षष्ठशतकम्
भृशमुत्कण्ठितापि जनापवादभयात्प्रियतमं स्फुटमवलोकयितुमप्यपारयन्ती काचिद-सती निजवयस्यां सनिर्वेदमाह-
सूचीवेधे मुसलं निक्षिपता दग्धलोकेन।
प्रिय एकग्रामेऽपि हि पूरितनयनं न दृष्टोऽपि।।१।।१
सूचीवेधस्य सूक्ष्मे स्थाने मुसलं निक्षिपता, अल्पमपि दूषणं बहु कुर्वतेत्यर्थ:। दग्धेन लोकेन। अस्य लोकस्य कारणेन, हेतौ तृतीया। एकग्रामेऽपि वर्तमान: प्रिय: पूरितनयनमपि यथा स्यात्तथा न दृष्ट:, स्पष्टमुन्मीलिताभ्यां नयनाभ्यामातृप्ति न दृष्ट इत्यर्थ:। दग्ध इति लोकं प्रत्यसूयासूचनाय। मूले 'समअम्’ इत्यस्य समाभ्यां सर्वाभ्यामित्यर्थ:। पूर्णोन्मीलिताभ्यां न दृष्ट इति तत्तात्पर्यम्। 'समं सदृशि सर्वस्मिन्’ इति कोष:। न दृष्टोऽपीत्यपिना लोकदौरात्म्याद्दर्शन-मात्रेणाप्यहं वञ्चिता, कुत: किल समागमस्य सौभाग्यमिति लालसा व्यज्यते। 'सूचीवेध’ इति लोकोक्तयलङ्कार:। अनेन च-मुधैव मां कलङ्कयन् लोक: प्रियसमागमे बाधक:। तद्विरहविक-लाया मम तु महदधैर्यमित्युत्कण्ठातिशयो ध्वन्यते।
प्रियतमे प्रोषिते मे प्राणानामपि संशय एवेति सूचयन्ती काचिद्रोदनान्निवारयन्तीं निजसखीमाह-
अद्यैव तावदेकं मा मां प्रियसखि निवारये रुदतीम्।
कल्ये गते तु तस्मिन्न हि रोदिष्यामि यदि न मृता।।२।।२
१. सूईवेहे मुसलं विच्छहमाणेण दड्ढलोएण।
एक्कग्गामे वि पिओ समअं अच्छीहिँ विण दिट्ठो।।१।।
[सूचीवेधे मुसलं निक्षिपता दग्धलोकेन।
एकग्रामेऽपि प्रिय: समाभ्यामक्षिभ्यामपि न दृष्ट:।।]
२. अज्जं पि ताव एक्कं मा मं वारेहि पिअसहि रुअन्तिम्।
कल्लिं उण तम्मि गए जइ ण मुआ ता ण रोदिस्सम्।।२।।
[अद्यापि तावदेकं मा मां वारय प्रियसखि रुदतीम्।
कल्ये पुनस्तस्मिन्गते यदि न मृता तदा न रोदिष्यामि।।]
अपिरवधारणे। अद्यैव, एकं दिनं यावत्, रुदतीं मां मा निवारये:। यदि न मृता तदा न रोदिष्यामीत्यनेन-तद्गमने मम मरणमवश्यम्भावि, ततश्च रुदत्या मे निवारणस्यावश्य-कतैव न भविष्यतीति भाव:। 'यदि न मरिष्यामि तदा न रोदिष्यामि’ इति 'मृ’ धातोर्भविष्य-त्प्रत्ययस्थलेऽपि 'मृता’ इति भूतकालिकप्रयोगेण-'रोदनात्पूर्वं मे मरणं भूतकालिकं भविष्यति अर्थात् रोदनं पश्चाद्भविष्यति अहं तु तत: पूर्वमेव म्रियेय’ इति व्यज्यते। एवं च-यदि मे जीवितं कामनीयं तर्हि प्रिय: प्रवासोद्यमान्निवारणीय इति सखीं प्रत्यभिव्यज्यते। भोजेन तु सरस्वती-कण्ठाभरणे 'जइ ण मरिस्सं ण रोदिस्सम्’ 'यदि न मरिष्यामि न रोदिष्यामि’ इति पाठ: स्वीकृत:।
चतुरमहिला दाक्षिण्येनैव गोपनीयमपि वृत्तं सूचयन्तीति निजसखीं शिक्षयन्ती काचिदाह-
एहीति व्याहरति प्रेयसि बत पश्यतावनतमुख्या।
द्विगुणवेष्टितजघनस्थलया लज्जानतं हसितम्।।३।।१
द्विगुणम् आह्वानसमये शाटकाञ्चलेन पुनरपि आवेष्टितं जघनस्थलं यया। लज्जया आनतं यथा स्यात्तथा, ईषदित्यर्थ:। अन्यसमये यथा हास्यं भवति तदपेक्षयापि, ससङ्कोचं हास्यमिति यावत्। अवनतमुख्या तद् हसितं तत्पश्यतेति योजना। जघनस्थलवेष्टनपूर्वकं सलज्जहसितेन ऋतुमत्यहमस्मीति व्यञ्जितमित्याशय:।
कामपि कामिनीं कामयमान: कश्चित्कटाक्षच्छटावर्णनव्याजेन स्वाभिलाषं प्रकाशयति-
मारयसि कं न मुग्धे ह्यनेन पर्यन्तरक्तविषमेण।
भ्रुकुटीचापविनिर्गततीक्ष्णतरार्धाक्षिभल्लेन ।।४।।२
पर्यन्ते कोटौ रक्तं रुधिरं यस्य तादृशेन च विषमेण चेति भल्लपक्षेऽर्थ:। कटाक्षविक्षेपे अर्द्धमीलितं यदक्षि तदेव भल्ल: (अर्द्धचन्द्राकरो बाण:) तेन। 'मुग्धे! कं वा न मारयसि’
१. एहि त्ति वाहरन्तम्मि पिअअमे उअह ओणअमुहीए।
विउणावेट्ठिअजहणत्थलाइ लज्जाणअं हसिअम्।।३।।
[एहीति व्याहरति प्रियतमे पश्यतावनतमुख्या।
द्विगुणवेष्टितजघनस्थलया लज्जावनतं हसितम्।।]
२. मारेसि कं ण मुद्धे इमेण पेरन्तरत्तविसमेण।
भुलआचावविणिग्गअतिक्खअरद्धच्छिभल्लेण।।४।।
[मारयसि कं न मुग्धे अनेन पर्यन्तरक्तविषमेण।
भ्रूलताचापविनिर्गततीक्ष्णतारार्धाक्षिभल्लेन।।]
इत्यनेन- अतिसंयमशीलोऽपि प्रवीणोऽपि च ते कटाक्षेण विक्षुब्धहृदयो भवति, ततोऽपि त्वं मुग्धा परिगण्यस इति साकूतमुपालभ्यते। विध्यसीत्याद्यनुक्त्वा भारयसीत्यनेन वेदनातिशयो ध्वन्यते। अनेनेत्यनेन अङ्गुल्या निर्दिश्यप्रत्यक्षं त्वं निहंसि, तस्य दृष्टान्तोऽहम्। तथापि त्वं मुग्धेत्याकूतम्। साधारणबाण: सम: (सरल:) भवति, अक्षिबाणस्तु बाणत्वेऽपि विषम इति विषमपदसूचितो विशेष:। कटाक्षभल्लेन मारितं मां सङ्गमसञ्जीवनौषधेन सञ्जीवयेति तां प्रत्यात्मनोऽभिलाषोऽभिव्यज्यते। गङ्गाधरपरिगृहीत: 'रत्तन्ततिक्ख’ इति पाठस्तु तीक्ष्णार्थपौन-रुक्त्याद्विचारणीय एवेत्यलम्।
नायिकाया: प्रणयातिशयं प्रकाश्य उपपतिमुत्साहयन्ति दूती तदभियोगार्थमाह-
तव दर्शने सतृष्णा शब्दं श्रुत्वा विनिर्गता यानि।
तानि पदानि हि जाता वोढव्या त्वयि विनिर्याते।।५।।१
तव दर्शनार्थं साभिलाषा सा तव कण्ठरवं श्रुत्वा यानि पदानि गृहाद्विनिर्गता, त्वयि दर्शनपथातीते सति तानि पदानि अन्यजनद्वारा वोढव्या उत्थापनीया जाता। त्वद्विरहान्नितान्तदुर्बला सा त्वद्दर्शनोत्साहेन निजक्लेशमजानती कानिचित्पदानि बहिरायाता, परं त्वामदृष्ट्वा भग्नाशा सा परावर्तनसमये अन्यजनैर्वहनीयाऽभवदित्यर्थ:। तानि पदानीत्यत्यन्तसंयोगे द्वितीया। अवलम्बनीयेत्याद्यनुक्त्वा वोढव्येत्यनेन गतजीविता यथान्यैर्जनैर्वहनीया भवति तथा जाता, ततश्च त्वं तस्या जीवितस्थानीय इति ध्वन्यते। तथा च- एतादृशीमनुरागिणीमेतां किमित्युपेक्षसे, अभिसर सत्वरमिति चरमं व्यङ्ग्यम्।
किमेवं शरीरत: क्षीणासीति रहस्यभुक्तया मातुलान्या पृष्टा काचिदाह-
ईर्ष्यामत्सररहितं मातुलि दृग्भ्यां विनिर्विकाराभ्याम्।
जनमिव जनोऽधुना न: पश्यति हीयामहे न कथम्।।६।।२
१. तुह दंसणे सअह्णा सद्दं सोऊण णिग्गदा जाइं।
तइ वोलीणे ताइं पआइँ वोढव्विआ जाआ।।५।।
[तव दर्शने सतृष्णा शब्दं श्रुत्वा निर्गता यानि।
त्वयि व्यतिक्रान्ते तानि पदानि वोढव्या जाता।।]
२. ईसामच्छररहिएहिँ णिव्विआरेहिँ मामि अच्छीहिं।
एह्णिं जणो जणम्मिव णिरिच्छए कहँ ण छिज्जामो।।६।।
[ईर्ष्यामत्सररहिताभ्यां निर्विकाराभ्यां मातुलान्यक्षिभ्याम्।
इदानीं जनो जनमिव निरीक्षते कथं न क्षीयामहे।।]
जन: (प्रियतम:) न: अस्मान् जनमिव नि:सम्बन्धं साधारणं जनमिव ईर्ष्यामत्सररहितं यथा स्यात्तथा भ्रूभङ्गादिविकाररहिताभ्यां दृग्भ्यां पश्यति, तत: कथं न क्षीयामहे। प्रणयसम्बन्धे सत्येव ईर्ष्यामत्सरादिकं भवति, ततश्च ईर्ष्यामत्सरशून्यया दृशा मां निर्विकार: पश्यत: प्रियतमस्य प्रणयभङ्ग: स्पष्टं परिज्ञात:। तत: कथं क्षीणा न भवामीत्याशय:। प्रियतमाय जन इति निर्देशस्तु मातुलानीसविधे कौलीन्यलज्जां प्रकटयितुम्। अथवा-छन्दानुगामिनीमपि मां स यदि साधारणदृष्ट्या पश्यति तर्हि विवशतया ममापि स नि:सम्बन्ध इवेत्यभिमानमाविष्कर्तुं वा।
यत्किञ्चिदपि दुहितु: सौभाग्यसूचकमालोक्य सुभृशमभिनन्दति मातेति शिक्षयन्तीव काचित्सहृदयं कञ्चिदाह-
दशनपथेन हि वातोद्धतसिचयालक्षितोरुदृष्टेन।
तुष्यति जननी वध्वा निधानकलशाननेनेव।।७।।१
वातोद्धते सिचये (वस्त्रे) आलक्षितो य ऊरुस्तस्मिन्दृष्टेन दशनपथेन दन्तक्षतेन। भूमिं खनन् जनो ह्यकस्मान्निधानकलशस्य मुखं दृष्ट्वा यथा हृष्यति तथा तुष्यतीत्यर्थ:। दुहितु-र्वधूत्वव्यपदेशेन तस्या: पतिसदने गत्वा तन्निरीक्षणं सूच्यते। ऊरुदेशे दन्तनखघातादय: कामशानुमता:, ततश्च जामाता कामशानिपुणो दुहितरि सुभृशमनुरक्तश्चेति ज्ञात्वा तन्मातु: परितोष इत्याशय:।
आत्मन: प्रणयातिशयं सूचयन्ती काचित्प्रियतमं प्रति सार्वदिकस्नेहानुवृत्त्यर्थं प्रार्थयते-
हृदये वससि न कुरुषे मन्युं तदपीह रागभरिताभि:।
युवतिस्वभावविगलितधैर्याभि: शङ्क्यसेऽस्माभि:।।८।।२
१. वाउद्धअसिचअविहाविओरुदिट्ठेण दन्तमग्गेण।
बहुमाआ तोसिज्जइ णिहाणकलसस्स व मुहेण।।७।।
[वातोद्धतसिचयविभावितोरुदृष्टेन दन्तमार्गेण।
वधूमाता तोष्यते निधानकलशस्येव मुखेन।।]
२. हिअअम्मि वससि ण करेसि मण्णुअं तह वि णेहभरएिहिं।
सिङ्किज्जसि जुअइसुहावगलिअधीरेहिँ अम्हेहिं।।८।।
[हृदये वससि न करोषि मन्युं तथापि स्नेहभृताभि:।
शङ्क्यसे युवतिस्वभावगलितधैर्याभिरस्माभि:।।]
हृदये वससि, त्वां सर्वदैव हृदि चिन्तयामि, सुभृशं मे त्वयि प्रणय इत्याशय:। त्वमपि सम्प्रति अन्योपगमनादिना मम मन्युं शोकं नोत्पादयसि। अथवा मदुपरि क्रोधं न करोषि। तथाप्यग्रे विरक्तो भविष्यसीति स्नेहभरिताभिरस्माभि: शङ्क्यसे। स्नेह: पापशङ्कीति कृत्वा सम्प्रति स्नेहं दर्शयत्यपि त्वयि अग्रे त्वं विरंस्यसे इति संशयो भवतीत्याशय:। मम प्रणयस्तावान्प्ररूढो यद् भविष्यत्काले प्रणयप्रतिदाने मनाक् त्रुटिशङ्कयापि धैर्यं विगलति। एवं च-मत्प्रणयमनुरुष्य भवतापि सर्वदा प्रणयपरेण भाव्यमित्यभिव्यज्यते। किं वा-त्वं मम सर्वदा हृदये निवससीत्येकान्तप्रिय:। किं च सपत्नीसमागमादिभिर्मम क्रोधमपि न जनयसि। तथापि युवतिस्वभाववशादधीराभिरस्माभि: क्षणविलम्बेऽपि 'अन्यत्र तु न गतो भवेत्?’ इति केवलं शङ्क्यसे। अत एव शङ्कावशास्वस्मासु प्रेमस्वभावोऽयमिति मत्वा न विमनायितव्य-मित्यर्थ:। अस्माभिरिति बहुवचनेनममैव केवलं न, अपि तु सर्वासामेवानुरागिणीनां सोऽयं स्वभाव इति प्रणयं प्रत्याकूतमभिव्यज्यते।
आत्मन: प्रणयातिशयं संसूच्य भार्यापरतन्त्रं निजप्रियतमं साकूतमुपालभमाना काचिद् हृदयामन्त्रणव्याजेनाह-
अन्यदपि किञ्चिदाप्स्यसि विमूढ मा ताम्य दु:खमात्रेण।
हृदय पराधीनजनं तव विमृगयमाण कियदेतत्।।९।।१
हे हृदय! साम्प्रतं वियोगदु:खमात्रेण मा दूयेथा:। अग्रे किञ्चिदन्यदपि कथाशेषतामपि प्राप्स्यसि। परतन्त्रं जनं प्रार्थयमान हे मूढ विरहदु:खमिदं तव कृते कियत्? अतिन्यूनमित्यर्थ:। विमूढेत्यामन्त्रणेन-प्रेमवशान्निर्बोधेन मम हृदयेन अन्यत्र दत्तहृहये जने प्रणयसमर्पणं कृतमिति प्रियं प्रतीर्ष्याभिव्यज्यते। हृदयस्य निन्दां कुर्वत्या नायिकया निजभार्यासक्तस्योपपतेर्निन्दा सूचितेति व्याजनिन्दालङ्कृति:। अनया च- 'अहं त्वयि हृदयं समर्प्य प्राणापगमेऽपि प्रणयपाल-नार्थं सन्नद्धा। अन्यवशीकृतो भवांस्तथापि मे प्रणयं न परिज्ञातवान्’ इति निभृतमुपालम्भो ध्वन्यते। कथाशेषतादिपर्यायैरपि मरणसङ्कीर्तनममङ्गलतां स्पृशतीति किञ्चित्पदेनोक्तम्। अहो दाक्षिण्यं गाथागुम्फितु:।
निर्भरानुरागिण्या मम प्रणयमनभिनन्द्य विरक्तायामन्यस्यामनुरक्तोऽसीति नायकमुपा-लभमाना काचित्सवैदग्ध्यमाह-
१. अण्णं पि किं पि पाविहिसि मूढ मा तम्म दुक्खमेत्तेण।
हिअअ पराहीणजणं मग्गॅन्त तुह केत्तिअं एअम्।।९।।
[अन्यदपि किमपि प्राप्स्यसि मूढ मा ताम्य दु:खमात्रेण।
हृदय पराधीनजनं मृगयमाण तव कियन्मात्रमिदम्।।]
द्वेष्योऽसि हन्त यस्या: पांसुल सा वल्लभा तवाभ्यधिकम्।
इति विज्ञायापि मया दग्धप्रेम्णे न चेर्ष्यितं जातु।।१०।।१
या त्वां द्वेष्टि सा मे सपत्नी तवाधिकतरं वल्लभा, इति प्रेम्ण: असमीक्ष्यकारितां परिज्ञायापि मया अस्मै प्रेमहतकाय ईर्ष्या न कृता। अदूरदर्शि यद्धि प्रेम द्वेष्योऽप्यासक्तिं स्थापयति, अनुचितकारि तद्धि प्रेम मया ईर्ष्यितमासीत्परं मया ईर्ष्या न कृता। यतोऽहं त्वय्यासक्ता, अत एव मयेदं प्रेम अभिनन्दितमेव न जातुचिदीर्ष्यितमित्यर्थ:। अथवा-दग्धप्रेम्णे प्रेमहतकस्य निमित्तं तुभ्यमीर्ष्या न कृता। त्वं द्वेषकारिण्यां तस्यां रक्तोऽसि, अनुरक्तायामपि च मयि विरक्तोऽसि, तथा च द्वेषकारके एव जने त्वमनुरज्यसीति त्वन्निसर्गं ज्ञात्वा तुभ्यमहमीर्ष्यामक-रिष्यम्, परं प्रणयपरवशा नेदं कर्तुमशक्नवमित्याशय:। 'पांसुल’ इत्यनेन-एवमनुचितकारितया स्पष्टं त्वं दोषभागिति सूच्यते। अहमन्यासक्तहृदयेऽपि त्वयि भृशमनुरज्यामि। त्वं तु मत्प्रीतिप्रतिदानं दूरमास्ताम्, द्वेषिणीं तामनुवर्तमान: स्वस्य हिताहितमपि न परिचिनोषीति गूढ उपालम्भोऽभिव्यज्यते। गङ्गाधरेण तु प्राकृते चतुर्थ्यर्थिकां षष्ठीं संस्कृतेऽपि 'दग्धप्रेम्ण:’ इति यथास्थितं स्वीकृत्य चतुर्थीपञ्चम्योरर्था आकृष्टा इत्यलम्।
अन्यनायिकाया गुणादीन्प्रशंसन्तं कान्तं काचित्सेर्ष्यमाह-
गुणरूपशोभिनी सा सत्यं सुभगास्मि निर्गुणा सत्यम्।
भण तस्या यो न सम: किं स हि सर्वो जनो म्रियताम्।।११।।२
मूले 'आम’ इति ईर्ष्यासहितानुमतौ। संस्कृते काक्वा उच्चार्यमाणं सत्यपदं तदर्थं साधयति। हे सुभग सत्यम्! सा भवत्प्रेयसी गुणरूपशोभिनी। सत्यम्! अहं निर्गुणा। सुभगेत्या-मन्त्रणसहकारेण-यथा त्वमात्मानं सुभगं मन्यसे तथा तामपि गुणरूपशोभिनीं मां च निर्गुणां
१. वेसोसि जीअ पंसुल अहिअअरं सा हु वल्लभा तुज्झ।
इअ जाणिऊण वि मए ण ईसिअं दड्ढपेम्मस्स।।१०।।
[द्वेष्योऽसि यस्या: पाङ्सुल अधिकतरं सा खलु वल्लभा तव।
इति ज्ञात्वपि मया न ईर्ष्यितं दग्धप्रेम्ण:।।]
२. सा आम सुहअ गुणरूअसोहिरी आम णिग्गुणा अ अहम्।
भण तीअ जो ण सरिसो किं सो सव्वो जणो मरउ।।११।।
[सा सत्यं सुभग गुणरूपशोभनशीला सत्यं निर्गुणा चाहम्।
भण तस्या यो न सदृश: किं स सर्वो जनो म्रियताम्।।]
मन्यसे, परं वास्तवे रागान्धो भवान् गुणरूपादिकं विवेक्तुमेव न जानाति। सा ह्यधमा। अहं च अन्यासक्तमपि भवन्तं निरन्तरमनुवर्तमाना शीलसौन्दर्यगुणादिभिर्युक्ता’ इति ध्वन्यते। उत्तरार्धेन-तस्या बाह्यसौन्दर्यादिभिस्त्वं तथा मुग्धोऽसि, यथा मत्सांनिध्यमपि नाभिनन्दसीति सकोपोपा-लम्भो व्यज्यते।
लज्जाव्यतिक्रमनिवारणाय निजवधूं शिक्षयन्ती काचित्पुरन्ध्री पुत्रमुद्दिश्याह-
सदसद्दु:खं च सुखं गृहस्य या जानते नूनम्।
ता: सन्ति पुत्र महिला: शेषा हि जरा मनुष्याणाम्।।१२।।१
या महिला गृहस्य गृहवर्तिनां जनानाम्, कीर्तिकरम् अकीर्तिकरं च दु:खं सुखं च जानन्ति ता एव महिला महिलापदवाच्या:, अर्थात् गृहिणीपदाधिकारिण्य:। अन्यास्तु वय:क्षयकरत्वाज्जरा एव। शरीरसम्बद्धा शनै: शनै: शरीरक्षयकारिण्यपि जरा यथा त्यक्तुं न शक्यते तथा कुलापकीर्तिं विचार्य यद्यपि सापि त्यक्तुं न शक्यते अथापि प्रतिक्षणं नाशहेतुत्वबुध्यावधीर्यत इति जरात्वरूपणेन ध्वन्यते। गृहस्येत्यनेन-न केवलं गृहपतेरेकस्य द्वयोर्वा सुखदु:खादिविचारो गृहवधूष्वायत्त:, अपि तु सम्पूर्णजनानामिति भारातिशयो द्योत्यते। 'दुर्लभाभिलाषिणीं स्वगृहवधूं प्रति वैराग्यजननार्थं कोऽपि पुत्रमाह’ इत्यवतरणम्। 'सद्विद्यमानम्। असदविद्यमानं वस्तु’ इति च गङ्गाधरकृता व्याख्या।
मानालम्बने कुलमहिलानां चरित्रं शिक्षयन्ती वय: प्रौढा सखी सखीमाह-
हसितैश्चोपालम्भा अत्युपचारैश्च रोषितव्यानि।
अश्रुलवै: किल कलहा एष हि मार्ग: सुमहिलानाम्।।१३।।२
१. सन्तमसन्तं दुक्खं सुहं च जाओ घरस्स जाणन्ति।
ता पुत्तअ महिलाओ सेसाओॅ जरा मनुस्साणम्।।१२।।
[सदसद्दु:खं सुखं च या गृहस्य जानन्ति।
ता: पुत्रक महिला: शेषा जरा मनुष्याणाम्।।]
२. हसिएहिँ उवालम्भा अच्चुवचारेहिँ रूसिअव्वाइं।
अंसूहिँ मण्डणाइं एसो मग्गो सुमहिलाणम्।।१३।।
[हसितैरुपालम्भा अत्युपचारै: खेदितव्यानि।
अश्रुभि: कलहा एष मार्ग: सुमहिलानाम्।।]
यासां महिलानां हसितैरुपालम्भा भवन्ति न रोदनै:। आवश्यकतातोऽधिकै: कृत्र्रिमादरै: रोषा भवन्ति न गृहकार्यवैमुख्येन। अश्रूणां लेशैरेव प्रणयकलहा भवन्ति न वाग्वितण्डया। लवपदेन- अश्रूणां कैश्चिद्बिन्दुभिरेव ता: कलहं सूचयन्ति, न निरन्तररोदनेनेति मूलापेक्षयातिशयो द्योत्यते। 'रूसि-अव्वाइं’ इति स्थाने 'खिज्जिअव्वाइं’ इति पाठं स्वीकृत्य खेदितव्यानीति व्याख्यान गङ्गाधरस्य।
लोकापवादशङ्कयैव न संलपितवांस्ते प्रियतमस्तन्माऽन्यथा शङ्कीरिति सान्त्वयन्तीं दूतीं प्रति काचित्सप्रणयरोषमाह-
उल्लापो मा क्रियतां लोकविरुद्धोऽयमिति कृत्वा।
दृष्टिं न पातयति को द्वेष्येऽषि हि सम्मुखापतिते।।१४।।१
अयमुल्लापो लोकविरुद्ध इति कृत्वा विचार्य। द्वेष्येऽपि सम्मुखापतिते सति जनो दृष्टिं तु ददात्येवेत्यनेन 'स द्वेष्यतामपि मत्त: परिहरति, यत: सोऽप्येक: परस्परसम्बन्ध:। ततश्च-स मया सह कञ्चिदपि सम्बन्धमेव न रक्षति’ इति उपालम्भातिशयो द्योत्यते। मूलोपात्तं पादपूरकं 'णाम’ पदमादाय 'नाम कृत्वा’ 'नामग्रहणपूर्वकम्’ इति गङ्गाधरकृतमर्थान्तरम्। अनावश्यकस्यापि तस्य यद्यनुरोधस्तर्हि-'लोकविरुद्धोऽस्ति नाम कृत्वेति’ इति पठितव्यम्। लोकविरुद्धोऽस्ति इति कृत्वा उल्लापो मा क्रियतां नामेति तद्योजना। तस्मिन्नर्थान्तरे च नाम कृत्वा नामग्रहणपूर्वकमिति च सङ्गति:। यद्वा-'परपुरुषभाषणं लोकविरुद्धमिति मा क्रियताम्, कथं पुनस्तमद्राक्षीरपि नेति साध्वीं प्रति कुट्टन्या इयमुक्तिरिति’ केचित्।
प्रियतमाया: प्रणयं यथावदनुपलभमानं कञ्चिद्धनिकं प्रति स्वाधीनमीननयन: कश्चित्साभिमानमाह-
स्वाधीनप्रियदयितो दीनोऽपि च मन्यते कृतार्थं स्वम्।
प्रियरहित: पुनरवनीमपि सम्प्राप्यास्ति दुर्गतो ह्येव।।१५।।२
१. उल्लावो मा दिज्जउ लोअविरुद्ध त्ति णाम काऊण।
सँमुहापडिए को उण वेसेँ वि दिट्ठिं ण पाडेइ।।१४।।
[उल्लापो मा दीयतां लोकविरुद्ध इति नाम कृत्वा।
सम्मुखापतिते क: पुनर्द्वयेष्येऽपि दृष्टिं न पातयति।।]
२. साहीणपिअअमो दुग्गओ वि मण्णइ कअत्थमप्पाणम्।
पिअरहिओ उण पुहविं वि पाविउण दुग्गओ च्चेअ।।१५।।
[स्वाधीनप्रियतमो दुर्गतोऽपि मन्यते कृतार्थमात्मानम्।
प्रियरहित: पुन: पृथिवीमपि प्राप्य दुर्गत एव।।]
स्वाधीना प्रिय दयिता यस्य स:। प्रियरहित: प्राणप्रियेण जनेन रहित:। 'अतिक्रान्त-सङ्केतसमयां प्रियां प्रति कोऽपि सोद्वेगमाह। यद्वा-किमेवं कृशोऽसीति पृष्टस्येच्छानुरूपां प्रियामलभमानस्य कस्यचिदियमुक्ति:’ इति गङ्गाधर:।
हृदयानुकूलं दयितमप्राप्य अन्तरेव निर्मश्नताऽतृप्तप्रणयेन नानाविधं क्लेशमनुभवन्तीं काञ्चिद्रहस्याभिज्ञा सख्याहा-
किं रोदिषि किं शोचसि किं कुप्यसि सुतनु चैकैकम्।
विषमिव विषमं प्रेम हि रोद्धु शक्नोति क: कथय।।१६।।१
एकैकं प्रत्येकजनं प्रति। इच्छानुरूपं दयितमनवाप्य असफलप्रणया त्वं प्रेमवशाद्दु:खिता भवसीत्यस्माभिरकथनेऽपि परिज्ञातम्, तद्वृथा कोपं वा गोपनायासं वा मा कार्षीरिति भाव:। 'सुतनु’ इति सम्बोधनेन 'आत्मन: सौन्दर्यं वृथैव परिगणयन्ती त्वं सुभृशं परितप्यसे’ इति द्योत्यते। रक्तेन सह सर्वाङ्गे सङ्क्रान्तो विषवेगो दुर्निरोधतया यथाऽचिकित्स्यो भवति तथा प्रियप्राप्तिमात्रप्रतिकार्य: प्रेमापि प्रायोऽप्रतिरोध्यो भवतीत्याशय:।
काञ्चन नवीनामभिसारार्थमुत्तेजयन्ती वृद्धदूती निजानुभूतसौख्यानामतिक्रान्ततयाऽ-पुनर्लभ्यत्वमाह-
ता ग्रामसंपदस्ते युवकास्तच्चापि नश्च तारुण्यम्।
आख्यानकमिव लोक: कथयति वयमपि च तच्छृणुम:।।१७।।२
आख्यानकमिव पूर्वजातमितिहासमिव लोक: कथयति, वयं च शृणुम:। अस्माभि-रस्मत्तारुण्ये नानाविधविदग्धजनै: सह या: सौख्यसम्पदोऽनुभूतास्ता: अस्मासु वर्तमानेष्वेव
१. किं रुवसि किं अ सोअसि किं कुप्पसि सुअणु एक्कमेक्कस्स।
पेम्मं विसं व विसमं साहसु को रुन्धिउं तरइ।।१६।।
[किं रोदिषि च शोचसि किं कुप्यसि सुतनु एकैकस्मै।
प्रेम विषमिव विषमं कथय को रोद्धुं शक्नोति।।]
२. ते अ जुआणा ता गामसंपआ तं च अम्ह तारुण्णम्।
अक्खाणअं व लोओ कहेहि अम्हे वि तं सुणिमो।।१७।।
[ते च युवानस्ता ग्रामसंपदस्तच्चास्माकं तारुण्यम्।
आख्यानकमिव लोक: कथयति वयमपि तच्छृणुम:।।]
युगान्तरजाता इव सञ्जाता इत्याश्य:। एवं च-अनुभवशालिन्या मे कथनमनुरुध्य अपुनर्लभ्या-त्तादृशविदग्धजनसमागमसुखान्न वञ्चयात्मानमिति नायिकां प्रत्यभिव्यज्यते।
शपथद्वारा निजप्रेमप्रतीतिं कारयित्वाऽनुनीयमानाया नायिकाया: सविषादं क्रोधवादं सखी सखीमाह-
वाष्पौघभरितगण्डाधरया भणितं विलक्षविहसितया।
अद्यापि रुष्यते किं शपथाऽवस्थां गतं प्रेम।।१८।।१
वाष्पौघभरितं गण्डाधरं यस्या:, विलक्षं विहसितं च यस्यास्तया भणितम्- 'भवत: प्रेम सम्प्रति शपथद्वारा प्रतीतियोग्यं जातं न पुन: कार्यरूपेणानुभवनीयम्। अत एवेदानीं किं रोषेण?’ सत्ये प्रेमण्येव मान: शोभत इत्याशय:। 'अलीकदाक्षिण्येन त्वं प्रेम साधयितुमीहसे, अहो ते नैपुण्यम्’ इति विलक्षहसितस्याकूतम्।
अन्यासक्त्या दयितस्य मन्दस्नेहतां सूचयन्ती काचित्सखीं सनिर्वेदमाह-
वर्णघृतलिप्तवदनां यो मामत्यादरेण चुम्बितवान्।
भूषणविभूषितामपि सम्प्रत्यलसायते स्पृशन्नपि स:।।१९।।२
पुष्पवतीत्वावस्थायां नियमानुरोधेन स्पर्शार्थं निषिध्यन्तीमपि, वर्णघृतेन लिप्तवदनतया अमनोहरामपि, मां पूर्वमत्यासक्त्या चुम्बितवानपि सोऽयम्- सम्प्रति मण्डनेन स्पष्टमभिव्यक्ता-भिलाषामपि रुचिरशरीरामपि मां स्पृशन्नपि सङ्कुचति, का पुन: समागमस्य कथा। तथा च- स्पष्टमस्याऽन्यस्यामासक्ति: सञ्जातेत्याशय:।
१. वाहौहभरिअगण्डाहराएँ भणिअं विलक्खहसिरीए।
अज्ज वि किं रूसिज्जइ सवहावत्थं गअं पेम्मम्।।१८।।
[वाष्पौघभृतगण्डाधरया भणितं विलक्षहसनशीलया।
अद्यापि किं रुष्यते शपथावस्थां गतं प्रेम।।]
२. वण्णअघअलिप्पमुहिं जो मं अइआअरेण चुम्बन्तो।
एह्णिं सो भूसणभूसिअं पि अलसाअइ छिवन्तो।।१९।।
[वर्ण [क] घृतलिप्तमुखीं यो मामत्यादरेण चुम्बन्।
इदानीं स भूषणीभूषितामप्यलसायते स्पृशन्।।]
सं. गा... २३
अस्या: सहजसौन्दर्यं वीक्षस्व न पुनर्वदिकमिति काञ्चन संयोजयितुमिच्छन्ती दूती कामुकमाह-
नीलपटसंवृताङ्गीति मा किलैनां परिहरस्व।
पट्टांशुकमपि नद्धं व्यपनीयत एव सुखसुरते।।२०।।१
नद्धं परिहितम्। सुखे सुखजनके सुरते। यदा पट्टवस्रमपि दूरीक्रियते तदा अस्य दूरीकरणे का बाधेति भाव:। सहजो गुण एव स्त्रीणामुपादेयो न त्वाहार्य इत्याशय:। संवृताङ्गीत्यनेन निसर्गसुन्दराणामस्या अङ्गानां नीलपटस्यावरणमात्रेण प्रतारितो मास्या: समागम-सुखतो वञ्चितो भूरिति सूच्यते। सुखेति विशेषणेन-यदि त्वं वास्तवे सुरतसौख्यं वाञ्छसि तर्हि तु पटं प्रति दृष्टिं न करिष्यस्येव। अथ यदि केवलं रसिकमानितैव तदा तु सुखाद्वञ्चित एव त्वमिति व्यज्यते।
अतिग्रहिलमानां मानिनीं मानपरित्यागार्थं शिक्षयनती दूती सानुनयमाह-
सत्यं कलहे कलहे सुरतारम्भा: पुनर्नवा भान्ति।
मान: पुनर्मनस्विनि गुरुक: प्रेमेह नाशयति।।२१।।२
कलहकृतविच्छेदोत्तरं सुरते नवीनतेवाविर्भवतीति तत्र रसविशेषोऽनुभूयते। तथापि गुरुक: अतिग्रहिलो मान: इह प्रेमैव नाशयति। प्रेम्णि च गते को रस: सुरतेष्विति सम्प्रति मुञ्च मानमित्याशय:। मनस्विनीत्यामन्त्रणेन 'त्वमेवैका अपूर्वा मनस्विन्युत्पन्नासि, या सुभृशमनुन-येऽपि न मानं मुञ्चसीति’ भूयानुपालम्भो ध्वन्यते।
अनुनयाऽस्वीकारात्कुपितविलक्षेण वल्लभेनावधीरिता कलहान्तरिता जनितानुतापं दूतीमाह-
१. णीलपडपाउअङ्गी त्ति मा हु णं परिहरिज्जासु।
पट्टंसुअं पि णद्धं रअम्मि अवणिज्जइ च्चेअ।।२०।।
[नीलपटप्रावृताङ्गीति मा खल्वेनां परिहर।
पट्टांशुकमपि नद्धं रतेऽपनीयत एव।।]
२. सच्चं कलहे कलहे सुरआरम्भा पुणो णवा होन्ति।
माणो उण माणंसिणि गरुओ पेम्मं विणासेइ।।२१।।
[सत्यं कलहे कलहे सुरतारम्भा: पुनर्नवा भवन्ति।
मान: पुनर्मनस्विनि गुरुक: प्रेम विनाशयति।।]
मानोन्मदयाऽति मया ह्यकारणं कारणं प्रकुर्वत्या।
प्रेमाप्यदर्शनेन विनाशितं प्रौढवादेन।।२२।।१
मानधारणार्थम् अति उन्मदया अत्युत्साहया, अत एव मानस्य न यत्कारणं तदपि कारणं कुर्वत्या मया अनुनयन्तं दयितं प्रत्यनवलोकनेन, प्रौढवादेन प्रतिज्ञापूर्वकं प्रत्यख्यानेन च प्रेमापि विनाशितम्। 'मानावलम्बनेन प्रियप्रणयं परीक्षिष्ये’ इति धृतोत्साहया मया मानकारणं विनैव तावान्मान: कृतो यत्प्रियोऽनुनयन्नपि नावलोकित:। इदानीं पराङ्मुख: प्रियो मां नावलोकयति, ततश्च सम्प्रति प्रियस्य दर्शनं विना स्नेह एवापगत इत्याशय:।
कृतापराधत्वेऽपि चाटूक्तिभिरनुनयन्तं कान्तं कापि सवैदग्ध्योपालम्भमाह-
द्वेष्येऽपि वल्लभेऽपि च बहुवल्लभ वक्तुमेव मधुराणि।
कुपितं चाप्यनुनेतुं युष्मत्त: शिक्षते लोक:।।२३।।२
बह्वयो वल्लभा यस्य तत्सम्बुद्धौ। बहुषु कृतप्रणयोऽपि त्वं केवलं दाक्षिण्येनानुनेतु-मिच्छसीत्येतदाकूतम्। द्वेष्येऽपि वल्लभेऽपि च जने मधुराण्येव वक्तुं तद्द्वारा च कुपितं लोकमनुनेतुं जनो भवत्सकाशात् शिक्षते। तव मधुरसंलापो हृदयवाह्यो यतस्त्वं द्वेष्वेऽपि मधुरं लपसि। ततश्चालीकदाक्षिण्येन स्फुटापराधोऽपि त्वं केवलं मां प्रतारयसीति गूढोपालम्भो ध्वन्यते।
पूर्वं दर्शितप्रणयातिशयस्यापि साम्प्रतं मन्दस्नेहस्य दयितस्याकृतज्ञतां सूचयन्ती काचित्सखीमाह-
१. माणुम्मत्ताइ मए अकारणं कारणं कुणन्तीए।
अद्दंसणेण पेम्मं विणासिअं पोढवाएण।।२२।।
[मानोन्मत्तया मया अकारणं कारणं कुर्वत्या।
अदर्शनेन प्रेम विनाशितं प्रौढवादेन।।]
२. अणुऊलं विअ वोत्तुं बहुवल्लह वल्लहे वि वेसे वि।
कुविअं अ पसाएउं सिक्खइ लोओ तुमाहित्तो।।२३।।
[अनुकूलमेव वक्तुं बहुवल्लभ वल्लभेऽपि द्वेष्येऽपि।
कुपितं च प्रसादयितुं शिक्षते लोको युष्मत्त:।।]
लज्जा त्यक्ता शीलं खण्डितमयशोविघोषणा दत्ता।
यस्य कृतेन प्रियसखि स एव सम्प्रति जनो जनो जात:।।२४।।१
यस्य प्रियस्य कृतेन यस्य प्रियस्यार्थे। अयशसो विघोषणा डिण्डिमरव:, डिण्डिम-ताडनपूर्वकं सर्वत्र मया अपकीर्ति: प्रसारितेति भाव:। स एव जन: (प्रियजन:) जन: उदासीनजनो जात:।
सख्या: शिक्षार्थं काचित्कुलवधूवृत्तमाह-
हसितमदर्शितदशनं भ्रमितमनिष्क्रान्तदेहलीदेशम्।
दृष्टमनुत्क्षिप्तमुखं मार्ग: सोऽयं कुलवधूनाम्।।२५।।२
न उत्क्षिप्तम् उन्नमितं मुखं यस्मिन् ईदृशं दृष्टम् अवलोकनम्। अदृष्टेति स्थाने अदर्शितेत्युक्त्या-हास्यविषयेऽपि हास्योद्रेकं वशीकुर्वत्यस्ते दन्तदर्शनचापलं न प्रकटयन्तीति सूच्यते-उक्तं चान्यैरपि-'स्मितं कुलनतभ्रुवामधर एव विश्राम्यति’। न निष्क्रान्त: उल्लङ्घन-विषयीभूतो देहलीदेशो यस्मिन्, देहलीतो बहिर्न भ्राम्यन्तीत्यर्थ:। तत्त्वतस्तु-न निष्क्रान्त: स्वस्माद्वियुक्तो दहलीदेशो यस्मिन्, अर्थात् गृहजना गृहदेहलीतस्तिरस्कुर्युरीदृशं तासां भ्रमणं न भवतीति यावत्। मार्ग इत्यनेन-राजमार्गवदनुट्टङ्कनीया निष्कण्टका तु सेयमेव रीति:, अन्या: कामं पांसुला विशिखा: शतं भवेयुरिति ध्वन्यते। वधूपदेन-पितृगृहे एतदपेक्षया किञ्चित्स्वा-तन्त्र्यमभिव्यज्यते।
निष्परिच्छदतया कैश्चिदनादृतस्य नायकस्य गौरवं सूचयन्ती दूती शृण्वन्तीं नायिकाम-नुकूलयितुमन्यापदेशेनाह-
१. लज्जा चत्ता सीलं अ खण्डिअं अजसघोसणा दिण्णा।
जस्स कए णं पिअसहि सो च्चेअ जणो जणो जाओ।।२४।।
[लज्जा त्यक्ता शीलं च खण्डितमयशोघोषणा दत्ता।
यस्य कृतेन (कृते ननु) प्रियसखि स एव जनो जनो जात:।।]
२. हसिअं अदिट्ठदन्तं भमिअमणिक्कन्तदेहलीदेसम्।
दिट्ठमणुक्खित्तमुहं एसो मग्गो कुलवहूणम्।।२५।।
[हसितमदृष्टदन्तं भ्रमितमनिष्क्रान्तदेहलीदेशम्।
दृष्टमनुत्क्षिप्तमुखमेष मार्ग: कुलवधूनाम्।।]
धूलिमलिनोऽपि पङ्काङ्कितोऽपि तृणरचितदेहभरणोऽपि।
तदपि गजेन्द्रो ढक्कां गुरुकतया ह्यात्मनो वहति।।२६।।१
तृणै: कृतं देहस्य भरणं पोषण येन। भरणपदेन-उदरपूरणमात्रसूचनेन भोज्यप्रकारेष्वौद-रिकवदभिनिवेशाभावो व्यज्यते। आत्मनो गुरुकतया शरीरस्य महापरिमाणेन ढक्कां समरवाह्यं महाविशालं यश:पटहं वहति। गुरुकतया आत्मनौ गौरवेण (उत्कर्षेण) स्वस्य यशोडिण्डिमं घोषयतीत्यप्यर्थ:। एवं च-निष्परिच्छदोऽपि सोऽयमात्मन उत्कर्षेण सर्वत्र यशोभाजनमस्ति, तन्माऽस्य समागमे विशङ्के्या इति नायिका प्रति द्योत्यते।
नैसर्गिकमहत्त्वशालिनां सङ्कटेऽपि मानसमुन्नतमेव भवतीति सखीं शिक्षयन्ती काचित्सुभटपत्न्याश्चौरेण सह संलापदृढतामाह-
नो बन्दि गम्यते किं को गर्वो येन मसृणगमनासि।
जल्पितमदृष्टदशनं विहसन्त्या 'ज्ञास्यसे चोर’।।२७।।२
'हे बन्दि मम निर्देशानुसारं मया सह किमिति न गम्यते? किंनिमित्तो गर्वो येन मसृणगमनासि मन्दगमनासि’ इति चौरेणोक्ते सति, अदृष्टदन्तं यथा स्यात्तथा हसन्त्या मन्दस्मितं कुर्वत्येत्यर्थ:। अदृष्टदन्तं हसनेन-'कुलमर्यादा आत्माभिमानश्च सूच्यते। मन्दस्थाने मसृणपदेन चिक्कणस्थलवत्स्थित्वा स्थित्वा गमनं सूच्यते, तेन विश्वसनीयशौर्यस्य दयितस्यागमनप्रतीक्षा व्यज्यते। कथनस्थाने जल्पनोक्तया-साभिमानोक्ति: सूचिता। चोरपदेन-'वीरस्य मम भर्तुरनुप-स्थितौ मां हरतस्तव नेयं सुभटता, अपि तु सेयं तस्करतैव’ इति तं प्रति तिरस्करो ध्वन्यते।
१. धूलिमइलो वि पङ्कङ्किओ वि तणरइअदेहभरणो वि।
तह वि गइन्दो गरुअत्तणेण ढक्कं समुव्वहइ।।२६।।
[धूलिमलिनोऽपि पङ्काङ्कितोऽपि तृणरचितदेहभरणोऽपि।
तथापि गजेन्द्रो गुरुकत्वेन ढक्कां समुद्वहति।।]
२. करमरि कीस ण गम्मइ को गव्वो जेण मसिणगमणासि।
अद्दिट्ठदन्तहसिरीअ जम्पिअं चोर जाणिहिसि।।२७।।
[बन्दि किमिति न गम्यते को गर्वो येन मसृणगमनासि।
अदृष्टदन्तहसनशीलया जल्पितं चोर ज्ञास्यसि।।]
प्रेमप्राबल्ये सति ऋतुकालेऽपि प्रियतमाया विरहो न शक्येते सोढुमिति सखीं प्रियतमप्रणयार्थमुत्तेजयन्ती काचित्कस्याश्चिद्वृत्तमाह-
रुदितं हि पुष्पवत्या: सपदि सपत्नीभिरविरलैरस्रै:।
भुजशिखरं किल पत्यु: प्रेक्ष्य शिरोलग्नवर्णघृतलिप्तम्।।२८।।१
भुजस्य शिरसि उपरिभागे स्कन्ध इति यावत्। लग्नेन वर्णघृतेन लिप्तं पत्युर्भुजशिखरं प्रेक्ष्य पुष्पवत्या: सपत्नीभि: अविरलैरश्रुभि: रुदितम्। पुष्पवतीमपि तामसौ न त्यजतीति भाव:। स्कन्धे घृतलेपेन तन्मुखमंसे निधाय रात्रौ सुष्वापेति नायिकालम्बन: प्रणयातिशयो द्योत्यते। तद्द्वारा च सपत्नीनामीर्ष्यातिशय: 'अविरलै:’ इत्यश्रुविशेषणेन सूच्यते। 'तुप्पं वर्णघृतं तेन लिप्तं तुप्पलिअम्। कस्याप्यभियोगनिरासार्थं दूती नायिकाया ऋतुकालेऽप्यनवसरमाह’ इति गङ्गाधरटीका।
अतिरागाविष्ट: कोऽपि रजस्वलामाह-
लोकस्ताम्यति ताम्यतु वचनीयं भवति भवतु तन्नाम।
एहि विनिमज्ज पार्श्वे निद्रा मे नैति पुष्पवति।।२९।।२
लोक: सपत्न्यादि: ताम्यति खिद्यते। वचनीयं निन्दा। नायिकाया एकैका विप्रतिपत्ति-रनूद्य खण्ड्यते। पार्श्वे विनिमज्जेति स्फुटतया ग्राम्यायितोक्त्या नायकस्य कामाकुलत्वं व्यज्यते। प्रिये! इत्यादिपरिवर्ते पुष्पवतीत्यामन्त्रणेन-वारंवारं पुष्पवतीत्वं कारणीकुर्वाणा त्वमेवैका अपूर्वा पुष्पवती असीत्युपालम्भोऽभिव्यज्यते। पुरुषनिष्ठ: सोऽयं हाव इति सरस्वतीकण्ठाभरणम्। 'रागत: सहसा प्रवृत्तिहेतुश्चित्तोल्लासो हेला। हेलैव सवचनविन्यासो हाव:’ इति तल्लक्षणम्।
पूर्वानुरागे लेखमुखेन नायिका नायकमाह-
१. थोरंसुएहिँ रुण्णं सवत्तिवग्गेण पुप्फवइआए।
भुअसिहरं पइणो पेछिऊण सिरलग्गतुप्पलिअम्।।२८।।
[स्थूलाश्रुभी रुदितं सपत्नीवर्गेण पुष्पवत्या:।
भुजशिखरं पत्यु: प्रेक्ष्य शिरोलग्नवर्णघृतलिप्तम्।।]
२. लोओ जूरइ जूरउ वअणिज्जं होइ होउ तं णाम।
एहि णिमज्जसु पासे पुप्फवइ ण इए मे णिद्दा।।२९।।
[लोक: खिद्यते खिद्यतु वचनीयं भवति भवतु तन्नाम।
एहि निमज्ज पार्श्वे पुष्पवति नैति मे निद्रा।।]
यां यां पश्यामि दिशं तत्र लिखित इव विलोक्यसे पुरत:।
प्रतिमापरिपाटीं तव सकलं वहतीव दिक्चक्रम्।।३०।।१
प्रतिमापरिपाटीं प्रतिबिम्बपरम्पराम्। सर्वतस्त्वन्मूर्तिमेव विलोकयामीत्याशय:। 'लिखित एव’ इति गङ्गाधरकृता छाया।
तिर्यञ्चोऽपि कस्माच्चन पूर्वं कष्टमनुभूय तत्सदृशमन्यमभीष्टमपि पदार्थमुपाददतो बिभ्यति। तद्विरम तदुपसरणादिति नायकं शिक्षयन्ती दूती सापदेशमाह-
अपसरति धुवति शाखां खोक्खामुखर: पुन: समुल्लिखति।
जम्बूफलं न हरति भ्रमर इति कपि: प्रथमदष्ट:।।३१।।२
धुवति कम्पयति। खोक्खा इति वानराणां शब्दस्तेन मुखर:, तां शाखां पुन: उल्लिखति नखैर्विलुनाति। परं भ्रमरेण प्रथमं दष्ट: कपिस्तत्सदृशं जम्बूफलं न हरति गृह्णाति। तिरश्चामपि सेयं सतर्कता, त्वं तु प्रथममनुभूतभूरिनिग्रहोऽपि कथं पुनस्तामेव कामयसे इति नायकं प्रत्यभिव्यज्यते। 'खोक्खा ध्वनिविशेष:’ इति गङ्गाधर:।
पुनस्तमेवार्थं दृष्टान्तान्तरेणाह-
न स्पृशति करेण कपि: कण्डूतिभयेन पत्रलनिकुञ्जे।
ईषल्लम्बितकपिकच्छुगुच्छसदृशं हि वानरीहस्तम्।।३२।।३
१. जं जं पुलएमि दिसं पुरओ लिहिअ व्व दीससे तत्तो।
तुह पडिमापडिवाडिं वहइ व्व सअलं दिसाअक्कम्।।३०।।
[यां यां प्रलोकयामि दिशं पुरतो लिखित एव दृश्यसे तत्र।
तव प्रतिमापरिपाटीं वहतीव सकलं दिशाचक्रम्।।]
२. ओसरइ धुणइ साहं खोक्खामुहलो पुणो समुल्लिहइ।
जम्बूफलं ण गेह्णइ भमरो त्ति कई पढमडक्को।।३१।।
[अपसरति धुनोति शाखां खोक्खामुखर: पुन: समुल्लिखति।
जम्बूफलं न गृह्णाति भ्रमर इति कपि: प्रथमदष्ट:।।]
३. ण छिवइ हत्थेण कई कण्डूइभएण पत्तलणिउञ्जे।
दरलॅम्बिअगोच्छकइकच्छुसच्छहं वाणरीहत्थम्।।३२।।
[न स्पृशति हस्तेन कपि: कण्डूतिभयेन पत्र्रलनिकुञ्जे।
ईषल्लम्बितगुच्छकपिकच्छुसदृशं वानरीहस्तम्।।]
पत्रले बहुलपत्रे निकुञ्जे लतामध्यत: प्रसारितं प्रियमपि वानरीहस्तम्, ईषल्लम्बमानं कपिकच्छो: (कोंछ इति भाषया व्यपदेश्यस्य वनस्पतिविशेषस्य) गुच्छकमाशङ्क्य कपि: कण्डूतिभयेन न स्पृशतीत्याशय:। प्राकृते पूर्वनिपातस्यानियमात् कपिकच्छुगुच्छसदृशमितिस्थाने 'गुच्छकपिकच्छुसदृशम्’ इति जातम्। अथवा ईषल्लम्बितो गुच्छो यस्येति बहुव्रीहिर्वाच्य: स्यात्। अभिमतमपि मूढ: प्रतिकूलबुध्या परिहरतीत्यन्यापदेशेन कोऽपि सहचरमाह’ इति गङ्गाधर:।
अभिसरणार्थं नायकमुत्तेजयन्ती दूती नायिकाया विरहविकलतामाह-
शुष्यत्येव च सरसाप्यवैति दु:खानि मुग्धहृदयापि।
रक्तापि पाण्डुरैव हि जाता विरहे तव वराकी।।३३।।१
सरसापि त्वत्प्रेमणि साभिलाषापि परितापाच्छुष्यति। त्वत्प्रेम्णा व्यामूढहृदयापि विरहजानि दु:खानि अवैति जानाति। अनुरक्तापि विरहवेदनया पाण्डुरवर्णा जाता। सरसादिपदानां श्लेषेण आर्द्रताद्यपीत्यर्थ:। ततश्च-आर्द्रस्य कथं शुष्कता, व्यामूढस्य (अचेतनस्य) कथं दु:खपरिज्ञानम्, अरुणवर्णस्य कथं पाण्डुतेति विरोध:। अनेन चालङ्कारेण 'सुखसाधनमपि सर्वं त्वद्विरहे तस्या दु:खसाधनं जातम्’ इति वस्तु व्यज्यते। अनुभवतीति स्थाने जानातीत्युक्त्या-त्वयैव विरहं प्रदाय दु:खानां परिचय: कारित:, अन्यथा पूर्वं कीदृशानि दु:खानीति परिज्ञानमपि नासीदिति पूर्वमनुभूतसुखाया: साम्प्रतं नवदु:खानुभवेन वेदनातिशयो ध्वन्यते। वराकीपदेन च- 'विपरीतकारिणा दैवेन एवं व्यापद्यमाना साऽवश्यं दयनीया’ इति त्वरितोपसर्पणं चरमं ध्वन्यते।
सीधुसेवनेनोद्रिक्तमन्मथतया जरन्तमप्यालिङ्गन्तीं काञ्चन नवयौवनां शरद्वर्णनप्रसङ्गे-नोपहसन् सहृदय: कश्चित्सहचरमाह-
जीर्णं कुब्जकमप्यारोहति यत्पश्य वेल्लिनी त्रपुसी।
शरदो दोषो नीलोत्पलपरिमलवासिताया: स:।।३४।।२
१. सरसा वि सूसइ च्चिअ जाणइ दुक्खाइँ मुद्धहिअआ वि।
रत्ता वि पण्डुर च्चिअ जाआ वरई तुह विओए।।३३।।
[सरसापि शुष्यत्येव जानाति दु:खानि मुग्धहृदयापि।
रक्तापि पाण्डुरैव जाता वराकी तव वियोगे।।]
२. आरुहइ जुण्णअं खुज्जअं वि जं उअह वल्लरी तउसी।
णीलुप्पलपरिमलवासिअस्स सरअस्स सो दोसो।।३४।।
[आरोहति जीर्णं कुब्जकमपि यत्पश्यत वेल्लनशीला त्रपुसी।
नीलोत्पलपरिमलवासिताया: शरद: स दोष:।।]
वेल्लतीति वेल्लिनी वेष्टनशीला त्रपुसी ('आर्या, तेवरसी’ इति ख्याता, कर्कटी-विशेष:) क्त् शुष्कं वक्रं वृक्षमप्यारोहति, एष फुल्लनीलकमलसौरभाया: शरदो विकार:। प्राकृते 'सरअस्स’ इत्यस्य 'शरद:’ 'सरकस्य’ इत्युभयमप्यर्थ:। ततश्च-'सरकोऽस्त्रीशीधुपाने शीधुपात्रेक्षुशीधुनो:’ इति मेदिनीकोषात्- 'वेल्लिनी वेष्टिताख्यालिङ्गनशीला त्रपुसीव कोमला नवयौवना वृद्धं नायकं बन्धविशेषवशाद् यदारोहति, सोऽयं नास्या दोष:, किन्तु कमलसौर-भयुक्तस्य सरकस्य इक्षुमद्यस्य इत्यर्थान्तरमपि ध्वन्यते। तथाच-नवयौवनापि सेयं यज्जरन्तमिम-मालिङ्गति तत्र मधुपानमेव कारणमिति स्वस्य मर्माभिज्ञता सुहृदं प्रति प्रकटीकृता। गङ्गाधरस्तु- 'कामपि गलितयौवनां शीधुपानेन जातमन्मथविकारां शरद्वर्णनच्छलेनोपहसन्नागरिक: सहचरमाह’ इति प्रारम्भे अवतरणं विधायापि, मध्ये- 'कर्कट्या: पुनर्नवीकरणं जरत्याश्च युवतीकरणं विकार:’ इति वृद्धाया: कस्याश्चित्कामविकारकथां जगौ। अन्ते च 'शरत्काले कर्कटीलता यदेव पुर: स्थितं शुष्कमार्द्रं वा सरलं वक्रं वा, तदेवारोहति, तथा लतेव लता नायिका वृद्धं वा तरुणं वा यद्भजते नायमस्या दोष:, किन्तु इक्षुमद्यस्येति’ पुनर्युवत्या: वृद्धाश्रयणमालपितवानिति पूर्वापरविरुद्ध: सन्दर्भ:। 'त्रपुसी जीर्ण कुब्जकमारोहति’ इति वाक्येन स्पष्टं नवयौवनाया जीर्णेन सह कामविकार: प्रतीयत इति सुधीभिर्विमृश्यम्।
प्रियतमेन साकं पूर्वं मधूत्सवमुखमनुभूतवती काचित्प्रियविरहे तस्यैवोत्सवस्य स्वरूपं वयस्यां प्रत्येवमाह-
उत्पथधावितमनुज: प्रविजृम्भितकलकल: प्रहततूर्य:।
हंहो क्षण: स एव हि तेन विना ग्रामदाह इव।।३५।।१
उत्सवप्रमत्ततया वह्निभयाच्च उत्पथेन धाविता जना यस्मिन्। उत्सवकालिकगानादिना रक्षार्थमार्तनादेन च प्रविजृम्भित: कलकलो यस्मिन्। गानसहकाराय वह्निनिर्वापणार्थं दूरस्थजना-ह्वानाय च प्रहत: तूर्यो यस्मिन्, ईदृश: क्षणो मधूत्सव: (साम्प्रतिको होलामहोत्सव:) तेन विना ग्रामदाह इव प्रतीयते। हंहो इति दु:खाभिनये। स एवेत्यनेन तद्विरहे मुखकरमपि सकलं दु:खजनकमभवत्, हंहो दु:खम्! इति दैवपरिवृत्ति: सूच्यते। 'ग्रामदाह’ कीर्तनेन- सकलेऽपि ग्रामे अशान्तिरिव प्रतीयत इति नायिकायास्तन्मयता ध्वन्यते। होलिकादहनोत्सवे उत्सवमत्तानां जनानां ढक्कासहकारिगीतिकलकलमुखरो निर्मर्याद: सोऽयमानन्दोत्सवो ग्रामदाहे जातो विस्वरकोलाहलायितो नायिकाया: प्रतीतोऽभवदित्याशय:।
१. उप्पहपहाविहजणो पविजिम्हिअकलअलो पहअतूरो।
अव्वो सो च्चेअ छणो तेण विणा गामडाहो व्व।।३५।।
[उत्पथप्रधावितजन: प्रविजृम्भितकलकल: प्रहततूर्य:।
दु:खं स एव क्षणस्तेन विना ग्रामदाह इव।।]
खलसमागमं वारयन्ती काचित्सखीमाह-
नोल्लापयमानेन स्तब्धेन च पार्श्वगेन कस्य स्यात्?।
शङ्का खलेन पितृवनतरुलम्बितचोरकेणेव।।३६।।१
न उल्लापयमानेनेतिच्छेद:। उल्लापयमानेन स्वार्थाय वञ्चनार्थं भाषमाणेन अहङ्कारात् स्तब्धेन पार्श्वस्थितेन खलेन, श्मशानपादपलम्बितेन कुत्सितेन चोरेणेव, चोरादिति यावत्। कस्य शङ्का न स्यात्, अपि तु सर्वस्य स्यात्। चौरोऽपि उल्लापयमान: द्रावयन् (अभिभवन्) प्राकृतानुसारं 'पासट्ठिअ:’ पाशस्थित: प्राणदण्डार्थं वृक्षेऽवलम्ब्य दत्त गलपाश:, प्राणवायुनिर्गमोत्तरं स्तब्धश्च भवति। हेतौ तृतीया। अत एव भययोगा पञ्चमी न। अनया उपमया 'खलात्केवलं भयमेव, न तु काचित्सिद्धि:, (यथा मृत चौरदेहात्)’ इति तस्य परिहरणीयत्वं ध्वन्यते।
प्रावृषि प्रवासं परिहृत्य प्रियतमा: प्रतिनिवर्तन्त इति प्रोषितापतिकां प्रियसखीं प्रबोधयन्ती प्रौढा कापि पितृष्वसारं प्रत्याह-
असमाप्तगुरुककार्ये सम्प्रति पथिके गृहं समायाति।
हसतीव नवप्रावृट् पितृष्वस: कुटजहासेन।।३७।।२
न समाप्तं गुरुकमावश्यकं कार्यं तस्य तस्मिन्, समायाति प्रतिनिवर्तमाने सति। 'मच्चिह्नदर्शनाद्भीत: प्रियाविरहं सोढुमशक्नुन्नकृतावश्यककार्य एवैष गृहं प्रत्यागत:’ इति कुटजकुसुमविकासरूपेण अट्टहासेन हसतीव। नवप्रावृडिति नवपदेन-आरम्भ एव प्रेयसीसमाग-मोत्कण्ठ: प्रतिनिवृत्त इति प्रावृष उद्दीपकत्वातिशय: सूच्यते। तथा च—'गुरुकार्याण्यपि त्वक्त्वा यदा प्रवासिन: समायान्ति तर्हि सामान्यकार्यगत: सो चिरात्समायास्यति। मा उत्ताम्य। आरम्भ एव सोयं प्रावृष:’ इति नवपदसहकारेण सखीं प्रति ध्वन्यते।
१. उल्लावन्तेण ण होइ कस्स पासट्ठिएण ठड्ढेण।
सङ्का मसाणपाअवलम्बिअचोरेण व खलेण।।३६।।
[उल्लापयमानेन न भवति कस्य पार्श्वस्थितेन स्तब्धेन।
शङ्का श्मशानपादपलम्बितचोरेणेव खलेन।।]
२. असमत्तगुरुअकज्जे एह्णिं पहिए घरं णिअत्तन्ते।
णवपाउसो पिउच्छा हसइ व कुडअट्टहासेहिं।।३७।।
[असमाप्तगुरुककार्ये इदानीं पथिके गृहं प्रतिनिवर्तमाने।
नवप्रावृट् पितृष्वस: हसतीव कुटजाट्टहासै:।।]
गृहगमनाय पथिकं त्वरयितुं काचित्प्रावृषि प्रोषितभर्तृकाया वृत्तान्तमुपक्रमते-
उन्नमतो नवमेघान्विमुक्तनिजजीविताशया दृष्ट्वा।
पथिकगृहिण्या डिम्भो विरुदितमुख्या हि संदृष्ट:।।३८।।१
उन्नमत: शनै: शनैरुज्जृम्भमाणान् मेघान्दृष्ट्वा मुक्ता निजजीवनस्य आशा यया एतादृश्या पथिकगृहिण्या रुदत्या सत्या शिशुरवलोकित:। प्रावृषि विरहवेदनया मृतायां मयि अल्पवय-सोऽस्य का गति: स्यात्? क इमं पालयेदिति चिन्तयेति भाव:। 'उन्नमत:’ इति वर्तमानार्थकेन शत्रा 'विमुक्ते’ ति भूतार्थकेन क्तेन च 'शनै:’ शनैर्जलदास्तु वर्द्धन्त एव, तथा चाग्रे न मे जीवितं भवेदिति उदयत्स्वेव मेघेषु जीवनाशा त्यक्ता’ इति दु:खातिशय: सूच्यते। 'गृहिणी’ पदेन गृहभारसञ्चालकतया स्वस्याभावे डिम्भस्य निराश्रयत्वं ध्वन्यते।
कस्याश्चिच्चिरप्रोषितपतिकाया: सखी तत्कान्तसविधगामिनं पथिकं प्रति सन्दिशति-
स्थानमविधवालक्षणवलयं स्थानं विनयन्पुन: पुनर्गलितम्।
बलकारक: सखीगण एव हि जातो मनस्विन्या:।।३९।।२
विरहदौर्बल्याद् गलितं जीवत्पतिकाया लक्षणभूतं वलयं पुन: पुन: स्वस्थानं नयन्, मनस्विन्या: सखीगण एव विरहनिर्बलतायामपि बलकारक: आश्वासप्रदानेन बलदायको जात:। अथवा 'बलआरओ’ इत्यस्य गलितेऽपि वलये पुन: पुनर्वलयदानाद् 'वलयाकर:’ जात इत्यर्थ:। 'मनस्विन्या:’ इत्यनेन-सखीगणदत्तसमाश्वासना सा केवलं मनोबलादेव साम्प्रतमात्मानं धारयति, इति सूच्यते। गङ्गाधरस्तु-'कलहान्तरितया कोपोज्झितभूषणयापि न त्यक्तानि वलयानिति तस्या: सुज्ञतां विरहकृशतां च सूचयन्ती सखी तत्कान्तमाह’ इत्यवतरणं विधाय 'वलआरओ’
१. दट्ठूण उण्णमन्ते मेहे आमुक्कजीविआसाए।
पहिअघरिणीअ डिम्भो ओरुण्णमुहीअ सच्चविओ।।३८।।
[दृष्ट्वा उन्नमतो मेघानामुक्तजीविताशया।
पथिकगृहिण्या डिम्भोऽवरुदितमुख्या दृष्ट:।।]
२. अविहवलक्खणवलअं ठाणं णेन्तो पुणो पुणो गलिअम्।
सहिसत्थो च्चिअ माणंसिणीअ वलआरओ जाओ।।३९।।
[अविधवालक्षणवलयं स्थानं नयन्पुन:पुनर्गलितम्।
सखीसार्थ एव मनस्विन्या वलयकारको जात:।।]
इत्यस्य 'वलयकारक: वलयपरिधापक:’ इति व्याख्यामाह। विरहिणीप्रसङ्गे पठिताया अस्या: कलहान्तरिताविषयकत्वं तु स्वल्पकाल एव एतावत्कार्श्यादिसाधनोपपत्ति-काठिन्येन कष्टकल्पनप्रायमिति मन्मति:।
वर्षासु विरहिणीनां वेदनातिशयं वर्णयन्कश्चिद् गृहमनाय पथिकं त्वरयितुमाह-
पथिकवधूर्विवरान्तरगलितजलार्द्रे गृहेऽप्यनार्द्रमहो।
उद्देशमार्द्रयति पतदविरतवाष्पाम्बुनिवहेन।।४०।।१
जीर्णस्य तृणगृहच्छदिषश्छिद्रान्तराद् गलितेन जलेनादे्र्र। अनार्द्रमपि उद्देशं स्थानम् अनवरतं पतता बाष्पसलिलेनार्द्रयति। विवरात्पतता जलेन दु:खिता शुष्के स्थाने स्थित्वापि प्रियस्मरणोत्कण्ठावशान्निरन्तरपतदश्रुतया तदपि स्थानमार्द्रं करोतीत्यर्थ:। 'वधू’ पदेन नवयौवनात्वं गुरुजनलज्जावशाद् गृहान्त: स्थितिसापेक्षत्वं च सूचितम्। जीर्णगृहवर्णनात्-दुर्वहदारिद्र्याक्रान्तापि त्वत्प्रेमैकजीवना नाद्यापि मनोऽन्यत्र नयति, तत्त्वरितमिमां सम्भावयेति तद्दयितं प्रति सूच्यते।
कलहान्तरिताया दूती तत्कान्तमनुनयार्थं प्रोत्साहयन्ती कुलीनप्रशंसाप्रसङ्गेनाह—
जिह्वायां कलयन्ति प्रियं हृदि च सन्ति निर्वृतिं नेतुम्।
जनयन्ति पीडिता अपि रसमिक्षुघना: कुलीनाश्च।।४१।।२
मधुररसत्वात्प्रियंवदत्वाच्च जिह्वायां प्रियम् आस्वादम्, अनुकूलं मनोरथं च कलयन्ति वदन्ति कुर्वन्ति च। 'कल’ कामधेनु:। हृदये निर्वृतिम् ऊष्मजनिततापस्य उद्वेगस्य च प्रशमं कर्तु सन्ति भवन्ति प्रभवन्ति। पीड्यमाना: दन्तैर्निष्पीड्यमाना: निष्ठुरभाषणेन खेद्यमानाश्च इक्षुघना: (घना: इक्षव:) कुलीनाश्च यथाक्रमं रसं मधुरद्रवं प्रीतिं च जनयन्ति। 'जीहाइ’ इति
१. पहिअवहु विवरन्तरगलिअजलोल्ले घरे अणोल्लं पि।
उद्देसं अविरअवाहसलिलणिवहेण उल्लेइ।।४०।।
[पथिकवधूर्विवरान्तरगलितजलादेर्् गृहेऽनार्द्रमपि।
उद्देशमविरतवाष्पसलिललिनिवहेनार्द्रयति।।]
२. जीहाइ कुणन्ति पिअं भवन्ति हिअअम्मि णिव्वुइं काउम्।
पीडिज्जन्ता वि रसं जणन्ति उच्छू कुलीणा अ।।४१।।
[जिह्वायां (पक्षे-जिह्वया) कुर्वन्ति प्रियं भवन्ति हृदये निर्वृतिं कर्तुम्।
पीड्यमाना अपि रसं जनयन्तीक्षव: कुलीनाश्च।।]
प्राकृतस्य 'जिह्वायाम्’ 'जिह्वया’ चेत्युभयमप्यर्थ:। कुलीनपक्षे जिह्वया अन्यस्य प्रियं कुर्वन्तीत्यर्थो गङ्गाधरेण छायायां कृत:। 'अनुनेतुमागतं प्रियवादिनं कान्तं कलहान्तरिता सपरितोषमाह’ इति तत्रावतरणम्।
चिह्नैर्विनापि वसन्तागम: प्रतीयत एवेति तद्विषये विप्रतिपद्यमानां श्वश्रूं प्रति विवेकिनी वधूराह-
श्वश्रु न च चूतमुकुलं विलोक्यते वाति न च मलयवात:।
प्राप्तं वसन्तमासं कथयत्युत्कण्ठितं चेत:।।४२।।१
बाह्यैश्चिह्नैर्विनापि प्रियतमार्थमुत्पन्ना उत्कण्ठा वसन्तं सूचयतीति भाव:।।
'नागत: सम्प्रति वसन्त:, आश्वसिहि’ इति सान्त्वयन्तीं सखीं प्रति वसन्तागमं साधयन्ती नायिका आह-
न विना कार्येणोत्सुकमाम्रवने भ्रमति मधुपकुलम्।
ज्वलनेन विना हि कुतो धूमस्य शिखा: प्रदृश्यन्ते।।४३।।२
मधुपानशीलं मधुपकुलं कुसुमं विना नाम्रे भ्रमति। आम्रान्त: कुसुमोद्गमे जाते च वसन्त: समागत एवेति भाव:। वह्निव्याप्यधूमेन यथा बह्नेस्तथा मधुगन्धलोभिनो मधुपकुलस्य भ्रमणेन सहकारे कुसुमोद्गमस्यानुमानम्, तेन च वसन्तसिद्धिरित्याशय:। अत एव भ्रमरपदा-पेक्षया मधुपपदमनुकूलम्। पीतेनाम्रकुसुमेन वह्ने:, उपरि भ्रमता श्यामेन भ्रमरकुलेन च उद्गच्छन्त्या धूमशिखाया: साम्यमपि समुचितमासूचितं ग्रन्थकारेण। तथा च- ज्वलन इव सहकारकुसुमं सम्प्रति मां दहेदिति प्रियतमाह्वानार्थमेव यतनीयं न मुधाऽऽश्वासनार्थमिति सखीं प्रति ध्वन्यते।
१. दीसइ ण चूअमउलं अत्ता ण अ वाइ मलअगन्धवहो।
पत्तं वसन्तमासं साहइ उक्कण्ठिअं चेअम्।।४२।।
[दृश्यते न चूतमुकुलं श्वश्रु न च वाति मलयगन्धवह:।
प्राप्तं वसन्तमासं कथयत्युत्कण्ठितं चेत:।।]
२. अम्बवणे भमरउलं ण विणा कज्जेण ऊसुअं भमइ।
कत्तो जलणेण विणा धूमस्स सिहाउ दीसन्ति।।४३।।
[आम्रवने भ्रमरकुलं न विना कार्येणोत्सुकं भ्रमति।
कुतो ज्वलनेन विना धूमस्य शिखा दृश्यन्ते।।]
मदनोत्सवे (होलिकोत्सवे) सुरतलुलितवेषां काञ्चन योषां बहुमन्यमान: कश्चन विदग्ध: प्रसाधनपक्षपातिनं सहचरमाह-
दयितकरग्रहलुलितो धम्मिल्ल: सीधुगन्धितं वदनम्।
एतावदेव मदने प्रसाधनं हरति तरुणीनाम्।।४४।।१
मदनोत्सवे एतावदेव तरुणीनां मण्डनं कामिनां मनो हरति। अथवा मदने सति कामोदये सतीत्यर्थ:। सुरतानुकूलमेतावदेव मण्डनं मनोहारि, सुरतप्रतिबन्धकै: किमन्यैर्भूषणैरिति भाव:। एतावदेवेत्येवकारेण अधारितैरपि हारकेयूरादिभिर्न प्रसाधनत्रुटि:। धारितैरपि कर्णावतं-सनासाभूषणादिभिश्च विशिष्य सुरतोपयोगाभावान्न मनोहरणमिति धम्मिल्लाद्योरेव असाधारण-भूषणतेत्यतिशय: सूच्यते। अत एव दृढमाबद्धो धम्मिल्लोऽपि न तस्मिन्समये मनोहारी, प्रत्युत विलुलितप्रयतया निधुवने ग्रहणसुकर: शिथिलबन्धन एवेति दयितकरग्रहलुलित-विशेषणेन व्यज्यते। तरुणीनामित्यनेन-नवागता बाला: काममितरद्भूरि भूषणं धारयन्तु नाम, परं सुरतरसिकानां प्रमदानां त्विदमेव मण्डनमित्यतिशय: सूच्यते। मण्डनादिस्थाने प्रसाधनपदेन-इदमेव प्रसाधनं सुरते प्रकृष्टं साधनमिति निरुक्ति: सूच्यते। अत्र गङ्गाधरस्तु- 'मदने इति निमित्तसप्तमी वा। मदननिमित्तमित्यर्थ:।’ इति वाचख्यौ। परं यदि निमित्तसप्तमीपदेन 'निमित्तात्कर्मयोगे’ इत्यपि सप्तमी बुध्येत, तर्ह्यपि न गति:। कर्मणो योगाभावात्। अस्तु। 'किलमलङ्करणेन, शीघ्रं कान्तमभिसर’ इति दूतीवचनमिति कश्चित्। परमत्र अभिसारात्पूर्वमेव 'दयितकरग्रहलुलित’ इति विशेषणं कष्टात्सङ्गच्छेत।
मदनोत्सवे ग्रामयुवत्योऽपि मनोहारिण्यो भवन्तीति तदुत्सवस्योन्मादकतां साधयन्कश्चित्सहचरमाह-
ग्रामतरुण्यो हृदयं हरन्ति घनकुचभरा विदग्धानाम्।
मदने कुसुम्भरञ्जितकञ्चुलिकामात्रमण्डना: सपदि।।४५।।२
१. दइअकरग्गहलुलिओ धम्मिल्लो सीहुगन्धिअं वअणम्।
मअणम्मि एत्तिअं चिअ पसाहणं हरइ तरुणीणम्।।४४।।
[दयितकरग्रहलुलितो धम्मिल्ल: सीधुगन्धितं वदनम्।
मदने एतावदेव प्रसाधनं हरति तरुणीनाम्।।]
२. गामतरुणीओँ हिअअं हरन्ति छेआणँ थणहरिल्लीओ।
मअणे कुसुम्भरञ्जिअकञ्चु [इ] आहरणमेत्ताओ।।४५।।
[ग्रामतरुण्यो हृदयं हरन्ति विदग्धानां स्तनभारवत्य:।
मदने कुसुम्भरागयुक्तकञ्चुकाभरणमात्रा:।।]
घनकुचभरा: निबिडस्तनभारवत्य:। प्राकृते पूर्वनिपातनियमाभावात् 'कञ्चुकमात्रा-भरणा:’ इत्यस्य स्थाने 'कञ्चुकाभरणमात्रा:’ इति प्रयुक्तम्। विदग्धानामित्यनेन-मार्मिका एव सुन्दरीणां लावण्यपरीक्षकास्तदितरे तु गतानुगतिका एवेति व्यज्यते। कञ्चुलिकामात्रेत्यनेन लावण्ये न मण्डनापेक्षेति सूच्यते। हृदयं हरन्तीत्यनेन-रत्नाभूषणादिभिर्नेत्र मात्रामाह्रियते न तत्त्वज्ञानां मानसमिति द्योत्यते। मदनोत्सवे एतादृश्यो ग्रामतरुण्योऽपि हृदयहारिण्यो भवन्ति किं पुनरलङ्कृता: पौरसुन्दर्य इति तदुत्सवस्य निसर्गतो मादकता ध्वन्यते। त्रयोदश्यां कामदेवपूजामदनोत्सवे सेयमुदाहृता सरस्वतीकण्ठाभरणे (५ परि.)।
प्रथममेव प्रवासार्थं प्रस्थितस्य नवप्रवासिन: प्रियाविप्रयोगात्प्रवृत्तां पीडां प्रस्तुवन् कश्चित्प्रवासप्रतिषेधार्थमाह-
पश्यन्दिश: श्वसन्किल गायन्विरुदञ्श्च जृम्भमाण मुहु:।
मूर्च्छन्स्खलन्विनिपतन्पथिक नु किं ते प्रवासेन।।४६।।१
विरहचकितत्वाद्दिशोऽवलोकयन्, प्रेयसीस्मरणाच्छ्ववसन्, दु:खविनोदाय गायन्, तदुत्कण्ठा-वशाद्रुदन्, मदनायासेन मुहुर्जृम्भमाण, प्रियतमैकान्तचित्तत्वान्मूर्च्छादिविकारान्प्राप्रुवन् हे पथिक ते प्रवासेन किं फलम्? यत: साम्प्रतमेव ते सेयं दशा, तर्हि विदेशावस्थितौ का ते दशा भाविनीति को जानीते। तस्मान्निवर्तस्वेति भाव:। एवं च प्रवास: प्रियैकान्तचित्तानां दु:खायैवेति सूच्यते।
सख्या रहोवृत्तमनुसन्धातुं गता कथमेतावद्विलम्बेनागतासीति सख्या पृष्टा सखी तामाह-
सन्दृश्य तरुणसुरतं विविधविलासैश्च करणपरिलसितम्।
दीपोऽपि तद्गतमना गतमपि तैलं न लक्षयति।।४७।।२
१. आलोअन्त दिसाओ ससन्त जम्भन्त गन्त रोअन्त।
मुच्छन्त पडन्त खलन्त पहिअ किं ते पउत्थेण।।४६।।
[आलोकयन्दिश: श्वसञ्जृम्भमाण गायन्रुदन्।
मूर्छन्पतन्स्खलन्पथिक किं ते प्रवसितेन।।]
२. दट्ठूण तरुणसुरअं विविहविलासेहिँ करणसोहिल्लम्।
दीओ वि तग्गअमणो गअं पि तेल्लं ण लक्खेइ।।४७।।
[दृष्ट्वा तरुणसुरतं विविधविलासै: करणशोभितम्।
दीपोऽपि तद्गतमना गतमपि तैलं न लक्षयति।।]
सं. गा... २४
विविधविलासैरालिङ्गनचुम्बनादिभिरुपलक्षितम्। करणैर्विपरीतोत्तानकतिर्यगुत्थित-काद्यासनबन्धै: कामशास्त्रकथितै: शोभितम्। तरुणी च तरुणश्च तरुणौ तयो: सुरतं दृष्ट्वा। पुमान्स्त्रियेत्येकशेष: गतमपि तैलं न लक्षयतीत्यनेन-सुरतोत्सवे भूयान्विलम्बो जात इति व्यज्यते। दीपोऽपीत्यपिपदेन-अचेतनो दीपोऽपि यत्र स्पृहयालुरिव तदेकतानो भवति, तत्र मादृशो भुक्तभोगो जन: कथं कौतुकाद्विरमेदत एव तद्गतचित्ततया विलम्बोऽभवदिति भाव:।
उद्भटसुरतरसिकां कामपि कामिनीमुत्कण्ठयितुं सुरतकाले पूर्वानुभूतां कामिन: कामशास्त्रकुशलतामन्यापदेशेन काचिदाह-
पुनरुक्तकरास्फालनतटद्वयोल्लिखनपीडनशतानि।
यूथाधिपस्य मात: पुनरपि यदि नर्मदा सहते।।४८।।१
पुनरुक्तं पुन: पुनर्यत्करेण शुण्डादण्डेन हस्तेन चास्फालनं जलादौ पृष्ठादौ च। तटद्वयस्य कूलद्वयस्य नितम्बद्वयस्य च दन्तद्वयेनोत्खननं नखैर्विलेखनं च। पीडनं जलपूरस्याव-रोधनं निर्भरालिङ्गनं च, एतदादीनां शतानि। यूथाधिपस्य गजपुङ्गवस्य गोष्ठीनायकस्य च, अर्थात्तत्कृतानि करास्फालनादीनि। नर्मदा नदी, नर्म सुरतसुखं ददातीति योगात्कामकलानुकूला नायिका च। यदि पुनरपि सहते, तदा तान्युपस्थितानीति शेष:। आश्चर्यसूचनार्थं मातरिति सम्बोधनं लोके प्रसिद्धम्। अथवा- 'कान्तसमीपं गच्छ’ इति वदन्तीं सखीं प्रति नायिकाया: सेयमुक्ति:। सुरतदुर्मदस्य तस्य स्तनतटनखक्षतोरस्ताडननिर्भरालिङ्गनादीनि यदि सहेय तर्हि पुनरपि गच्छेयमिति साकूतं तस्या उत्तरमिति भाव:। उल्लिखनमिति 'गाङ्कुटादिभ्य’ इति सूत्रे कुटस्य आदि: कुटादिरिति समासेन लिखधातोरपि सङ्ग्रहाद् गुणनिषेधेन।
पूर्वसङ्केतितं कार्पासीक्षेत्रमगत्वा सम्प्रति गृह एव स्वच्छन्दमागन्तव्यमिति जारं सूचयन्ती स्वयंदूतिका सोद्वेगमाह-
१. पुणरुत्तकरप्फालणउहअतडुल्लिहणवड्ढणसआइं।
जूहाहिवस्स माए पुणो वि जइ णम्मआ सहइ।।४८।।
[पुनरुक्तकरास्फालनोभयतटोल्लिखनपीडनशतानि।
यूथाधिपस्य मात: पुनरपि यदि नर्मदा सहते।।]
विपन्न: श्वश्रूर्मत्ता पति: किलान्यस्थ:।
कार्पास्यपि परिभग्ना महिषेण हि वदतु कस्तस्य।।४९।।१
वोडो दुष्टछिन्नकर्णो वा। 'वुड्ढसुणओ’ इति पाठे वृद्धशुनक इत्यर्थ:। य: श्वा रात्रौ गृहरक्षामकरोत्स विपन्न इति तात्पर्यम्। मत्ता उन्मादरोगिणी। पतिपदेन-केवलं रक्षक एव स:, न मे उपभोक्ता परं सोऽपि अद्य अन्यस्थ: अन्यदेशस्थ:। महिषेण कार्पासी कार्पासकृषिर्भग्ना इति तस्य (पत्यु:) क: कथयतु? नान्यो गृहे पुरुष इति। तत: स्वच्छन्दमिहानन्दोऽनुभूयतामिति नायकं प्रति द्योत्यते।
मधुरतरेणोपायेन मानिन्या मानमपनयत: कस्यचिद्विदग्धस्य रहस्यं प्रत्यक्षं प्रदर्शयन्नागरिक: सहचरमाह-
प्रियमुखदत्तां सकचग्रहरभसोत्तानितानना पिबति।
स्तोकं स्तोकं रोषौषधमिव मदिरां नु मानिनी, पश्य।।५०।।२
प्रियेण सकचग्रहं रभसेन उत्तानितम् (ऊर्ध्वीकृतम्) आननं यस्या: सा मानिनी प्रियेण स्वमुखेन दत्तां मदिरां रोषनिवारकमौषधमिव स्तोकं स्तोकम् ईषदीषत्पिबति इति पश्य। कटुतिक्तास्वादमौषधं यथा स्वल्पं स्वल्पं पीयते तथा मानवशादत्यनुनयेन किञ्चित्कि-ञ्चित्पिबतीति भाव:।
जनसञ्चारवञ्चितेऽस्मिन् ग्रीष्ममध्याह्ने नायकमभिसरेति सूचयन्ती दूती निदाघतापस्य दु:सहतां वर्णयति-
१. वोडसुणओ विअण्णो अत्ता मत्ता पई वि अण्णत्थो।
फलिहं व मोडिअं महिसएण को तस्स साहेउ।।४९।।
[दुष्टशुनको विपन्न: श्वश्रूर्मत्ता पतिरप्यन्यस्थ:।
कार्पास्यपि भग्ना महिषकेण कस्तस्य कथयतु।।]
२. सकअग्गहरहसुत्ताणिआणणा पिअइ पिअमुहविइण्णम्।
थोअं थोअं रोसोसहं व उअ माणिणी मइरम्।।५०।।
[सकचग्रहरभसोत्तानितानना पिबति प्रियमुखवितीर्णाम्।
स्तोकं स्तोकं रोषौषधमिव पश्य मानिनी मदिराम्।।]
गिरिनिर्झर इति भुजगं सन्तप्तो लेढि जिह्वया महिष:।
कृष्णप्रस्तरझर इति सर्पो महिषस्य पिबति किल लालाम्।।५१।।१
कृष्णप्रस्तरस्य झरो नि:स्यन्द:। कृष्णे महिषे कृष्णपाषाणभ्रान्ति:। 'नार्तस्तत्त्वविचार-क्षमो भवतीति मध्याह्नवर्णनच्छलेन प्रदर्शयन्नागरिक: सहचरमाह’ इति गङ्गाधरावतरणम्।
शारिकया लोकानां सविधे रहस्याख्यानतो विलक्षीकृता कापि कुलवधूरन्तरङ्गां मातुलानीमाह-
पञ्जरशारीं मातुलि नापनयसि किं नु रतिगृहादस्मात्।
विस्रम्भजल्पितानि प्रकटयतीयं हि लोकानाम्।।५२।।२
पञ्जरशारीं पञ्जरबद्धां शारिकाम्। किमिति नापसारयसि। विस्रम्भजल्पितानि रतिसम-योदितानि प्रेमवचनानि। लोकानां लोकेभ्य:। अथवा लोकानां विस्रम्भजल्पितानि सेयं प्रकटयतीति निभृतं स्वस्य प्रियतमस्य च वचनानां सूचना दत्ता।
दन्तधावनाद्यर्थं सङ्केतितस्य करञ्जनिकुञ्जस्य पल्लवपुञ्जभञ्जकं ग्रामे भिक्षामटन्तं कञ्चन धार्मिकं पल्लवभङ्गाद्वारणाय भीषयन्ती काचित्कुलटा आह-
ग्रामेऽपीयन्मात्रे न पतति भिक्षेति किमिति मां भणसि।
धार्मिक करञ्जभञ्जक यज्जीवसि तदपि ते बहुकम्।।५३।।३
१. गिरसोत्तो त्ति भुअंगं महिसो जीहइ लिहइ संतत्तो।
महिसस्स कह्णवत्थरझरो त्ति सप्पो पिअइ लालम्।।५१।।
[गिरिस्रोत इति भुजङ्गं महिषो जिह्वया लेढि सन्तप्त:।
महिषस्य कृष्णप्रस्तरझर इति सर्प: पिबति लालाम्।।]
२. पञ्जरसारिं अत्ता ण णेसि किं एत्थ रइहराहिन्तो।
वीसम्भजम्पिआइं एसा लोआणँ पअडेइ।।५२।।
पञ्जरशारीं मातुलानि न नयसि किमत्र रतिगृहात्।
विस्रम्भजल्पितान्येषा लोकानां प्रकटयति।।]
३. एद्दहमेत्ते गामे ण पडइ भिक्ख त्ति कीस मं भणसि।
धम्मिअ करञ्जभञ्जअ जं जीअसि तं पि दे बहुअम्।।५३।।
[एतावन्मात्रे ग्रामे न पतति भिक्षेति किमिति मां भणसि।
धार्मिक करञ्जभञ्जक यज्जीवसि तदपि ते बहुकम्।।]
करञ्जभञ्जनागत धार्मिक! इयन्मात्रे ग्रामेऽपि भिक्षा न पतति न मिलति इति किं भणसि। एवंस्थितावपि भैक्ष्यभोजनेन यज्जीवनयात्रां निर्वहसि तदपि बहु गणयेति वाच्योऽर्थ:। करञ्जभञ्जनापराधे दृष्टेऽपि यत्त्वं प्राणैर्न वियुक्तोऽसि, तत्ते बहुभाग्यमिति व्यङ्ग्योऽर्थ:। तथा च-यदि जीवितुं कामयसे तर्हि करञ्जकुञ्जस्य पल्लवपुञ्जभञ्जनाद्विरमेति तं प्रति सूच्यते।
श्लेषचातुर्येणानुरागं सूचयन्ती काचित्कृतगुडवेतनमिक्षुयन्त्रवाहकमाह-
यान्त्रिक गुडं विमार्गसि न वाहयसि यन्त्रमिच्छया च मम।
अरसिक जानासि न किं न रसेन विना गुडो भवति।।५४।।१
यान्त्रिक यन्त्रकर्मकारक! वेतनत्वेन नियमितं गुडं विमार्गसि अन्विष्यसि वाञ्छसीति यावत्। इक्षुपीडनार्थं कृतं यन्त्रं (चर्खी) ममेच्छानुसारं च न चालयसि। पक्षान्तरे सुरतसाधनं यन्त्रम्। रस: इक्षुद्रव:, अनुरागश्च। तथा च हे अरसिक इक्षुद्रवविधानानभिज्ञ! किं न जानासि यत् रसेन इक्षुद्रवेण विना गुडो न भवति नोत्पद्यते। पक्षान्तरे च- हे अरसिक! अनुरागेण विना गुडो न भवति न प्राप्यते इत्यर्थ:। मय्यनुरक्तो यावन्ममेच्छानुसारं रतनिरतो न भविष्यसि तावन्न ते गुडवेतनं दीयेतेति भाव:।
सद्य: स्नातां श्यामाङ्गीं कामयमान: कश्चित् शृण्वन्त्यां तस्यां स्वसहचरमाह-
प्राप्तनितम्बस्पर्शा: श्यामाङ्गचा: स्नानसक्ताया:।
बन्धस्येव भयेन हि रुदन्ति जलविन्दुभिश्चिकुरा:।।५५।।२
स्नानसमये पृष्ठे लम्बमानतया सुन्दरीनिबिडनितम्बस्पर्शसुखमवाप्तवन्त: कुन्तला: स्नानोत्तरं धम्मिल्लबन्धनेन तत्सुखविलोपशङ्कया प्रस्रवत्स्नानसलिलबिन्दुच्छलेन सम्प्रति रुदन्तीवेत्यर्थ:। तथा च- नैषां बन्धनं भवेत्तथेमे वाञ्छन्ति। अर्थात् मयि सुरतासक्ता सती एतेषां पुनरपि विमुक्ततासुखं सम्पादयेति निगूढाभिप्रायो व्यज्यते।
१. जन्तिअ गुलं विमग्गसि ण अ मे इच्छाइ वाहसे जन्तम्।
अणरसिअ किं ण आणसि ण रसेण विणा गुलो होइ।।५४।।
[यान्त्रिक गुडं विमार्गयसे न च ममेच्छया वाहयसि यन्त्रम्।
अरसिक किं न जानासि न रसेन विना गुडो भवति।।]
२. पत्तणिअम्वप्फंसा ण्हाणुत्तिण्णाएँ सामलङ्गीए।
जलबिन्दुएहिँ चिहुरा रुअन्ति बन्धस्स व भएण।।५५।।
[प्राप्तनितम्बस्पर्शा: स्नानोत्तीर्णाया: श्यामलाङ्ग्या:।
जलबिन्दुकैश्चिकुरा रुदन्ति बन्धस्येव भयेन।।]
ग्रामनिकटावस्थितवटान्तिके सुघटान्यभिसारसुखानि विटाय सूचयन्ती रतिरसलम्पटा कुलटा वटानुवर्णनमाह-
अनुलग्नस्ते ग्रामाङ्गणनिगडितकृष्णपक्ष वट दूरम्।
दौ:साधिकप्रतीक्षकभोग्यपि न ग्राम उद्विग्नः।।५६।।१
ग्रामाङ्गणे निगडित: बद्ध: [स्ववशे कृत्वा सर्वदा स्थापित:] कृष्णपक्ष: [तत्कार्यभूत: अन्धकार:] येन तत्सम्बुद्धौ। एतादृश हे वट! तव दूरमनुलग्न: दूरदूरपर्यन्तं त्वच्छायामाश्रित:। दौ:साधिको द्वारपाल: प्रतीक्षक: [ग्रामपतिसविधे नयनाय मार्गावेक्षक:] यस्य तादृशो भोगी भोगासक्त: कामुकजनो यस्मिन्नेतादृशोऽपि ग्रामो नोद्विग्न:। अनुपलक्षिताभिसारतया राजभयर-हितत्वान्न भीतिं प्राप्त इत्यर्थ:। अयं भाव:- हे वट! तव निबिडतमच्छायायां सर्वदा कृष्णपक्षस्येव अन्धकारो भवति। ततश्च त्वदाश्रये अभिसाररता: कामिनो निर्भयं भोगान् भुञ्जते। ग्रामाधिपते रक्षकपुरुषास्तान् निग्रहीतुं प्रतीक्षमाणा एव तिष्ठन्ति परं त्वच्छायान्धकारे न तान् लक्षयितुं प्रभवन्ति। अत एव त्वदनुलग्नोऽयं ग्रामो नोद्विजते इति। दौ:साधिकस्य प्रतीक्षका: [इदानीं द्वारपाल आयाति, अयमायात इति भयचकितं द्वारपालमार्गावेक्षका:] भोगिनो यस्मिन्नित्यप्यर्थ: सम्भवति। 'तित्तिल्लो’ दौ:साधिक:। 'दौ:साधिको द्वारपाल:’ इति त्रिकाण्डशेष: 'तन्तिल्लपडिखरभोइओ वि’ इति पाठे तु 'चिन्तापरप्रतिखरभोगिकोऽपि’ इति च्छाया। चिन्तायुक्त: प्रतिखरोऽसहन: भोगी ग्रामभोक्ता अधिकारी यस्य ईदृशो ग्राम इत्यर्थ:। ततश्च सर्वदा दुष्टदमनचिन्तायां लग्नोऽतितीक्ष्णश्चास्य ग्रामस्य भोक्ता प्रभुरस्ति, तथापि त्वत्प्रसादादयं ग्रामस्थ: कुलटा-जनो नोद्वेगं प्राप्नोतीत्याशय:।
सपत्न्या दुश्चरितं पतिं प्रति सापदेशं सूचयन्ती सपत्नी सोपालम्भमाह-
शूर्पं दग्धं चणका न भर्जिता: स च युवातिगत:।
श्वश्रूर्गृहेऽपि कुपिता भूतनामिव हि वादितो वंश:।।५७।।२
१. गामङ्गणणिअडिअकह्णवक्ख वड तुज्झ दूरमणुलग्गो।
तित्तिल्लपडिक्खकभोइओ वि गामो ण उव्विग्गो।।५६।।
[ग्रामाङ्गणनिगडितकृष्णपक्ष वट तव दूरमनुलग्न:।
दौ:साधिकप्रतीक्षकभोगिकोऽपि ग्रामो नोद्विग्न:।।]
२. सुप्पं डड्ढं चणआ ण भज्जिआ सो जुआ अइक्कन्तो।
अत्ता वि घरे कुविआ भूआणँ व वाइओ वंसो।।५७।।
[शूर्पं दग्धं चणका न भृष्टा: स युवातिक्रान्त:।
श्वश्रूरपि गृहे कुपिता भूतानामिव वादितो वंश:।।]
चणकान् भर्जयन्त्या अनया अनवधानेन शूर्पं दग्धम्, परं चणका न भर्जिता:। यं युवानं द्रष्टुं चणकभर्जनकार्यं त्यक्त्वा इयं बहिर्निर्गता सोऽप्यतिक्रान्त:। भूतानां बधिराणामिवाग्रे वंश: (वेणु:) वादित:। बधिराणामग्रे वंशीवादनमिव गृहकार्यहानिं सम्पादयन्त्या अप्यस्या: सर्व: प्रयासो विफलीभूत इत्याशय:। गृहवस्तुहानिं परपुरुषपर्यालोचनप्रयासं च गृहाधिष्ठात्री त्वन्मातापि ज्ञातवती, अत एव कुपितास्ति। तत: पश्यऽस्या दुश्चरितमिति पतिं प्रति युक्त्या सूचना।
सलिलनिमग्नै: प्रियतमैरिमा निगूढमुपगूढा इत्यात्मन: प्रच्छन्नपरिज्ञानपाटवं प्रख्यापय-न्नागरिक: सहचरं प्रति कामिननीनां जलकेलिमुपवर्णयति-
शंसन्ति कामिनीनामम्बुनिलीनप्रियाङ्गसङ्गसुखम्।
पुलकितकपोलसंफुल्लनिश्चलाक्षाणि वदनानि।।५८।।१
प्रियाङ्गस्पर्शेन पुलकितौ कपोलौ येषु तानि। तथा हर्षविशेषादुत्फुल्ले (विकसिते) स्तम्भाख्येन सात्त्विकभावेन निश्चले च अक्षिणी येषु तादृशानि कामिनीनां वदनानि, अम्बुनि निलीनस्य प्रियस्याङ्गसङ्गेन अवगूहनेन यत्सुखं तत्सूचयन्ति। जलनिलीनप्रियपरिरम्भणेन अङ्कुरितकामतया कामिनीनामिति व्यपदेश:। 'निह्नुतमप्यर्थं विदग्धाबुध्यन्ते इति बोधयन्नागरिक: सहचरमाह’ इति गङ्गाधरावतरणम्। 'निश्चलाक्षीणि’ इति पाठस्तु कदाचन लेखकप्रमाद एव भवेत्।
वनशोभादर्शनेनोत्कण्ठितचित्ताया: प्रियसख्या भाविनीं विरहवेदनां संसूच्य प्रावृषि प्रवासं चिकीर्षतो नायकस्य गमनाध्यवसायं निवारयन्ती नायिकासखी आह-
श्यामायितेष्वभिनवप्रावृड्रसितेषु लसति दिवसेषु।
नृत्यं रभसोन्नामितशिरोधराणां मयूरवृन्दानाम्।।५९।।२
१. पिसुणेन्ति कामिणीणं जललुक्कपिआवऊहणसुहेल्लिम्।
कण्डइअकवोलुप्फुल्लणिच्चलच्छीइँ वअणाइं।।५८।।
[पिशुनयन्ति कामिननीनां जलनिलीनप्रियावगूहनसुखकेलिम्।
कण्टकितकपोलोत्फुल्लनिश्चलाक्षीणि वदनानि।।]
२. अहिणवपाउसरसिएसु सोँहइ साआइएसु दिअहेसु।
रहसपसारिअगीवाणँ णच्चिअं मोरबुन्दाणम्।।५९।।
[अभिनवप्रावृरसितेषु शोभते श्यामायितेषु दिवसेषु।
रभसप्रसारितग्रीवाणां नृत्यं मयूरवृन्दानाम्।।]
अभिनवानि प्रावृषो रसितानि (मेघगर्जितानि)येषु तेषु। जलधरस्थगितदिनकरतया श्यामायितेषु श्यामा रजनी तत्सदृशेषु मयूरवृन्दानां नृत्यं शोभते। विरहिणां कृते रजनी किलानिर्वचनीयदु:खदायिनी, इह तु दिवसा अपि रजनीयन्ते। अत एवंविधे घनरसमये समये न गन्तव्यमिति ध्वन्यते। नवानि प्रावृड्रसितान्याकर्ण्य रभसेन मेघावलोकनार्थं मयूरैर्ग्रीवा उन्नाम्यन्ते, अत एव प्रसारितपदापेक्षया उन्नामितेति सम्यक्। दिवैव संकेतस्थानस्याभिसारयोग्यतां सूचयन्त्या दूत्या इयमुक्तिरिति कश्चित्। 'वनमयूरलसितं संकेतितलागृहमहं गता त्वं तु न गत इति जारं श्रावयन्ती कुलटा वर्षाप्रशंसामाह’ इति गङ्गाधरावतरणम्।
महिषशालायां सुरतासक्ता काचित्कामिनो मनोविनोदाय दोषमपि गुणीकुर्वत्याह-
महिषस्कन्धविलग्नं शृङ्गहतं सिमसिमायितं भ्रमति।
आहतवीणाझङ्कृतिशब्दमुखरितं मशकवन्दृम्।।६०।।१
सिमसिमेत्यनुकरणम्। सिमसिमेति शब्दं कुर्वदित्यर्थ:। कोणेन आहताया वीणाया यो झंकारशब्दस्तद्वन्मुखरम्। पूर्वं शृङ्गे स्थिति:, पश्चाच्छृङ्गताडनेन सिमसिमशब्दं कुर्वतां भ्रमणं मशकानां स्वभाव:। अनेन स्वभावोक्तयलंकारेण 'वीणाझङ्कारेणेव प्रमोदितमनास्त्वं सुचिरं रमस्व’ इति नायकं प्रति चिररमणाभिलाषो व्यज्यते।
निष्कुटकुमुदिनीशोभावर्णनेन प्रियतमाया मन: प्रमोदयन् कश्चिदाह—
राजन्ति कुमुददलनिश्चलस्थिता मत्तमधुकरनिकाया:।
ग्रन्थय इव तिमिरस्य हि शशिकरनि:शेषनाशितस्येमा:।।६१।।२
१. महिसक्खन्धविलग्गं घोलइ सिङ्गाहअं सिमिसिमन्तम्।
आहअवीणाझंकारसद्दमुहलं मसअवुन्दम्।।६०।।
[महिषस्कन्धविलग्नं घूर्णते शृङ्गाहतं सिसिमायमानम्।
आहतवीणाझंकारशब्दमुखरं मशकवृन्दम्।।]
२. रेहन्ति कुमुअदलणिच्चलट्ठिआ मत्तमहुअरणिहाआ।
ससिअरणीसेसणासिअस्स गण्ठि व्व तिमिरस्स।।६१।।
[राजन्ते कुमुददलनिश्चलस्थिता मत्तममधुकरनिकाया:।
शशिकरनि:शेषप्रणाशितस्य ग्रन्थय इव तिमिरस्य।।]
मधुकरस्वभावान्मधुपानेन मत्ता: अत एव मदजनितस्तम्भेन निश्चलं स्थिता:। शशिकिरणैर्नि:शेषं समापितस्य तिमिरस्य कुत्रकुत्रचित्पतिता इमा ग्रन्थय इव। निश्चलस्थित्या अचेतनाभिर्ग्रन्थिभि: साम्यम्। 'कुमुदसरस्तीरलतागृहे चन्द्रोदयपर्यन्तमहं स्थित:, त्वं तु न गतेति कुलटां श्रावयन्कश्चिदाह’ इति गङ्गाधर:।
शालिक्षेत्रे रममाणा शालिगोपी क्षेत्रे शुकपतनशङ्कां सूचयन्त्यपि सुरतसत्वरं जारमन्य-मनस्कं कर्तुमाह—
पङ्क्ति तरुकोटिरतो निष्क्रान्तां पश्य पुंशुकानां हि।
शरदि द्रुमो ज्वरित इव सलोहितं पित्तमिव वमति।।६२।।१
पित्तं हरितवर्णं तस्मिन् रक्तवर्णं शोणितमपि मिलितम्, तथैव हरितवर्णा: शुकास्तेषां चञ्चवो गलकण्ठिकाश्चारुणा इति द्वयो: साम्यम्। अत एव पुंशुकानां (नरशुकानाम्) पङ्क्ति-मित्युक्तम्।
रममाणस्योपपतेर्भयं त्वरां चापनयन्ती दुर्दिनाभिसारिका दुर्दिनं बहुकालावस्थायीति तल्लिङ्गान्याह—
धाराविधौतवदना लम्बितपक्षा निकुञ्चितग्रीवा:।
वृतिवेष्टनेषु काका: शूलाभिन्ना इव प्रदृश्यन्ते।।६३।।२
ऊर्ध्वकृतमुखत्वात् जलधाराभिर्धाव्यमानं मुखं येषां ते। पक्षौ प्रसार्य ग्रीवां कुब्जतयाव-कुञ्च्य, क्षेत्राणां कण्टकवृतिषु काकास्तथा स्थिता: सन्ति यथा ऊर्ध्वमुखास्ते उन्नामितशूलाग्राकार-चञ्चुत्वात् शूलेन आ (समन्तात्) भिन्ना इव दृश्यन्ते। एवंरूपेण काकानां निर्भयमवस्थित्या दुर्दिनमपि चिरमवस्थायीति जारं प्रत्यभिव्यज्यते।
१. उअह तरुकोडराओ णिक्कन्तं पुंसुवाणँ रिञ्छोलिम्।
सरिए जरिओ व्व दुमो पित्तं व्व सलोहिअं वमइ।।६२।।
[पश्यत तरुकोटरान्निष्क्रान्तां पुंशुकानां पङ्क्तिम्।।
शरदि ज्वरित इव द्रुम: पित्तमिव सलोहितं वमति।।]
२. धाराधुव्वन्तमुहा लम्बिअवक्खा णिउञ्चिअग्गीवा।
वइवेढनेसु काआ सूलाहिण्णा व्व दीसन्ति।।६३।।
[धाराधाव्यमानमुखा लम्बितपक्षा निकुञ्चितग्रीवा:।
वृतिवेष्टनेषु काका: शूलभिन्ना इव दृश्यन्ते।।]
मानिनीं नायिकां युक्तया स्वसम्भाषणाभिमुखीं कर्तुं नायकोऽन्तरङ्गसुहृदमाह—
न तथा ह्यनालपन्ती मानिन्यधिकं दुनोति हृदयं न:।
दूरविजृम्भितगुरुकप्रकोपमध्यस्थभाषितैर्हि यथा।।६४।।१
अनालपन्ती मानिनी हृदयं तथा न दुनोति, यथा दूरं विजृम्भितो गुरुक: प्रकोपोयेषु तादृशै: मध्यस्थभणितैरुदासीनवचनैर्दुनोति। मौनापेक्षया तटस्थपुरुषवत्प्रेमशून्यैर्वचनैरधिकं दु:खं भवतीति भाव:। 'कलहान्तरितां सखीं शिक्षयन्ती काचिदाह’ इति गङ्गाधर:। उदासीनवन्निष्ठुरं न वाच्य: प्रियतम इति विषये मातृगुप्ताचार्याणामुदाहृतं च तेन पद्यम् 'निष्ठुराणि न वक्तव्यो नातिक्रोधं च दर्शयेत्। न वाक्येर्वाच्यसम्मिश्रैरुपालभ्यो मनोरम:।।’ इति। स्फुटमियं मानिनीपदा-ङ्किता गाथा कलहान्तरितायां क्लेशतोऽन्वेति। अत एव 'यत्नापनेयमाना धीरा यथेति प्रसङ्गे, निर्धारितविशेषप्रकारो विशेषवान् प्रेमा यथा’ इत्यत्र चोदाहृता सेयं गाथा सरस्वतीकण्ठाभरणे (५. परि.)।
वर्षासु दु:खविप्रकर्षात्प्रियतमासमाप्तिमाशङ्कमानं पान्थमाश्वासयन्मार्गमिलित: कश्चित्कारुणिक आह-
परिपक्वकदम्बानामाजिघ्रन्गन्धमश्रुभरिताक्ष ।
आश्वसिहि मा न गृहिणीमुखं निरीक्षिष्यसेऽयि पथिकयुवन्।।६५।।२
अयि पथिकयुवन्! आश्वसिहि गृहिणीमुखं न निरीक्षिष्यसे इति मा, किं तु अवश्यं निरीक्षिष्यसे इत्यर्थ:। पक्वकदम्बानामित्यनेन साम्प्रतं प्रावृष: पूर्ण: प्रकर्ष:, अत एव तदारम्भादेव दु:खमनुभवन्ती प्रतीक्षणपरा परासुर्भवेत्’ इत्यनुमानं सूच्यते। आजिघ्रन्निति शत्रा ईषद्घ्राणस्य
१. ण वि तह अणालवन्ती हिअअं दूमेइ माणिणी अहिअम्।
जह दूरविअम्भिअगरुअरोसमज्झत्थभणिएहिं।।६४।।
[नापि तथानालपन्ती हृदयं दुनोति मानिन्यधिकम्।
यथा दूरविजृम्भितगुरुकरोषमध्यस्थभणितै:।।]
२. गन्धं अग्घाअन्तअ पक्ककलम्बाणँ वाहभरिअच्छ।
आससु पहिअजुआणअ घरिणिमुहं मा ण पेच्छिहिसि।।६५।।
[गन्धमाजिघ्रन्पक्वकदम्बानां वाष्पभृताक्ष।
आश्वसिहि पथिकयुवन् गृहिणीमुखं मा न प्रेक्षिष्यसे।।]
साध्यतायामेव उत्कण्ठोदयेन गृहिणीविनाशानुमानेन च बाष्पोद्गमो जात इत्यतिशयोक्ति:। युवन्नित्यनेन- 'यौवनसुलभया उत्कण्ठया कुण्ठितत्वादेवं भयाकुलोऽसि, किन्त्वनुभविन: प्रौढस्य ममाश्वासने विश्वसिहि’ इति वक्तु: प्रौढि: सूच्यते।
गर्जितश्रवणेनोद्दीप्तविरहतया प्रियाविनाशमाशङ्कमान: पथिक: पयोदमाह-
अयि गर्ज ममैवोपरि सर्वस्थाम्नापि लोहहृदयस्य।
जलधर लम्बालकिकां मा रे तां मारयिष्यसि वराकीम्।।६६।।१
तादृशीं शिरीषमृदुलाङ्गीं विरहहुतवहे क्लेशितवत्त्वाल्लोहवत्कठोरहृदयस्य ममैवोपरि सर्वस्थाम्नापि सर्वबलेन गर्ज। तादृशक्रूरहृदयोऽहं त्वद्गर्जनं सोढुं समर्थ:, विरहदुर्बलदेहा सा मृद्वङ्गी तु कथं जीवेदिति भाव:। विरहवेदनावर्द्धकत्वात् 'रे’ इत्याक्रोशसम्बोधनम्। लम्बाल-कशोभिनीं तां मा मारयिष्यसि। लम्बालकिकामित्यनेन- 'जलधारकत्वात्कृष्णवर्णस्त्वम् अस्या अपि मधुरमेचकमायतं च केशकलापमालोक्य ईर्ष्यावशादनिष्टं कुर्या:’ इति सूच्यते। विरहक्लिष्टतया पूर्वमेव दयापात्रं सा। इदानीं त्वद्दत्तदु:खा सा सुतरां दयनीयेति वराकीपदेन लम्बालकिकामिति कप्रत्ययेन च ध्वन्यते।
शालिक्षेत्रस्याभिसारयोग्यतां सूचयितुं काचिदन्यापदेशेन हेमन्तोपक्रमं वर्णयति-
क्षीरैकपायिना दत्तजानुपतनेन पङ्कमलिनेन।
पुत्रेणेव हि क्षालिक्षेत्रेणानन्द्यते हलिक:।।६७।।२
'क्षीरं तण्डुलारम्भकं जलं दुग्धं च। जानु ऊरुपर्व, उपचाराद्धान्यनालग्नन्थिश्च।’ गङ्गाधर:। दत्तं जानुभ्यां पतनं येन, जानुद्वारा कृतगमन इत्यर्थ: पुत्रपक्षे। दत्तं कृतं जानुस्थानीयानां
१. गज्ज महं चिअ उवरिं सव्वत्थामेण लोहहिअअस्स।
जलहर लम्बालइअं मा रे मारेहिसि वराइम्।।६६।।
[गर्ज ममैवोपरि सर्वस्थाम्ना लोहहृदयस्य।
जलधर लम्बालकिकां मा रे मारयिष्यसि वराकीम्।।]
२. पङ्कमइलेण छीरेक्कपाइणा दिण्णजाणुवडणेण।
आनन्दिज्जइ हलिओ पुत्तेण व सालिछेत्तेण।।६७।।
[पङ्कमलिनेन क्षीरैकपायिना दत्तजानुपतनेन।
आनन्द्यते हालिक: पुत्र्रेणेव शालिक्षेत्रेण।।]
धान्यनालग्नन्थीनां ('पोटा’) आरम्भणं येन, ततश्च-धान्यनालग्नन्थीनामारम्भो यस्मिन् जातस्तादृशमिति क्षेत्रपक्षे।
अन्यस्मिन्ननुरक्तां काञ्चन सुन्दरीं स्वानुगामिनीं कर्तुं खलनिन्दाव्याजेन कश्चित्पूर्वनाय-कनिन्दामुपक्रमेते-
खलसङ्गो मे परिणतिकाले कथमिव भवेदिति ध्यायन्।
अवनतमुख: सशूक: शालि: किल रोदितीव नीहारै:।।६८।।१
परिणतिकाले पक्वतादशायां पक्षान्तरे च वय: परिणामकाले। खलस्य धान्यमर्दन-स्थानस्य (खलिहान), दुर्जनस्य च सङ्ग: कथमिव न जाने कीदृशदु:खावहो भवेदिति चिन्तां कुर्वन्। परिपाकगुरुतया अवनतं शीर्षाग्रं यस्य स:, पक्षान्तरे च शोकेनावनतवदन:। शूकेन धान्यकण्टकेन सहित: पक्षान्तरे च कण्टकायितेन शोकेन सहित:। शालि: नीहारै: तुषारव्याजेन रोदितीव। अचेतन: शालिरपि परिणामे खलसङ्गेन रोदिति तर्हि अनुरक्तहृदययास्तव तु का दशा स्यादिति परिहर तत्सङ्गम्, अनुरज्यस्व मादृशे प्रणयिनि इति शृण्वतीं नायिकां प्रति ध्वन्यते। 'प्रातरेवाहं सङ्केतस्थानं शालिक्षेत्रं गता, त्वं तु न गत इति जारं श्रावयन्ती नीहाराभिसारिका शालेरपि खलसंयोगादुद्वेगमाह’ इति गङ्गाधर:।
त्वा निह्नुतमपि दयितसमागमचिह्नं मया परिज्ञातमेवेति काञ्चिन्नववधूं श्रावयितुं सव्यपदेशं प्रदोषं वर्णयन्नागरिक: सहचरमाह-
सन्ध्यारागस्थगित: प्रतिपच्चन्द्रो हि दृश्यते गगने।
रक्तदुकूलान्तरिता स्तननखलेखेव नववध्वा:।।६९।।२
१. कहँ मे परिणइआले खलसङ्गो होहिइ त्ति चिन्तन्तो।
ओणअमुहो ससूओ रुवइ व साली तुसारेण।।६८।।
[कथं मे परिणतिकाले खलसङ्गो भविष्यतीति चिन्तयन्।
अवनतमुख: सशूको रोदितीव शालिस्तुषारेण।।]
२. संझाराओत्थइओ दीसइ गअणम्मि पडिवआचन्दो।
रत्तदुऊलन्तरिओ थणणहलेहो व्व णववहुए।।६९।।
[संध्यारागावस्थगितो दृश्यते गगने प्रतिपच्चन्द्र:।
रक्तदुकूलान्तरित: स्तननखलेख इव नववध्वा:।।]
सन्ध्यारागेण किञ्चिदन्तरित: प्रतिपत्तिथेश्चन्द्र:, रक्तदुकूलेनान्तरिता नववध्वा: स्तनगतनखलेखेव गगने दृश्यते। नववधूपदेन लज्जावशात्तस्या गोपनं सूच्यते। 'अभिसारस्थान-गमनाय प्रदोषाभिसारिकां त्वरयन्ती दूती प्रदोषवर्णनमाह’ इति गङ्गाधर:।
अर्धचन्द्रावलोकनकुतूहलाद् गगनतलमालोकयन्तं देवरं कापि सपरिहासमाह-
किमयि न देवर पश्यसि किं वाकाशं मुधा प्रलोकयसि।
जायाया भुजमूले परिपाटीमर्धचन्द्राणाम्।।७०।।१
अयि देवर जायाया भुजमूले अर्धचन्द्राणाम् (नखक्षतजनितानाम्) परिपाटीं परम्परां किं न पश्यसीति योजना। वैदग्ध्येन गोपनीयोऽपि ते प्रियतमासमागम: स्फुटमेवं प्रकाशीभवतीति देवरं प्रति परिहास:। स्त्रिया: परिहासे उदाहृता सेयं गाथा सरस्वतीकण्ठाभरणे (५ परि.)।
प्रियतमं प्रति मत्सन्देश्यमेवं वक्तव्यमिति प्रियसमीपगामिनं पान्थं प्रति प्रोषितभर्तृका काचिदाह-
किं भण्यतां नु वाचा कियदिव वा लिख्यते लेखे।
तव विरहे यद्दु:खं त्वमेव तस्यासि विदितार्थ:।।७१।।२
दु:खानामसीमत्वात्किं वक्तव्यं कियद्वा लेखितव्यमित्यर्थ:। तव विरहे यन्मम दु:खं तस्य विदितार्थ: (विदित: अर्थो येन) अर्थात् परिज्ञाता त्वमेवासि। अहर्निशं हृदये स्थितस्त्वमेव मम हृदयदु:खं ज्ञातुं प्रभवसीति भाव:। अथवा मद्विरहे त्वया यावद्दु:खमनुभूतं तदनुमानेन ममापि दु:खं त्वया परिज्ञातव्यमित्याशय:। 'ज्ञाता’ इत्याद्यनुक्त्वा 'विदितार्थ:’ इति पदेन 'किमर्थमिदं दु:खमित्येतस्य तत्त्वं त्वमेव जानासि, अर्थात् त्वत्कारणकमिदं दु:खं त्वरितमागतेन त्वयैवापनेयम्’ इति द्योत्यते।
१. अइ दिअर किं ण पेच्छसि आआसं किं मुहा पलोएसि।
जाआइ बाहुमूलम्मि अद्धअन्दाणँ परिवाडिम्।।७०।।
[अयि देवर किं न प्रेक्षसे आकाशं किं मुधा प्रलोकयसि।
जायाया बाहुमूलेऽर्धचन्द्राणां परिपाटीम्।।]
२. वाआइ किं भणिज्जउ केत्तिअमेत्तं व लिक्खए लेहे।
तुह विरहे जं दुक्खं तस्स तुमं चेअ गहिअत्थो।।७१।।
[वाचया किं भण्यतां कियन्मात्रं वा लिख्यते लेखे।
तव विरहे यद्दु:खं तस्य त्वमेव गृहीतार्थ:।।]
कस्याश्चित्केशपाशं साभिलाषं निर्वर्णयन्कश्चिद्वयस्यं प्रति प्रकाशं प्राह-
जनदृष्टे: सम्मोहनपिच्छीमिव धूममिव च मदनाग्ने:।
यौवनविजयध्वजमिव वहते मुग्धा सुगन्धिचिकुरभरम्।।७२।।१
लोकानां दृष्टे: सम्मोहनार्थां पिच्छिकामिव। ऐन्द्रजालिकोऽपि पिच्छिकाभ्रमणेन लोकानां दृष्टेर्मोहं करोति। मदनाग्नेर्धूमौपम्येन एतद्धूमसहचारी मदनवह्निर्विरहे दग्धुं प्रभवतीति नायिकाया आकर्षकतातिशयो ध्वन्यते।
यस्मिंस्त्वमनुरक्तासि तस्य ते दयितस्य वर्णय रूपमिति पृच्छन्तीं सखीमन्या काचिदाह-
तद्रूपमुक्तमेव हि समस्तपुरुषे निवर्तिताक्षेण।
वाष्पार्द्रेणैतस्या अजल्पतापि च मुखेन सखि।।७३।।२
हे सखि तदतिरिक्ते अशेषपुरुषे, अशेषपुरुषादिति यावत्। निवर्तिते निरुत्कण्ठतया परावर्तिते अक्षिणी येन। तस्मरणोत्कण्ठया सम्प्रति वाष्पार्द्रेण एतस्या मुखेन अजल्पतापि तस्य रूपमुक्तमेव। अन्यपुरुषनिरपेक्षं तदासक्तत्वात्तस्य परमसौन्दर्य कथितमेवेति भाव:। अजल्पतापि कथितमिति विरोधेन 'अस्मत्तो रहस्यगोपनेच्छायामपि प्रेमपारवश्यान्नेयं प्रभवतीत्यनुरागसंवर्धको नायकगुणोत्कर्षो ध्वन्यते।
मनुजागमनसंरम्भेण स्वस्थानत्यागवशाद्विरुवन्मकरन्दमत्तमधुकरतया कमलवन-मेतत्कयोश्चित्सङ्केतस्थानमिति स्वाभिज्ञतां सूचयन् सहृदय: सहचरमाह-
१. मअणग्गिणो व्व धूमं मोहणपिच्छिं व लोअदिट्ठीए।
जोव्वणधअं व मुद्धा वहइ सुअन्धं चिउरभारम्।।७२।।
[मदनाग्नेरिव धूमं मोहनपिच्छिकामिव लोकदृष्टे:।
यौवनध्वजमिव मुग्धा वहति सुगन्धं चिकुरभारम्।।]
२. रूअं सिट्ठं चिअ से असेसपुरिसे णिअत्तिअच्छेण।
वीहोल्लेण इमीए अजम्पमाणेण वि मुहेण।।७३।।
[रूपं शिष्टमेव तस्याशेषपुरुषे निवर्तिताक्षेण।
वाष्पार्द्रेणास्या अजल्पतापि मुखेन।।]
सं. गा... २५
विकसदरविन्दमन्दिरमकरन्दानन्दिता मिलिन्दालि:।
मधुरमधुमासलक्ष्म्या: कृष्णा मणिमेखलेव शिञ्जाना।।७४।।१
विकसत्तया बृहत् यद् अरविन्दमेव मन्दिरं तत्र मकरन्देनानन्दिता अत एव गुञ्जन्ती भ्रमरपङ्क्तिः। शिञ्जाना झण्झणितिरवमुखरा कृष्णमणिघटितत्वात् कृष्णा मणिमेखलेव भातीति शेष:। भ्रमराणां श्यामतया कृष्णमणीनां मेखलेत्युक्तम्। उद्दीपनविभावप्रतिपादनात्सङ्केतस्थानस्तुतिपरं दूत्या इदं वचनमिति केचित्। 'प्रियेण सह क्रीडारसादविदितनिशावसानां सखीं प्रबोधयन्तीं सखी प्रभातवर्णनमाह’ इति गङ्गाधर:। यदीह 'झणझणायते’ इत्यादिप्राकृतगुम्फा-नुरोधस्तर्हि 'कृष्णमणिमेखलेव हि मधुश्रियो झणझणायते नूनम्’ इति पाठ्यम्।
कामोत्कलिकाकुल: कोऽपि कामुक: कामपि कामिनीं कथयति-
बहुपुण्यफलैकतरो: प्ररोह इव कस्य किल करो हन्त।
मन्मथनिधानकलशे स्तनपरिणाहेऽत्र विश्रमिष्यति ते।।७५।।२
बहूनां पुण्यफलानामेकमात्रस्य तरो: प्ररोह इव नवपल्लव इव कस्य जनस्य कर: मन्मथनिधिकलशायिते तव स्तनपरिणाहे विश्रमिष्यति स्थानं प्राप्स्यति। परिणाहो विशालता। विशालस्तन इति यावत्, प्राकृते पूर्वनिपातानियमात्। पुरुषस्तरुस्थानीय:, तस्य कर: प्ररोहस्थानीय इत्याशय:। पल्लवो यथा कस्मिंश्चिद्वृक्षे उत्पद्यापि यथा निधिकलशे शोभाशकुनार्थं स्थाप्यते, तथा कस्य वा सुकृतिन: करोऽत्र स्थास्यतीत्याशय:। कस्येत्यनेन-स पुरुष: अनिर्वचनीय: सुकृतीति सूच्यते। हन्तेत्यनेन-न मे तादृक्सौभाग्यमिति खेदातिशय: सूच्यते। 'निधानकलशे’ 'विश्रमिष्यति’ इति पदाभ्यां- 'धनान्वेषी करो यथा निधिकलशे गत्वा धनविषयेऽन्यानपेक्षित-
१. रुन्दारविन्दमन्दिरमअरन्दाणन्दिआलिरिञ्छोली।
झणझणइ कसणमणिमेहल व्व महुमासलच्छीए।।७४।।
[बृहदरविन्दमन्दिरमकरन्दानन्दितालिपङ्क्तिः।
झणझणायते कृष्णमणिमेखलेव मधुमासलक्ष्म्या:।।]
२. कस्स करो बहुपुण्णप्फलेक्कतरुणो तुहं विसम्मिहइ।
थणपरिणाहे मम्महणिहाणकलसे व्व पारोहो।।७५।।
[कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति।
स्तनपरिणाहे मन्मथनिधानकलश इव प्ररोह:।।]
त्वात्तत्र सुखं विश्राम्यति, तथा अन्यत्रान्यत्र सञ्चलन्नपि स करो विशालेऽत्र स्तने विश्रामं लप्स्यते नान्यत्र भ्रमिष्यति, एतत्सदृशान्यस्तनानुपलम्भात्’ इति तदुत्कर्षो ध्वन्यते। निधानकल-शायित इति स्थाने कलश इत्युक्त्या-कलशसदृशास्तु अन्येऽपि कुहचिल्लभ्येरन् परमयं तु साक्षात्कामनिधानकलश एवेति तदुत्कर्षो व्यज्यते। प्राकृते तच्छायायां च बहुदूरान्वयादस्पष्टतर: श्लोकार्थ:। इह तु न स क्लेश:। 'निधानकलश इव स्तनपरिणाहे’ इति इवपदं कलशेन साकं तु न योज्यम्, प्ररोहपदस्य तत्सापेक्षत्वादौचित्याच्च। सरस्वतीकण्ठाभरणे 'अनूढा कुमारी यथा’ इत्युदाहृता सेयं गाथा। स्तनपरिणाहशालिन्या अपि कुमारीत्वं यौवनविवाहवादिनामनुकूलं स्यात्।
लाभलोभवन्तो विविक्तेऽनुसरन्तोऽपि मनोऽभिलषितां वनितां पतिजनितातङ्कशङ्कया कामुका नाभियुञ्जते नापि च परावर्तन्ते इति प्रदर्शयन्सहृदय: सहचरमाह-
चोरा: सभयस्तृष्णं पुन: पुन: प्रेषयन्ति बत दृष्टी:।
प्रौढपतिकास्तनेऽस्मिन्निधिकलश इवाहिरक्षिते सततम्।।७६।।१
परधनहारकाश्चोरा यत्नशतेन गुप्तस्थानमवाप्ता अपि अहिना रक्षिते निधिकलशे यथा सर्पकारणात्सभयां निधिलोभाच्च सतृष्णां दृष्टिं पातयन्ति, तथा परदाहरहारकाश्चोरा: प्रौढ: शूर: पतिर्यस्या एवंविधाया नायिकाया: स्तने हन्त सभयस्तृष्णां दृष्टिं पातयन्तीत्यर्थ:। पुन: पुन: पदेन 'भयमाशङ्क्य दृष्टिं निवर्तयन्ति पुनर्लोभाकृष्टास्ततो दृष्टि नयन्ती’ति चित्तान्दोलनं सूच्यते। 'दृष्टी:’ इति बहुत्वेन-निभृतं प्रकाशं तिर्यगादिनानाप्रकारा: सतृष्णदर्शनस्य सूच्यन्ते। पश्यन्तीति स्थाने 'दृष्टिं प्रेषयन्ति’ इत्युक्त्या-इच्छा तु हस्तप्रेषणस्यैवासीत्, परं भयवशात्सतृष्णां दृष्टिमेव पारवश्यात्प्रेषयन्तीति लौल्यातिशयो ध्वन्यते। अहिदृष्टान्तेन-अहिर्यथा निधेरुपयोगमकुर्वन् केवलं तदुपरि रक्षावहितस्तिष्ठति तथा 'पातीति पतिरिति’ केवलं तद्रक्षामात्रव्यग्र: शूरतया बलापचयशङ्कया स्वयं भोगादिकं न करोतीति ध्वन्यते। सततमित्यनेनसर्पो यथा निरन्तरं तत्रावतिष्ठते तथायमपि स्वल्पमप्यवसरं न ददातीति ध्वन्यते। अस्मिन्निति साभिलषमङ्गुलिनिर्देशेन स्वस्याप्याकाङ्क्षा सूचनात्स्तनस्याकर्षकतातिशयो व्यज्यते। 'यो यच्छील: स सापायादपि तस्मान्मनो निवर्तयितुं न शक्नोतीति निदर्शयन्नागरिक: सहचरमाह’ इति गङ्गाधर:। भयानुराग-भावयो: सङ्करसत्तायामपि उपमालङ्कारस्यैव प्राधान्यमिति विषये सेयमुदाहृता सरस्वतीकण्ठाभरणे (५ परि.)।
१. चोरा सभअसतह्णं पुणो पुणो पेसअन्ति दिट्ठीओ।
अहिरक्खिअणिहिकलसे व्व पोढवइआथणुच्छङ्गे।।७६।।
[चोरा: सभयसतृष्णं पुन: पुन: प्रेषयन्ति दृष्टी:।
अहिरक्षितनिधिकलश इव प्रौढपतिकास्तनोत्सङ्गे।।]
विदेशं जिगमिषन्तं कान्तं प्रावृड्वर्णनच्छलेन ततो निवर्तयन्ती काचिदाह-
अङ्गानि नवतृणाङ्कुररोमाञ्चविमण्डितानि संवहते।
प्रावृड्लक्ष्म्या: पीवरपयोधरप्रेरितो विन्ध्य:।।७७।।१
नवतृणाङ्कुरा एव रोमाञ्चस्तेन मण्डितानि। पीवरैर्महद्भि: पयोधरैर्मधै: प्रेरित उत्तेजित:। अन्योऽपि कामुको गृहलक्ष्म्या: पीवरपयोधराभ्यां परिस्पृष्टो रोमाञ्चमावहतीति पयोधरपद-सांनिध्याद्ध्वन्यते। अत एव 'पयोधरै: प्रेरित:’ इति व्यस्तबहुवचनान्तमनुक्त्वा समस्तं प्रायुज्यतेति सहृदयैस्तारतम्यं परीक्ष्येत। रोमाञ्चयुक्तानीति वक्तव्ये रोमाञ्चविमण्डितानीत्युक्त्या-तस्मिन्समये रसिकानां तदेव सर्वमण्डनेभ्योऽतिशयितं मण्डनमिति तदुत्कर्ष: सूच्यते। तथा च 'अस्मिन्समये अचेतनो विध्योऽपि रसिकचर्यामनुरुन्धे, तर्हि रसिकमानी भवानेव किं वर्षासु विलासविमुखो भविष्यति’ इति प्रवासप्रतिषेधश्चरमं व्यङ्ग्यम्। भोजस्तु विन्ध्यगतमेव रतिभावं मन्वान: 'गौणेषु सेयं रतिरिति’ रसाभासविषये इमामुदाजहार (५ परि.)।
कोऽपि प्रियसुहृदं प्रति प्रियतमाया: प्रशंसामपरापदेशेनाह-
आम् बहला विपिनाली मुखरा जलरङ्कवो जलं शिशिरम्।
अन्यनदीनामपि पुनरन्ये केचन गुणास्तु रेवाया:।।७८।।१
आम् इति स्वीकारे। अन्यासां नदीनामपि-पर्यन्तविस्तृता वनपङ्क्तिर्निबिडा, जलपक्षिणो मधुरशब्दकरा:, जलं शीतमस्ति, इति स्वीकुर्म: परं रेवाया गाम्भीर्यादय: केचन गुणा: पुनरन्ये एव इतरनदीविलक्षणा एव। अत्रार्थशक्तिसमुत्थेनानुरणनेन- 'अन्यासां महिलानामपि पर्यन्ततोऽङ्ग-विधृता शाटीप्रभृतिवसनसामग्री’ विपुला, (मुखरजलरङ्कुपदेन सूचिता:) नूपुरादयोऽपि मनोह-
१. उव्वहइ णवतणङ्कुररोमञ्चपसाहिआइँ अङ्गाइं।
पाउसलच्छीअ पओहरेहिँ परिपेल्लिओ विञ्झो।।७७।।
[उद्वहति नवतृणाङ्कुररोमाञ्चप्रसाधितान्यङ्गानि।
प्रावृड्लक्ष्म्या: पयोधरै: परिप्रेरितो विन्ध्य:।।]
२. आम बहला वणाली मुहला जलरङ्कुणो जलं सिसिरं।
अण्णणईणँ वि रेवाइ तह वि अण्णे गुणा के वि।।७८।।
[सत्यं बहला वनाली मुखरा जलरङ्कवो जलं शिशिरम्।
अन्यनदीनामपि रेवायास्तथाप्यन्ये गुणा: केऽपि।।]
रणाय सशब्दा:, अङ्गस्पर्शसुखमपि सुतरां निर्वापकमस्ति, तथापि तस्या नायिकाया: सौभाग्यादयो गुणा अन्यनायिकाविलक्षणा एवेति ध्वन्यमानोऽर्थ: प्रतीयते। नायकप्ररोचनाय दूत्या: सेयमुक्तिरिति केचित्।
कोऽपि कामुक: कस्याश्चित्कुचौ साकाङ्क्षमाकलयन्कमपि सुहृदं कथयति-
परिणतमालूरसमावागच्छत पश्यत स्तनावस्या:।
उत्तुङ्गौ हृदयेऽपि च सत्पुरुषमनोरथाविवामान्तौ।।७९।।१
पक्वतया पूर्णपरिणाहेन मालूरेण (बिल्वेन) सदृशौ। हृदये वक्षसि विशालतया अमान्तौ। पुण्यवतां मनोरथा अपि उन्नता:, हृदये चेतसि च न मान्ति, किन्तु बहि: प्रकटीभूय कार्यरूपे परिणमन्ति। किंवा-सत्पुरुषाणामकल्मषतया तेषां मनोरथा: सुहृत्सु प्रकटीभवन्ति। दुर्जनानां तु विचाराश्छद्मघटिततया हृदय एव गुप्ता भवन्ति। प्राकृते द्विवचनबहुवचनयोरैक्यादुभयत्र वचनसाम्यम्। अत एव वचनभेदनिबन्धन उपमादोषो नात्रेति बोध्यम। संस्कृते तूपमेययो: स्तनयोरनुरोधेन उपमाने मनोरथेऽपि द्वित्वमावश्यकमापतितम्। उपलक्षणं चेदं बहुवचनस्य। आगच्छत पश्यतेत्युक्तिरवसरोऽयमिति सूचनाय। हृदये अमानस्योक्त्या 'सुतरामवरुद्धोऽपि ममैतद्ग्रहणविषयो मनोरथ: साम्प्रतं विवशतया स्फुटीभावोन्मुख:’ इति सूच्यते।
वर्षासु विरहवेदनामधिकतमामासूचयन्ती कापि कान्तानयनत्वरार्थं सखीमाह-
अहमहमिकया हस्ताहस्ति च वर्षागमेऽद्य किल मेघै:।
हंहो किमपि रहस्यं नभोऽङ्गणं छन्नमपि गलति।।८०।।२
१. एह इमीअ णिअच्छह परिणअमालूरसच्छहे थणए।
तुङ्गे सप्पुरिसमणोरहे व्व हिअए अमाअन्ते।।७९।।
[आगच्छतास्या निरीक्षध्वं परिणतमालूरसदृशौ स्तनौ।
तुङ्गौ सत्पुरुषमनोरथाविव हृदये अमान्तौ।।]
२. हत्थाहत्थिं अहमहमिआइ वासागमम्मि मेहेहिम्।
अव्वो किं पि रहस्सं छण्णं पि णहङ्गणं गलइ।।८०।।
[हस्ताहस्ति अहमहमिकया वर्षागमे मेघै:।
आश्चर्यं किमपि रहस्यं छन्नमपि नभोऽङ्गणं गलति।।]
अहं पूर्वमहं पूर्वमिति स्पर्द्धया, हस्तेन हस्तेन च प्रगृह्य, परस्परं मिलितैरित्यर्थ:। मेघैश्छन्नमपि नभोऽङ्गणं गलति पतति। यद्धि मेघैर्व्याप्तं तत्कथङ्कारं गलति, अत एव हंहो इत्याश्चर्ये, यदिदं किमपि रहस्यम्। 'गिलति’ इति पाठे मेघै: स्थगितमपि विरहिणीं मां गिलितुमिव नभो धावतीत्यर्थ: स्यात्।
बहुनारीणां वल्लभतया सुभगायितस्य दयितस्य अन्यनारीप्रवृत्तिं किमिति न वारयसीति वदन्तीं सखीं प्रति काचिदाह-
सौभाग्यं दयितस्य भ्रमतो भविता कियन्मात्रम्।
महिलास्मरक्षुधाकुलकटाक्षविक्षेपगृह्यमाणं हि।।८१।।१
भ्रमत: अन्यनारीषु भ्रमणशीलस्य दयितस्य। महिलानां मदनलक्षणया क्षुधया आकुलेन कटाक्षविक्षेपेण गृह्यमाणं विवशीक्रियमाणं सौभाग्यं कियन्मात्रं भविता भविष्यति। महिला एतस्मिन् मदनक्षुधाकुलतयैवाऽऽसज्यन्ति न सत्यप्रेम्णा। अयमपि च तथा भवन्नेव तद्वशो जात:। एवंस्थितौ मदनलक्षणक्षुदुत्कण्ठाशान्तौ ता: कियदासक्ता भवेयु:? कियन्मात्रं चास्य सौभाग्यं स्यात्? अस्थायि सर्वमिदमित्यर्थ:। सर्वमेतदनुभूय स्वयमस्य मत्प्रणयपरिचयो भवेदिति भाव:। 'कटाक्षध्वस्तधैर्यस्य खत एवास्य चाञ्चल्यं यास्यति। किमस्य प्रियाचरणेन’ इति गङ्गाधर:। अस्पष्टमिवेदम्। ध्वस्तधैर्य एव चञ्चलो भवतीति अधैर्यस्य चाञ्चल्यापगम: कथम्।
सर्वदा परगृहेषु निलीय परनारीविलासलम्पटं निजदयितं रात्रिशेषे कुक्कुटरुतेन प्रतिबुध्य प्रतिदिनाभ्यासवशात्परवसतिशङ्कया पलायनेच्छुं काचिदाह-
निजगृहिणीमुपगूहेर्झटिति प्रतिबुद्ध कुक्कुटरुतेन।
परवसतिवासशङ्किन्निजकेऽपि गृहेऽत्र मा भैषी:।।८२।।२
१. केत्तिअमेत्तं होहिइ सोहग्गं पिअअमस्स भमिरस्स।
महिलामअणछुहाउलकडक्खविक्खेवघेप्पन्तम्।।८१।।
[कियन्मात्रं भविष्यति सौभाग्यं प्रियतमस्य भ्रमणशीलस्य।
महिलामदनक्षुधाकुलकटाक्षविक्षेपगृह्यमाणम्।।]
२. णिअधणिअं उवऊहसु कुक्कुडसद्देन झत्ति पडिबुद्ध।
परवसइवाससङ्किर णिअए वि घरम्मि मा भासु।।८२।।
[निजगृहिणीमुपगूहस्व कुक्कुटशब्देन झटिति प्रतिबुद्ध।
परवसतिवासशङ्किन्निजकेऽपि गृहे मा भैषी:।।]
उपगूहे: परिरभस्व। प्रार्थनायां लिङ्। परवसतौ परगृहे यो वास: अवस्थानं तच्छङ्किन्! मूल 'धणिआ’ शब्द: स्वभार्यावाचको देशी। गृहिण्या अपि स्वमुखेन 'गृहिणीमुपगूहे:’ इति कथनेन-'प्रतिदिनाभ्यासवशात्त्वं सर्वत्र परनारीमेव विलोकयसि, किं त्वहं न तथा। पश्य माम्’ इति प्रियवैलक्ष्या-पादनं ध्वन्यते। किंवा गृहिणीपदेनत्वत्प्रतीक्षया शून्यगृहोषितां त्वद्गृहाधिकारिणीमपि त्वं सर्वदाऽवीहे-लयसीत्युपालम्भो ध्वन्यते। 'उपगूहे:’ इत्युक्त्या-प्रतिदिना-भ्यासवशात्तव दृष्टौ सर्वदा परनार्येव वसति। अत एव दर्शनं विहाय उपगूहनेन मामभिजानीहीति दयितविलक्षीकरणं व्यज्यते।
प्रवासं गच्छतो दयितस्य गमननिरोधार्थं कापि दु:शकुनं वा जलदकालस्य विरहिदु:सहत्वं वा सूचयितुं निजसखीमाह-
खरमारुतगलहस्तितगिरिकू टापतनभिन्नदेहस्य।
कालजलदस्य पश्यत जीव इव हि धुकधुकायते विद्युत्।।८३।।१
खरमारुतेन प्रचण्डपवनेन वेगाद् गलहस्तित: गलहस्तं प्रदाय प्रेरित:, अत एव गिरिकूटादू गिरिशृङ्गात् आपतनेन भिन्नदेहो विशीर्णगात्रो य: कालमेघस्तस्य जीव इव जीवितमिव (प्राणा इव) विद्युत् धुकधुकायते धुकधुकशब्दपूर्वकं कम्पते इत्यर्थ:। अत्युच्चस्थानात्पतितस्य विशीर्णदेहस्य जनस्य यथा हृदये कम्पो भवति तथायं विद्युत्कम्प इत्याशय:। काल: श्याम:। पक्षान्तरे च यात्रासमये अकीर्तनीयनामा मृत्यु:। तथा चैतन्नामग्रहणेन गिरिपतन-देहविशरणादि-चर्चाऽमङ्गलेन च यात्राया: प्रतिरोधाकूतं ध्वन्यते। अथवा 'यदि वर्षासु विरहं मे आपादयसि तर्हि ममापीयं दशा भाविनी’ इति दयितं प्रति व्यज्यते। धुकधुकायते इत्यनुकरणनिष्पनन्नो नामधातु:। 'दुर्दिनाभिसारिका कान्तमन्यमनस्कं कर्तुमाह’ इति गङ्गाधर:।
अपरयापि गाथया तत्संवादिनमेवार्थमाह-
मेघमहिषस्य मन्ये ह्युदरे सुरचापकोटिभिन्नस्य।
अन्त्रमिव लम्बतेऽसौ सवेदनं क्रन्दतो विद्युत्।।८४।।१
१. खरपवणरअगलत्थिअगिरिऊडावडणभिण्णदेहस्स।
धुक्काधुक्कइ जीअं व विज्जुआ कालमेहस्स।।८३।।
[खरपवनरयगलहस्तितगिरिकूटापतनभिन्नदेहस्य।
धुकधुकायते जीव इव विद्युत्कालमेघस्य।।]
२. मेहमहिसस्स णज्जइ उअरे सुरचावकोडिभिण्णस्स।
कन्दन्तस्स सविअणं अन्तं व पलम्बए विज्जू।।८४।।
[मेघमहिषस्य ज्ञायते उदरे सुरचापकोटिभिन्नस्य।
क्रन्दत: सवेदनमन्त्रमिव प्रलम्बते विद्युत्।।]
सुरचापस्य (इन्द्रधनुष:) काट्या तीक्ष्णकोणाग्रेण उदरे भिन्नस्य पाटितस्य अत एव सवेदनं क्रन्दतो मेघरूपमहिषस्य पाटनाद्बहिर्निर्गतम् अन्त्रमिव सेयं विद्युल्लम्बते इति मन्ये। मूले तु 'अन्त्रमिव लम्बते’ इति ज्ञायते प्रतीयते इत्यर्थ:। इन्द्रधनुष: सविधे गर्जितं कुर्वति श्यामे मेघे मध्यगता विद्युत्तथा प्रतीयते यथा धनुष्कोट्या पाटितस्य अत एव वेदनावशादार्तनादं मुञ्चतो महिषस्योदरे अन्त्रं लम्बते इत्याशय:।
प्रवासार्थमुद्यताय दयिताय वसन्तस्य विरहिदुरन्ततां द्योतयन्ती काचित्तदुपक्रमं सूचयति-
नवपल्लवं विषण्णा: पथिका: पश्यन्ति चूतवृक्षस्य।
लोहितसमूहराजितमुद्यत्कामस्य हस्तभल्लमिव।।८५।।१
उद्यत: विरहिनिपीडनाय साम्प्रतमुज्जृम्भमाणस्य कामस्य लोहितसमूहराजितं रक्तभराक्तं हस्तविधृतं कुन्तमिव पश्यन्ति। भल्लाग्रे हस्तपदप्रयोगेण 'स भल्ल: कामेन साम्प्रतं हस्ते धृत:’ इति भल्लस्य भेदनकार्यव्यापृतता ध्वन्यते। लोहितसमूहेन लिप्तं युक्तमित्याद्यनुक्त्वा 'राजितम्’ इति कथनेन कामभल्लस्य लोहितलिप्तता शोभेति विरहिवर्गार्थं क्रूरतातिशयो ध्वन्यते। विषण्णा: विषादं प्राप्तवन्त: पश्यन्तीत्यत्र भूतकालिकेन क्तेन सह वर्तमानकालिकस्य लट: सम्बन्धात् 'विरहिभीषकश्चूतपल्लव: पश्चाद्दृष्टौ पतति विषादस्तु तत: पूर्वमेवारब्धो भवतीत्यतिशयितविषादद्योतिका अतिशयोक्ति: सूच्यते। ततश्च-पथिकतां स्वीकुर्वतस्तवापि सेयं दशाऽनुपदभाविनीति प्रियतमं प्रति व्यज्यते। 'उप्पङ्ग’ शब्द: समूहवाचको देशी।
विदेशगमनान्नायकं निवारयन्ती काचिन्निपुणनितम्बिनी निजसखीमाह-
दोषोऽयं महिलानां यद्धि प्रवसन्ति गर्विता: पुरुषा:।
विरहान्तो नहि तावद्द्वित्रा यावन्म्रियन्ते नो।।८६।।२
१. णवपल्लवं विसण्णा पहिआ पेच्छन्ति चूअरुक्खस्स।
कामस्स लोहिउप्पङ्गराइअं हत्थभल्लं व।।८५।।
[नवपल्लवं विषण्णा: पथिका: पश्यन्ति चूतवृक्षस्य।
कामस्य लोहितसमूहराजितं हस्तभल्लमिव।।]
२. महिलाणं चिअ दोसो जेण पवासम्मि गव्विआ पुरिसा।
दोतिण्णि जाव ण मरन्ति ता ण विरहा समप्पन्ति।।८६।।
[महिलानामेव दोषो येन प्रवासे गर्विता: पुरुषा:।
द्वे तिस्र यावन्न म्रियन्ते तावन्न विरहा: समाप्यन्ते।।]
द्वित्रा: द्वे तिस्र वा प्रोषितपतिका यावन्न म्रियन्ते तावद्विरहान्तो विरहसमाप्तिर्नेत्यर्थ:। प्रियामरणं विलोक्यैव एते प्रवासं त्यक्ष्यन्तीति भाव:। 'महिला’ 'पुरुष’पदोपादानेन 'मह्यन्ते तस्मान्महिला:’ इति विनय-सहनशीलतादिगुणभाजनतया आत्मन:पूजनीयतागुणं रक्षन्त्य: स्त्रिय: 'पुर’ अग्रगमने इति धातुनिष्पन्नान् अत एव अग्रगामितागर्वेण अवलिप्तान्पुरुषान् शालीनतया ता: सहन्ते इति पुरुषान्प्रत्युपालम्भो ध्वन्यते। 'यावन्न मरिष्यन्ति तावद्विरहा न समाप्यन्ते’ इति भविष्यत्स्थाने 'म्रियन्ते’ इति वर्तमानोक्त्यातव विरहे मम मरणमदूरभावि विचारयेति ध्वन्यते।
नायिकासविधमुपगन्तुं नायकं त्वरयन्ती दूती आह-
व्रज लघु बाल म्रियते वराकिकाऽलं विलम्बेन।
नि:सन्देहं तव सा जीविष्यति दर्शनेनापि।।८७।।१
'दे:’ शब्द: सानुनयसम्बोधने। तस्या: प्रेमपरिपाकानभिज्ञत्वाद् हे बालक! लघु शीघ्रं व्रज। त्वया परित्यक्तत्वात् शोचनीयतया वराकिका दीना सा म्रियते। 'क’ प्रत्ययेन 'मरणसमयेऽपि न तां दयनीयां प्रत्यवेक्षसे’ इति कारुण्यातिशयो ध्वन्यते। तवेत्यनेन 'अन्येषां पुन: पीयूषाद्यौषधप्रदानेनापि न जीविष्यति’ इति सूच्यते। दर्शनेनापीत्यपिना-आलिङ्गनचुम्बना-धरपानादीनां तु किं वक्तव्यमिति सूच्यते। 'म्रियते’ इति वर्तमानत्वोक्त्या- 'त्वदानयनार्थमि-हागमनसमये सा जीविताभूदिदानीमियता विलम्बेन सा म्रियमाणास्ति’ इति व्यज्यते। 'मम तत्स्थानप्राप्ते: पूर्वमेव मृतायां तस्यां किं फलं गमनेनेति’ चेद्धृदये सन्दिह्यसे, तदर्थमाह- जीविष्यतीति। यदि मृतापि भवेत्तदापि सा जीविष्यति, किं पुनम्र्रियमाणेति भाव:।
विनाशकारणमपि मुग्धतया त्वं सुखहेतुं मन्यसे इत्यन्यापदेशेन कोऽपि निजसहचरं शिक्षयति-
आताम्रविसरदनलज्वालावलिदीपिते वनाभोगे।
किंशुकवनमिति मत्वा निश्क्रामति मुग्धहरिणो न।।८८।।१
१. बालअ दे वच्च लहुं मरइ वराई अलं विलम्बेण।
सा तुज्झ दंसणेण वि जीवेज्जइ णत्थि संदेहो।।८७।।
[बालक हे व्रज लघु म्रियते वराकी अलं विलम्बेन।
सा तव दर्शनेनापि जीविष्यति नास्ति सन्देह:।।]
२. तम्मिरपसरिअहुअवहजालालिपलीविए वणाहोए।
किंसुअवणन्ति कलिऊण मुद्धहरिणो ण णिक्कमइ।।८८।।
[ताम्रवर्णप्रसृतहुतवहज्वालावलिप्रदीपिते वनाभोगे।
किंशुकवनमिति कलयित्वा मुग्धहरिणो न निष्क्रामति।।]
आताम्रा प्रसरन्ती या अनलज्वालावलि: (वह्निशिखाश्रेणि:) तया दीपिते प्रज्वलिते वनप्रान्तरे। अतिताम्राभिर्वह्निशिखाभिर्व्याप्तं वनं रक्तवर्णै: किंशुकवृक्षैर्वलयितमिति मत्वा मुग्धतया हरिणो वनाद्बहिर्न गच्छतीति भाव:। तथा चात्र स्वत:सम्भविना भ्रान्तिमदलङ्कारेण 'परललनाल-म्पटस्त्वमन्त:कोपकषायितैरपि बहि: प्रियदर्शनैर्जनै: परिवृते त्वत्प्रेयसीसदने अनिष्टहेतुमपि तत्सन्सर्गं सुधासदृशं मन्यमानो मोहमुग्धतया न तदावासं परित्यजसि’ इति वस्तु व्यज्यते।
शृण्वन्तमुपपतिं प्रति काचिदात्मन: कामकलाकौशलं ख्यापयितुमन्तरङ्गसखीमाह-
शारिकया गुरुपुरतो निधुवनशिल्पं तथा किलोल्लपितम्।
तां वेलामयि मातर्यथा व्रजाम: कुतो न जानीम:।।८९।।१
निधुवनशिल्पं सुरतवैचित्र्यम्। गुरुजनानां पुरत: अग्रत:। उल्लपितम् अर्थमपरिज्ञायापि यथा दृष्टं श्रुतं वा तथा जल्पितमित्यर्थ:। अयि मात: तां वेलां तस्यां वेलायाम्। व्रीडावशात्कुत्र व्रजाम इति यथा न जानीम:। हृीणमात्मानं निह्नोतुं कस्मिन्स्थाने गच्छाम इत्यपि लज्जावशान्न स्फुरितमभूदित्याशय:। तां वेलामित्यत्यन्तसंयोगे द्वितीया। अयि मातरिति लोकशैलीसिद्धमान्तरिकानुतापसूचकं सम्बोधनम्।
विकासोन्मुखयौवनायां बालायामनुरक्तचित्तं दयितं काचिदन्यापदेशेनाह-
प्रत्यग्रोत्फुल्लदलोल्लसन्मरन्दाधिपानसंलुब्ध: ।
भ्रमरो वाञ्छति कर्तुं यन्न हि तन्नास्ति कुन्दकलिकाया:।।९०।।२
प्रत्यग्रमुत्फुल्लानि दलानि यस्या: सा प्रत्यग्रोत्फुल्लदला, एवंविधाया: कुन्दकलि-काया: उल्लसन्मकरन्दस्य अधिकं यथा तथा पाने लुब्धो भ्रमरो यत्कर्तुं न वाञ्छति तन्नास्ति। तां परितो भ्रमणं चाटूनि चुम्बनादीनि च सर्वं कर्तुमिच्छतीत्यर्थ:। भ्रमरपदेन 'कलिकायां साम्प्रतं मधुजननाभावात्केवलं भविष्यदाशया साभिलाषं भ्रमणमेव करोति’ इति सूच्यते। तेन
१. णिहुअणसिप्पं तह सारिआए उल्लाविअं म्ह गुरुपुरओ।
जह तं वेलं माए ण आणिमो कत्थ वच्चामो।।८९।।
[निधुवनशिल्पं तथा शारिकयोल्लपितमस्माकं गुरुपुरत:।
यथा तां वेलां मातर्न जानीम: कुत्र व्रजाम:।।]
२. पच्चग्गप्फुल्लदलुल्लसन्तमअरन्दपाणलेहलओ।
तं णत्थि कुन्दकलिआइ जं ण भमरो महइ काउम्।।९०।।
[प्रत्यग्रोत्फुल्लदलोल्लसन्मकरन्दपानलुब्ध:।
तन्नास्ति कुन्दकलिकाया यन्न भ्रमरो वाञ्छति कर्तुम्।।]
च 'नवयौवनविलासेनोपचिताङ्ग्या एतस्या बालाया भाविनि समागमसुखे बद्धाशस्त्वं साम्प्रतं तस्या: समन्ताद् भ्रमणं करोषि, परिज्ञातं मया ते मनोरहस्यम्’ इति प्रियं प्रत्याकूतमभिव्यज्यते। अस्फुटयौवनायामप्येतस्यां त्वं तथा मुग्धोऽसि यत्सांप्रतमेव सर्वमात्ममनोरथं पूरयितुमुत्कण्ठसे। केवलमस्मदादिसङ्कोचादेव संयत इवासीति दयितं प्रति गूढोपालम्भश्चरमं व्यङ्ग्यम्।
नवोद्गतयौवनायां सपत्न्यां सम्प्रति कामिजनलक्ष्यता जातेति सेर्ष्योपालम्भं दयिताय सूचयितुं काचिदन्यापदेशेन मातुलीं लक्ष्यीकृत्याह-
स हि कोऽपि गुणातिशयो मातुलि जाने न कुन्दलतिकाया:।
दृग्भ्यामेव निपातुं भ्रमरैरभिलष्यते येन।।९१।।
एतस्यां क एतादृशो गुणोऽस्ति येन परित: सुरक्षिततया सविधोपसरणानवसरात्केवलं नयनाभ्यामेव रसिककामुकैरियमभिवीक्ष्यते। तथा च 'सेयं बहुकामुकानामधुनैव लक्ष्यभूता जाता, अग्रे तु न जाने किं भावि’ इति नायकं प्रति भ्रमरैरिति बहुवचनेन ईर्ष्याबीजं निभृतमुपक्षिप्यते। अथवा- 'अहं तु तादृशं गुणमस्या न जाने, तथापि त्वमहर्निशमेनामनवसरे केवलं नयनाभ्यामेव विलोकयसि। कोऽयमस्थाने संरम्भ:’ इति सपत्नीप्रणयिनं दयितं प्रत्युपालम्भो व्यज्यते। किंवा-नवोद्गतयौवनाया: कस्याश्चित्सौभाग्यं सूचयितुमियमन्यापदेशेनोक्ति:। तथा च- 'लतिका’ इति कप्रत्ययेन कैशोर्यारम्भसम्भिन्नायामस्यां बालायां स कोऽप्यनिर्वचनीयो गुणोत्कर्षोऽस्ति यद्वशेन रसिकैर-वशतया केवलं दृग्भ्यामेव साभिलाषातिशयमीक्ष्यते, ईक्षणस्याप्यलाभे ईक्षितुमिष्यते वा। अर्थात् एतस्या आलोकनमात्रेऽपि रसिकानां तादृशी उत्कण्ठेति। 'इयं निपातुमिष्यते’ इत्यनेन 'अन्यासां लतानां पुष्पं मुखद्वारा पीयते। इयं तु लतैव अक्षिद्वारा पीयते’ इत्यन्यापेक्षयोत्कर्षो ध्वन्यते।
नायकमुत्कण्ठयन्ती दूती कस्याश्चित्सौन्दर्यातिशयमाह-
एकैव हि रूपगुणं ग्रामणिदुहिता समुद्वहति।
अनिमिषनयन: सकलो यया हि देवीकृतो ग्राम:।।९२।।२
१. सो को वि गुणाइसओ ण आणिमो मामि कुन्दलइआए।
अच्छीहिं च्चिअ पाउं अहिलस्सइ जेण भमरेहिं।।९१।।
[स कोऽपि गुणातिशयो न जानीमो मातुलानि कुन्दलतिकाया:।
अक्षिभ्यामेव पातुमभिलष्यते येन भ्रमरै:।।]
२. एक्क च्चिअ रूअगुणं गामणिधूआ समुव्वहइ।
अणिमिसणअणो सअलो जीए देवीकओ गामो।।९२।।
[एकैव रूपगुणं ग्रामणीदुहिता समुद्वहति।
अनिमिषनयन: सकलो यया देवीकृतो ग्राम:।।]
एका सैव ग्रामनायकस्य दुहिता तादृशं सौरूप्यगुणं धारयति यया अनिमिषनयनतया सकलोऽपि ग्रामो देवत्वं नीत:। न निमिषतीत्यनिमिषम्, अनिमिषं नयनं यस्य स:। रूपकौतु-कोल्लग्रचित्ततया सकलोऽपि ग्रामस्थो जनस्तां तथा पश्यति यथा न कस्यापि नयनयोर्निमेषोऽपि भवतीति भाव:। सकल इति पदेन- 'सिद्धो वा अमरो वा एकस्य द्वयोर्वा स्वमाहात्म्येन देवत्वं कुर्यात्, इयं तु सकलस्य ग्रामजनस्य’ इत्युत्कर्षो ध्वन्यते। एकैवेत्येवकारेण 'सा अद्वितीया रूपवती, ततश्च त्वरितमेव तत्प्राप्तये यतस्व’ इति नायकप्रलोभनं ध्वन्यते।
चाटूक्तिभि: प्रियतमां प्रसादयन्कश्चिदधरपानलालसां सवैदग्ध्यमाह-
आस्वाद एव मन्ये न प्राप्त: प्रियतमाधररसस्य।
हन्त समुद्धृतममृतं त्रिदशै रत्नाकराद्येन।।९३।।१
'रत्नाकर’ पदेन-रत्नानि यस्मादाविर्भूतानि तस्मात्सागरात् त्रिदशै: (यौवनमात्रदशाजुष्टै: सदा युवभि:) देवैरुद्धृतममृतमपि तदग्रे वृथेत्युत्कर्षो ध्वन्यते। 'हन्त’ पदेन- 'अमृतोद्धरण-क्लेश-स्तेषामस्थाने’ इति तान् प्रति खेदो ध्वन्यते। एवेत्यनेन-यद्यास्वाद: प्राप्तोऽभविष्यत्तर्हि अमृतोद्धर-णक्लेशं नाकरिष्यन्निति सूच्यते। अथवा 'एव’ इति अपेरर्थे। ईषत्स्वादोऽपि न प्राप्त इत्यर्थ:।
पूर्वमतिदर्शितप्रणयं पश्चाच्चन्यासक्ततया दुर्लभदर्शनं नायकं निभृतमुपालब्धुं स्वप्रणयातिशयं सूचयन्ती काचिदन्यापदेशेनाह-
आकर्णाकृष्टनिशितभल्लकमर्माहतहरिण्या।
भविता ह्यदर्शन: प्रिय इति नु वलित्वा चिरं दृष्ट:।।९४।।२
आकर्णमाकृष्टेन निशितेन भल्लकेन (बाणविशेषेण) मर्मणि आहतया हरिण्या। प्रिय: अगे अदर्शन: (न विद्यते दर्शनं यस्य। दर्शनागोचर:) भविता भविष्यति इति कृत्वा।
१. मण्णे आसाओ च्चिअ ण पाविओ पिअअमाहररसस्स।
तिअसेहिँ जेण रअणाअराहि अमअं समुद्धरिअम्।।९३।।
[मन्ये आस्वाद एव न प्राप्त: प्रियतमाधररसस्य।
त्रिदशैर्येन रत्नाकरादमृतं समुद्धृतम्।।]
२. आअण्णाअड्ढिअणिसिअभल्लमम्माहआइ हरिणीए।
अद्दंसणो पिओ होहिइ त्ति वलिउं चिरं दिट्ठो।।९४।।
[आकर्णाकृष्टनिशितभल्लमर्माहतया हरिण्या।
अदर्शन: प्रियो भविष्यतीति वलित्वा चिरं दृष्ट:।।]
वलित्वा कन्धरां परावर्त्य लालसोत्कण्ठाभ्यां चिरं दृष्ट:। बाणविद्धा मरणोन्मुखापि प्रियप्रणयं न व्यस्मार्षीदिति भाव:। भवितेत्यनद्यतनार्थकभविष्यता 'अद्य यद्यपि दृग्गोचरोऽस्ति तथापि इतोऽग्रे अदर्शनो भविष्यति’ इति विषादातिशय: सूच्यते। वलित्वेत्यनेन- 'मृत्युकष्टपतितयापि सम्मुखत्वा-भावेऽपि यत्नपूर्वकमपि प्रियो दृष्ट:’ इति प्रणयातिशयो व्यज्यते। हरिण्येत्यनेन-तिर्यग्योनिगतानामपि स्त्रीणां पश्य प्रणयमिति शृण्वन्तं नायकं प्रति योषितां पुरुषातिशायीं प्रणयोऽभिव्यज्यते। तथा च- 'दुर्वचनविशिखैर्मर्माहताप्यहं यत्नशतैर्दर्शनार्थमुत्कण्ठिता त्वत्प्रणयमेवमनुपालयामि। भवान्स्तु तथा निर्मोहो यद्दर्शनमात्रमपि न ददाति’ इत्युपालम्भसम्भृतं चरमं व्यङ्ग्यम्। 'प्राणात्ययहेतुरपि न तथा व्यथयति यथा प्रियविरह इत्यन्यापदेशेन स्नेहशिक्षार्थं कोऽपि प्रियमाह’ इति गङ्गाधर:।
गाथारत्नकोषनिर्मातु: सातवाहननरेन्द्रस्य शौर्यं कीर्तयितुमेकां गाथामाह तत्स्तोता कवि:-
विषमस्थितपक्वैकाम्रदर्शने ते तु शत्रुगेहिन्या।
पथिकानां क: को वा न वाऽर्थितो रुदति डिम्भे हि।।९५।।१
विषमे ग्रहणार्थमारोहणादिनातिदुर्गमे लघुतमविटपाग्रे स्थितस्य पक्वस्यैकस्याम्रफलस्य दर्शने सति। तत्प्राप्त्यर्थं क्षुधिते डिम्भे बालके रुदति सति पथिकानां मध्ये को वा को वा न प्रार्थित:, अपि तु सर्व एव प्रार्थित:। 'एक’ पदेन-एकमाम्रफलमपि सुतरां दुर्लभमभूदिति शत्रुदुर्दशया राजशौर्योत्कर्षो ध्वन्यते। 'डिम्भ’ पदेन-बालस्य स्वल्पवयस्कतया हठबाहुल्यं क्षुधातुरत्वं च सूच्यते। क: को वेत्यनेन-अप्रार्थनीयोऽपि प्रार्थता इति दैन्यातिशयो ध्वन्यते। पथिकानामित्यनेन-मार्गगामिनामसम्बन्धिनामपि सा दयनीया जातेति दारिद्र्यातिशय: सूच्यते। उक्त इति स्थाने अर्थित इत्यनेन-अतिदीनता प्रदर्शनपुरस्सरं तत्पातयितुं याचित इति द्योत्यते। शत्रुगेहिन्येति गृहिणीपदेन- 'या गृहिणी अकार्यशतैरपि सामान्यदीनस्यापि भर्तव्या स्मृत्यादावुक्ता, सापि त्वत्कोपवशाद्वैरिनरेन्द्रैरेवं कदर्थिता’ इति वर्ण्यस्य राज्ञो महाप्रभावत्वं ध्वन्यते। गङ्गाधरेण ललितैरक्षरैरस्याशयोऽवर्ण्यत- 'त्वदागमनशङ्कासञ्जातवेपथुस्खलितचरणसञ्चारमशेषपरिवारं विहाय बालकमादाय तव शत्रुविलासिनी महारण्यं प्राविशत्। तत्र च घनघनायमानघनच्छद-च्छायतरुनिकरनिराकृतदिनकरकरोत्करश्यामायिते वर्त्मनि गच्छन्ती क्षुत्पीडितस्य बालकस्याक्र-न्दितमाकर्ण्य निपुणतरं निरीक्षमाणा विषमशाखान्तर्गतमेकमाम्रफलमद्राक्षीत्। तत्पातनार्थं च पान्थानयाचतेति’।
१. विसमट्ठिअपिक्केक्कम्बदंसणे तुज्झ सत्तुघरिणीए।
को को ण पत्थिओ पहिआणं डिम्भे रुअन्तम्मि।।९५।।
[विषमस्थितपक्वैकाम्रमदर्शने तव शत्रुगृहिण्या।
क: को न प्रार्थित: पथिकानां डिम्भे रुदति।।]
यौवन-वैदग्ध्यादिभिर्विलोभनीयया मालाकारस्त्रिया श्लेषभणितिभिरभिमुखीकृत: कश्चिद्रसिक: शृण्वन्त्यां तस्यां साभिलाषं निजसहचरमाह-
युवहृदयानि लुनाति हि ललितोल्ललितोच्चबाहुमूलाभ्याम्।
कुसुमानि दर्शयन्ती सद्योलूनानि मालिनी सेयम्।।९६।।१
सद्योटितानि कुसुमानि दर्शयन्ती सेयं मालिनी, ललिताभ्यां सुन्दराभ्याम् उल्ललिताम् उद्भृताभ्यां विशालाभ्यामिति यावत्। उच्चाभ्यां च बाहुमूलाभ्याम् (स्तनाभ्याम्) यूनां हृदयानि लुनाति व्याकुलयतीत्यर्थ:। 'उल्ललिताभ्यां चञ्चलाभ्यां बाहुमूलाभ्यामुपलक्षिता’ इति गङ्गाधर:। 'सद्योलूनानि कुसुमानि दर्शयन्ती हृदयानि लुनाति’ इत्युभयत्र लवनसादृश्येन 'यथा मया कुसुमानि लूनानि तथा युवहृदयान्यपि लवितुं समर्थाहम्’ इति हृदयानां कुसुमसमानत्वं व्यङ्ग्यम्। ततश्च 'त्वया कानिचिद्रसिकहृदयानि पूर्वत: पाटितानि, येषां सद्यस्कतया विलम्बोऽपि न जात:, आर्द्रवेदनानीति यावत्। कानिचिञ्च अस्मादृशां हृदयानि साम्प्रतं लुनासि, बहुतरुणहृदय-निकृन्तकत्वादहो ते नैष्ठुर्यम्’ इति साभिलाष आक्षेपो ध्वन्यते। किञ्च मालिनी मालाकारीतिपदेन- 'पुष्पमालानां निर्माणार्थं यथा त्वं पूर्वमेव लवनक्लेशं विसोढवन्ति कुसुमानि सूच्या विद्ध्वा पुन: सूत्रप्रोतानि करोषि तथा यूनामस्मादृशां हृदयानि साम्प्रतं लुनासि (व्याकुलीकृत्य वशीकरोषि) पश्चाच्च निष्ठुरहृदयत्वाद्विरहवेदनारूपया सूच्या विद्धानि करिष्यसि, अहोनिर्दयत्वम्’ इत्युपालम्भो ध्वन्यते।
नवयुवत्या व्याधस्त्रिया: स्तनोद्गमं साभिलाषं वर्णयन्कश्चित्सहचरमाह-
मध्य: प्रिय: कुटुम्बं पल्लीयवका: सपत्न्यश्च।
क्षीयन्ते पञ्च तथा, व्याधगृहिण्या: स्तनौ यथैधेते।।९७।।२
व्याधगृहिण्या: स्तनौ यथा यथा वृद्धिं गच्छतस्तथा तथा मध्य: कटि: (यौवनविकासात्) क्षीयते। प्रिय: (यौवनोद्दीप्तकामतया सततसुरतदौर्बल्यात्) क्षीयते। कुटुम्बं गृहकर्तुर्व्याधस्य
१. मालारी ललिउल्लुलिअबाहुमूलेहिँ तरुणहिअआइं।
उल्लूरइ सज्जुल्लूरिआइँ कुसुमाइँ दावेन्ती।।९६।।
[मालाकारी ललितोल्ललितबाहुमूलाभ्यां तरुणहृदयानि।
उल्लुनाति सद्योऽवलूनानि कुसुमानि दर्शयन्ती।।]
२. मज्झो पिओ कुअण्डो पल्लिजुआणा सवत्तीओ।
जह जह वड्ढन्ति थणा तह तह छिज्जन्ति पञ्च वाहीए।।९७।।
[मध्य: प्रिय: कुटुम्बं पल्लीयुवान: सपत्न्य:।
यथा यथा वर्धेते स्तनौ तथा तथा क्षीयन्ते पञ्च व्याध्या:।।]
नवयौवनायामस्यामासक्ततया अप्रत्यवेक्षणात् क्षीयते। तस्या: पल्ल्या: (भिल्लावासस्य) युवका: तदुत्कण्ठया क्षीयन्ते। सपत्न्यस्तु ईर्ष्यया किंवा नवयौवनायामस्यामासक्ततया पतिकृतप्रणया-भावात् क्षीयन्ते। नवयौवनायामपि गृहिणीपदेननवयौवनवशात्तथासक्तोऽस्या: प्रियतमो यथा गृहकर्तृत्वं प्रायस्तस्यामेव तिष्ठतीति स्तनोत्कर्षातिशयो ध्वन्यते।
'अहं हि मालिनीकुचमालूरावलोकनलालसयैव भ्रमति, नास्य कार्यमन्यदिति निजस्य पराभिप्रायवेदनवैदग्ध्यं सूचयन्नागरिक: कश्चित्सहृदयमाह-
मालाकार्या: सुन्दरभुजमूलविलोकने सतृष्णोऽयम्।
पांसुलयुवा ह्यलीकं कुसुमार्घविपृच्छको भ्रमति।।९८।।१
पांसुल: परस्त्रीलम्पट:। कुसुमार्घस्य कुसुममूल्यस्य पृच्छक: सन् अलीकं भ्रमति। वेल्लहल इति सुन्दरार्थवाचको देशी। 'यो यदभिलाषुक: स छलेनापि स्वकार्यं साधयतीति निदर्शयन्कोऽपि सहचरमाह’ इति गङ्गाधर:।
पूर्वसञ्जातसुरतसङ्केतस्थानादिकं विस्मृतवन्तं 'कस्तेऽहम्?’ इति वदन्तं नायकं कापि सोपालम्भमाह-
अकृतज्ञक घनवर्णं घनपर्णान्तरिततरणिकरनिकरम्।
यदि रे रे वानीरं रेवानीरं स्मरस्यपि न।।९९।।२
कृतं न जानातीत्यकृतज्ञ: कृतोपकारविस्मर्ता, तत्सम्बोधनम्। तत: कुत्सार्थे कन्। घनवर्ण मेघश्यामम्। घनैर्निबिडै: पल्लवैरन्तरित आच्छादितस्तरणिकरनिकर: सूर्यरश्मिसमूहो
१. मालारीए वेल्लहलबाहुमूलावलोअणसअह्णो।
अलिअं पि भमइ कुसुमग्घपुच्छिरो पंसुलजुआणो।।९८।।
[मालाकार्या: सुन्दरबाहुमूलावलोकनसतृष्ण:।
अलीकमपि भ्रमति कुसुमार्घप्रश्नशील: पांसुलयुवा।।
२. अकअण्णुअ घणवण्णं घणवण्णन्तरिअतरणिअरणिअरम्।
जइ रे रे वाणीरं रेवाणीरं पि णो भरसि।।९९।।
[अकृतज्ञ घनवर्णं घनपर्णान्तरिततरणिकरनिकरम्।
यदि रे रे वानीरं रेवानीरमपि न स्मरसि।।
सं. गा... २६
येन, एवंविधं वानीरं वेतसकुञ्जं यदि न स्मरसि, मा स्मर तावत्। परं रेवाया नर्मदाया नीरं जलमपि न स्मरसि? इति काकु:। तत्तु अवश्यं स्मर्तव्यमित्यर्थ:। रे रे इति साक्षेपं सम्बोधनार्थम्।
उद्दीप्तमदनां ग्रामणीसुतां वैद्यव्याजेनोपगन्तुमयमवसर इति कामुकं श्रावयन्ती दूती ग्रामणीसुताया: पीडया निजखेदं प्रदर्शयति-
मन्दमपि हलिकनन्दन इह दग्धग्रामके न जानाति।
निर्वैद्ये कं ब्रूमो गृहपतितनया विपद्यते चाद्य।।१००।।१
निर्वैद्ये वैद्यरहिते, अत एव दग्धग्रामके निन्दनीयेऽस्मिन् ग्रामहतके। अतिसन्तापपीडिता गृहपतितनया ग्रामनायकस्य सुता अद्य विपद्यते। हलिकनन्दनो गृहजामातातत्पतिश्च मन्दमपि स्वल्पमपि न जानाति, अज्ञ इत्यर्थ:। इदानीं कं ब्रूम: कस्मै कथयामीत्यर्थ:। हलिकनन्दनपदेन 'तत्पतिस्तु हलिकस्य पुत्रो हालिक: पशुकल्प एव। अत एव द्वितीयग्रामादागतो वैद्यो भूत्वा मदनतप्तायास्तस्या: साधीयसीं चिकित्सां कुरु’ इति कामुकं प्रति व्यज्यते। गृहपतितनयापदेन- 'गृहे तस्या: प्रचुरं प्रभुत्वम्, अत एव चिकित्समानस्य ते न कस्मिन्नपि कार्ये बाधा भवेत्’ इति सूच्यते। 'कापि गृहपतिसुताहलिकसुतानुरागं विरहवैधुर्यं च प्रतिपादयन्ती हलिकसुतोपा-लम्भपुरस्सरमाह’ इति गङ्गाधर:। 'हलिकपुत्रनिमित्तममन्दपञ्चबाणबाणप्रहारजर्जरितहृदया ग्रामणीसुता विपद्यते। हलिकपुत्रश्च पशुकल्प:। अत: कस्मै कथयामीत्यर्थ:’ इति तट्टीका।
शतकसमाप्तिमाह-
रसिकजनहृदयदयिते कविवत्सलकुशलसुकविपरिरचिते।
सप्तशतके समाप्तं षष्ठं गाथाशतकमेतत्।।१०१।।२
(इति षष्ठं शतकम्)
१. मन्दं पि ण आणइ हलिअणन्दणो इह हि डड्ढगामम्मि।
गहवइसुआ विवज्जइ अवेज्जए कस्स साहामो।।१००।।
[मन्दमपि न जानाति हलिकनन्दन इह हि दग्धग्रामे।
गृहपतिसुता विपद्यतेऽवैद्यके कस्य कथयाम:।।]
२. रसिअजणहिअअदइए कइवच्छलपमुहसुकइणिम्मइए।
सत्तसअम्मि समत्तं सट्ठं गाहासहं एअम्।।१०१।।
[रसिकजनहृदयदयिते कविवत्सलप्रमुखसुकविनिर्मिते।
सप्तशतके समाप्तं षष्ठं गाथाशतकमेतत्।।