।२
भूमितले अप्रभवत् असम्मात् (शत्रन्तम्)। तारारूपेण पुष्पप्रकरेणाञ्चितम्। हरेस्त्रि-विक्रमस्य। भूतलं पातालं च परिमाय गगनपरिमाणाय नभसि उच्छ्रितं तृतीयं चरणम् आनमत।
१. एत्ताइच्चिअ मोहं जणेइ बालत्तणे वि वट्टन्ती।
गामणिधूआ विसकन्दलिव्व वड्ढीऑ काहिइ अणत्थम्।।१०।।
[एतावत्येव मोहं जनयति बालत्वेऽपि वर्तमाना।
ग्रामणीदुहिता विषकन्दलीव वर्धिता करिष्यत्यनर्थम्।।]
२. अपहुप्पन्तं महिमण्डलम्मि णहसंठिअं चिरं हरिणो।
तारापुप्फप्पअरञ्चिअं व तइअं पअं णमह।।११।।
[अप्रभवन्महीमण्डले नभ:संस्थितं चिरं हरे:।
तारापुष्पप्रकराञ्चितमिव तृतीयं पदं नमत।।]
पर्यन्ते तु-हरे: परदारापहारिणस्तस्योपपते: स्कन्धोपरि गत्वा नभ: स्थितम्। ऊर्ध्वमुच्छ्रितं तारा- (नेत्रकनीनिका-)- रूपेण पुष्पप्रकरेणाञ्चितं तृतीयं चरणमानमत सम्मानेन बहु मानयतेति व्यङ्ग्योऽर्थ:। तथा च त्रैविक्रमबन्धेन सुरतमभूदिति सख्या: प्रश्नस्योत्तरं ध्वनितमभूत्। त्रैविक्रमबन्धस्तु- 'स्त्रियोङ्घ्रिमेकं विनिधाय भूमावन्यं स्वमौलौ, निजपाणियुग्मम्। पृष्ठे समाधाय रमेत भर्ता त्रैविक्रमाख्यं करणं तदा स्यात्।’ इत्यनङ्गरङ्गे। सुचिरमित्यनेन बहुकालं यावत्स रमितवानिति तत्सामर्थ्यमभिव्यज्यते।
रात्रेस्तृतीययामं यावज्जागरेण खेदमनुभवन्तीं विरहोत्कण्ठितां प्रति स्वपिहीति सखीभि: प्रोक्ते सा सखी: प्रति तदुत्तरमाह-
स्वपिहि तृतीयोऽपि गतो याम इति हि मां नु किमिति किल भणथ।
शेफालिकासुगन्ध: स्वप्तुं न ददाति मे, स्वपित यूयम्।।१२।।१
शेफालिकानां नीलनिर्गुण्डीनां सुगन्धो मम शयितुं न ददाति, मह्यं शयनावसरं न ददाति। एवं च अर्धरात्रो जातस्तथापि दयितो नायात इति चिन्तोत्कण्ठाभ्यां नायिकानिष्ठरतेरति-शयो ध्वन्यते। प्रसिद्धं किलार्धरात्रोत्तरं शेफालिकानां विकसनम्- ''शेफालिकां विदलितामवलोक्य तन्वी, प्राणान्कथञ्चिदपि धारयितुं प्रभूता। आकर्ण्य सम्प्रति रुतं चरणायुधानां किं वा भविष्यति न वेद्मि तपस्विनी सा।।’’ साहित्यदर्पणे। 'शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा’ इत्यमर:।
एवं निरनुक्रोशमपि तं कथं स्मरसीति सख्या प्रोक्ता विरहोत्कण्ठिता सखीमाह-
संस्मर्यते स न कथं तथास्थितान्यङ्गकानि सखि यो मे।
सुरतरसिक इव निर्वर्तितेऽपि निध्यायति हि सुरते।।१३।।२
१. सुप्पउ तइओ वि गओ जामोत्ति सहीओं कीस मं भणह।
सेहालिआणँ गन्धो ण देइ सोत्तुं सुअह तुह्मे।।१२।।
[सुप्यतां तृतीयोऽपि गतो याम इति सख्य: किमिति मां भणथ।
शेफालिकानां गन्धो न ददाति स्वप्तुं स्वपित यूयम्।।]
२. कहँ सो ण संभरिज्जइ जो मे तह संठिआइँ अङ्गाइं।
णिव्वत्तिए वि सुरए णिज्झाअइ सुरअरसिओव्व।।१३।।
[कथं स न संस्मर्यते यो मम तथासंस्थितान्यङ्गानि।
निवर्तितेऽपि सुरते निघ्यायति सुरतरसिक इव।।]
सुरते निर्वर्तितेऽपि परिसमापितेऽपि सुरतासक्तो यो ममाङ्गकानि तथास्थितानीव सुरत-कालिकसन्निवेशयुक्तानीव निध्यायति पश्यति। सुरतसमाप्तावपि मय्यासक्तिवशान्मानसिक-भावनया तथासंस्थितानीव सुरतसंलग्नानीव पश्यतीत्यर्थ:। तथासंस्थितानीत्यनेन अनुभवैक-मात्रसंवेद्योऽङ्गानां सन्निवेशविशेषो ध्वन्यते। एवं च मयि एतावदाहितानुराग: स किल प्रियतम: कथं वा स्मृतिपथे नोदयेदित्याशय:।
उपपतिं प्रति काचिदन्यापदेशेन सङ्केतस्थलं निर्दिशति-
शुष्यद्बहलितकर्दमघर्मलुठन्मीनकमठपाठीनम्।
दृष्टं ह्यदृष्टपूर्वं कालेन तलं तडागस्य।।१४।।१
शुष्यन् बहलित: कर्दमो यस्मिंस्तत्, धर्मेण ऊष्मणा लुठन्त: परिखिद्यमाना: मीना: कमठा: पाठीनाश्च यस्मिंस्तच्चेति बहुव्रीहिं कृत्वा कर्दमान्तस्य पाठीनान्तेन सह कर्मधारय:। बहलितेत्यत्र बहल इवाचरित इति आचारक्विबन्तात्कर्तरि क्त:। पाठीनो बृहन्मत्स्य: 'सहस्रदन्ष्ट्र: पाठीन उलूपी शिशुक: समौ’ इत्यमर:। कालवशाददृष्टपूर्वं तडागस्य तलं दृष्टम्। पूर्वं जलाद्या-हरणार्थमासील्लोकानां यातायातसम्भव:, इदानीं न तद्भयमिति नि:शङ्कमागम्यतामित्युपपतिं प्रति ध्वन्यते। पूर्वमतिसमृद्धस्य पश्चात्कालेन दरिद्रतामापन्नस्य कस्यचिदन्यापदेशविधया काचिदनुशोचनं करोत्यनया गाथयेति केचित्। 'अहं तत्र गता त्वं तु नागत:’ इति जारं प्रति कयाश्चिदुक्तिरित्यन्ये। चिररमणार्थं सुरतश्रान्तं कान्तमन्यमनस्कं करोतीति वा।
निभृतमभिसारे गच्छन्तीं काञ्चित्सचाटुपरिहासमाह काचित्प्रौढा-
मा पुत्रि चौर्यसुरतश्रद्धाशीले भ्रमान्धकारेऽस्मिन्।
दीपकशिखेव निबिडे तमसि निकामं निरीक्ष्यसे नूनम्।१५।।२
१. सुक्खन्तबहलकद्दमघम्मविसूरन्तकमठपाठीणम्।
दिट्ठं अदिट्ठउव्वं कालेण तलं तडाअस्स।।१४।।
[शुष्यद्बहलकर्दमघर्मखिद्यमानकमठपाठीनम्।v
दृष्टमदृष्टपूर्वं कालेन तलं तडागस्य।।]
२. चोरिअरअसद्धालुइ मा पुत्ति ब्भमसु अन्धआरम्मि।
अहिअअरं लक्खिज्जसि तमभरिए दीवसीहव्व।।१५।।
[चौर्यरतश्रद्धाशीले मा पुत्रि भ्रमान्धकारे।
अधिकतरं लक्ष्यसे तमोभृते दीपशिखेव।।]
चौर्यसुरतश्रद्धालुके! इति विशेषणेन गृहे तव सुरतसौकर्ये सत्यपि आग्रहेण त्वमभिसार-परासीति नायिकां प्रति सूच्यते। अन्धकारे यथा दीपाशिखा तथा त्वमपि स्पष्टतरं संलक्ष्यसे। त्वमात्मानं निगूहितुमन्धकारे प्रयासि परं शरीरलावण्येनान्धकारे द्विगुणं प्रकाशस इत्यर्थ:। पुत्रीतिसम्बोधनेन-त्वमन्धकारे भूरितरं गप्ता भूत्वाभिसरसि, परमेतावत्कालं दृष्टबहुव्यतिकराया मम तु पुरस्तादेतद् गोपनमसम्भवमेव, परमन्येऽपि संलक्षयितुमलमित्यात्मगौरवम्, मा भैषीर्नाहं ते रहस्यभेदिनीति पक्षपातश्च ध्वन्यते। 'तमभरिए’ इत्यत्र तमोभृते (प्रदेशे) इति विशेष्याक्षेपक्लेशो मत्कृतच्छायायामेवमपासित इति सुधीभिरालोच्यम्।
इयं सङ्केतस्थानदाहाद्दु:खितेति निजमार्मिकतां प्रकटयितुं कश्चित्सहचरमाह-
कुप्यत्येकैकस्य प्रतिवचनं नो ददाति संलपिता।
असती कार्येण विना प्रदीप्यमाने नदीकच्छे।।१६।।१
नदीकच्छे नदीतटनिकटवर्तिनि सजलदेशे प्रदीप्यमाने दावाग्निना दह्यमाने। 'जलप्राय-मनूपं स्यात्पुंसि कच्छस्तथाविध:’ इत्यमर:। असती कुलटा कार्येण विना आवश्यकतां विनापि। प्रत्येकपुरुषस्य रुष्यति। सङ्केतस्थानभङ्गादेतस्या इयं दशेत्यहमिङ्गितेनैव ज्ञातवानिति सहचरं प्रत्यभिव्यज्यते। मर्मान्तिकवेदनायास्त्वन्या कथा, परं मनोविनोदनोपायविघट-नाज्जायमानेन दु:खेन व्याकुलचेतसो जनस्य किञ्चिन्मात्रेणैव विचारलीन ताभङ्गे सति क्रोधोदयो भवति, सेयमेव स्वाभाविकी मानसी दशा गाथयाऽनया सूच्यते। ततश्च प्रत्येकपुरुषं प्रति कोपस्य सूचकं चात्र वचनाऽप्रदानमेवेति कोपोत्तरमेव मद्गाथायां तन्निबन्धनम्। मर्मान्तिकदु:खग्रस्तस्य तु उन्माद-प्रलय-निर्वेदादीनामुदय इति गूढमनुसन्धेयम्।
गुप्तमसतीव्यवहारमाचरन्त्या कयाचिन्निजप्रतिवेशिनी कुलटेत्याक्षिप्ता। तत्प्रत्युत्तरं स्वभावोक्तिविलक्षणरूपेणावतारयति गाथाकार:-
आम्, कुलटा वयमपसर पतिव्रते ते न मलिनितं गोत्रम्।
न च कामयामहे किल जनस्य जायेव चन्दिलं तु पुन:।।१७।।२
१. वाहित्ता पडिवअणं ण देइ रूसेइ एक्कमेक्कस्स।
असई कज्जेण विणा पइप्पमाणे णईकच्छे।।१६।।
[व्याहृता प्रतिवचनं न ददाति रुष्यत्येकैकस्य।
असती कार्येण विना प्रदीप्यमाने नदीकच्छे।।]
२. आम असइ ह्म ओसर पइव्वए ण तुह मइलिअं गोत्तम्।
किं उण जणस्स जाअव्व चन्दिलं ता ण कामेमो।।१७।।
[आम असत्यो वयमपसर पतिव्रते न तव मलिनितं गोत्रम्।
किं पुनर्जनस्य जायेव नापितं तावन्न कामयामहे।।]
आम् इति सकोपमीर्ष्यापुरस्सरं स्वीकारे। वयं कुलटा एवेति तुष्यतु दर्जनन्यायेन साधिक्षेपं स्वीकार:। त्वं तु पतिव्रतासि! इति साकूतमाक्षेप:। अत एव हे पतिव्रते! अपसर अस्मत्तो दूरे तिष्ठ। तव गोत्रमर्थात् नाम न मलिनितम्, तव नामनि न कश्चित्कलङ्क: (भवेत्!)। वयं कुलटा: अत एव अस्त्सविधे समागमने तव गोत्रे मालिन्यं भवेदिति। अथवा तव गोत्रभस्माभिर्न मलिनितम्, अस्माभिरस्माकमेव नामनि कलङ्क आपादितस्तव तु गोत्रं न मलिनितम्! अत एव त्वमपसरेत्याक्रोशोक्ति:। इदानीम् आक्षिपन्त्या उपर्याक्षेपमाक्षिपति- पुनर्वयं जनस्य सामान्यनरस्य स्त्रीव, अथवा जनसामान्यस्य जायेव वारवधूरिव। चन्दिलं तु नापितं तु न कामयामहे। वयं कुलटास्तथाप्युत्तमनायकासक्तास्त्वं तु नापितद्वारा सतीत्वं हारितवती। अत्र कुलटाकलहस्वभावोक्तिरलङ्कारो वाच्यस्तेनापि च- 'अस्मिाभि: केवलं निजनामैव कलङ्कितं त्वया तु 'गोत्रम्’ कुलमेव कलङ्कितम्’ इति गोत्रपदशक्तिसमुत्थेनानुरणनेन वक्त्रीं प्रति भूयानाक्षेप ईर्ष्या चाभिव्यज्यते। चन्दिलशब्दो नापितार्थवाचको देशीति कुलबालदेव:। प्राप्तार्धचन्द्र: सर्वनिर्वास्यो दुर्दैवो नीच इत्यर्थ:। कदाचन न भवेत्! यस्य जय पुरीयभाषायां 'चांदडा’ 'करमचांदडा’ इति हि सुमधुरो व्यपदेश:!! ध्वनिकारस्तु- 'आम् असत्यो वयम्’ इत्यत्र काक्वा 'न वयमसत्य:’ इति व्यङ्ग्यार्थप्रतीति:, सा किल वाच्यार्थसहभावेनैव स्थिता। अयं भाव:- यावत्किल काक्वा प्रतीयमानस्य व्यङ्ग्यार्थस्य न बोधो भवेत्तावद्वाच्यार्थस्यैव सङ्गतिर्न भवेदत एव व्यङ्ग्यस्य वाच्याश्रयतया स्वातन्त्र्याभावान्न ध्वनित्वव्यपदेश:। किं तु गुणीभूतव्यङ्ग्यत्वव्यपदेश:। तत्परिगृहीतोऽत्र पाठ:- अपसरेति स्थाने उपरमेति। 'गोत्रम्’ इति स्थाने 'शीलम्’ इति।
नायकं प्रति स्वानुरागं परमदाक्षिण्येन प्रकटयन्ती काचिदाह-
निद्रां भजन्ति, कथितं शृण्वन्ति च गद्गदं न जल्पन्ति।
न विलोकितोऽसि याभि: सुखितास्ता एव ननु सुभग।।१८।।१
यास्त्वां न विलोकितवत्यस्तासामनिद्रा, अन्यमनस्कता जडतादयो व्याधयो वा न भवन्ति, अतएव ता: सुखिता:। अस्माकं तु त्वद्विलोकनादारभ्यैव निद्राभङ्गादयो जाता:। विलोकनमात्रादेव मादृशीनां मनो हरस्यहो ते सुभगतेति नायकचाटु: सुभगेत्यामन्त्रणसहकारेण
१. णिद्दं लहन्ति कहिअं सुणन्ति खलिअक्खरं ण जम्पन्ति।
जाहिँ ण दिट्ठो सि तुमं ताओ च्चिअ सुहअ सुहिआओ।१८।।
[निद्रां लभन्ते कथितं शृण्वन्ति स्खलिताक्षरं न जल्पन्ति।
याभिर्न दृष्टोऽसि त्वं ता एव सुभग सुखिता:।।]
ध्वन्यते। तव विलोकनमात्रादेव त्वदासक्तचेतसो वयमभूम, तत्फलमद्यावध्यस्माभिरौन्निद्यं विचित्ततादिस्वेदजनकमेव लब्धं न किञ्चिन्निर्वृतिजनकमत एव सम्प्रति सुखयास्मानिति भावावेदनं चरमं व्यङ्ग्यम्।
दूती कस्याश्चिन्निरुपाधिकमनुरागमतिवैदग्ध्येन नायकं प्रति सोपालम्भमेवमाह-
बालक भवता दत्तां कर्णे कृत्वा तु बदरसङ्घाटीम्।
लज्जालुरपि वधू: सा प्रतियाता ग्रामरथ्यया भवनम्।।१९।।१
बदरसङ्घाटीं बदरयो: सङ्घातम्, एकवृन्ते बदरफलद्वयमित्यर्थ:। कर्णे कृत्वा भूषणरूपेण कर्णे सन्धार्यं। लज्जाशीलापि सा, ग्रामरथ्यया यस्यां सर्वेऽपि ग्रामजना यातायातं कुर्वन्ति तया रथ्यया भवनं गता। त्वद्दत्तेन बदरसङ्घातमण्डनेन मण्डिताया अस्यास्तथा हर्षो जातो यथेयमात्मानं धन्यम्मन्यमानतया सर्वे जना एनां पश्येयुस्तत्कृते ग्रामरथ्यया भूत्वा गृहं जगामेति नायिकाया: प्रणयबहुमानातिशयो ध्वन्यते। वधूपदेन-स्नुषापदमधिष्ठिताया अस्या बहुलजनाकीर्णायां ग्रामरथ्यायामेवं गमनमनुचितं तथापि हृदयावेगं सोढुमशक्नुवतीयं स्वतो जगामेति आवेगातिशयो ध्वन्यते। लज्जालुरिति विशेषणेन साधारणदशायां स्वभावतो लज्जाशीलापि सेयं भवदर्थे एवमाविष्कृतभावास्तीति तदतिशयो व्यज्यते। 'बालक’ इत्यामन्त्रणेन तु- सा त्वय्येवमनुरक्ता जाता यत्त्वत्करप्रदत्तमसारं वस्त्वपि सबहुमानमलङ्काररूपेण कर्णयोर्धत्ते। त्वं तु पिशुनजनवचनजातं कर्णयो: कृत्वा तथा निरपेक्षोऽसि यदेनां न बहु मन्यस इत्यहो ते उचितानभिज्ञतेत्युपालम्भो ध्वन्यते। याभ्यां कर्णाभ्यां हृदयनिर्वृतिकरी पूर्वं त्वद्गुणसङ्कथा उपस्थिापिता तयो: कर्णयो: कृत एव पूर्वं पुरस्कारो दत्त एतत्सूचनाय 'कर्णे कृत्वा’ इति, एतदाद्यपरिसीमं व्यङ्ग्यजातं सुधीभिरनुसन्धेयमित्यलम्।
कलहान्तरितादशामनुभूय प्रियानुनयस्मरणेन गलितमाना काचिदनुशयाना सखी: प्रति सकोपानुतापमाह-
१. बालअ तुमाह दिण्णं कण्णे काऊण बोरसंघाडिम्।
लज्जालुइणी वि वहू घरं गआ गामरच्छाए।।१९।।
[बालक त्वया दत्तां कर्णे कृत्वा बदरसङ्घाटीम्।
लज्जालुरपि वधूर्गृहं गता ग्रामरथ्यया।।]
अगृहीतानुनयोऽसौ विलक्षहृदयो ह्यभव्यया तु मया।
परवाद्यनर्तिनीभिर्युष्माभिरुपेक्षितो निर्यन्।।२०।।१
बहुतरमनुनीतवतोऽपि दयितस्यानुनयाऽग्रहणात् अभव्यया अभाग्यया मया अगृहीता-नुनय: न गृहीत: अनुनय: पदप्रणामादिर्यस्य, अत एव विलक्षहृदयो लज्जाकोपाक्रान्तहृदय: स दयित:। परम् अन्यं पुरुषं वाद्यपूर्वकं नर्तयन्तीभिर्युष्माभि:, निर्यन् भवनान्निर्गच्छन् उपेक्षित: बहिर्गमनतो न निवारित:। यूयं तथाविधा: स्थ यद् वाद्यं वादयित्वा अपरस्य नर्तनकौतुकं पश्यथ। अत एव भवतीभि: पूर्वं मह्यं मानशिक्षा दत्ता, इदानीं त्वावयोरिमां कलहकेलिं कौतुकरूपेणावलोकयथ। एतस्मादेव कारणद्भवनान्निर्गच्छन्नसौ युष्माभिर्न वारित इत्याशय:। नर्तिनीभिरित्यत्र नर्तयन्तीति णिजन्तात्ताच्छील्ये णिनिर्बोध्य:। परस्य वाद्यपूर्वकं नर्तनमिति लोकोक्तेरनुसरणम्, अत एव छेकोक्त्यलङ्कारस्य विषय:। उक्तमप्पयदीक्षितेन- 'छेकोक्तिर्यदि लोकोक्ति: स्यादर्थान्तरगर्भिता’। एवमनुनयेन प्रकाशितस्नेहोऽपि वल्ल्भोऽवधीरितो मयका, अहो मे दौर्भाग्यमिति अभव्यापदसहकारसूचितोऽनुतापस्तु चरमं व्यङ्ग्यम्। अभव्यया सया तूपेक्षित एव परं युष्माभिरप्युपेक्षित इति सूचयितुं पूर्वार्धे 'तु’ पदनिबन्धनं मच्छायायाम्। उत्तरार्धे 'अपि’ पदस्य तु नापेक्षा 'यूयं कलहं कारयित्वा कौतुकदर्शिन्य: स्थ अतएवोपेक्षित इत्यर्थोपरि दार्ढ्यप्रकाशनार्थं तस्यानावश्यत्वात्।
विदग्धतागर्वशालिनी काचिदात्मानुगुणं कान्तमलीमाना तत्प्राप्त्युत्कण्ठासूचनाया सखीमाह-
दृष्टोऽपि नयनसुखद: करसंस्पर्शेन निर्वृतिं जनयन्।
न प्राप्यतेऽर्थितोऽपि हि दयितो विधुरिव कलानिलय:।।२१।।२
१. अह सो विलक्खहिअओ मए अहव्वाएँ अगहिआणुणओ।
परवज्जणच्चरीहिं तुह्मेहिँ उवेक्खिओ णेन्तो।।२०।।
[अथ स विलक्षहृदयो मया अभव्यया अगृहीतानुनय:।
परवाद्यनर्तनशीलाभिर्युष्माभिरुपेक्षितो निर्यन्।।]
२. दीसन्तो णअणसुओ णिव्वुइजणओ करेहिँ वि छिवन्तो।
अब्भत्थिओ ण लब्भइ चन्दो व्व पिओ कलाणिलओ।।२१।।
[दृश्यमानो नयनसुखो निर्वृतिजनन: कराभ्यां [अपि] स्पृशन्।
अभ्यर्थितो न लभ्यते चन्द्र इव प्रिय: कलानिलय:।।]
विधुरिव चन्द्र इव दृष्टोऽपि दृश्यमानोऽपि नयनयो: सुखकर:। दर्शनमात्रेण सुखकार-कत्वं दयिते चन्द्रे चोभयत्र समानम्। करयोर्हस्तयो: संस्पर्शेन निर्वृतिमलौकिकं सुखमुत्पादयन् दयित:। चन्द्रस्तु कराणां किरणानां संस्पर्शेन निर्वृतिं शैत्यसुखं जनयन्। कलानां चतु:षष्टिक-लानामालय आश्रयश्चतु:षष्टिकलासम्पन्न इत्यर्थ:। चन्द्रपक्षे तु षोडशकलाश्रय: पूर्ण इति यावत्। एवंविधो दयितोभ्यर्थितोऽपि न प्राप्यते। तथा च- अहं यावद्वैदग्ध्यशालिन्यस्मि तदनुरूपस्य सकलकलाप्रवीणस्य दयितस्य लाभो मदर्थे हस्ताभ्यां चन्द्रप्राप्तिरिवास्तीत्यात्मन: परमैवदग्ध्याभिमान:, प्राप्स्यमाने दयिते सकलकलासम्पत्तेरावश्यकता चाभिव्यज्यते। ततोऽपि च, पूर्णचन्द्रस्य यथा प्रार्थनेऽपि सर्वदा न लाभस्तथा तादृशो मदनुगुणो दयितोऽपि यदा कदाचिल्लप्स्यते, न प्रार्थनासमकालमेवेति निजगुणगौरवख्यापनमेव प्रधानं व्यङ्ग्यमिति सुधीभिरालोच्यम्।
कालस्य सर्वङ्कषतां प्रतिपादयन्ती काचिन्नियतसङ्केतस्थानस्य विघटनमुपपतिं प्रति सूचयति-
ये किल नदीतटेऽस्मिन् मधुकरभरभग्नगुच्छका आसन्।
कालेन वञ्जुलास्ते प्रियसख हे स्थाणवो जाता:।।२२।।१
मधुकरभरेण भग्ना गुच्छका येषाम्। वञ्जुला अशोका: 'वञ्जुलोऽशोके’ इत्यमर:। वेतसास्तु न ग्राह्या अपुष्पत्वात्। स्थाणवो निष्पत्रविटपा जाता:। मधुकरनिकरनिपातद्वारा गुच्छकभङ्गेन वृक्षाणां घनच्छायत्वं भ्रमरकदम्बसम्पातेनान्धकारित्वं च सूच्यते। एवंविधा: पुष्पफलनिचिता अपि तरव: स्थूणावशेषा अभवन्नित्यहो कालमाहत्म्यमिति भाव:। पर्यन्ते तु-नदीतटे वञ्जुलनिकुञ्जो योऽस्माकं सङ्केतस्थानमभूत्तस्य शुष्कीभूतत्वेन लोकानां दृष्टिपातभयान्नेदानीं तत्र समागम: साधयितुं शक्यत इति शृण्वन्तमुपपतिं प्रति ध्वन्यते।
अस्थिरस्नेहान्नायकादुद्विग्रा काचिच्छृण्वन्तं कञ्चन मनोहरं जनमवसरप्रदानेनोत्कण्ठयन्ती रहस्यान्तर्भुक्ताया मातृष्वसु: संलापव्याजेनाह-
१. जे णीलब्भमरभरग्गगोछआ आसि णइअडुच्छङ्गे।
कालेण वञ्जुला पिअवअस्स ते थण्णुआ जाआ।।२२।।
ये नीलभ्रमरभरभग्नगुच्छका आसन्नदीतटोत्सङ्गे।
कालेन वञ्जुला: प्रियवयस्य ते स्थावणो जाता:।।]
हे मातृष्वसरधुना प्रेम्णा क्षणभङ्गुरेण दूना: स्म:।
स्वप्ने निधिलम्भेनेव दृष्टनष्टेन लोकेऽस्मिन्।।२३।।२
स्वप्ने निधिलाभेनेव दृष्टनष्टेन, दृष्टिपथमागत्य लुप्तेन। क्षणभङ्गुरेण प्रणयेनाधुनाऽ-स्मिंल्लोके दूना व्यथिता: स्म:। अहं त्वत्प्रणयं निधिलाभमिव परमबहुमानभाजनं मंस्ये परं स स्थिरो भवेदन्यथा तु पूर्ववन्मे मानसोद्वेगकर एव भविष्यतीति शृण्वन्तं कान्तं प्रत्यभिव्यज्यते। अधुनेत्यनेन पूर्वं नासीन्मे तावान्प्रणयस्थैर्यपरिचय:, इदानीं तु क्षणभङ्गुरादहमुद्विजामीति प्रणयपरिचयचतुरायां मयि साम्प्रतं प्रतारणाप्रयत्नो विफल एव भवेदिति व्यज्यते।
धूर्तेन नायकेन नातिचिरेणैव खडितप्रणयां नायिकां प्रतिबोधयन्ती सखी अन्यापदेशेनाह-
चाप: स्वभावसरलं क्षिपति शरं किल गुणेऽपि निपतन्तम्।
ऋ जुकस्य च वक्रस्य च सम्बन्ध: किं चिरं भवति।।२४।।२
चापो धानु: स्वभावेन सरलमृजुकम्, गुणे प्रत्यञ्चायां निपतन्तमपि सम्बध्यमानमपि शरं बाणं क्षिपति दूरं परिचालयति। एतत्समर्थनायार्थान्तरन्यासमाह-ऋजुकस्य कुटिलस्य च सम्बन्ध: किं चिरकालं यावद्भवति, नेत्यर्थ:। प्रस्तुतेऽर्थे तु-स्वभावेन सरलं निष्कटपटम्, गुणे सौन्दर्यादौ निपतन्तमनुरागेणाभिमुखीभवन्तमपि ऋजुकं जनं कुटिल: परिहरतीत्यर्थ:। तथा च- पूर्वं बहुतरं प्रतिबोधितापि त्वं कुटिलहृदये तस्मिन्प्रणयमाहितवती, तदिदानीमनुभव तत्परिभवफलमिति सख्या सूच्यते।
घनपीनपयोधराया: कस्याश्चित्कुचकलशदेशविश्रान्तां रोमावलिवल्लीमालोक्य जाताभिलाष: कश्चित्तच्छोभातिशयमेवमाह सहचरम्-
१. खणभङ्गुरेण पेम्मेण माउआ दुम्मिअह्म एत्ताहे।
सिविणअणिहिलम्भेण व दिट्ठपणट्ठेण लोअम्मि।।२३।।
[क्षणभङ्गुरेण प्रेम्णा मातृष्वस: दूना: स्म इदानीम्।
स्वप्ननिधिलम्भेनेव दृष्टप्रनष्टेन लोके।।]
२. चावो सहावसरलं विच्छिवइ सरं गुणम्मि वि पडन्तम्।
वङ्कस्स उज्जुअस्स अ समबन्धो किं चिरं होइ।।२४।।
[चाप: स्वभावसरलं विक्षिपति शरं गुणेऽपि पतन्तम्।
वक्रस्य ऋ जुकस्य च सम्बन्ध: किं चिरं भवति।।]
प्रथमं वामनविधिना पश्चाद्विहितो विजृम्भमाणेन।
स्तनयुगलेनैतस्या मधुमथनेनेव वलिबन्ध:।।२५।।१
प्रथमं वामनो लघुर्विधि: प्रसरप्रकारो यस्य तेन। पश्चाद्विजृम्भमाणेन वृद्धिं गतेन एतस्या: स्तनयुगलेन मधुमथनेनेव विष्णुनेव वलेस्त्रिवल्या बन्ध: सम्बन्ध: कृत:। प्रवृद्धयोरस्या: स्तनयो: परिसरपर्यन्तं त्रिवली विश्रान्तेत्यर्थ:। मधुमथनेनापि पूर्वं खर्वरूपधारिणा पश्चादत्यन्तं प्रवृद्धेन सता बलेस्तन्नामकस्य दैत्यराजस्य बन्धो विहित इत्यर्थोऽनुसन्धेय:। 2लेषोत्थापित-यानयोपमयामधुमथनेन यथा त्रैलोक्यमायत्तीकृतमेवमियमपि सर्वान् वशीकरिष्यतीति नायिकासौन्दर्यातिशयो ध्वन्यते।
गुणगणशालिनीमपि नायिकामन्यस्या: कृते व्यथयन्तं धूर्तनायकमुपालभमाना नायिकासखी निजसखीमन्यापदेशेनाह-
कुसुमानि मालतीनां दग्ध्वा मावेहि निर्वृत: शिशिर:।
कर्तव्या विगुणानां कुन्दानामपि समृद्धिरथ।।२६।।२
मालतीनां मालतीवृक्षाणाम्। शिशिर: शीतर्तु:। निर्वृत: सुखित इति मा अवेहि जानीहि। अथ अद्यापि। गन्धगुणरहितानां कुन्दानाम्। अनेन च- सौन्दर्यानुरागादिगुणशालिनीमिमां हित्वा बाह्यरूपमात्रसारायामन्यस्यां तवासक्तिर्नोचितेति शृण्वन्तं नायकं प्रत्यभिव्यज्यते। मालतीनामिति बहुवचनेनइयं मत्सख्येव त्वया व्यलीकचेष्टितैर्नोपताप्यते, किन्तु पूर्वमन्या अपि त्वया एवमेव क्लेशमनुभाविता इति गूढोपालम्भो ध्वन्यते। कुन्दानामिति बहुत्वेन मत्सखीसपत्न्यामेकस्यामेव
१. पढमं वामणविहिणा पच्छा हु कओ विअम्भमाणेण।
थणजुअलेण इमीए महुमहणेण व्व वलिबन्धो।।२५।।
[प्रथमं वामनविधिना पश्चात्खलु कृतो विजृम्भमाणेन।
स्तनयुगलेनैतस्या मधुमथनेनेव वलिबन्ध:।।]
२. मालइकुसुमाइँ कुलुञ्चिऊण मा जाणि णिव्वुओ सिसिरो।
काअव्वा अज्जवि णिग्गुणाणँ कुन्दाणँ वि समिद्धी।।२६।।
[मालतीकुसुमानि दग्ध्वा मा जानीहि निर्वृत: शिशिर:।
कर्तव्याद्यापि निर्गुणानां कुन्दानामपि समृद्धि:।।]
सं. गा... १९
ते सम्प्रति नानुरागोऽन्यत्रापि बहुत्र व्रजसीत्याक्षिप्यते। 'दुष्टो न केवलं साधूनामपकारमात्रं करोति, किं त्वसाधूनामुपकारमपीति कोऽप्यन्यापदेशेनाह’ इति गङ्गाधरावतरणम्। 'न केवलं तव दौर्भाग्यं मया कृतं किं तु त्वत्सपत्नीनां सौभाग्यमपि मया विधेयमित्यप्रियवादिनीं नायिकां प्रति कुपितनायकेन ध्वनिमिति केचित्।
गलितयौवनाया: स्तनाववलोक्य निजवाक्चातुर्यं तां प्रति कौतुकं च प्रकटयितुं सपरिहासवैदग्ध्यं कश्चित्सहचरमाह-
निबिडनिरन्तरयोरुन्नतयोर्व्रणलब्धशोभयो: सरसम्।
कृतकार्ययो: पतनमपि रम्यं भटयोरिव स्तनयो:।।२७।।१
निबिडनिरन्तयो: विशेषेण अन्योऽन्यलग्नयो: पीनत्वात्, उन्नतयोरुत्तुङ्गयो: काठिन्यात्, सरसं सुरतकेलौ सप्रमोदं व्रणैर्नखक्षतजातैर्लब्धशोभयो:, अत एव कृतकार्ययो: स्तनयो:, परस्परं बलादिसाम्यान्निर्विशेषयो:, मानोन्नतयो: समरव्रणशोभितयोरत एव कृतकार्ययो: कृतवैरिपराजययोर्भटयोरिव योधपुरुषयोरिव पतनमपि रम्यं श्रेष्ठम्। त्वया यौवने भूरिसुखान्यनुभूतानि, कृतकार्यासीति गलितयौवनां प्रत्यभिव्यज्यते।
शृण्वतीं नायिकां प्रति निजसहृदयतां परिहासं च प्रकटयितुं कश्चित्प्रगल्भ: कुचवर्णना-प्रस्तावमेवमाह-
गुरव: परिमलनसुखा अलब्धविवरा: सलक्षणाभरणा:।
न लगन्ति कस्य हृदये काव्यालापा इव स्तना एते।।२८।।२
गुरव: पीनोन्नता:, परिमलनसुखा मर्दनसुखकारका:, अलब्धविवरा: परस्परमिलितया नीरन्ध्रा:, लक्षणै: श्रीफलादिसादृश्य-तिलचिह्नादिभि: आभरणैर्हारादिभूषणैश्च सहिता:, इमे
१. तुङ्गाणँ विसेसनिरन्तराणँ [सरस] वणलद्धसोहाणम्।
कअकज्जाणँ भडाणँ व थणाणँ पडणं वि रमणिज्जम्।।२७।।
[तुङ्गयोर्विशेषनिरन्तरयो: [सरस] व्रणलब्धशोभयो:।
कृतकार्ययोर्भटयोरिव स्तनयो: पतनमपि रमणीयम्।।]
२. परिमलणसुहा गुरुआ अलद्धविवरा सलक्खणाहरणा।
थणआ कव्वालाव व्व कस्स हिअए ण लग्गन्ति।।२८।।
[परिमलनसुखा गुरुका अलब्धविवरा: सलक्षणाभरणा:।
स्तनका: काव्यालापा इव कस्य हृदये न लगन्ति।।]
स्तना: काव्यालापा इव कस्य हृदये न लगन्ति, सर्वस्यापि हृदयं प्रीणयन्तीत्यर्थ:। काव्यालापा अपि गुरवो गभीरार्था:, परिमलनेन पुन: पुनर्विचारेणानन्दजनका:, अलब्धविवरा दूषणावकाश-रहिता:, शास्त्रीयलक्षणैरुपमाद्यलङ्कारैश्च सहिताभवन्ति। त्वत्कुचकलशशोभामालोक्या-नुरक्तहृदयोऽस्मीति शृण्वतीं नायिकां प्रत्यभिव्यज्यते। सर्वानेव रमयसीति तां प्रति परिहासोऽपि च द्योत्यते। परिमलनमित्यत्र 'मलमल्ल’ धारणे इति मलधातु:। धातूनामनेकार्थत्वादर्थसङ्गति:, चुलुम्पतीत्यादिसङ्गृहीतं धात्वन्तरं वा। कुचपक्षे-परिमलनेन सुगन्धसम्बन्धेन सुखा: इत्यप्यर्थ: सम्भवेत्, परिमलशब्दाण्णिचा तद्रूपसिद्धे:। यद्वा धारणमेवार्थ:, हृदये धारणे सुखकारका इति पक्षद्वयेऽपि तदर्थोपपत्तेरित्यलं रसकथासु शुष्कविचारेण।
शृण्वतीं काञ्चन नायिकामुपलक्ष्य निजसहृदयतां प्रकटयन्कश्चित्सहचरमाह-
स्तनमण्डलात्तरुण्यो हारमपास्यन्ति रमणपरिरम्भे।
गुणिनो महितगुणा अपि लाघवमुपयान्ति कालेन।।२९।।१
रमणपरिरम्भे दयितालिङ्गनसमये। अपास्यन्ति दूरमपनयन्ति। महित: प्रशस्तो गुणो येषामीदृशा गुणिन:। कालवशाल्लाघवं पराभवमुपयान्ति। गुणिपदं श्लिष्टम् गुण: सूत्रं शौर्यादिकं च। 'उपादेयोऽर्थ: कदाचिदनुपादेयतां यातीति निदर्शयन्कश्चिदाह’ इति गङ्गाधर:। 'क्षिप्यते’ इति शृङ्गारे न मनोहराण्यक्षराणीति कर्तृवाच्येन परिवर्तितम्। यदि तु मूलपदाङ्कानुसरण एवाग्रहस्तर्हि 'स्तनमण्डलाद्युवतिभिर्हार: क्षिप्येत’ इति पाठ्यम्।
मनोऽभिलषिते नायके आत्मनोऽनुरागं मन्मथव्यथां चाभिव्यञ्जयन्ती काचित्सखीमाह-
अन्य: कोऽपि निसर्गो मन्मथशिखिनो हला हताशस्य।
निर्वाति नीरसानां हृदि सरसानां ज्वलति झटिति।।३०।।२

१. खिप्पइ हारो थणमण्डलाहि तरुणीअ रमणरिरम्भे।
अच्चिअगुणा वि गुणिनो लहन्ति लहुअत्तणं काले।।२९।।
[क्षिप्यते हार: स्तनमण्डलात्तरुणीभी रमणपरिरम्भे।
अर्चितगुणा अपि गुणिनो लभन्ते लघुत्वं कालेन।।]
२. अण्णो को वि सुहावो मम्महसिहिणो हला हआसस्स।
विज्झाइ णीरसाणं हिअए सरसाणँ झत्ति पज्जलइ।।३०।।
[अन्य: कोऽपि स्वभावो मन्मथशिखिनो हला हताशस्य।
निर्वाति नीरसानां हृदये सरसानां झटिति प्रज्वलति।।]
निसर्ग: स्वभाव:। हला हे सखि, 'हण्डे हञ्जे हलाह्वाने’ इत्यमर:। हताशस्येति कामाग्रिं प्रतीर्ष्यासूचनार्थम्। मन्मथशिखिन: कामाग्ने:। नीरसानामनुरागरहितानां शुष्काणां च। निर्वाति प्रशान्तो भवति। सरसानामनुरागिणामर्द्राणां च। अग्नि: किल शुष्के ज्वलति, आर्द्रे च निर्वाति। कामानलस्य तु तद्विपरीत एव स्वभाव इत्यर्थ:। विरोधो वाच्योऽलङ्कार’:। नीरसानां हृदि शुष्कतारूपकारणसत्त्वेऽपि ज्वलनकार्यानुदयाद्विशेषोक्ति:। सरसानां हृदि शुष्कतारूपस्य ज्वलनकारणस्याभावेऽपि कार्योदयाद्विभावना वा। बद्धानुरागाहं मनोऽभिलषितेन तेन नायकेन विना बाढमान्तरव्यथामनुभवामीति व्यङ्ग्यम्।
अन्यत्रासक्तस्य मन्दस्नेहस्य नायकस्य प्रणयभङ्गं सूचयन्ती काचिद्रहस्यान्तर्भुक्तां मातुलानीमाह-
मानपरिवर्धितस्य हि चिरप्रणयबद्धमूलस्य।
मातुलि रवोऽपि पतत: श्रुतोऽस्य न प्रेमवृक्षस्य।।३१।।१
मानेन प्रणयबहुमानेन परिवर्धितस्य। चिरप्रणय एव बद्धं दृढं मूलमस्य। प्रेेमरूपस्य वृक्षस्य पतत: रवोऽपि न श्रुत:। मानपरिवर्धितस्य प्रकाण्डपरिमाणानुसारं वर्धितस्य दृढमूलस्य वृक्षस्य प्राय: पतनमेव दुर्घटम्, दैवाद्यदि पतनं भवेत्तथापि शब्दस्त्ववश्यं भवेत्। सोऽप्यत्र नास्तीति भाव:। तथा च-चिरान्मयि दृढसक्तोऽपि वल्लभोऽन्यत्रासक्त्या प्रेमभङ्गं कृतवान्, न चैतद्विषयिणी काचिच्चर्चाप्यश्रूयतेति मातुलानीं प्रति सूच्यते। 'कापि मानग्रहिलाया: सख्या: खडितं सौभाग्यं मातुलान्यां सविस्मयमाह’ इति गङ्गाधर:।
अगृहीतानुनयां मानिनीं सखी सखेदमाह-
गणितो न पादपतितो भणितो विप्रियमपि प्रियं जल्पन्।
न निरुद्धो निर्यन्नपि वद कस्य कृते कृतो मान:।।३२।।२
१. तह तस्स माणपरिवड्ढिअस्स चिरपणअवद्धमूलस्स।
मामि पडन्तस्स सुओ सद्दो वि ण पेम्मरुक्खस्स।।३१।।
[तथा तस्य मानपरिवर्धितस्य चिरप्रणयबद्धमूलस्य।
मातुलानि पतत: श्रुत: शब्दोऽपि न प्रेमवृक्षस्य।।]
२. पाअपडिओ ण गणिओ पिअं भणन्तो वि अप्पिअं भणिओ।
वच्चन्तो वि ण रुद्धो भण कस्स कए कओ माणो।।३२।।
[पादपतितो न गणित: प्रियं भणन्नप्यप्रियं भणित:।
व्रजन्नपि न रुद्धो भण कस्य कृते कृतो मान:।।]
पादयो: पतितोऽपि न गणितो नावेक्षित:। (प्रिय इत्यर्थत आक्षिप्यते)। प्रियं जल्पन्न-प्यप्रियं भणित:। केलिभवनान्निर्गच्छन्नपि न निरुद्ध:। कस्य कृते कस्यार्थे। त्वया मान: कृत इति वद। दम्पत्यो: प्रणयपरिपाकजनितो मान: पादपतनादिकं फलमुपलभ्य परिसमाप्यते। ततश्च पादप्रणामोत्तरमपि तवायं मान: किंनिमित्त इति भाव:। 'कस्य कृते’ इत्यनेन पादपतनोत्तरमपि यद्यधिकं मानग्रहिला भविष्यसि तर्हि प्रियस्त्वयि विरक्तो भवेत्। तथा च प्रियप्रणयभङ्गे सति कीदृशोऽयं ते मान:, अनुचितमेव ते मानग्रहिलत्वमिति सख्याभिव्यज्यते। अथवा- कस्य कृते कं वा युवानं रमयितुं त्वया मानग्रहिलतयाऽयमवसर: सम्पादित इति सकोपोपालम्भं सख्या वचनमिति केचिदाहु:। मानिनीमनुनेतुमेतावदनुधावनमनौचित्यं जनयेदत: पूर्वोक्ताशय एव सम्यगिति साम्प्रदायिका:।
कस्याश्चन मुग्धाया निभृतचेष्टितं कस्माच्चन स्थानात्पश्यन्नागरिक: सहचरमाह-
क्षणमुञ्छति मार्जयति क्षणमुद्धुवति क्षणं न तद्विदती।
मुग्धवधू: स्तनपृष्ठे दत्तं दयितेन नखरपदम्।।३३।।१
मुग्धा वधू:। नखरपदं नखक्षतम्। तत् न विदती, तस्य नक्षक्षतस्य याथार्थ्यं न जानतीत्यर्थ:। क्षणम् उञ्छति प्रोञ्छति वदिनापमार्ष्टीत्यर्थ:। क्षण मार्जयति जलेन क्षालयति। क्षणमुद्धुवति वस्त्रादिना प्रस्फोटयति ('फटकारना’ 'झडकारना’ हिन्दी भाषायाम्) 'स्वेनेभाजिनपल्लवेन रभसात्प्रस्फोटयद्धूर्जटि:’ इत्यनर्घराघवे मुरारि:। स्तनपृष्ठे नक्षतं दृष्ट्वा किमिदमिति हस्तेन पूर्वं प्रोञ्छति। हस्तेन तदपनयनाभावे क्षालयति। ततोऽपि नापयाते तस्मिन् वस्त्रादिना प्रस्फोटयतीति मुग्धचेष्टितैर्नायिकाया: सारल्यातिशयो व्यज्यते। स्तनपृष्ठ इति पृष्ठपदेन कन्दुकाकारयो: स्तनयो: कठोरता व्यज्यते। 'सपत्न्या दुश्चरितं सूचयितुं कापि सोपालम्भमाह’ इति गङ्गाधर:। नायकमुत्कण्ठयितुं नायिकाया नवयौवनं प्रतिपादयन्त्या दूत्या इयमुक्तिरित्यपि केचित्।
निबिडघनघटाच्छन्नतयाऽन्धकारितदशदिगन्तरासु वर्षासु नियतसङ्केतनिकुञ्जेऽभिसार-सुखमनुभूतवती काचित्प्रावृट्समाप्तौ तस्यासौकर्यं बोधयन्ती शरद्वर्णनप्रस्तावमवतारयति-
१. पुसइ खणं धुवइ खणं पप्फोडइ तक्खणं अआणन्ती।
मुद्धवहू थणवट्टे दिण्णं दइएण णहरवअम्।।३३।।
[प्रोञ्छति क्षणं लाक्षयति क्षणं प्रस्फोटयति तत्क्षणमजानती।
मुग्धवधू: स्तनपदे दत्तं दयितेन नखरपदम्।।]
यौवन इव नववर्षाकाले प्रोन्नतपयोधरे याते।
प्रथमैककाशकुसुमं पलितमिवालोक्यते भूमे:।।३४।।१
प्रोन्नता: पयोधरा मेघा यस्मिन् ईदृशे वर्षाकाले। प्रोन्नतौ पयोधरौ स्तनौ यस्मिन्नेवं विधे नवयौवन इव व्यतिक्रान्ते सति। प्रथममेकं काशपुष्पं भूमे: पलितमिव वार्धक्यजातं केशशौक्ल्यमिवालोक्यते। तथा च, वर्षाकाले यावती शृङ्गाररसोपकरणसामग्री न तावती शरत्समये इति वर्षाणां प्रियकरत्वं व्यज्यते। जरत्या: सम्मुखे शृङ्गारचेष्टाप्रकाशनानौचित्येन वनभूमौ नेदानीमभिसरणं भविष्यतीति वक्त्र्या ध्वन्यते। 'आत्मन: सङ्केतस्थानगमनं जारं प्रति श्रावयन्ती कापि शरद्वर्णनमाह’ इति गङ्गाधर:। यद्वा- न केवलं मामेव वार्धकं ग्रसते, पश्य धरण्या अपीमामेवावस्थामिति हसन्तं विटं प्रति जरद्वेश्याया: कस्याश्चिदियमुक्ति:।
एवंविधे समये तव विदेशगमनमनुचितमिति नायकं सूचयन्ती काचिद्वर्षासमयं वर्णयति-
कुत्र गतं रविबिम्बं नष्टा: किल चन्द्रतारका: कुत्र।
नभसि बलाकापङ्क्तिं होरामिव कर्षति हि काल:।।३५।।२
घनघटाच्छन्नत्वात्सूर्यचन्द्रतारका दृष्टितो लुप्ता:। अत एव कालस्तेषां सूर्यादीनां प्रतिसाधनार्थं नभसि आकाशे बलाकापङ्क्तिं बकस्त्रीराजिं होरामिव कठिनी- (खटिका 'खडिआ’)- रेखामिवाकर्षति विदधाति। अन्योऽपि ज्योतिर्वित् सूर्यादिग्रहप्रतिसाधनार्थं (स्पष्टीकरणार्थम्) रजआच्छादितायामवनौ कठिनीरेखामाकर्षति। यथा हि गणिताध्याये भास्कराचार्य:- ''समायामवनौ ग्राह्यार्धप्रमाणेन सूत्रेणेष्टस्थानकल्पितबिन्दोर्वृत्तं लिखित्वा
१. वासारत्ते उण्णअपओहरे जोव्वणे व्व वोलीणे।
पढमेक्ककासकुसुमं दसइ पलिअं व धरणीए।।३४।।
[वर्षाकाले उन्नतपयोधरे यौवन इव व्यतिक्रान्ते।
प्रथमैककाशकुसुमं दृश्यते पलितमिव धरण्या:।।]
२. कत्थ गअं रइबिम्बं कत्थ पणट्ठाओँ चन्दताराओ।
गअणे वलाअपन्तिं कालो होरं व कट्ठेइ।।३५।।
[कुत्र गतं रविबिम्बं कुत्र प्रणष्टाश्चन्द्रतारका:।
गगने बलाकापङ्क्तिं कालो होरामिवाकर्षति।।]
तस्मादेव बिन्दोर्मानैक्यखण्डप्रमाणेन सूत्रेणान्यद्वृत्तं कृत्वा तस्य बिन्दोरुपरि प्राच्यपरं याम्योत्तरं च सूत्रं खटिकया रजसा च रेखे कार्ये’ इति। आकाशे दृश्यमानेयं बलाकापङ्क्तिर्नास्ति, किन्तु नष्टानां सूर्यादीनां प्रतिसाधनार्थं ज्योतिर्विदा इव कालेन कठिनीरेखेयमङ्कितास्तीति भाव:। 'होरा लग्नेऽपि राश्यर्धे रेखाशास्त्रभिदोरपि’ इति मेदिनी। एवं च कालोऽप्यस्मिन् घनघटाच्छन्नतमे गगने सूर्याचन्द्रमसोरन्वेषणं कुरुते। भवानेवंविधेऽन्धकाराच्छन्नतयाऽनुपलब्धपथे कामोन्मादमये समये कुत्र गमिष्यतीति कान्तं ध्वन्यते। वर्षासु पङ्क्तिबन्धेन गगने बलाकानामवस्थानं प्रसिद्धम्। यथ- 'गर्भाधानक्षणपरिचयान्नूनमाबद्धमाला: सेविष्यन्ते नयनसुभगं खे भवन्तं बलाका:’ इति कालिदास:। बलाका अपि वर्षास्वेवं सज्जास्तिष्ठन्ति, अहं तु त्वत्प्रस्थाने सर्वमिदं विसर्ज-यिष्यामीत्येतदपि यदि बुद्धौ स्फुरति तर्हि व्यज्येत।
शङ्काकुलस्योपपते: शङ्कापनयनाय प्रबलवर्षाझङ्कारमेवं वर्णयति काचित्-
अविरलनिपतन्नवजलधाराघनरज्जुनिबिडसङ्घटिताम्।
अप्रभवन्नुत्क्षेप्तुं रसतीव महीं घनो विलोकयत।।३६।।१
घनो मेघ:। अविरलं निपतन्त्यो नवजलधारा एव घना: सान्द्रा रज्जवस्ताभिर्निबिडं सङ्घटितां बद्धां महीम् उत्क्षेप्तुम् ऊर्ध्वमाक्रष्टुम् अप्रभवन् अशक्नुवन् सन्निव रसति शब्दायते इति विलोकयत। इमा निरन्तरासारा जलधारा न सन्ति किन्तु पृथिवीमूर्ध्वमाकर्ष्टुं बद्धा निबिडा रज्जव: सन्ति। तद्द्वारा महीमुत्क्षेप्तुमशक्नुवन्निवायं जलधर: श्रमविनोदार्थं शब्दायत इत्युत्प्रेक्षा। अन्येऽपि बृहत्पाषाणादिकं रज्जुभिर्बध्वा ऊर्ध्वमुत्क्षिपन्तो भारवाहा: शब्दं कुर्वन्तीति भाव:। तथा च- एवं मुशलधारावर्ष वर्षति वारिधरे न कस्यापि जनस्यात्र सञ्चारशङ्का, तन्नि:शङ्कं रम्यतामित्युपपतिं प्रत्यभिव्यज्यते। घनो रसतीत्यनेन मेघगर्जनशब्दाद्रमणसमये कङ्कणादि-शब्दोऽपि न कस्यापि कर्णगोचरो भवेदिति ध्वन्यते। नवजलधारा इत्यनेन प्रथमवर्षाजलस्य स्वास्थ्यविघातकत्वाद् वर्षाभिरनुद्विजन्नपि पुरुषो न बहिर्निर्गमिष्यतीति द्योत्यते। बद्धामित्यनुक्त्वा सङ्घटितामित्यनेन सङ्ग्रथनं सूच्यते, तेन रज्जुद्वारा परित: सङ्ग्रथ्योर्ध्वकर्षणोत्प्रेक्षणाज्जलधाराणां सान्द्रत्वातिशयो ध्वन्यते। 'रसतीव’ इति रसतीत्यनेन सह इवशब्दसम्बन्धस्तु गङ्गाधरादिप्रदर्शितो न मनोरम:। गर्जनस्य स्वतो जायमानत्वेनोत्प्रेक्षणाभावात्, किन्तु तत्रोत्क्षेप्तुमप्रभवनमेव हेतुत्वेनोत्प्रेक्ष्यमिति सुधीभिरनुसन्धेयम्।
१. अविरलपडन्तणवजलधारारज्जुघडिअं पअत्तेण।
अपहुत्तो उक्खेत्तुं रसइ व मेहो महिं उअह।।३६।।
[अविरलपतन्नवजलधारारज्जुघटितां प्रयत्नेन।
अप्रभवन्नुत्क्षेप्तुं रसतीव मेघो महीं पश्यत।।]
कान्तवियोगस्य सम्प्रति दु:सहत्वं सूचयन्ती काचित्प्रियाऽऽनयनत्वरार्थं हृदयोपालम्भ-व्याजेनात्मपीडां श्रावयति-
अयि हृदयावधिदिवसं प्रतिपद्य तदा हि दयितस्य।
विस्रम्भघातकाकुल किमिदमकस्मात्त्वया समारब्धम्।।३७।।१
अयि हृदय! तदा प्रवासगमनसमये अवधिदिवसं दयितस्य प्रतिपद्य दयितसमक्षं स्वीकृत्य। अकस्मादाकुल सहसैव व्याकुलतामनुभवत्! अत एव हे विस्रम्भघातिन् विश्वा-सघातिन्! त्वया इदं किं समारब्धम्। यदा प्रियतमसविधे अवधिदिनं नियमितं तदा तावत्पर्यन्तं विश्वास: कर्तव्य आसीत्त्वया तु मध्य एव व्याकुलताङ्गीकृता, सोऽयं ते विश्वासघात इति भाव:। अहं तावत्पर्यन्तं प्राणान्धारयितुं न प्रभविष्याम्येवं मे व्याकुलतेति दयितानयनत्वरार्थं सखीं प्रति ध्वन्यते। किमिदमारब्धमित्यनेन- मम हृदये तावती वेदना यामहं सम्यक्तया न परिच्छिनद्मीति विकलतातिशयो ध्वन्यते। हृदयामन्त्रणेन 'न मे वश:, अकस्मादेव हृदये तादृशी पीडाभूदि’ति निजपारतन्त्र्यं सूच्यते। आरब्धमिति भूतकालिकक्तप्रत्ययेन 'सेयं व्याकुलता बहो: कालादारब्धैव, इदानीमेतस्या अपनयनमेव चिन्त्यतां नान्य: प्रत्युपाय:’ इति द्योत्यते।
सुरतव्यतिकरेण भग्नवलयाया: कस्याश्चन सुदृशो रहस्यगोपनाऽपाटवं सर्वत: सूचयन्ती काचित्साकूतमाह-
नावैति योऽपि तस्यापि वदति भग्नानि तेन वलयानि।
ऋजुकाधिकं वराकी, दयितो वास्या हताशाया:।।३८।।२
१. ओ हिअअ ओहिदिअहं तइआ पडिवज्जिऊण दइअस्स।
अत्थेक्काउल वीसम्भघाइ किं तइ समारद्धम्।।३७।।
हे हृदय अवधिदिवसं तदा प्रतिपद्य दयितस्य।
अकस्मादाकुल विस्रम्भघातिन् किं त्वया समारब्धम्।।]
२. जो वि ण आणइ तस्स वि कहेइ भग्गाइँ तेण वलआइँ।
अइउज्जुआ वराई अह व पिओ से हआसाए।।३८।।
[योऽपि न जानाति तस्यापि कथयति भग्नानि तेन वलयानि।
अतिऋजुका वराकी अथवा प्रियस्तस्या हताशाया:।।]
भग्नकरवलयैव प्रकटं स्थिता सेयम्- योऽपि नावैति न जानाति, तस्यापि तेन मे वलयानि भग्नानीति वदति। भग्नवलयौ करौ वहन्ती सेयं स्वमुखेनेव जारकृतकङ्कणभङ्गं वदतीत्यर्थ:। अत एव सेयं वराकी अतिऋजुका, रहस्यस्यागोपनात्। अथवा हताशाया अस्या दयित: अतिऋजुक:, यो गोपनीयसुरतप्रसङ्गेऽपि वलयभङ्गादि रतप्रकाशककार्यमविचारात्कृत-वानिति भाव:। वराकीपदेन वलयपदगोपनरूपं सामान्यकार्यमपि कर्तुमशक्नुवतीं प्रति दयनीयतया पक्षपातो ध्वन्यते। येन वलयानि भग्नानि तं दयितं प्रति आक्रोशमप्रयुज्य 'अस्या हताशाया:’ इत्यत्र हताशापदेन तां वराकीं प्रत्येवाक्रोशप्रदर्शनात् 'अनया दयित एवैतादृगुपलब्धो यो रहस्यगोपनं न वेत्ति, एतेन चास्या एव लज्जा गच्छति न तस्य’ इत्युपालम्भो ध्वन्यते। 'रतप्रवृत्तजारभग्नवलयाया: सपत्न्याश्चारित्रखण्डनं प्रकाशयन्ती काचिदाह’ इति गङ्गाधर:। प्राकृतवत् संस्कृतेऽपि अतिऋजुकेति नि:सन्धिक: प्रयोगस्तु गङ्गाधरस्याप्रयुक्त एवेति मच्छायायाम् 'ऋजुकाधिकम्’ इति निरवत्र्यत।
कस्याश्चन कपोललावण्यलक्ष्मीं वर्णयन्कश्चिदात्मनश्चुम्बनाभिलाषं प्रकाशयति-
श्यामाया गुरुयौवनविशषभरिते कपोलमूलेऽस्मिन्।
पीयत इव लावण्यं न्यङ्मुखकर्णावतंसेन।।३९।।१
श्यामाया उत्तमनायिकाया:। षोडशवार्षिक्या इति केचित्। गुरुणा पूर्णेन यौवनेन विशेषतो भरिते (मांसले) कपोलमूले न्यङ्मुखेन अधोमुखेन कर्णाभरणेन लावण्यरस: पीयत इव। अन्योऽपि कपोलाभिमुखं न्यञ्चितमुख: सन्कपोलं चुम्बति, एवमेवाधोऽमुखोऽसौ कर्णाव-तंसो यौवनेन मांसलतया समीपागते कपोलमूले लावण्यरसं पिबतीति भाव:। अहमप्यनेन प्रकारेण चेदिमं रसं गृह्णीयां तर्हि भाग्यभिनन्देयमिति नायकेनाभिव्यज्यते। अत्रापि इवकारस्य पीयते अनेन साकमेव सम्बन्ध:, पानस्यैवोत्प्रेक्ष्यमाणत्वात्। पीयते अत्र लावण्यकर्मकस्य पानस्य बाधितत्वाद् ग्रहणे लक्षणा। तेन लावण्यरसस्य निरतिशयमनुभवं करोतीति बहुमानाति-शयो ध्वन्यते।
अतिशयितेनानुरागेण बाह्यज्ञानशून्याया: कस्याश्चिदवस्थाविशेषं सखीं प्रति काचिदाह-
१. सामाइ गरुअजोव्वणविसेसभरिए कवोलमूलम्मि।
पिज्जइ अहोमुहेण व कण्णवअंसेण लावण्णम्।।३९।।
[श्यामाया गुरुकयौवनविशेषभृते कपोलमूले।
पीयतेऽधोमुखेनेव कर्णावतंसेन लावण्यम्।।]
स्वेदार्द्रितसर्वाङ्गी गोत्रग्रहणेन तस्य सुभगस्य।
तस्यैव भवनमाप्ता दूतीं प्रस्थापयन्ती सा।।४०।।१
दूतीं प्रस्थापयन्ती प्रेषयन्ती सा। गोत्रग्रहणेन नामग्रहणेन। स्वेदाद्र्रितसर्वाङ्गी स्वेदेनार्द्री-कृतानि सर्वाण्यङ्गानि यस्या: एवंविधा सती तस्य भवनमेव गृहाङ्गणमेव प्राप्ता। नामनिर्देशसमये तन्नाम्ना तदङ्गसंस्थानस्य भावनावशात्सात्त्विकभावस्य स्वेदस्योद्गमो जात इत्यर्थ:। अनेन सततं तद्गतचित्तायास्तस्या औत्सुक्यातिशयो व्यज्यते। दूतीं प्रेषयन्त्या: स्वयं गृहाङ्गणस्यैव प्राप्त्या वेद्यान्तरशून्यता सूच्यते। तया च मोहानुगुणा दशा व्यज्यते। सर्वाङ्गस्वेदवर्णनेन-नामग्रहणे नायकस्मरणात् समागमसमयतदङ्गावसक्तनिजसर्वाङ्गाणामध्यासस्तस्या जात इति सततं नायककर्मकभावनाविशेषो व्यज्यते। स्वेदाद्यनुभावै:, औत्सुक्यमोहादिभि: सञ्चारिभिश्च नायकालम्बनाया नायिकानिष्ठरते: परिपोषो ध्वन्यत इत्यलम्। 'अत्यासक्त्या बाह्यम-संवेदयन्त्या: कस्याश्चिद्वृत्तं कापि सखीशिक्षार्थमाह’ इति गङ्गाधरटीका।
दु:सहया विरहवेदनया निजपर्यवसानं सूचयन्ती काचिद्दयितानयनाय सखीजनं त्वरयितुं कुसुमशरनमस्कारभङ्गीमेवमङ्गीकरोति-
जन्मान्तरेऽपि चरणौ जीवेन मदन तवार्चयिष्यामि।
यदि तमपि तेन विध्यसि विद्धाहं येन विशिखेन।।४१।।२
हे मदन! येन बाणेनाहं विद्धा, तेन यदि तमपि कान्तमपि विध्यसि, तर्हि अस्मिन् जन्मन्येव किम् जन्मान्तरे अग्निमे जन्मन्यपि, अन्वस्तुद्वारा किं जीवेन निजजीवितद्वारा तव
१. सेडल्लिअसव्वङ्गी गोत्तग्गहणेण तस्स सुहअस्स। दूइं पठ्ठाएन्ती तस्सेअ घरङ्गणं पत्ता।।४०।।
[स्वेदार्द्रीकृतसर्वाङ्गी गोत्रग्रहणेन तस्य सुभगस्य।
दूतीं प्रस्थापयन्ती (सन्दिशन्ती वा) तस्यैव गृहाङ्गणं प्राप्ता।।]
२. जम्मन्तरे वि चलणं जीएण खु मअण तुज्झ अच्चिस्सम्।
जइ तं पि तेण बाणेण विज्झसे जेण हं विज्झा।।४१।।
[जन्मान्तरेऽपि चरणौ जीवेन खलु मदन तवार्चयिष्यामि।
यदि तमपि तेन बाणेन विध्यसि येनाहं विद्धा।।]
चरणावर्चयिष्यामि। येन बाणेनाहं विद्धा तेनेत्यनेन-तव पञ्चशरत्वेऽपि यो बाणो मद्हृदये यादृशीं पीडां चकार नान्यो बाणस्तथा कुर्यादत एव तेनैव बाणेन विध्य, तदन्येषां चतुर्णामन्यतमेन नेति, पीडातिशयस्यानुभवो ध्वन्यते। जीवेनार्चयिष्यामित्यनेन-विरहवेदनावसन्नसर्वाङ्ग्या: प्रियनिवेदितचित्ताया मे निवेदनोचितं जीवितमेवावशिष्टमिति ध्वन्यते। जन्मान्तरेऽपीत्यनेन-वियोगानलदग्घदेहाया मे समाप्तप्रायमिदं जीवितम्, अत एव तवेममुपकारं जन्मान्तरेऽपि मानयिष्यामीति मर्मान्तिकं विरहदु:खं ध्वन्यते। तथाच-कामशरजर्जरितहृदयाया मे असह्यवेदनया गमनोन्मुखा: प्राणा:, तत्त्वरितं कान्तसमागमोपायश्चिन्त्यतामिति सखीजनं प्रति ध्वन्यते।
अतिबालायां रतोन्मुखं कञ्चिदिङ्गितेनावबुध्य, कञ्चित्कालं यावद् रतसंरम्भं स्थगयि-तुम, अत्युत्कण्ठायामुत्फुल्लकरणविशेषेण सावधानं रन्तुं वा, काचिद्विदग्घवनिता मधुकरव्यपदेशेन शिक्षयति-
निजपक्षारोपिततनुभरमतिनिपुणं रसं लिहता।
परिपीयते विकास्य हि मधुकरयूनेह मालतीकलिका।।४२।।१
निजपक्षयोरुपरि आरोपितस्तनुभर: शरीरभारो यस्मिन्कर्मणि यथा भवति तथा, अतिनिपुणमतिसावधानं च यथा स्यात्तथा रसं लिहता पुष्परसमास्वादयता। पक्षाभ्यामुड्डीय-मानतया पक्षार्पितशरीरभारेण सता, अतिसतर्कं रसं लिहतेत्यर्थ:। मधुकरयूना मालतीकलिका विकास्य पीयते। अत्यन्तमवहित: सन् विकासोत्तरमेव परमचातुर्येण मालतीकलिकागतं रसमास्वादयति मधुकरो न विकासात्प्राक्। तथा च-नेदानीं बालायामस्यां रतारम्भस्ते समुचित:, किन्तु यौवनेन रजोविकासे सत्यपि प्रथमरतेऽति सतर्कतया त्वया रन्तव्यमिति नायकं प्रत्यभिव्यज्यते। पक्षान्तरे (अत्युत्कण्ठायां विकासात्प्रागेव रतपक्षे) तु-मधुकरो यथा पक्षाभ्या-मुड्डीयमान: शनै: शनैर्विकासिताया मालतीकलिकाया रसमतिचातुर्येणास्वादयति, तथा असमर्पितभारमतिदाक्षिण्येन बालाया अस्या जघनमुत्फुल्लकेन विवार्य मृदुतमं रन्तव्यमिति ध्वन्यते। 'शिरो निपात्योर्ध्वं जघनमुत्फुल्लकम्’ इति वात्स्यानन:। 'जघनशिरोभागमधस्ताच्छय्यायां विनिपात्योत्तानमूर्ध्वं जघनं कुर्यात्। अतिविस्तारणार्थमुपर्युपरि स्थितहस्तपृष्ठे त्रिकभागं विनिवेशयेत्। एवं जघनस्योर्ध्वं विस्तृतत्वादुत्फुल्लमिवोत्फुल्लकमिति’ तट्टीका। 'पिबता’ इति
१. णिअवक्खारोविअदेहभारणिउणं रसं लिहन्तेण।
विअसाविऊण पिज्जइ मालइकलिआ महुअरेण।।४२।।
[निजपक्षारोपितदेहभारनिपुणं रसं लभमानेन।
विकास्य पीयते मालतीकलिका मधुकरेण।।]
नोक्त्वा लिहतेति कथनेन ईषदीषच्चुम्बनादिना बाह्यरतानन्दो ग्राह्य इति ध्वन्यते। मालतीकलिकाया रस: पीयते इति वक्तव्ये मालतीकलिका पीयते इत्यनेन यावन्नेयं विकसति तावदियं कलिकामात्रमेव नास्यां रस:, तथा च सेयमेव उपर्युपरित उत्फुल्लकेन सङ्गन्तव्या, रसस्तु नोपलभ्येतेति ध्वन्यते। मधुकरयूनेति युपपेदन-त्वं यथा रसपरिज्ञानशालीं तथा नेयम्, अत एव विकासं यावत्प्रतीक्षा कर्तव्येति सूच्यते। परिपीयते इत्यत्र पर्युपसर्गेण-विकासोत्तरं पूर्णं रसं लप्स्यस इति प्ररोचनाभिव्यज्यते प्रथमे पक्षे। यद्वा-त्वामपीडयन्नेवसौ रमयिष्यतीति नवव-धूमाश्वासयितुं नायकस्य नववधूसम्भोगकौशलमन्यापदेशेन प्रतिपादयन्त्या दूत्या इयमुक्ति:।
प्रवासार्थ कृतोद्यमं कान्तं प्रति वसन्ते सम्भवन्तीं पान्थानां दशां दर्शयन्ती नायिका आह-
कुरुनाथ इव हि पथिको व्यथते किल माधवस्य मिलितेन।
स्पृष्टो यदृच्छयायं दक्षिणवातेन भीमेन।।४३।।१
अयं पथिको माधवस्य वसन्तस्य वैशाखस्य वा मिलितेन सङ्गतेन। भीमेन भयानकेन विरहितवेदनादायकत्वात्। दक्षिणवातेन दक्षिणपवनेन यदृच्छाया स्पृष्ट: कुरुनाथ इव व्यथते दूयते। कुरुनाथो दुर्योधनोऽपि माधवस्य भगवत: कृष्णस्य मिलितेन सङ्गतेन भीमेन भीमसेनेन स्पृष्टो व्यथते। प्राकृते 'दाहिणवाएण’ इत्यस्य दक्षिणपादेनेति छायया दक्षिणचरणेन स्पृष्टो दूयत इत्यर्थ:। एवं च माधवकृतसाहाय्येन भीमसेनेन दक्षिणचरणद्वारा स्पृष्टो दुर्योधनो व्यथत इति पूर्णोऽर्थ:। तथाच-विरहजनदुरन्तेऽस्मिन्वसन्ते मलयमारुतस्पर्शकरम्बितगात्राणां पान्थानां कीदृशी व्यथेति विचारयता भवता प्रवास: प्रत्याख्येय इति नायिकया प्रियं प्रति सूच्यते। 'चिरविरहिणीं युवतीं सखी समाश्वासयि-तुमाह’ इत्यवतरणम्, 'वसन्तभयादचिरादेवागमिष्यति ते प्रिय इति’ तद्भावं चाह गङ्गाधर:।
अनवाप्तयौवनया जायया सह रममाणं नायकं प्रणयिनी काचिद्विदग्धा सस्नेहपरिहासं मधुकरव्यपदेशेनाह-
१. कुरुणाहो व्विअ पहिओ दूमिज्जइ माहवस्स मिलिएण।
भीमेण जहिछिआए दाहिणवाएण छिप्पन्तो।।४३।।
[कुरुनाथ इव पथिको दूयते माधवस्य मिलितेन।
भीमेन यथेच्छया दक्षिणवातेन स्पृश्यमान:।।]
ईषत्कोषविकासं यावन्नाप्नोति मालतीकलिका।
मकरन्दपानलोलुप मधुकर किं तावदेव मर्दयसि।।४४।।२
मालतीकलिका कोषस्य कुड्मलस्य विकासमुन्मीलनम्। यावत् ईषत् किञ्चिन्नाप्रोति, मकरन्दस्य पुष्परसस्य पाने लोलुप लोभिष्ठ। मधुकर तावदेव एतस्मिन्नन्तराल एव किं मर्दयसि किमिति दलयसि। अन्त:कोषस्य विकासे सत्येव कुसुमे रसोद्भव: स्यात्, एवं सत्यपि रसपानेऽत्यन्तलालसत्वात्तावदेव तां मर्दयसीत्यनुचितम्। तथा च सदि रसग्रहणे लालसा तर्हि तावत्प्रतीक्षणीयमिति भाव:। एवमर्थप्रतीत्यनन्तरं शब्दशक्तिवशात्-'अकुसुमिततया कलि-कोपमा इयं नायिका यावत्कोषविकासं वराङ्गकुड्यलविकासं नाप्नोति, रसिसुखलम्पटतया तावेदव किमेनां मर्दयसि’ इत्यपरार्थो ध्वन्यते। यावत्किल कोषविकासो न भवेन्न तावल्लभ्येत रतिसुखम्। तथापि मधुकरस्वभावात् (रतिरसलम्पटतानिसर्गात्) त्वमेनामेतिस्मिन्नेवान्तराले यन्मर्दयसि तत्ते रतिसुखलम्पटतया तावत्कालप्रतीक्षणासहत्वं सूचयति। अत एव त्वं मकरदलोलुपोऽसि! परं त्वया मनस्यभिलष्यमाणं सुखं विकासोत्तरमेव लभ्यमिति नायकं प्रति सवैदग्ध्यं सस्नेहं सपरिहासं च सूच्यते। तथा चैवंविधामप्राप्तयौवनां काञ्चित्कालं परिहाय अस्मद्विधासु विदग्धवनितासु प्रवर्तितव्यं येनाभिलष्यमाणसुखसमवाप्तिर्भवेदिति नायकं प्रति गूढं ध्वन्यते। किम् इति विशेषपदमनङ्गीकृत्य अविकलं मूलानुसरणे तु ''मधुप त्वं तावदेव मर्दयसि’’ इति पाठो बोध्य:। एवं पाठे तु-यावदियमुन्मीलितमनोभवविलास न भवति तावदीषन्मर्दनीयैव, चेद्रतिरसलालसोऽसि। एवमुपचारेणैव किशोरीणामन्त:कोषाविकासो भवति, ताश्चानुरज्यन्तीति निर्भयमिममपूर्वरसमुपभुञ्जीथा इति नायकं प्रति सख्या वचनं बोद्धव्यम्। अस्मिन्पाठे-मालतीकलिकावन्मुग्धा दयनीया च सेयं नायिका यावद्वराङ्गकुङ्मलविकासं नाप्नोति हंहो मकरन्दपानलम्पट भ्रमर! तावदेव एतावदन्तराल एव मर्दयसि बलादामर्दनेन निर्दलयसि! (काकु:)। रतिरसलम्पटस्त्वं तावत्कालं प्रतीक्षणासहिष्णुरस्यामसमये प्रवर्तसे,
१. जाव ण कोसविकासं पावइ ईसीस मालईकलिआ।
मअरन्दपाणलोहिल्ल भमर तावच्चिअ मलेसि।।४४।।
[यावन्न कोषविकासं प्राप्नोतीषन्मालतीकलिका।
मकरन्दपानलोभयुक्त भ्रमर तावदेव मर्दयसि।।]
एषा ते दुर्विदग्धतैवेति कस्याश्चन विदग्धप्रणयिन्या उक्तिरपि सम्भवतीति बोध्यम्। किमितिपदेन सोऽयमर्थो यथावदात्मलाभं लभत इत्येव मद्ग्रथितमूले समगृह्यत१।
१. अस्या गाथाया: 'नहि पराग नहि मधुर रस नहि विकास इहिँ काल। अली कलीही सोँ बँध्यो आगें कौन हवाल।।’ इति हिन्दीमहाकविविहारिपद्येन सह तुलनां तन्वाना: केचन अस्या गाथायां वक्तुस्ताटस्थ्यरूपां भावरूक्षतामाक्षिपन्ति। साधयन्ति च यद्विहारिपद्ये विषयासक्तं सुहृदं प्रति भाविनोऽनर्थस्य चिन्तया व्याकुलता, एकान्तहितैषिता, परिणामदर्शिता, चेति सुहृज्जनोचिता भावा वक्तु: प्रकटं खेलन्ति, गाथायां तु न तथा। प्रत्युत ताटस्थ्येन स्नेहशून्यतेव प्रतीयत इति। अत्र तावद्विचारणीयं यत्तदिदं ताटस्थ्य प्रतीयते न वा। प्रतीयमानमपि तद् गाथाया उद्देश्यस्य प्रतिकूलमनुकूलं वा? यावत्किल विकासोन्मुखाया अस्या मालतीकलिकाया अन्त:परागकोषस्य विकासो न भवति तावदेव त्वमेनां रसलोलुपतया किमिति मर्दयसीति सुमधुरमाक्षेपोक्तौ कथं व ताटस्थ्यं प्रतिभातीति वयं नाजानीम। स्पष्टं किल गाथायां निवेदितप्रायं यद्रसलोलुपस्त्वं कोषविकासात्प्रागेवास्यां प्रवृत्तोऽसि परं नास्या: सकाशाद्रसप्राप्तेराशा। प्रत्युत असमये मर्दनवशादग्रेऽपि रसप्राप्तेर्मार्गो रुध्यत इति मालतीकलिकाया: कोमलत्वमवेक्ष्य तत्कदर्थनेन व्यथितमानसतया हितचिन्तकताभावात्तत्पक्षमलम्ब्य सावेगं तत्कर्मतो वर्जनरभस: प्रकटितोऽस्ति। एतदपि किं ताटस्थ्यम्? 'नहि पराग नहि मधुर.’ पद्ये एकान्तहितैषितादयो भावा: कदाचन केवलं ''आगें कौन हवाल’’ अस्मादेव प्रतीयेरन्। एवमत्रापि 'मकरन्दपानलोलुप तावदेव किं मर्दयसि’ इति पदै: 'रतिरसलम्पटतया रसविकासात्प्रागेव किमेनां कदर्थयसि’ इति सहानुभूतिप्रदर्शनपरेऽस्मिन् वाक्ये हितचिन्तकताभाव: कथं नाभ्युदेति? मकरन्दपानलोलुपेत्यामन्त्रणेन अविकसितकलिकाया विकासपर्यन्तं प्रतीक्षणीयतामालक्ष्यापि मकरन्दपानलोभान्धतया तदप्रतीक्षणात्सुमधुर उपालम्भोऽप्युपस्थाप्यते। 'न हि परागेति’ पद्य 'सम्प्रति परागादेरभावेऽपि कलिकायामेवानुरक्तो मधुप:’’ इति दशामात्रमावेद्य वक्ता दूरमवतिष्ठते। गाथायां तु अविकासदशामावेद्य मकरन्दरसान्धतया माऽसौ प्रवर्ततामिति भयात् हितचिन्तकताबुध्द्या 'किं कदर्थयसीति’ सदैन्यखेदप्रदर्शनं तन्निवारणमप्युपदिश्यते। तत: कथङ्कारं स्नेहशून्यतेहाऽऽक्षिप्यते?
अस्तु. तुष्यत दुर्जनन्यायेन यदि ताटस्थ्यमेवात्र स्वीकुर्मस्तथापि तद् गाथाया उद्देश्यस्य पोषकमेव न दूषकम्। अत्र हि प्राचां टीकाकाराणामवतरणस्य गाथाव्यङ्ग्यभङ्ग्याश्चानुसारेण ''नायकं प्रति सानुरागा काचिदनवाप्तयौवनया नायिकया सह रममाणं तमभिवीक्ष्य मधुकरव्यपदेशेन सस्नेहपरिहासमाह’’ इति प्रसङ्ग: स्थाप्यते। एवं स्थितौ-अविकसितमन्मथकोषा सेयं भवता विकासात्पूर्वमेव आमर्द्यते, अहो ते रसपानलम्पटता! रसस्तावद्विकासात्पूर्वमलभ्य एव। तथा च अस्मद्विधं युवतिजनं विहाय अस्थाने क्लिश्यसीति सानुरागमावेद्य नायको निवर्त्यतेऽस्मात्कर्मण:। ततश्च हितमुपदिशन्वक्ता 'त्वं चेद्वारितोऽप्यस्मिन्कर्मणि प्रवर्तसे तर्हिं न त्वयि मे सम्मति:’ इति विरोधं व्यञ्जयन्स्वस्य ताटस्थ्यमेव सूचयेत्। अत एव च वैमत्यभयात्कर्ता तस्मात्कर्मतो निवर्तते। तथा च तदिदं ताटस्थ्यं प्रतिकूलमनुकूलं वेति मार्मिकैरन्त: प्रविश्य परीक्षणीयमित्यलं पल्लवितेन।
सं. गा... २०
भूयस्तरामनुरागं प्रदर्श्य पश्चान्मन्दस्नेहतामुपगतं नायकमनुकूलयितुं सवैदग्ध्यमुपाल-भमाना काचिदाह-
अकृतज्ञ तव कृते य: प्रावृड्रजनीषु बहु मया क्षुण्ण:।
अयि निरपत्रप पश्याम्यद्यापि ग्रामपङ्कं तम्।।४५।।१
तव कृते घनान्धकारासु वर्षारात्रिषु यो बहुतरं गाहित:, अयि निरपत्रप अलज्जाशील! तं ग्रामकर्दममद्यापि पश्यामि। नाधुना भूयान् समयो व्यतीतो यत्र मया त्वदर्थं भूयान्सा: क्लेशा अनुभूता:, त्वं तु तत्सर्वं विस्मृतवानसीत्यहो ते अकृतज्ञतेति भाव:। अद्यापि ग्रामपङ्कमित्यनेन- नाधुना स पङ्कोऽपि शुष्को यो मदनुभूतक्लेशसहनस्य साक्षीति स्वल्पकाल एव तव स्नेहो मन्दीबभूवेति नायकं प्रत्युपालम्भोऽभिव्यज्यते। 'प्रावृड्रात्रिषु’ इत्यनेन-जलधरान्धकारितदिगन्त-रासु प्रावृड्रजनीषु रसपरवशस्त्वं मय्यनुरक्तोऽभू: परं प्रावृड्जनितपङ्को यावन्न शुष्यति तावदेवान्यासक्तोऽप्यभूरित्यहो तेऽस्थिरस्नेहस्य स्वार्थपरायणतेति 'निर्लज्ज’ पदसहकारेण ध्वन्यते। मच्छायानिविष्टेन 'बहु’ पदेन मासद्वय एव मया त्वदर्थं प्रावृड्रात्रिष्वपि कतिवारमभि-सार: स्वीकृत:, त्वं तु एतावत्स्वल्प एव समये मामन्यासक्ततया विस्मरसीत्याक्षेपातिशयो व्यज्यते। क्षुण्ण इत्यनेन त्वदासक्तचेतनाया मम मार्गगमनेऽपि नासीदवधानं येन पङ्किलं मार्गं सावहित-मुल्लङ्घयेयम्, अत एवाहं कर्दमं गाहमानैवाचलमिति आवेगातिशय: सूच्यते। उत्पश्यामीति मूलपाठानुरोधेन- 'निह्रीकोत्पश्याम्यहमद्यापि ग्रामपङ्कं तम्’ इति पाठ:। अत्र उत्पश्यामीत्यस्य उत्प्रेक्षे, स्मरामीति वाऽर्थ:। अहं त्वदर्थं सोढानि पूर्वकष्टान्यद्यापि भावयामि परं त्वं तथाप्युदासीनो भवसीति नायकं प्रति पूर्वप्रणयं संस्मार्य आनुकूल्यसम्पादनप्रयत्न: प्रदर्श्यते।
आत्मनो रसिकतां सूचयितुं नागरिक: सहचरं प्रति कस्याश्चन पुरुषायितं वर्णयति-
राजति विगलत्कुन्तलविचलत्कुण्डलविलोलहारलता।
अर्द्धोत्पतिता विद्याधरी व पुरुषायिता बाला।।४६।।२
१. अकअण्णुअ तुज्झ कए पाउसराईसु जं मए खुण्णम्।
उप्पेक्खामि अलज्जिर अज्ज वि तं गामचिक्खिल्लम्।।४५।।
[अकृतज्ञ तव कृते प्रावृड्रात्रिषु यो मया क्षुण्ण:।
उत्पश्याम्यलज्जाशील अद्यापि तं ग्रामपङ्कम्।।]
. रेहइ गलन्तकेसक्खलन्तकुण्डलललन्तहारलआ।
अद्धुप्पइआ विज्जाहरि व्व पुरुसाइरी बाला।।४६।।
राजते गलत्केशस्खलत्कुण्डलललद्धारलता।
अर्धोत्पतिता विद्याधरीव पुरुषायिता बाला।।]
विगलन्त: शिथिलबन्धत्वेन विस्रंसमाना: कुन्तला यस्या:, विचलती सुरतसंरम्भेण कम्पमाने कुण्डले यस्या: सा। बहुव्रीहिगर्भ: कर्मधारय:। पुरुषायिता बाला अद्र्धोत्पतिता किञ्चिदुड्डीना विद्याधरीव राजते। भुवं विहाय किञ्चिदेवोत्पतने उत्पतनप्रथमसंरम्भेण केशादीनां विगलनं यथा भवति तथा विपरीतरतं कुर्वन्त्या बालाया अपि भवतीति भाव:। अमराप्सर:-प्रभृतिमन्यां खेगामिनीं देवजातिमनुक्त्वा विद्याधरीपदेनसेयं सुरतचातुरी न यया कयाचिल्लभ्या किन्तु या इमां विद्यां जानाति तयैव सम्यक् सम्पाद्येति तदभिज्ञाया: कामनीयत्वातिशयो ध्वन्यते। 'उद्धुप्पइआ’ इति पाठे ऊर्ध्वोत्पतितेत्यर्थो बोध्य:। 'विपरीतरते मुग्धवधूप्ररोचनार्थं नागरिक: कस्याश्चित्पुरुषायितं वर्णयति’ इति गङ्गाधर:। मत्कृतच्छायायां विगलदित्यादि 'वि-ल’ वर्णयो: प्रास: प्रेक्ष्य:। मूलानुरोधेन त्रिष्वपि शत्रन्तानुप्रासलिप्सायां तु ''ललत्सुहारलता’ इति पाठो बोध्य:।
निजसौभाग्यगर्वेण सदर्पं सञ्चरन्तं कञ्चन युवानं गुणगर्विता कापि कृष्णान्योक्तिविधया सवैदग्ध्यमाह-
भ्रमसि यदि भ्रम कृष्णैवमेव सौभाग्यगर्वितो गोष्ठे।
दोषगुणौ महिलानां क्षमोऽसि यदि वै विचारयितुम्।।४७।।१
हे कृष्ण! यदि सौभाग्यगर्वितो भ्रमसि तर्हि एवमेव सुखं भ्रम, चेन्महिलानां गुणदोषौ विचारयितुं समर्थोऽसि। उत्तमस्त्रीणां गुणदोषाभिज्ञस्यैव सौभाग्यगर्व: समुचित इत्याशय:। तथा च- मादृश्या यदि गुणान्परीक्षितुं क्षमो भविष्यसि तदैव ते सौभाग्यं परिज्ञास्यते, दुर्लभा किल मादृशी गुणशालिनीति शृण्वन्तं कान्तं प्रत्यभिव्यज्यते। 'गोष्ठे’ इत्यनेन गवां स्थाने यथाकृष्णो भ्राम्यति एवं भवानपि यत्र कुत्रचित्सुलभासु साधारणयोषास्वेतावन्तं कालं सञ्चरितवान्, नाद्यावधि विदग्धवनितासमागमो लब्ध इति गूढमाक्षेपो ध्वन्यते। बहुषु पुस्तकेषु 'महिलाणं दोषगुणविचारखमो अज्जवि ण होसि’ इति पाठ:। तथा च- गोष्ठ एवैतावत्कालं भ्रान्तवान्, महिलानां गुणदोषविचारक्षमोऽद्यापि त्वं न भवसीति पूर्वोक्तोऽर्थ: स्फुटीभवति। 'श्रीकृष्णं सौभाग्यगर्विता बल्लवी काचिदाह’ इति गङ्गाधर:।
अनुनयपराङ्मुखं कान्तं शम्भो: प्रणामापदेशेन सामयिककर्तव्यं बोधयन्ती मानिन्या: सखी आह-
१. जइ भमसि भमसु एमेअ कह्ण सोहग्गगव्विरो गोट्ठे।
महिलाणं दोसगुणे विचारअइउं जइ खमो सि।।४७।।
[यदि भ्रमसि भ्रम एवमेव कृष्ण सौभाग्यगर्वितो गोष्ठे।
महिलानां दोषगुणौ विचारयितुं यदि क्षमोऽसि।।]
सन्ध्यासमये जलपूरिताञ्जलिं विघटितैकवामकरम्।
गौर्यै हि कोषपानोद्यतमिव नमत प्रमथनाथम्।।४८।।१
सन्ध्यानुष्ठानसमये। जलेन पूरितोऽञ्जलिर्यस्य तम् किन्तु विघटितैकवामकरम्, विघट्टित: पृथग्भूत: एको वाम: करो यस्य। अर्धनारीश्वरत्वेन वामभागस्थितगौरीकस्यापि सन्ध्यासमये गौरीसम्बन्धी वाम: कर: पृथग्भूत इत्यर्थ:। एकस्मिन् हस्ते आचमनार्थं गृहीतसलिलमिति यावत्। गौर्यै गौर्या: कृते कोषपानरूपं दिव्यं कर्तुमुद्यतमिव प्रमथनाथं शिवं नमत। अन्यस्यां मेऽनुरागो नास्तीति गौर्या: प्रत्ययार्थं सन्ध्याचमनव्याजेन दिव्यमेव करोतीत्यर्थ:। तथा च- प्रणयिन्या: प्रसादनार्थं दिव्यमपि कर्तव्यं भवति, ततश्च त्वयापि सेयं शपथप्रणामादि-भिरनुनेतव्या, नात्र विप्रतिपत्तव्यमिति नायकं प्रति ध्वन्यते। प्रमथनाथमित्यनेन- सर्वेषां प्रमथा-नामधिपोऽपि शम्भुस्तेषामभिमुखं दिव्यकरणे न सङ्कुचति, भवान्स्तु प्रणयिन्या: सम्मुखम-नुनयेनैव लज्जत इत्याक्षेपगर्भं नायकप्रोत्साहनमभिव्यज्यते। कोषदिव्यं तु याज्ञवल्क्यस्मृतौ- 'देवानुग्रान्समभ्यर्च्य तत्स्नानोदकमाहरेत्। संस्राव्य पाययेत्तस्माज्जलं तु प्रसृतित्रयम्।।’ नारदस्तु 'पूर्वाह्णे सोपवासस्य स्रतस्यार्द्रपटस्य च। सशूकस्याव्यसनिन: कोषपानं विधीयते।।’
सौभाग्यशालिनीं प्रति दयितस्य प्रणयोऽवसानसमयेऽपि न मन्दीभवतीति सखी नायिकां निदर्शयन्त्याह-
ग्रामण्य: सकलास्वपि दयितास्वनुमृतिगृहीतवेषासु।
दृष्टिर्वलते मर्मच्छेदेष्वपि वल्लभाभिमुखम्।।४९।।२
अनुमृते: अनुमरणस्य गृहीतो वेषो याभिस्तासु। मर्मच्छेदेष्वपि मर्मान्तकदु:खेष्व-पीत्यर्थ:। सर्वा एव दयिता अनुमरणाय वह्निं प्रवेक्ष्यन्ती: पर्यन्ततो वीक्षमाणस्य ग्रामनायकस्य
१. संझासमए जलपूरिअञ्जलिं विहडिएक्कवामअरम्।
गोरीअ कोसपाणुज्जअं व पमहादिवं णमह।।४८।।
[संध्यासमये जलपूरिताञ्जलिं विघटितैकवामकरम्।
गौर्यै कोषपानोद्यतमिव प्रमथाधिपं नमत।।]
२. गामणिणो सव्वासु वि पिआसु अणुमरणगहिअवेसासु।
मम्मच्छेएसु वि वल्लहाइ उवरी वलइ दिट्ठी।।४९।।
[ग्रामण्या: सर्वास्वपि प्रियास्वनुमरणगृहीतवेषासु। मर्मच्छेदेष्वपि वल्लभाया उपरि वलते दृष्टि:।।]

मर्मच्छेदा भवन्तीति भाव:। एवं दु:खातिरेके सत्यपि ग्रामण्यो ग्रामनायकस्य दृष्टि:। वल्लभा-भिमुखं वल्लभाया: अत्यन्तप्रियाया: प्रियाया अभिमुखं वलते। सर्वा: प्रति इतस्ततो भ्रान्त्वा तत्रैव विश्राम्यतीत्यर्थ:। सर्वा एवानुमरणार्थं सज्जास्तथापि स्नेहालम्बनभूताया: सुभगाया एवोपरि वारं वारं दृष्टि: सञ्चरतीति भाव:। एवं च प्रभूतधनगृहस्वामिनीत्वाद्यपेक्षया प्रियप्रणयपात्रत्वमेव समधिकं कामनीयम्, येनावसानसमयेऽपि दयितां दयितो न विस्मरतीति सख्या नायिकां प्रति सूच्यते। यद्वा-मरणदशामापन्नोऽपि सुभगामेव पश्यति, युष्मास्वद्यापि विरक्तस्तस्माद-नुमरणान्निवर्तध्वं कुरुध्वं च जारमित्यभिप्रायेण कुट्टन्या इयमुक्तिरिति केचित्।
प्रियमधुरवादिनेऽपि कान्ताय किमिति कुप्यसीति वादिनीं मातुलानीं काचित्प्रत्याह-
मातुलि समाक्षराणामप्यस्ति विशेष एष वचनानाम्।
अन्य: स्नेहमयानामन्यो ह्युपरोधगदितानाम्।।५०।।१
हे मातुलि! समानि सदृशानि अक्षराणि येषु तेषामपि। वचनानामेष विशेष:- स्नेहमया-नामन्य:, उपरोधेन कस्यचिदनुरोधेन गदितानामनुरोधमयानामिति यावत्, अन्यो भिन्न:। स्नेहाभा-वेऽपि अन्यं व्यामोहयितुं कितवजनो मधुराक्षराणि वचनान्युपन्यस्यति, परं तेषु वचनेष्वक्षर-साम्येऽपि अनुभवैकगम्य: स स्वरविशेषो न भवति य: किल स्नेहमयवचनेषु भवतीति भाव:। तथा च मदनुरोधवशादयमुपरितो मधुरवचनोपचारेण मां प्रतारयति, नास्य हार्दिक: स्नेह इति मातुलानीं प्रति नायिकयाभिव्यज्यते। कुत्रचित्पुस्तकेषु 'मामि’ इति स्थाने 'सुहअ’ इति पाठ उपलभ्यते। तत्र 'सुभग’ इति सम्बोधनानुरोधेन कथं मामवधीरयसीति वदन्तं नायकं प्रति नायिकाया इयमुक्तिर्बोध्या।
अन्यास्वासक्तमपि दाक्षिण्यवशान्मधुरं वदन्तं नायकं प्रति काचित्सरोषमाह-
प्रसरन्ति हृदयदेशाद्यानि हि भिन्नानि तानि वचनानि।
अपसर कितव किमेतैरधरोत्तरमात्रभणितैस्ते।।५१।।२
१. मामि सरसक्खराणँ वि अत्थि विसेसो पअम्पिअव्वाणम्।
णेहमइआणँ अण्णो अण्णो उवरोहमइआणम्।।५०।।
[मातुलानि सदृशाक्षराणामप्यस्ति विशेष: प्रजल्पितव्यानाम्।
स्नेहमयानामन्योऽन्य उपरोधमयानाम्।।]
२. हिअआहिन्तो पसरन्ति जाइँ अण्णाइँ ताइँ वअणाइं।
ओसरसु किं इमेहिं अहरुत्तरमेत्तभणिएहिं।।५१।।
[हृदयेभ्य: प्रसरन्ति यान्यन्यानि तानि वचनानि।
अपसर किमेभिरधरोत्तरमात्रभणितै:।।]
यानि हृदयदेशाद् हृदयाभ्यन्तरत: प्रसरन्ति बहिर्भवन्ति तानि वचनानि अन्यानि। अधरोत्तरमात्रभणितै: केवलं मुखत: प्रवृत्तैर्न तु हृदयत: प्रसृतैस्तव एतैर्गदितै: किम्। कितवेति सम्बोधनेन निर्व्याजस्नेहभाजनभूतास्वन्यासु दयितासु हार्दिकं प्रमाणं निदधासि, मयि तु मुखमात्रमधुरैर्वचनैरुपचारं प्रदर्शयसीति ते कपटचर्यामहमवैमीति नायिकाया: कोपो व्यज्यते। अपसरेत्यनेन उक्तिप्रत्युक्तिकया मां व्यामोहयितुं नात्र प्रयास: कर्तव्य इति तदतिशयो व्यज्यते।
अन्यस्यामासक्तिवशाद्गोत्रस्खलितं कान्तं धीरा नायिका सवैदग्ध्यमाह-
त्वयि सौभाग्यगुणं सा निर्घृण कथमिव मया समं वहति।
ह्रियते हि नाम यस्या हृत्वापि च दीयते मह्यम्।।५२।।१
हे निर्घृण हे निर्दय! त्वयि भवद्विषये मया समं सा सौभाग्यं कथं वहति। यस्या नाम अपह्रियते, हृत्वापि च मह्यं समर्प्यते। त्वामवलम्ब्य सा मम समाना सुभगा नास्ति, यस्या: संज्ञाप्यहृत्य मह्यं समर्प्यत इति भाव:। विपरीतलक्षणया तु-सैव मत्तोऽधिकं सुभगा, यस्या: प्रतिक्षणमनुस्मरणेन मन्नामग्रहणस्थलेऽपि तस्या एव नाम भवन्मुखान्नि:सरतीति प्रियं प्रत्याक्षिप्यते। निर्घृणेत्यामन्त्रणेन-अहो ते निरनुक्रोशत्वं यस्त्वमेकान्तमनुरागिणीं मामवधीर्य तस्यामनुरज्यसि, यस्य किल साक्षि ते गोत्रस्खलनमेवेति नायकं प्रति कोपोऽभिव्यज्यते। तमेतं कोपं स्पष्टमप्रकाश्य वैदग्ध्येन कथनान्नायिकाया धीरात्वं सूच्यते। केषाञ्चिन्मतेन गम्यार्थस्य भङ्ग्यन्तरेण कथनात्पर्यायोक्तं वाच्योऽलङ्कार:। तत्रापि च कोपस्य चरमव्यङ्ग्यत्वाद्ध्वनित्वमव्याहतमेवेत्यलम्।
प्रियतमस्य विरहवेदनया भृशं विक्लवचित्ता काचिदुद्भ्रान्तमानसतयोन्मुग्धेव विरहजनितमात्मन: कार्श्यमपि तत्त्वतोऽविदन्ती प्रोषितर्भृका सखीमाह-
पृच्छाम: सद्भावादयि सखि वद किं समस्तमहिलानाम्।
दयिते गते नु वलया: करस्थिता एव वर्द्धन्ते।।५३।।२
१. कहँ सा सोहग्गगुणं मए समं बहइ णिग्घिण तुमम्मि।
जीअ हरिज्जइ गोत्तं हरिऊण अ दिज्जए मज्झ।।५२।।
[कथं सा सौभाग्यगुणं मया समं वहति निर्घृण त्वयि।
यस्या ह्रियते नाम हृत्वा च दीयते मह्यम्।।]
२. सहि साहसु सब्भावेण पुच्छिमो किं असेसमहिलाणम्।
वड्ढन्ति करठिआ व्विअ वलआ दइए पउट्टम्मि।।५३।।
[सखि कथय सद्भावेन पृच्छाम: किमशेषमहिलानाम्।
वर्धन्ते करस्थिता एव बलया दयिते प्रोषिते।।]
सद्भावात्स्नेहात्पृच्छाम:, नात्र किञ्चिदन्यथा बोद्धव्यम्। दयिते प्रोषिते सति किं समस्तमहिलानां वलया: काचादिनिर्मिता: कङ्कणा: करस्थिता एव वर्द्धन्ते, उत ममैवेति वदन्त्या नायिकाया औन्मुग्ध्यं सूच्यते। करस्थिता एवेत्यनेन- विरहकार्श्यवशाद्धस्ताद् गलन्तोऽपि मया सौभाग्यचिह्नबहुमानेन कर एव स्थापिता न कथञ्चिदपि हस्ताद्बहि: कृतास्तथा च नायिकाया विरहकाश्र्यातिशय: प्रियेऽनुरागबहुमानश्च सूच्यते। अपरिचितवाग्वैदग्ध्याया मुग्धाया: 'सद्भा-वात्पृच्छाम:, केनचिदाकूतेन सेयं पृच्छतीति न मन्तव्यम्’ इत्यादिवचनरचनानुपपत्त्या मुग्धा प्रोषितपतिका न शङ्कया। यदि तु तदिदमपि स्वाभाविकं तर्हि अस्तु सा। करस्थितानां वलयानां वृद्धिकारणाभावेऽपि वृद्धिवर्णनाद्विभावना। पर्यन्तस्तु-कार्श्यरूपेणानुभावेन प्रियतमालम्बनाया रते: परिपोष इति रसध्वनिरेव।
विषमदशामापन्नं स्वामिनमुपेक्ष्य परपुरुषाभिमुखीं स्वसखी निवारयितुं काचिदन्याप-देशविधयाह-
भ्राम्यति परित: खिद्यत उत्क्षेप्तुं चास्य करमथोन्नयते।
करिण: स्नेहनिगडिता पङ्कनिमग्नस्य करिणीयम्।।५४।।१
पङ्कनिमग्नस्य करिण: स्नेहनिगडिता करिणी। परितो भ्राम्यति, एकस्मिन्पार्श्वे दयित-स्योद्धारार्थमवकाशमलभमाना, अपरपार्श्वे भवेदवकाश इत्याशया चतुर्दिग् भ्रमतीत्यर्थ:। अनेन दयितोद्धारार्थमावेगातिशयो व्यज्यते। परितो भ्रमणेनाप्युपायमलभमाना विवशा सती खिद्यते। खेदेऽपि दयितं सम्मुखे दु:खाकुलमालोक्य नोपायेभ्यो विराम:, अत एव प्रेमविह्वला सती अस्योत्क्षेप्तुम् इममुद्धर्तुं करमुन्नयते स्वशुण्डामूर्ध्वं प्रसारयति। पङ्कनिमग्नस्य तस्योद्धारार्थमात्म-नोऽसमर्थत्वेऽपि शुण्डोत्क्षेपणेन सर्वात्मना दयितगतचित्तत्वमभिव्यज्यते। स्नेहनिगडितेत्यत्र निगडितपदेन-पङ्कनिमग्नं वल्लभं विहाय यथान्ये यूथान्तर्भुक्ता: करिणो गतास्तथेयमपि अयास्यत्परं स्नेहेन सेयं निगडितेति पारवश्यातिशय: सूच्यते। तथा च- पशवोऽपि प्रियतम-प्रेमाणमेवमनुरुन्धन्ति यदाप्राणपातं तं न परित्यजन्ति प्रयतन्ते चास्य सुखोपलब्ध्यै। ततश्च-पूर्वमनुभूतपतिप्रणयसौभाग्यायास्तव विषमदशायामेतं प्रति वैमुख्यं पशुभ्योऽपि हीनतासूचकमि-त्याकूतविशेषो ध्वन्यते।
१. भमइ पलित्तइ जूरइ उक्खिविउं से करं पसारेइ।
करिणो पङ्कक्खुत्तस्स णेहणिअलाइआ करिणी।।५४।।
[भ्रमति परित: खिद्यते उत्क्षेप्तुं तस्य करं प्रसारयति।
करिण: पङ्कनिमग्नस्य स्नेहनिगडिता करिणी।।]
सलज्जावस्थायामपि प्रियतमप्रणयोन्मादाय चतुरमहिला: स्नेहाभिव्यक्तिवैदग्ध्यं न विस्मरन्तीति सखीं शिक्षयन्ती काचित्पार्वत्या रहोवृत्तान्तं निदर्शयति-
रतिसम्भ्रमहृतनिवसनकरकिसलयरुद्धनयनयुगलस्य।
शम्भोस्तृतीयनयनं गिरिजापरिचुम्बितं जयति।।५५।।१
रतिसम्भ्रमे रतिकेलौ हृतं निवसनम् (अर्थात्पार्वत्या:) येन स च, अवसनां मां मा द्राक्षीदिति लज्जावशात्पार्वत्या करकिसलयेन रुद्धं पिहितं नयनयुगलं यस्य स चेति बहुव्रीहिद्वयगर्भ: कर्मधारय:। ईदृशस्य शम्भोस्तृतीयनयनं जयति सर्वोत्कर्षेण वर्तते। शम्भोर्द्वे नयने पार्वत्या द्वाभ्यां कराभ्यामाच्छादिते, पुनर्ललाटस्थं तृतीयलोचनं तु चुम्बनेन पिहितमिति लोचनद्वयस्थगनापेक्षया तृतीयलोचनस्यैव स्थगनं मनोहारि सम्पन्नमिति लोचनद्वयापेक्षया तृतीयमेव जयतीति भाव:। अत्र शोभते इत्याद्यनुपादाय जयतीत्येतद्घटक'जि’ धातुरूपप्रकृति-भागेनपिधानव्यापारसाम्येऽपि द्वयोर्नयनयो: पिधानं सर्वत्र पिधानकार्ये उपात्ताभ्यां कराभ्यां विहितमस्य तु पिधानोपकरणतया कुत्रचिदप्यप्रसिद्धेन अत एव अलौकिकपदवाच्येन चुम्बनेन कृतमिति तस्यैव सर्वोत्कर्ष इति धन्यजीवितत्वं सर्वाङ्गनेतृभूतनेत्रमध्येऽपि श्रेष्ठतमत्वं च ध्वन्यत इति काव्यप्रकाशकार:। तथा च- भगवती गिरिराजनन्दिन्यपि दयितमन: प्रसादसम्पा-दनार्थं प्रणयपरिपाकपरिनिष्ठितानि रसिकेचेष्टितानि निधुवनकर्मणि सावधानमनुरुन्धे, ततोऽस्मादृशीभिस्त्ववश्यमेव सर्वावस्थासु रसमार्गमञ्जुलतैवाश्रयणीयेति सखीं प्रत्यभिव्यज्यते। अत्र गाथायाम्- रतौ रसावेशवशात्सञ्जातो य: सम्भ्रमस्तद्वयात्पार्वत्या वसनमपनीतमिति शम्भो: कामावेगलोलतां ध्वनयितुं सम्भ्रमपदमुपात्तम्। यदि तु मूलपदाङ्कानुसरण एवाग्रहस्तर्हि- 'रतिकेल्यपहृतनिवस.’ इत्यादि पाठ्यम्। मूलकारस्य रुद्रपदं तु-लोकत्रितयसंहारज्वलित-नेत्रज्वलनस्य भगवतो भर्गस्य भैरवतास्मारकं गिरीन्द्रनन्दिनीनिधुवनकेलिसमये सुतरामनुपयोगि, प्रत्युत रसमार्गविरोधीति शम्भुपदेन (शं रतानुकूल्यरूपं सुखं भावयतीति) परिवर्तितमिति तयोस्तारतम्यं सुधीभिरेवाकलनीयम्। पार्वतीगिरिजापदे तु समानार्थके एवेति न काचिद्विप्रति-पत्तिरित्यलमधिकसूक्ष्मविचारचर्चया।
१. रइकेलिहिअणिअंसणकरकिसलअरुद्धणअणजुअलस्स।
रुद्दस तइअणअणं पव्वइपरिउम्बिअं जअइ।।५५।।
[रतिकेलिहृतनिवसनकरकिसलयरुद्धनयनयुगलस्य।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति।।]
क्रीडाभ्यन्तरे नवपलाशलतया ताडयतो हलिककिशोरस्य प्रहारान्सव्यपदेशमिच्छन्त्या: कस्याश्चिदनुरागं तं प्रति सूचयन्नागरिक आह-
धावति पुरत: परितो भ्राम्यति तिष्ठति च दृक्पथेपीयम्।
तव नवलतारकस्य प्रहर वराकीं नु हलिकसुत कामम्।।५६।।१
मूले 'दे’ शब्द: सम्बोधने। हे हलिकसुत! नवलतिकां करे गृहीतवतस्तव इयं पुरतो धावति परित: तव पार्श्वयोर्भ्रमति, किञ्च ताडनभयान्न तिरोदधाति प्रत्युत तव दृष्टिपथे तिष्ठत्यपि। अत एव वराकीं कामं प्रहर। त्वत्प्रेमवशात्प्रहारमपि प्रतीच्छन्त्या अस्यास्त्वदनुगायास्ताडनं नोचितमिति वराकीपदेन ध्वन्यते। हलिकसुतेत्यनेन कैशोर्यं सूच्यते। कामं प्रहरेत्यनेन- इयं त्वय्यनुरक्ता, अस्माभिरपि चेदमभ्यूहितमिदानीं यथेच्छं प्रहरेति साकूतं सूच्यते। प्रियतमनाम पृच्छद्भिर्नवपलाशादिलतया यत्र प्रियो जनो हन्यते सा क्रीडा चूतलतिकेति सरस्वतीकण्ठाभरणे भोज:। यद्वा-नवलताकुञ्जं सङ्केतस्थानं त्वं गतो न त्वियमिति कृतापराधामेनां प्रहरेति सोपहासं कुट्टनीवचनमिदमिति गङ्गाधर:।
नायिकां कौमार्य एवोपभुक्तवन्तं कञ्चन विलासिनं पतिसदनेऽप्यभिसरन्तं वीक्ष्य तद्वृतान्तं निजवयस्याय कश्चिन्निदर्शयति-
कृत्रिममानन्दपटं भ्रामितमभितो वधूवयस्याभि:।
हासोन्मिश्रितनयनं निरीक्षते किल कुमारिकाजार:।।५७।।२
आनन्दपट: प्रथमप्रथमं वरेण सङ्गताया वध्वा वम्। प्रथमसङ्गमे लग्नलोहितं वधूव वरसम्बन्धिनीभिर्महिलाभिर्लोकेषु प्रदर्श्यत इति देशविशेषे आचार:। ततश्च जारसङ्गमेन
१. धावइ पुरओ पासेसु भमइ दिट्ठीपहम्मि संठाइ।
णवलइकरस्स तुह हलिअउत्त दे पहरसु वराइम्।।५६।।
[धावति पुरत: पार्श्वयोर्भ्रमति दृष्टिपथे सन्तिष्ठते।
नवलतिकाकरस्य तव हलिकपुत्र हे प्रहरस्व वराकीम्।।]
२. कारिममाणन्दवडं भामिज्जन्तं बहूअ सहिआहिं।
पेच्छइ कुमारिजारो हासुम्मिस्सेहिँ अच्छीहिं।।५७।।
कृत्रिममानन्दपटं भ्राम्यमाणं वध्वा सखीभि:।
प्रेक्षते कुमारीजारो हासोन्मिश्राभ्यामक्षिभ्याम्।।]
पूर्वमेव दृष्टशोणितत्वात्सम्प्रति अयथार्थत्वात्कृत्रिममानन्दपटं वध्वा: रहस्यभुक्ताभि: सखीभिरभितो भ्राम्यमाणं हासोन्मिश्राभ्यां नयनाभ्यां स जार: प्रेक्षत इत्यर्थ:। अन्यस्य पराक्रमेऽपि अन्यकृतिं प्रख्याप्य अनवसरं सम्भ्रमदर्शनमिति जारस्य हास इत्याशय:। 'कृत्रिमं सर्वमुपहासास्पदं भवतीति निदर्शयन्कश्चित्स्वस्य वैदग्ध्यख्यापनाय सहचरमाह’ इत्यवतरणम्, 'आनन्दपट: प्रथमपुष्पवतीवम्। प्रथमरजोदर्शने जाते तद्वस्त्रं बन्धुभिर्लोकेषु प्रदर्श्यत इति देशविशेषे आचार:। जारसम्बन्धदृष्टशोणिताया अस्थानं सम्भ्रमदर्शनेन जारस्य हास:’ इति गङ्गाधरकृतं तद्विवरणं च।
शिशिरसमये अधरोष्णिम्ना मधूच्छिष्टं लापयन्तीं तरुणीं वीक्ष्य कश्चिदात्मनो वैदग्ध्यप्रदर्शनाय सहचरमाह-
शनकै: शनकैर्ललिताङ्गुल्या मदनपटलापनमिषेण।
व्रणिताधरे हि तरुणी धवलव्रणपट्टमिव निबध्नाति।।५८।।१
मदनपटो मधूच्छिष्टम्, तस्य द्रवीकरणस्य व्याजेन। दयितदंशनेन व्रणिते अधरे।।
सुरते वविमोकादिषु सुभृशं विप्रतिपद्यमानां नवीनां काञ्चिन्नायकप्रेरिता सखी शिक्षयति-
सुरतविरामविलक्षा अनाप्तवसनाश्च सहसैव।
आच्छादयन्ति जघनं प्रियतमपरिरम्भणेन कुलवध्व:।।५९।।२
१. सणिअं सणिअं ललिअङ्गुलीअ मअणवडलाअणमिसेण।
बन्धेइ धवलवणवट्टअं व वणिआहरे तरुणी।।५८।।
[शनकै: शनकैर्ललिताङ्गुल्या मदनपटलापनमिषेण।
बघ्नाति धवलव्रणपट्टमिव व्रणिताधरे तरुणी।।]
२. रइविरमलज्जिआओ अप्पत्तणिअंसणाओँ सहस व्व।
ढक्कन्ति पिअअमालिङ्गणेण जहणं कुलवहूओ।।५९।।
[रतिविरामलज्जिता अप्राप्तनिवसना: सहसैव।
आच्छादयन्ति प्रियतमालिङ्गनेन जघनं कुलवध्व:।।]
पूर्वं रसाविष्टतया अजानन्त्योऽपि सुरतविरामे लज्जिता:, ततश्च सहसैव न प्राप्तं निवसनं याभिस्ता:। आच्छादयन्तीत्यनेन लज्जातिशयसूचकं येन केनापि प्रकारेण गोपनं व्यज्यते।
अत्युग्रस्वभावं बह्वासक्तमपि दयितं वशीकृतवत्या: सपत्न्या: सौभाग्यं काचिदन्याप-देशेन सासूयमाह-
प्रकटितमतिसौभाग्यं पश्यत गोष्ठे गवा ह्यनया।
दुष्टवृषभस्य शृङ्गे कण्डूयन्त्या नयनपुटम्।।६०।।१
'गोष्ठे’ पदेन नारीमण्डलेऽपि सत्यनयैव वशीकृत इति संसक्तबहुनारीकोऽयमिति ध्वन्यते। 'गवा अनया’ इत्यनेन 'उपरितो मुग्धायितयापि अनया एतादृशोऽपि विषमशीलोऽयं वशीकृत इति साकूतं व्यज्यते। दृष्टवृषभस्येत्यनेन-नवोढासक्ततया आत्मानं परित्यक्तवन्तं नायकं प्रति असूया व्यज्यते। अतितीक्ष्णे शृङ्गे अतिसुरक्षणीयस्य नयनपुटस्य कण्डूयनोक्त्या अतिरहस्यप्रविष्टतया स्नेहाधिक्यं व्यज्यते। प्राकृते 'तम्बा’ गौ:। 'कापि कस्याश्चित्सौभाग्य-मन्यापदेशेनाह’ इति गङ्गाधर:।
कस्याश्चित्सुरतरसलम्पटतां नागरिक: सहचरमाह-
रतिरसलम्पटया किल पश्य कुलटयात्र सम्भ्रमक्षिप्तम्।
नवरङ्गकं निकुञ्जे ध्वजमिव दत्तं ह्यविनयस्य।।६१।।२
कुञ्जे सङ्केतस्थाने अविनयस्य दत्तं ध्वजमिव रतिरससम्भ्रमेण क्षिप्तं नवरङ्गकं कौसुम्भ-वस्र पश्य। 'जारप्रलोभनाय दूती कस्याश्चिद्रतलम्पटतामाह’ इति गङ्गाधर:।
१. पाअडिअं सोहग्गं तम्बाए उअह गोट्ठमज्झम्मि।
दुट्ठवसहस्स सिङ्गे अक्खिउडं कण्डुअन्तीए।।६०।।
[प्रकटितं सौभाग्यं गवा पश्यत गोष्ठमध्ये।
दुष्टपृषभस्य शृङ्गे अक्षिपुटं कण्डूयन्त्या।।]
२. उह सम्भमविक्खित्तं रमिअव्वअलेहलाएँ असईए।
णवरङ्गअं कुडङ्गे धअं व दिण्णं अविणअस्स।।६१।।
[पश्य सम्भ्रमविक्षिप्तं रन्तव्यकलम्पटया असत्या।
नवरङ्गकं कुञ्जे ध्वजमिव दत्तमविनयस्य।।]
कस्याश्चिदनुरागातिशयं प्रकाश्य तदभियोगाय नायकं त्वरयन्ती वृद्धा दूती सापदेशमाह-
प्रस्नौति जरद्गव्यपि हस्तस्पर्शेन दोहकगुणेभ्य:।
अवलोकप्रस्नवनीं पुत्रक पुण्यैरवाप्स्यसि क्वापि।।६२।।१
दोहकस्य गुणेभ्य: दोहकगुणहेतुवशात् तस्य हस्तस्पर्शेन जरती गौरपि प्रस्नुतपयोधरा भवति। अवलोकनमात्रेण प्रस्नवनशीलां पुण्यैरेव कुत्रापि प्राप्स्यसि। इयं तव गुणाऽश्रवणेऽपि केवलमवलोकनादेव त्वय्यनुरक्ताऽभवदिति भवद्भाग्यवैभवेन स्वभावतोनुरागिणी सेयं त्वरितमेव सम्भावनीयेति व्यज्यते। 'पुत्रक’ इत्यामन्त्रणेन-कृतभूर्यनुभवा त्वां विश्रम्भवशाद्बोधयामीति विश्वसनीयत्वं द्योत्यते। गुणेभ्य इति हेतौ तृतीया। बहुत्वेन हस्तमार्दव- अङ्गुष्ठपर्वनिष्पीडनपाट-वादिगुणबाहुल्यं द्योत्यते। मूलानुसरणाग्रहे तु 'दोहदगुणेन’ इति पाठो बोध्य:।
मन्दं चलन्तीं काञ्चित्सुन्दरीं वीक्ष्य उक्तिप्रत्युक्तिकया नागरिकौ सपरिहासमात्मा-भिलाषप्रकाशनमुपक्रमाते-
मसृणमपि चङ्क्रमन्ती पदे पदे किमिति वहति मुखभङ्गम्।
नूनं मेखलिकास्या जघनगतां स्पृशति नखपङ्क्तिम्।।६३।।२
मसृणमपि चङ्क्रमन्ती मन्दमपि पादन्यासं कुर्वती। चङ्क्रमन्तीति यङ्लुगन्ताच्छतृ-प्रत्यय:। मुखभङ्गं मुखविकारम्। पद्यपूर्वार्धमेकस्य प्रश्न:, उत्तरं तूत्तरम्। मेखलिकेति स्वल्पार्थे कन्। तेन च तनुमेखलास्पर्शेऽपि जघनगतनखरक्षतेषु पीडोदयात्तेषां सान्द्रत्वमार्द्रत्वं च सूच्यते। ततश्च-सबाह्योपचारं सकौशलोत्साहं च सुरतमासेवमानायास्ते स्वल्प एव कालोऽतीत इति ज्ञातमस्माभि:। किमेवमस्मास्वपि दयिष्यस इत्यभिलाषप्रकाशनं चरमं व्यङ्ग्यम्।
१. हत्थप्फंसेण जरग्गवी वि पह्णहइ दोहअगुणेण।
अवलोअणपह्णुइरिं पुत्तअ पुण्णेहिँ पाविहिसि।।६२।।
[हस्तस्पर्शेन जरद्गव्यपि प्रस्नौति दोहदगुणेन।
अवलोकनप्रस्रवनशीलां पुत्रक पुण्यै: प्राप्स्यसि।।]
२. मसिणं चङ्कम्मन्तीं पए पए कुणइ कीस मुहभङ्गम्।
णूणं से मेहलिआ जहणगअं छिवइ णहवन्तिम्।।६३।।
[मसृणं चङ्क्रम्यमाणा पदे पदे करोति किमिति मुखभङ्गम्।
नूनं तस्या मेखलिका जघनगतां स्पृशति नखपङ्क्तिम्।।]
सपत्नीचरणलाक्षालाञ्छितकरं दयितं खण्डिता साकूतमाह-
ददता संवाहनसुखरससन्तुष्टेन तव करे लाक्षाम्।
विक्रमनरेन्द्रचरितं चरणेन हि शिक्षितं तस्या:।।६४।।१
त्वत्कृतसंवाहनस्य सुखरसात् सन्तुष्टेन अत एव तत्परिवर्ते तव करे निजनिष्ठां लाक्षाम् (अलक्तकम्) ददता सङ्क्रामयता तस्याश्चरणेन विक्रमादित्यस्य चरितं शिक्षितम्। सपत्नीपद-संवाहनेन त्वत्करे तस्या लाक्षा सङ्क्रान्ता, तदिदं मया ज्ञातमिति साकूतं सूचयति। विक्रमादि-त्योऽपि 'संबाहणस्स’ सम्बाधनस्य सुखात्सन्तुष्ट: सन् भृत्यस्य करे 'लक्खं’ लक्षं ददाति। भृत्यकर्तृकेन शत्रुसम्बाधनेन तुष्टो विक्रमादित्यो भृत्यस्य करे लक्षं समर्पितवानिति तच्चरिते श्रूयते। प्राकृते संवाहणं सम्बाधनम् लक्खं लक्षम्। सुखोत्तरं रसपदसन्निवेशेन-त्वया तथा संवाहनं कृतं यथा तत्सुखेन स्पर्शामोदजनितस्तस्या भूयानानन्दो जात:। एवं च सपत्नीमनोऽ-नुकूलानुवर्तनेन सानुरागत्वं सूचतिम्। सन्तुष्टपदेन संवाहनसेवाया: पूर्णता सूचिता। अत एव प्रसादसूचिका लाक्षा पुरस्काररूपेण प्राप्तेति सपत्न्या: साभिलाषानुवर्तनीयत्वमाक्षिप्यते। चरणेन विक्रमनरेन्द्रवदाचरितमित्येन 'त्वं तां तथा सभयमनुवर्तसे यथा सा आत्मनि राजवदुपसेव्यत्व-मभिमन्यते’ इत्याक्षेपो ध्वन्यते। एवं च- त्वदनुवर्तनं कुर्वंतीं मां विहाय तस्या: सभयानुवर्तनं त्वं बहु मन्यसे अत एव पादसंवाहनसेवया सन्तोष्य लाक्षानुरञ्जनमवाप्नोषीति साकूतमुपालम्भो ध्वन्यते।
अनुनयं विनैव परित्यक्तमानां सखीं शिक्षयितुं मानस्य सुखकरकता काचित्समर्थयते-
मुग्धे पदपतनानां रभसबलाम्कारचुम्बितव्यानाम्।
अवलोकमात्रतुष्टे! बहुलसुखानां हि वञ्चितैषासि।।६५।।२
१. संवाहणसुहरसतोसिएण देन्तेण तुह करे लक्खम्।
चलणेण विक्कमाइत्तचरिअँ अणुसिक्खिअं तिस्सा।।६४।।
[संवाहनसुखरसतोषितेन ददता तव करे लाक्षाम्।
चरणेन विक्रमादित्यचरितमनुशिक्षितं तस्या:।।]
२. पाअपडणाणँ मुद्धे रहसबलामोडिचुम्बिआव्वाणम्।
दंसणमेत्तपसण्णे चुक्कासि सुहाणँ बहुआणम्।।६५।।
[पादपतनानां मुग्धे रभसबलात्कारचुम्बितव्यानाम्।
दर्शनमात्रप्रसन्ने भ्रष्टासि सुखानां बहुकानाम्।।]
दयितस्यावलोकनमात्रेण प्रसन्ने हे मुग्धे! अनुनयनिमित्तानां पादपतनानाम्, रभसेन (वेगेन) बलात्कारेण च चुम्बनानाम्, एतदादीनां बहुलसुखानाम् एषा त्वं वञ्चितासि। पञ्चम्यर्थे षष्ठी। पादपतनादिभ्यो बहुभ्य: सुखेभ्यो भ्रष्टासीत्यर्थ:। एषा त्वं वञ्चितासीत्येतत्पदेन-पूर्वं दत्तशिक्षापि प्रत्यक्षं त्वमधुना मानपरित्यागस्य दुष्फलमनुभवसीति निजवक्तव्ये बलमभिसूच्यते। मुग्धे इत्यामन्त्रेण- स्वसुखमवधीरयन्ती साम्प्रतमपि त्वं मुग्धैवासीत्युपालम्भ: सूच्यते। सुखानामित्यादौ चतुर्थ्यर्थे षष्ठीति तु गङ्गाधरोक्तिर्विचारणीयैव।
मानवतीं सुदतीमनुनयन्नायक आह-
सुतनु प्रसीद सम्प्रति पुनरपि सुलभानि रोषितव्यानि।
उत्सवरजनी सेयं मृगाक्षि मृगलाच्छनोज्जला गलति।।६६।।१
रोषितव्यानि रोषा:। रोषा: पुनरपि सहजमेव कर्तुं शक्या: परम् अकस्मादेव मृगलाञ्छेन (चन्द्रेण) उज्जवला: इयमनिर्वचनीयमनोहरा क्षणरात्रिरुत्सवरात्रिर्न पुन: प्राप्येत्याशय:। व्यत्येतीत्यादिस्थाने गलतीत्युक्त्या-हस्तगतापि निरर्थकं व्यतिगच्छतीति व्यज्यते। त्वं मृगाक्षीति मृगसम्बन्धवशान्मृगालाञ्छनस्यानुरोधोऽवश्यं परिपाल्य इति मृगाक्षीत्यमान्त्रणेन सूच्यते। 'छणराई’ इति मूलपदाङ्कानुरोधे तु 'क्षणरजनी वत सैषा’ इति पाठ्यम्। कुत्रचित् 'दे सुअणु’ इति स्थाने 'दे सुहअ’ इति पाठ:। तत्र पूर्वार्धे नायकम् उत्तरार्धे नायिकां चेति अन्योऽन्यगृहीतमानौ द्वावप्यमान्त्र्य दूती प्रतिबोधयतीति व्याख्येयम्।
ग्रन्थान्त:पतितां गाथाकोषाकारस्य प्रशंसां नैपुण्येनाह-
आपन्नानि कुलानि द्वावेव हि विदतरुन्नतिं नेतुम्।
गौर्याश्च हृदयदयितोऽथ शालिवाहननरेन्द्रश्च।।६७।।२
१. दे सुअणु पसिअ एह्णिं पुणो वि सुलहाइँ रूसिअव्वाइं।
एसा मअच्छि मअलञ्छणुज्जला गलइ छणराई।।६६।।
[हे सुतनु प्रसीदेदानीं पुनरपि सुलभानि रोषितव्यानि।
एषा मृगाक्षि मृगलाञ्छनोज्जला गलति क्षणरात्रि:।।]
२. आवण्णइँ कुलाइं दो व्विअ जाणन्ति उण्णइं णेउम्।
गोरीअ हिअअदइओ अहिवा सालाहणणरिन्दो।।६७।।
[आपन्नानि कुलानि द्वावेव जानीत उन्नतिं नेतुम्।
गौर्या हृदयदयितोऽथवा शालिवाहननरेन्द्र:।।]
सं. गा... २१
'आवण्णाइं’ इति प्राकृतस्य 'आपर्णानि’ 'आपन्नानि’ इत्युभयमप्यर्थ:। ततश्च-अपर्णा पार्वती, तत्सम्बन्धीनि कुलानि उन्नतिं गमयितुं गौरीदयितो जानाति। आपन्नानि आपद्ग्रस्तानि कुलान्युन्नमयितुं च शालिवाहननरेन्द्रो जानातीत्यर्थ:। 'कामार्तायास्तस्या: प्रतीकारं कर्तुं त्वमेव शक्त इत्यन्यापदेशेन दूती कमप्याह’ इति गङ्गाधरावतरणम्। एवंविधेषु पद्येषु 'अमृतं प्राकृत-काव्यम्’ इति प्रतिज्ञावशाद्बलेन शृङ्गारार्थकल्पनमिति पूर्वमुक्तमेव मया।
भीषणजनावस्थितां काञ्चिदधमां नायिकां कामयमानं कश्चन निवर्तयन्ती दूती अन्याप-देशेनाह-
निष्काण्डदुरारोहां पुत्रक मा पाटलिं सामारोह।
आरूढनिपतिता: के न कृता अनया हताशया हन्त।।६८।।१
काण्डं वृक्षस्कन्धोऽवसरश्च। तथा च-स्कन्धरहिताम् अत एव दु:खेनारोहणीयां पाटलिम् (वृक्षम्) मा आरोह। अनया बहवो जना: आरूढा एव निपतिता: कृता इति वाच्योऽर्थ:। भीषणजनरक्षितत्वाद् अनवसराम् अत एव दु:खकरसमागमां तां नायिकां नाभिसर, अनया बहवो जना निष्फलमेव निन्दाभाजनं कृता इति कामुकं प्रति व्यङ्गयोऽर्थ:। पुत्रकेत्यामन्त्रणेन स्वस्य विश्वसनीयत्वं व्यज्यते। हताशयेत्यनेनत्वन्मनोरथानुवर्तिन्यप्यहम् तस्या अवसराभावात् आशां विहतां भावयामीति सूच्यते।
ग्रामनायकवनितासक्त: पुत्रो निवार्यतामिति दाक्षिण्येन सूच्यन्ती काचिच्छ्वश्रूमाह-
एकैव पाटलास्मिन् ग्रामे ग्रामणिगृहे किल श्वश्रु।
बहुपाटलं च शीर्षं न सुन्दरं देवरस्यैतत्।।६९।।२
१. णिक्कण्ड दुरारोहं पुत्तअ मा पाडलिं समारुहसु।
आरूढणिवडिआ के इमीअ ण कआ हआसाए।।६८।।
[निष्काण्डदुरारोहां पुत्रक मा पाटलिं समारोह।
आरूढनिपतिता: के अनया न कृता हताशया।।]
२. गामणिघरम्मि अत्ता एक्क व्विअ पाडला इह ग्गामे।
बहुपाडलं च सीसं दिअरस्स ण सुन्दरं एअम्।।६९।।
[ग्रामणिगृहे श्वश्रु एकैव पाटला इह ग्रामे।
बहुपाटलं च शीर्षं देवस्य न सुन्दरमेतत्।।]
सम्पूर्णेऽस्मिन्ग्रामे ग्रामनायकस्य गृहे एकैव पाटला (वृक्ष:) अस्ति। देवस्य मस्तकं च बहूनि पाटलापुष्पाणि यस्मिंस्तादृशमस्ति एतत्सुन्दरं नेत्यर्थ:। अनुरक्तया ग्रामणीगृहिण्या पाटलापुष्पाणि दत्तानि, यानि तद्बहुमानादनेन शीर्षे मण्डितानीत्याशय:। ग्रामणीपदेन-ग्रामस्य स नायक इत्यनुपसर्पणीयात्तद्गृहाद्दुर्लभानि तानि पुष्पाण्युपायान्तरेणालभ्यानीति सूच्यते। तथा च- चिह्नैरनुमाय भयापवादजनकोऽयं देवरस्य ग्रामणीगृहाभिसारो निरोद्धव्य इति श्वश्रूं प्रत्यभिव्यज्यते।
कस्याश्चित्कटाक्षदाक्षिण्यं सहजानुरागं च सम्प्रकाश्य नायकं प्रलोभयन्ती दूती सुमधुर-माह-
सन्ति मुखेऽन्यासामपि पक्ष्मलधवलानि दीर्घकृष्णानि।
नयनानि सुन्दरीणाम्, तदपि द्रष्टुं न जानन्ति।।७०।।१
इतोऽन्यासामपि सुन्दरीणां मुखे पक्ष्मलत्वादिगुणविशिष्टानि नयनानि यद्यपि सन्ति तथापि तानि नयनानि दर्शनचातुर्यं न जानन्ति। इयमेव कटाक्षवीक्षणे प्रगल्भेत्याशय:। सहजा अपि नयनगुणा भ्रूविलासादि वैदग्ध्यं विना विफलीभूता इति भाव:। किञ्च द्रष्टुं न जानन्तीत्यनेन-अन्या: सुन्दर्यो दीर्घाभ्यामपि नयनाभ्यां न सम्यक् पश्यन्ति, या अगुणज्ञेषु अन्येषु जनेष्वनुरज्यन्ति। परम् मत्प्रस्तुता सेयं नायिकैव द्रष्टुं जानाति, या भवन्तं सकृद् दृष्ट्वैव परिचितवती। ततश्च-सहजस्नेहा सेयं नायिका त्वरितमनुसर्तव्येति नायकं प्रत्यभिव्यज्यते।
गाथाकोषनिर्मापकस्य शालिवाहननरेन्द्रस्य ग्रन्थान्त:पतितां स्तुतिमभिव्यनक्ति-
तव रणजलदसमयभयचलविह्वलपक्षकैरनुस्रियते।
परिशेषितपद्माशैर्हंसैरिव मानसं रिपुभि:।।७१।।२
१. अण्णाणँ वि होन्ति मुहे पम्हलधवलाइँ दीहकसणाइं।
णअणाइँ सुन्दरीणं तह वि हु दट्ठुं ण जाणन्ति।।७०।।
[अन्यासामपि भवन्ति मुखे पक्ष्मलधवलानि दीर्घकृष्णानि।
नयनानि सुन्दरीणां तथापि खलु द्रष्टुं न जानन्ति।।]
२. हंसेहिँ व तुह रणजलअसमअभअचलिअबिहलवक्खेहिं।
परिसेसिअपोम्मासेहिँ माणसं गम्मइ रिऊहिं।।७१।।
[हंसैरिव तव रणजलदसमयभयचलितविह्वलपक्षै:।
परिशेषितपद्माशैर्मानसं गम्यते रिपुभि:।।]
रण एव जलदसमयस्तद्भयाच्चञ्चला: अत एव विह्वला: पक्षा: सहाया: येषां तै:। परिशेषिता पद्माया: (लक्ष्म्या:) आशा यै:। ईदृशै: रिपुभिहंसैरिव तव मानसं (मन:) अनुस्रियते अनुवृत्यते। विजिता: शत्रवस्त्वां त्वन्मनोऽनुसारं सेवन्ते इत्याशय:। हंसैरपि-रण- (स्तनित)- युक्तानां जलदानां समये भयाच्चला विह्वला: कम्पमानाश्च पक्षाश्छदा येषां तै:, परिशेषिता पद्मानां कमलानाम् आशा यै: (वर्षासु कमलानां विलोपात्), ईदृशै: सद्भिर्मानससरोवरमनुगम्यते। रणयुक्ता जलदा: रणजलदा इति मध्यमपदलोपिसमास:। प्राकृते तु रणज्जलदा इत्यप्यर्थो भवति। हंसैरिवेत्युपमयावैरिणोऽपि तव शौर्यप्रतापाद्विवशं निरस्तकल्मषबुद्धयस्त्वां सेवन्ते, किमन्ये सुहृत्-सूरिप्रभृतय इति सर्वोपसेव्यत्वेन महाप्रभावत्वं राज्ञो व्यज्यते। 'दण्डयात्रोद्यतस्य राज्ञ: प्रतिषेधाय राजस्तुतिव्याजेन वर्षाकालं राज्ञी वर्णयति’ इति गङ्गाधरटीकावतरणम्।
दुर्गतेऽपि दयिते नितान्तमनुरक्तासौ धनवैभवादिना न साध्येति दूती कस्याश्चित्सुचरित-माह-
दुर्गतगेहे गृहिणी रक्षन्ती पत्युराकुलीभावम्।
अपि पृष्टदोहदेयं कथयति पुनरप्युदकमेव।।७२।।१
पृष्टो दोहद: (गर्भिण्यवस्थासम्बन्धी अभिलाष:) यस्या: ईदृशीयं गृहिणी पत्युर्व्या-कुलत्वं रक्षन्ती सती पुनरपि प्रश्ने उदकमेव कथयति। दुर्लभवस्तुप्रार्थनायां दीनोऽसौ व्याकुलो भविष्यतीति विचार्य वारंवारं पृष्टापि उदकमेव प्रार्थयते इत्यर्थ:। गृहिणीपदेन-सैव गृहस्य स्वामिनी, ततश्च गृहदारिद्रयं सम्यग् विजानातीति सूच्यते। दुर्गतस्य गृहिणीत्यनुक्त्वा दुर्गतगेहे गृहिणीत्यनेन-सम्पूर्णं गृहमेव दुर्गतिग्रस्तमित्यतिशयो व्यज्यते। 'अनायाससाध्यमेव प्रार्थनीयमिति सखीं शिक्षयन्तीं-काचिदाह’ इति गङ्गाधर:।
ग्रीष्मापराह्ने स्नातवतीनां युवतीनां कामिजनमनोहारिणी काचित्सुषमेति नागरिक: सहचरमाह-
१. दुग्गअघरम्मि घरिणी रक्खन्ती आउलत्तणं पइणो।
पुच्छिअदोहलसद्धा पुणो वि उअअं विअ कहेइ।।७२।।
[दुर्गतगृहे गृहिणी रक्षन्ती आकुलत्वं पत्यु:।
पृष्टदोहदश्रद्धा पुनरप्युदकमेव कथयति।।]
आताम्रलोचनानामाद्र्रांशुकलक्षितोरुजघनानाम्।
अपराह्णमज्जिनीनां कृते न कामो धनुर्वहति।।७३।।१
सद्य: स्नानाद् ईषदरुणनयनानाम्, आर्द्रांशुके लक्षितम् (प्रकटम्) ऊरुजघनं यासां ईदृशीनामपराह्णस्नानशीलानां महिलानां कृते कामो धनुर्न धारयति। ता: स्वयमेव कामिनां मन: क्षोभयितुमलम्, न तदर्थं कामचापस्यापेक्षेत्याशय:। मज्जिनीति ताच्छील्ये णिनि:। ततश्च-प्रतिदिनं सायाह्ने स्नानं यासां स्वभाव इत्युक्त्या स्वाभाविकी शृङ्गाररुचि: सूच्यते। गङ्गाधरस्त्वत्र विचित्रमेवाह- 'ईदृगवस्थानां युवतीनां रक्षणार्थमेव कामश्चापं वहति। अन्यथा निरर्थकत्वात्यक्तमेव स्यादिति भाव:’। सोऽयमर्थं: 'कृतेन’ इति तृतीयान्तपाठे कथञ्चित्सङ्गत: स्यात्परं सरस्वती-कण्ठाभरणादिषु (५ परिच्छेद:) नायं पाठ: सम्मन्यते। यदि स्यात्तदापि- 'ईदृगवस्थानां युवतीनां कृतेन, एवंविधयुवतीनामर्थ एव कामो धनुर्वहति। यद्येवंविधा युवतयो न भवेयुस्तर्हि कामिसम्मोहनस्य विषयाभावात्का नाम धनुर्धूननस्यापेक्षेत्याशय: कल्पनीय:।
वारवधूनां व्यामोहकतां वर्णयन्कोऽपि वयस्यमाह-
उर्वरिता: के, के वा न खण्डिता:, के न लुप्तगुरुविभवा:।
नखराणि वेशयोषा गणनारेखा इव वहन्ति।।७४।।२
के उर्वरिता: विमोहनादवशिष्टा:, अनाकृष्टा इति यावत्। के वा न खण्डिता: केषां वा व्रतखण्डनं न कृतमित्यर्थ:। के वा लुप्तो गुरुर्विभव: (धनसम्पत्ति:) येषामीदृशा न कृता इति गणनारेखा इव नखराणि कामुकदत्तनखक्षतानि वेश्या धारयन्तीत्यर्थ:। यद्वा- 'णहराइं’
१. आअम्बलोअणाणं ओल्लंसुअपाअडोरुजहणाणम्।
अवरह्णमज्जिरीणं कए ण कामो वहइ चावम्।।७३।।
[आताम्रलोचनानामाद्रांशुकप्रकटोरुजघनानाम्।
अपराह्णमज्जनशीलानां कृते न कामो वहति चापम्।।]
२. के उव्वरिआ के इह ण खण्डिआ के ण लुत्तगुरुविहवा।
णहराइं वेसिणिओ गणणारेहा उव वहन्ति।।७४।।
[के उर्वरिता: के इह न खण्डिता: के न लुप्तगुरुविभवा:।
नखराणि वेश्या गणनारेखा इव वहन्ति।।]
। नखक्षतपङ्क्तिमित्यर्थ:। कामुकदत्तनखक्षतपङ्क्तिव्याजेन के उर्वरिता इत्यादिगणनारेखा वहन्तीति भाव:। के के खण्डिता:, के के वा लुप्तविभवा इत्यादिविधिमुखेन गणनामकृत्वा निषेधमुखेन गणनायास्तात्पर्यं तु- सम्मोहनसामर्थ्यातिशयात् वशीकृतानां कामिनां गणना तु विस्तारवशाद्दु:सम्भवा। गणनायामपि वशीकृतस्यैकस्य कामिनो गणनार्थमेकस्या नखक्षतरेखाया आवश्यकतया तावन्नखक्षतरेखानामवकाश एव न स्यात्। अत एव अवशीकृतानामेव गणनार्थं रेखाकल्पनमिति। ततश्च-चातुर्योपभोग्यतया दृश्यमानविरलनखक्षतत्वाद्विरला एव तासां चक्रात्सुरक्षिता इति व्यज्यते। किंवा सर्वं जगदेव वेश्या वशीकर्तुं कामयन्ते, अत एव ये मोहितास्तदर्थं गणनारेखाया नावश्यकता, किं तु ये नाकृष्टास्तद्गणनमेवावश्यकमिति तासां वशीकरणातिशय: सूच्यते। नखक्षतानां गणनीयतावर्णनेन तानि स्पष्टं दृश्यन्त इति सूच्यते। तथा च- स्तन-कपोलादीनां प्रकटप्रदर्शनेन कामिमोहनहेतुको वेश्यास्वभावो व्यज्यते।
प्रवासादागतं दयितं प्रति निजानुभूतं विरहदु:खं सवैदग्ध्यमावेदयिति काचित्-
हृदयं दुग्धोदधिमिव विमथ्य विरहेण मन्दरेणेव।
उन्मूलितानि कष्टं रत्नानीवेह न: सुखानि किल।।७५।।१
दुग्धोदधिपदेन हृदयस्य निर्मलता सुखरूपरत्नानामाकरता चाभिव्यज्यते। उदिधिपदेन गभीरता च सूच्यते। ततश्च-सहनशीलतयैव मम हृदयं सर्वामपि वेदनां विसोढवदिति ध्वन्यते। मन्दरो यथा मूलपर्यन्तं प्रविश्य समुद्रं मथितवाँस्तथा विरहो मम हृदयान्तस्तलमुन्मथितवानिति द्योत्यते। रत्नानीव अतिस्पृहणीयानि न: सुखानि मूलादुत्खातानीति कष्टम्। 'अव्वो’ इति कष्टसूचकमव्ययम्। 'अव्वो सम्बुद्धिदु:खयो:’ इति देशीकोष:। अनया च समुद्रमथनोपमया- 'समुद्राद्यानि रत्नानि निर्गतानि न तानि पुन: परावृत्तानि, तथा त्वद्विरहे यानि सुखान्यन्तर्हितानि न तानि पुनर्लभ्यानि, ततश्च नाग्रे विरहदु:खमनुभावनीयम्’ इति प्रियं प्रत्यभिव्यज्यते।
प्रियतमस्य सर्वदा मनोऽनुकूलमेव केलौ वर्तितव्यमित्युपदिशन्तीं सखीं प्रति पत्युर्वैदग्ध्यमीर्ष्यां च काचिदेवमाह-
१. विरहेण मन्दरेण व हिअअं दुद्धोअहिं व महिऊण।
उम्मूलिआइँ अव्वो अम्हं रअणाइँ व सुहाइं।।७५।।
[विरहेण मन्दरेणेव हृदयं दुग्धोदधिमिव मथित्वा।
उन्मूलितानि कष्टमस्माकं रत्नानीव सुखानि।।]
ऋजुकरतेऽपि न तुष्यति वक्रेऽपि तदागमं विकल्पयति।
अत्र मया विधिहतया प्रिये प्रियं कथमु कर्तव्यम्।।७६।।१
हावभावादिरहिते रते। वक्रे हावभावमणितसीत्कृतदन्तक्षतनखक्षतचुम्बना-सनविशेषादियुक्ते। कुतोऽनया शिक्षितमिति तादृशरतस्यागमम् (प्राप्तिम्) विकल्पयति सन्दिह्यति। अत्र एतादृशे (रतिविदग्धे सन्देहशीले च) प्रियतमे प्रियं कथं नाम कर्तव्यम्? ततश्च प्रियस्य प्रियकरणविषये अहमेव अभव्येति भाव:। 'आगमम्’ इत्यस्य स्थाने 'आशयम्’ इति क्वचित्पाठ:। तत्र आशयं स्वमनोभावं परिवर्तयतीति तात्पर्य सङ्गमनीयं स्यात्।
नायिकाया रतिचातुर्यदर्शनेन अन्यथाभावशङ्किनं नायकं प्रति सखी काचिदाह-
बहुविधविलासरसिके सुरते क: शिक्षकोऽस्ति महिलानाम्।
स्नेहानुबन्धगन्धादशिक्षितान्यपि हि शिक्षते सर्व:।।७७।।२
बहुविधेषु विलासेषु रसिके सुरते। सुरतस्यैव विलासरसिकेति विशेषणात्-सुरतमेव निसर्गतो नानाविधमदनविलासानां रसानुवर्तीत्यर्थ:। ततश्च एतस्य क उपाऽयायो भवेत्? स्नेहानुबन्धस्य गन्धादपि लेशादपि (किं पुन: पूर्णप्रकर्षात्!) सर्वो जन: अशिक्षितान्यपि कौशलानि शिक्षते। प्रेमवशात्स्वयमेव कामकलाकौशलमनुवर्तत इत्याशय:।
नायकस्यासाधारणसुन्दरतां संसाध्य काञ्चन नायिकां तेन सङ्घटयितुमिच्छन्ती दूती प्ररोचयितुमाह-
१. उज्जुअरए ण तूसइ वक्कम्मि वि आअमं विअप्पेइ।
एत्थ अहव्वाएँ मए पिए पिअं कहँ णु काअव्वम्।।७६।।
[ऋजुकरते न तुष्यति वक्रेऽप्यागमं विकल्पयति।
अत्राभव्यया मया प्रिये प्रियं कथं नु कर्तव्यम्।।]
२. बहुविहविलासरसिए सुरए महिलाणँ को उवज्झाओ।
सिक्खइ असिक्खिआइँ वि सव्व्रो णेहाणुबन्धेण।।७७।।
[बहुविधविलासरसिके सुरते महिलानां क उपाध्याय:।
शिक्ष्यते अशिक्षितान्यपि सर्व: स्नेहानुबन्धेन।।]
वर्णवशिते! त्वया न स सम्भावित इह विकत्थसे सत्यम्।
न भवन्ति वीक्षितेऽस्मिन् स्वस्थावस्थानि चाङ्गानि।।७८।।१
वर्णो गुणवर्णनं तन्मात्रेण वशीकृते! इति सम्बोधनम्। 'वर्णो द्विजादिशुक्लादियशोगुण-कथादिषु’ इति मेदिनी। त्वया सत्यमेव स नायको न सम्भावितो न दृष्ट:। केवलं विकत्थसे, 'मया दृष्ट: स:’ इत्यात्मश्लाघां कुरुषे। अत्रोपपत्तिमाह- अस्मिन्नायके वीक्षिते सति वीक्षितु: अङ्गानि स्वस्थावस्थानि न भवन्ति, किन्तु स्वेदकम्परोमाञ्चजृम्भाङ्गभङ्गादिभावाकुलानि भवन्ति। यदि त्वं तमद्रक्ष्यस्तर्हि नैवं स्वस्थतया स्थातुमशक्ष्य इति तत्सौन्दर्यमहिमा सूच्यते। दृष्ट इत्यर्थे सम्भावित इत्युक्त्या 'तादृशगुणशाली दर्शनमात्रेण तु सोऽवश्यं सत्कर्तव्य आसीत्’ इति नायकस्य गुणातिशयो ध्वन्यते। 'स तथा सौन्दर्यशाली यथा त्वं तद्वर्णनमात्रेण वशीभूता जाता, एवं च निसर्गसुन्दरस्त्वरितमेव सोऽनुसर्तव्य:’ इति नायिकां प्रत्यभिव्यज्यते।
रतिकौशलवशीकृतोऽहं न त्वं कदाचिदपि हृदयादवधीरयितुं पारयेमिति चाटूनि कुर्वन्तं नायकं प्रति पुंसां स्वार्थप्रवणतां प्रमाणयन्ती काचिन्निदर्शनविधयाह-
आसन्नविवाहदिनेऽभिनववधूसङ्गमोत्कचित्तस्य।
प्रथमगृहिण्या: सुरतं वरस्य सन्तिष्ठते न हृदि।।७९।।२
विवाहदिने आसन्ने सत्येव। नववधूसङ्गमायोत्कण्ठितचित्तस्य वरस्य हृदि न सन्तिष्ठते। अभिनवप्राप्तेराशामात्रेणैव बहुकालमनुभूतमपि सुखं पुरुषैर्विस्मर्यते, किं पुनस्तत्प्राप्तौ सत्यामित्युपालम्भो ध्वन्यते। पूर्वत्र 'वधू’ पदेन, उत्तरत्र 'गृहिणी’ पदेन च 'अपरिचितशीलाया नववध्वा: सुखाशामात्रस्य कृते अनुभावितसर्वसौख्याया: सम्पूर्णगृहस्य स्वामिन्या अपि सुष्ठुकृतं रतं विस्मर्यते’ इत्युपालम्भातिशयो द्योत्यते। 'सन्तिष्ठते’ इति 'सम्’ उपसर्गेण-'यदि कदाचिद-
१. वण्णवसिए विअत्थसि सच्चं विअ सो तुए ण संभविओ।
ण हु होन्ति तम्मि दिट्ठे सुत्थावत्थाइँ अङ्गाइं।।७८।।
[वर्णवशितो विकत्थसे सत्यमेव स त्वया न सम्भावित:।
न खलु भवन्ति तस्मिन्दृष्टे स्वस्थावस्थान्यङ्गानि।।]
२. आसण्णविआहदिणे अहिणववहुसंगमस्सुअमणस्स।
पढमघरिणीअ सुरअं वरस्स हिअए ण संठाइ।।७९।।
[आसन्नविवाहदिने अभिनववधूसङ्गमोत्सुकमनस:।
प्रथमगृहिण्या: सुरतं वरस्य हृदये न सन्तिष्ठते।।]
प्राप्तनवसङ्गमदशायां परिणयप्रसङ्गेण पूर्वपत्न्या: किञ्चित्स्मृतिरपि भवेत्, परं सम्यक् सा हृदये न तिष्ठति’ इति स्थैर्याभावो द्योत्यते। 'अभिनवविषयानुरक्त: पूर्वानुभूतमवधीरयतीति निदर्शयन्कोऽपि वयस्यमाह’ इति गङ्गाधरावतरणम्।
दोषदर्शनेऽप्यतिरागाविष्ट: कश्चिद्धृदयस्य दशां वयस्यं प्रत्येवमाह-
यदि लोकनिन्दितं यद्यमङ्गलं यदि विमुक्तमर्यादम्।
पुष्पवतीदर्शनमिह ददाति हृदयस्य निर्वृत्तिं तदपि।।८०।।१
यदि यद्यपीत्यर्थे। विमुक्तमर्यादम् उल्लङ्घितमर्यादं सदाचारविरुद्धमिति यावत्। 'अतिमदनाक्रान्तहृदय: कोऽपि दोषं जानन्नपि रागौत्कट्यात्प्रेयस्या: सहचरीमाह’ इति गङ्गाधर:।
दोषदर्शनादुद्विजन्तमपि रागवशादुपरसन्तं कान्तं हाववती काचित्पुष्पवती सोपालम्भा-माह-
स्पृशसि न यदि पुष्पवतीं तिष्ठसि तत्किमिति वारित: पुरत:।
स्पृष्टोऽसि न: कराभ्यां धावित्वा चुलचुलायमानाभ्याम्।।८१।।२
शामर्यादया दोषाशङ्की त्वं यदि पुष्पवतीं मां न स्पृशसि तर्हि मया स्पर्शाय निवारित: सम्मुखे किमिति तिष्ठसि। इदानीं चुलचुलायमानाभ्यां त्वत्स्पर्शोत्कण्ठाया कण्डूयमानाभ्यां न: कराभ्यामेष त्वं धावित्वा स्पृष्टोऽसि। चुलचुलेत्युकण्ठातिशयसूचकमनुकरणम्। सरस्वतीकण्ठा-भरणादिषु क्वचित् चुलचुलायमानाभ्यामित्यस्य स्पन्दमानाभ्यामिति च्छायोपलभ्यते। परं भावव्यञ्जनानुकूला प्राकृतशैली पालनीयेति न तथेहानुसृतम्। नायिकानिष्ठ: सोऽयं हाव इति सरस्वतीकण्ठाभरणम्। 'रागत: सहसा प्रवृत्तिहेतुश्चित्तोल्लासो हेला। वचनविन्यासेन सहिता हेलैव हाव:’ इति तद्वर्णितं लक्षणम्।
१. जइ लोकणिन्दिअं जइ अमङ्गलं जइ विमुक्कमज्जाअम्।
पुप्फवइदंसणं तहवि देइ हिअअस्स णिव्वाणम्।।८०।।
[यदि लोकनिन्दितं यद्यमङ्गलं यदि विमुक्तमर्यादम्।
पुष्पवतीदर्शनं तथापि ददाति हृदयस्य निर्वाणम्।।]
२. जइ ण छिवसि पुप्फवइं पुरओ ता कीस वारिओ ठासि।
छित्तोसि चुलचुलन्तेहिँ धाविउण अम्ह हत्थेहिं।।८१।।
[यदि न स्पृशसि पुष्पवतीं पुरतस्तत्किमिति वारितस्तिष्ठसि।
स्पृष्टोऽसि चुलचुलायमानैर्धावित्वास्माकं हस्तै:।।]
मुग्धाया: प्रोषितपतिकाया: सखी नायकसमीपगामिनं पान्थं प्रति नायकार्थं सोपालम्भं सन्दिशति-
उज्जागरककषायितगुरुकाक्षी मोघमण्डनविलक्षा।
सा लज्जते वराकी सुभग सखीभ्योऽपि लज्जालु:।।८२।।१
उज्जागरेण (सुभृशं जागरणेन) कषायिते गुरुके अक्षिणी यस्या: सा। त्वद्विरहगोपनार्थं सखीनामाग्रहाद्धारितेनापि त्वद्वियोगान्निष्फलेन मण्डनेन विलक्षा सा। विरहदु:खानुमितस्य त्वत्प्रणयस्य स्फुटीभावात्सखीभ्योऽपि लज्जते, किमुतान्येभ्य:। मण्डनादिना यद्यपि उपरितो बहुतरं गोपयति परं जागरणकषायिताभ्यां गुरुकाभ्यां नेत्राभ्यामेतस्या विरहदु:खं स्फुटीक्रियत इति स्वभावादेव लज्जालु: सा लज्जातिक्रमात्सुभृशं खिद्यत इति 'वराकी’ पदद्योतितेन दैन्येन विरहातिशय: सूच्यते। सुभगेत्यामन्त्रणेन-सौभाग्यगर्वितस्त्वमेवमवस्थामपि न तां सम्भावयसीति नायकं प्रति त्वरार्थमुपालम्भ: सूच्यते।
गर्भभरात्क्लाम्यन्तीं सखीमवलोक्य सखी सपरिहासमन्यां सखीमाह-
नापि तथा हृदि ताम्यति गर्भस्य भरेण भूरिगुरुणापि।
विपरीतनिधुवनं पुनरप्राप्नुवती स्नुषा यथा दयिते।।८३।।२
यथा दयिते ताम्यति दयितं प्रति खिद्यत इत्यर्थ:। 'स्नुषा’ पदेन नवतारुण्यं श्वश्रूप्रभृति-भिर्गर्भावस्थायां सुरक्षितत्वं च सूच्यते। गर्भिणीपीवरादीनां विपरीतसुरतस्य निषिद्धत्वादिति भाव:।
१. उज्जागरअकसाइअगुरुअच्छी मोहमण्डणविलक्खा।
लज्जइ लज्जालुइणी सा सुहअ सहीहिँ वि वराई।।८२।।
[उज्जागरककषायितगुरुकाक्षी मोघमण्डनविलक्षा।
लज्जते लज्जाशील सा सुभग सखीभ्योऽपि वराकी।।]
२. ण वि तह अइगरुएण वि तम्मइ हिअए भरेण गब्भस्स।
जह विपरीअणिहुअणं पिअम्मि सोह्णा अपावन्ती।।८३।।
[नापि तथातिगुरुकेणापि ताम्यति हृदये भरेण गर्भस्य।
यथा विपरीतनिधुवनं प्रिये स्नुषा अप्राप्नुवती।।]
नायिकानुरागं प्रकाश्य नायकमुत्कण्ठयन्ती दूती सहजमाह-
अगणितजनापवादं ह्यपहस्तितगुरुजनं वराक्याद्य।
तव विगलितदर्शनया तया वलित्वा चिरं रुदितम्।।८४।।१
विगलितदर्शनया दर्शनाद्वियुक्तया। न गणितो जनापवादो यस्याम्, अपहस्तिता: अवमानिता: गुरुजनाश्च यस्यां क्रियायां यथा भवति तथेति क्रियाविशेषणद्वयम्। वलित्वा परावृत्त्य। अपहस्तितपदेन-प्रेमप्रतिरोधाय बलान्मध्यमापततोऽपि गुरुजना हस्ताभ्यामपसारिता इति प्रेमातिशय: पोष्यते। वलित्वा रुदितमित्यनेन-यावत्वद्गमनस्य दिशि लग्नाभूद्दृष्टिस्तावदा-सीदाश्वास: परं मुखपरावर्तने सोऽपि गत इति दु:खातिशय: सूच्यते। वराकीपदेन-जन-गुरुजन-सन्दंशपतितापि त्वत्प्रणयवशीकृता सेयं दीना किमिति नोपगम्यत इति दैन्योत्तेजित उत्कण्ठातिशय: पोष्यते।
प्रोषितपतिका तत्सखीं वा लेखमुखेन नायकमाह-
हृदयं हृदये निहित चित्रालिखितेव तव मुखे दृष्टि:।
आलिङ्गनरहितानि हि केवलमङ्गानि हीयन्ते।।८५।।२
हीयन्ते क्षीणानि भवन्ति। तव मुखे मद्दृष्टिश्चित्रलिखितेव निश्चला, सर्वदा मम दृष्टौ तव मुखं भ्रमतीत्याशय:। मम हृदयं तव हृदये स्थापितमित्यनेन-एकीभूतहृदयाया मम विरहवेदना किं न जानासि? ततश्च हृदयाभिज्ञस्त्वं विरहविकलां दुर्बलां मां त्वरितं सान्त्वयेति ध्वन्यते। प्रतिक्षणमेव त्वत्स्मरणस्योपस्थापनेन उत्कण्ठासम्बर्धकं हृदयं दृष्टिश्चेति द्वितयं तु विरहेऽपि सर्वदैवाक्षुण्णबलम्, हृदय-मुखाद्यनुकूलसमागमसौख्यात्। देहस्तु क्षीयते। तथा
१. अगणिअजणाववाअं अवहत्थिअगुरुअणं वराईए।
तुह गलिअदंसणाए तीए वलिउण चिरं रुण्णम्।।८४।।
[अगणितजनापवादमपहस्तितगुरुजनं वराक्या।
तव गलितदर्शनया तया वलित्वा चिरं रुदितम्।।]
२. हिअअं हिअए णिहिअं चित्तालिहिअ व्व तुह मुहे दिट्ठी।
आलिङ्गणरहिआइं णवरं खिज्जन्ति अङ्गाइं।।८५।।
[हृदयं हृदये निहितं चित्रालिखितेव तव मुखे दृष्टि:।
आलिङ्गनरहितानि केवलं क्षीयन्तेऽङ्गानि।।]
चोत्कण्ठोपबृंहणेन शतगुणसन्धुक्षितविरहवेदनं कथं मे जीवितं तिष्ठेदिति त्वमेव जानीहीति गूढमाकूतम्। 'शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे’ इत्यादयो बह्व्य: सूक्तयोऽस्या गाथाया उपजीवन्त्यर्थमित्यलं मार्मिकेषु।
प्रियानयनाय त्वरयन्ती प्रोषितपतिका मर्माभिज्ञां सखीमाह-
अहमिव वियोगतन्वी विराहाग्निर्दु:सहश्चलो जीव:।
अभिधीयतां नु सखि किं त्वमेव जानासि यद्युक्तम्।।८६।।१
वियोगतनुतया शुष्कां विरहाग्नि: सुभृशं दहतीति तन्वीपदोत्तरं विरहाग्रिपदनिगुम्फनस्या-कूतम्। एवं जीवन्त्या एव शरीरदाहे वराको जीव एव कथं तिष्ठेत्, तस्य वायुवच्चलत्वात्। एवमवस्थायां प्रियतमार्थं किं सन्दिश्यतामस्मिन्विषये यद् युक्तं तत्वमेव जानासि। अथवा-मया किमुच्यताम्। सम्प्रति यदुचितं तत्त्वं जानासि। यदि मे जीवितं कामनीयं तर्हि प्रियतम: समानेय इत्याशय:।
अन्यासक्ततया चिरकालदनुपसरन्तं नायकं नायिकाया विरहदु:खं प्रतिपादयन्ती दूती आह-
तव विरहोज्जागरक: स्वप्नेऽपि ददाति दर्शनसुखं नो।
वाष्पेण यदवलोकनविनोदनं तदपि बत हतं तस्या:।।८७।।२
विरहवशाज्जागरणं स्वप्नेऽपि तव दर्शनसुखं न ददाति। मार्गे गच्छतस्तव, गृहपृष्ठादितो यदवलोकनरूपं विनोदनं तदपि चिन्तौत्कण्ठ्यजनितेन वाष्पेण तस्या विहतम्। विनोदनपदेन-सम्प्रति विरहस्यैतावती विषमा वेदना यत्तस्यां त्वदवलोकनमेव विनोदनं नान्य: कश्चित्प्रतीकार
१. अहअं विओअतणुई दुसहो विरहाणलो चलं जीअम्।
अप्पहिज्जउ किं सहि जाणसि तं चेव जं जुत्तम्।।८६।।
[अहं वियोगतन्वी दु:सहो विरहानलश्चलं जीवम्।
अभिधीयतां किं सखि जानासि त्वमेव यद्युक्तम्।।]
२. तुह विरहुज्जागरओ सिविणे वि ण देअ दंसणसुहाइं।
वाहेण जहालोअणविणोअणं से हअं तं पि।।८७।।
[तव विरहोज्जागरक: स्वप्नेऽपि न ददाति दर्शनसुखानि।
वाष्पेण यदालोकनविनोदनं तस्या हतं तदपि।।]
इत्युत्कण्ठातिशय: सूच्यते। 'कलहान्तरिताया विरहदु:खं प्रतिपादयन्ती दूती नायकमाह’ इति गङ्गाधर:। एतावच्चिरं यदि मानस्थिति: साधीयसी तर्हि सम्यगेवेदम्।
कुपितं दयितं किमिति न प्रसादयसीति वदन्तीं वयस्यां प्रति काचित्साकूतमाह-
अन्यापराधकुपित: प्रसादमयते यथा तथा समयात्।
तं द्वेष्यतापराधे प्रसादयिष्ये कथं कुपितम्।।८८।।१
अन्य: आज्ञोल्लङ्घनादिरूपो योऽपराधस्तेन कुपित: यथाकथञ्चित् समयान्तरे प्रसादं गच्छति। द्वेष्यता साहजिको द्वेषस्तद्रूपेण ममापराधेन कुपितं तु तं कथं प्रसादयिष्यामि? अहं तस्य सहजमेव द्वेष्यास्मि, एवमवस्थायां कथङ्कारमेनं प्रसादयिष्यामीत्यर्थ:। 'अनुरक्तं कान्तं कापि सोपालम्भमाह’ इति गङ्गाधरावतरणं तु विचारणीयमेव। अनुरक्तस्य तस्य कोपद्वेषयोर-समन्वयात्। कान्तं प्रत्येवोक्तौ तमिति परोक्षार्थस्यासम्बन्धाच्च।
बाह्योपचारचातुर्येण अन्यनायिकासक्तिं गोपयन्तं कान्तं प्रति काचित्सोपालम्भमाह-
दृश्यस इह मधु जल्पसि सद्भाव: सुभग पुनरियानेव।
हृदयं हि पाटयित्वा क: कस्मै कथय दर्शयति।।८९।।२
इह दृश्यसे अस्मभ्यं दर्शनं ददासि, प्रियं जल्पसि, एतावानेव तु स्नेह:। दृश्यसे इत्यनेन-प्रयोजनैकमित्रस्य ते दर्शनदानमपि महानुपकार इत्याक्षेप:, केवलं दर्शनमात्रं ददासि, प्रणयोपलब्धिस्तु त्वत्तो दूरापस्तैवेत्युपालम्भो वा ध्वन्यते। मधुरस्य स्थाने 'मधु’ इत्युक्तया-व्यामोहनार्थमनृतं माधुर्यातिशयं प्रदर्शयसि। स्पष्टं तदस्वाभाविकमित्याक्षिप्यते। इयानेवेति विपरीतलक्षणया बाह्योपचारमात्रं न सद्भाव इति सूच्यते। हृदयं तु विपाट्य को दर्शयतीत्यनेन
१. अण्णावराहकुविओ जहतह कालेण गम्मइ पसाअम्।
वेसत्तणावराहे कुविअं कहँ तं पसाइस्सम्।।८८।।
[अन्यापराधकुपितो यथातथा कालेन गच्छति प्रसादम्।
द्वेष्यत्वापराधे कुपितं कथं तं प्रसादयिष्यामि।।]
२. दीससि पिआणि जम्पसि सब्भावो सुहअ एत्तिअ व्वेअ।
फालेइऊण हिअअं साहसु को दावए कस्स।।८९।।
[दृश्यसे प्रियाणि जल्पसि सद्भाव: सुभग एतावानेव।
पाटयित्वा हृदयं कथय को दर्शयति कस्य।।]
'बहिस्त एव त्वयतिमधुरोऽसि। हृदयं तु न त्वं प्रकाशयितुं समर्थ:। तथा कृते तु कृत्रिमप्रणयस्य ते हृदयदशा स्पष्टा भवेदि’ति निभृत उपालम्भो ध्वन्यते। सुभगेत्यामन्त्रणेन-सौभाग्यदर्पितस्त्वम्, अत एव कृत्रिमोपचारैराकर्षणमिच्छसीति सूच्यते।
स्वल्पलाभेन दृप्यत्सु दुर्जनेषु घटमानां सूक्तिं सुमधुरमाह-
उदकं लब्ध्वां केचिन्नितान्तमुत्तानितानना: सन्ति:।
रिक्ता नमन्ति सुचिरं रहट्टघटिका इवेह कापुरुषा:।।९०।।१
रहट्टो घटीयन्त्रं तत्सम्बन्धिन: क्षुद्रा घटा इव तुच्छपुरुषा: सन्ति। उदकं लब्ध्वा यथा घटिका ऊर्ध्वमुखा भवन्ति तथा दुर्जना अपि स्वल्पलाभ एव दर्पेण मस्तकमुन्नमयन्ति, रिक्ततयां च नम्रा भवन्ति। गङ्गाधरेण प्राचीनपद्यमिहोपन्यस्तम्-''जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नता:। किं कनिष्ठा: किमु ज्येष्ठा घटीयन्त्रस्य दुर्जना:।।’’ इति। 'काप्यस्थिरस्नेहं पतिमुपालब्धमन्या-पदेशेनाह’ इति तट्टीकास्थमवतरणम्।
कलानिधिकलाकलापेन धवलितपर्यन्ते दिग्दिगन्ते प्रियतमसमागमवञ्चिता कृष्णाभिसारिका सखीं सखेदमाह-
ज्योत्स्नाजलं नु कियदिव भग्नप्रियसङ्गमं नभ:सरसि।
तिष्ठति न चन्द्रकिरणप्रणालनिर्झरनिवहनिपतत्।।९१।।२
भग्नो मादृशीनां प्रियसङ्गमो येन, ईदृशं ज्योत्स्नारूपं जलं गगनरूपे सरसि कियदिव किंपरिमणामस्ति? अपरिमेयं भृतमस्तीत्याशय:। यतश्चन्द्रकिरणा एव प्रणालनिर्झरनिवहास्तेभ्यो निपतत् न तिष्ठति न समाप्यते। यदि ज्योत्स्नाजलं समाप्तं स्यात्तर्हि प्रियतममभिसरेयमित्याशय:। जले वर्षति यातायातनिरोधेन यथा प्रियसङ्गमो विहन्यते तथेदानीमपि। तथा च-जलाभेदरूपणेन ज्योत्स्नाया: सान्द्रत्वसूचनात्पर्यन्तत: प्रकाशातिशयो ध्वन्यते।
१. उअअं लहिउण उत्ताणिआणणा होन्ति के वि सविसेसम्।
रित्ता णमन्ति सुइरं रहट्टघडिअ व्व कापुरिसा।।९०।।
[उदकं लब्ध्वा उत्तानितानना भवन्ति केऽपि सविशेषम्।
रिक्ता नमन्ति सुचिरं रहट्ट (अरघट्ट) घटिका इव कापुरुषा:।।]
२. भग्गपिअसंगमं केत्तिअं व जोह्णाजलं णहसरम्मि।
चॅन्दअरपणालणिज्झरणिवहपडन्तं ण णिट्ठाइ।।९१।।
भग्नप्रियसङ्गमं कियदिव ज्योत्स्नाजलं नभ:सरसि।
चन्द्रकरप्रणालनिर्झरनिवहपतन्न निस्तिष्ठति।।]
नायकमुत्कण्ठयितुं नायिकानुरागं सूचयन्ती दूती आह-
सुन्दरनवयुवजनसङ्कुलेऽपि तव दर्शनं विमार्गन्ती।
भ्रमति विपिन इव दृष्टिर्वराकिकाया: समुद्विग्रा।।९२।।१
सुन्दरैर्नवयुवकजनै: सम्भृतेऽपि स्थाने केवलं तव दर्शनं वाञ्छन्ती तस्या वराक्या दृष्टि: अरण्य इव शून्य इव उद्विग्रा सती भ्रमति। त्वां विहाय अन्ये सर्वेऽपि नवयुवकास्तस्य दृष्टौ नोपगच्छन्ति, अत एव उद्विग्ना सती अरण्यमिव शून्यं तत्स्थानं पश्यतीत्याशय:। अरण्य-पदेन भयजनकत्वं सूच्यते। रूपशालिनोऽपि नवयुवानस्तस्या दृष्टौ न रोचन्ते, ततश्च त्वदेकमात्र-चित्ता सा नोपेक्षणीयेति व्यज्यते। वराकिकेत्यत्र कन् दयनीयत्वं सूचयति। यदा तस्या दृष्टिस्त्वद्दर्शनार्थं विकला भ्रमति तदा करुणा आयातीत्यर्थ:। अथवा, एवमेकान्तानुरक्तचित्तापि सा तवोपेक्षापात्रमस्तीति सा दीनैवेतयाशय:। तव दर्शनं विमार्गन्तीत्यनेन-तव दर्शनं तत्कृते अन्वेषणीयमिति दुर्लभत्वं द्योत्यते। भ्रमतीत्यनेन-त्वामदृष्ट्वापि सा न निश्चेष्टा तिष्टति, किन्तु त्वद्दर्शनार्थं विकला आहिण्डत इत्यनुरागातिशयो ध्वन्यते। 'अणुव्विण्णा’ इति पाठे त्वद्दर्शन-कौतुकात् अनुद्विग्रा, अगणितखेदेत्यर्थ:।
प्रोषितपतिकाया विरहवैकल्यं तत्प्रियतमसमीपगामिने पान्थाय सखी सन्दिशति-
अतिकोपापि श्वश्रूर्विरोदिता व्युषितकान्तया स्नुषया।
पादपतनावनतया ह्युभयोरपि वलययो: पततो:।।९३।।२
चरणवन्दनार्थमवनतया प्रोषितपतिकया स्नुषया, नमनसमये उभयहस्तविधृतयोर्वल-ययो: निपततो: सतो: अतिकोपनापि श्वश्रू: रोदिता। पदवन्दनसमये दौर्बल्यातिशयात्सहजमेव निपतन्तौ वलयावपि वराक्या न परिज्ञाताविति दृष्ट्वा निष्ठुराया अपि श्वश्र्वा: करुणाभूदित्याशय:।
१. सुन्दरजुआणजणसंकुले वि तुह दंसणं विमग्गन्ती।
रण्ण व्व भमइ दिट्ठी वराइआए समुव्विग्गा।।९२।।
[सुन्दरयुवजनसङ्कुलेऽपि तव दर्शनं विमार्गयन्ती।
अरण्य इव भ्रमति दृष्टिर्वराकिकाया: समुद्विग्ना।।]
२. अइकोवणा वि सासू रुआविआ गअवईअ सोह्णाए।
पाअपडणोण्णआए दोसु वि गलिएसु वलएसु।।९३।।
[अतिकोपनापि श्वश्रू रोदिता गतपतिकाया स्नुषया।
पादपतनावनतया द्वयोरपि गलितयोर्वलययो:।।]
वलययोरिति द्विवचनेन 'दौर्बल्याद्बहवो वलयास्तु कराद्विगलिता एव किन्तु सौभाग्यचिह्नमिति कृत्वा प्रत्येकहस्ते एकैको वलयो रक्षित:-’ इति दौर्बल्यातिशयो व्यज्यते। रोदितेत्यनेन-अतिकोपापि सा केवलं मार्दवमेव न गता प्रत्युत विद्रुतहृदयापि जातेति स्नुषाया दयनीयत्वातिशयो व्यज्यते। ततश्च-एवंविधा सा दयनीया जाता यत्सर्वदा कोपकुटिलस्यापि जनस्य मनसि तां वीक्ष्य दया जाता, तत्किं दयितम्मन्यो भवानेव तां म्रियामाणामुपेक्षिष्यते? इति प्रियतमं प्रति ध्वन्यते।
प्रवासोद्यतं दयितं बहिर्गमनान्निवारयन्ती काचिद्ग्रीष्मातपस्य दु:सहतां वर्णयति-
विरुदन्तीवारण्ये दु:सहरविरश्मिसन्तप्ता:।
अतितारझिल्लिविरुतैर्महीरुहो ग्रीष्ममध्याह्ने।।९४।।१
सूर्यातपसन्तापाद्दु:खिता वृक्षा अपि अतितारै: झिल्लीनां ('झींगुर’) शब्दै: रुदन्ति इव। अरण्ये इत्यनेन अरण्यस्थानामपि यदेयं दशा तदा नागरिकस्य ते का दशा स्यादिति सूच्यते। वृक्षा रुदन्तीत्यनेन-अचेतना अपि एवमवस्था: सञ्जाता: पुनश्चेतनानां तु भृशमेव भयमिति व्यज्यते। किञ्च गमनसमये रुदतां दर्शनेन अशकुनभयात्प्रवासरोधे तात्पर्यं व्यज्यते। 'यद्वा सङ्केतवनोपगतं लोकागमं शङ्कमानं कान्तं प्रत्यभिसारिकाया इयमुक्ति:। नायं जनचरणसञ्चरणचलितपत्रध्वनि:, किं तु झिल्लीध्वनिरिति नि:शङ्कं रमस्वेति भाव:’ इति गङ्गाधर:।
सङ्केतितस्य तस्य सरस: कमलवनमहं गता, न त्वं दृष्ट इति नायकं श्रावयन्ती काचित्सखीमाह-
प्रथमनिलीनमधुरमधुलुब्धालिकुलोन्निबद्धझङ्कारम्।
अहिमकरकिरणनिकुराभिचुम्बितं दलति कमलवनम्।।९५।।२
१. रोवन्ति व्व अरण्णे दूसहरइकिरणफंससंतत्ता।
अइतारझिल्लिविरुएहिँ पाअवा गिम्हमज्झह्णे।।९४।।
[रुदन्तीवारण्ये दु:सहरविकिरणस्पर्शसन्तप्ता:।
अतितारझिल्लीविरुतै: पादपा ग्रीष्ममध्याह्ने।।]
२. पढमणिलीणमहुरमहुलोहल्लालिउलबद्धझंकारम्।
अहिमअरकिरणणिउरम्बचुम्बिअं दलइ कमलवणम्।।९५।।
[प्रथमनिलीनमधुरमधुलुब्धालिकुलबद्धझङ्कारम्।
अहिमकरकिरणनिकुरम्बचुम्बितं दलति कमलवनम्।।]
सं. गा... २२
प्रथमं निलीनेन मधुरमधुलुब्धेन अलिकुलेन उत् (उच्चै:) निबद्धो झङ्कारो यस्मिन् तत्, अहिमकरस्य सूर्यस्य किरणनिकरेण अभिचुम्बितं सर्वत: परामृष्टम्। दलति विकसति। सुप्तस्य राज्ञ: प्रबोधनाय वैतालिकस्येदं वचनमिति केचित्। 'सान्ध्यो विधिरनुष्ठीयताम्, सुरभयो मुच्यन्ताम्, विक्रेयवस्तूनि प्रसार्यन्ताम्, नास्तीदानीं पिशाचादिभयम्, पथिक प्रतिष्ठस्वेत्यादि प्रस्तावदेशकालादिभेदात्पुनरनेकविधो व्यङ्ग्योऽर्थ: सहृदयैस्वयमूहनीय:’ इति गङ्गाधर:।
मानिन्या मानापनोदनाय नायकं त्वरयन्ती दूती तस्य सहचरमाह-
प्रेयसि गोत्रस्खलनं श्रुत्वां क्षणवासरेऽद्य बत तस्या:।
वध्यमहिषस्य मालेव मण्डनं पश्यताभाति।।९६।।१
अद्य क्षणवासरे उत्सवदिवसे। प्रेयसि प्रियतमे प्रियतमस्य मुखादिति यावत्। गोत्रस्खलनं श्रुत्वा तस्या मण्डनं देव्यै उपहारत्वेन कल्पितस्य महिषस्य मालेव प्रतीयते इति पश्यत। बलिदानाय नियमितस्य महिषस्य कृतमपि मण्डनम् आसन्नमरणतया यथा न शोभते तथा तस्य अपीत्यर्थ:। प्रेय:पदेन-तस्यास्त्वमेतावत्प्रियोऽसि यत्तव मुखादन्यमहिलाया नामापि श्रुत्वा द्वेषवशात् सा मरणं व्यवस्यतीति सूच्यते। एवं च अभिमानिनी सा यावन्न म्रियते तावदेव त्वरितमनुनयेति प्रियतमं प्रत्यभिव्यज्यते। अनुभावेषु नायिकानिष्ठ: सोऽयं सपत्नीं प्रति द्वेष इति सरस्वतीकण्ठाभरणम्।
काचिन्निजप्रियतमानयनाय सखीं त्वरयितुमात्मनो विषमां विरहवेदनामाह-
मदयति मलयमरुन्मां स्थगयति भवनाच्च निर्यतीं श्वश्रू:।
अङ्कोटपरिमलेनापि यो मृत: स खलु मृत एव।।९७।।२
मलयमारुत: अतिसौरभमुद्वमति, (महमहायते) अत एव मामुन्मत्तां करोति। श्वश्रूश्च 'मलयमा-रुतोद्दीपितमदना मदनाशुगवेदनावशात्सेयं दुरपनेयं दशान्तरं यास्यति’ इति विचार्य मां गृहान्निर्गच्छन्तीं
१. गोत्तक्खलणं सोऊण पिअअमे अज्ज तीअ खणदिअहे।
वज्झमहिसस्स माल व्व मण्डणं उअह पडिहाइ।।९६।।
[गोत्रस्खलनं श्रुत्वा प्रियतमे अद्य तस्या: क्षणदिवसे।
वध्यमहिषस्य मालेव मण्डनं पश्यत प्रतिभाति।।]
२. महमहइ मलअवाओ अत्ता वारेइ मं घराणेन्तीम्।
अङ्कोल्लपरिमलेण वि जो क्खु मओ सो मओ व्वेअ।।९७।।
[महमहायते मलयवात: श्वश्रूर्वारयति मां गृहान्निर्यान्तीम्।
अङ्कोटपरिमलेनापि य: खलु मृत: स मृत एव।।]
निवारयति। परम् गृहपुष्पितस्य अङ्कोटपादपस्य परिमलेनापि यो मृत: सोऽपि मृत एव। गृहाद्ब-हिरनुपसरणेऽपि अङ्कोटपरिमलोद्दीपितमदना यमसदनातिथिरहं भविष्यामीत्याशय:। 'अङ्कोटो गृहवाटिकासु बाहुल्येन भवतीति प्रसिद्धि:’ इति गङ्गाधर:। 'अङ्कोटे तु निकोचक:’ इत्यमर:।
इह ते प्रणयप्राप्तिप्रयत्नो विफल इति नायकं सूचयन्ती दूती कयोश्चिद्दम्पत्यो: परस्परप्रणयमाह-
मुखवीक्षक: प्रियोऽस्या इयमपि सविशेषदर्शनोन्मत्ता।
मन्येते द्वावपि भुवमयुवतियुवकामिव कृतार्थौ।।९८।।१
प्रियतम:, अस्या: (भवता प्रक्रान्तप्रसङ्गाया) नायिकाया मुखवीक्षक:, इयमपि विशिष्य प्रियस्य दर्शनमात्रेण उन्मत्ता। एतावन्मात्रेण कृतकृत्यौ द्वावपि पृथिवीम् अमहिलाम् अपुरुषां च मन्येते। पृथिव्यामियमेकैव युवतिर्नान्येति प्रिय:, अयं चैक एव युवक इति एषा नायिका मन्यत इत्याशय:। परस्परं निरन्तरदर्शनप्रणयितया द्वावप्यन्यत्र दृष्टिमपि न क्षिपत: किं पुनरन्यदिति द्वयो: प्रेमातिशयो ध्वन्यते।
प्रोषितपतिका कापि कस्याश्चित्कुशलप्रश्नस्योत्तरमाह-
क्षेमं कुह भो: क्षेमं योऽसौ कुब्जाम्रको गृहद्वारे।
तस्य किल मौलिदेशात्कश्चिदनर्थ: समुत्पन्न:।।९९।।२
क्षेमं कुह क्वास्ति? अनर्थ: मुकुलो निर्गत इत्यर्थ:। रसालान्कुसुमयन्वसन्तकाल: प्राप्त इति सूच्यते। कुब्जस्याम्रस्यापि इयं दशा तर्हि परितो मञ्जरितरसालपुञ्जपिञ्जरितदशदिगन्तेऽ-स्मिन्वसन्ते विरहिण्या मे क्षेमं दूरापास्तमेवेति ध्वन्यते।
प्रवासार्थमुद्यतं दयितं प्रति नायिकासखी प्रवासनिरासार्थं प्रसङ्गेन कस्यचित्प्रवसतो वृत्तान्तमाह-
१. मुहपेच्छओ पई से सा वि हु सविसेसदंसणुम्मइआ।
दोवि कअत्था पुहइं अमहिलपुरिसं व मण्णन्ति।।९८।।
[मुखप्रेक्षक: पतिस्तस्या: सापि खलु सविशेषदर्शनोन्मत्ता।
द्वावपि कृतार्थो पृथिवीममहिलापुरुषामिव मन्येते।।]
२. खेमं कन्तो खेमं जो सो खुज्जम्बओ घरद्दारे।
तस्स किल मत्थआओ को वि अणत्थो समुप्पण्णो।।९९।।
क्षेमं कुत: क्षेमं योऽसौ कुब्जाम्रको गृहद्वारे।
तस्य किल मस्तकात्कोऽप्यनर्थ: समुत्पन्न:।।]
आपृच्छनविच्छायं जायाया मुखमवेक्षमाणेन।
निर्गन्तुमेव नेष्टं शोकनिगडितेन पथिकेन।।१००।।१
आपृच्छनेन 'प्रिये! प्रवासार्थमनुमतिं देहि’ इत्यादिप्रश्नेन विच्छायं मन्दशोभम्। आपृच्छनमित्यत्र वुञ्। गृहान्निर्गन्तुमेव न वाञ्छितम्। गृहादनिर्गच्छतोऽपि दयितस्य पथिकपद-निर्देशेन ''स हि निजमनसि पथिगमनस्य दृढविचारं कृत्वा आत्मन: पथिकत्वं निश्चितवाना-सीत्परं ततोऽपि स निवृत्तवान्’’ इति प्रेमातिशयो ध्वन्यते। निर्गन्तुमेवेत्येवकारेण 'गृहान्निर्गमनस्यै-वेच्छा न भवति किं पुनर्बहुकालार्थं दूरदेशगमनस्येति प्रेमातिशयो द्योत्यते। इष्टमित्यनेन इच्छामात्रमपि न भवति किं पुनर्गन्तुमुद्योगस्य कथेति व्यज्यते। 'दयिताया:’ इत्याद्यनुक्त्वा 'जायाया:’ इति पदेन 'सामान्यतो भार्यामात्रमभिमन्यमानोऽपि पथिकस्तस्या मन:खेदमनभिल-षन्प्रवासं परिहरित। भवांस्तु एतां हृदयदयितां व्यपदिशन्नपि विदेशगमनार्थमुद्युङ्क्ते, अहो प्रणय:’ इति साकूतमुपालभ्यते। 'प्रवासावसरमधिगम्य कस्यामप्यभियोक्तुर्जारस्य निरासार्थं दूत्याह’ इति गङ्गाधर:।
शतकसमाप्तिमाह-
रसिकजनहृदयदयिते कविवत्सलकुशलसुकविसंरचिते।
सप्तशतके समाप्तं पञ्चमगाथाशतकमेतत्।।१०१।।२
(इति पञ्चमं शतकम्)
१. आउच्छणविच्छाअं जाआइ मुहं णिअच्छमाणेण।
पहिएण सोअणिअलाविएण गन्तुं व्विअ ण इट्ठम्।।१००।।
[आपृच्छनविच्छायं जायाया मुखं निरीक्षमाणेन।
पथिकेन शोकनिगडितेन गन्तुमेव नेष्टम्।।]
२. रसिअजणहिअअदइए कइवच्छलमुहसुकइणिम्मइए।
सत्तसअम्मि समत्तं पञ्चमँ गाहासअं एअम्।।१०१।।
[रसिकजनहृदयदयिते कविवत्सलप्रमुखसुकविनिर्मिते।
सप्तशतके समाप्तं पञ्चमं गाथाशतकमेतत्।।]