सप्तमशतकम्
पशुदम्पत्योरप्येवमन्योऽन्यप्रणयो भवति, न पुनस्तवेति मन्दप्रणयं नायकमुपालभमाना नायिकासखी साकूतमन्यापदेशेनाह-
अन्योऽन्यरक्षणाय प्रहारसम्मुखकुरङ्गमिथुने हि।
व्याधेन मन्युविगलद्वाष्पविधौतं धनुर्मुक्तम्।।१।।१
परस्पररक्षणनिमित्तं प्रहारसम्मुखे कुरङ्गमिथुने, मन्युना कारुण्येन विगलन् यो वाष्पस्तेन विधौतं धनुर्व्याधेन त्यक्तम्। 'मन्युर्दैन्ये क्रतौ क्रुधि’ इति हैम:। अयं भाव:- व्याधेन मृगद्वन्द्वं प्रति प्रहाराय यदा धनुषि बाण: सन्धातुमाहितस्तदा परस्परस्य रक्षणार्थं मृगद्वन्द्वे पर्यायेण लक्ष्यसम्मुखे सति [यदा मृगे प्रहाराय सन्धानं कृतं तदा तद्रक्षणनिमित्तं मृगी प्रहारस्य सम्मुखं स्थिताऽभूत्, यदा स्वयं सम्मुखमागतायां मृग्यां लक्ष्यं बद्धं तदा तद्रक्षणार्थं मृग: प्रहारस्य सम्मुखमवातिष्ठत इति] एवमन्योऽन्यानुरागमवलोक्योत्पन्नकारुण्येन व्याधेन धनुरेव त्यक्तमिति। आर्द्रमिति स्थाने विधौतमित्यनेन- कारुण्यजनितेनाश्रुणा तत्सिक्तमेव न किन्तु पशुवधपापपङ्किलं तद्धनुस्तद्दिने क्षालितकल्मषतया पवित्रमिवाभूत् इति ध्वन्यते। मुक्तमिति पदेन तद्दिनादारभ्य पशुवधपातकितमपि संसारे तत्कर्मतो मुक्तिं गतमभूदिति धनुष उत्कर्ष: सूच्यते। 'नायकमुपा-लब्धुं दूती आह’ इति गङ्गाधर:।
नायिकाया विरहविकलतां प्रदर्श्य मन्दस्नेहं नायकं तदुपगमाय त्वरयन्ती दूती आह-
सुभग विलम्बस्व मनाग् भणामि कस्याश्चिदर्थमलमथवा। न भणिष्याम्यविचारितकार्यसमारम्भकारिणी म्रियताम्।।२।।२
१. एक्कक्कमपरिरक्खणपहारसँमुहे कुरङ्गमिहुणम्मि।
वाहेण मण्णुविअलन्तवाहधोअं धणुं मुक्कम्।।१।।
[अन्योऽन्यपरिरक्षणप्रहारसम्मुखे कुरङ्गमिथुने।
व्याधेन मन्युविगलद्वाष्पधौतं धनुर्मुक्तम्।।]
२. ता सुहअ विलम्ब खणं भणामि कीअ वि कएण अलमह वा।
अविआरिअकज्जारम्भआरिणी मरउ ण भणिस्सम्।।२।।
[तत्सुभग विलम्बस्व क्षणं भणामि कस्या अपि कृतेनालमथ वा। अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि।।]
क्षणं विलम्बस्व तिष्ठेत्यर्थ:। कस्याश्चिदर्थमहं भणामि, मम स्वार्थ: कश्चिन्न। स्वार्थी तु कदाचन मृषापि भाषेत, परमहं तु द्वितीयस्या: कृते वदाम्यत एव तत्रावश्यं प्रत्यय: कर्तव्य इति भाव:। अथवा लअम्, न भणिष्यामीत्यर्थ:। अविचारितकार्यारम्भिणी सा (यस्या: कृते अहं वक्तुमिच्छामि) म्रियताम्, अहं तत्कृते किमपि न भणिष्यामि। तिष्ठेति स्थाने 'विलम्बस्व’ इत्युक्त्या 'अन्यासक्तस्य ते साम्प्रतमपि तत्कोपभयेन शीघ्रगमनमावश्यकम्, परं परप्राणरक्षण-पुण्यार्थं क्षणं विलम्बमेव सहस्व’ इति गूढमाक्षेपो ध्वन्यते। विचारणात्स्वयमुक्तस्यापि प्रतिषेधरूपेण प्रथमाक्षेपालङ्कारेण- 'त्वादृशस्य अस्थिरप्रणयस्य प्रणयपरिणाममविचार्यैव यया तुभ्यमात्मा समर्पित:, तस्या मरणमेव परिणामे भावि। ततो म्रियमाणाया: कृते को वा तवोपकारभारं गृह्णीयात्’ इति अस्थिरस्नेहतोपालम्भो ध्वन्यते। सुभगेत्यामन्त्रणेन- 'बह्व्यस्त्वय्यनुरक्ता:, अत एव निजसौन्दर्यमूलकसौभाग्येनैव तव सोऽयं गर्व:’ इति व्यज्यते। सत्यं प्रेमाणमपरिचिन्वता त्वया सह प्रणयं कुर्वत्यास्तस्या: कामं न भवेत्पश्चात्ताप:, परं मादृशानां त्ववश्यमस्ति। ततश्चेदानीं स्त्रीवधपातकभयादेव त्वरितं तदन्तिके गन्तव्यमिति चरमं व्यङ्ग्यम्।
पूर्वं बद्धप्रणयेन हलिकसुतेन सम्प्रति प्रतिरुद्धप्रेमव्यवहारा काचित्तस्यान्यत्रानुरागं सूचयन्ती सेर्ष्यं सखीमाह-
नवभोगिनीप्रदत्तप्रहेणकास्वादलम्पटो ह्यधुना।
अन्यप्रहेणकानां हलिकसुतश्छीति वहति वच:।।३।।१
नवीनया भोगिन्या ग्रामव्यापारिकस्त्रिया दत्तानां प्रहेणकानां मोदकादिवायनकानामास्वादे लम्पटो लोलुप: (दु:शिक्षित:) हलिकपुत्र: अन्यप्रहेणकानां कृते इदानीं 'छी’ इति वचो वहति ददाति। 'छी’ इति सनासासङ्कोचं निन्दानुकरणं लोके प्रसिद्धम्। 'प्रहेणकं वायनकम्’ इति हारावली। 'लाहिणा’ इति जयपुरभाषा। हलिकसुतपदेन- 'हालिकप्रायोऽयं नवीनतया लोभनीयायां भोगिन्यामनुरक्तत्वेन गर्विष्ठ: साम्प्रतमनुरक्तास्वप्यस्मादृशीषु विरज्यति’ इति सूच्यते। व्यापारिकपत्नीपरमपि 'भोगिनी’ दमनुरणनविधया- 'सा भोगलम्पटेति तस्यां भोगरसिकोऽय-मनुरक्त:’ इति सूचयति। 'पूर्वमस्मास्वनुरक्ततया त्वं यत्किञ्चिदप्यस्माद्दत्तं वस्तु बह्वमन्यथा:। भोगिनीलम्पटस्त्वं न तादृश:’ इति अधुनापदसहकारेण ध्वन्यते। 'छीवोल्लअम्’ इत्यस्य छीवोल्लणं मुखविकार इत्यर्थ इति कुलवालदेव:। एतदनुसारं 'हलिकसुतश्छीति सङ्कुचति नासाम्’ इति पाठ: साधीयान् स्यात्।
१. भोइणिदिण्णपहेणअचक्खिअदुस्सिक्खिओ हलिअउत्तो।
एत्ताहे अण्णपहेणआणँ छीओल्लअं देई।।३।।
[भोगिनीदत्तप्रहेणकास्वादनदु:शिक्षितो हलिकपुत्र:।
इदानीमन्यप्रहेणकानां छी इति वचनं ददाति।।]
वने विहरन्तीं प्रयेसीं प्रातरम्भोजशोभावर्णनेन रमयन्कश्चिन्नागरिक आह-
प्रत्यूषमयूखावलिपरिमलनसमुच्छ्वसद्दलपुटानाम्।
जितलोकश्री रजनीविरतौ किल महमहायतेऽब्जानाम्।।४।।१
प्रत्यूषे या (आदित्यस्य) मयूखावलि: तस्या: परिमलनेन सम्बन्धेन प्रस्फुटत्पत्रपुटानाम् अब्जानाम्। जिता: लोका: यया एतादृशी श्री:, वशीकृतलोकेति यावत्। रजनीविरामे महमहायते सौरमेण सर्वत्र व्याप्नोतीत्यर्थ:। 'जिअलोअसिरी’ इत्यस्य जीवलोकश्री: (जीवलोके या शोभा) इति वार्थ:। अतिसौरभस्य 'महक’ इति व्यपदेशो हिन्दीभाषायामपि प्रसिद्ध:। 'पञ्चूह’ शब्द आदित्यवाचको देशीति कश्चित्। 'अज्ञातरजनिविरामां क्रीडाप्रसक्तां सखीं प्रबोधयितुं कापि प्रभातं वर्णयति’ इति गङ्गाधर:।
ईर्ष्यालूनां सपत्नीनां मध्ये नायिकाया: सौभाग्यं व्याजेन सूचयन्ती काचित्प्रौढा सखी सपरिहासमाह-
वातोद्वेल्लितवस्त्रे स्थगय स्फुटदन्तमण्डलं जघनम्।
चटुकारकं प्रियं मा जनपरिहास्यं कलय पुत्रि।।५।।२
वातेन उद्वेल्लितवस्र उद्वर्तिताधोवसने! 'साउलीति’ ववाचको देशी। स्थगय आच्छादय। जनपरिहास्यं जनैरुपहसनीयं मा कलय मा कुरु। चाटुपरस्ते प्रियतम: प्रेमातिश-याज्जघने यच्चुम्बनदशनादिकं करोति तस्य सर्वाग्रे प्रकटनेन तं परिहासास्पदं मा कुर्वित्याशय:। 'भवती: सम्भोगमात्रेऽपि परिहरति प्रियतम:। इमां तु केवलं चाटुबुद्धधैव एवंविधेष्वपि स्थानेषु चुम्बति, किं पुनर्मनसिजोन्मादमत्त:’ इति सपत्नी: प्रति व्यज्यते।
१. पच्चूसमऊहावलिपरिमलणसमूससन्तवत्ताणम्।
कमलाणँ रअणिविरमे जिअलोअसिरी महम्महइ।।४।।
[प्रत्यूषमयूखावलिपरिमलनसमुच्छ्वसत्पत्राणाम्।
कमलानां रजनिविरामे जितलोकश्रीर्महमहायते।।]
२. वाउव्वेल्लिअसाउलि थएसु फुडदन्तमण्डलं जहणम्।
चडुआरअं पइं मा हु पुत्ति जणहासिअं कुणसु।।५।।
[वातोद्वेल्लितवस्त्रे स्थगय स्फुटदन्तमण्डलं जघनम्।
चटुकारकं पतिं मा खलु पुत्रि जनहास्यं कुरु।।]
नाधुना सेयं पूर्ववद्विलासपरेति कामुकजनान्सूचयन्ती दूती आह-
दत्तो विस्रब्धहसितपरिक्रमाणां जलाञ्जलि: प्रथमम्।
पश्चाद्वध्वा मज्जन् कटुम्बभारो गृहीतो हि।।६।।
परिक्रम: सविलासं चङ्क्रमणम्। प्राकृते 'परिसक्किअम्’ परिक्रमणम्। मज्जन् अवनतिं गच्छन्। कुटुम्बभारानुरोधाद्विस्रब्धहसितादिरूपं चाञ्चल्यं परित्यज्य साम्प्रतं सा प्रौढचर्यामनुवर्तत इत्यर्थ:। 'वध्वा’ इति पदेन-श्वश्रूप्रभृतिगुरुजनेषु वर्तमानेष्वपि कुटुम्बस्यावनतिं वीक्ष्य सैव सम्प्रति गृहस्य कर्त्री जातेति नात्र युष्माकमवकाश इति कामिजनान्प्रत्यभिव्यज्यते। जलाञ्जलिपदेन- दत्तजलाञ्जलिर्मृतपुरुषो यथा न पुनर्दृष्टिगोचरो भवति तथा सविभ्रमहासादयो विलासा न पुनर्भाविन इति सूच्यते।
परिहासव्याजेन नायिकाया: सौन्दर्यं सूचयन्ती सखी आह-
यास्यसि तस्य समीपे सुन्दरि मोत्ताम्य वर्धतां चन्द्र:।
क: प्रेक्षते मुखं ते ज्योत्स्नायां दुग्धमिव दुग्धे।।७।।२
मा उत्ताम्य, विलम्बेन मा खिद्यस्व। मा त्वरस्वेति यावत्। दुग्धे मिश्रितं दुग्धं यथा न पृथक् परिचीयते तथा तव मुखं चन्द्रिकात: पृथक् न परिचीयत इत्यर्थ:। वर्धतां चन्द्र इत्यनेन गगनमध्यमलङ्कुर्वत: पूर्णचन्द्रस्य चन्द्रिकानुकारिणी ते मुखकान्तिरिति द्योत्यते। अत्र हि वाच्येनोपमामीलितसङ्करेण चन्द्रिकावदवदातस्य नायिकामुखस्य सौन्दर्यातिशय: 'सुन्दरि’ इति सम्बोधनराहकासत्सुतरां सूच्यते। अभिसारिकाविषये सेयमुदाहृता गाथा सरस्वतीकण्ठाभरणे।
१. वीसत्थहसिअपरिसक्किआणँ पढमं जलञ्जली दिण्णो।
पच्छा बहूअ गहिओ कुडम्बभारो णिमज्जन्तो।।६।।
[विस्रब्धहसितपरिक्रमाणां प्रथमं जलाञ्जलिर्दत्त:।
पश्चाद्वध्वा गृहीत: कुटुम्बभारो निमज्जन्।।]
२. गम्मिहिसि तस्स पासं सुन्दरि मा तुरअ वड्ढउ मिअङ्को।
दुद्धे दुद्धं मिअ चन्दिआइ को पेच्छइ मुहं दे।।७।।
[गमिष्यसि तस्य पार्श्वे सुन्दरि मा त्वरस्व वर्धतां मृगाङ्क:।
दुग्धे दुग्धमिव चन्द्रिकायां क: प्रेक्षते मुखं ते।।]
ग्रामणीतनयं प्रति प्रवर्धमानं स्वानुरागं सूचयन्ती काचित्समानशीलां मातुलानीमाह-
परलोकव्यसनिजनो मातुलि यदि ताम्यतीह ताम्यतु स:।
वदने दृष्टिर्वलते तदपि वलाद् ग्रामणीसूनो:।।८।।
ग्रामणीसूनोर्वदने दृष्टिर्बलात् बलते, अवरुध्यमानापि इतस्तत: परिभ्रम्य विवशा पततीत्यर्थ:। 'व्यसनि’ पदेन- व्यसनी यथा लाभालाभावविचार्यैव रागान्धस्तत्रासज्यति तथा परस्परकटाक्षनिरीक्षणाद्यैहलौकिकसुखलाभमनिरीक्ष्यैव परलोकार्थं मुधा व्याग्रोऽयं लोक:, तथा च परलोकानपेक्षेव मे तस्मिन्नासक्तिरिति ध्वन्यते।
नायिकाया: प्रणयातिशयं प्रतिपादयन्तीं दूती नायकं प्रत्याह-
गृहमिव वित्तविरहितं निर्झरकुहरं च सलिलशून्यमिव।
तद्वदनं तव विरहे गोधनरहितं हि गोष्ठमिव।।९।।२
अस्तीति शेष:। अत एव न शोभत इति भाव:। तद्वदनं तस्या: (नायिकाया:) वदनम्। 'कुहर’ पदेन- जलप्रवाहाभावे निर्झरावकाश: केवलं भयानको गर्त एवेति सूच्यते। तथा च-गृहादिषु यथा वित्ताद्येव सर्वस्वम्। वित्तादीनामभावे तेषां गृहत्वादिकमेव न सिध्यति। तथा त्वमेव तस्या: सर्वस्वमिति प्रणयातिशयो ध्वन्यते।
लज्जापरतन्त्रतयैव सा निजमनोभावं न प्रकाशयितुं प्रभवति, न पुनरनुरागाभावेनेति नायकमुत्कण्ठयन्ती दूती आह-
१. जइ जूरइ जूरउ णाम मामि परलोअवसणिओ लोओ।
तह वि बला गामणिणन्दणस्स वअणे वलइ दिट्ठी।।८।।
[यदि खिद्यते खिद्यतां नाम मातुलानि परलोकव्यसनिको लोक:।
तथापि चलाद्ग्रामणीनन्दनस्य वदने वलते दृष्टि:।।]
२. गेहं व वित्तरहिअं णिज्झरकुहरं व सलिलसुण्णविअम्।
गोहणरहिअं गोट्ठं व तीअ वअणं तुह विओए।।९।।
[गृहमिव वित्तरहितं निर्झरकुहरमिव सलिलशून्यम्।
गोधनरहितं गोष्ठमिव तस्या वदनं तव वियोगे।।]
लज्जालोरेतस्या ह्यनुरागो दर्शनेन तव जनित:।
दुर्गतसुमनोरथ इव याति हृदय एव परिणामम्।।१०।।१
दरिद्रस्य (सु) उत्तमोऽपि मनोरथो धनाभावाद्यथा हृदय एव अवसानं गच्छति तथा तव दर्शनेन जनितो लज्जापरवशाया एतस्या अनुरागो हृदय एव पूर्णतां प्राप्नोति, लज्जावशात्तं बहिर्न प्रकटयतीत्यर्थ:। तव दर्शनेन जनित उत्पादित:। पूर्वमस्या हृदि त्वद्विषयकोऽनुरागो नासीत्, सा त्वां यथैव दृष्टवती तथैव त्वद्दर्शनेन सोऽनुराग उत्पादित:। एवं च- त्वद्दर्शनमात्रेणैव सा यदा त्वय्यनुरक्तहृदयाऽभवत्तदा त्वत्समागमसुखस्य तु का कथेति नायकप्रोत्साहनं ध्वन्यते। अवर्तमानतया परोक्षाया अपि नायिकाया: कृते 'तस्या:’ इत्यनुपादाय 'एतस्या’ इति कथनेन- दृढानुरागा सा हृदयेन सदैव त्वामनुवर्तमानाऽस्तीत्यत एव 'त्वया सह प्रत्यक्षमिवोपस्थितां तां पश्यामि’ इति तदनुरागातिशयो ध्वनित:। दुर्गतमनोरथोपमया-दुर्गतदशां गतस्य 'एवं चेद्भवेत्तर्हि एवमहं कुर्याम्’ इत्याशया सुतरां हृदयपरितोषकसाभिलाषमात्रं यथा भवति तथैव लज्जालोरस्या-स्त्वत्समागमाद्याशाजनकतया सुतरामान्तरसन्तोषकोऽनुरागो हृदय एव सञ्चरतीति समागमो-त्कण्ठातिशयो ध्वन्यते। दरिद्रपदस्थाने 'दुर्गत’ पदेन-य: पूर्वं धनिकोऽपि देवात् (दु:) दुष्टां दशां गत:, स पूर्वमनुभूतवैभवोत्कर्षतया उच्चानभिलाषान्करोति, धनाभावाच्च ते हृदय एव विलीयन्ते, इति पूर्वानुभूतविभवानन्दस्य तस्य दु:खातिशयो ध्वन्यते। दरिद्रस्य तु तावदुन्नता विचारा एव नोद्भवन्ति, अत एव न तस्य तद्वैफल्यदु:खमित्याकूतम्। ततश्च-'एवमनुरा-गोत्कण्ठितहृदयामपि कुलीनतया लज्जालुमिमां किं न बहु मन्यसे’ इति नायकप्रोत्साहनं ध्वन्यते।
किमेवं कृशासीति प्रवासादागत्य सहासं पृच्छन्तमन्यानुरक्तं कान्तं प्रति विहरवे- दनाक्लिष्टहृदयाया नायिकाया गूढमन्युसूचकं वचनचातुर्यं काचित्सहचरीमाह-
यत्पृच्छसि विहसन्मां तनूयते या कृते नु किं ते सा?।
'प्रकृतिरसौ मे ग्रीष्मे’ हन्त भणित्वैवमवरुदिता।।११।।२
१. तुह दंसणेण जणिओ इमीअ लज्जाउलाइ अणुराओ।
दुग्गअमणोरहो विअ हिअअ च्चिअ जाइ परिणामम्।।१०।।
[तव दर्शनेन जनितोऽस्या लज्जालुकाया अनुराग:।
दुर्गतमनोरथ इव हृदय एव याति परिणामम्।।]
२. जं तणुआअइ सा तुह कएण किं जेण पुच्छसि हसन्तो।
अह गिम्हे मह पअई एव्वं भणिऊण ओरुण्णा।।११।।
[या तनूयते सा तव कृतेन किं येन पृच्छसि हसन्।
असौ ग्रीष्मे मम प्रकृतिरिति भणित्वाऽवरुदिता।।]
या स्त्री दुर्बला भवति सा किं नु तव कृते त्वन्निमित्तम्? यन्मां दौर्बल्यकारणं सहासं पृच्छसि। या स्त्री दुर्बला भवति सा मन्निमित्तमेवेति तव हृदयेऽभिमान:, परं नेदं तथ्यमिति भाव:। तर्हि कथं कृशता, तत्राह यदियं कृशता असौ ग्रीष्मे मम स्वभाव इत्येवं भणित्वा अवरुरोद। नायकविरहनिमित्तस्यापि कार्श्यस्यैवमपलापेन 'जानन्नपि त्वं कौतुकादिव नि:क्लेशं प्रत्युत सहासं मां पृच्छसि, तर्हि किं ते तत्कथनेन’ इति गूढकोपोऽभिव्यज्यते। 'तनूयते’ इत्याचारार्थकक्यङा त्वं स्वयं कपटीति मनसि मन्यसे यद् वास्तवे तथा असत्यपि मत्प्रेमप्रदर्शनार्थम् उपरित: कृशेव आचरति इति, परमिदं दौर्बल्यमेव त्वत्कारणकं नास्ति यस्याभिनय आवश्यको भवेत्’ इति गूढकोपोपालम्भो व्यज्यते। 'या दुर्बला भवति सा किं सर्वापि त्वन्निमित्तम्’ इति कथनेन 'बह्वीषु तव प्रणय:, अत एव त्वद्विरहे तासां दौबल्येन त्वया ममापि दौर्बल्यं त्वत्कारणकमेवानुमितमेवं च बहुत्र विभक्तप्रणयत्वादेव निरनुक्रोशतया साम्प्रतमपि सहास्योऽसि’ इति गूढोपालम्भो ध्वन्यते। भणित्वा न तु सम्भाष्य, तथा च रूक्षकथनेन कोपो व्यज्यते। विरहवेदनासहनेन प्रतीक्षणौत्सुक्यमर्षणेन च तनूकृतशरीरा पूर्वमेव क्लिष्टहृदयाभूत्, इदानीमेवंविधप्रश्नेन उदितस्य कोपस्य सुभृशं गोपनेऽपि स दु:खावेगो न सह्योऽभवदिति बलाद्रोदनमुदभवदिति नायिकाया हृदयमार्दवमभिव्यज्यते। 'एव्वम्’ पदस्य 'इति’ गङ्गाधरकृता छाया तु विच्छायैव। 'अह’ इति 'असौ’ अर्थे देशी।
अविश्रान्तं प्रियपरिरम्भमभिलषन्ती नितान्तं प्रणयपथमनुयान्तं कान्तं प्रत्यन्यापदेशवि-धयाह-
वर्णक्रमरहितस्याऽप्येष गुणश्चित्रकर्मणो ह्येव।
मुञ्चति न निमिषमपि यत्प्रियो जनो गाढमुपगूढ:।।१२।।१
हरितपीतादिवर्णविन्यासरहितस्यापि, अर्थात् रङ्गविन्यासमकृत्वा केवलं मसीरेखा-भिरेवोत्कीर्णस्यापि। चित्रकर्मण एव आलेख्यस्यैव केवलमयं गुणो यत् प्रियया गाढमुपगूढ: प्रिय: प्रियां निमेषमात्रमपि न मुञ्चति। चित्रे लिखित: प्रिययोपगूढ: प्रिय: प्रियां क्षमपि न मुञ्चतीत्याशय:। प्रियो न मुञ्चतीत्युक्त्या- अहं तु मानसा न मुञ्चाम्येव परं भवानपि मां न मुञ्चेदिति ममाभिलाष इति सार्वदिकगाढप्रणयार्थं प्रार्थनमभिव्यज्यते। चित्रकर्मण एव गुणस्तवनेन अयमभिलाषश्चित्रकर्मणैव पूरणीयो न भूत्वा प्रत्यक्षमपि परिणतो भवेदिति प्रियं प्रति गूढमाकूत-
१. वण्णक्कमरहिअस्स वि एस गुणो णवरि चित्तकम्मस्स।
णिमिसं पि जं ण मुञ्चइ पिओ जणो गाढमुवऊढो।।१२।।
[वर्णक्रमरहितस्याऽप्येष गुण: केवलं चित्रकर्मण:।
निमिषमपि यन्न मुञ्चति प्रियो जनो गाढमुपगूढ:।।]
मभिव्यज्यते। 'यद्वा वर्णक्रमो गुणविशुद्धिपरम्परा तद्रहितस्य। चित्रस्य विचित्रस्य कर्मण:। धर्माधर्मादिरूपस्येत्यर्थ:। आत्मा धर्माधर्मादिकं क्षणमपि न मुञ्चतीत्यर्थ:। केचित्तु ब्राह्मणादिवर्णक्रमरहितस्यापि 'चित्तअम्मणो’ चित्तजन्मनो मन्मथस्यायं कोऽपि गुणो येन प्रिय: प्रियां क्षणमपि न त्यजतीत्यर्थ इति व्याचक्षते’’ इति पूर्वार्धे अस्पष्टप्राया गङ्गाधरटीका।
दाक्षिण्येनोपभोग्यां नवोढां कश्चिदविदग्धो रमयतीत्यन्यापदेशविधया निजसहचरीं काचिदाह-
अविभक्तसन्धिबन्धं प्रथमरसोद्भेदपानलोभिष्ठ:।
नोद्वेल्लयितुं बोधति भनक्ति कलिकामुखं भ्रमर:।।१३।।१
सर्वप्रथमो यो रसोद्भेदो मकरन्दोद्गमस्तत्पाने अतिलुब्धो भ्रमर:। न विभक्त: पत्रिकाणां सन्धिबन्धो यस्मिन्नीदृशं कुसुमकलिकाया मुखम् उद्वेल्लयितुं विकासयितुं तु न जानाति किन्तु तद्भनक्ति सरभसप्रवृत्त्या तत्खण्डयतीत्यर्थ:। विकासाभावात्पत्रिकाणामपि ('पँखडी’) यत्र सन्धिविभागो न जातस्तादृशं कलिकामुखं रसपानलालसाव्यग्रो मधुप: कदर्थयतीत्यर्थ:। रसपानलोभिष्ठ इति वक्तव्ये रसोद्भेदपानलोभिष्ठ इत्युक्त्या प्रथममप्रथमं यो रसोद्भेदस्तत्समय एव रसपाने लुब्ध:, अर्थात् उद्भिद्यमानावस्थायामेव रसपाने लोभस्तथा च रसस्य सद्यस्कतया लोभनीयतातिशयो व्यज्यते। अनेन च कलिकामधुपवृत्तान्तेन-'अन्त:सन्धीनां यत्र विभागो न जातस्तादृशं नवोढनायिकाया: गोप्यमङ्गं रत्यनुकूलतायामभिमुखीकर्तुं तु न जानाति किन्तु प्रथमरतिलालसान्ध: केवलं पीडयतीति नायकवृतान्तो व्यज्यते। विकासयितुं न जानातीत्युक्त्या- 'रति विदग्धा: नवोढां बालामपि वैदग्ध्योपायैरपरिखेदरतियोग्यां विदधते’ इति नायकवैदग्ध्यं सूच्यते। 'उद्वेल्लितुं विकासयितुम्’ इति गङ्गाधर:। चलनार्थकस्याऽणिजन्तस्य केवलं 'वेल्ल’ धातोरयमर्थो दुरुपपाद एव।
विपरीतरताभिलाषुक: कश्चित्प्रियतमामुत्साहयन्नाह-
१. अविहत्तसंधिबन्धं पढमरसुब्भेअपाणलोहिल्लो।
उव्वेलिउं ण आणह खण्डइ कलिआमुहं भमरो।।१३।।
[अविभक्तसन्धिबन्धं प्रथमरसोद्भेदपानलुब्ध:।
उद्वेल्लितुं न जानाति खण्डयति कलिकामुखं भ्रमर:।।]
दरवेपनोरुयुगलासु मुकुलिताक्षीषु लुलितचिकुरासु।
पुरुषायितासु काम: प्रियासु सज्जायुधो वसति।।१४।।१
उरुयुग एव सकलभरसमर्पणात्- दरवेपनम् ईषत्कम्पनशीलम् ऊरुयुगं यासां तासु। वेपनमित्यत्र नन्द्यादित्वाल्ल्यु:। सज्जायुधपदेन-मोहन-वशीकरणादिकामशराणां यत्फलं तदनुपदमेव भवतीति सूच्यते। तिष्ठति-विरहतीत्याद्यनुपादाय 'वसति’ पदेन-गृहबुद्ध्या निर्वि-शङ्कमव्यभिचरितं चावस्थितिर्व्यज्यते। 'प्रिया’ इत्युक्त्या 'एवंविधरतै: प्रियतमस्य हृदि सुतरां प्रीतिर्भवति, तथा च त्वं यदि मत्प्रीतिं कामयसे तर्हि स्वीकुरु मत्प्रार्थनामित्यात्माभिलाषो ध्वन्यते। पुरुषायितस्योदाहरणे परिगृहीतेयं गाथा सरस्वतीकण्ठाभरणे (५ परि.)।
'मम सुखानुकूलं नाचरसि’ इत्याद्यन्यनायिकासक्ततया पदे पदे उपालभमानं प्रियतमं प्रति काचित्साकूतमाह-
यद्यत्ते न हि सुखयति तत्तन्न करोमि यन्ममायत्तम्।
सुखयामि यदहमेव न सुभग नु तत्किं ममायत्तम्।।१५।।२
अहमेव यत् यदि न सुखयामि सुखमुत्पादयामि हे सुभग! तत्किं नु ममाधीनम्? अपि तु नेत्यर्थ:। सुभगेत्यामन्त्रणेन 'अन्यनायिकाप्रीतिमुपलभ्य सौभाग्यगर्वितस्य ते सम्प्रत्यहमेव चक्षु:शूलायिता’ इत्युपालम्भो ध्वन्यते। ममाऽनधीनमित्युक्त्या-सम्प्रति नाहं तव प्रीतिकारिणी, ततोऽपि दैवपरतन्त्रा दु:खं जीवामीति गूढकोपोऽभिव्यज्यते।
दर्शनादिषु लज्जापरतन्त्रामपि मां कथालापस्ते सुखयतीति नायकं समुत्साहयन्ती काचिल्लज्जास्वभावमाह-
१. दरवेविरोरुजुअलासु मउलिअच्छीसु लुलिअचिहुरासु।
पुरिसाइरीसु कामो पिआसु सज्जाउहो वसइ।।१४।।
[ईषद्वेपनशीलोरुयुगलासु मुकुलिताक्षीषु लुलितचिकुरासु।
पुरुषायितशीलासु काम: प्रियासु सज्जायुधो वसति।।]
२. जं जं ते ण सुहाअइ तं तं ण करेमि जं ममाअत्तम्।
अहअं चिअ जं ण सुहामि सुहअ तं किं ममाअत्तम्।।१५।।
[यद्यत्ते न सुखायते तत्तन्न करोमि यन्ममायत्तम्।
अहमेव यन्न सुखाये सुभग तत्किं ममायत्तम्।।]
व्यापारविसंवादं सकलाङ्गानां करोति हतलज्जा।
गुरुपुरतोऽपि श्रवसो: पुनर्नियोगं न निरुणद्धि।।१६।।१
हतेयं लज्जा नेत्रादिसकलावयवानां व्यापारविघातं करोति। किन्तु गुरुजनानां सन्निधावपि श्रवसो: कर्णयोर्नियोगं व्यापारं न निरुणद्धि। गुरुजनानां लज्जावशाद्भवन्तं विलोकयितुमपार-यन्त्यपि त्वत्कथाश्रवणे साभिलाषा तिष्ठामीत्याशय:। 'त्वदनुरक्ताया: पश्य मे हार्दिकं प्रणयम्’ इति नायकं प्रति प्रोत्साहनमभिव्यज्यते। 'त्वदासक्ततया नेत्रादिव्यापार: सर्व एव विसंवादं प्राप्त:। केवलं श्वशुरादिसन्निधावपि त्वत्कथाश्रवणे श्रवणौ व्यापारयतीति नायकं प्रति दूतीवचन-मिदमिति कश्चित्।
दयितसमागमनिमित्तमतितमामाश्वासिता विरहवेदनाव्यथिता प्रोषितभर्तृका काचित्सखी: प्रत्याह-
किं भणथ मां नु सख्यो म्रियस्व मा द्रक्ष्यते स जीवन्त्या।
कार्यालाप: सोऽयं भवति पुन: स्नेहमार्गो न।।१७।।२
भवतीनामाश्वासनया दयितविरहेऽपि यदिदं दु:खदवदग्धं जीवनमतिनीयते सोऽयं केवलं कार्यपर्यालोचनस्य पन्था:। ग्रहिल: स्नेहस्तु कार्यं न पर्यालोचयतीति भाव:। तथा च-स्नेहमार्गविमुखामपि कार्यदृष्ट्या जीवितुं धारयन्तीं स्वार्थिनीं धिङ् मामित्यात्मावधीरणया दयितालम्बनो रतिप्रकर्ष: प्रद्योत्यते। जीवन्त्या एव द्रक्ष्यते अनेन- 'मरणपर्यन्तमपि दयितस्यैवैकान्तभावनया मरणोत्तरं लोकान्तरे जन्मान्तरे वा तु सोऽवश्यं त्वया द्रष्टुमिष्ट एव परं 'मोत्ताम्य, आगतप्रायस्ते प्रेयान्, जीवन्ती एव तं द्रक्ष्यसि’ इति जन्मजन्मान्तरानुवर्ती दृढ:
१. वावारविसँवाअं सअलावअवाणँ कुणइ हअलज्जा।
सवणाणँ उणो गुरुसंणिहे वि ण णिरुञ्झइ णिओअम्।।१६।।
[व्यापारविसंवादं सकलावयवानां करोति हतलज्जा।
श्रवणयो: पुनर्गुरुसन्निधावपि न निरुणद्धि नियोगम्।।]
२. किं भणह मं सहीओ मा मर दीसिहइ सो जिअन्तीए।
कज्जालाओ एसो सिणेहमग्गो उण ण होइ।।१७।।
[किं भणथ मां सख्यो मां म्रियस्व द्रक्ष्यते स जीवन्त्या।
कार्यालाप एष स्नेहमार्ग: पुनर्न भवति।।]
स्नेहोऽभिव्यज्यते। 'द्रक्ष्यते’ इत्यनेन विरहोत्तरं गृहागमने सङ्गमादि न वाञ्छित्वा दर्शनमात्रलाल-सया प्रियप्रेमातिशय: प्रकाश्यते।
दृढप्रणयामपि प्रेयसीमबहुमन्यमानं नायकमुपालभमाना नायिकासखी साकूतमन्यापदेशेनाह-
एकाकिमृगो मृग्या तथा हि दृष्ट: सतृष्णया दृष्ट्या।
प्रियजानेर्विनिपतितं व्याधस्य धनुर्यथा हस्तात्।।१८।।१
एकाकी स्वविरहित:। प्रियजाने: प्रिया जाया यस्य तादृशस्य व्याधस्य हस्तात्। अयं भाव:- मृगमिथुनं जिघांसतो व्याधस्य बाणलक्ष्यीभूतया मृग्या स्वमरणभयमप्यविगणय्य मृगस्तथा प्रेमपूर्णया सतृष्णया दृष्ट्या विलाकितो यथा स्वप्रणयिनीं स्मरतो व्याधस्य हस्ताद्धनु: स्वयमेव दयावशान्निपतितम्। मरणसमयेऽपि स्वचिन्तामकृत्वा प्रियतमैकचित्ता: स्त्रियो भवन्त्यहो स्त्रीजातेर्दृढप्रणयतेतिमृगीविलोकनेन स्वजायास्मरणात् व्याधस्य स्नेहदयोदयो जात इति भाव:। अतिपामरो हिंस्रोऽपि व्याध: स्त्रीणां प्रणयपरिचयं प्राप्य प्रेयसीं बहु मन्यते, न पुनर्नागरम्मन्योऽपि त्वं तथेति नायकं प्रत्युपालम्भो व्यज्यते। 'मदस्नेहं निष्करुणं च नायकमुपालब्धुमन्यापदेशेन काचिदाह’ इति गङ्गाधर:। मृगाश्चक्षुर्निभालनेनात्मीयप्रियाविलोचनमनुस्मरतो व्याधस्य हस्तात्क-रुणया धनु: पतितमित्यर्थ:।’ इति तट्टीका।
स्वस्वामिन्या: सौन्दर्यातिशयं सूचयन्ती दूती चलवृत्तं नायकमन्यापदेशेनोपालभमाना साकूतमाह-
भ्रमसि नलिनीषु मृद्नासि सप्तलां मालतीं न मुञ्चसि यत्।
तरलत्वं तव मधुकर हंहो यदि पाटला हरति।।१९।।२
१. एक्कल्लमओ दिट्ठीअ मइअ तह पुलइओ सअह्णाए।
पिअजाअस्स जह धणुं पडिअं वाहस्स हत्थाओ।।१८।।
[एकाकी मृगो दृष्ट्या मृग्या तथा प्रलोकित: सतृष्णया।
प्रियजायस्य यथा धनु: पतितं व्याधस्य हस्तात्।।]
२. णलिणीसु भमसि परिमलसि सत्तलं मालइं पि णो मुअसि।
तरलत्तणं तुह अहो महुअर जइ पाडला हरइ।।१९।।
[नलिनीषु भ्रमसि परिमृद्नासि सप्तलां मालतीमपि नो मुञ्चसि।
तरलत्वं तवाऽहो मधुकर यदि पाटला हरति।।]
सं. गा... २७
'सप्तला नवमालिका’ इत्यमर:। असति लाभो कासाञ्चिन्मण्डले भ्रमस्येव, सत्यवसरे काञ्चिन्मर्दयसि, काञ्चिच्च वचनादिनैव सम्बध्नासि, एतत्तव चाञ्चल्यं यदि सा सत्यं पाटलवर्णा (अतिशयितसौन्दर्या) तर्ह्यवश्यं हरेदिति भाव:। नानानायिकासु भ्रमणशीलस्त्वं नैकत्र तृप्यसि, अहो ते चलवृत्तत्वमिति 'हंहो’ पदसहकारेण ध्वन्यते। पर सर्वातिशायिनी मत्स्वामिनी त्वां वशीकरिष्यतीति नायिकागुणातिशय: सूच्यते। भ्रमसि मृद्नासीति लट्प्रत्ययेन-पूर्वानुवृत्तां चर्यां साम्प्रतमपि न त्यजसि, प्रत्यक्षमिदानीमप्यस्ति सेति व्यज्यते।
कञ्चुलिकाञ्चलात्किञ्चिदवलोक्यमानं कस्याश्चित्कुचयुगलमालोक्य साभिलाष: कश्चित् शृण्वन्त्यां तस्या: सहचरं प्रति सपरिहासमाह-
द्व्यङ्गुलललितकपाटकपिनद्धसविशेषनीलकञ्चुलिका।
स्तनदेशवर्णिकामिव तरुणी परिदर्शयति युवजनेभ्य:।।२०।।१
द्व्यङ्गुलपरिमितं ललितं कपाटकं यस्यां तथाविधा पिनद्धा नीला कञ्चुलिका यया सा। कपाटवत्पार्श्वद्वयदर्शकं यत्कञ्चुलिकाबन्धनस्य सन्धिमध्यस्थले रिक्तं स्थलं भवति तत्कपाटकमित्युच्यते। तथा च तत्र स्तनैकदेशदर्शनात्स्तनयोर्वर्णिकामिव दर्शयतीत्युत्प्रेक्ष्यते कस्यचिद्वस्तुन: परीक्षार्थं यद्वस्त्वेकदेशप्रदर्शनं तद्वर्णिकेत्युच्यते। 'बानगी’ इति भाषा। अनया चोत्प्रेक्षया 'वर्णिकां प्रदर्श्य वणिग् यथा ग्राहकाननुकूलयति, तथा त्वमपि युवकानुत्कण्ठयसि, ततश्च त्वं ग्राहकान्वेषिणी भ्रमसीति’ तां प्रति परिहासो ध्वन्यते। 'मामेवानुगृहाण’ इत्यात्माभिलाषश्चरमं व्यङ्ग्यम्। 'कपाटकेन पिनद्धो नीलकञ्चुको यस्या: सा’ इत्यादि तट्टीका।
कस्याश्चित्प्रोषितपतिकाया दशां तत्कान्तसमीपगामी पान्थो वर्णयति-
रक्षति पुत्रं शिरसा पटलप्रान्तोदकं प्रतीच्छन्ती।
आर्द्रीभवन्तमश्रुभिरथ पथिकवधूर्न लक्षयति।।२१।।२
१. दोअङ्गुलअकवालअपिणद्धसविसेसणीलकञ्चुइआ।
दावेइ थणत्थलवण्णिअं व तरुणी जुअजणाणम्।।२०।।
[द्व्यङ्गुलककपाटकपिनद्धसविशेषनीलकञ्चुकिका।
दर्शयति स्तनस्थलवर्णिकामिव तरुणी युवजनेभ्य:।।]
२. रक्खेइ पुत्तअं मत्थएण ओच्छोअअं पडिच्छन्ती।
अंसुहिँ पहिअघरिणी ओल्लिज्जन्तं ण लक्खेइ।।२१।।
[रक्षति पुत्रकं मस्तकेन पटलप्रान्तोदकं प्रतीच्छन्ती।
अश्रुभि: पथिकगृहिणी आर्द्रीन्तं न लक्षयति।।]
'ओच्छोअअम्’ छदि: प्रान्तजलवाचको देशी। छदि: प्रान्तप्रस्नुतं वर्षाजलं निजशिरसा प्रतीच्छन्तीं सहमाना पथिकवधू: पुत्रं रक्षति। प्रियस्मरणोत्कण्ठाजनितैरश्रुभिरार्द्रीन्तं तु तं न लक्षयति। स्वयं वर्षाजलसहनेन निजशरीरोपर्ययत्नान्नायकविरहवेदनातिशयो व्यज्यते। अश्रुभि-रार्दीभवन्तं न लक्षयतीत्यनेन-अङ्कारोपितपुत्रा प्रावृडागमनोद्वेलितचित्ततया निरन्तरं प्रियतममेव ध्यायन्तीं सर्वमन्यद्विस्मरतीति तस्या एकतानतातिशयो व्यज्यते। 'त्वदनुध्यानपरामेनां त्वरितमुपगच्छ’ इति तद्दयितं प्रति चरमं व्यङ्ग्यम्। 'प्रतीकारोऽपि क्वचिदपकाराय भवतीति निदर्शयन्कश्चित्सखायमाह’ इति गङ्गाधर:।
सङ्केतितस्य सरस्तीरस्य पथिकाक्रान्ततया सङ्केतान्तरमेव सम्प्रति सम्प्रधारणीयमिति जारं श्रावयन्ती कापि शरद्वर्णनव्याजेनाह-
शरदि सरसीह पथिका जलानि नीलाब्जसुरभिगन्धीनि।
धवलाच्छानि सतृष्णा: पिबन्ति दयितामुखानीव।।२२।।१
इह सरसि। 'कन्दोट्टं’ नीलोत्पलम्। तत्सम्पर्काद् प्राणतर्पणगन्धानि, धवलानि च तानि स्वच्छानि च जलानि। सतृष्णा: सपिपासा: पथिका:। नीलाब्जवत् सुरभिगन्धीनि, 'धवलाच्छाइँ’ धवलाक्षाणि (धवलनयनानि) दयितानां मुखानीव सतृष्ण: सलालसा: पिबन्ति। दयितामुखसमानगुणानि जलानि पिबन्त: पथिका: प्रयासे सुदुर्लभं दयितामुखपानमध्यस्यन्ति, अत एव तेषां तत्समये सतृष्णता (साभिलाषता) भवतीति भाव:।
कर्दमभयान्नायिकां नाभिसरन्तं नायकं प्रति मार्गस्य सुलभतां प्रतिपादयन्ती दूती तत्प्ररोचनाय नायिकाया: प्रणयातिशयं व्यङ्ग्यविधया प्राह-
अप्यभ्यन्तरसरसा: प्रवातपरिबद्धकर्दमा उपरि।
चङ्क्रममाणे लोके समुच्छ्वसन्तीव किं रथ्या:।।२३।।२
१. सरए सरम्मि पहिआ जलाइँ कन्दोट्टसुरहिगन्धाइं।
धवलच्छाइँ सअह्णा पिअन्ति दइआणँ व मुहाइं।।२२।।
[शरदि सरसि पथिका जलानि नीलोत्पलसुरभिगन्धीनि।
धवलाच्छानि सतृष्णा: पिबन्ति दयितानामिव मुखानि।।]
२. अब्भन्तरसरसाओ उवरिं पव्वाअबद्धपङ्काओ।
चङ्कम्मन्तम्मि जणे समुस्ससन्ति व्व रच्छाओ।।२३।।
[अभ्यन्तरसरसा उपरि प्रवातबद्धपङ्का:।
चङ्क्रममाणे जने समुच्छ्वसन्तीव रथ्या:।।]
अभ्यन्तरे सरसा अपि, उपरि प्रवातेन प्रकृष्टवातेन परितो बद्धो दृढघनीभूत: कर्दमो यासु ता: रथ्या:। लोके जने यातायातं कुर्वति सति समुच्छ्वसन्तीव। अन्तरार्द्रत्वेऽपि उपरित: प्रवातेन विशुष्कबद्धपङ्कासु रथ्यासु लोकानां पदभारैरेकत्र निष्पीडितार्द्रभूभागतया अपरत्रोद्भिन्नेषु रन्ध्रेषु य ऊष्मा निस्सरति तत्रोच्छ्वासस्योत्प्रेक्षा। अत्र समासोक्तिविधया 'प्रवातप्रायगुरुजनभयेनोपरि रूक्षत्वेऽपि अभ्यन्तरे सानुरागा मे स्वामिनी भवदर्थमुत्कण्ठिता आह्वानाय मां सम्प्रेष्य साम्प्रतमुच्छ्व-सिति, किमित्येनामविलम्बितं नो गच्छसि’ इति नायकं प्रत्यभिव्यज्यते। 'चङ्क्रममाणे’ इति प्राक्तनटीकाकृतामनुरोधादेव। अनुपसर्गादपि यङ्लुगन्तात्क्रमेरात्मनेपदे विचार एव।
पिष्टककणावकीर्णौ कस्याश्चित्कुचौ कामयमान: कश्चित्कामुक: सहचरं प्रति सकौतुकमेवं वर्णयति-
मुखनलिनच्छायायां हंसाविव संस्थितौ निरीक्षध्वम्।
क्षणपिष्टकुट्टनोद्धतधूलिधवलितौ स्तनौ वहति।।२४।।१
क्षणे उत्सवदिवसे पिष्टस्य गोधूमादिचूर्णस्य कुट्टनेनोच्छलितया धूल्या धवलौ स्तनौ, मुखकमलच्छायायां स्थितौ हंसाविव वहतीति निरीक्षध्वम। दिवसान्तरे तु कर्मकरादि-भिरेवंविधकार्याणि क्रियन्ते परमद्योत्सवकार्यबाहुल्यादिदं स्वयं कर्तव्यमभूदिति 'क्षणपदेन सूच्यते। संस्थिताविति 'सम्’ उपसर्गेण छायायां सम्यक् सुखपूर्वकं पृष्ठपरावर्तितकन्धरं पक्षपुटा-वाच्छादितमुखतया विश्रब्धमवस्थिति: सूच्यते। अत एव वर्तुलयो: स्तनयो: साम्यम्। हंसाविवेत्युपमया एवंविधयोर्हंसयोर्यथा ग्रहणे सौकर्यं तथानयोरपीत्यात्माभिलाषो व्यज्यते।
'अनयोरान्तरिकोऽनुरागो मया विदित:’ इति स्ववैदग्ध्यं प्रथयन्नागरिक: कयोश्चित्परस्प-रावलोकनं वर्णयति-
तेन तथा सा दृष्टा तयाऽपि दृक् प्रेषिता तथा तस्मै।
द्वावपि सममेव यथा निर्वृत्तरतौ नु सञ्जातौ।।२५।।२
१. मुहपुण्डरीअछाआइ संठिआ उअह राअहंसे व्व।
छणपिट्ठकुट्टणुच्छलिअधूलिधवले थणे वहइ।।२४।।
[मुखपुण्डरीकच्छायायां संस्थितौ पश्यत राजहंसाविव।
क्षणपिष्टकुट्टनोच्छलितधूलिधवलौ स्तनौ वहति।।]
२. तह तेणवि सा दिट्ठा तीअ वि तह तस्स पेसिआ दिट्ठी।
जह दोण्ह वि समअं चिअ णिव्वुत्तरआइँ जाआइं।।२५।।
[तथा तेनाऽपि सा दृष्टा तयाऽपि तथा तस्मै प्रेषिता दृष्टि:।
यथा द्वावपि सममेव निर्वृत्तरतौ जातौ।।]
सममेव एककालमेव। निर्वृत्तरतौ पूरितरतसुखौ जातौ। इवार्थमिव सूचयन् 'नु:’। शृण्वति जारे स्वस्याभिसाररसिकतां सूचयन्ती काचित्कुलटा ग्रीष्मर्तुमेवमभिनन्दति-
लघुवापिकाविशोषण निकुञ्जदलकरण सुलभसङ्केत।
सौभाग्यकनकनिकष क्षेष्यसि हे ग्रीष्म कथमपि मा।।२६।।१
लघुवापिकानां विशोषक! निकुञ्जेषु पत्राणामुत्पादक! अत एव सुलभसङ्केत! अत एव कारणात्सौभाग्यरूपस्य कनकस्य परीक्षायै निकषपट्टस्थानीय हे ग्रीष्म! कथमपि या क्षीणो भविष्यसि। सुवर्णस्य परीक्षा यथा निकषपाषाणे भवति तथा लोकानां सौभाग्यस्य परीक्षा ग्रीष्मे भवति। सङ्केतसौकर्यसाधकेऽपि ग्रीष्मे यस्या न सुरतसुखसमुपलब्धिस्तर्हि न तस्या: सौभाग्यमिति भाव:। एवं च सुरतसुखलौल्यमात्मनो ध्वन्यते। 'वाउलिआ’ शब्द: स्वल्पखातिकायां देशी। 'स्वल्पखातिकानां परिशोषणेन निकुञ्जानां पत्रसम्पत्त्या च सुलभ: सङ्केतो यत्र स तथेति ग्रीष्मसम्बोधनमिति’ पूवार्धमेकं पदं मन्वानो गङ्गाधरभट्ट:।
कायक्लेशपरीक्षणकपटेन कुटिलै: क्लेश्यमानं गुणिनं निजगुणज्ञतया प्रोत्साहयन्ती काचिदन्यापदेशेनाह-
मरकत रत्नपरीक्षकपाशैर्घृष्टोऽसि प्रस्तरे तावत्।
का तव मूल्यकथा किल तिलमात्रं वर्तसे यावत्।।२७।।२
रत्नपरीक्षकपाशै: अतत्वज्ञैर्दुर्विदग्धैश्च रत्नपरीक्षकम्मन्यै:। याप्ये पाशप्। यावत्त्वं तिलमात्रमप्यसि तावत्तवास्मिन्ग्रामे को वा मूल्यं निर्धारयितुं समर्थ इति भाव:। तथा च 'एते न
१. वाउलिआपरिसोसण कुडङ्गपत्तलणसुलहसंकेअ।
सोहग्गकणअकसवट्ट गिम्ह मा कह वि झिज्जिहिसि।।२६।।
[स्वल्पखातिकापरिशोषण निकुञ्जपत्रकरण सुलभसङ्केत।
सौभाग्यकनककषपट्ट ग्रीष्म मा कथमपि क्षीणो भविष्यसि।।]
२. दुस्सिक्खिअरअणपरिक्खएहिँ घिट्टोसि पत्थरे जावा।
जा तिलमेत्तं वट्टसि मरगअ का तुज्झ मुल्लकहा।।२७।।
[दु:शिक्षितरत्नपरीक्षकैर्घृष्टोऽसि प्रस्तरे तावत्।
यावत्तिलमात्रं वर्तसे मरकत का तव मूल्यकथा।।]
ते गुणान् जानते, अहं तु तव गुणान्परिचीय सुभृशमनुरक्तास्मि’ इति गुणिनं प्रति द्योत्यते। 'दुर्जनसंसर्गादुद्विग्नगुणाशालिनं विदग्धा काप्यन्यापदेशेन प्रवृत्तिपाटवार्थमाह’ इति गङ्गाधर:।
ग्रामनायकसूनो: शौर्यं प्रदर्श्य पराक्रमैकपक्षपातिनीं काञ्चिन्मानिनीमनुकूलयन्ती दूती आह-
चिन्तति यथा परिजनस्तत्प्रतिपक्षो विशङ्कते च यथा।
ग्रामणीसुतेन गुप्ता बालेनापि हि तथा पल्ली।।२८।।१
प्रबलष्वेतावत्सु प्रतिपक्षेषु कथमनेन बालेन रक्षा कर्तव्येति स्नेहवश: परिजनश्चिन्तयति। इदित्करणाद्वैकल्पिको णिच्। 'नायमस्मान्कदाचिदाक्रम्य परिभवेत्’ इति प्रतिपक्षो विशेषेण शङ्कते। गुप्ता रक्षिता। बाल्येऽप्यस्यैतादृशं शौर्यमासीदिदानीं पूर्णयौवने तु किं वक्तव्यमिति नायिकां प्रत्यभिव्यज्यते। भूतकालिकघटनायामपि 'चिन्तति शङ्कते’ इति वर्तमानप्रयोगस्तु 'सा घटनो मन्नयनयोरिदानीमपि वर्तमानेव’ इति प्रत्यक्षद्रष्टुर्निजविश्वसनीयताप्रदर्शनार्थम्। 'पल्लीनिवासिन्या विलासिन्या दूती पल्ली-भङ्गशङ्कयानागच्छन्तं तत्कान्तं तत्समीपगमनायोत्साहयितुमाह’ इति गङ्गाधरावतरणम्। 'कथमनेन बालेन रक्षा कर्तव्येति परिजनश्चिन्तयति। बालोऽयमस्माभिग्र्राह्य इति प्रतिपक्षश्चिन्तयतीत्यर्थ:’ इति तट्टीका। भयं क्रोडे कुर्वत: 'आशङ्कते’ पदस्य सोऽयमर्थो विचार्य एव।।
शृण्वतीष्यन्यासु व्याधरमणीषु निजसौभाग्यख्यापनाय प्रियतमस्य पराक्रमं प्रत्यावेद-यन्ती व्याधवधूश्चित्रमृगचर्म पृच्छन्तं पथिकं प्रत्याह-
अन्येषु पथिक पृच्छ व्याधकपुत्रेषु पृषतचर्माणि।
अस्माकं व्याधयुवा हरिणेषु धनुर्न नामयति।।२९।।२
१. जह चिन्तेह परिअणो आसङ्कइ जह अ तस्स पडिवक्खो।
बालेण वि गामणिणन्दणेण तह रक्खिआ पल्ली।।२८।।
[यथा चिन्तयति परिजन आशङ्कते यथा च तस्य प्रतिपक्ष:।
बालेनाऽपि ग्रामणीनन्दनेन तथा रक्षिता पल्ली।।]
२. अण्णेसु पहिअ पुच्छसु वाहअपुत्तेसु पुसिअचम्माइं।
अम्हं वाहजुआणो हरिणेसु धणुं ण णामेइ।।२९।।
[अन्येषु पथिक पृच्छ व्याधकपुत्रेषु पृषतचर्माणि।
अस्माकं व्याधयुवा हरिणेषु धनुर्न नामयति।।]
दुर्बलानां हरिणकानां चर्मोत्पाटनद्वारा ये जीविकामर्जयन्ति ते व्याधा अपि वीर-व्याधापेक्षया कुत्सिता:, अत एव व्याधकास्तत्पुत्रेषु। तत्पुत्रेष्वित्युक्त्या-पितृद्वारा कीर्तनीय-त्वात्तेऽपि नोत्तमा इति अवहेला सूच्यते। पृषत: श्वेतबिन्दुयुक्तश्चित्रमृग: 'चीतल’ इति भाषया ख्यात:। हे वणिगित्यादिस्थाने-पथिकेत्यामन्त्रणेन केवलं चर्मवाणिज्यमेव न तवोद्देश्यम् अपि तु पथिलङ्घनमपि ते कर्तव्यमेव, अत एव अन्यव्याधकुटुम्बप्रश्नार्थं मार्गवर्तिस्थानान्तरगमनेऽपि न ते क्लेश इति ध्वन्यते। व्याधयुवेत्यनेन-सर्वेष्वपि व्याधेषु शूरताश्रयतया अयमेव एकमात्रो युवेति बहुमानो ध्वन्यते। 'न नामयती’ त्युक्त्या-बाणद्वारा हननेन जीविकोपार्जनस्य का कथा, निजधनुरपि न तदभिमुखीकरोतीति औदार्यातिशयो व्यज्यते। हरिणेष्विति जातिकीर्तनेन- 'त्वं तु पृषतानामेव कथां पृच्छसि परं स्वर्णमय एव किं न भवेदयं तु हरिणसामान्यमेव दयनीयं मन्यत इति मनस्वितातिशयो व्यज्यते। अन्येष्विति- 'एवंविधास्तुच्छा: केऽप्यन्य एव व्याधा भवेयु:, नायम्’ इति गूढाभिमानसूचिका लोकोक्तिशैली। पृच्छेत्युक्त्या 'मृगचर्मक्रयणस्य तु का कथा तत्प्रश्नोऽपि नात्र वाञ्छित:, सोऽप्यन्यत्रैव करणीय:’ इति ताटस्थ्यातिशय: सूच्यते। अस्माकमित्युक्त्या- 'समग्रव्याधजातेरभिमानस्थानमेकमात्र: सोऽयं युवा च अस्मत्सम्बन्धी, किं वा मदधीन:’ इत्यात्मन: सौभाग्यं शृण्वतीरन्यव्याधरमणी: प्रति ध्वन्यते। 'व्याधकपुत्रेषु’ इति ध्वनिदर्शकोऽप्ययं पाठो गङ्गाधरानुरोधात्। 'वाहकुडुम्बेसुं’ इति पुस्तकान्तरप्रसिद्धप्राकृत-पाठानुसारी 'व्याधकुटुम्बेषु’ इति तु बन्धानुगुण:।
निजसुतस्य सततमासञ्जनकरीं स्नुषामसूयन्ती व्याधमाता बन्धुजनमाह-
गजवधुवैधव्यकर: पुत्रो मे ह्येककाण्डविनिपाती।
स्नुषया तथेक्षित: किल काण्डकरण्डं यथा वहति।।३०।।१
एकं काण्डं बाणं विनिपातयति क्षिपति तच्छील:, (ततोऽपि) गजवधूनां वैधव्यकारक:, गजानां निहन्तेत्यर्थ:। 'गजवधु’ इति 'इको ह्रस्वोऽङ्यो’ इति ह्रस्व:। लक्ष्यं प्रति एकमात्र एव बाणो विमोक्तव्य इति शौर्यस्वभावशाली मत्पुत्रोऽयमेकेनैव बाणेन पूर्वं मत्तमातङ्गान्निजघान। सम्प्रति स्त्रीप्रसक्तस्तथा जातो यथा बाणसमूहं वहन्नपि न तस्मै कर्मणे प्रभुरित्याशय:। 'गजनिहन्ता’ इति वक्तव्ये गजवधूवैधव्यकर इत्युक्त्या 'ये गजपुङ्गवा अन्यगजोत्पादने समर्था:, येषां हनने च बह्व्य: करिण्यो वैधव्यमेव धारयन्ति न पुनरन्योपसर्पणे वाञ्छा भवति, तादृशान् यूथपतीन्
१. गअवहुवेहव्वअरो पुत्तो मे एक्ककण्डविणिवाई।
तह सोह्णाइ पुलइओ जह कण्डकरण्डअं वहइ।।३०।।
[गजवधूवैधव्यकर: पुत्रो मे एककाण्डविनिपाती।
तथा स्नुषया प्रलोकितो यथा काण्डसमूहं वहति।।]
यूथस्य सम्मुख एव हतवान्’ इति शौर्योत्कर्षो ध्वन्यते। काण्डसन्धायीति स्थाने 'विनिपाती’ इति कथनेन 'तादृशस्तस्याभ्यास आसीद्यथा सन्धानस्य का कथा, हेलया शरं पातयन्नपि गजान् हतवान्’ इति तदतिशयो व्यज्यते। विनिपातीति ताच्छील्यार्थकणिनिना एकमात्रकाण्ड-त्यागस्तस्य स्वभाव आसीदिति शौर्यातिशय: सूच्यते। 'पुत्रो मे’ इति मे प्रदप्रयोगेण 'ईदृशोऽयं शूरो मत्पुत्र:’ इति ममापि तत्कृतोऽभिमान आसीदिति ध्वन्यते। 'ईक्षित:’ इत्यनेन 'वशीकारिण्या दृष्टया तथा दृष्टो यथा दर्शनादारभ्यैव तत्प्रसक्तिं न परित्यजति’ इति दृष्टेर्मोहकतातिशयो ध्वन्यते। वहतीत्यनेन बाणसमूहं भाररूपेण केवलं वहत्येव न तु तेन किञ्चित्कर्तुं समर्थ इत्यवहेला सूच्यते। समूहस्थाने करण्डपदेनापि 'सम्पूर्णाबाणाधानीमेव वहन्नपि निष्फल एव’ इति पुत्रं प्रत्यसूया ध्वन्यते।
समरं विजित्य गृहागतस्य शस्त्रनिर्भिन्नस्य मनस्विनो भर्तुर्निजमानभङ्गस्य कथाश्रवणा-दपि मानवशान्मृत्युर्भवेदित्याशङ्कमाना ग्रामनायकमहिषी तन्निवारणाय पल्लीवासिलोकान्प्रत्याह-
पल्ली विन्ध्यारोहं मा लपतु ग्रामणी: श्वसिति।
उज्जीवितोऽथ कथमपि शृणोति यदि जीवितं तदा त्यजति।।३१।।१
पल्ली पल्लीनिवासिजनो दस्युभयाद्विन्ध्यारोहणस्य कथां न करोतु। यतोऽधुनापि ग्राम-नायक: श्वसिति। 'यावच्छ्वासास्तावदाशा’ इति कथनानुसारमस्मिन् जीवति लोकानां भयमेव कुत इति भाव:। परं कथञ्चित्प्रत्युज्जीवित: प्रत्यागतप्राणो यदि विन्ध्यारोहणकथां शृणोति तदा स्वाश्रितजनपलायनश्रवणेन जनितमानभङ्गोऽसौ अवश्यं जीवितं त्यजति। 'पल्ली’ पदेन 'समग्रोऽपि पाल्लीवासी जनोऽस्य रक्षणीय’ इति सूच्यते। श्वसितीत्यनेन 'यावदेकोऽपि श्वासस्तावत्पल्लीरक्षणमयमात्मन: कर्तव्यं मन्यते’ इति कर्तव्यनिष्ठा व्यज्यते। जीवितं त्यजेदिति सम्भावनार्थकलिङ: स्थाने लट्प्रयोगेण 'जीवितत्यागस्य सम्भावनैव नास्ति प्रत्युत मानभङ्गे सति जीवितत्यागो निश्चितं वर्तमान एव’ इति मनस्वितातिशयो ध्वन्यते।
स्निग्धो जनो निजस्नेहिनो हितमनुसन्धाय मरणदशायामपि भद्रमेवोपदिशतीति निदर्शयन् कश्चित्सहचरमाह-
१. विञ्झारुहणालावं पल्ली मा कुण उ गामणी ससइ।
पच्चज्जिविओ जइ कह वि सुणइ ता जीविअं मुअइ।।३१।।
[विन्ध्यारोहणालापं पल्ली मा करोतु ग्रामणी: श्वसिति।
प्रत्युज्जीवितो यदि कथमपि शृणोति तज्जीवितं मुञ्चति।।]
शिक्षयति म्रियमाण: पुत्रं पल्लीपति: प्रयत्नेन।
मम नाम्ना न यथा त्वं विलज्जसे सुत करिष्यसेऽङ्ग तथा।।३२।।१
एवंविधप्रतापशालिन एवंविधो निर्गुण: पुत्र इति पितुर्नामग्रहणस्य पुत्रपक्षे लज्जा-हेतुत्वम्। अथवा अमुकस्य पुत्रोऽयमिति पितृनाम्ना निर्गुण एव व्यपदिश्यते पूज्यते चेति नाम्नो लज्जाहेतुत्वम्। मत्पुत्र इति प्रसिद्ध्यन् यथा न लज्जितो भवसि तथा कार्याणि करिष्य-सीत्यर्थ:। आत्मगुणै: प्रसिद्धेन त्वया निजवंशमर्यादोचितान्येव कार्याणि कार्याणीति तात्पर्यम्। अङ्ग इति सम्बोधने। 'अप्याहेइ’ इत्यस्य शिक्षयति सन्दिशतीति वार्थ:।
प्रियप्राणा: पतिव्रता: प्रणयपरिपाकेनैव प्रेतमपि प्रियतमं प्रत्युज्जीव्य पुन: प्राप्नुवन्ति तत्प्रणयप्रमोदं किं पुनस्तस्मिन्प्रोषिते इति विरहविह्वलां काञ्चिद्द्रढयन्ती काचिदाह-
अनुमरणनिर्गताया: प्रत्यागतजीवितेऽथ तद्दयिते।
वैधव्यमण्डनं कुलवध्वा: सौभाग्यकं जातम्।।३३।।२
अनुमरणार्थं निर्गताया: प्रस्थिताया: सौभाग्यकं सौभाग्यरूपं जातम्, सौभाग्यमण्डनं जातमिति यावत्। करुणानन्तरे अनुभवार्थोऽयं सम्भोग इत्युदाहृतेयं गाथा सरस्वतीकण्ठाभरणे। 'अनुकूले विधावमङ्गलान्यपि मङ्गलानि भवन्तीति निदर्शयन्कश्चिदाह’ इति गङ्गाधर:।
अधरे दंशचिह्नमवलोक्य परस्त्रीसङ्गशङ्कया पशुकल्पानां पामरीणामपि निरपराधेऽपि पत्यौ प्रणयवशादीर्ष्या भवति। ततस्तु महाकुलीनाया: प्रकामग्रहिलप्रणयाया मनस्विन्यास्तस्या: प्रत्यक्षप्रेक्षितव्यलीके त्वयि तु किं वाच्यम्। अत: पदप्रणामेनैवैनां प्रसादय। न पुन: कालहरणं श्रेयसे इत्यनुनयपराङ्मुखं नायकं प्रति दूत्याह-
१. अप्याहेइ मरन्तो पुत्तं पल्लीवई पअत्तेण।
मह णामेण जह तुमं ण लज्जसे तह करेज्जासु।।३२।।
[शिक्षयति म्रियमाण: पुत्रं पल्लीपति: प्रयत्नेन।
मम नाम्ना यथा त्वं न लज्जसे तथा करिष्यसि।।]
२. अणुमरणपत्थिआए पच्चागअजीविए पिअअमम्मि।
वेहव्वमण्डणं कुलवहूअ सोहग्गअं जाअम्।।३३।।
[अनुमरणप्रस्थिताया: प्रत्यागतजीविते प्रियतमे।
वैधव्यमण्डनं कुलवध्वा: सौभाग्यकं जातम्।।]
दष्टं मधुमक्षिकया मुखमुच्छूनोष्ठमैक्ष्य दयितस्य।
अन्यां वृक्षच्छायां गता पुलिन्दी किलेर्ष्यालु।।३४।।१
आ-ईक्ष्य, दृष्ट्वा। दयितस्य न तु पत्यु:। यस्या हि प्रियतमेऽत्यन्तं प्रणयो भवति तस्या एव अन्याभिषङ्गशङ्कयापि प्रणयकोपो भवति। ततश्च त्वयि दृढानुरागामिमां किमित्युपेक्षसे। प्रणयवतीमिमां सबहुमानमनुनयस्वेति प्रियं प्रत्यभिव्यज्यते। गत्या सह कृतकलहा त्वत्समागम-प्रतीक्षया निर्जने सा तिष्ठतीति जारं प्रति दूत्या इयमुक्तिरिति कश्चित्।
स्वयंदूतिका पथिकं सूचयन्ती सखीमाह-
धन्या वसन्ति नि:शङ्कमोहने बहलपत्रलावरणे।
वातान्दोलनविनमितवेणुविगहने गिरिग्रामे।।३५।।२
बहलैर्निबिडै: पत्र्रलैर्बहुलपत्र्रयुक्तै: (वृक्षै:) आधरणं वेष्टनं यत्र। वातान्दोलनेन विनमितैर्वेणुभिर्गहने सम्बाधे। अत एव नि:शङ्कं मोहनं सुरतं यत्र तथाभूते गिरिग्रामे (पर्वतोपरि निविष्टे ग्रामे) धन्या वसन्ति। यदि त्वमभिनन्दनीयभाग्योऽसि तर्हि वृक्षावरणवेष्टिते अपरिलक्ष-णीयसुचिरसुरतसौख्येऽस्मिन् ग्रामे मया सह विहरेति पान्थं प्रत्यभिव्यज्यते। 'गिरिग्राम-प्रशंसाच्छलेनाऽसती जारं प्रति स्वच्छन्दाभिसारस्पृहामाह’ इति गङ्गाधर:।
दर्शितशोभाविप्रकर्षासु वर्षासु गिरिग्रामाणां रमणीयतातिशयं प्रतिपादयन्ती काचित्तेषु रमणाय रमणायेङ्गितं ददाति-
१. महुमच्छिआइ दट्ठं दट्ठूण मुहं पिअस्स सूणोट्ठम्।
ईसालुई पुलिन्दी रुक्खच्छाअं गआ अण्णम्।।३४।।
[मधुमक्षिकया दष्टं दृष्ट्वा मुखं प्रियस्योच्छूनोष्ठम्।
ईर्ष्यालु: पुलिन्दी वृक्षच्छायां गतान्याम्।।]
२. धण्णा वसन्ति णीसङ्कमोहणे बहलपत्तलवइम्मि।
वाअन्दोलणओणविअवेणुगहणे गिरिग्गामे।।३५।।
[धन्या वसन्ति नि:शङ्कमोहने बहलपत्रलवृतौ।
वातान्दोलनावनामितवेणुगहने गिरिग्रामे।।]
प्रोत्फुल्ल्घनकदम्बा निर्घौतशिला: प्रमत्तकेकिकुला:।
उत्साहयन्ति निर्यन्निर्झरमुखरा गिरिग्रामा:।।३६।।१
प्रथमविशेषणेन सम्भोगस्योद्दीपनविभाव:, द्वितीयेन सुरतसामयिकं शयनस्थलम्, तृतीयेन अन्यमनस्कतासम्पादनेन सुचिरसुरतसौकर्यं सम्भोगानन्तरं विनोदसम्भारो वा, चतुर्थेन स्वनितशिञ्जितमणितादिनिह्नवसौकर्यं च सूच्यते। ततश्च कामिजनमनोहरायामस्यां प्रावृषि गिरिग्रामेषु सर्वविधं रमणसौकर्यमिति स्वैरमभिसारस्तेष्वस्तु, इति प्रियतमं प्रत्यभिव्यज्यते।
नीरसापि सा कामकलाकोविदस्य तस्य सुरतोपचारचातुर्यचर्यया सम्प्रति समधिकं सरसान्तरा सहृदयहृदयावर्जिका च जातेति नायकस्य दाक्षिण्यं ख्यापयन्ती दूती काचित्का-मिनीजनमनोरञ्जनार्थमन्यापदेशेनाह-
नार्द्रयति हस्तमपि या गोपेन तथा नु तेन परिमलिता।
सैव हि धेनुरिदानीं पश्यत कुटदोहिनी जाता।।३७।।२
या धेनुर्दोहनसमये स्वदुग्धेन दोग्धुर्हस्तमपि नार्द्रयति धारायास्तु का कथा, निपुणेन तेन गोपेन तथा परिमलिता स्तनपृष्ठादिपरामर्शेन तेन प्रकारेण परामृष्टा यथा सैव धेनुरिदानीं दुग्धघटपूरिका जातेति पश्यत। घटपरिमितं दुग्धं ददातीति भाव:। कुटो घट:। व्यञ्जनया च-कामकलाचतुरेण नायकेन करिहस्तादिविन्यासेन तेन प्रकारेण परामृष्टा यथा पूर्वं किञ्चिदप्यद्रवन्ती सा सम्प्रति बहुतरं स्मरजलं क्षरतीत्यर्थ:। रतिदाक्षिण्यदीक्षितेन तेन सह बद्धप्रणया भवत्योऽपि तच्चातुर्यपरिचयं प्राप्स्यथेति शृण्वती: प्रत्यभिव्यज्यते।
सर्वातिशायि कस्याश्चित्सौभाग्यं सूचयन्ती सखी सपरिहासमन्यापदेशेनाह-
१. पप्फुल्लघणकलम्बा णिद्धोअसिलाअला मुइअमोरा।
पसरन्तोज्झरमुहला ओसाहन्ते गिरिग्गामा।।३६।।
[प्रोत्फुल्लघनकदम्बा निर्धौतशिलातला मुदितमयूरा:।
प्रसरन्निर्झरमुखरा उत्साहयन्ति गिरिग्रामा:।।]
२. तह परिमलिआ गोवेण तेण हत्थं पि जा ण ओल्लेइ।
स च्चिअ धेणू एह्णिं पेच्छसु कुडदोहिणी जाआ।।३७।।
[तथा परिमलिता गोपेन तेन हस्तमपि या नार्द्रयति।
सैव धेनुरिदानीं प्रेक्षध्वं कुटदोहिनी जाता।।]
धवलो जीवति तुभ्यं धवलाय च गृष्टयोऽपि जीवन्ति।
गौर्जीव जीवितेन हि गोष्ठमिदं नस्त्वदायत्तम्।।३८।।१
धवलो वृषश्रेष्ठ: तुभ्यं त्वदर्थं त्वां सुखयितुं त्वत्कृते इत्यर्थ:, जीवति। धवलार्थं च गृष्टय एकवारं प्रसूता गोयुवत्यो जीवन्ति। अतो हे गौस्त्वं जीव। यतो जीवितेन (भवज्जीवितेन, हेतुना) न: इदं गोष्ठं त्वदायत्तं त्वदधीनम्, तव जीवनेनैव सर्वमिदं गोष्ठं जीवतीत्यर्थ:। एकवारमात्रं प्रसूतानाम् अग्रे च प्रसवयोग्यानां युवतीनां गवां प्रसवादिकं सर्वमवरुध्यत इत्यतिशयं द्योतयितुं गृष्टिपदम्। सुखं तिष्ठतीत्यादिस्थाने जीवतीति कथनेन-जीवित-स्थितिरेव त्वदधीना का कथा सुखादेरित्यतिशयो व्यज्यते। तम्बा गौ:। 'धवला गवि वृषश्रेष्ठे पुमान्’ इति, 'अथ गृष्टि: सकृत्प्रसूतगवि’ इति च मेदिनी। त्वामवलम्ब्यैव सर्वोऽयं परिकर: प्रचलतीति परिहासविधया नायिकां प्रत्यभिव्यज्यते।
पथि गच्छन्नपि पान्थ: प्रियाप्रणयपरवशो निजप्रियतमावयवसमानतां यत्र कुत्रचिदव-लोकयंस्तत्स्मरणोत्कण्ठावशाद्विवशं तत्रासज्यते। भवांस्तु अनुवर्तनपरामपीमामुपेक्षमाण: खेदयतीति गूढमुपालभमाना सखी नायकं प्रत्याह-
स्पृशति विजिघ्रति चुम्बति हृदये निदधाति जनितरोमाञ्च:।
पथिको मधूकपुष्पं पश्यत जायाकपोलसमम्।।३९।।२
पथिको जायकापोलसमं मधूकपुष्पं स्पृशतीत्यादि पश्यत। जायाकपोलसाम्यं दृष्ट्वा सोत्कण्ठ: पूर्वं स्पृशति, ततो वर्धिताभिलाषस्तज्जिघ्रति, ततो विजृम्भितपूर्ववासनश्चुम्बति, ततोऽनुस्मृतप्रियाविरह: सविषादौत्सुक्यं प्रणयवशादुरसि निदधातीति क्रमशो भावविजृम्भिति:
१. धवलो जिअइ तुह कए धवलस्स कए जिअन्ति गिट्ठीओ।
जिअ तम्बे अम्ह वि जीविएण गोट्ठं तुमाअत्तम्।।३८।।
[धवलो जीवति तव कृते धवलस्य कृते जीवन्ति गृष्टय:।
जीव हे गौ: अस्माकमपि जीवितेन गोष्ठं त्वदायत्तम्।।]
२. अग्घाइ छिवइ चुम्बइ ठेवइ हिअअम्हि जणिअरोमञ्चो।
जाआकवोलसरिसं पेच्छइ पहिओ महुअपुप्फम्।।३९।।
[आजिघ्रति स्पृशति चुम्बति स्थापयति हृदये जनितरोमाञ्च:।
जायाकपोलसदृशं पश्यत पथिको मधूकपुष्पम्।।]
सूचिता। ततश्च तत्साम्यमात्रेण पथिको मधूकपुष्पं बहु मन्यते मन्दानुरागस्त्वं तु समक्षोपस्थि-तामप्युपेक्षसे इति प्रियं प्रत्युपालम्भो ध्वन्यते। 'यो यस्य प्रियस्तस्य तदवयवानुकारिणि प्रीतिर्भवतीति निदर्शयन्कोऽपि सहचरमाह’ इति गङ्गाधर:।
अन्त:कुटिलां तां मुधैवानुकूलामिव मन्वानो मोघमेवोपसेवसे इति नायकं कस्याश्चन सकाशान्निवर्तयितुं दूती अन्यापदेशेनाह-
पश्य मुधाद्र्रीक्रियते भुजङ्गकृत्तौ हि कटकलग्नायाम्।
निर्झरधाराश्रद्धालुकेन शीर्षं वनगजेन।।४०।।१
प्रचण्डातपतप्तेन वनगजेन गिरिनितम्बलग्नायां भुजङ्गकृत्तौ (सर्पकञ्चुके) निर्झरधारा-प्रतीतिमता सता निजशीर्षं मुधैव निरर्थकमेवाद्रींक्रियते, आर्दीकरणमभिनीयते इत्यर्थ:। भुजङ्गकृत्तिपदेन- 'भयङ्करजनसम्बन्धिनी सा नोपसर्पणे सुखावहा’ इति जारं प्रति सूच्यते। वनगजेनेत्यनेन- अदाक्षिण्यादेव तां मोघमनुवर्तस इति व्यज्यते। ततश्च- अनागरिक इव त्वं निष्ठुरपरिजनायास्तस्या: सकाशान्मुधैव रसप्राप्तिमाशासे इति नायकं प्रत्यभिव्यज्यते। 'अप्पिज्जइ’ इति पाठे 'अर्प्यते’ इत्यर्थ:। जारस्यान्यमनस्कतासम्पादनार्थं मध्याह्नाभिसारिकाया: सेयमुक्तिर्वा। 'नार्तस्तत्त्वविचारक्षमो भवतीति दर्शयन्कोऽपि मध्याह्नवर्णनमाह’ इति गङ्गाधरावतरणम्।
गुणवत्यामपि पूर्वनायिकायामपरितुष्य गुणान्तरलालसया नायिकान्तरगामिनं नायकं सोपालम्भं शिक्षयन्ती काचिदन्यापदेशविधयाऽऽह-
कमलं मुञ्चन्मधुकर पक्वकपित्थानुगन्धलोभेन।
पामर इव विज्ञास्यसि संस्पृश्यालेख्यलड्डुकं परत:।।४१।।२
१. उअ ओल्लिज्जइ मोहं भुअंगकित्तीअ कडअलग्गाइ।
ओज्झरधारासद्धालुएण सीसं वणगएण।।४०।।
[पश्यार्द्रीक्रियते मोघं भुजङ्गकृत्तौ कटकलग्नायाम्।
निर्झरधाराश्रद्धालुकेन शीर्षं वनगजेन।।]
२. कमलं मुअन्त महुअर पिक्ककइत्थाणँ गन्धलोहेण।
आलेक्खलड्डुअं पामरो व्व छिविऊण जाणिहिसि।।४१।।
[कमलं मुञ्चन्मधुकर पक्वकपित्थानां गन्धलोभेन।
आलेख्यलड्डुकं पामर इव स्पृष्ट्वा ज्ञास्यसि।।]
अप्रतिबुद्ध: पामरो यथा चित्रस्थं मोदकादिकमालोक्य तत्प्राप्त्याशया मनसि मोदमानो हस्तस्थितं भक्ष्यमसन्तोषात्परित्यज्य तल्लिप्सया गत: स्पृष्ट्वा तत्स्वरूपमवगत्य पश्चादनुतप्यते एवं त्वमपि नीरसस्य कर्कशस्पर्शस्य कपित्थस्य गन्धमात्रादाकृष्टचेता: सम्मुखोपनतं कमलं मुञ्चन् स्पर्शसमनन्तरमेव द्वयोरनयोरन्तरं परिज्ञायानुतापं प्राप्स्यसीति भाव:। मधु सञ्चिन्वानस्त्वं पाषाणप्रायेऽस्मिन्प्रवर्तस इत्यहो ते आत्मानुरूपा प्रवृत्तिरिति गूढोपालम्भो मधुकरेत्यामन्त्रणेन ध्वन्यते। पक्वेति विशेषणेन- परिपाककालिक: सोऽयं गन्ध: साम्प्रतिक एव, नाग्रत: स्थायीति वैगुण्यं सूच्यते। तथा च- पूर्णयौवनवशादेव तस्या: सेयमस्थायिनी लोभनीयता, न सहजेति नायकं प्रत्यभिव्यज्यते। अनुगन्धेत्यनुपदेन-सोऽयं गन्धोऽप्यनुगतमात्रो न सहज इति सूच्यते। आलेख्यलड्डुकेत्यनेन-उपरित एव दर्शनीयसौन्दर्या सा नान्तर्गुणवतीति मोघायामाशायां किं तामङ्कगतामुपेक्षस इति ध्वन्यते।
परिणयप्रसङ्गात्पूर्वमेव प्रोद्भूतप्रणयाया अस्या: साम्प्रतमस्मिन् यूनि प्रगाढप्रीतेश्चिह्नानि प्रत्यक्षं प्रादुर्भवन्तीति परिज्ञानपाटवं प्रथयन्कश्चित्सहचरमाह-
माङ्गल्यगायिकाभिर्गीते वरगोत्रदत्तकर्णाया:।
श्रोतुमिव निर्गत: किल रोमाञ्च: पश्य भाविनववध्वा:।।४२।।१
मङ्गलमेव माङ्गल्यम्। विवाहमङ्गलगायिकाभिर्गीते सति वरस्य गोत्रे नामनि दत्तकर्णाया भाविन्या: नववध्वा: रोमाञ्च: श्रोतुमिव निर्गत: किलेति पश्य। दत्तकर्णेति पदेन-नामश्रवणे दत्तावधानतया पतिप्रीतिपरिचय: प्रख्यायते। रोमाञ्च: श्रोतुमिव निर्गत इत्युत्प्रेक्षया-तस्या रोमरोमाऽपि गुणश्रवणलालसमिति प्रगाढा प्रीतिर्ध्वन्यते। भविष्यद्वध्वा इत्युक्त्या (उह्यते इति वधू:) इति परिभाषितं वधूत्वं सम्प्रति न जातं ततोऽपीदृशी प्रीतिस्तर्ह्यग्रतस्तु किं वाच्यमित्यतिशयो द्योत्यते। 'काप्यासन्नविवाहाया: सखीजनं सपरिहासमाह’ इति गङ्गाधरावतरणम्।
'मङ्गलगीतेषु किमिति सेयं सङ्कुचितेव तिष्ठतीति’ विदितव्यभिचाराया: कस्याश्चन विवाहावसरे सनिभृतपरिहासमालपित: कश्चित्सहृदय: 'पूर्वतनसङ्केतवेतसनिकुञ्जालोकनेन मनस्येवमुत्प्रेक्षमाण सङ्कुचतीति’ तदुत्प्रेक्षां निजसुहृदं प्रत्यनुवदति-
१. गिज्जन्ते मङ्गलगाइआहिँ वरगोत्तदिण्णअण्णए।
सोउं व णिग्गओ उअह होन्तवहुआइ रोमञ्चो।।४२।।
[गीयमाने मङ्गलगायिकाभिर्वरगोत्रदत्तकर्णाया:।
श्रोतुमिव निर्गत: पश्यत भविष्यद्वधूकाया रोमाञ्च:।।]
मन्ये शृण्वन्तो मुहुरासन्नविवाहमङ्गलोद्गीतम्।
तैर्नवयुवभि: साकं हसन्ति मां वेतसनिकुञ्जा:।।४३।।१
यै: समं सुरतसुखमनुभूतं तै: साकमित्यर्थ:। स्वयं समनुभूतसङ्गमसौख्यास्ते युवानस्तु सम्प्रति सञ्जायमानं विवाहमालोक्य मनसि हसन्त्येव, परं तै: साकं साक्षिरूपेण ते सङ्केतवेतसकुञ्जा अपि पाण्डुरपुष्पविकासव्याजेन मां हसन्तीति भाव:। 'आसन्नविवाहा व्यभिचारशीला काचित्पुष्पितं सङ्केतवेतसनिकुञ्जामालोक्योत्प्रेक्षते’ इति गङ्गाधर:।
अचिरवृत्तविवाहयोरेव वधूवरयो: पश्य कीदृशी प्रीतिरिति परिहाससङ्कथासु नायिकासखी सखी: प्रत्याह-
सपदि चतुर्थीमङ्गलभाविविरहभयविशेषलग्नाभ्याम्।
स्वेदाश्रुभी रुदितमिव वरस्य तस्याश्च हस्ताभ्याम्।।४४।।२
सपदि शीघ्रमागामिनि चतुर्थीमङ्गले भाविनो विरहस्य भयात् विशेषतो लग्नाभ्यां सङ्घटिताभ्यां वरस्य तस्याश्च [नायिकाया:] हस्ताभ्यां स्वेदरूपाण्यश्रूणि विमुच्य रुदितमिवेत्यर्थ:। भये उपस्थिते जनो रक्षणप्रत्याशयेव स्निग्धं जनं गाढमालिङ्गति। एवं च वियोगभयान्नि-बिडमाश्लिष्टयो: करयो: परस्परं स्नेहातिशयो ध्वन्यते। विवाहोऽयं पाणिपीडनमित्याख्यायते, ततश्चावयोरेव मिथोग्रहणेन सञ्जातव्यपदेशं वैवाहिकमिदं समागमसुखं हन्ताचिरादेव विरहदु:खे परिणंस्यत इति लज्जाखेदयो: कारणात् [अन्याङ्गेषु तिष्ठत्स्वपि] हसत इति हस्तौ इति परिभाषिताभ्यामपि हस्ताभ्यां रुदितमित्याशय:। मिथ: करयोजने स्वेदरूपसाविकोदयात्परस्परं गाढानुराग: प्रतीयते। विवाहोत्तरं चतुर्थीहोमम् (नागवल्लीम्) कृत्वा जामाता स्वगृहं गच्छति। पुनर्यावद्द्विरामगमनं द्वयोर्विरहो भवतीति लोकव्यवहार:।
१. मण्णे आअण्णन्ता आसण्णविआहमङ्गलुग्गाइम्।
तेहिँ जुआणेहिँ समं हसन्ति मं वेअसकुडङ्गा।।४३।।
[मन्ये आकर्णयन्त आसन्नविवाहमङ्गलोद्गीतम्।
तैर्युवभि: समं हसन्ति मां वेतसनिकुञ्ज:।।]
२. उअगअचउत्थिमङ्गलहोन्तविओअसविसेसलग्गेहिँ।
तीअ वरस्स अ सेअंसुएहिँ रुण्णं व हत्थेहिं।।४४।।
[उपगतचतुर्थीमङ्गलभविष्यद्वियोगसविशेषलग्नाभ्याम्।
तस्या वरस्य च स्वेदाश्रुभी रुदितमिव हस्ताभ्याम्।।]
नववधूसङ्गमस्यालौकिकसुखकरत्वं प्रतिपादयन्कश्चित्सहचरमाह-
न च दृष्टिं नयति मुखं स्प्रष्टुं न ददाति नालपति किमपि।
तदपि च किमपि रहस्यं प्रियो भवति नववधूसङ्ग:।।४५।।१
न पश्यतीति स्थाने 'मुखं प्रति दृष्टिं न नयति’ इत्युक्त्या- 'भूमौ इतस्ततो वा प्रेर्यमाणतायां स्ववशाया अपि दृष्टेरुपरि अधिकारसत्त्वेऽपि भयसङ्कोचादिकारणात्तां न नयतीति’ कश्चन विचित्र: साध्वसातिशयो द्योत्यते। तथापि च नववधूसङ्ग: प्रियो भवतीति किमपि (अनिर्वचनीयम्) रहस्यमिति भाव:। प्रियत्वहेतोर्दर्शनस्पर्शनादेरभावेऽपि प्रियत्वरूपं कार्यमिति विभावना। 'विभावना विनापि स्यात्कारणं कार्यजन्म चेत्’ इति लक्षणात्। किमपि रहस्यमित्य-स्याविमर्शे तु नववधूसङ्ग: प्रियो भवतीत्यत्र 'सा नववधूरिति तत्सङ्ग: प्रियो भवति’ तथा च प्रियतायां नवत्वं कारणमिति काव्यलिङ्गोऽपि बुद्धिस्थो भवति।
नवोढबालाया वाम्येन कुपितं नायकं प्रसादयितुं काचित्प्रौढा नववध्वा: स्वभावमाह-
कृतकप्रसुप्तविवलति नववध्वा नववरेऽपि कम्पयुत:।
संवेष्टितोरुनियमितवग्रन्थिं गतो हस्त:।।४६।।१
नववरे कृतकप्रसुप्ते अलीकमेव प्रसुप्ते, अत एव विवलति साम्प्रतमपि स्पर्शादावनुकूला जाता न वेत्युत्कण्ठया वधूं प्रति किञ्चित्परावर्तमानेऽपि सति, भयेन कम्पमानो नववध्वा हस्त: संवेष्टिताभ्यामूरुभ्यां नियमितस्य सुदृढसंवृतस्य वस्त्रस्य ग्रन्थिं नीवीं प्रति गत:। वरस्य किञ्चिन्मात्रपरावर्तनेऽपि नीविमसौ नावसंस्रयेदिति-तस्या भयं भवतीति भाव:। कृतकस्वापेन- 'विश्रब्धदशायां किमियमाचेष्टते’ इति परिज्ञानाभिलाष:, 'अनुनयविनयौ कृत्वा दैन्येन प्रसुप्तखिन्ने
१. ण अ दिट्ठिं णेइ मुहं ण अ छिविउं देइ णालवइ किं पि।
तह वि हु किं पि रहस्सं णववहुसङ्गो पिओ होइ।।४५।।
[न च दृष्टिं नयति मुखं न च स्प्रष्टुं ददाति नालपति किमपि।
तथापि खलु किमपि रहस्यं नववधूसङ्ग: प्रियो भवति।।]
२. अलिअपसुत्तवलन्तम्मि णववरे णववहूअ वेवन्तो।
संवेल्लिओरुसंजमिअवत्थगण्ठिं गओ हत्थो।।४६।।
[अलीकप्रसुप्तवलमाने नववरे नववध्वा वेपमान:।
संवेष्टितोरुसंयमितवग्रन्थिं गतो हस्त:।।]
मयि साम्प्रतं कदाचिदनुमता स्यात्’ इत्युत्कण्ठा वा सूच्यते। नववरेऽपि तस्या एतावद्भयं भवति किं पुन: प्रौढे प्रेयसीति नववरे इति पदेन ध्वन्यते। एवं च स्वभाव एवायं बालानां न पुनरयं कोप:, तस्माद्विस्रम्भणपूर्वकं धैर्येण प्रवर्तितव्यं न पुन: कोपेनेति नायकं प्रत्यभिव्यज्यते।
विस्रम्भणपूर्वकमेव नववध्वां प्रवर्तितव्यमिति नायकं शिक्षयन्तीं काचित्प्रौढा बलविचेष्टया कोपिताया: कस्याश्चिदवस्थामाह-
न हि भणति पृच्छ्यमाना स्फुरति गृहीता च चुम्बिता रोदिति।
तूष्णीकाभिनववधूरुपगूढा किल कृतापराधेन।।४७।।
हस्तादिषु गृहीता प्रस्फुरति, हस्तादिकं सरभसमवहेल्य दूरे विचलति। कृतापराधतायां विस्रम्भणमकृत्वा बलात्प्रवृत्तौ हि संलापादिषु वामैव सा भवतीति भाव:। किंवा भयसङ्कोचा-दिवशादनिच्छन्त्यां तस्यां हस्तग्रहणादिकमेवापराध:। अत एव कृततादृशापराधेन तेन पृच्छ्यमाना न भणतीत्यादि। अथवा- पृच्छ्यमाना न भणति गृहीता स्फुरति इत्यादि नवोढाया: स्वाभाविकचेष्टामवलोक्य कृतापराधेन निपुणनायकेन तूष्णीका नव वधूरुपगूढा। तथा च सम्मतिमप्रतीक्ष्य स्वभावतरला नववधूर्बलादुपभोक्तव्येति नायकं प्रति प्रौढा दूती शिक्षयतीति सन्दर्भो बोध्य:। 'विसम्भणानभिज्ञेन कान्तेन कोपिताया: कस्याश्चिदवस्थां कापि सखीमाह’ इति गङ्गाधरावतरणम्।
यस्मिन्यूनि सेयं बद्धभावा, गुणमुग्धतया पुन: पुनस्तस्यैव कथा: कुर्वतीरन्ययुवती-रालोक्य मनसीर्ष्याकषायिता काचिन्मातृभगिनीमाह-
तत एव भवन्ति कथा विकसन्ति च तत्र तत्र पूर्यन्ते।
अपि मन्ये मातृष्वसरेकयुवाऽयं किमु ग्राम:।।४८।।२
१. पुच्छिज्जन्ती ण भणइ गहिआ पप्फुरइ चुम्बिआ रुअइ।
तुह्णिका णववहुआ कआवराहेण उवऊढा।।४७।।
[पृच्छ्यमाना न भणति गृहीता प्रस्फुरति चुम्बिता रोदिति।
तूष्णीका नववधू: कृतापराधेनोपगूढा।।]
२. तत्तो च्चिअ होन्ति कहा विअसन्ति तहिं तहिं समप्पन्ति।
किं मण्णे माउच्छा एक्कजुआणो इमो गामो।।४८।।
[तत एव भवन्ति कथा विकसन्ति तत्र तत्र समाप्यन्ते।
किं मन्ये मातृष्वस: एकयुवकोऽयं ग्राम:।।]
ततस्तस्मादेव युवकात्कथा भवन्ति। तमवलम्ब्यैव कथानामारम्भ इत्यर्थ:। तत्र विकसन्ति वृद्धिं प्राप्नुवन्ति। तत्रैव च समाप्यन्ते। ततश्च हे मातृष्वस:! एको युवा यस्मिन्नीदृशोऽयं ग्राम इति किमहं मन्ये? किमन्य: कश्चन युवा नास्ति यदेकस्य तस्यैव कथामुखरो लोक इति भाव:। तस्यैव कथा भवन्तीति स्थाने 'तस्मादेव कथा भवन्ति’ इत्यनेन 'परस्परं कथोपकथन-स्यारम्भस्तं विषयीकृत्यैव भवति, इत: पूर्वं तु न तासु संलाप इति’ तद्गुणमुग्धतातिशयो व्यज्यते। विकसन्तीति पुष्पधर्मताकथनेन 'तद्विषयीकरणं विना कथा मुकुलिता एव तिष्ठन्ति, तं वर्ण्यं कृत्वा तु तासां गुणसौरभप्रसार:’ इत्यतिशयो ध्वन्यते। 'पुन: पुन: कस्यचित्कथा: कुर्वतीं कामप्युपहसन्ती कापि मातृभगिनीमाह’ इति गङ्गाधर:।
गुणानुरक्ता काचित्प्रियवचनानां मनोवशीकारितामन्तरङ्गसखीं प्रत्याह-
वचनानि यानि वयमपि जल्पामस्तानि जल्पति जनोऽपि।
तेन प्रजल्पितानि तु हृदयं सुखयन्ति तान्येव।।४९।।१
जनोऽपीत्यनेन-केवलमस्माकमेव वचनानि सामान्यानि न, अस्मद्बहुमानभाजन-मन्योऽपि जनस्तादृशान्येव संलपतीति सर्वजनवचनापेक्षया प्रियवचनानामुत्कर्ष: सूच्यते। तान्येव वचनानि तेन प्रजल्पितानि तु हृदयहारीणीत्यनेन-शब्दासन्निवेश: स एव भवति परं तत्सम्बन्धित्वेन प्रियतया तेषां हृदयाकर्षकत्वं भवतीति प्रियं प्रति हार्दिकोऽनुरागो व्यज्यते।
कृतकलहतया पत्यु: पराङ्मुखीं नायिकां जारसमागमायोत्साहयन्ती दूती प्रसङ्गानुगत-माह-
सर्वादरेण मार्गत जनं प्रियं यदि सुखेन व: कार्यम्।
यो यस्य हृदयदयितस्तन्न सुखं तत्र यन्नास्ति।।५०।।२
१. जाणि वअणाणि अम्हे वि जम्पिओ ताइँ जम्पइ जणो वि।
ताइं चिअ तेण पजम्पिआइं हिअअं सुहावेन्ति।।४९।।
[यानि वचनानि वयमपि जल्पामस्तानि जल्पति जनोऽपि।
तान्येव तेन प्रजल्पितानि हृदयं सुखयन्ति।।]
२. सव्वाअरेण मग्गह पिअं जणं जइ सुहेण वो कज्जम्।
जं जस्स हिअअदइअं तं ण सुहं जं तहिं णत्थि।।५०।।
[सर्वादरेण मृगयध्वं प्रियं जन यदि सुखेन व: कार्यम्।
यद्यस्य हृदयदयितं तन्न सुखं यत्तत्र नास्ति।।]
मार्गत अन्विष्यत। तथा च सहसा प्राप्तेरभावे, सयत्नमन्वेषणेनापि प्रियजना: प्रेम्णा सङ्गन्तव्य:। स्वयं यत्र प्रणयी आगच्छति किं तत्र वक्तव्यमिति समधिकप्रोत्साहनं व्यज्यते। सर्वादरणेत्यनेन-यदि गुणाभिमानी स उपेक्षेत तर्ह्यपि नानाविधैरादरानुगमनै: स प्रसादनीय:। यदि च प्रियजन: स्वयमेवादरं कर्तुमुद्यत: सुबहु सौभाग्यं तत्राऽपि जारकृतादर: सूच्यते। यदि सुखेन कार्यमित्यनेन-'यद्यपि ते पतिरस्त्येव परं हृदयाननुकूलतया न तत्समागमेन सुखमिति’ पत्युरुपजापो ध्वन्यते। यत्सुखं तत्र (हृदयदयिते) न भवेदीदृशं सुखमेव नास्ति, अपि तु सर्वं सुखं तत्रोपलभ्यत इत्यर्थ:। तन्न सुखमित्यनेन यद्धि सुखमिति सर्वजनैरनुभूतं तत्तु सर्वमपि लभ्यते, यच्च यच्च न प्राप्येत तत्तत्सुखपदवाच्यमेव नेत्याकूतम्। 'व:’ इति बहुत्वेन 'त्वामेव प्ररोचनाविधया नेदं कथयामि, अपि तु सामान्यतया सर्वानेव सुखलिप्सून् कथयामीत्य-पक्षपातो ध्वन्यते। प्राकृते लिङ्गादेरनियमात् यो यस्य हृदयदयित इति पुंस्थाने 'जं जस्स हिअअदइअं’ इति क्लीबं प्रायाजीति बोद्ध्यम्। गङ्गाधरभ्रमानुसारं यथास्थितं नपुंसकमेव चेत्क्रियेत तर्हि-यद्वस्तु यत्सुखं वा यस्य हृदयदयितमिति गतिरवलम्ब्या भवेत्। परं पूर्वार्द्धे प्रियजनस्य स्पष्टं निर्देशेन दयितपदस्वारस्याभावेन गतिरवलम्ब्या भवेत्। परं पूर्वार्द्धे प्रियजनस्य स्पष्टं निर्देशेन दयितपदस्वारस्याभावेन च सेयमगतिरेवेत्यलम्।
अकृतप्रसाधनैव कथमुपस्थितासीति कान्तमुपगतां दुहितरं प्रतिक्रुध्यन्तीं वेश्यामातरं वचनचातुर्येण कामुक: स्वयमाह-
दृष्टिसुख ईक्ष्यमाणो विचिन्त्यमानो मनोरम: श्वश्रु।
श्रुतिसुख उदीर्यमाण: प्रियो जनो नित्यरमणीय:।।५१।।१
दृश्यमान: प्रियजनो दृष्टे: सुखकारक:। उदीर्यमाण: सङ्कथासु कीत्र्यमान:। सर्वास्व-स्थास्वपि सर्वदैव सुखकारक इत्यर्थ:। प्रियजनस्य ईक्षणं चिन्तनं कीर्तनं च सुखमिति कथनसौकर्येऽपि ईक्ष्यमाण: प्रिय इत्यादिना ईक्षणचिन्तनादिकं तत्सम्बन्धितयैव सुखकारकमत: स स्वयमेव सुखस्वरूपोऽस्तीत्यतिशयो व्यज्यते। एवं च- हृदयतोऽनुरज्यतो मम कृते किं वा प्रसाधनेनेति सवैदग्ध्यं स्वप्रणय: प्रकाश्यते। 'तथैवापरगाथामाह’ इति निबध्नता गङ्गाधरेण नायिकोत्साहनार्था दूत्युक्तिरपि सेयं स्वीकृता, परमत्र 'श्वश्रु’ इत्यामन्त्रणं न सम्बध्यते।
१. दीसन्तो दिट्ठसुओ चिन्तिञ्जन्तोँ मणवल्लहो अत्ता।
उल्लावन्तों सुइसुहो पिओ जणो णिच्चरमणिज्जो।।५१।।
[दृश्यमानो दृष्टिसुखश्चिन्त्यमानो मनोवल्लभ: श्वश्रु।
उल्लप्यमान: श्रुतिसुख: प्रियो जनो नित्यरमणीय:।।]
नि:शेषितधनत्वात्पूर्वं दत्तार्द्धचन्द्रस्तत: पुनरुपार्जितधनत्वे दुहितृस्नेहमुपदर्श्य कुट्टन्या-नुनीयमानो भुजङ्ग: पूर्वदुर्वचनानि साकूतमभिध्वनयन्सोपालम्भप्रत्याख्यानमात्मनिन्दा-व्यपदेशेनाह-
उन्नत्या सन्त्यक्ता: स्थानभ्रष्टाश्च गलितपीवरता:।
स्थविरापयोधराविव वयं निषण्णा उदर एव।।५२।।१
उन्नत्या तुङ्गत्वेन पक्षे उत्कर्षेण। स्थानभ्रष्टा भुजमूलरूपात् स्थानत: पतिता:, पक्षे स्वस्वरूपोचितपदतश्च्युता:। उदर एव निषण्णा: उदरोपरि लम्बमाना:, पक्षे उदरभरणायैव जीवन्त:। सन्त्यक्ता: स्थानभ्रष्टा इत्यादिविशेषणानां पयोधरावित्यनेन सह वचनविपरिणा-मेनाऽन्वय:। उपमायां वचनसाम्याग्रहे तु व्यक्तिबहुत्वात्पयोधरबहुत्वमवलम्ब्य 'स्थविरापयोधरा:’ इत्येव पठनीयम्। तथा च- 'उन्नतपुरुषा एवास्मादृशीनां व्यवहारोचिता:’ इत्यादि भवत्या पूर्वमुक्तत्वात् निर्धनतयैव अवनता: पदभ्रष्टाश्च वयं न युष्माकमनुरूपा:, किमस्माभिरिति सोत्प्रासं प्रत्याख्यानमभिव्यज्यते। अनभिरुचितौ स्थविरापयोधरौ यथा न केनचिदुपगम्यौ तथा क्षीणधना वयमपि नि:सार्या एव, किमस्माभिर्युष्माकं प्रयोजनमिति निगूढोपालम्भश्च ध्वन्यते। वयमिति बहुत्वेन 'अहमेव किम्, अस्मत्सदृशा बहवोऽपि भवादृशीभिरवधीरिता युष्मत्स्वरूपं परिचायिताश्च’ इति कुट्टनीं प्रति साकूतं व्यज्यते।
वाग्वैदग्ध्यमण्डिता काचित्खण्डिता प्रातरायान्तं कान्तं दिनकरनमस्कारव्यपदेशेनोपा-लभते-
प्रत्यूषागत रञ्जितदेह प्रियालोकलोचनानन्द।
सन्नखमण्डनक नमो दिवसपतेऽन्यत्रनीतरजनीक।।५३।।२
१. ठाणब्भट्ठा परिगलिअपीणआ उण्णईअ परिचत्ता।
अम्हे उण ठेरपओहर व्व उअरे च्चिअ णिसण्णा।।५२।।
[स्थानभ्रष्टा: परिगलितपीनत्वा उन्नत्या परित्यक्ता:।
वयं पुन: स्थविरापयोधरा इवोदर एव निषण्णा:।।]
२. पच्चूसागअ रञ्जितदेह पिआलोअ लोअणाणन्द।
अण्णत्तखविअसव्वरि णहभूसण दिणवइ णमो दे।।५३।।
[प्रत्यूषागत रक्तदेह प्रियालोक लोचनानन्द।
अन्यत्र क्षपितशर्वरीक नभोभूषण दिनपते नमस्ते।।]
प्रत्यूषे प्रात: काले आगतो द्वीपान्तरात्, पक्षे सपत्नीभवनात्। रञ्जितदेह: उदयसमये अरुणमण्डल: पक्षे सपत्नीसङ्क्रान्तालक्तकादिना रक्तशरीर:, सपत्न्यामनुरक्तमूर्तिर्वा। प्रिय: आलोक: प्रकाशोऽवलोकनं वा यस्य स:। लोचनयोरानन्दस्वरूपपक्षे प्रियालोकलोचनानन्देत्येकं पदम्। प्रियालोकस्य अन्यमहिलाजनस्य लोचनयोरानन्दो यस्मात्स:। सन्नं निजस्याभावेऽवसन्नं शून्यं यत्खम् आकाशं तस्य मण्डनस्वरूप! नभोभूषणेत्यर्थ:। पक्षे सत् उत्तमं सपत्नीदत्तनखान्येव मण्डनं यस्य सत्सम्बुद्धौ। सपत्नीदत्तनखक्षताद्यङ्कितेत्यर्थ:। अन्यत्र अन्यद्वीपे नीता रजनी येन, पक्षे अन्यस्या गृहे नीता रजनी येन। दिवसपते हे सूर्य ते नम:। विदग्धाया नायिकाया वाच्य: सूर्यरूपोऽर्थ:, परं शब्दशक्तिमूलानुरणनविधया अनुरक्तशरीराद्यर्थस्यापि प्रतीतेर्नायक-रूपोऽर्थोऽपि प्रतीयते। ततश्च सूर्यप्रसङ्गे नायकमनुकीर्तयन्त्या: प्रमत्तत्वं मा प्रसाङ्क्षीदिति द्वयोरुपमानोपमेयभावो व्यङ्ग्यत्वेन कल्प्यते। एवं च सूर्यो यथा दूरत एव प्रणम्यते न निकटमुप-गम्यते तथा त्वमपि दूरत एव वन्दनीयोऽसीति नायकं प्रत्युपालम्भश्चरमं व्यङ्ग्यम्। नायकपक्षे 'दिवसपते’ इत्यामन्त्रणेन- त्वं मे दिवसकालार्थमेव पतिरसि। रात्रौ तु सपत्नीषु पत्नीत्वं कलयसीति गूढोपालम्भ: सूच्यते। पतिपदेनापि- 'त्वं भोजनवस्त्राभ्यां मत्पालनमेव स्वकर्तव्यं मन्यसे’ इत्याक्षेपो द्योत्यते। प्रियालोकेतिपदेन- यत्र रात्रयो नीयन्ते ता एव ते प्रिया:, अहं तु ते चक्षु:- शूलमिति सपत्नीं प्रत्यसूया व्यज्यते। लोके हि यं प्रति दूरसम्बन्धो वा सम्बन्धविच्छेदो वा सूचयितुमिष्यते तत्र 'त्वं सम्प्रति प्रणम्योऽसि’ इति वक्रोक्तिविधया प्रोच्यते। तथा चात्रापि प्रणामेन 'प्रत्यहं व्यलीकशतैरनुभूतभूरिवेदनाहं साम्प्रतं त्वत्तो दूरमेव तिष्ठामि, धन्यस्त्वं मे स्वामी’ इति गूढकोपोऽभिव्यज्यते। खण्डिताया उदाहरणे गृहीता सेयं गाथा सरस्वतीकण्ठाभरणे।
प्रवृत्तिशैथिल्यमवलोक्य 'किं गर्भवती’ति कान्तेन जिज्ञासिता काचिदाह-
विपरीतसुरतलम्पट पृच्छसि मम किमिति गर्भसम्भूतिम्
अपवृत्ते कुम्भमुखे जललवकणिकापि तिष्ठति किम्।।५४।।१
अपवृत्ते अधोमुखीकृते। कणिकापीत्यनेन- जललेशस्य का कथा, कणोऽपि न तिष्ठति। तथा च- रेतोबिन्दोरप्यसम्बन्धे गर्भगन्ध एव कीदृगिति सूच्यते। सम्भूतिपदप्रयोगेण एवं स्थितौ सम्भवोऽपि नास्तीति गूढमाकूतं व्यज्यते।
१. विवरीअसुरअलेहल पुच्छसि मह कीस गब्भसंभूइम्।
ओअत्ते कुम्भमुहे जललवकणिआ वि किं ठाइ।।५४।।
[विपरीतसुरतलम्पट पृच्छसि मम किमिति गर्भसम्भूतिम्।
अपवृत्ते कुम्भमुखे जललवकणिकापि किं तिष्ठति।।]
अभिरुचितेऽपि दयिते अतिदूरसम्बन्धानुरोधेनाप्रवर्तमानां नायिकां प्रोत्साहयन्ती दूती प्रसङ्गानुषङ्गेणाह-
अत्यासन्नविवाहे प्रवर्द्धमाने तु तरुणगोपीभि:।
मधुमथने सम्बन्धा निह्नूयन्ते यशोदया साकम्।।५५।।१
प्रवर्द्धमाने वयोवृद्धिं गच्छति मधुमथने अत्यासन्नो विवाहो यस्यैवम्भूते सति तरुणगो-पीभि: यशोदया सह ये सम्बन्धास्ते निह्नूयते। निकटसम्बन्धाभावे विवाहसम्बन्धो निष्प्रतिबन्धं स्यादिति भाव:। तरुणपदेन- विवाहयोग्यता कृष्णेन सह प्रणयसम्बन्धश्च सूच्यते। तथा च- विवाहसम्बन्धार्थमप्येवंविधा: सम्बन्धा यदि नानुरुध्यन्ते तर्हि किमत्रैषां प्रतिबन्धकतागन्धोऽपीति नायिकां प्रत्यभिव्यज्यते। अत्यासन्नेत्यतिपदेन- अतित्वरितं चिकीर्ष्यमाणे विवाहे, एकत्र विवाहप्रतिबन्धकसम्बन्धेऽधिगतेऽन्यत्र स सम्बन्ध: स्थिरीकृतो भवेदिति सूच्यते। 'कामार्ता: स्वाजन्यमप्यपलपन्तीति निदर्शयन्कश्चिदाह’ इत्यस्पष्टार्थमिव गङ्गाधरावतरणम्।
दयितविषये भग्नमनोरथतया निर्वेदमुपगता काचित्सखेदं विधिमुपालभते-
हृदयपटे किल यद्यन्मन आशावर्तिकाभिरालिखति।
तत्तत्प्रोञ्छति निभृतं बालक इव विधिरसौ विहसन्।।५६।।२
मन: (कर्तृपदम्)। आशावर्तिकाभि: आशारूपाभिस्तूलकाभिर्यद्यत् आलिखति। मनसि नानाविधा आशा: कुर्वत्यहं यद्यत् निश्चिनोमि विधिस्तत्सर्वमतर्कितमेव लुम्पतीति भाव:। आशावर्तिकाभिरिति बहुवचनेन-चित्रकारो नानाविधरङ्गार्थं नानाविधास्तूलिका यथा व्यवहरति तथाहमपि विविधा आशा हृदि धारयामीति ध्वन्यते। विहसनप्रोञ्छतीति खेलामुपयातस्य बालकस्य
१. अच्चासण्णविवाहे समं जसोआइ तरुणगोवीहिं।
वड्ढन्ते महुमहणे संबन्धा णिह्णुविज्जन्ति।।५५।।
[अत्यासन्नविवाहे समं यशोदया तरुणगोपीभि:।
वर्धमाने मधुमथने सम्बन्धा निह्नूयन्ते।।]
२. जं जं आलिहइ मणो आसावट्टीहिँ हिअअफलअम्मि।
तं तं बालो व्व विही णिहुअं हसिऊण पम्हुसइ।।५६।।
[यद्यदालिखति मन आशावर्तिकाभिर्हृदयफलके।
तत्तद्बाल इव विधिर्निभृतं हसित्वा प्रोञ्छति।।]
स्वभावचित्रणम्। एवं च- बालको यथापरस्य लाभालाभावविचारयन्नेव पटलिखितं प्रोञ्छति, सा चास्य नैसर्गिकक्रीडेति परिवर्ण्यते, तथैव विधिरपि मे सर्वमनुचिन्तितं मनोरथजातं क्रीडयेवापमार्ष्टीति द्योत्यते। विहसन्नित्यनेन-मम सर्वनाशं परिजानन्नपि विधिर्निर्दु:खमेव प्रवर्तत इति निष्ठुरता ध्वन्यते। निभृतमित्यनेन ममापरिज्ञातमेव सर्वं कार्यं विफलं भवतीति सहसा नैराश्यं सूच्यते। प्रोञ्छतिपदेन आलेख्यस्य हस्तेनापमार्जनेऽपि विरूपा अपि तद्गता रङ्गरेखा यथा प्रतीयन्त एव तथा मनोरथवैफल्येऽपि तेषां स्मृतिर्मां भृशमुद्व्यथयतीति दु:खस्मृति-रभिव्यज्यते। बालक इवेत्युपमया खेलाविलग्नबालकहठो यथा दुर्निवारस्तथेदं विधिविल-सितमिति विवशता ध्वन्यते। असाविति-समक्षमेव मे, मन्मनोरथानपहन्तीति दु:खकारणता द्योत्यते। मनो यद् (आ) ईषदेव लिखतीत्यनेन-आशापरम्पराया हृदये स्थानदानमात्र एव त्वरितमेव मे नैराश्यं भवतीति व्यज्यते।
सपाटवोपालम्भपण्डिता काचित्खण्डिता प्रातरुपगतं दयितं चन्द्रव्यपदेशेनाह-
अनुभूत: पूर्णदिने सकलकलापूर्ण तव करस्पर्श:।
वन्दामहे द्वितीयासङ्गकृशाङ्गाधुना चरणौ।।५७।।
षोडशकलाभि: पूर्ण (अयि चन्द्र), पूर्णदिने तव कलाभि: पूर्णे पूर्णिमादिवसे तव किरणस्पर्शोऽनुभूत:। द्वितीयासङ्गेन द्वितीयातिथे: सम्बन्धेन कृशशरीर! इदानीं वन्दनीय-चरणोऽसि। व्यङ्ग्यविधया तु दयितमाह- चतु:षष्टिकलाभि: पूर्णं पूर्णदिने तव सङ्गसौख्यपूर्णे दिने। अथवा प्राकृते 'पुण्णदिअहम्मि’ इत्यस्य पुण्यदिवस इत्यर्थ:। ततश्च मत्पुण्योदयदिने अथवा शोभने दिने तव हस्तस्पर्शोऽनुभूत:। इदानीं द्वितीयस्या: मत्तोऽपरस्या: सपत्न्या: सङ्गेन कृशाङ्ग! तव चरणौ वन्दामहे, इदानीं त्वं चरणयो: प्रणम्य एव न तु सविधमुपगम्य इत्यर्थ:। दूरत एव नमस्करणीयोऽसीति भाव:। कोपत: प्रत्याख्याने प्रसिद्धा किल चरणवन्दनोक्ति:। सकलकलापूर्णेति सासूयोक्त्या- 'त्वं सकलशाठ्यकलाभि: पूर्णोऽसि। एवं च भाग्यैरभिनन्दनीये पुण्येऽपि दिवसे तव करस्पर्श एव अस्मत्कृते भूरिभाग्यमभूत्। द्वितीयाभि: साकं तु सङ्गोऽपि भवति, यस्याधिक्येन कार्श्यमप्यभवत्। अहो धन्योऽसि?’ इतीर्ष्या व्यज्यते। किञ्च- स किल कश्चन पुण्यो दिवस आसीद्यत्र ते करस्पर्श: (विवाहावसरे प्रथमप्रथमं पाणिग्रह:) मयानुभूत:। इदानीमन्यासङ्गकृशाङ्गात्त्वत्तो दूरपरिस्थितिरेव साधीयसी। एवं च- 'पाणिगृहीतीमपि मां
१. अणुहुत्तो करफंसो सअलअलापुण्ण पुण्णदिअहम्मि।
वीआसङ्गकिसङ्गअ एह्णिं तुह वन्दिमो चलणे।।५७।।
[अनुभूत: करस्पर्श: सकलकलापूर्ण पूर्णदिवसे।
द्वितीयासङ्गकृशाङ्ग इदानीं तव वन्दामहे चरणौ।।]
परिक्लेश्य अन्यासु शरीरशोषयित्रीषु निर्भरं रमसे’ इत्याक्षेपो ध्वन्यते। अथवा- अस्मा-भिरस्मत्पुण्योदयदिने तव करग्रहणमात्रमनुभूतम्। इदानीं वास्तवे या ते सहधर्मिणी (भार्या), तस्या: सङ्गेन त्वं कृशाङ्गो दृश्यस एवेति कोपवैपरीत्यं व्यज्यते। 'द्वितीया सहधर्मिणी’ इत्यमर:। अप्रस्तुतेन चन्द्रवृत्तान्तेन प्रियतमचेष्टासूचनादप्रस्तुतप्रशंसा। अनया च- 'भाग्योदयसूचके शोभने दिने तव करस्पर्शो यो मयाऽनुभूत:, [भूतकालिकक्तेन सोऽनुभवकालो व्यतीत:] इदानीं तव चरणयो: प्रणाम:। अर्थात्सपत्नीर्ष्याग्रिदाहापेक्षया त्वत्तो दूरपरिस्थितिरेव सुखावहा’ इत्युपालम्भो व्यज्यत इत्यलङ्कारेण वस्तुध्वनि:। 'खण्डिता काप्यन्यापदेशेन कान्तं सचमत्कार-माह’ इत्यवतरणम्। 'अत्र समासोक्त्यलङ्कारेण चन्द्रकान्तयोरुपमानोपमेयभावो व्यङ्ग्य:’ इत्युपसंहारश्च गङ्गाधरटीकायाम्।
प्रियतमगमने हृदयदृढीकरणार्थमुक्ता दृढानुरक्ता न नायिका सखीमाह-
दूरान्तरिते दयिते कथमपि नयने निवर्तिते तु मया।
हृदयं तेन समं पुनरद्याऽप्यनिवारितं भ्रमति।।५८।।१
दयिते दूरान्तरं गते सति, दूरं गत्वा वृक्षादिभिरन्तरिते तिरोहिते सति वा। मया नयने कथमपि निवर्तिते अतिकष्टेन परावर्तिते। निवर्तिते इति णिचा- 'ते स्वेच्छया न निवृत्ते, अपि तु मया बलात्परावर्तिते’ इति प्रणयातिशयो द्योत्यते। अनिवारितं मम नियन्त्रणामवधीर्य बलात् प्रवृत्तम्। भ्रमतीत्यनेन- यत्र यत्र स गच्छति तत्र तत्रैव यातीति प्रियवश्यत्वं सूच्यते। अथवा- अनिवारितमित्यनेन 'लोकलज्जाभयेन नयने मया निवारिते, परं हृदयं न निवारितम्, यतो हृदयमस्मै समर्पितम्।’ एवं च 'अवशीभूतहृदया कथं धैर्यमुपयामि’ इति स्वपारतन्त्र्यं सखीं प्रत्यभिव्यज्यते। 'दूरान्तरितेऽपि’ इति मूलगतस्य 'अपि’ शब्दस्य विशेषतो न स्वारस्यमिति तदुपेक्षा। तस्यैवाग्रहे तु 'दयिते दूरान्तरितेऽपि मया कथमपि निवर्तिते नयने’ इति पाठ्यम्। 'विरहोत्कण्ठिता दूतीमाह’ इति गङ्गाधरावतरणम्।।
दयितविलोकनादेव शिथिलितमानां नायिकामालोक्य मानं शिक्षयन्ती सखी सप्रण-योपालम्भमाह-
१. दूरन्तरिए वि पिए कह वि णिअत्ताइँ मज्झ णअणाइँ।
हिअअं उण तेण समं अज्ज वि अणिवारिअ भमइ।।५८।।
[दूरान्तरितेऽपि प्रिये कथमपि निवर्तिते मम नयने।
हृदयं पुनस्तेन सममद्याऽप्यनिवारितं भ्रमति।।]
तस्य कथाकण्टकिते शब्दश्रवणेन समपसृतकोपे।
सम्मुखवीक्षणवेपिनि किमूपगूढा प्रपत्स्यसे नूनम्।।५९।।१
प्रियस्य कथामात्रेण प्रसङ्गोत्थापनमात्रेण रोमाञ्चिते! प्रियस्य शब्दश्रवणेन अपगतकोपे! प्रियस्य सम्मुखालोकनेन कम्पनशीले! प्रियेण उपगूढा त्वं किमु प्रपत्स्यसे? प्रियप्रसङ्गेनैव यदा ते रोमाञ्चवेपथुमुखा: सात्त्विकभावा भवन्ति, येन हि कोपापगम: स्पष्टं प्रतीयते तर्हि प्रियेण परिरब्धा तु न जाने त्वं किं करिष्यसीति भाव:। अङ्गविशेषमनिर्दिश्य सर्वशरीरे रोमाञ्चोक्त्या प्रियप्रणयातिशय: सूच्यते, अत एव शब्दमात्रात् 'सम्’ सम्यग्रूपेण अपसृतकोपा त्वं भवसीति जाने। यदा तु ते कृत्रिमकोप: स्वयमेवापसरति तदा प्रियमभिमुखमागतमालोक्य ते कम्पोद्गमो भवतीत्यप्यहं वेद्मि। एवं च- एवं प्रियप्रणयानुगता त्वं मानावलम्बनमृषोक्त्या किमित्यस्मान्मुधा व्यामोहयसीत्युपालम्भो नायिकां प्रति ध्वन्यते। 'मानं कर्तुमसमर्थां नायिकां प्रति दूती सप्रणयकोपमाह’ इति गङ्गाधर:।
सायंसमयसन्निधानेन प्रियाभिसरणसामीप्यं सूचयन्ती सखी सम्मुखमवस्थितां नायिकां सवैदग्ध्यमाह-
भरनमितनीलशाखाग्रचलितचरणार्द्धविधुतपक्षपुटा:।
तरुशिखरेषु विहङ्गा: संस्थानं हन्त कथमपि लभन्ते।।६०।।२
स्वशरीरभरेण नमितात् नीलशाखाग्रभागात् चलितं स्खलितं चरणार्द्धं येषाम्, अत एव विधुतौ पक्षपुटौ यैस्ते इति बहुव्रीह्युत्तरं कर्मधारय:। नीलेत्यनेन-शाखानामार्द्रतया स्निग्धत्वं सूच्यते, अत एव पक्षिणां पदस्खलनमिति भाव:। सायंसमये तरुषु रात्रिसंस्थानं लिप्सन्तो
१. तस्स कहाकण्टइए सद्दाअण्णणसमोसरिअकोवे।
समुहालोअणकम्पिरि उवऊढा किं पवज्जिहिसि।।५९।।
[तस्य कथाकण्टकिते शब्दाकर्णनसमपसृतकोपे।
सम्मुखालोकनकम्पनशीले उपगूढा किं प्रपत्स्यसे।।]
२. भरणमिअणीलसाहग्गखलिअचलणद्धविहुअवक्खउडा।
तरुसिहरेसु विहंगा कह कह वि लहन्ति संठाणम्।।६०।।
[भरनमितनीलशाखाग्रस्खलितचरणार्धविधुतपक्षपुटा:।
तरुशिखरेषु विहङ्गा: कथं कथमपि लभन्ते संस्थानम्।।]
(दूरत उड्डीयागता:) विहगा: सम्मुखमुपलब्धेषु लघुशाखाग्रेषु पूर्वं स्थातुमिच्छन्ति, तानि च तेषां भरतोऽवनमन्ति। अत एव ईषदवस्थापितं तेषामग्रतनं चरणार्द्धं स्निग्धेभ्य: शाखाग्रेभ्यो विस्खलति। ततश्च पतन्तस्ते पक्षपुटं विधुवन्त: पुनस्तत्र तिष्ठन्ति, इति रात्रिनिवासं चिकीर्षतां पक्षिणां स्वभाव:। अनया च स्वभावोक्त्या-सन्ध्यासमय: सञ्जातस्दिह सज्जय तेऽभिसरण-समालम्भनानीति नायिकां प्रति सख्या सत्वरसन्नाह- संसूच्यते। 'दूती अभिसारिकां त्वरयितुमाह’ इति गङ्गाधर:।
सुरतरसमत्ततया निर्विशङ्कसङ्कोचं रमितवती काचिन्नायकमनसि भावि भावान्तरं निवारयितुं रतावसाने समभिधत्ते-
सविशेषं रमितोऽसि हि यदधरमधुपानलालसया।
बहुशिक्षिता विलज्जा ह्यसतीति तु नाथ मा मंस्था:।।६१।।१
सुरतकर्मणि बहुशिक्षिता, अलज्जाशीला विगतलज्जा, अत एवेयमसती इति मयि मा विचारं स्थापयेरित्यर्थ:। शिक्षा ह्यपरतो लभ्यते। ततश्च बहुभिर्बहु शिक्षितेयम्, अथवा अस्या बह्वी शिक्षा सञ्जातेत्युभयथाऽप्यर्थे, सुरते सविशेषप्रवृत्त्या असतीत्वभ्रमो भवति। अत एव नेदं मन्तव्यमिति स भ्रमो निवार्यते। नाथेति सम्बोधनेन-सम्प्रति त्वमेव मेऽवलम्बनमिति त्वत्सनाथायां निष्कपटसमर्पितहृदयायां मयि तवाऽप्यकीर्तिकरो नायं भ्रम: समुचित इति प्रणयनिवेदन-ममिव्यज्यते। 'असतीं प्रशंसता केनापि सङ्गता काचिदसती तमाह’ इति गङ्गाधर:। असती (अन्यगामिनी), निर्लज्जा बहुशिक्षिता भवतीति हृदि मा स्थिरीकुर्या:’ इति च तट्टीकातात्पर्यम्।
दुर्विज्ञेयमसतीचरित्रमित्यात्मनो लोकरहस्यवेदित्वमभिव्यञ्जयन्नागरिक: सहचरमाह-
पानेन भोजनेन च तथा गृहीतो हि मण्डलोऽसत्या।
जारं यथाभिनन्दति वुक्कति गृहभर्तरि त्वयति।।६२।।२
१. अहरमहुणणधारिल्लिआइ जं च रमिओ सि सविसेसम्।
असइ अलज्जिरि बहुसिक्खिरि त्ति मा णाह मण्णुहिसि।।६१।।
[अधरमधुपानलालसया यच्च रमितोऽसि सविशेषम्।
असती अलज्जाशीला बहुशिक्षितेति मा नाथ मंस्था:।।]
२. खाणेण अ पाणेण अ तह गहिओ मण्डलो अडअणाए।
जह जारं अहिणन्दइ भुक्कइ घरसामिए एन्ते।।६२।।
[खादनेन च पानेन च तथा गृहीतो मण्डलोऽसत्या।
यथा जारमभिनन्दति भुक्कति गृहस्वामिन्येति।।]
मण्डल: कुक्कुरस्तथा गृहीतो वशीकृत:। गृहीत इति पदेन हस्तगततासूचनादेकान्त-वशीकृततया अन्याननुकूलताभावो ध्वन्यते। अभिनन्दति सपुच्छधूननं पदलोठनादिना तूष्णीं तत्स्वागतं करोतीत्यर्थ:। अनेन-निभृतं जारस्य गृहान्त: प्रवेशो ध्वन्यते। गृहस्वामिनि गृहमागच्छति सति बुक्कति शब्दं करोति। तथा च- तच्छब्दसूचनया रममाणस्य जारस्य निह्नवे सौकर्यं सूच्यते। स्वामिपदपरिवर्ते गृहस्वामिपदप्रयोगेण 'यस्मिन् गृहे भोजन-सम्वेशनादिकं लभते तस्याधिकारिणं जानन्नपि बुक्कतीति विशेषशिक्षितत्वं द्योत्यते। 'मण्डलं परिधौ कुष्ठे देशे द्वादशराजसु। क्लीबेऽथ निवहे बिम्बे त्रिषु पुंसि तु कुक्कुरे।।’ इति मेदिनी। 'असतीरक्षणस्य दु:शकतामसतीपतिं श्रावयन्ती काचिदाह’ इति गङ्गाधरावतरणम्। तट्टीकायां 'भुक्कते’। 'एति’ [आगच्छति सति] इति तु व्याकरणविरुद्धमेव।
सततसुरतासक्तानां दुर्निवारा दौर्बल्यदशेति दयिताय दर्शयन्ती दूरदर्शिनी काचिद्व्याध-वृत्तान्तं निदर्शयति-
कण्डूयता ह्यकाण्डे पल्लीमध्ये स्वविकटकोदण्डम्।
पतिमरणादप्यधिकं व्याधेन हि रोदिता माता।।६३।।१
स्वस्य विकटं स्थूलदृढत्वाद् दुराकर्षम्। कण्डूयता किञ्चित्तक्षणेन तनूकुर्वता। पतिमरणस्य शोकवेदनायां यावदरोदत्ततोऽप्यधिकं रोदितेत्यर्थ:। पत्यु: शौर्ययश:प्रख्यापनायामयं पुत्र एवावलम्बनमासीत्। अद्य पारम्परिकं धनुस्तक्षता तेन पत्युर्यश:शरीरमपि समापितमिति पत्युरपेक्षयापि तत्कीर्तेर्व्याधकुटुम्बिनीषु स्वस्य समधिकगौरवावहत्वान्मरणतोऽप्यधिकं दु:खमित्याशय:। अकाण्डे तक्षणस्याऽनवसरे। ततश्च अशक्तत्वादेवानेन धनु: सूक्ष्मीकृतमिति द्योत्यते। कण्डूयनेन नखादिद्वारा त्वक्तक्षणं लक्ष्यते। तथाच- त्वक्तक्षणेनापि सा शौर्यावमानं मन्यत इति तस्या मनस्वितातिशयो व्यज्यते। कण्डूयतेति शत्रा- कण्डूयनव्यापारमसमापितवत्येव पुत्रे तस्यास्तावद्दु:खमिति तदतिशय: सूच्यते। पल्लीमध्य इत्यनेन-सर्वेषां व्याधकुलानां समक्ष एव सोऽयमवमानोऽभूदिति वेदनातिशय:। स्वपदेन पारम्परिकं स्वत्वं सूच्यते। ततश्च-तादृशधनुस्तक्षणेन पारम्परिकी कीर्तिरवलोपिततेति दु:खातिशयो द्योत्यते। 'नायिकान्तरानुरक्त-जामातृदर्शनेन स्वदुहितरमनुशोचन्तीं व्याधश्वश्रूं दृष्ट्वा काचिदाह’ इति गङ्गाधर:। अत्तापदस्य
१. कण्डन्तेण अकण्डं पल्लीमज्झम्मि विअडकोअण्डम्।
पइमरणाहिँ वि अहिअं वाहेण रुआविआ अत्ता।।६३।।
[कण्डूयता अकाण्डे पल्लीमध्ये विकटकोदण्डम्।
पतिमरणादप्यधिकं व्याधेन रोदिता श्वश्रू:।।]
सुप्रसिद्धं श्वश्र्वर्थं मत्वा सेयं व्याख्या। अत्तापदस्य मात्रर्थोऽपि प्राकृते। दुर्बलस्य जामातुरपकीर्त्या पतिमरणादधिकं दु:खमुत वंशधरस्य पुत्रस्येति तारतम्यं सहृदयै: परीक्ष्यम्।
किमिति रोदिषीति सख्या पृष्टा काचिदाह-
वयमतिसरलनिसर्गा: प्रियसखि दयितो विकारपरितोष:।
न ह्यन्या कापि गति: प्रोञ्छ्यन्तां कथमिवाऽस्रौघा:।।६४।।१
वयं किल सरलस्वभावा:, हावभावादिकं किमपि न जानीम:। दयितस्तु विकारेषु हावभावादिषु परितोषो यस्य तादृश:। ततश्च हावभावनिपुणाभिर्महिलाभिर्हृतहृदयोऽयं तास्वेवाधिकमनुरज्येत्। अत एव प्रियविरहशङ्कया रुद्यत इति भाव:। वयमिति बहुत्वेन- अहं मम सख्यादिपरिजनश्चापि सर्व: सरलस्वभाव इति सूच्यते। हावादीनां विकारपदव्यपदेशेन- कुलमहिलानामार्जवमेव स्वभाव:, हावभावस्त्वस्वाभाविकतया विकार एव मे भातीति तत्राऽरुचि: सूच्यते। वयं यथा स्वस्वभावभूतमार्जवं न त्यजामस्तथा प्रियोऽपि हावभावप्रियतां न त्यक्तुमिच्छेत्, ततश्चान्योऽन्यानुरागार्थं न काप्यन्या गतिरिति भाव:। अस्रौघा बाष्पसमूहा: कथं प्रोञ्छ्यन्ताम् अपनीयन्ताम्। अस्रौघा इति बहुत्वेन भूयान् मे बाष्पनिचय इति दु:खबहुत्वं ध्वन्यते। कथमित्यनेन-निजप्रकृतिमत्यजन् प्रिय: सरलायां मयि सम्प्रति नानुरज्यति, अग्रेऽपि तथा भविष्यन् न दृश्यत इति चिन्तया सन्ततमश्रुविसर: प्रवहति, कियत्प्रोञ्छ्यतामिति तदतिशयो व्यज्यते।।
सुदृढमनुरक्तायामपि मयि न त्वमनुरज्यसीति सवैदग्ध्यपमुपालभमाना काचिन्नायकमाह-
धवलोऽसि यदपि सुन्दर तदपि तु मम रञ्जितं हृदयम्।
रागभृतेऽपि च हृदये सुभग विनिहितो न रक्तोऽसि।।६५।।२
१. अम्हे उज्जुअसीला पिओ वि पिअसहि विआरपरिओसो।
ण हु अण्ण का वि गई वाहोहा कहँ पुसिज्जन्तु।।६४।।
[वयं ॠतुकशीला: प्रियोऽपि प्रियसखि विकारपरितोष:।
न खल्वन्या कापि गतिर्वाष्पौघा: कथं प्रोञ्छ्यन्ताम्।।]
२. धवलो सि जइ वि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअम्।
राअभरिए वि हिअए सुहअ णिहित्तो ण रत्तो सि।।६५।।
[धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम्।
रागभृतेऽपि हृदये सुभग निहितो न रक्तोऽसि।।]
धवल: शुभ्र: श्रेष्ठश्च। रञ्जितं शोणीकृतम् अनुरक्तीकृतं च। रागेण शोणिम्ना शोणरङ्गेण वा भृते, पक्षे अनुरागेण पूर्णे। न रक्तोऽसि न लोहितोऽसि, पक्षे नानुरक्तोऽसि। पूर्वार्द्धे धवलेनाऽपि रक्तीकरणं विरुद्धमिति विरोध:। उत्तरार्द्धे-रङ्गभृते हृदये तिष्ठतोऽपि रक्तत्वाभावादतद्गुण:। 'सङ्गतान्यगुणानङ्गीकारमाहुरतद्गुणम्’ इत्यप्पयदीक्षित:। आभ्यामलङ्काराभ्याम् 'त्वय्यहमनुरक्ता, परं त्वं पूर्वतोऽनुरक्ताया ममानुरागं दृष्ट्वापि अनुरोधवशतोऽपि नानुरक्तोऽसि’ इति वस्तु व्यज्यते। 'भृते’ इत्यनेन- रागेण उपरिपर्यन्तं पूर्णं मे हृदयमित्यतिशयो द्योत्यते। विनिहित इत्यनेन-त्वं मया स्वेच्छया हृदये स्थापितोऽसीति प्रकृत्यैव हृदयाकर्षणजो रागो ध्वन्यते। एवं च- पूर्वार्द्धे सुन्दरेत्यामन्त्रणेन, उत्तरार्द्धे सुभगेति च सम्बोधनेन, प्रथमदर्शन एव तव हृदयादीन्यविचार्य सौन्दर्यमात्रमुग्धाऽहं त्वय्यनुरक्ताभूवम्। 'मदुपेक्षायामपि अहो कियदियमनुरक्ता’ इति स्वसौभाग्यदृप्तस्त्वं तु नाधुनाप्यनुरज्यसीति गूढ उपालम्भो व्यज्यते।
पूर्वमनुरञ्जितस्य पश्चादवधीरितस्य कस्यचित्प्रणयिन: पूर्वाकृष्टधनवैभवेनोज्ज्वल-नेपथ्यां काञ्चन गुणहीनां नायिकामनुसरन्तं कामिनिवहं विलोक्य निजगुणोत्कर्षसूचनेन वशयन्ती काचित्स्वप्रणयिनं प्रत्यन्यापदेशेनाह-
चञ्चुपुटाहतविगलितसहकाररसेन सिक्तदेहस्य।
कीरस्य मार्गलग्नं भ्रमरकुलं भ्रमति गन्धान्धम्।।६६।।१
चञ्चुपुटेन आहत: अतएव विगलित: प्रस्नुतो य: सहकारस्तद्रसेन। निरनुरोधस्य कीरस्य कीर्तनेन-स्वार्थवशाया नास्याश्चक्षु:प्रीति:, अत एवानया पूर्वप्रणयी परित्यक्त इति हेला सूच्यते। सहकारे चञ्चुपुटाहतेत्यादिविशेषणेन- छलबलप्रयोगैरनया पूर्वं प्रणयी परिभूतस्ततोऽपि सुजनेन तेन अशेषं मण्डनादिकमेव वितीर्णमिति तत्सौजन्यं नायिकायाश्च दु:शीलत्वं सूच्यते। गन्धान्धमित्यनेन-कामान्धतया गुणपरिचयशून्यम्, भ्रमरेत्यनेन स्वभावत एव कामिनीषु भ्रमण-शीलमिति नास्य गुणपरिज्ञानपाटवमित्यवज्ञा व्यज्यते। तथा च- 'अस्थिरप्रणयां बहिरेव दर्शनीया-मिमां लोका मुधैवानुसरन्ति। निरनुरोधा नेयमेवं सम्मानोचिता। अभिनन्दनीयगुणाया मम प्रणय-परिचयमग्रतस्त्वमनुभविष्यसि’ इति शृण्वन्तं कान्तं प्रत्यभिव्यज्यते।
रात्रिनिवासं प्रार्थयमानमुद्भिन्नमदनाङ्कुरं पथिकं प्रति प्रोषितपतिका स्वयंदूतिका साकूतमाह-
१. चञ्चुपुडाहअविअलिअसहआररसेण सित्तदेहस्स।
कीरस्स मग्गलग्गं गन्धन्धं भमइ भमरउलम्।।६६।।
[चञ्चुपुटाहतविगलितसहकाररसेन सिक्तदेहस्य।
कीरस्य मार्गलग्नं गन्धान्धं भ्रमति भ्रमरकुलम्।।]
श्वश्रूरत्र निमज्जत्यत्राऽहं चात्र परिजन: सकल:।
रात्र्यन्ध पथिक मा मा शयनीये नौ निमङ्क्ष्यसि हि।।६७।।१
अत्र अत्रेति त्रि: पृथक्पृथक् त्रयाणां स्थाननिर्देशार्थम्। निमज्जति नि:स्पन्दं शेते। निमज्जतिपदेन- 'श्वश्रू: सविधे वर्तमानेति भीतिर्मनसि नानेया। इयं हि शिथिलरज्जुकायां खट्वायां जरत्तरत्वेन नि:स्पन्दं परिपतति। अत एव मञ्चरूपकूपनिमग्नाया नास्या भयम्’ इति शङ्काराहित्यं व्यज्यते। 'अहं’ पदेन सह 'स्वपिमि’ इत्यादिस्वापबोधकपदानुक्त्या मन्मथोन्माथमयी सोत्कण्ठाहं न रात्रौ निद्रां लभे, अत एव प्रतीक्षिणी स्थास्यामीत्युत्कण्ठातिशयो ध्वन्यते। 'अत्र सकल: परिजन:’ इति पृथक्पृथक् स्थानमिङ्गितेन निर्दिश्य 'सकल’पदेन ते सर्वे सह संविशन्तश्चिरं स्ववर्ग्यवार्ताविनोदेन चिरकालोत्तरं शयाना न कथञ्चिदप्यस्मद्वर्गस्य वार्तामपि रात्रौ प्रत्ययन्तीति सूच्यते। वास्तवे तु 'एत्थ अहं दिअहए पलोएहि’ इति पाठ:। ततश्च 'अत्राहं दिवसके प्रलोकय भो:’ इत्यनेन- 'त्वं रात्र्यन्ध:’ अत एव 'क: कुत्र शेते’ इति दिवसे सम्यक् प्रलोकय’ इति पथिकं प्रति सूच्यते। तथा च- 'मदनशरशीर्णहृदयस्त्वमित्यहं जाने, परं पामरो दिवसकोऽयम् (कुत्सायां कन्)। अस्मच्छ्रेय: प्रतिकूलत्वात्कुत्सितोऽयमित्यर्थ:। न च रात्रिं यावदधीरेण भाव्यम्। यतोऽत्रैवाहम्, तत्प्रलोकय। नान्यतो गच्छामि। तदन्योऽन्यवदनावलोकनविनोदेन दिवसहतकमिममतिवाहयाव:’ इति द्योत्यते। आगतमात्रायां च रात्रावन्धीभूतो मदीयायां शय्यायां मा श्लिक्ष:। अपि तु निभृतनिभृतमेत्य दत्तावधाननिकट-कण्टकनिद्रान्वेषणपूर्वकं मम शयनीये निलीनो भविष्यसि [इति 'निमङ्क्ष्यसि’ पदद्योत्यम्]। 'पथिक! रात्र्यन्ध!’ इति सम्बोधनद्वयं रहस्यगोपनाय। यत: पथिकत्वेन श्रमवशात्स्थानविस्मरण-सम्भव:। रात्र्यन्धत्वेन शय्यायां पतनप्रसङ्गसम्भव:। अन्यथा 'आवयो: शय्यायां मा निमङ्क्ष्यसि’ इत्यप्रसक्तनिषेधेन रहस्यभङ्गापत्ते:। एवं च रात्र्यन्धताव्याजशिक्षणेन- कदाचिद्दैववशान्निकटकण्टकप्रबोधेऽपि नात्मनो दोष: प्रतीतो भवेदित्याकूतम्। तथा च- 'सम्प्रति गृहे श्वश्रूरहं चेति द्वावेव। श्वश्रूश्च जरत्तरत्वेन नि:स्पन्दा बधिरा च मञ्चरूपकूपे निकामं निमज्जति। गृहे बहिर्जनसञ्चारस्तु नास्त्येव। अतो रात्र्यन्धताव्याजभूमिकामवलम्ब्य नि:शङ्कं ममैव शय्यायां निभृतं निलीनो भव’ इति वक्तृबोद्धव्ययोर्वैशिष्ट्यादभिव्यज्यते। 'महँ’ इत्यावयोरित्यर्थे निपात:, न तु ममेत्यर्थे आत्ममात्रनिर्देशेन रहस्यभङ्गापत्ते:। अत एव आलोक 'लोचने’ 'महँ ण मज्जिहिसि’ इति पाठं मत्वा 'महँण’ इति निपातोऽनेकार्थवृत्ति: अत्रावयोरर्थे न तु 'ममेति’ इत्युक्तम्। एवं
१. एत्थ णिमज्जइ अत्ता एत्थ अहं एत्थ परिअणो सअलो।
पन्थिअ रत्तीअन्धअ मा महँ सअणे णिमज्जिहिसि।।६८।।
[अत्र निमज्जति श्वश्रूरत्राहमत्र परिजन: सकल:।
पथिक रात्र्यन्ध [क] मा मम शयने निमङ्क्ष्यसि।।]
काव्यप्रकाशटीकाकृद्भिरपि 'महं इति निपात आवयोरर्थे न तु ममेति’ इति स्पष्टमुक्तम्। एवं सति गङ्गाधरस्वीकृतच्छायायां ममेति पाठ: प्रामादिक ऐवेत्यलम्।
विरहवेदनाया विषमत्वं व्यञ्जयन्तीं विरहिणी वयस्यामाह-
परितोषसुन्दराणि हि बिभ्रति सुरतेषु यानि सौख्यानि।
विरहे तान्येव पुनर्भुक्तोद्गीर्णानि कुर्वन्ति।।६८।।१
सुरतेषु सर्वविधपरितोषेण सुन्दराणि अभिनन्दनीयानि यानि सौख्यानि महिला: बिभ्रति धारयन्ति लभ्यन्ते इति यावत्। ता: महिला: विरहे तान्येव सुखानि पूर्वं भुक्तानि पश्चादुद्गीर्णानि कुर्वन्ति। संयोगवेलायां भुक्तानि (पूर्वमनुभूतानि) तान्येव सुखानि विरहे उद्गीर्णानि भवन्तीत्यर्थ:। 'तथा च नेमानि विरहदु:खानि किन्तु पूर्वं भुक्तानि सुखान्येवोद्गीर्णानि एतद्रूपेण परिणतानीत्यपह्नुत्यलङ्कारो व्यङ्ग्य:।’ इति गङ्गाधर:। परितोषसुन्दराणीति सुखविशेषणेन- अत्यभिरुचिततया समागमसमये साभिलाषं बहूनि सुखान्यनुभवन्ति कामिन्य:, ततश्च विरहे तान्येव बहुदु:खात्मकानि भवन्तीति पीडातिशयहेतुत्वं व्यज्यते। उद्गिरणमसये यथा उदरस्थमन्यदपि सर्वं भुक्तं बहिर्भवति तथा सुरतसुखातिरिक्तान्यन्यान्यपि सुखानि सर्वाणि दु:खात्मकानि भवन्तीत्युद्गीर्णपदेन द्योत्यते।
पीनोन्नतपयोधराया: कस्याश्चिद्धारशोभावर्णनव्याजेन निजाभिलाषं साकूतं सूचयन्कश्चि-दाह-
मार्गमिवालभमानो हार: पीनोन्नतस्तनयो:।
भ्राम्यत्युरसि विचलितो यमुनाया: फेनपुञ्ज इव।।६९।।२
१. परिओससुन्दराइं सुरएसु लहन्ति जाइँ सोक्खाइं।
ताइं च्चिअ उण विरहे खाउग्गिण्णाइँ कीरन्ति।।६८।।
[परितोषसुन्दराणि सुरतेषु लभन्ते यानि सौख्यानि।
तान्येव पुनर्विरहे स्वादितोद्गीर्णानि कुर्वन्ति।।]
२. मग्गं च्चिअ अलहन्तो हारो पीणुण्णआणँ थणआणम्।
उव्विग्गो भमइ उरे जमुणाणइफेणपुञ्जो व्व।।६९।।
[मार्गमिवालभमानो हार: पीनोन्नतयो: स्तनयो:।
उद्विग्नो भ्रमत्युरसि यमुनानदीफेनपुञ्ज इव।।]
विचलित: उद्विग्न:, इतस्ततो लुठन्निति यावत्। गण्डशैलयोर्मध्यगतो यमुनाफेनपुञ्ज: प्रसरणमार्गमलभमानो यथेतस्ततो भ्राम्यति तथा पीनोन्नतयो: स्नतयोर्मार्गमप्राप्य चञ्चल: सन् हारस्तव वक्षसि विलुठतीत्यर्थ:। मार्गस्याप्राप्तौ पीनत्वमुन्नतत्वं च हेतु:। चञ्चलतया भ्रमणे च मार्गस्याप्राप्तिर्हेतु:। तव तथा पीनौ पयोधरौ यथा हारस्यापि नावकाश:। अत एव स उद्विग्न: सन्नितस्ततो भ्रमतीत्याशय:। यमुनाफेनसादृश्येन हारे किञ्चित् श्यामता सूचिता। ततश्च-स्तनमुखश्यामतया हारोऽपि तत्प्रतिच्छायया श्यामायित इति व्यज्यते। तथा च- स्तनमुखश्यामतया लक्षितसत्त्वाधाना त्वं सम्प्रतिनोपभोगयोग्येति तव पीनोन्नतस्तनावकाशमलभमानोऽहमुद्विग्नो मनसि खिद्ये इति नायिकां प्रति मनोभिलाषो ध्वन्यते।
शिशुनापि एकाकिना सचिवसूनुना राजपुरुषगोष्ठीमधितिष्ठता तेन कियान्वा परित: प्रभाव: प्रसारित इति कश्चिदन्यापदेशविधयाऽऽह-
सकलवनराजिमध्ये ह्यपि वटबीजाङ्कुरेण चैकेन।
तेन तथा कृत आत्मा यथा हि शेषद्रुमास्तले तस्य।।७०।।१
वटबीजाङ्कुरेण एकेनापि सता तथा आत्मा कृतो यथा शेषास्तदितरे द्रुमास्तस्य तलेऽभवन्। उत्तुङ्गतया विस्तृततया च सर्वे वृक्षा नीचीभूता अभवन्नित्यर्थं:। तथा च-एकाकिनापि तेन प्रतिद्वन्द्विमण्डले तथोन्नतिरासादिता यथा सर्वेऽपि विपक्षा: परिभूता इवाभवन्निति व्यज्यते। वटाङ्कुरेत्येव वक्तव्ये वटबीजाङ्कुरेणेत्यनेन- मया बीजादुद्भवन्नङ्कुरो दृष्टस्तेन च क्रमादेव-मुच्छ्राय: सम्पादित इति सूच्यते। ततश्च साम्प्रतमेव लब्धजन्मना शिशुना तथोत्कर्ष: सम्पादित इति त्वरितोन्नतिर्द्योत्यते। शेषा द्रुमा नीचीभूता इत्यस्य स्थाने तलेऽभवन्नित्युक्त्या- एकस्य वृक्षस्य तले यथान्ये वृक्षा न यथावदुपचयमुपगच्छन्ति तथा एतदभिभूतानां पुरुषाणामुन्नतिरेव नाऽभवत्, तस्य परिभवस्तु कुत इत्यतिशयो व्यज्यते। 'मूढेनापि तरुणा उत्कर्षाय चेष्टितं त्वं पुनर्महावंशप्रभव कथं न यतस इति निरुद्योगं कञ्चित्प्रत्युपदेशो व्यङ्ग्य:’ इति कश्चित्। 'राजसन्निधौ तिष्ठता तेन मम मित्रेण किं सम्पादितमिति पृष्ट: कश्चिदाह’ इति गङ्गाधर:। अङ्कुरपदस्य स्वारस्यमत्रान्वेषणीयमेव।
गुणवन्तो न बहुधा धनवन्तोऽपि भवन्तीति सवैदग्ध्यमुपपादयन्कश्चिद्दारिद्र्यं सम्बोध्याह-
१. एक्केण वि वडवीअङ्कुरेण सअलवणराइमज्झम्मि।
तह तेण कओ अप्पा जह सेसदुमा तले तस्स।।७०।।
[एकेनापि वटबीजाङ्कुरेण सकलवनराजिमध्ये।
तथा तेन कृत आत्मा यथा शेषद्रुमास्तले तस्य।।]
ये ये गुणिनो ये ये च दानिनो ये विदग्धविज्ञाना:।
दारिद्र्य रे विचक्षण तेषां त्वं सानुरागमसि।।७१।।१
गुणिन: दान-वैदग्ध-वैदुष्येभ्योऽन्योऽपि गुणा येषाम् ते, विदग्धं निपुणं विज्ञानं येषाम्, विज्ञाने निपुणा इति यावत्। अनेन तेषां सर्वतोमुखं वैदग्धमित्यतिशयो ध्वन्यते। अथवा विदग्धाश्च विज्ञानाश्चेति द्वन्द्व:। विदग्धाश्चतुरा:, विज्ञाना विशिष्टं ज्ञानं येषाम्। विशिष्टा विद्वांस इत्यर्थ:। विचक्षण चतुर। निर्गुणान्विहाय गुणिष्वनुरज्यसीति स्पष्टं ते चातुर्यमिति भाव:। तान् पीडयसीति वक्तव्ये सानुरागमसीत्युक्त्या-अनुरक्तो यथा कञ्चित्पुरुषमाश्रयन्नपि प्रेमवशान्न पीडयति, तथा त्वं तेषां तं क्लेशं नोत्पादयसि येन ते विरज्येयुरिति सूच्यते। तथा च-गुणिनो दारिद्र्येऽपि प्रसन्ना एव तिष्ठन्ति, नात्मावसादं गच्छन्तीति मनस्वितातिशयो ध्वन्यते। अथवा प्रेमिक इव नैतान्तपरित्यजसीति सततं साहचर्यं सूच्यते। विचक्षणेति सुभगं सम्बोध्य, 'रे’ इति नीचसम्बोधनेन-वास्तवेनाधममपि त्वं गुणिजनानुरागवशाद्दूरदर्शितया प्रशस्यमिवासीति निन्दाप्रशंसयो: साङ्कर्यं सूच्यते।
नायिकामुत्कण्ठयितुं दूती नायिकाया मुखचन्द्रशोभामेवमुपवर्णयति-
सुन्दर यदि कौतुकितोऽसि सकलतिथिचन्द्रदर्शनसुखानाम्।
तन्मोच्यमानकञ्चुकमीक्षस्व मुखं मसृणमस्या:।।७२।।२
द्वितीयादिसकलतिथिषु यानि चन्द्रदर्शनस्य सुखानि तेषां यदि त्वं कौतुकवानसि तर्हि मसृणं मन्दं यथा स्यात्तथा, शनै: शनैरिति यावत्। मोच्यमानं विसृज्यमानं कञ्चुकवस्त्रं
१. जे जे गुणिणो जे जे अ चाइणो जे विडड्ढविण्णाणा।
दारिद्द रे विअक्खण ताणँ तुमं साणुराओ सि।।७१।।
[ये ये गुणिनो ये ये च त्यागिनो ये विदग्धविज्ञाना:।
दारिद्र्य रे विचक्षण तेषां त्वं सानुरागमसि।।]
२. जइ कोत्तिओ सि सुन्दर सअलतिहीचन्ददंसणसुहाणम्।
ता मसिणं मोइज्जन्तकञ्चुअं पेक्खसु मुहं से।।७२।।
[यदि कौतुकिकोऽसि सुन्दर सकलतिथिचन्द्रदर्शनसुखानाम्।
तन्मसृणं मोच्यमानकञ्चुकं प्रेक्षस्व मुखं तस्या:।।]
'कुरती’ इति ख्यातं यस्मात् ईदृशम् अस्या: (नायिकाया:) मुखं वीक्षस्व। परस्पराश्लिष्टो-र्ध्वीकृतमण्डलयातिबाहुलिकं प्रतिलोमक्रमेण कञ्चुकावतारणसमये मुखमण्डलात्क्रमश: कञ्चुकावरणापसरणेन चिबुकादिभागस्य क्रमक्रमेण दर्शनं भवति। अन्ते च सम्पूर्णमपि मुखमण्डलमपगतावरणं भवति। एवंक्रमेण दृष्टचिबुकादिपर्यन्तभागस्य मुखस्य क्रमिकावस्थासु द्वितीयादितिथिषूदितस्य चन्द्रस्य साम्यं कल्पितमित्याशय:।
सुन्दरेत्यामन्त्रणेन-त्वं तु सौन्दर्यभिमानं वहस्येव परं पश्य तस्या: सौन्दर्यमित्याकूतम्। अथवा-यथा त्वं सुन्दरोऽसि तथैव त्वत्तोऽप्यतिशयितसौन्दर्या साऽप्यतीति पश्य ते सौभाग्यमिति प्ररोचनाभिव्यज्यते। 'कोऽपि साभिलाष: कस्याश्चिन्मुखचन्द्रं वर्णयति’ इति गङ्गाधर:।
ग्रीष्मावसानेऽप्यनागतो दयित: सम्प्रति प्रतिपथमुज्जृम्भितपय: प्रकर्षासु वर्षासु कथमा-गच्छेदिति भयविह्वला काचित्समाश्वासयन्तीं सखीं प्रत्याह-
समविषमनिर्विशेषा: समन्ततो मन्दमन्दसञ्चारा:।
अचिरान्मनोरथानामपि दुर्लङ्घ्या भवन्ति पन्थान:।।७३।।१
हरिततृणाच्छन्नतया जलपूर्णतया वा अलक्षितोच्चावचस्थला:। अत एव वा पिच्छिलतया वा मन्दमन्दं सञ्चरणं येषु तादृशा:, मार्गा मनोरथानामपि दुर्गमा अचिरादेव भवन्ति भविष्यन्ति। प्रावृडियं प्रक्रान्ता, अत एव मार्गे गतागतमतिशीघ्रमेव रुद्धं स्यादिति शैर्या ्तिशयसूचनाय भविष्यन्तीति स्थले भवन्तीत्युक्तम्। 'वर्तमानसामीप्ये वर्तमावद्वे’ ति लट्। पन्थान इति बहुत्वेन ग्रामागमनस्य सर्वेऽपि मार्गा रुद्धा भवेयुरिति सूच्यते। लोका मार्गलङ्घनस्य मनोरथमपि न करिष्यन्ति किं पुरस्तदारम्भमिति, वाञ्छन्नपि प्रियतमो विवशयता नागन्तुं शक्नुयादिति भाव:। 'सङ्केतस्थलान्तराभावेन मार्गासन्नकुञ्जादौ दत्तसङ्केतां काञ्चित्प्रति, वर्षां विना जनसञ्चारजुष्टं तत्स्थलं न सम्प्रति सङ्केतयोग्यं, सत्यां वर्षायां तथा स्यादिति’ सूचयन्त्या: सख्या वा सेयमुक्ति:।
वंशकुञ्जे प्रियं सम्भुज्य परावृत्ताया: पुत्रवध्वा: शिरोऽञ्चले कुञ्जलग्नानि वंशपत्राणि दृष्ट्वा तदपराधसंसूचनेन साकूतमुपहसन्त्यां श्वश्र्वां पुत्रवधूरपि सापराधां तां समुचितमुत्तरमाह-
१. समविसमणिब्बिसेसा समन्तओ मन्दमन्दसंचारा।
अइरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा।।७३।।
[समविषमनिर्विशेषा: समन्ततो मन्दमन्दसञ्चारा:।
अचिद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्या:।।]
अतिदीर्घाणि हि वध्वा दृश्यन्ते शिरसि वंशपत्राणि।
श्वश्रु भणिते भणाम: पृष्ठं युष्माकमपि पाण्डु।।७४।।१
अतिदीर्घाणीत्यादि भणिते एतत्कथनस्योत्तरे। हे श्वश्रु वयमपि भणाम: 'युष्माकमपि पृष्ठं पाण्डुरम्’ इति निरास्तरणभूमौ कृतसम्भोगायास्तवापि पृष्ठे तच्चिह्नं स्फुटमङ्कितमिति किं मामेवोपहससीत्याशय:। युष्माकमिति श्वश्रूं प्रत्यादरकृतं बहुत्वम्। भणाम इति स्वस्मिन्नादर-सूचकेन बहुवचनेन तु-' किं मच्छिद्राण्युद्धाटयसि। अहमपि ते सर्वं रहस्यं वेद्मि’ इत्यात्मनोऽ-भिमानो ध्वन्यते। अतिदीर्घाणीति विशेषणेन-पवनोड्डीनान्येतानि लग्नानीत्युत्तरावकाशस्थगनं ध्वन्यते। अतिदीर्घाणां तेषां पवनैरहार्यत्वात्। अत्ता इति श्वश्रूसम्बोधने देशी। 'पुट्ठी’ इति पृष्ठशब्दस्य प्राकृते स्त्रीत्वं प्रसिद्ध्यनुशासनात्।
नायिकाया मानं विलोक्य विरक्ता सेति भ्रमेण विरज्यमानं नायकं बोधयितुं वृद्धा दूतीदऽऽमाह-
अप्याकस्मिकरोष: क्षणप्रसादो ह्यलीकनिर्बन्ध:।
उन्मत्सरसन्ताप: पुत्र स्नेहस्य पदवीयम्।।७५।।२
अत्त्थक्कति आकस्मिके अद्भुते वा देशी। अकस्मादेव रोषकरणं क्षण एव प्रसाद: (अपरस्य प्रसादनं स्वयं प्रसदनं च) मुधैव निर्बन्ध: आग्रह:। अथवा अलीकवचनेषु अलीकवचनैर्वा आग्रह:। सपत्न्यादिषु मात्सर्यहेतुक: सन्ताप:। इयं स्नेहस्य पदवी मार्ग:। 'उन्मच्छरेति बहुले’ इति गङ्गाधर:। तन्मते-बहुल: सन्ताप इत्यर्थ:। 'उन्मूर्च्छनसन्ताप:’ इति
१. अइदीहराइँ बहुए सीसे दीसन्ति वंसवत्ताइं।
भणिए भणामि अत्ता तुम्हाणँ वि पण्डुरा पुट्ठी।।७४।।
[अतिदीर्घाणि वध्वा: शीर्षे दृश्यन्ते वंशपत्राणि।
भणिते भणामि श्वश्रु युष्माकमपि पाण्डुरं पृष्ठम्।।]
२. अत्थक्करूसणं खणपसिञ्जणं अलिअवअणणिब्बन्धो।
उम्मच्छरसंतावो पुत्तअं पअवी सिणेहस्स।।७५।।
[आकस्मिकरोषकरणं क्षणप्रसादनमलीकवचननिर्बन्ध:।
उन्मत्सरसन्ताप: पुत्रक पदवी स्नेहस्य।।]
पाठं स्वीकृत्य 'उन्मूर्च्छनं प्रतिकूलवाचा प्रकोपनम्’ इति गङ्गाधरतोऽपि प्राचीना टीका। पुत्रेत्यामन्त्रणेन त्वं स्नेहपात्रमिति बह्वनुभवाहं हितं तवोपदिशामीति व्यज्यते। एवं च-सेयमनुरागा-तिशयवशादेव त्वयि नानाविधान्मानमार्गानवलम्बते। नात्र विरक्तेर्गन्धोऽपीति स्नेहातिशयशालि-न्यामेतस्यां प्रेमविदग्धचर्ययैव व्यवहर्तव्यमिति दूत्याश्चरमं व्यङ्ग्यम्।
जनसङ्कुले स्थले निभृतमन्योन्यालोकने सम्पन्नेऽपि कटाक्षादिमविक्षिपन्तीं नायिकाम-ननुरक्तेति सन्दिहानं नायकं प्रोत्साहयन्ती दूती सवैदग्ध्यमाह-
कर्णाञ्जलिभिर्निपिबति जनरवमिलितमपि हि तव संलापम्।
दुग्धं जलसम्मिलितं सा बाला राजहंसीव।।७६।।१
'अत्र पिबतीति कर्त्रर्थे पीयत इति कर्मप्रत्यय:। प्राकृते लिङ्गवचनतन्त्रमित्याद्यनुशा-सनात्। अथवा सा बाला राजहंसीवेति प्रथमा तया राजहंस्येवेति तृतीयार्थे। तथा पीयते इति यथाश्रुतमेव व्याख्येयम्।’ इति गङ्गाधरटीका। वस्तुतस्तु 'पिज्जइ’ पीयते इत्यत्र कत्र्रर्थ: पीङ् पाने धातु:। संलापं पिबतीत्यस्य सातिशयं शृणोतीति लक्ष्यम्, तेन च प्रेमातिशयो व्यज्यते। जनलसम्मिलितं दुग्धमिवेत्यनेन-अन्येषां वचनानामपेक्षया त्वद्वचने कियद् गौरवमिति प्रोत्साहनं ध्वन्यते। राजहंसीवेत्युपमया हंसी यथा नीरक्षीररविवेके परमचतुरा तथा कोलाहलमिलितस्यापि भवद्वचस: प्रेमातिशयवशात्त्वदन्यवचोवैजात्यं स्फुटमवगच्छन्ती सा परमविदग्धा, अन्यैरसम्पर्काद्विशुद्धा, उत्तमयाऽतिशयकामनीया चेति ध्वन्यते। बालेत्यनेन-भवन्तं दृष्ट्वापि जनसम्मर्दवशात्सङ्कुचन्ती सा नैसर्गिकमौग्ध्यवशान्न कटाक्षादिद्वारा त्वदाकर्षणयत्नं कृतवतीति नायिकाया निरुपाधिक: प्रेमाभिव्यज्यते। अञ्जलिपदेन-अतिशयपिपासितस्य चेष्टां संसूच्य नायकवच:श्रवणे सुभृशोत्कण्ठा ध्वन्यते। एवं च त्वद्दर्शनार्थं पूर्वत एव परममुत्कण्ठिता सा कोलाहलनिमित्तमपि भवत्कण्ठरवमाकर्ण्य भवद्भावनानिमीलितनयनं दत्तकर्णतया पुलकित-सर्वाङ्गी निश्चलानिश्चेष्टमवतस्थ इति सुभृशमनुरक्ता सा नान्यथा सन्देग्धव्येति दूत्याभिव्यज्यते।
प्रियतमस्य गुणगणमनुरागवशात्पुन: पुनर्दूतीमभिपृच्छन्तीं नायिकां प्रति काचित्सखी साकूतमाह-
१. पिज्जइ कण्णञ्जलिहिं जणरवमिलिअं वि तुज्झ संलावम्।
दुद्धं जणसंमिलिअं सा बाला राअहंसि व्व।।७६।।
[पिबति कर्णाञ्जलिभिर्जनरवमिलितमपि तव संलापम्।
दुग्धं जलसम्मिलितं सा बाला राजहंसीव।।]
ऋजुकेऽयि लज्जसे नो प्रियस्य चरितानि पृच्छन्ती।
कुसुमसमृद्धिभिरिह किं सर्वाङ्गसुरभितस्य मरुकस्य।।७७।।१
'पिण्डीतको मरुबक: प्रस्थपुष्प:फणिज्झक:’ इत्यमर:। 'मरुआ’ इति ख्यात:। पत्र-शाखादिषु सर्वत्र सुरभितस्य मरुबकस्य सौरभनिमित्ताय पुष्पं यथा नाधिककामनीयं तथा सहजसौन्दर्यसौष्ठवादिगुणगणालङ्कृतस्य तस्य किंवा गुणान्तरपृच्छाव्यापारेणेति भाव:। अयि ऋजुके इत्यनेन-ऋजुकतयैव त्वं पुन: पुन: पृच्छसि, तथा च ऋजुका त्वं दूतीसमुदीरितेषु गुणेषु नि:संशयं विश्वसिहि। कृतं प्रश्नायासैरिति सख्याऽभिव्यज्यते।
सहजस्निग्धलोहितौ हस्तौ विलग्नधातुरागाविति विभ्रमेण बारं बारं प्रक्षालयन्तीं मुग्धां नायिकां निवारयितुं दूती आह-
अप्रतियती प्रवालाङ्कुररुचिरस्निग्धलोहितौ मुग्धे।
निर्धौतधातुरागौ किमिति मुधा धावयसि हस्तौ।।७८।।२
प्रवालाङ्कुरवत् रुचिरौ स्निग्धौ लोहितौ च स्वहस्तौ निर्धौतधातुरागौ अप्रतियती (प्रत्ययमकुर्वाणा) न विश्वसती त्वं मुधा किमिति प्रक्षालयसि। प्रवालस्यापि नवीनोऽङ्कुर इति स्निग्धत्वलौहित्यातिशय: सूच्यते। नायिकाया मुग्धत्वं तद्धस्तादिषु साहजिकरागवत्त्वं च संसूच्य तटस्थं नायकमुत्कण्ठयन्त्या दूत्या: सख्या वा सेयमुक्ति:।
नि:शेषितधनत्वेऽपि परिसरमत्यजतो भुजङ्गान् शरद्घनवर्णनव्याजेन निन्दन्ती वेश्या-सखी तां प्रति साकूतमाह-
१. अइ उज्जुए ण लज्जसि पुच्छिज्जन्ती पिअस्स चरिआइं।
सव्वङ्गसुरहिणो मरुवअस्स किं कुसुमरिद्धी (दीर्घ) हिं।।७७।।
[अयि ऋजुके न लज्जसे पृच्छन्ती प्रियस्य चरितानि।
सवाङ्गसुरभेर्मरुबकस्य किं कुसुमर्द्धिभि:।।]
२. मुद्धे अपत्तिअन्ती पवालङ्कुरअवण्णलोहिअए।
णिद्धोअधाउराए कीस सहत्थे पुणे धुअसि।।७८।।
[मुग्धेऽप्रत्ययन्ती प्रवालाङ्कुरवर्णलोहितौ।
निर्धौतधातुरागौ किमिति स्वहस्तौ पुनर्धावयसि।।]
सैन्धवपर्वततुल्यानि पश्य धुततूलपुञ्जसदृशानि।
मुक्तोदकानि सुतनो शरदि सिताभ्राणि शोभन्ते।।७९।।१
पर्वतसादृशेन-कठोरत्वं जडत्वं च, सैन्धवेत्यनेन द्रुतद्रवशालितया अस्थिरमनस्कत्वं च सूच्यते। तूलसादृश्येन-स्वाभाविकं लाघवम्, धुतेत्यनेन बहुशस्तिरस्कृतत्वं च द्योत्यते। अभ्रपदेन-अत्युच्चैरपि रिक्तैर्मेधैर्यथा न फलसिद्धिस्तथा कौलीन्यादिमहिम्ना उन्नतैरपि निर्धनैर्जनै: किं न: फलमिति सूच्यते। शोभन्त इति साकूतोक्ति:। नि:शेषितधना इमे न भान्तीति व्यङ्ग्योऽर्थ:। मुक्तोदकपदेन-समापितधनत्वं तु स्फुटमेव। तथा च सुतनु इत्यामन्त्रणेन-सम्प्रति नवयौवने स्वाभाविकसौन्दर्यशालिनी त्वं नि:शेषितधनतयाऽस्मदादीनामनभिप्रेतेषु भुजङ्गेष्वेतेषु बाह्य-सौष्ठवमात्रमालोक्य न प्रसक्ता भविष्यसीति सख्या ध्वन्यते। 'सुअण’ इति पाठे तु सुजनेति पथिकसम्बुद्धि:। तथा च प्रावृट्परिसमाप्त्या मार्गाणां यात्राक्षमतया साम्प्रतं देशान्तरगमनेन द्रव्यादिकमर्जनीयम्, न निश्चेष्टतया स्थातव्यमिति हितचिन्तक: कश्चित्तं प्रति भङ्ग्या सूचयतीति तात्पर्यार्थ:। 'वर्षागमनेन दु:खितां नायिकां शरत्कालोपगमेन स शीघ्रमायास्यतीति समाश्वासयन्ती सखीदमाह’ इति गङ्गाधर:।
त्वां सुखयितुं सततमनुवर्तमानामपि मत्सखीं कुशलप्रश्नादिनाऽप्यसम्भवायन् हन्त हन्त स्वार्थमात्रप्रवणस्त्वं सर्वथा पराङ्मुखोऽसीति नायकमुपालभमाना नायिकासखी अन्यापदेशविधयाह
पश्य शिरोभिर्वलितै: कौटकिकैर्नीयमाना हि।
आपृच्छन्ते कुञ्जान्नि:पश्चिमवलितवीक्षणैर्महिषा:।।८०।।२
१. उअ सिन्धवपव्वअसच्छहाइँ धुअतूलपुञ्जसरिसाइं।
सोहन्ति सुअणु मुक्कोअआइं सरए सिअब्भाइं।।७९।।
[पश्य सैन्धवपर्वतसदृक्षाणि धुततूलपुञ्जसदृशानि।
शोभन्ते सुतनु मुक्तोदकानि शरदि सिताभ्राणि।।]
२. आउच्छन्ति सिरेहिँ विवलिएहिँ उअ खडिएहिँ१ णिज्जन्ता।
णिप्पच्छिमवलिअपलोइएहिँ महिसा कुडङ्गाइं।।८०।।
[आपृच्छन्ति शिरोभिर्विवलितै: पश्य [खड्गिकै:] नीयमाना:।
नि:पश्चिमवलितप्रलोकितैर्महिषा: कुञ्जान्।।]
१. 'खटिएहिं’ इति स्यात्।
वलितै: पृष्ठतोऽवलोकनार्थं परावर्तितै: शिरोभि: (उपलक्षिता:) 'खडि (टि) एहिं’ कौटकिकै: पशुहिंसाजीवै: 'खटीक’ इति भाषा। नीयमाना महिषा नि:पश्चिमानि अन्तिमानि वलितानि परावर्तितानि च यानि वीक्षणानि अवलोकनानि तै: (तद्द्वारा) कुञ्जान् आपृच्छन्ते गमनानुमतिप्रश्नं कुर्वन्तीत्यर्थ: पशुषु निकृष्टा महिषा अपि येषु कुञ्जेषु निर्भरनिदाघमध्याह्ने निबिडच्छायामुपलभ्य सुखमासादितवन्तस्तेऽपि तेषां कुञ्जानां वियोगवेलायां दु:खमनुभवन्ति। अत एव विषादनीरवं पुन: पुन: परावृत्त्य पश्यन्ति। रसिकम्मन्यस्त्वं तु ततोऽप्यधमोऽसि, यत्तां निष्करुणमेवमवमन्यसे इति सख्या ध्वन्यते। कौटकिकैर्नीयमाना इत्यनेन- हिंसार्थे बलादाकृष्टा: परवश अपि ते कृतज्ञतां न व्यस्मार्षुर्भवांस्तु स्वतन्त्रोऽपि न तां प्रश्नमात्रेणापि सम्मानितवानिति गूढमुपालभ्यते। 'सङ्केतस्थानकुञ्जानां महिषसान्निध्येन दुरासदत्वासान्निद्यन्तं नायकं खिद्यन्तीं वा नायिकां प्रोत्साहयन्ती काचिदाह’ इत्यवतरणं विधाय- 'खडिएहिँ’ इत्यस्य 'खड्गिकै:’ इति अदत्तकोषतया अस्पष्टेव गङ्गाधरकृता छाया। किन्तु 'खटिएहिं’ तत्रोचित: पाठो यस्यार्थ: पशुहिंसाजीवी। महिषापगमेन कुञ्जा इदानीं निराबाधसङ्केतस्थानतामुपगता इति तत्तात्पर्यम्। आपृच्छन्तीति तच्छायाप्रयोगस्तु 'आङि नु प्रच्छ्यो:’ इत्यनवमर्शनमूलको विच्छाय एव।
मण्डितास्वखिलासु महिलासु दारिद्र्यकृतेन मण्डनाभावेन विषीदन्तीं काञ्चन सुन्दरीं समाश्वासयन्ती काचिद् ज्ञातिपुरन्ध्री आह-
प्रोञ्छाऽयि पुत्रि वदनं विशेषरमणीयमश्रुमण्डनकम्।
इदमेव हि मुखमण्डनमिति मा पुनरपि करिष्यसि प्रसभम्।।८१।।१
अयि पुत्रि! अश्रु एव मण्डनं मण्डनोपकरणं यस्य तथात्वेऽपि विशेषरमणीयं वदनं प्रोञ्छ मार्जय। किंवा, वदनं प्रोञ्छ। सहजसुन्दर्यास्तव अश्रु एव मण्डनं विशेषरमणीयं भवति। परम्, इदमेव मुखमण्डनमिति मत्वा पुनरपि नेदं करिष्यसि, नेत: परं रोदितव्यमित्यर्थ:। तथा च- नैसर्गिकसौन्दर्यमण्डनमडितायास्तव यत्किञ्चिदपि मण्डनायितं भवति। पश्य, वदनविधु-विच्छुरितास्तव बाष्पबिन्दवोऽपि रामणीयकमेव सम्पादयन्ति, तत: किंवा फलं मोघेन मण्डनान्त-रेणेत्याशय:। पुत्रीत्यनेन वात्सल्यभाजनतया त्वं हितमुपदिश्यसे न प्रतार्यस इत्यभिव्यज्यते। 'निजदारिद्र्येणाश्रु विमुञ्चन्तीं नायिकां समाश्वासयन्ती दूती आह’ इति गङ्गाधर:। दरिद्रेयं
१. पुसउ महं ता पुत्ति अ वाहोअरणं विसेसरमणिज्जम्।
मा एअं चिअ मुहमण्डणं त्ति सो काहिइ पुणो वि।।८१।।
[प्रोञ्छस्व मुखं तत्पुत्रि च (पुत्रिके) बाष्पोपकरणं विशेषरमणीयम्।
मा इदमेव मुखमण्डनमिति करिष्यसि पुनरपि।।]
मण्डनमिच्छति, तथा च मण्डनादिदाने धनिनां सुखसाध्येति तटस्थं प्रति सूचयन्त्या दूत्या वा उक्ति:। गङ्गाधरच्छायायां प्रोञ्छस्वेत्यात्मनेपदप्रयोगस्तु विचारणीय एव।
मार्गे कर्दमभयादभिसारे सङ्कुचितोर्नायिकानायकयो: प्रबोधार्थं दूती आह-
मध्ये प्रतनुकपङ्कं ह्युभयो: संश्यानकर्दमं तटयो:।
ग्रामस्य शीर्षसीमन्तकमिव रथ्यामुखं जातम्।।८२।।१
मध्यभागे प्रतनुक: स्वल्प: पङ्को यस्मिन्। तथा उभयोस्तटयो: (पार्श्वयो:) संश्यानकर्दमं शुष्कपङ्कम्। रथ्यामुखं ग्रामस्य शीर्षगतं सीमन्तकमिव भागद्वयविभक्त: केशपाश इव जातम्। रथ्योभयपार्श्वयो: शुष्ककर्दमत्वात् दिवसदृष्टेन मार्गेण रात्रावागन्तव्यमिति दूत्यास्तात्पर्यम्। 'प्रतनु स्वल्पं कं जलं यस्मिन्नेतादृश: पङ्को यत्र तादृशम्’ इति गङ्गाधर:।
चिरविरहोत्तरं प्रेयसीप्राप्तौ दुर्दमा भवति विलम्बजनिता तत्समागमोत्कण्ठेति स्वस्य सहृदयतां सूचयन्नागरिक: सहचरमाह-
जामातुद्र्विगुणयतेऽपराह्णसमितस्य मोहनोत्कण्ठाम्।
गृहपृष्ठभागमज्जनपिशुनो वध्वा वलयशब्द:।।८३।।२
अपराह्णे समितस्य समागतस्य जामातु: मोहनोत्कण्ठां सुरतोत्कण्ठाम्। गृहस्य पृष्ठभाग एव यन्मज्जनम् अङ्गसम्मार्जनं शयनं वा तत्सूचक:। अपराह्णसमितेत्यनेन- दिवसे श्वश्रूप्रभृतिसा-न्निध्याद्रात्रावेव समागमसौकर्यमिति तावत्कालं प्रतीक्षणेनोत्कण्ठातिशय: पोष्यते। द्विगुणय-तीत्यनेन-चिरविरहात्समागमोत्कण्ठा त्वासीदेव परं चिरकालद्धृदयदेशमधितिष्ठन्त्या: प्रेयस्या मज्जनकालिकविवसनाङ्गभावनया सा भृशमुज्जृम्भत इति ध्वन्यते। गृहपृष्ठभागेत्यनेन-
१. मज्झे पअणुअपङ्कं अवहोवासेसु साणचिक्खिल्लम्।
गामस्स सीससीमन्तअं व रच्छामुहं जाअम्।।८२।।
[मध्ये प्रतनु [क] पङ्कमुभयो: पार्श्वयो: श्यानकर्दमम्।
ग्रामस्य शीर्षसीमन्तमिव रथ्यामुखं जातम्।।]
२. अवरह्णागअजामाउअस्स विउणेइ मोहणुक्कण्ठम्।
बहुआइ घरपलोहरमज्जणपिसुणो वलअसद्दो।।८३।।
[अपराह्णागतजामातुद्र्विगुणयति मोहनोत्कण्ठाम्।
वध्वा गृहपश्चाद्भागमज्जनपिशुनो वलयशब्द:।।]
अतिसमीप एव सा विजनगता तिष्ठतीत्युत्कण्ठा संवर्धते। पिशुनेत्यनेन शब्दशक्त्यनुरण-नवशात्- कर्णेजपो यथा वैगुण्यसूचनया सह हृदि क्लेशमप्युत्पादयति तथा वलयशब्दोऽपि यथाकथञ्चिदवरुद्धोत्कण्ठस्य मानसस्य वेदनां जनयतीति सूच्यते। वलयानां शब्द: सुरतसामयिकं वलयशब्दं नायकहृदि स्मारयति। अतएव मोहनस्यैवोत्कण्ठा द्विगुणीभूतेत्याशय:। 'काचन नायिका पितृगृहे स्थिता क्वचिदासक्ता। तद्भर्तरि समागते व्याकुलचित्तं नायकं समादधती दूत्याह’ इति गङ्गाधरावतरणम्। 'दिनसत्त्वे जामाता श्वश्रवादिसान्निध्येन पश्चाद्गृहे न गमिष्यति। सा तु दिनशेष एव तत्र स्वपिति। त्वया तत्र गन्तव्यं तत्र सा सुलभेति’ तत्तात्पर्यम्। जामातुर्मोह-नोत्कण्ठाद्विगुणीकरणस्य स्वारस्यं नात्र भाति। द्विगुणीकृतमोहनोत्कण्ठस्य पत्यु: पुरस्तादेव तादृशवर्णनमरमणीयं चेति मन्मति:।
त्वं भीरुरसि, यत्तस्या: पत्युर्वीरताडम्बरं दृष्ट्वा भयाकुलत्वान्न तामभिसरसि’ इति सभर्त्सनं कञ्चिदुत्तेजयन्ती दूती अन्यापदेशविधयाह-
युद्धचपेटामोटितजर्जरकर्णस्य जीर्णमल्लस्य।
कक्षाबन्धनमेव हि समुत्खनति भीरुमल्लहृदयानि।।८४।।१
मल्लयुद्धकालिकचपेटाभि: आमोटितौ आमर्दितौ, अत एव नीरक्तसञ्चारत्वात्पिण्डी-कृतप्रायौ कर्णौ यस्य तादृशस्य वृद्धमल्लस्य कक्षाबन्धनमेव मल्लकच्छबन्धनमेव अन्येषां भीरुमल्लानां हृदयानि समुत्खनति विद्रावयति। जर्जरकर्णत्वादिना दृढमल्लतामनुमिन्वन्त: कच्छबन्धनाटोपं दृष्ट्वा 'न जाने अग्रे कीदृग्बलं कौशलं च दर्शयेत्’ इति भावयन्तो भीता भवन्तीत्याशय:। परिधानीयस्याधोवस्य पृष्ठतो निहिताञ्चलं कक्षा- 'परिधानाद्बहि: कक्षा निबद्धा ह्यासुरी भवेत्’ इति योगियाज्ञवल्क्य:। हृदयानीति बहुवचनेन बहवोऽपि मल्लाभासास्त-तोऽतितरा बिभ्यतीति सूच्यते। तथा च जीर्णेत्यनेन-पूर्वं तत्पति: शूर: समर्थश्चासीत्। सम्प्रति वार्धक्येन क्षीणशक्तिरत एव बाह्याडम्बरं दृष्ट्वा ततो न भेतव्यम्। वृद्धतया तस्या एव नासौ रोचते। ततश्च तरुणे बलशालिनि च त्वयि बलावलुब्धा साऽवश्यमनुरक्ता भवेत्। अतो भीरुताम-पहाय निर्भयं तत्राभियोक्तव्यमिति नायकं प्रति दूत्याभिव्यज्यते। 'आरभटीदर्शनेनैव भीरव: सुतरां पलायन्ते, अतो भीरुता न कर्तव्येति कश्चित्कञ्चिद्बोधयति’ इति गङ्गाधर:।
१. जुज्झचवेडामोडिअजज्जरकण्णस्स जुण्णमल्लस्स।
कच्छाबन्धो च्चिअ भीरुमल्लहिअअं समुक्खणइ।।८४।।
[युद्धचपेटामोटितजर्जरकर्णस्य जीर्णमल्लस्य।
कक्षाबन्ध एव भीरुमल्लहृदयं समुत्खनति।।]
सहजसौन्दर्यशालिनी गुणगणमण्डिता च काचिन्मल्लपत्नी प्रियतमापमानितापि न लज्जिता, प्रत्युत प्रसादमेवाप। तां भेदयन्ती दूत्याह-
आज्ञप्तं तेन त्वां पत्या प्रहतेन पटहशब्देन।
दौर्भाग्ये प्रकटीक्रियमाणे नृत्यसि न लज्जसे मल्लि।।८५।।१
पत्या भत्रा प्रहतेन पटहशब्देन, ताडितस्य पटहस्य शब्देनेत्यर्थ:। त्वां प्रति यद् दौर्भाग्यमाज्ञप्तं तस्मिन्दौर्भाग्ये प्रकटीक्रियमाणेऽपि न लज्जसे प्रत्युत नृत्यसि। डिण्डिमघोषपूर्वकं सर्वत्र तव दौर्भाग्यं तेन प्रसेधितं तथापि त्वं न लज्जस इत्यर्थ:। तेनेत्यनेन पूर्वमपि शतधा कृतापराधत्वेऽपि येन त्वमेवाऽपमानिता, स हि प्रसिद्धस्ते पतिरिति सूच्यते। अत एव स रक्षामात्रकर्ता पतिरेव न तु प्रियतम इति पतिपदेन ध्वन्यते। नृत्यसीत्यनेन एवमवमानेऽपि यदितस्ततो विचेष्टसे तत्ते नृत्यमिवेति गूढमाक्षेपो ध्वन्यते। मल्लीत्यामन्त्रणमपि साकूतम् एव-मपमानेऽपि मल्लपत्नीति ख्यातं वहन्ती त्वं धन्यासीति। आज्ञप्तमित्यनेन दौर्भाग्यमपि तेन केवलं न सम्पादितमेव, किं तु तदपि राज्ञेव तुभ्यं सगर्वमाज्ञप्तम्। ततश्च एवं सततव्यलीककारिणं रूपगुणानभिज्ञमपहाय अन्यत्र किं नानुरज्यसीति दूत्याभिव्यज्यते। 'काचन सहजसुन्दरी प्रियतमा-पमानितापि न लज्जिता दौर्भाग्यस्य चिरकालानवस्थायित्वेन हर्षितैवेति तां बोधयन्ती सख्याह’ इति गङ्गाधर:। एवमपराधेऽपि त्वं प्रसन्नेति त्वं क्षमावत्यसीति तत्तात्पर्यम्। अथवा- पत्युर्विर-क्तापि प्रसन्नेति स्वसौन्दर्यगर्विता सेयं सुखसाध्येति तटस्थं कामुकं प्रति दूत्या: प्रलोभनोक्ति:।
चाटुशतैर्नानाप्रलोभनैश्च पूर्वं वशीकृतवतीं तत: स्वल्पकाल एव विरोधवशादपवादं प्रचारयन्तीं दूतीं प्रति तिरस्कारं सूचयन्ती काचित्सखीमाऽऽह-
मा विस्रम्भममीषां व्रजत बहुलचाटुकर्मनिपुणानाम्।
पिशुनानां हि शुनामिव निर्वर्तितकार्यविमुखानाम्।।८६।।२
१. आणत्तं तेण तुमं पइणो पहएण पडहसद्देण।
मल्लि ण लज्जसि णच्चसि दोहग्गे पाअडिज्जन्ते।।८५।।
[आज्ञप्तं तेन त्वां पत्या प्रहतेन पटहशब्देन।
मल्लि न लज्जसे नृत्यसि दौर्भाग्ये प्रकटीक्रियमाणे।।]
२. मा वच्चह वीसम्भं इमाणँ बहुचाडुकम्मणिउणाम्।
णिव्वत्तिअकज्जपरम्मुहाणँ। सुणआणँ व खलाणम्।।८६।।
[मा व्रजत विस्रम्भमेषां बहुचाटुकर्मनिपुणानाम्।
निर्वर्तितकार्यपराङ्मुखानां शुनकानामिव खलानाम्।।]
सं. गा... ३०
निर्वर्तिते कार्ये विमुखानाम् अमीषां खलानां विश्वासं मा व्रजत। 'खलस्य वाङ्माधुर्य-मात्रेण विश्वासो न विधेय इति कश्चिदाहेत्यवतरणपूर्विका 'खलस्वभावोक्तिरियम्’ इति गङ्गाधरटीका।
ग्रामान्तरं गच्छन्तीमपि बहुभि: कामिभिरनुस्रियमाणां काञ्चिदसतीमालोक्य कापि सपरिहासमाह-
पङ्क्तिमिह मण्डलानां कर्षन्ती ग्राममन्यमुपयान्ती।
अविखण्डितसौभाग्या वर्षशतं जीवतु शुनी मे।।८७।।१
मण्डलानां कुक्कुराणां पङ्क्तिं कर्षन्ती आत्मना सह नयन्ती। एवमेवाक्षुण्णसौभाग्या। चिरं जीवत्विति शुनीसाम्यसूचिता तिरस्कारगर्भा परिहासोक्ति:। रिञ्छोलीति पङ्क्तिवाचको देशी।
पूर्वमनासक्तापि काचिद्देवरेण चाटुशतैर्नानाप्रलोभनैश्च वशीकृता। तत: स्वल्पम् एव काले विमुखीभवन्तं तं सकोपोपालम्भमिदमाह-
सत्यमुदीरय देवर तथा तथा चाटुकारकेण शुना।
निर्वर्तितकार्यपराङ्मुखत्वमिह शिक्षितं कस्मात्।।८८।।२
तथा तथेति पूर्वकृतनानाविधचाटुप्रकारं प्रति सङ्केत:। कस्मादित्यनेन- एवंविधस्वार्थी मम तु प्रश्नविषयीभूत एव, न मया दृष्टं इति निन्दातिशय: सूच्यते। नीचस्य सारमेयस्येव ते तदिदं दुश्चेष्टितमनुचितमिति भाव:। 'तथा च त्वत्त एवेदं तेन शिक्षितमिति मत्पराङ्मुखत्वं सर्वथा हेयमिति’ भावं गङ्गाधर आह।
ग्रामोत्थप्रभूतधान्यलाभेऽपि धनसङ्ग्रहार्थं शरदि जिगमिषन्तं ग्रामणीतनयं प्रवासाद्वार-यन्ती तत्पत्नी साकूतमाह-
१. अण्णग्गामपउत्था कढ्ढन्ती मण्डलाणँ रिञ्छोलिम्।
अक्खडिअसोहग्गा वरिससअं जिअउ मे सुणिआ।।८७।।
[अन्यग्रामप्रस्थिता कर्षयन्ती मण्डलानां पङ्क्तिम्।
अखण्डितसौभाग्या वर्षशतं जीवतु मे शुनी।।]
२. सच्चं साहसु देअर तह तह चडुआरएण सुणएण।
णिव्वत्तिअकज्जपरम्मुहत्तणं सिक्खिअं कत्तो।।८८।।
[सत्यं कथय देवर तथा तथा चाटुकारकेण शुनकेन।
निर्वर्तितकार्यपराङ्मुखत्वं शिक्षितं कस्मात्।।]
निष्पन्नसस्यसम्पद् गायति शरदीह पामर: स्वैरम्।
दलितनवशालितण्डुलधवलमृगाङ्कासु रजनीषु।।८९।।१
निष्पन्ना सस्यसमृद्धिर्यस्य तादृश: पामर: कृषीवलोऽपि, इह अस्यां शरदि कण्डित-नवशालितण्डुलवद् धवलो मृगाङ्को यासु एतादृशीषु रात्रिषु निष्प्रतिबन्धं गायति। उपार्जितनिष्पादितेत्याद्यनुक्त्वा निष्पन्नेत्युक्त्या-दैववशादेव सस्यनिष्पत्तिर्जातेति तस्या अस्थिरत्वं सूच्यते। तथा च- अस्थिरां स्वल्पामपि सस्यसम्पत्तिमुपलभ्य अधम: कृषिकारोऽपि मेदुरमृगा-ङ्कमरीचिभिर्मनुजमनोमादयन्तीष्वासु शरद्यामिनीषु निखिलां विडम्बनामवधीर्य सम्मोदमनुभवति। प्रभूतवैभव: परमविदग्धोऽपि च भवांस्तु विरहवेदनाजनकतया सन्ततमशान्तिकरीं क्लेशबहुलां प्रवासिचर्यामधुनैवाऽवलम्बितुमिच्छतीत्यहो भाग्यवैभवमिति निगूढमभिव्यज्यते। शालीनां परिपाके प्रसन्नचेतस: पामरस्य हृदि तण्डुला एवाहर्निशमावर्तन्त इति स्वाभाविकतया तत्साम्यमेवोप-निबद्धम्। 'तस्य गृहेन्नादिसमृद्ध्या रात्रौ च तत्पतिर्गायतीत्यनेन तत्पतिसान्निध्येन चन्द्रिकाशोभित्वेन च रात्रेरद्य सा न सुखसाध्येति काचित्कञ्चिद्बोधयति’ अथवा 'शरत्काले शालीनां पाके हालिक: स्वगृहे तिष्ठति, तदपाके तद्रक्षार्थं स्वयं क्षेत्रादौ तिष्ठतीति हलिकवधू: शरत्कालातिरिक्तकाले सुलभेति कश्चित्कञ्चिद्बोधयति’ इति गङ्गाधर:।
पङ्काङ्कितपादचिह्नानुमानेन क्षेत्रमिदं शालिगोप्या: सङ्केतस्थलमासीदिति साधनात्स्व-मार्मिकतां ख्यापयन्नागरिक: सहचरमाह-
अयि केदारस्रोतोवरोधतिर्यक्स्थित: कलमगोप्या:।
मृदुचरण: पङ्कतले ह्यालिख्यत इह हलालिचलनेन।।९०।।२
१. णिप्पण्णसस्सरिद्धी सच्छन्दं गाइ पामरो सरए।
दलिअणवसालितण्डुलधवलमिअङ्कासु राईसु।।८९।।
[निष्पन्नसस्यऋ द्धि: स्वच्छन्दं गायति पामर: शरदि।
दलितनवशालितण्डुलधवलमृगाङ्कासु रात्रिषु।।]
२. अलिहिज्जइ पङ्कअले हलालिचलणेण कलमगोवीए।
केआरसोअरुम्भणतंसट्ठिअ कोमलो चलणो।।९०।।
[आलिख्यते पङ्कतले हलालिचलनेन कलमगोप्या:।
केदारस्रोतोवरोधतिर्यक् (त्र्यंश) स्थित: कोमलश्चरण:।।]
अयीति सहचरं प्रति सम्बोधनम्। केदारस्रोतसा अवरोधनवशात् तिर्यक्स्थित:। क्षेत्रे जलसञ्चारार्थं निम्नानि जलस्रोतांसि क्रियन्ते। तत्रोन्नतरेखायास्तावदायामाभावात् उन्नतभागे निहित: कलमगोप्याश्चरणो जलस्रोतोवरोधवशात्तिर्यक्स्थित एव भवति। तादृश: कलमगोप्या: पङ्के पूर्वतोऽङ्कित: कोमलश्चरण: पङ्कतले हलाले: हलरेखायाश्चलनेन कर्षणेन आलिख्यते कृष्यते। पूर्ववत्सरे क्षेत्रगतप्रावृट्पङ्कशोषे शालिगोप्याश्चरणोऽङ्कित:। वर्षान्तरे कर्षणसमये स हि चरणप्रतिबिम्बो नागरेण दृष्ट:। तं चरणं दृष्ट्वा 'तदिदं शालिरक्षिकाया: सङ्केतस्थानम्’ इति निजसुहृदं प्रत्युपपादयति। तथा च- ऐषमोऽपि क्षेत्रेऽस्मिन् कलमोत्पत्तिमारभ्य तत्पाकपर्यन्तं शालिगोपी पान्थादीनां सुलभा स्यादिति तत्प्राप्त्याशा सहचरं प्रति सूच्यते। 'वर्षाकाले पूर्ववत्सरीयकलमगोपीपदाङ्कितक्षेत्रकर्षणं दृष्ट्वा कश्चित्पान्थ आह’ इति गङ्गाधर:। 'तंसट्ठिअ’ इत्यस्य 'त्र्यंशस्थित: त्र्यंशेन भागत्रयेण स्थित:, असम्पूर्ण इति यावत्।’ इत्यर्थं गङ्गाधर आह। 'यदापूर्ववत्सरे क्षेत्रमध्यस्थितजलस्य शोष आरब्धस्तदा कलमगोप्या: शालिपाकेन सङ्केतस्य लाभावरोधेन दु:खोपचये सम्पूर्णश्चरणो न पङ्कमध्ये प्रतिबिम्बित:’ इति तत्तात्पर्यम्। परं 'णिद्दालसपरिघुम्मिरतंसवलन्तद्धतारआलोआ। (२/४८)’ इत्यादिषु 'तंस’ पदस्य तिर्यगर्थ: स्वयमेव स्वीकुर्वतस्तस्य 'त्र्यंश’ इत्यर्थकल्पनमाकर्षणमात्रमित्यलम्।
शालिक्षेत्ररक्षिकां वीक्ष्य साभिलाषं निजसुहृदं प्रति शृण्वत्यां तस्यां कोऽपि सहृदय: सवैदग्ध्यपरिहासमाह-
दिवसे दिवसे शुष्यति सङ्केतकभङ्गवर्द्धिताशङ्का।
आपाण्डुरानतमुखी कलमेन समं कलमगोपी।।९१।।१
कलम: शाली परिपाकेन पाण्डु: पूर्णतागौरवादानतमुखश्च सन् यथा यथा दिवसे दिवसे शुष्यति, तथा तथा शालिक्षेत्रशोषेण सङ्केतस्थलापगमचिन्तया आनतमुखी भाविसम्भोगविरहशङ्कया पाण्डुर्भवन्ती कलमगोपी प्रतिदिनं शुष्यति। अथवा आपाण्डुरं च आनतं च मुखं यस्या: सेत्यर्थ:। सङ्केतस्थानालाभादप्राप्तसमागम: स मयि मन्दप्रणय: कदाचन न भवेदित्याशङ्काया हेतु:। अथवा सङ्केतकभङ्गस्य वर्द्धिता आशङ्का यस्या: सेत्यर्थ:। कलमेन सममिति सहोक्त्या-यदि त्वमेनां वाञ्छसि तर्हि कलमपाकात्पूर्वमेव सम्भोगसाभिलाषा सेयं सुखसाध्येति साभिलाषं स्वसुहृदं प्रत्यभिव्यज्यते। शालिरक्षिकां प्रति तु-तव पाण्डुमुखताया:
१. दिअहे दिअहे सूसइ संकेअअभङ्गवड्ढिआसङ्का।
आवण्डुरोणअमुही कलमेण समं कलमगोवी।।९१।।
[दिवसे दिवसे शुष्यति सङ्केतकभङ्गवर्धिताशङ्का।
आपाण्डुरावनतमुखी कलमेन समं कलमगोपी।।]
शोषस्य च कारणमवगतं मया। तदेतां चिन्तामपहाय मत्सुहृदमभिलषन्तमनुगृह्णीष्वेति सपरिहा-समभिसूच्यते। 'इङ्गितादिभिरप्यनवगम्य: प्रच्छन्नोऽयं प्रेमप्रकार:’ इति सरस्वतीकण्ठाभरणम्।
भक्तहारिणीं दृष्ट्वा विचलितचेतसो हलवाहनासक्तस्य पामरस्य चरितं प्रत्यक्षवीक्षक: कश्चित्सहचरमाह-
नवकर्मिपामरेण हि पश्य सपदि भक्तहारिकां वीक्ष्य।
योक्त्रप्रग्रहमात्रे मोच्येऽप्यवहासिनी मुक्ता।।९२।।१
नवकर्मिणा अनभ्यस्तहलचालनकर्मणा पामरेण सुन्दरीं भक्तहारिकां (भोजनानेत्रीम्) दृष्ट्वा क्षुभितचित्ततया योक्त्रस्य 'जोत’ इति ख्यातस्य वृषकण्ठावसक्तस्य चर्मपट्टस्य प्रग्रहमात्रे बन्धनमात्रे मोक्तव्येऽपि अवहासिनी 'नाथ’ इति ख्याता नासारज्जुर्मुक्तेति त्वं पश्य। भोजनार्थं विश्रमिष्यता पामरेण हलधुरावहयोर्वृषयोर्योक्त्रबन्धनमोचनस्थाने भक्तहारिकां प्रति जातव्यासङ्गतया बलीवर्दयोर्नासारज्जुर्मुक्तेति भाव:। नवकर्मीति पदेन- अनभ्यस्तकर्मतया हलकर्मणि स्वा-भाविक: सम्भ्रमस्तु पूर्वत एवासीत्, पुनर्भक्तहारिणीहृतचित्ततया जायमानो मोहातिशयो न निरोद्धुं शक्योऽभवदिति सूच्यते। पाउहारी भक्तहारीति देशी। 'पाणिहारीओ’ इति पाठै पानीयहारि-कामित्यर्थ:। 'योक्त्ररूपे प्रग्रहे मोक्तव्ये अवहासिनी मुक्ता’ इति गङ्गाधर:।
नैशतुहिनभङ्गेन योऽयं हरितदीर्घो मार्गस्तिलक्षेत्रे वीक्ष्यते स हि सुरतरसिकया कया-चिदभिसारिकया कृत इत्यात्मनो मार्मिकतां प्रथयन् नागरिक: सहचरमाह-
दृष्ट्वापि हरितदीर्घं प्रत्यूषे नातिखिद्यते हलिक:।
असतीरहस्यमार्गं तुषारधवले तिलक्षेत्रे।।९३।।२
१. णवकम्मिएण हअपामरेण दट्टूण पाउहारीओ।
मोत्तव्वे जोत्तअपग्गहम्मि अवहासिणी मुक्का।।९२।।
[नवकर्मिणा पश्य पामरेण दृष्ट्वा भक्तहारिकाम्।
मोक्तव्ये योक्त्रप्रग्रहेऽवहासिनी मुक्ता।।]
२. दट्ठूण हरिअदीहं गोसे णइजूरए हलिओ।
असईरहस्समग्गं तुसारधवले तिलच्छेत्ते।।९३।।
[दृष्ट्वा हरितदीर्घं प्रातर्नातिखिद्यते हलिक:।
असतीरहस्यमार्गं तुषारधवले तिलक्षेत्रे।।]
नैशतुषारेण धवलीभूते तिलक्षेत्रे हरितं दीर्घं च। असत्या: रहस्यस्य चौर्यसुरतस्य मार्गं दृष्ट्वापि हालिको नातिखिद्यते। असतीगमनमार्गस्य हरिततया हरिततिलानामक्षतत्वमालोक्य निजहानेरभावाद्धलिकस्य नातिखेद इत्यर्थ:। ममैव क्षेत्रे सुन्दरी काचित्पामरेणोभुज्यते, सापि सुकृतकार्योचितेऽतिप्रत्यूष एवेति स्वल्प: खेदस्त्वभूदेवेति अतिपदेन सूच्यते। नैशतुषारमार्जनोत्तरं पुनस्तन्मार्गे तुषारस्याऽपातात् प्रत्यूष एव सुरतसङ्घटनाभूदित्यनुमीयते। सुनिबिडितफल-पत्र-शाखतया उपरित आच्छन्नत्वेऽपि तले सुमसृणतिलप्रकाण्डमात्रसत्तया निभृतसुरतस्य पूर्णावकाश इति तिलक्षेत्रादिषु सङ्केतके कामिनीनां सबहुमानप्रसिद्धिरिति कण्ठाभरणादिमतमुक्तमेव पूर्वम्। 'णइजूरए’ इत्यस्य स्थाने 'सण्ढाणँ जूरए’ इति पाठे 'वृषभान्प्रति खिद्यते’ निन्दतीत्यर्थ:। हरित-दीर्घं मार्गं दृष्ट्वा-वृषभा एव क्षेत्रे प्रविष्टा इति तत्खेदाभिप्राय:। सोऽयं वाच्यमर्यादया। वृषभपदेन सुरतवर्षणशीलकामिजनाभिप्राये तु 'उद्रिका दुष्टा: कामिन एव मत्क्षेत्रे निभृतं प्रविश्य रमन्ते’ इति ध्वनिमर्यादा तान्प्रति क्रोधोऽभिव्जयते।
परिजृम्भितपञ्चशरप्रभावायां प्रावृषि प्राणप्रियाप्रणयपरवशा: पथिका विप्रकृष्टमपि पन्थानमपरिगणितपथिपीडा: क्षिरप्रमेवाक्रामन्तीति प्रवीण: कश्चिन्निजसहचरमाह-
सङ्कोचित इव खण्डं खण्डं कृत इव च पीत इव पन्था:।
पथिकेन नीयते किल गृहभाविसुखेन नवघनागमने।।९४।।
गृहे भावि भविष्यत्सुखं यस्य ईदृशेन, भावि गृहसुखं स्मरतेत्यर्थ:। पथिकेन सङ्कोचित इव सङ्क्षिप्तीकृत इव, खण्डश: करणेनैकदेशीकृत इव, पीत इव उत्कण्ठातिशयात्सहसैव समापित इव, मार्गो नीयते उल्लङ्घ्यते। भवने भाविप्रियतमासमागमसुखस्मरणात्सोत्कण्ठेन पथिकेन सुदीर्घोऽपि मार्ग: सम्प्रति सत्वरं समाप्यत इति भाव:। उत्प्रेक्षात्रयेणोत्तरोत्तरं त्वरातिशयो द्योत्यते। निरवशेषो मार्ग: सङ्क्षिप्यत इति सङ्कोचनोत्प्रेक्षणेन संसूच्यते। खण्डश: करणेन मार्गस्यैकदेश एव स्थाप्यते, अवशिष्टो लोप्यत इति प्रत्याय्यते। पीत इवेत्यनेन तु- 'तथा सत्वरमुल्लङ्घयति यथा द्रवद्रव्यं कश्चित्सहजमेव गलादध:करोति’ इति भूयांस्त्वरातिशयो व्यज्यते। 'आगामिसुखमुद्दिश्य पथिकेन मार्गक्लेशमगणयित्वा त्वरया गृहं प्रति गम्यत इति नायको यथा दु:खं न प्राप्नोति तथा नायिकया विधातुमुचितमिति’ उत्क्षिप्ताक्षरमर्यादं गङ्गाधरव्याख्यानम्।
परनिन्दयैव नन्दद्भि: खलैर्दुर्वचनविशिखैर्मर्मणि ताड्यमाना काचित्सनिर्वेदं सखीमाह-
१. संकेल्लिओ व्व णिज्जइ खण्डं खण्डं कओ व्व पिओ व्व।
वासागमम्मि मग्गो घरहुत्तसुहेण पहिएण।।९४।।
[सङ्कोचित इव नीयते खण्डं खण्डं कृत इव पीत इव।
वर्षागमने मार्गो गृहभविष्यत्सुखेन पथिकेन।।]
बधिरान्धा: किल धन्यास्त एव जीवन्ति मानुषे लोके।
शृण्वन्ति न पिशुनवच: पश्यन्ति न ये च खलसमृद्धिमपि।।९५।।१
बधिराश्च अन्धाश्च। जीवनमत्र सफलजीवनरूपेऽर्थान्तरे सङ्क्रमितम्। तथाच-तेषामेवास्मिंल्लोके जीवनं सफलम्, पदे पदे दुर्जनवचनैर्मर्मस्वभिहन्यमानाया न ममेत्यात्मानं प्रति निर्वेदो ध्वन्यते। मानुषे लोक इत्यनेन मर्त्यलोके तेषामेव जीवनं प्रशस्तं नान्येषाम्, अन्येषु दिव्यलोकादिषु तु दुर्जनवचनश्रवणानवसरात्सिद्धैव समभिनन्द्यजीवनतेति युक्त्या दिव्यजनसाम्यं सूच्यते। गुणदर्शनेन आन्ध्यबाधिर्यदोषयोरपि साभिलाषताप्रदर्शनादनुज्ञालङ्कृति:-'दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात्।’ इति पीयूषवर्ष:। अनया च पिशुनजनवचनसूचिसञ्चयै-रनवरतविध्यमानश्रवणहृदयतया दुर्भरं जीवन्त्या मे जीवनमन्धबधिरादिविकलजनापेक्षयापि गर्हणीयमिति निन्दकान् प्रत्यसूयासहकृत: स्वात्मनि निर्वेदातिशयो ध्वन्यते। 'काचिदुत्तमा दुर्जनस्य कस्यचिदुपचयं पश्यन्ती सखीसन्निधौ परितप्यते।’ इति कुलबालदेवटीका। गङ्गाधर-टीका तु गाथापञ्चकहीनैवोपलब्धा।
निकटनिवासीनि नायके निर्भरनिबद्धप्रणया काचित्प्रेमप्रतिषेधार्थं पुन: पुन: प्रियसखीभि: प्रोच्यमाना ता: प्रति सासूयमाह-
अधुना वारयति जन: कुत्र तदा मूक एषोऽगात्।
विषमिव विषमं हि यदा जातं सर्वाङ्गघूर्णितं प्रेम।।९६।।२
'मूइल्लओ मूक:’ इति धनपालकृत: 'पाइअलच्छी’ कोष:। इदानीं तु जन: प्रेमतो निवारयति, परं तदा मूक: किञ्चिदप्यब्रुवन् एष जन: कुत्र अगात् गतोऽभूत्? यदा हि दुष्प्रतीकार्यं विषमिव प्रेम सर्वाङ्गघूर्णितं सर्वाङ्गेषु व्याप्तं जातम्। इदानीं निवारणेन किं वा
१ धण्णा बहिरा अन्धा ते च्चिअ जीअन्ति माणुसे लोए।
ण सुणंति पिसुणवअणं खलाणँ ऋद्धिं ण पेक्खन्ति।।९५।।
[धन्या बधिरा अन्धास्त एव जीवन्ति मानुषे लोके।
न शृण्वन्ति पिशुनवचनं स्वालामृद्धिं न प्रेक्षन्ते।।]
२. एह्णिं वारेइ जणो तइआ मूइल्लओ व्व गओ।
जाहे विसं व जाअं सव्वङ्गपहोलिरं पेम्म।।९६।।
[इदानीं वारयति जनस्तदा मूलक: कुत्रापि वा गत: (आसीत्)।
यदा विषमिव जातं सर्वाङ्गघूर्णितं प्रेम।।]
फलमिति भाव:। रक्तसञ्चारेण सह सर्वस्मिन्वपुषि व्याप्ते विषे तत्प्रतीकारो यथा दु:शकस्तथा सर्वाङ्गव्यापतस्य तत्प्रणयस्य सम्प्रति निवारणमशक्यमेवेत्याशय:। सर्वाङ्गघूर्णितमित्यनेन-युष्मत्कथानुगमने विवशं मे प्रणयसात्कृतं सर्वाङ्गमिति विवशता व्यज्यते। सखीजनं प्रति 'जन:’ इति तटस्थतानिर्देशेन य: किल प्रियतमेन सह सञ्जातां प्रणयप्रवृत्तिं पुरा प्रेक्षमाणोऽ-प्यप्रतिषिध्यन् सम्प्रति वारयति, मन्मनोवेदनामविजानन् स हि सखीजनोऽपि नि:सम्बन्ध: सामान्यजन एवेति तं प्रत्यसूया प्रकाश्यते। मूकपदेनवचनोच्चारणेऽत्यन्तमशक्तता सूच्यते। किञ्च-'तदा मूक: कथं जात:’ इत्यसौ लोकोक्तिशैली। 'मूइल्लाओ’ इत्यस्य 'मूलक:’ इति विच्छायां छायां प्रकल्प्य अर्थसङ्गतौ मूकीभवन् कुलबालदेवस्तूपेक्ष्य एव। 'असदृश्यां कस्याञ्चिदासक्त: कश्चिदुत्तम एव सख्यावार्यमाण: सासूयं तमेव वदति’ इति तदङ्गीकृतम-वतरणम्।
कस्याश्चिदनुरागातिशयं प्रतिपाद्य नायकमुत्कण्ठयन्ती दूती सवैदग्ध्योपालम्भमाह-
किं ते तदापि न विदितं ह्यासन्दीनां यथा बहूनां सा।
उच्चावचिकां कृत्वा तव दर्शनलालसा पतिता।।९७।।१
तव दर्शनलालसा सा बहूनाम् आसन्दीनाम्। उच्चावचिकाम् एकस्या उपरि एकां विन्यस्य उन्नतामारोहणीं कृत्वा पतिता। किं त्वया तदपि न ज्ञातम्? आस्यतेऽस्यामिति वेत्रासनमासन्दीत्यमरटीका। क्षुद्रखट्वा 'पीठिका’ इति मेदिनी। त्वद्दर्शनार्थमुत्तुङ्गे जालवातायने प्राप्नुमप्रभवन्ती सेयं बहुभि: पीठिकाभिर्नि:श्रेयणीं विधाय तस्या उच्चावचत्वात्पपात, एतावांस्त्वय्यस्या अनुराग इत्याशय:। उच्चावचपदेन- सापि विषमा, यथावन्न निर्मितेति दर्शननिमित्तेन सम्भ्रमेणानुरागातिशय: सूच्यते। एवं च- भवदवलोकनोत्सवमत्ता निजनिपात-मप्यविगणयन्ती सेयमेवं त्वय्यनुरक्ता। भवांस्तु-तत्प्रमोदनं दूरमास्तां तस्या विपत्तिमपि न परिजानाति, अहो ते प्रणयपरिपाटीति नायकं प्रत्युपालम्भो ध्वन्यते। 'कस्याश्चित्सखी सख्या अनुरागातिशयं नायकविषये सूचयन्ती नायकाग्रे कथयति’ इत्यप्रौढमवतरणं कुलबालदेवस्य।
रममाणं कञ्चिद्विटं श्रावयन्सहृदय: कश्चिन्निजसहचरं प्रति सपरिहासमाह-
१. कहँ तंपि तुइ ण णाअं जह सा आसन्दिआणँ बहुआणम्।
काऊण उच्चवचिअं तुह दंसणलेहला पडिआ।।९७।।
[कथं तदपि त्वया न ज्ञातं यथा सा आसन्दिकानां बहूनाम्।
कृत्वा उच्चावचिकां तव दर्शनलालसा पतिता।।]
चौरान्कामुकलोकान्पामरपथिकांश्च कुक्कुटो वदति।
तन्वी भवति निशेयं वहताऽऽरमताऽत्र वाहयत।।९८।।१
तन्वी भवति, स्वल्पाऽवशिष्यत इत्यर्थ:। आवश्यकत्वेऽपि मूले चौरानित्यादीनां वहतेत्यादिभि: सह यथायोगमन्वय:, इह तु यथासङ्ख्यम्। अलङ्कारश्च स:। चोरितवस्तूनि नयतेति चौरान्, आ (समन्तात् बाढमिति यावत्) रमध्वमिति कामुकलोकान्, बलीवर्द्दान् भारशकटं वाहयतेति मार्गगामिन: पामरान् प्रति, वदतीत्यर्थ:। 'रात्रिशेषे कुक्कुट: शब्दं करोतीति कुक्कुटानां स्वाभाविकं रूपम्। तच्छ्रुत्वा तस्य प्रयोजनमुत्प्रेक्ष्य विवृणोति कश्चित्’ इत्यप्रौढमिव कुलबालदेव:। रमहेति प्राकृतवत्संस्कृतेऽपि रमतेत्येव कुलबालकृता छाया तु च्युतसंस्कृतिरेव।
प्रणयकोपाभिनयाय परस्परमभाषमाणावपि मिथ: कटाक्षविनिमय एव युगपद्विहसित-वन्तौ 'कृत्रिमकोपतया त्वमेव पूर्वमहसी:’ इति च मिथो विवदमानौ नायिकानायकौ वीक्ष्य सखी सखीमाह-
अन्योऽन्यकटाक्षान्तरसम्प्रेषितमिलितदृक्प्रसरौ ।
कृतकलहौ किल मन्ये द्वावपि सहसा समं हसितौ।।९९।।२
अन्योऽन्यकटाक्षान्तरे सम्प्रेषित: मिलितश्च दृक्प्रसरो ययोरीदृशौ कृतकलहौ द्वावपि मन्ये समं युगपत् हसितौ। कोपप्रशमेऽपि 'अयं पूर्वमनुनयेत्, इयं पूर्वमनुनयेत्’ इति केवलं प्रथमानुनयं प्रतीक्षमाणयोरनयो: कोपशान्त्युत्तरमौत्सुक्यस्योदयात्परस्परकटाक्षविनिमये सति समकालमेव हासो जातो न पूर्वपश्चाद्भावेनेति भाव:। कटाक्षान्तरे दृष्टिप्रेषणस्यायमाशयो यत् 'प्रशान्तकोपतायामप्यधुना किं व्यवस्यति, अनुनयाय कियान्विलम्ब:’ इति मिथ: परिज्ञानाय द्वावपि परस्परं प्रति मुहुर्दृष्टिं निक्षिपत:। परम् औत्सुक्यं मे न प्रकटीभवेदित्यभिसन्धिना
१. चोराणँ कामुआणँ अ पामरपहिआणँ कुक्कुडो वअइ।
रे रमह वहह वाहयह एत्थ तणुआअए रअणी।।९८।।
[चौरान्कामुकांश्च पामरपथिकांश्च कुक्कुटो वदति।
रे रमत वहत वाहयत अत्र तन्वी भवति रजनी।।]
२. अण्णोण्णकडक्खन्तरपेसिअमेलीणदिट्ठिपसराणम्।
दो च्चिअ मण्णे कअभण्डणाइँ समहं पहसिआइं।।९९।।
[अन्योऽन्यकटाक्षान्तरप्रेषितमिलितदृष्टिप्रसरौ।
द्वावपि मन्ये कृतकलहौ समकं प्रहसितौ।।]
स्पष्टमदृष्ट्वा नेत्रप्रान्तेन निभृतं विलोकयत इति। द्वावपि च परस्परमेवमनुसन्धित्सावशान्मिथ: कटाक्षेण दृष्टिं निक्षिपत:। अत एव द्वयोर्दृक्प्रसरो मिलति। ततश्च परस्परं मिलितनयनौ द्वावपि परस्परस्य हृदयदशां परिज्ञातवन्ताविति सहसा द्वयोरेव युगपत् हास: समभवदित्याशय:। एवं च- परस्परं नयनयोग एव विहसितवतोर्युवयो: कोपदृढता सम्यगस्माभि: परिज्ञाता! किं मुधा गोपयथ: इति नायकौ प्रति परिहास: सख्या व्यज्यते। 'भण्डण’ शब्द: प्राकृते कलहविशेषवाचक:। 'मेलीणदिट्ठिपसराणम्’ इत्यस्य 'मिलितदृष्टिप्रसरौ’ इति छायाकरणं प्राक्तनटीकानुरोधेन। 'मेलितदृष्टिप्रसरयो: (अनयो: मध्ये) कृतकलहौ द्वावपि मन्ये समं प्रहसितौ’ इत्येव यद्यर्थोऽभविष्यन्न काचिदर्थक्षतिरित्यलम्।
नितान्तमनुरक्तामपि नायिकां धीरमानितया यथावदननुवर्तमानं नायकं नायिकाच्छन्दा-नुवर्तिनं कर्तुं नायिकासखी हरनमस्कारव्यपदेशेन सवैदग्ध्योपालम्भमाह-
सन्ध्योपात्तजलाञ्जलिबिम्बितगौरीमुखाम्बुरुहम्।
स्फुरिताधरं मुधैव हि विगलितमन्त्रं हरं नमत।।१००।।
सन्ध्योपासनार्थं गृहीते जलाञ्जलौ प्रतिबिम्बितम् [प्रतिमया प्रतिबिम्बरूपेण सङ्क्रान्तम्] गौरीमुखकमलं यस्य तम्। अत एव-प्रेयसीमुखावलोकनादुज्जृम्भितभावान्तरतया विगलितो मन्त्रो (मन्त्रजप:) यस्य, तथापि प्रमादगोपनाय मुधैव स्फुरिताधरं सञ्चलदोष्ठपुटं हरं प्रणमत। विस्मृतादिस्थाने विगलितपदनिवेशेन-बलादुपस्थापितोऽपि मन्त्र: प्रेयसीमुखदर्शनाज्जातभावान्तरतया स्वयं विस्खलतीति भावप्राबल्यं सूच्यते। तथाच- चराचरनायको भगवान्भूतभावनोऽपि प्रियाप्रेमानुवृत्या तन्मुखप्रतिबिम्बमात्रमप्यवलोक्य प्रशम-प्रधाने संध्योपासनसमयेऽपि तद्गतचित्तो भवति, कि वा प्रियां प्रमोदयितुं तादृश इव भवति। त्वं तु रसमयेऽपि समये सततमनुवर्तमानामपि प्रेयसीं न यथावदनुरञ्जयसि। अहो ते रसिकतेति नायकं प्रत्युपालम्भोऽभिव्यज्यते। त्वत्प्रेमवशंवदामेनां धीरोऽपि त्वं सर्वसमयेऽपि रसिकतयैव सततमनुवर्तस्वेति चरमं व्यङ्ग्यम्। 'समाप्तौ हरनमस्काररूपं मङ्गलमाचरति’ इति गङ्गाधर:। 'हरस्यापि गौरीमुखकमलप्रतिबिम्बं दृष्ट्वा सन्ध्यारूपनित्यकर्माङ्गमन्त्रलोपो भवति किं पुनरस्मदादेर्लोकस्य प्रियासान्निध्ये व्याकुलचित्ततेति सर्वथा स्त्रीसङ्ग: परिहरणीय:’ इति तात्पर्यार्थकल्पनं तु गङ्गाधरस्य गाथाकारहृदयप्रतिकूलमेव। 'अमिअं पाउअकव्वम्’ इति पद्येन
१. संझागहिअजलञ्जलिपडिमासंकन्तगोरिमुहकमलम्।
अलिअं चिअ फुरिओट्ठं विअलिअमन्तं हरं णमह।।१००।।
[संध्यागृहीतजलाञ्जलिप्रतिमासङ्क्रान्तगौरीमुखकमलम्।
अलीकमेव स्फुरितोष्ठं विगलितमन्त्रं हरं नमत।।]
स्वारब्धस्य प्राकृतकाव्यस्य कामतत्त्वनिर्भरतां प्रतिज्ञाय उपसंहारे सर्वथा तदुन्मूलनस्य सुस्पष्टं विरुद्धत्वात्। 'सर्वथा स्त्रीसङ्ग: परिहरणीय:’ इत्यनेन- आलम्बननिरासात् शृङ्गार: सुस्पष्ट-मुन्मूलित एव। तस्मात् प्रशमानुगुणचित्तेनापि सा शिक्षा ग्रन्थान्तरतोऽवसेया, न गाथासप्तशतीत:। कान्तासम्मिततयोपदेशस्तु मध्ये मध्ये स्वयं ग्रन्थकारेणैव सूचित इति ग्रन्थकारोद्देश्यविफल-नमनुचितमेवेत्यलमन्ते विरसविवादेन। अनया गाथया पूर्वोक्तध्वनिं स्फुटयन् शिवस्य सायंसन्ध्योपासनवर्णनेन ग्रन्थसमाप्तिमपि सूचयति गाथाकार:। 'पसुवइणो रोसारुणे’ त्यादिना प्रात:सन्ध्यावर्णनादारम्भ: सूचित:। अन्ते तु तेनैव क्रमेण सायंसन्ध्यावर्णनात्समाप्ति: सूचितेत्यलं मार्मिकेषु।
उपसंहरति-
नरपालहालरचिते प्राकृतकाव्येऽत्र सप्तशते।
सप्तमशतं समाप्तं गाथानां वै स्वभावरमणीयम्।।१०१।।
(इति सप्तमं शतकम्)
(समाप्ता चेयं संस्कृतगाथासप्तशती)
सप्तशते सप्तशतीरूपे प्राकृतकाव्ये। 'हाल इति रा: शालिवाहनस्य संज्ञान्तरम्’ इति गङ्गाधर:।
गङ्गाधरकृतटीकामनु टीका निर्मिता सेयम्।
अथ लक्षिता त्रुटी काप्यघटीह स्तोकविस्तार:।।
इति श्रीजयपुरमहाराजाधिराजसम्मानिततैलङ्गभट्टान्ववायसम्भूत-देवर्षिभट्टश्रीमथुरा- नाथशास्त्रिसाहित्याचार्यनिर्मिता संस्कृतगाथासप्तशती टीका व्यङ्ग्यसर्वङ्कषा समाप्ता।
१. इअ सिरिहालविरइए पाउअकव्वम्मि सत्तसए।
सत्तमसअं समत्तं गाहाणँ सहावरमणिज्जम्।।१०१।।
[इति श्रीहालविरचिते प्राकृतकाव्ये सप्तशते।
सप्तमशतं समाप्तं गाथानां स्वभावरमणीयम्।।]
------
संस्कृतगाथानिबन्धु: परिचय:
तैलङ्गपुङ्गवानामाङ्गिरसायास्यगौतमेतिसत्प्रवर:।
देवर्ष्यवटङ्कवहो वंशो भूपालपूजितो जयति।।१।।
तस्मिन्नरिपरिभावी बावीजीदीक्षितात्तृतीयोभूत्।
श्रीमान्मण्डलनामा सम्पत्सौभाग्यभाग्यनिधि:।।२।।
बान्धवदेशनरेशो गुरवे यस्मै प्रयागकृतधाम्ने।
ग्रामान्देवर्षिमुखान् शतं व्यतारीत्ससम्मानम्।।३।।
तस्मिन् वंशे श्रीमान् श्रीकृष्ण: कविकलानिधिर्जात:।
बुधसिंहबुन्दिभर्तुर्निकटाद्योऽनीयताऽम्बरेशेन१ ।।४।।
'सुकवि’ 'कलानिधि’ विरुदोऽलङ्कारकलानिधे:३ कृते प्रददे।
जयपुरपुरनिर्मात्रा जयसिंहेनाम्बरावनीभर्त्रा।।५।।
'वाणी’ 'भारती’ विरुदस्तत्तनयो द्वारकानाथ:।
माधवसिंहमहीन्द्रादेष कवीन्द्राधिपो ययौ मानम्।।६।।
श्रीमत्पृथ्वीसिंहात्प्रतापभूपाच्च लब्ध 'वाणि’ विरुदस्य।
व्रजभाषामयकविता यस्य सुकवितानवं३ सूते।।७।।
तत्तनयो व्रजपाल: प्रतापभूपालमाननीयो य:।
नवसङ्गीतग्रन्थं विधाय समियाय भूरिसम्मानम्।।८।।
तत्तनयानां ज्येष्ठो मण्डनमिव मण्डनो बभूव विदाम्।
कवितातोषिनरेन्द्रा भूरिगजेन्द्रान्ददुर्यस्मै।।९।।
यो राजनीतिकुशलो विपुलोन्नाहेषु राजसु प्रथित:।
जयसिंहभूमिभर्तुर्लेभे ग्रामादिसम्मानम्।।१०।।
१. आम्बेराधीशेन श्रीजयसिंहभूपालेन।
२. एतन्नामा ग्रन्थो जयसिंहाज्ञया निर्मित:। अयं हि काव्यप्रकाशादिवत् साहित्यस्य व्रजभाषामय आकारग्रन्थ:। एतत्परिचय: 'साहित्यवैभवे’ द्रष्टव्य:।
३. कविताभिमानिनां सुकवीनां तानवं कृशताम्।
प्रज्ञाचक्षुर्लक्ष्मणभट्टोऽभूत्तत्सुत: सुदक्षतम:।
रामनरेन्द्राद्बुन्दीभर्तुर्योऽविन्दत ग्रामम्।।११।।
जनित: श्रीमल्लक्ष्मीनाथसुत-द्वारकानाथै:।
मथुरानाथ: सोऽयं दत्तकपौत्रोऽभवत्तस्य।।१२।।
येन हि 'जयपुरवैभव१’ मथ किल 'साहित्यवैभवं’ सृजता।
'कवितानिकुञ्ज’ महिता नवछन्दोबन्धरीतिराकलिता।।१३।।
जयपुरराज्यस्याखिलसंस्कृतशिक्षानिरीक्षणं२ दधता।
मानमहीपच्छायामधिवसता मञ्जुनाथपरनाम्ना।।१४।।
गगनमुनिनन्दचन्द्रप्रमिते विक्रममहीपतेर्वर्षे।
सप्तशतीयं कलिता सम्मिलिता टीकया परत:।।१५।।
गाथासप्तशतीयं प्राकृतलोकोपभोग्यसौभाग्या३।
अमरगिरा सम्बन्धात्संस्कृतजनतोपयोगिनी जाता।।१६।।
निभृतनिषेव्यममृतमयमुपवनमिदमार्यरसिकानाम्।
नावश्यकप्रवेशा:४ सभ्या: क्षाम्यन्तु तत्सदयम्।।१७।।
उपसंहार:
देवर्ष्युपाह्वभट्टश्रीमथुरानाथशर्मनिर्मितिषु।
सेयं संस्कृतगाथासप्तशती पूर्तिमवतीर्णा।।१८।।
१. 'कवितानिकुञ्जस्य’ भागद्वयमिदं बम्बई निर्णयसागरे मुद्रितम्। प्रथमे जयपुरराजवंशवर्णनपूर्वं तद्राज्यस्य सचित्रं वर्णनमन्ये च बहवो विषया:, द्वितीये कवित्त-सवैयादिहिन्दीछन्दोभि: ऋतु-नवरस-अन्योक्ति-समीक्षा-नीति-उर्दूप्रभृतिसर्वभाषाच्छन्दो-वर्तमानभारत-विहारिसप्तशतीप्रभृतयो नानाविषया: सन्ति। 'मथुरानाथशास्त्री रेसिडेन्सीरोड जयपुर’ त: प्राप्यमिदं पुस्तकम्।
२. 'सुपरवाइझर संस्कृतपाठशालाजात जयपुरस्टेट’।
३. प्राकृतभाषानुरागिभिर्भोग्यापि अमरभारतीसङ्गात्संस्कृतभाषिजनताया उपयोगिनी जाता। किञ्च प्राकृतलोकै: साधारणजनैरुपभोग्यापि संस्कृतसंसर्गात्संस्कारसंस्कृतानां नागरिकाणामुपयोगिनी जातेत्यप्यर्थ:। संस्कृतस्य अपूर्वोत्कर्षदायकत्वं व्यज्यते।
४. ये आर्या दर्शन-प्रभृतिगभीरग्रन्थेषु सततं प्रसितास्ते मनोविनोदाय तदिदं निभृतोपवनमासेवन्ते। अत एव अरसिकहृदयतया नवीनसभ्यतानुरोधाद्वा येषामेतत्सप्तशतीगतेष्वर्थेषु न प्रवेशोऽभवत्तेवामेतत्प्रवेशस्यावश्य-कतापि न। यत: किल आर्यरसिकानाममृतप्रदत्वेन अत्यन्तमिष्टतमं तदिदं निभृतम् (No-Admition) उपवनमस्ति। एवं सति सभ्यतानुरोधात् अप्रवेशनियम-( No-Admition) बाध्या: सभ्येतिविरुदवाहिनस्ते कृपां विधाय क्षमां विधेयासुरित्यर्थ:।