गीर्वाणगिरागौरवम्
मङ्गलम्
ययैवादौ सृष्टा नरजगति सभ्यत्वसरणि-
र्यदीयं साम्राज्यं क्वचन समये प्राज्यमभवत्।
यतोऽमू: सम्भूता जगदुदरसूता नरगिरो
गिराऽसौ गैर्वाणी जयति वरवाणीपरिवृढा।। १।।
वेद-उपनिषत्-स्मृतिप्रभृतिद्वारा यया संस्कृतभाषया एव सभ्यताया मार्गो दर्शित:। प्राक्समये सर्वस्मिन्नपि भूखण्डे यदीयं (यस्या एव) एकच्छत्रं राज्यमभूत्। युरोपादिदेशभाषास्वपि एतस्या एव मूलशब्दा विलसन्तीति अन्वेषका:। जगन्मध्ये उत्पन्नानां मानवानां भाषा इमा अस्या एव समुद्भूता:।।१।।
ययैवाऽऽदौ वेदा: परिकलितभेदा: प्रकटिता:
स्मृतीनां धात्री या प्रसवनकरी योपनिषदाम्।
समस्तत्रैलोक्ये ह्युपदिशति याऽऽध्यात्मिकपथं
स्फुरद्दिव्यज्योतिर्जगति जयतान्निर्जरगिरा।। २।।
परिकलितभेदा: नानाशाखादिभि: सहिता:। स्फुरद्दिव्यज्योति: देदीप्यमानं दिव्यम् आध्यात्मिकं ज्योतिज्ञानं यस्याम्।।२।।
पुरा ब्रह्मा यस्यां सविधि वरिवस्यामरचय-
त्ततो दिव्यज्ञानैर्मुनिभिरभिधानैरपि नुता।
पुराणोद्यद्व्यासोदितयतिविलासोत्सवभृता
सुराणां सा भाषा मतिमदभिलाषान् सफ लयेत्।। ३।।
ब्रह्मा सर्वसृष्टे: कर्ताऽपि यस्यां वरिवस्यां सृष्टे: सर्जनसामर्थ्याय तप:-स्तुत्यादिकमकरोत्। तदनन्तरं दिव्यज्ञानशालिभिर्मुनिभि: नाना अभिधानै: उपनिषत्-स्मृत्यादिवाङ्मयै: स्तुता। पुराणेषु उद्यन्त: प्राप्यमाणा: ये व्यासस्य मतिप्रकर्षा: तदानन्दपूर्णा:। मतिमतामभिलाषान्- ये आर्याणाम् असाधारणम् आध्यात्मिकं वाग्वैभवं ज्ञातुमिच्छन्ति तादृग्बुद्धिशालिनाम् इच्छा: पूरयेत्।।३।।
प्रशस्यायां यस्यां स किल समभूद्दर्शनचयो
न कस्याञ्चिद्वाचि प्रभवति तुला यस्य जगति।
सवित्री शास्त्राणामहह महयित्री मतिमतां
सतामाविष्कत्री मनसि रमतां सा सुरगवी।। ४।।
दर्शनसमूहस्य तुलनायां न भूमण्डलेऽपि किञ्चिद् वाङ्मयमुत्पन्नमिति गवेषका: पाश्चात्त्या अपि सम्मन्यन्ते। वेदान्तन्यायज्यौतिषादिशास्त्राणां सवित्री उत्पादयित्री। महयित्री प्रशंसाया: प्रापयित्री, आर्षसाहित्यं पठन्त: सर्वदेशीया अपि आर्याणां प्रशंसां कुर्वन्तीत्याशय:। सताम् आविष्कत्री अस्या भाषाया वाङ्मयादेव वैदिकदार्शनिक-कौटिलीयशास्त्रादिवेदितारो बभूवुरित्याशय:।।४।।
निधानं धर्माणाममलमुपधानं कविधियां
समाधानं शङ्काभ्रमिपतितभाषान्तरविदाम्।
प्रधानं विद्यानामतुलमवधानं मतिमतां
तिरोधानं भ्रान्तेर्विलसतु विधानं सुरगिर:।। ५।।
धर्माणां नानाविधानां समाजकर्तव्यानां निधानं निधि:-''एतद्देशप्रसूतस्य सकाशादिति’’ सूत्रितं महत्त्वं व्यनक्तीत्याशय:। उपधानम् आश्रय: संस्कृतभाषारूपमाश्रयं प्राप्य भूमण्डलगतानां कवीनां मध्ये कालिदासादयोऽसामान्यं गौरवं बिभ्रतीत्याशय:। सृष्टि: कदा, परलोकोऽस्ति न वा, इत्यादीनां शङ्कारूपाणां भ्रमीणां मध्यपतितानां कृते। अवधानं बुद्धिमतां कृते सावधानीकरणसाधनम्। विधानं, विधि:, सर्वमपि वाङ्मयम्।।५।।
विराजद्वाणीनामनवधिकवीनां रचनया
ययाऽकस्माद्विस्मापितमिदमहो शिक्षितजगत्।
चमत्काराढ्यानां सरसवचसामादिजननी
विनीयान्न: कामानधिकृतगवी संस्कृतगवी।। ६।।
अनवधि (अनन्त) कवीनां, रचनया शिक्षितजगत् यया विस्मयं प्रापितम्। कालिदासभवभूतिबाणादिसदृशा: कवयो न कुत्राप्यभूवन्निति सर्वेषामैकमत्यम्। अधिकृतगवी अधिकृता अधिकारशालिनी गौ: वाणी, सर्वभाषासु श्रेष्ठाधिकारधारिणी भाषा। समासान्तष्टच्। न: कामान् अभिलाषान् पूरयेत्।।६।।
क्रिया: स्पष्टा यस्यामथ च निचित: कारकचयो
न सन्देह: कस्याऽप्युदयति हि यस्या: परिचये।
यदीयोऽसौ कोष: परिकलिततोष: सुमनसा-
मसावन्तर्वाणीन् प्रमदयतु वाणी दिविषदाम्।। ७।।
क्रिया: भवति गच्छतोत्यादितिङन्तपदरूपा:। कारकसमूह: कर्मकरण-सम्प्रदानादि: विचित: व्याकरणनियमेन पृथक्-पृथक् परिचित:। अत एव यस्या: संस्कृतभाषाया: परिज्ञाने कस्यापि सन्देहो न भवति, क्रियाकारकादिनि:सन्देहशब्द-घटिततया स्पष्टं यस्या: परिज्ञानमित्यर्थ:। यस्या: शब्दकोष: पण्डितानां जनितपरितोष:, प्रचुरोऽस्या: शब्दकोष इति गवेषकाणां मतम्। अग्रे उदाहरणादिभिज्ञेयम्। अन्तर्वाणीन् पण्डितान् 'अन्तर्वाणिस्तु शास्त्रवित्’ इत्यमर:। दिविषदां देवानां वाणी संस्कृतम्।।७।।
पुरा दिव्यैर्गेयैर्भृशमपरिमेयैरपचिता
ततस्त्वार्षै: सूक्तै: परतरपटूक्तै: परिणुता।
ततो नानागुम्फै : सुकविभिरभीड्या समुदभू-
दसौ सा वाग्देवी विमलयतु मे वीक्षणपथम्।। ८।।
गेयै: सामादिभिर्गानयोग्यै: वाङ्मयै:। अपचिता पूजिताप्रशस्या, 'पूजा नमस्याऽपचिति:’ 'क्षयाऽर्चयोरपचिति:’ इत्यमर:। परतरम् अत्यन्तं पटुभि: प्रोक्तै: सूक्तै: परिणुता स्तुता। अभीड्या सर्वत: स्तुत्या। सरस्वती वाग्देवी।।८।।
अलङ्कारो वाचामतुलमधिकार: सुमनसां
प्रतीकारो भ्रान्तिप्रतिहतधियां मूढमनसाम्।
श्रुतीनां प्राकार:, प्रसभमुपकार: कविगिरां
प्रकारो गैर्वाण्या जयति विनिकारोऽत्र भुवने।। ९।।
अलङ्कार: भूषणम्, इयं स संस्कृतवाण्येव सर्ववाणीनां भूषणस्थानीया। सुमनसां पण्डितानां, देवानां वा अतुलं यथा स्यात्तथा अधिकार:, अनया भाषयैव देवानां पण्डितानां च भूमौ माहात्म्यं प्रसृतमित्यर्थ:। संस्कृतं कठिनम्, अव्यवहार्यं वा इत्यादिभ्रमाक्रान्त-मनसा जनानां प्रतीकार: उपचार:। प्राकार: रक्षार्थं वेष्टनं विनिकार: तिरस्कारशून्य:।।९।।
शुभार्थे शस्या या विबुधवरिवस्यासमुचिता
प्रशस्याया यस्या पदमपि सुखं सौति जगताम्।
विधात्री धर्माणां, सकलसुविधात्री सुमनसा-
मियं शर्वाणीव स्फुरतु सुरवाणी मनसि मे।। १०।।
शुभार्थे मङ्गलारम्भे 'सर्वमङ्गलमाङ्गल्येति’ शर्वाणी भगवती प्रशस्या। परलोकादिषु शुभप्राप्त्यर्थं सुरवाणी अपि शस्या। विबुधानां देवानां पण्डितानां च वरिवस्यायां पूजायाम्, 'वरिवस्या तु शुश्रूषा’ इत्यमर:। पदं चरणं जगदम्बिकाया:, पदं सुप्तिङन्तं मन्त्ररूपं सुरवाण्या:। सुमनसां देवानां पण्डितानां च सकलसुविधाजनयित्री।।१०।।
चिरममरतां मर्त्त्यानां या तनोति निषेविता
सकलजगतामीशेनाऽपि स्फुटं मुकुटे धृता।
जयति जगतीकल्याणार्थं दृढं दधती व्रतं
नवरसवती दिव्या स्रोतस्वती सुरभारती।। ११।।
सुरभारती संस्कृतभाषा शृङ्गारवीरादिनवरसवती दिव्या स्रोतस्वती नदी। अन्या नदी मधुरैकरसयुक्ता, इयं तु नवरसवतीति व्यतिरेक:। मर्त्यानां अमरतां देवरूपं तनोति उभयत्र। जगदीशेन शिवेन शिरसि धृता गङ्गा, भगवता सर्वभाषाणां मूर्द्धभागे स्थापिता तादृश्ययोग्यतया देववाणी। कल्याणव्रतधारकत्वम् उभयत्र।।११।।
घनाक्षरी (कवित्त)-
नित्यं निजसेवकानाममरपदं ददाति
मानसं पुनाति या वै महितमहस्वती
लोकसमुद्धारायैव यद्धाराप्रवाहो भाति
पापपरिहारार्थे या प्रथितयशस्वती।
आदिजननीति जनाद् गौरवमुपेता या च
विष्णुपदस्पर्शोचितपावनपयस्वती
देशपरिपावनाय बाढमियमोजस्वती
निर्जरसरस्वतीव निर्जरसरस्वती।। १२।।
इयं निर्जरसरस्वती देववाणी, निर्जराणां सरस्वती गङ्गा नदीव, 'कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती’ इत्यमर:। महितमहस्वती पूजनीयमहत्त्वधारिका, उभयत्र। गङ्गायां धाराया: प्रवाह:, अमरवाण्या: अविच्छिन्न: प्रसार: (सुव्यवस्थितत्वेन नि:सन्देहतया मध्येऽवरोधाभावात्)। दिव्यप्रभावतया आदिजननी (गङ्गा), सर्वभाषाणामुत्पादिका (संस्कृतभाषा)। गङ्गा विष्णुपदोद्भूतैव, संस्कृतभाषा अध्यात्मज्ञानप्रदतया भगवच्चरणप्रापिका। अन्यदुभयत्रापि स्पष्टम्।।१२।।
हरिगीतिका-
इह सकलभाषाजन्मदा का? भास्वती सुरभारती
वद, वेदजननी का? जगत्योजस्वती सुरभारती।
अनुपमसरससाहित्यधनिका का? सती सुरभारती
वद भारतानुगता भवेत् का भारती? सुरभारती।। १३।।
यावन्मात्रभाषाणां जन्मदात्री का (प्रश्न:), सुरभारती (उत्तरम्)। एवमग्रेऽपि। साहित्येन धनिका का? भारतस्य अनुरूपा भाषा का? उत्तरम्-सुरभारती। यत इदं भारतं, सा भारती।।१३।।
घनाक्षरी (कवित्त)-
तिमिरमपास्य ययैवादौ ज्ञानमाविष्कृतं
शासनमुपाहितं ययैव बिबुधोत्सवाय
यस्या: सेवनेन कविलोका यान्त्यमरपदं
यामिह वदन्ति प्रभवित्रीमात्मशोधनाय।
याऽसौ सर्वमङ्गला न केवलमिहैव लोके
सेयं दिव्यलोकेष्वपि भूरिभव्यवैभवाय
लोकद्वयकल्याणी शुभावहाऽथ शर्वाणीव
सेयं सुरवाणी जनिं लेभे जगत: शिवाय।।१४।।
शर्वाणी पार्वती इव सुरवाणी, ततश्च सर्वमुभयसमन्वयि। विबुधानां देवानां पण्डितानां च उत्सवाय शासनं दुष्टान् दमयित्वा लोकनियमनं यथा भगवत्या कृतम्, शासनं शास्त्रं यथा देववाण्या स्थापितम्। आत्मशोधनाय अन्त:करणपावनाय। सर्वमङ्गला तन्नाम्नी भगवती। सर्वाणि मङ्गलानि यस्या: सकाशात् सा वाणी। अन्यत् उभयगामि, स्पष्टम्।।१४।।
पण्डितप्रशस्यपरिणद्धपदगुम्फवती
चित्तचमत्कारिलसदर्थतो यशस्वती
नृत्यद्वरवाणीमणिनूपुरनिनादनिभा
श्रवणमुपागतैव मह्यते महस्वती।
मञ्जुनाथ! मायामृगतृष्णामोहमूढानपि
प्राणिन: पुनाति या हि पावनपयस्वती
भासते सभासु समुल्लासितविलासरसा
गोविन्दानुरागरसात् सरसा सरस्वती।। १५।।
परिणद्ध: प्रौढ: पदगुम्फो यस्या:। महस्वती तेजस्वती। मायारूपा या मृगतृष्णा तस्या मोहेन मूढान्। वाणी ईश्वरश्रद्धावशादेव अन्येषु प्रभावशालिनी सम्पद्यते इति सूच्यते।।१५।।
पदपरिगुम्फो वर्णमैत्रीमनुयाति यत्र
भाति जगज्जैत्री भावकल्पनकला तुरी
दासा इव वाचमनुगच्छन्त्यनुप्रासा यत्र
प्रमदविकासाद् याति मानसीयमातुरी।
गैर्वाणीगुणैरेवाऽत्र सूयते यश:पटोऽपि
शुष्कतार्किकाणां तिरो गच्छति वेमा तुरी।
मानसमुपेतया यया चाऽमृतमाचामन्ति
वाचामुपगुम्फ नाय सा चातुरी चातुरी।। १६।।
पदगुम्फनं वर्णमैत्रीमनुगतम्। एकस्थानोच्चारणीयानां वर्णानामेवाधिक्यं वर्णमैत्री। भावानां कल्पनकला सैव तुरी तूलिका, लेखनीति यावत्। प्रमोदस्य विकासात् इयं मानसी आतुरी आतुरता याति। गुणै: तन्तुभि: पट: उत्पाद्यते, इह तु संस्कृतभाषाया: प्रसिद्धै: गुणै: यशो विस्तार: उत्पाद्यते, अत एव तार्किकाणां मते पटनिर्माणस्य साधनभूता: तुरीवेमाद्या: इह तिरोभूता भवन्ति। मानसम् उपेतया यया (चातुर्या) अमृतम् आस्वादयन्ति, संस्कृतरचनायां सैव चातुरी चातुरीपदवाच्या।।१६।।
स्फुरन्निगमवाङ्मयै: स्फुटकिरीटशोभावती
पुराणरशनावती स्मृतिमनोज्ञमालावती।
इयं मुनि मनीषिणां हृदि सुखासने भास्वती
समस्तसुषमावती सुरसरस्वती सेव्यताम्।। १७।।
निगमवाङ्मयै: वैदिकसाहित्येन। अष्टादशपुराणै: रशना (कटिभूषण)वती। हृदि सुखाऽऽसने हृदयरूपे सुखजनके आसने, हृदि सुखासने इति व्यस्तरूपकम्। भास्वती देदीप्यमाना। 'सुषमा परमा शोभा’।।१७।।
स्फुरन्निगमभास्वती वरविवेकिविद्वत्कला-
विलाससुषमावती सुमनसां सुखं तन्वती।
सनातनसुनीतिभृद्हृदयमन्दिरे जाग्रती
जयत्यमरभारती जनति सर्वधामोज्ज्वला।। १८।।
स्फुरद्भि: निगमै: वेदै: भास्वती। श्रेष्ठविद्वत्कलाविलासेन सुषमावती। सुमनसां देवानां पण्डितानां च। सुनीतिभृतां विवेकिविदुषां हृदयमन्दिरे। जाग्रती सर्वदा प्रबुद्धा सर्वविधै: धामभि: तेजोभि: उज्ज्वला। अमरा भारती सरस्वती, अमराणां भारती संस्कृतवाणी च।।१८।।
मोलिर्वेदोऽस्ति यस्या मुखमुपनिषद: कन्धरा धर्मशास्त्रं
वक्षो वेदान्तविद्या कलय कटितटं दर्शनानीतराणि।
जङ्घाऽन्ये शास्त्रसंघाश्चरणमथ नयो मण्डनं काव्यमेतत्
प्रत्यक्षं वीक्षसे चेत्कथमहह मृता सा हि गीर्वाणवाणी।। १९।।
इतराणि दर्शनानि कटितटं कलय जानीहि। नय: नीतिशास्त्रं चरणम्। प्रत्यक्षं मूर्तिदर्शनेऽपि वैदेशिका:, तद्गतानुगतिकतया एतद्देशीया नवीनशिक्षिता अपि च कथमिमां मृतभाषेति व्यपदिशन्तीत्याशय:।।१९।।
द्विजानां कर्तव्यादथ विभवभव्यादपि गुणाद्
गुणज्ञो गैर्वाणीमिह पठति वाणीं बुधजन:।
धनाप्तेस्त्वाशात: श्रयति नृपभाषामिति बला-
दिय हौणी गौणी, मुखमिव तु मुख्या ह्यमरवाक्।। २०।।
द्विजानां ब्राह्मणक्षत्रियवैश्यादीनां संस्कृतजातीनां कर्तव्यमिदमिति बुद्ध्या, विभवभव्यात् स्वाभाविकात् दिव्य-माधुर्य-सुबोधत्वादिवैभवगुणादित्यर्थ:। प्राचीन-परम्पराप्रचलितगुणवेदितामाहात्म्येन गुणपरिचयी बुधजन: सर्वदेशीयेभ्य: आध्यात्मिकज्ञानप्रदतया सर्वत: प्रशस्यो भारतीयलोक:, गैर्वाणीं सुरवाणीमिमां संस्कृतां पठति। वैदेशिकशासने वैदेशिकै: नृपै: आत्माभाषैव राजभाषेति कृत्वा सर्वेषु अधिकार-कार्यालयादिषु प्रवर्तिता। ततश्च राज्ञा, तच्छासनेनैव च सर्वमपि देशगतं कार्यं सम्बध्यते। कार्यानुगामि च वेतनादिजीविकासाधनम्, ततश्च धनप्राप्ते: आशात: बलात् परवशतया इमां नृपभाषां हौणीम् आङ्गलभाषां श्रयति स्वीकुरुते। 'श्रयति’ पदेन राजशासनबलात् तस्या आश्रय इव कर्तव्यो भवतीति द्योत्यते। 'आशा’ पदेन विजितजातीनामेषां तत्पठनेऽपि बहुधा अपेक्षितलाभो भवतीति सूच्यते। बलात्, आजीवनान्नदानबलगुणात् गौणी अमुख्या, अनिच्छया पठनीया।।२०।।
सेयं सभा प्रतिभावतां प्रस्तूयतां सुरभारती।
वदनात्कवीनां श्रूयतां सुरभारती सुरभारती।।
इह भारतीयनभोऽन्तरे व्याप्ता तथाऽमरभारती।
निनदोऽधुनाऽपि श्रूयतां सुरभारती सुरभारती।। २१।।
देववाण्या विजयगीति:-अयं प्रतिभाशालिनां समाज: (संघटित:) अत एव सुरभारत्या एव प्रस्तावोऽस्तु। कवीनां मुखादपि सर्वत: सुरभारती सुराणां भारती (अर्थात् मनुष्याणां का कथा, सेयं देवानां वाणीति) प्रशंसागीति: श्रूयताम्। वैदिककालादारभ्य भारतीयगगने भारती इयं तथा व्याप्ता यथाऽधुनापि अन्तरिक्षात् ('ईथर’) 'सुरभारती सुरभारती’ इति नाद: प्रत्यक्षं श्रूयताम्।।२१।।
इदमार्यजातेर्मस्तकं का वा समुन्नतमादधौ?
नि:शङ्कमुच्चै: स्तूयतां सुरभारती सुरभारती।।
यैषाऽखिले भूमण्डले निदिदेश मानवसभ्यताम्।
विजयध्वजो व्याधूयतां सुरभारती सुरभारती।। २२।।
का मस्तकमुन्नतं चकार? (प्रश्न:), सुरभारती सुरभारती इति दाढर्यसूचकं द्विरुक्तमुत्तरम्। भूमण्डले मानवसभ्यतां शासनरूपेण या एषा निदिदेश (शिष्टवती, बोधितवती), सा इयं देववाणीति विजयध्वजो दोधूयताम्। 'निदेश: शासनं च स:’ इत्यमर:।।२२।।
अयि नव्यशिक्षित! किं प्रजल्पसि? पठ मनाग् भाषामिमाम्।
स्वयमेव पुनरनुभूयतां सुरभारती सुरभारती।।
अभ्यर्थ्यते त्रिजगत्पते! पुनरेव भाविनि भारते।
प्रतिगेहत: संश्रूयतां सुरभारती सुरभारती।। २३।।
अधुना किं वितण्डावादं करोषि, भाषापठनोत्तरं स्वयमनुभव: क्रियतां यत् सेयं सुरभारती सुरभारत्येव, अद्वितीया नूनं सर्वविधसाहित्यादिविषयेषु इत्याशय:।।२३।।
कवित्वम् (सिंहावलोकनम्) -
गीयतां गृहे गृहेऽद्य गुण्या गुणगीतिर्हरे-
र्नित्यं नगरेषु प्राच्यसभ्यता ह्युदीयताम्
दीयतां जनेन पुण्यसेवायामजस्रं मनो
धार्मिकजनोऽद्य विद्यावैभवे प्रचीयताम्।
चीयतां चतुर्दिक् धनधान्यधामलक्ष्मीरियं
भूरि भारतीयं यश: सर्वतो निधीयताम्
धीयतां मनस्सु देववाणी तत्त्वविज्ञैर्नरै:
काममनभिज्ञैरियं जातु प्रविगीयताम्।। २४।।
गुण्या गुणविषये हिता प्रशस्या। तेन स्वाभाविकमास्तिकत्वम् आर्याणां महत्त्वमिति भाव:। प्राच्या सभ्यता, आर्षी सभ्यता। उदीयतामित्यनेन-'वैदेशिकशासनादिना आर्यसभ्यता किञ्चित्तिरोहितेव, सम्प्रति भारतीयशासने 'उदीयताम् उदयं गच्छतु।’ प्राचीयतां प्रचित: समृद्ध: भवतु। ये तत्त्वबोद्धार: तै: सेयं देववाणी मनसि स्थाप्यताम्, मनोयोगपूर्वकम् एतस्या: पूर्ववैभवस्थापनार्थं प्रयत्यताम्। अनभिज्ञै: तद्गुणाऽपरिचितै: कामं कदाचित् प्रविगीयताम् सैषा न सर्वबोध्या, कठिना इत्यादि निन्द्यतामित्याशय:।।२४।।
कै: कारणैरन्यभाषाऽपेक्षया महत्त्वं संस्कृतभाषाया:?
सर्वादिमत्वम् शब्दकोषबाहुल्यं च
मानसिकभावानां प्रकाशनाय कण्ठताल्वाद्यभिघातनिष्पन्नानां शब्दानां प्रवाहरूपाया भाषाया आवश्यकता भवतीति वैज्ञानिकानां समय:। भाषाया: साहाय्यं विना मनुजो न कथञ्चिदपि निजहृदयभावान् प्रकाशयितुं प्रभुर्भवति। यद्यपि इङ्गितादिना यत्किञ्चित्सूचयितुं कदाचित्प्रभवेत्, किं तु सर्वस्मिन्विषये स्वातन्त्र्येण सर्वविधव्यवहारनिर्वाहो भाषावत् चेष्टादिना न कथञ्चित्सम्भवतीति अनाग्रहिलै: स्वीकर्तव्यमेव भवेत्।
भाषा हि सर्वत: प्रथमं कस्मिन् काले मनुजमुखान्निस्सरदिति विचारसीमातिगामी विषय:। विकाससिद्धान्तानुयायिनो यद्यप्यस्मिन्नपि विषये काञ्चिदुपपत्तिं दर्शयितुमग्रेसरा भवेयु:, परं शब्दब्रह्मणो नित्यतां विजयढक्कानिनादपुरस्सरं सर्वत्रोद्घोषयन्तो वयमेवंविधान्वेषणमकिञ्चित्करमेव मन्यामहे। सर्वत: पूर्वं मनुष्याणां कीदृशी भाषासीदित्यमुं विषयं बहो: कालादन्विष्यन्ति गवेषणशीला: पाश्चात्त्यविद्वांस:। नानाविदुषां नानाविधानि मतानि। परं सर्वेषामपि विदुषामन्वेषणेन तदिदं प्रतिदिनं दृढं भवति यदस्माकं देववाणी संस्कृता सर्वजगतां भाषाभ्य: सुबहुतरं प्राचीना। विना किञ्चिद् दृढतरं प्रमाणं नाऽस्मिन्समये किञ्चिदपि साधयितुं शक्यम्। यदि वयमस्मत्पूर्वजानां भारतवासितां प्रतिपादयामस्तदाऽपि नवशिक्षितसमाज: पृच्छत्यस्मान् 'किं वा प्रमाणं भवत्पूर्वजानां भारतवासित्वे?’ 'अस्मत्पूर्वजैरात्मन: संसारयात्रानिर्वाहार्थं गृहनिर्माणं वस्त्रनिर्माणं पात्रादिनिर्माणं चाऽऽत्मनो बुद्ध्यैव कृतम्’। एतद् यदि निसर्गसिद्धमपि साम्प्रतं वदामस्तदाऽपि भवन्त्यमाकमुपरि वाग्बाणवर्षा:- 'नैतज् ज्ञानमासीद्भारतवर्षीयाणाम्, अन्येभ्यो देशेभ्य: शिक्षितमेतत्।’
एवं खलु जगत: सम्पूर्णमेव वायुमण्डलं सम्प्रति विपर्यस्तमिव। सोऽयं हेतुवादस्य जाज्वल्यमान: समय:। अस्मिन् समये उपपत्तिं विना नैकपदमपि शक्यते प्रसर्तुम्। परम् अन्वेषकैरेव साधितमिदं यत्संस्कृतभाषा सर्वत: पुरातनीति। यतो हि प्रत्यक्षं प्रमाणं वेदा विराजन्ते। वेदानां समयनिर्णयकार्ये महामहाविदुषामनेकानि मस्तिष्कानि बहो: कालाद् व्यापृतानि। अनेकानि च मतानि प्रकाशितान्यभूवन्नद्यावधि। केचित्पाश्चात्त्या: ख्रिष्टजन्मत: षट्सहस्रवर्षाणां पुरातनं वेदराशिं मन्यन्ते। केचिच्च लोकमान्यतिलकमहोदयादयस्तस्मादपि पुरातनम्, अपरे उमेशचन्द्रभट्टाचार्यप्रभृतयो लक्षवर्षपुरातनं वेदराशिं स्थापयन्ति। भवतु नानाविधमान्दोलनमेतत्। परमनेन सर्वेणाऽपि सिध्यति यद् वेदेभ्य: प्राचीनं किञ्चनापि वाङ्मयं नाधिगतमद्यापि समग्रेणाऽपि भूमण्डलेन। वेदाश्च देववाणीपर्यायक-संस्कृतभाषायाम्। अत: सुस्पष्टं सिध्यति यत्सर्वाभ्य: प्राचीना सेयमस्माकं संस्कृतभाषा। यद्यपि वैदिकभाषातो वर्तमानसंस्कृतभाषायामुपलभ्यते भेद:, परं कालक्रमाज्जायमान: सोऽयं भेदो द्वयोरपि भाषयोर्मध्ये कस्याश्चिदपि भाषान्तरत्वं नाऽऽपादयितुं शक्नोति। सर्वास्वपि भाषासु कालक्रमेण लोकानां व्यवहारपरिवर्तनक्रमेण च स्वभावत एव सम्भवत्ययं भेद:। दृश्यताम्, या हि संस्कृतभाषा काव्यादिव्यवहारे उपयुज्यते, तस्यामेव कालक्रमेण कियान् भेद: सम्पन्न:। या हि महाकविना भासेन भाषा व्यवहृता न तादृशो जगन्नाथपण्डितराजस्य। धर्मशास्त्रादीनां भाषाया: प्रकारोऽन्य:। उपनिषदां चाऽन्य:। काव्यानां च पृथग्विध इति नायं भेदो वैदिकभाषां संस्कृतभाषात: पृथक् कर्तुं शक्नुयात्। आम्, एतदवश्यं मन्तव्यं यन्मध्ययुगे वैदिकभाषायां बहव: संस्कारा वैयाकरणै: (कालकृतपरिवर्तननियमं, लोकानां व्यवहारप्रवाहं च समीक्ष्य) प्रचारिता:, यैर्हि भाषायां भूयान् परिष्कार:, परिवर्तनप्रवाहं विषह्य भूयसी स्थिरता चाऽभवत्। अत एव हि सेयं संस्कृत-भाषे’ति व्यपदेशमलभत।
ततश्चाऽतिप्राचीनकाले एकमात्रं सेयमस्माकं देववाणी-पर्यायकसंस्कृतभाषैव लोकानां व्यवहारसमादरयोर्भूमिरासीत्। कालक्रमेण देशकालादीनां, जलवाय्वादीनां च संसर्गवशात्सेयं नानाभेदान् प्राप्तवती। जलवाय्वादीनाम् उच्चारयितुर्मनुष्यस्योपरि भवति तादृश: प्रभावो येन मनुष्यस्याऽस्य उच्चारणमपि विलक्षणतया परिवर्तते। तकारसम्बद्धं शब्दं वयमेकेन प्रकारेणोच्चारयाम:, पाश्चात्यदेशीया गौराङ्गास्तं हि अन्येनैव प्रकारेणोच्चारयन्ति। किं नाम दूरानुधावनेन भारत एव देशभेदात् नानाविधान्युच्चारणानि। चक्षु:शब्दं ज्ञानशब्दं च वङ्गदेशवास्तव्या यथोच्चारयन्ति न तथा दक्षिणात्या:। एनमेव च शब्दं वाङ्गा यथोच्चारयन्ति, मैथिलास्ततोऽन्येनैव प्रकारेण। तेषु शिक्षिता एव किम् प्रकाण्डपण्डिता अपि 'चच्छु:’ इत्युच्चारयन्त: प्रत्यक्ष दृष्टा:। मूर्धन्य'ष’कारोच्चारणे वाङ्गमैथिलदाक्षिणात्यानां सुप्रसिद्धो भेद:। 'ऋ’कारोच्चारणेऽपि दाक्षिणात्य-राजस्थानीयादीनां सुस्पष्टो भेद:।
अस्तु, नायं विषयो विस्तरमर्हति। जानन्त्येव सर्वेऽपि-देशजलवाय्वादीनां माहात्म्येन भाषायां निसर्गत एवाऽयं भेद उद्भवति। अत एव प्राचीनतम-आर्यभाषाया: सकाशादेव पूर्वतनीनां पूर्वपश्चिमादिभाषाणामुत्पत्तिरभवत्। सुदूरेषु यूरोपादिदेशेषु पूर्वं या: खलु लेटिन्-ग्रीकादयो भाषा प्राचलन्, या: खलु 'क्लासिकल्’ संज्ञार्हास्ता: सर्वा अपि अस्या देवभाषाया: समुत्पन्ना:। न केवलं वयमेव, परं सुयोग्या: पाश्चात्त्यविद्वांसो मोनियर विलियम्स, प्रोफेसर-मैक्समूलरप्रभृतयोऽपि सुस्पष्टमिदं सम्मन्यन्ते।
एवमियमस्माकं देववाणी सर्वापेक्षया सुतरां प्राचीना, सर्वासां च भाषाणामादिपितामही च सिध्यति। किं नु नाऽनेन भाषाया अस्या महत्त्वमभिव्यक्तं भवति यत् सर्वासामपि भाषाणां महत्त्वमेतन्निदानकमेव? यत: सर्वा अपि ता: अस्या: सकाशादेव जन्मलेभिरे। कदाचन नवशिक्षोद्रिक्तमति: कश्चित्किशोर: स्वपितामहमवादीत्- ''तात! किं वाऽस्मदपेक्षया महत्त्वं भवत:, यदेवं सर्वाधिकगौरवेण मुहु: संमन्त्र्यते?’’
वृद्ध: पितामह: सस्मितमवादीत्-''वत्स! पृच्छ मे महत्त्वमात्मन: पितरमेव यस्य खलु कलेवरमेव मत्सकाशाज्जननं लेभे।’’