संस्कृतभाषायां प्रचुरा साहित्यसामग्री
''भाषा हि हृद्गतं भावं प्रकाशयितुमेव मानवसृष्टौ समुत्पन्ना’’ इति भाषावैज्ञानिका वदन्ति। यस्या भाषाया: सविधे भावप्रकाशनार्थं यावदेव शब्दरूपं नीवीधनं भविष्यति सा तावदेव साहित्यादिनाऽपि सम्पन्ना भविष्यति। साहित्यञ्च पुनर्भाषाया: सम्पत्ति:, समाजस्य जीवनम्, जनताया: सभ्यतासरणि:। साहित्यमवाप्य भाषा दीर्घजीवनं लभते। साहित्यं च न केवलं सभ्यताम्, अपितु तदधिकारिणां स्वभावं च जीवनपद्धतिं च स्मारयति। साहित्ये च चमत्कारकेण प्रकारेण प्रयुक्ता भाषा प्राय: प्रीणयति पाठकानिति प्रचुरं परीक्षितं प्रतिभावद्भि:। प्रसिद्धप्रकाराऽपेक्षया प्रमोदकेन अन्येन प्रकारेण वर्णनं हि साधारणेऽपि वर्ण्य बहुशश्चमत्कारमाविर्भावयतीति प्रायश: परीक्षितम्। किन्तु-एकस्यैवाऽर्थस्य नानाप्रकारै: प्रकाशनं प्रबन्धकर्तुभाषायामधिकारं विना न तावत् सुसम्भवम्। भाषाऽपि च तत्तादृशी स्याद्यत्र हि प्रभूत: शब्दकोष:, समपेक्षिता च धातु(क्रिया) सम्पत्तिर्भवेत्। सेयमस्माकं सुरभारती सर्वस्मिन्नपि जगति एतदर्थे सम्पत्सम्पन्ना, ख्यातिमापन्ना च। भाषान्तरेष्विव नाऽस्यां शब्ददारिद्रयम्, येन हि वयं परिमितेनैव प्रकारेण, प्रमेयस्य प्रतिपादने परवशा: स्याम्। एक एव प्रतिपाद्यो विषयोऽनन्तै: प्रकारैरत्र प्रकाशयितुं पार्येत, यदि निबन्धु: सुरभारत्यामधिकारो भवेत्।
प्रकारपरीक्षणाय एकमहमुदाहरणं प्रदर्शयामि। एतदाधारेण स्थालीपुलाकन्यायात् विवेकिन: स्वयं सर्वं परिजानीयु:। पूर्वमप्येकमीदृशमुदाहरणं दत्तं मया। परं नेदं तत्। चर्वितचर्वणं हि समजे शोभते, न तु साहित्यसेविनां समाजे। अन्या घटनाऽप्यत्र कारणम्। गतेषु वर्षेषु भाषान्तरपक्षपातिना वैदेशिकेन एकेन ग्रेजुएटमहोदयेन सह समभून् मम वादसङ्घर्ष: सहसैव। विषयश्चाऽयम्-यत् साहित्यसामग्रीसम्पादनाय भाषान्तरद्वारा भवान् एकमेव वाक्यार्थं कतिभि: प्रकारै: प्रतिपादयितुं पारयति, संस्कृतेन चाऽहं कियद्भि: प्रकारैरिति। तद् वाक्यं चेदम्-
''भारतस्य भूमिं यथैव वयं पश्यामस्तथैव चित्ते प्रमोदो भवति।’’ इति
इदानीं संस्कृते दृश्यन्तां प्रकारभेदा:-भारतभुवं यथैव वयमालोकयामस्तथैव मानसमस्माकं प्रसीदति। भारतवसुन्धरां यथैव दृशो: कुर्म: तथैव चित्तं प्रमोदते। भारतभूमिं यथैव नेत्रातिथिं कुर्म: तथैव चेतोऽस्माकं प्रमोदमुपयाति। भारतधरणीं यथैव वयं दृग्गोचरी कुर्मस्तथैव मनसि मोदोऽस्माकमुद्भवति। भारतभूभागं यथैव वयं नेत्रयोर्गोचरमानयामस्तथैव चेतसि प्रमोद: प्रादुर्भवति। भारतभूमण्डलं यथैव लोचनविषयं विदध्म: तथैव मनसि प्रमदमनुभवाम:। भारतविश्वम्भरां यथैव वयं दृशमुपनयामस्तथैव प्रमोद: प्रादुर्भवति। भारतधरित्रीं यथैव नयनयोरानयामस्तथैव हर्ष: सम्भवति। भारतवसुमतीं यथैव नेत्रयोर्ढौकयामस्तथैव चेत: प्रहृष्यति। भारतमेदिनीं यथैव दृशोरुपहरामस्तथैव नन्दति मानसं न:। भारतभूखण्डं यथैव दृग्भ्यामापिबामस्तथैव प्रमदमुपगच्छामश्चेतसि। भारतभूखण्डं यथैव नेत्रप्राघुणिकतां नयामस्तथैव
हृष्यति हृदयं न:। भारतमातरं यथैव दृग्भ्यामापिबामस्तथेव प्रीयते नश्चित्तम्। भारतजननीं यथैव दृशोर्गोचरतां गमयाम स्तथैव निर्वृणोति नश्चेत:। भारतधरा यथैव दृशोरारोपयामस्तथैव सुखायते नोऽन्त:करणम्। भारतभुवमलोकयामो यावन्निर्वाति मानसं न:। भारतक्षोणिं यथैव चक्षुषा वीक्षामहे तथैव तुष्यति स्वान्तमेतत्। भारताऽवनिं यथैव चक्षुषोरवतारयामस्तथैव मुदमनुभवामो मानसे। भारतकाश्यपीं यथैव परिशीलयामो दृग्भ्यां तथैव सन्तुष्यत्यन्त:करण न:।
किञ्चिद्भ्ङ्गया कथने तु-
भारतभुवो विलोकनेन यथैवात्मानं पावयामस्तथैव प्रमोदमधिविन्दाम:। भारतभूदर्शनेन यथैवाऽऽत्मानं सनाथयामस्तथैव हृदि कन्दलितो भवत्यानन्द:। भारतविश्वम्भरां यथैव दृशो पुरस्तादधिगच्छामस्तथैव प्रमुदमङ्कुरितामधिविन्दामो हृदि। भारतमातरमवलोक्य यथैवात्मानं पुनीमस्तथैवानन्दमाविन्दाम:। दृशोरवतरन्त्यामेव भारतवसुमत्यामिदं चेत: प्रमोदमुपयाति। नेत्रप्राघुणिकतामुपनीतायां भारतभुवि शतधा प्रमोद: प्रोद्भवति। भारतभूप्रेक्षणेन पावितेऽस्मिन्नात्मनि नृत्यति प्रमोदो हृदयाऽवनौ। भारतमातुरालोकनेन कृतार्थीकृत्यात्मानं प्रमोदमुपगच्छामो मानसे। भारतजननीं निपीय नयनाभ्यां मुदमादत्ते चेत:। भारतभुवि दृग्विषयं लम्भितायामेव सम्मदमधिगच्छामो मानसे। भारतजगतीं नयनातिथिमाकलय्य विवृणोति निर्वृतिं चेत:। निभालितायामेव भारतभुवि परिशीलयाम: परितोषम्। भारतभुवो मूर्तिमालोक्यैव दृग्भ्याम्, प्रमदमुपयाति मानसम्। विभावयन्त एव भारतभुव प्रमदमाद्मश्चेतसि। नेत्राङ्गणमानीतायामेव भारतभूतधात्र्यां सम्मदमादध्मो मानसे। नयनयोर्गोचरमुपगतायां भारतभुवि प्रहर्षमङ्गीकुर्म:। दृशि पदं दधत्यामेव भारतवसुमत्यां धारयति धृतिं चेत:। भारतभुवमालोकयतामेव मुदं चुम्बति चेतो न:। भारतधरां निरीक्षमाणानामस्माकमवगाहते प्रमोदमन्त:करणम्। भारतमातरं दृशा परिशीलयतामस्माकमभिमुखीभवति प्रमोद:। नयनयोरवतारितायां भारतमातरि प्रोद्भवति प्रमोदो हृदये। दृग्भ्यामापिबत्सु भारतमहीमस्मासु आलिङ्गत्यानन्दमन्त:करणम्। नयनातिथितामुपगतायां भारतवसुधायां मोदमनुभवति मानसं न:। चक्षु:समक्षमुपनीतायामेव भारतवसुन्धरायां प्रमोदमनुभवति मानसं न:। नयनाभ्यां निरीक्षितायामेव भारतवसुमत्यां मोदामहे मानसेऽस्मिन्। भारतमेदिन्यामालोकितायामेव सुखायते स्वान्तं न:। भारतभुवि सम्मुखमुपस्थितायामेव नन्दति हृदयं न:। निर्वर्णितायामेव भारतधरायामादत्ते मुदमान्तरं न:। यावन् निभालयामो भारतविश्वम्भरां तावन्निर्वाति मानसमस्माकम्। दृशोरध्यक्षमुपगतायामेव भारतमेदिन्यां प्रकटयति प्रमोदमन्त:करणमस्माकम्। दृग्भ्यामापीयैव भारतरत्नगर्भां प्रमदमालिङ्गति मानसं न:। नयनोपकण्ठमागतायामेव भारताऽचलायां प्रमदमाविष्कुरुते चित्तमस्माकम्। नयनसीमनि समुपगतायामेव भारतभुमौ प्रोद्भवति प्रमोदो मानसेऽस्मिन्। इत्यादि।
एतस्यैव कर्मवाच्यक्रियापरिवर्तने तु-
यथैव भारतावनिरधिवीक्ष्यते तथैव प्रमोदेन मानसमिदमधिक्रियते। यथैव दृशोरुपनीयते भारतमेदिनी तथैव भृशमभिनन्द्यते चेतसा। यथैवाऽधिनयनमवतार्यते भारतजननी तथैव चेतसा प्रनृत्यते प्रमदेन। यथैव निपीयते नयनाभ्यां भारतमाता तथैव शतमुखमाविर्भूयते प्रहर्षेणाऽन्त:। करणे। यथैव भारतभूरालोक्यते लोचनाभ्यां, तथैव प्रतिपद्यते प्रमोदोऽन्त:करणे। यथैव निरूप्यते नयनाभ्यामवनिर्भारतीया तथैव चेतसाऽङ्गीक्रियते प्रमदभर: कोऽपि। यथैव दृग्भ्यामापीयते भारतवसुन्धरा तथैव प्रीयते मानसेनानेन। यथैव दृगभिमुखमानीयते भूमिरियं भारतस्य तथैव प्रनृत्यते प्रमोदेन मानसेनाऽनेन।
संस्कृतभाषाया अतिप्राचीनता
अनादित: (सामयिकान्वेषकाणां मतानुसारमतिप्राचीनकालात्) प्रचलिता देववाणीतिख्याता-प्राचामार्याणां भाषैव सुशृङ्खलता-स्थायिता-सुन्दरताद्यापादकानां व्याकरणसंस्काराणां शनै:शनैर्दृढीभावात् 'संस्कृत’मिति नामधेयं लेभे इत्याचक्षते विचक्षणा गवेषणायाम्। मन्ये नात्र भवेद्विवेकिन: कस्यचिद्विमति:। सर्वादौ प्रचलिताया एतस्या आर्यभाषाया: साहित्यसमुन्मीलितं रूपं भगवन्तो वेदा:। यदि लिखितं किञ्चित्प्रमाणमवलम्ब्यैव किञ्चित्साधनीयमिति हेतुवादिनां समयस्तर्हि वयं स्फुटमावेदयितुं प्रभवामो यज्जगत: सुतरां प्राचीना भाषा-वर्तमानसंस्कृतभाषाया मूलभूता गैर्वाणी वाणी, निजस्यारम्भिकं स्वरूपं वहन्ती, तत्सदृश्येव वा काचिदासीत् यस्या हि कालवशाच्छनै: शनै: परिष्कृतं साहित्ये स्थिरीकृतं च रूपं वेदा अमी समवाप्नुवन्। यद्यार्याणां साहित्यभाषा वैदिकी सेयं स्वीकृता, तर्हि व्यावहारिक्यपि तेषां सैव, तत: किञ्चिदवरा (अपरिष्कृता) वा स्वीकर्तव्या स्यात्। व्यावहारिकी भाषैव परिष्कृता सती साहित्यभाषास्वरूपं लभते, इति भाषावैज्ञानिकानां सिद्धान्त:। न नाम साहित्यभाषा प्रचलितभाषात:, सर्वथैव विजातीया भवितुमर्हति। प्रत्यक्षमुदाहरणं दृश्यताम्, स्त्रीबालादिष्वापामरं प्रचलिता या वङ्गभाषा सैव संस्कृतभाषाया: शब्दप्राचुर्यात् वर्तमानं मधुरतरं साहित्यरूपं लेभे। कतमो वा विचारशाली द्वयोरनयोर्वङ्गीयत्वं न वदेत्? अत एव भूमण्डले सर्वत: प्राचीना या भाषा वैदिकसंहितासु प्राप्ता तत्संवादिन्येव भाषा काचिज्जनसमाजे प्रचलिताऽभ्युपगन्तव्या स्यात्।
तस्या एवातिप्राचीनाया भाषाया भूखण्डस्य भिन्नभिन्नजलवाय्वो:, लोकानामुच्चारण-करणानां (कण्ठताल्वादीनाम्) वैजात्यवशाच्च शनै:शनैर्भेदस्थिरीभावेन तत्कालप्रचलितानां नानादेशभाषाणां विकासोऽभवत्।
किन्तु सर्वासामपि प्राचीनतमभाषाणामुत्पत्तिस्रोतोभूता काचिदेकैव भाषाऽऽसीदिति वर्तमानैरपि भाषातत्त्वविद्भि: साधितम्। पुरुषोत्तमदासटण्डनादिभिर्भाषाविज्ञाने प्रतिपादितं दृष्टमेव साहित्यपरिशीलिभिर्यत्- सर्वासामपि देशभाषाणामारम्भिकं स्वरूपम् उपादानस्यैक्यमनु-सूचयति। यथा-आर्याणां पितृ (पितर) पारस्यानां पिदर युरोपीयानां फादर, इत्यादय: शब्दा: स्पष्टमिदं प्रामाणीकुर्वन्ति। विषयोऽयं तद्विषयकपण्डितैर्विस्तृत्य विवेचित इति नात्र मया विषयान्तरीक्रियते।
ततश्च- प्राप्तलिखितप्रमाणबलात् प्राचामार्याणां साहित्यभाषा यदि वैदिकी सिद्धा तर्हि व्यावहारिक्यपि तस्या अविजातीया तत्सदृश्येव (तदुपादानभूता) मन्तव्या स्यात् यस्या हि परिष्कृतं साहित्यरूपं वेदा:। भाषा हि नैकरूपा सर्वदाऽवतिष्ठते। भवति हि शनै: शनै: कालवशात्परिवर्तितोच्चारणकरण१ शक्तीनां लोकानां सम्पर्काद् भाषायां परिवर्तनम्। अतितमां
गवेषकमस्तिष्कशालिभि: पं. श्री चन्द्रधरशर्मगुलेरिभि: 'नागरीप्रचारिणी’ पत्रिकायां (पुरानी हिन्दी) साधितम्-प्राचीनवैदिकभाषाप्रवाहस्यैव कालवशाद् द्वे स्रोतसी समानतया प्रवृत्ते। एकस्माच्छनै: शनै: कालकृतपरिवर्तनेन प्राकृतस्योत्पत्ति:। प्राकृतादपि कालवशाद्देश-जलवायुभेदादष्टादश महाराष्ट्रदिभाषाणाम्, औड्रीआवन्त्यादि उपभाषाणां च विकास:। प्राकृतभाषाया अपि शनै: शनै: संस्कारेण साहित्यरूपसम्पत्तौ सा पुस्तकस्था भाषा समजनि। व्यवहारभाषाया: स्थानं तु 'अपभ्रंश:’ लेभे।
अपभ्रंशस्य विषये श्रीमता सूर्यकरणपारीकमहोदयेन प्रचुरं परिश्रम्य भूयस्तरामन्विष्टम्। मार्मिकाणां परिज्ञानाय तस्य सारभूतमधस्ताद्दीयते- अपभ्रंशस्यारम्भिको विकासो विक्रमस्य द्वितीयशताब्दीतो दशमशताब्दीं यावदासीत्। इत: पूर्वं तु 'अपभ्रंश’शब्द: कस्याश्चन भाषाया बोधको नासीत्। साहित्यस्य भाषा निरक्षराणां साधारणजनानां वा व्यवहारमार्गमवाप्य यदा ह्युच्चारणात्, शिष्टसम्भाषणाच्चाऽभ्रश्यत, विकृतं रूपमुपालभ्यत, तदैव तस्या अपभ्रंशो व्यपादिश्यत। तत्रभवता पतञ्जलिना (यस्य समय: पाश्चात्त्यानां मतानुसार ख्रिष्टात्पूर्वं द्वितीयशताब्दी) महाभाष्ये प्रायुज्यतायं शब्दोऽस्मिन्नेवार्थे- ''एकैकस्य हि शब्दस्य बहवोऽपभ्रंशा:। तद्यथा- 'गौरित्यस्यशब्दस्य गावी, गोणी, गोता, गोपोतलिकेत्येवमादयो-ऽपभ्रंशा:’।’’ यथाधुना शिष्टोच्चार्यस्य संस्कृतपदस्य 'संसकिरत’, सेंसकिरत, इत्याद्युच्चारणं कुर्वन्ति तदनभिज्ञा:।
विक्रमस्य द्वितीयशताब्द्यां तु भरतमुनिर्नाट्यशास्त्रे-
एवमेतत्तु विज्ञेयं संस्कृतं प्राकृतं तथा।
अत ऊर्ध्वं प्रवक्ष्यामि देशभाषाप्रकल्पनम्।।
इति देशभाषारूपेण अपभ्रंशं व्यपदिदेश। यतो हि संस्कृतप्राकृतयोरुत्तरम् 'अपभ्रंशं’ विहाय का वाऽन्या देशभाषा सम्भवेत्?
एवमेव-
संस्कृतै: प्राकृतैर्वाक्यै: स्वशिष्यमनुरूपत:।
देशभाषाद्युपायैश्च बोधयेत्स गुरु: स्मृत:।।
काशीप्रसादजायसवालसमुद्धृते 'नारदस्मृति’-वचनेऽपि संस्कृतप्राकृतयोरुत्तरम् 'अपभ्रंशो’ देशभाषापदेन व्यपदिष्ट: (अर्वाचामन्वेषकाणां मतानुसारं नारदस्मृते रचनाकाल: ख्रिराष्टस्य पञ्चमी शताब्दी)। एवं किल पञ्चमशताब्दीपर्यन्तं प्राकृतस्य पुस्तकभाषात्वे जाते अपभ्रंशभाषा देशभाषापदं गृहीतवतीति सिध्यति।
अपभ्रंशशब्दस्य भाषार्थे सर्वत: प्रथमं प्रयोगो वलभीनरेशस्य श्रीधरसेनस्य (द्वितीयस्य) शिलालेखे प्राप्यते यत्र हि स स्वपितु: काव्यरचनानैपुण्यमेवमाह- 'संस्कृतप्राकृतापभ्रंशभाषात्रयप्रतिबद्धरचनानिपुणान्त:करणेति’ (श्रीधरसेनपितुर्गुहसेनस्य समयो विक्रमस्य सप्तमशताब्द्या: पूर्वार्द्धं स्वीकृतोऽन्वेषकै:)। एवमेव तत्सामयिको भामहोऽपि- 'संस्कृतं प्राकृतं वान्यदपभ्रंश’ इति काव्यस्य भेदत्रयं निर्दिष्टवान्। हर्षचरिते बाणोऽपि राज्ञो बहिर्भ्रमणे प्राकृतकविना सह भाषाकविमेकं सूचितवान्। तत्रापि भाषाकविपदेन अपभ्रंश-कविरेव, यतो हि बाणस्य समये अपभ्रंश: साहित्यभाषा समजायत। अत एव काव्यादर्शे दण्डी-
तदेतद्वाङ्मयं भूय: संस्कृतं प्राकृतं तथा।
अपभ्रंशं च मिश्रं चेत्याहुरार्याश्चतुर्विधम्।।
एवमादिभि: प्रमाणै: सिध्यति यद्विक्रमस्य षष्ठसप्तमशताब्दीत: अपभ्रंशभाषा साहित्यरचनायां पर्यगृह्यत। अभूदस्या अपि तथा प्रतिष्ठा यथा राजादयोऽपि एतद्भाषाकाव्यरचनया आत्मनो गौरवं गणयामासु:, साहित्यनीतिकाराश्च अपभ्रंशस्यापि स्वतन्त्रां काव्यशैलीं स्वीचक्रु:।
दशमशताब्द्यां राजशेखर: काव्यमीमांसाया: स्थाने स्थाने अपभ्रंशमुल्लिलेख येन सिध्यति यत्तस्मिन् समयेऽस्या: साहित्यं सम्पन्नदशायां समपद्यत। सह्यपभ्रंशस्य प्रचारे प्राह-'सापभ्रंशप्रयोगा: सकलमरुभुवष्टक्क-भादानकाश्च’ (टक्क: पूर्वीयपञ्चाम्बुदेश:)।
एवं किल त्रयोदशशताब्दीपर्यन्तमपभ्रंशस्य पूर्णो विकासकाल आसीदिति पारीकमहोदयेन साधितम्। तत: अपभ्रंशस्य शनै: शनै: पुस्तकस्थभाषात्वे जाते अपभ्रंशस्य लोकप्रचलितमेकं रूपं व्यवहाराभिमुखं भूत्वा लोकभाषामन्यां ससर्ज। महामतिभि: पं. श्रीचन्द्रधरशर्मगुलेरिभि: अपभ्रंशोत्तरं या 'पुरानी हिन्दी’ ति नाम्ना भाषा 'हैमव्याकरण’ 'दोहा’ छन्दोभि: साधिता, सा हि 'प्राचीन राजस्थानी’ ति पारीकमहोदयस्य मतम्। सैव तस्मिन्काले भारते साहित्यभाषारूपेण सर्वत: प्रचचार। अत एव कबीरस्यापि भाषायां राजस्थानीभाषाया एव प्रभाव: सर्वतोऽधिकं व्याप्नोत्। साधितमिदं ग्रन्थोद्धतभाषाशैलीभि: पारीकमहोदयेन। तदुत्तरं तु तत्तत्प्रान्तीयभाषाणां भेदविकास: समभूदिति जानन्त्येव भाषाविज्ञानविद:। अयं किल तत्समयविभाग:
पूर्व: अपभ्रंशकाल:- विक्रमस्य द्वितीयशताब्दीमारभ्य दशमशताब्दीं यावत्
उत्तर: अपभ्रंशकाल:- दशमशताब्दीमारभ्य त्रयोदशीं यावत्
लोकभाषाया अथवा प्राचीनराजस्थान्या: काल:-त्रयोदशीत: पञ्चदशीं यावत्
अस्तु, गुलेरिमहोदयस्य मतानुसारम्-अपभ्रंशस्यापि शनैर्विस्तार:, अवान्तरभेदप्रसारश्चाभूत्। शनै: शनै: परिष्कारेण तस्यापि साहित्यिकं रूपं पुस्तकस्थं जातम्। व्यवहारपदं 'पुरानी हिन्दी’ पदवाच्या भाषा लेभे यस्या हि उपलभ्यमानं स्वरूपं हेमचन्द्रस्यापभ्रंशकोषे उपलभ्यमानानि- 'भल्ला हुवा जो मारिया बहिणि हुमारा कन्त’ इत्यादीनि दोहापद्यानि तैर्निर्दिष्टानि। तै: साधितं यन्नेमानि प्राकृतभाषासम्पत्ति: यतो हि संस्कृतभाषाछन्दसां मेरुदण्डस्वरूपं प्रधानतमं छन्दो यथा 'अनुष्टुप्’ तथा प्राकृतभाषाया: 'गाथा’। एवमेव शनै:
शनैर्हिन्दीसाहित्यस्वरूपनिष्पत्तौ स्वीकर्तव्यं भवेद् यद् हिन्दीभाषाया: सिद्धान्तितं मेरुदण्डस्थानीयं सर्वमान्यं सर्ववेद्यं छन्द: 'दोहा’। 'भल्ला हुवा जो’ इत्यादीनि हि 'दोहा’ छन्दांसि। तत: स्पष्टीभवति यदिदं कालवशात्प्रवृत्तम् अपभ्रंशभाषायां अपि अपभ्रंशस्वरूपं 'पुरानी हिन्दी’ इति व्यपदेशोचितं हिन्दीरूपमेव, नापभ्रंश:। तस्या: (पुरानी हिन्दी) सकाशात् शनै: 'रासो’ इत्यादिषु प्रचलिताया जन्म, तत: सकाशात् जगनिक-जायसी (पदमावतग्रन्थकर्ता) इत्यादिभाषाया उद्भव:। तत: सूर-तुलसीत्यादिभाषाऽऽविर्भाव:, ततश्च भारतेन्दुहरिशचन्द्रादीनां समयाद्वर्तमानहिन्द्या: स्वरूपाविर्भाव इति।
वैदिकभाषात: 'संस्कृत’स्य रूपनिष्पत्ति:
वैदिकभाषातो द्वितीयं यत्स्वरूपं प्रवृत्तं तस्मात् (वेदेभ्योऽनन्तरम्) ब्राह्मणानां भाषा, ततो गृह्यादिसूत्राणाम्, तत: उपनिषदाम्। तत: पाणिन्यादीनां समये-प्रवाहेऽस्मिन् तादृशा व्याकरणनियम (संस्कार) रूपा 'बन्धा:’ प्रवृत्ता: यैस्तस्या भाषाया: प्रवाह: स्वाभाविकं प्रवहणक्रमं परित्यज्य स्थिरोऽभूत्, भाषा निबद्धा जाता। यावत्कालं भाषायां व्याकरण-साहित्यादीनां सुदृढतमा नियमा न प्रचलन्ति तावत्प्रयोगादिषु महत्स्वातन्त्र्यं प्रयोक्तृणाम्। अत एव जनताव्यवहारप्रवाहपतिता भाषा स्वाभाविकनियमानुसारं क्रमशो विपरिवर्तनं लभते। विपरिवर्तनेन च भाषाया: प्रवाहो नैकरूपतया स्थिरीकर्तुं शक्यते। 'अयम् (परिवर्तनप्रवाह:) किल भाषासु दोषोत्पादक:’ इत्यादि विचारयद्भि: प्राचीनैराचार्यैर्देवभाषायां व्याकरणनियमस्वरूपास्ता व्यवस्था: प्रवर्तिता यासां कारणात्सा भाषा व्यवस्थिता, सर्वदेशेष्वेकरूपा, यथेच्छं कालवशात्परिवर्तयितुं शक्यात्स्वरूपाद्विशिष्टं सुस्थायि च स्वरूपमाप्तवती। व्याकरणसाहित्यादिकृतादस्मादेव संस्कारात् अस्या भाषाया नाम जातं 'संस्कृतम्’ इति।
एतस्मात् (संस्कारात्) पूर्वं नायं व्यपदेशोऽस्या भाषाया: प्राप्यते। एतस्या: किल नामनिर्देशो यो व्यवहृत: प्राग्भिस्तत्र सेयं गैर्वाणी, देववाणीत्याद्येव स्यात्, न संस्कृतमिति। रामायणे पुन: 'वाचं चोदाहरिष्यामि द्विजातिरिव संस्कृताम्’ (सुन्दर.) इत्यादि: प्रयोग: प्राप्यते। तत्र बहूनां त्विदमेवाभिप्रेतं यदत्र 'संस्कृताम्’ इति पदं ''परिष्कृताम्’’ इत्यर्थक भाषाया विशेषणरूपमेव, न तु संस्कृतभाषापरम्। यदि तु भाषापरमिदं पदं मन्येत तर्हि अन्वेषकाणां तदिदं वक्तुमवकाशो भवति यत् प्रचलितं रामायणं यदि सैव वाल्मीकीया रामायणसहिता यस्या: कृते प्रसिद्धं यत् अकस्मात्- 'मा निषादे’ति श्लोकं मुखान्नि:सरन्तं दृष्ट्वा विस्मयो, भावान्तराऽऽविष्कारश्चाभूत्, तर्हि कथं रामायणे उपजातिपुष्पिताग्रादीनि बहून्येव छन्दांसि? बहवश्च साहित्यसुप्रसिद्धा अलङ्कारा:, सुविकसितसाहित्यसामयिका: कवितापरिष्काराश्चाऽवाप्यन्ते? 'यथैव चौर: स तथाहि बुद्ध:’ (उत्तर.) इत्यादि गौतमबुद्धोल्लेख: कथम्? तस्मादिदं वर्तमानं रामायणस्वरूपं संस्कृतसाहित्यस्य पूर्णनिष्पत्तिकालिकं न किलाऽऽरम्भिकम्।
भासस्यैव कविता तत: पुरातनीति शक्यं सर्वतो वक्तुम्, यदपेक्षया हि कालिदासादीनां कवितासु साहित्यिकस्वरूपस्योत्तरोत्तरविकास: समवाप्यते। तर्हि किं वाल्मीकिकाव्ये, यद्धि छन्द:सृष्टेरेवोऽऽरम्भकं ख्याप्यते तत्र प्रस्फुरितस्य, विकासमवाप्तस्य साहित्यपरिष्कारस्य दर्शनं भवितुमर्हेत्? आर्षात्प्रभावात्सोऽयं भावी उत्कर्ष: पूर्वमेव वाल्मीकिना समवाप्त इति तु न सर्वेषां विश्वासास्पदम्। अस्तु, नायं विषयोऽत्र भूयसा विचारणीय:। किन्तु गैर्वाण्या: संस्कृतमिति व्यपदेशोऽतिप्राचीनेषु ग्रन्थेषु नोपलभ्यत इति त्ववश्यं स्वीकार्यं स्यात्। यतो हि व्याकरणकृतसंस्कारोत्तरमेव तथाविधव्यपदेशप्रवृत्ते:।
अयं संस्कारो गैर्वाण्या: पक्षे समुन्नायको जातो हानिकारको वा, इति तावत्प्रसक्तानुप्रसक्तं विचारान्तरम्, यत्र हि नानाविधविचारभिदा भवितुमर्हन्ति। केषाञ्चिन्मते भाषाया जीवनस्रोतसि सेयमर्गला, यया हि जगज्जनेषु तस्या: स्वभाविकरूपेण व्यवहार एव निरुद्धो यद्वशाच्छनै: शनै: सा पुस्तकस्थैव सम्पन्ना, न तस्या नैसर्गिकी प्रगति:। अत एव 'मृता’ इति केषाञ्चित्कृतस्य व्यपदेशस्याऽवसर:।
अपरे तु वक्तुं पारयेयुर्यदेतादृशसंस्काराभावे नेयं गैर्वाणी एतावदनन्तकालपर्यन्तमेकरूपा स्थातुमशक्ष्यत्। यतो हि स्वभाव एवायं भाषाणां यत्प्रयत्नाभावेऽपि देशजलवाय्वादीनाम्, तत्तद्देशीयलोकानामुच्चारण-कारणभूतकण्ठताल्वादिकरणभेदात् नियमानुसारं तासु स्वत: परिवर्तनान्युद्भवन्ति। निसर्गत: परिवर्तनशीलानि नूनमेवंविधानि वस्तूनि, यत: प्रख्यायते-द्वादशक्रोशेषु भाषा किञ्चित्परिवर्तिता (देशविशेषस्य विभिन्नजलवाय्वादिवशात्) भवति। ततश्च न केवलमेकद्वेषु देशेष्वेव, अपि तु विश्वस्मिन्प्रचरिता, अनन्तकालाच्च प्रवृत्ता सेयमार्यभाषा कथमेकरूपा स्थातुमशक्ष्यत्? प्रत्यहं परिवर्तमानायां भाषायां यथा अव्यवस्था, वैरूप्यं चोद्भवति तथा विपरिवर्तनप्रवाहेण सर्वथा रूपान्तरोपलब्ध्या कदाचिदेकस्मिन्दिने विलोपशङ्कापि नैसर्गिकी। अत एव सुव्यवस्थायै स्थिरीकाराय च प्राचामाचार्याणां सोऽयं संस्कार: श्रेयसे एव न हान्यै इति।
अन्ये ब्रूयु:-नायं गैर्वाण्या: संस्कार: 'इदमहं करोमि’ इति स्वप्रयत्नेन निष्पाद्य: केषाञ्चिदाचार्याणां हस्तकौशलम्। अयं खलु नियम एव प्रकृतेर्यद् यथा यथा कस्यचिद् वस्तुनो लोकेषु प्रचुर: प्रचार:, बहुकालिक: संसर्गश्च भवति तथा तथा सामाजिककर्णधाराणां बुद्धिसम्पर्कात्सुनिगूढमेकं परिवर्तनं सुव्यवस्थासौष्ठवादिसञ्चाराय निसर्गादनुधावति। अत एव शनै: शनैस्तद् वस्तु परिवृत्तं विशदीकृतं च रूपमुपलभते। अयमेव किल विकासवादसंवादी पक्ष:। ततश्च शब्दाह्वय ज्योति: सर्वत: प्रवर्तयतां महर्षीणामहर्निशं मेधासहचरी सेयं सुरभाषा कुतो वा न संस्कारमनुसरेत्? यथा यथा हि सेयमृषीणाम्, महापुरुषाणां च प्रचारावष्टम्भं सपेदे तथा तथैव तेषामभ्यर्हणीया सती उत्तरोत्तर सौष्ठवमनुजगाम। नायं संस्कार: पाणिन्यादीनां समयादेव सम्प्रवृत्त: शक्यते वक्तुम्। सन्ति तत: पूर्वे-'इन्द्रश्चन्द्र: काशकृत्स्नापिशली शाकटायन:’, इत्यादयो बहव: शब्दशास्त्रपरिष्कारका: प्राञ्च आचार्या:। तथा च निसर्गत: प्रवृत्त: सोऽयं भाषासंस्कारप्रवाह: पाणिन्यादिसमये तत्समयजातानां परिष्कारकाणां तेषाम् (पाणिन्यादीनाम्) शक्त्या प्रचारितं मार्गमात्रमुपलेभे इत्येतावन्मात्रम्। एतत्कृते च कात्यायनेन भगवता पतञ्जिलिना चान्यैश्च संस्काराचार्यैर्बहु प्रयतितं तत: किल प्राचीनसंस्कारकाणां प्रातिद्वन्द्व्ये साफल्यमुपलब्धमिति जानीयु: पाणिनीयव्याकरणं मर्मतो विमृशन्तो गवेषका:। ततश्च प्राकृतिक: सोऽयं भाषासु संस्कारो नियमनिर्माणप्रवृत्तिश्च।
दृश्यताम्, नवीनानां मतानुसारं प्रकृतिनियमात्प्रवहन्ती प्राकृतभाषा लोकेषु प्रचुरं प्रसारमवाप्याऽपि कथं तादृशं संस्कारमधिजगाम यत्कारणाच्छनै: शनै: सापि साहित्यमात्रप्रचरिता केवलं पुस्तकस्था जाता। षष्टिसप्ततिवर्षेभ्यो नवीनं प्रसारक्रममधिगता वर्तमाना हिन्दीभाषैव निरीक्ष्यतां यदेतावच्चुलुकायिते काल एव जनानां प्रवाहे पतिता शनै: शनैस्तथा संस्काराभिमुखं प्रवर्तते यथा शनै: शनैर्लोकानां व्यवहारक्षेत्रादस्या वर्तमानं स्वरूपमपसरति। तत्स्थानं चान्या काचिद् भाषा गृह्णाति यस्या नाम 'हिन्दोस्थानी’ स्यादन्यद्वा। वदत, कस्यात्र दोष:? तस्माज्जानीत सम्यग्, यथा स्वाभाविक एवायं नियमो यत्कालक्रमाद्भाषायां संस्कारस्य सुव्यवस्थायाश्च स्वत एव प्रवृत्तिर्जागर्तीति।
अस्तु यत्किञ्चित्। किन्तु 'इयम् (संस्कृता) भाषा नासीत्कदाचिदपि लोकेषु व्यवहारत: प्रवृत्ता’ इति हि शिक्षागौरववाहिन: केचिन्महाभागा: सङ्गिरन्ते। भारतवर्षीयाणां नवीनशिक्षितमहाभागानां ज्ञानधननीवी पश्चिमत: प्रवृत्तेति कार्यतोऽनुमातव्यम्। यतस्त इमे आङ्गलभाषया व्युत्पन्ना:। तस्यामेव भाषायां ज्ञानं विज्ञानमखिलमप्यन्विष्यन्ति। न चेदमस्वाभाविकं नूनम्। यो हि यत्र व्युत्पद्यते, यत्र रमते, यत्र चास्य प्रवृत्तिशक्तिस्तत्रैव चास्य लीलाखेलापि। भाषायाश्चास्या: परमाचार्या: पाश्चात्त्या विद्वांस:। अत एव साम्प्रतिकानां भारतीयनवशिक्षादीक्षितानां विचारशैली तेषामेव पदाङ्कानुसारं प्रचरतीति तेऽपि न नाम मन्ये निषिध्येयु:। तेषाम् (पाश्चात्त्यानाम्) दृष्टिकोणो यद् यद् दर्शयति, पश्यन्ति तत्तदिमे। नैषां दृष्टिरात्मवशा, न च स्वातन्त्र्येण विचारे समर्था। इदमेव विजेतृजातेर्जगति विजृम्भणं नाम। एद्विषये सन्ति प्रमाणानि-
यदा ते (पाश्चात्त्या:) कथयन्ति भारतीयानि काव्यान्यश्लीलानि शृङ्गारबहुलानि, स्त्रैणानुरागोन्मुखानि, एतेऽपि तथेति स्वीकुर्वन्ति। यथा च पश्चिमतो ध्वनिरुत्तिष्ठति-कामशास्त्रं स्वाभाविकम्, मनुष्यस्य परमं ज्ञातव्यम्। तदा 'स्त्रीषु प्रवृत्तिरेव निन्दनीया, शृङ्गारोऽश्लील:’ इत्यादि सर्वं विस्मृत्य तथैव प्रतिध्वनिं कुर्वन्ति। स्मरेयुर्हिन्दीसाहित्यप्रणयिन: सरस्वत्यादिपत्रेषु सेण्टनिहालसिंहप्रभृतीनामन्येषां च कर्णधाराणां कामशास्त्रविषयकान् निबन्धान् ये हि परमादरेण संगृह्यन्ते स्म। यत्कामसूत्रं ''नितान्तं गोपनीयम्, मित्राणां कृते’’ इति मुखभागे विलिख्य स्वर्गीयमहामहोपाध्याय-श्रीदुर्गाप्रसादमहाभागैरतियत्नेन (डा. पीटर्सनमहोदयस्य साहाय्येन) मुद्रापितम्, तस्याऽधुना प्रकाश्यानि संस्करणान्येव किम्, हिन्दीभाषायामनुवादोऽपि सम्भवति। किमेतत्? अद्य तु वात्स्यायनस्य कामसूत्रं गौरवाऽऽस्थापकं परिगण्यते। आङ्ग्लभाषामाध्यमेन तस्य यशोगाथा विश्वस्मिन् विश्रुता।
अस्माकमाङ्ग्लशिक्षिता भ्रातर: स्कूलकालेजेषु आरम्भादद्यावधि पञ्चतन्त्र-कथा एव प्रथमत: पठित्वा संस्कृते प्रवेशं लेभिरे लभन्ते च। अत एव पञ्चतन्त्रेण सह न तेषामपरिचय: साधयितुं शक्य:। किन्तु न कदाचित्तेषां मुखात्पञ्चतन्त्रस्य प्रशंसा, विशिष्य चर्चा वा श्रुता। तस्यैव वराकस्य का कथा? संस्कृतसाहित्ये वेदा:, उपनिषद:, दर्शनानि, बहूनि बहूनि सन्ति रत्नानि, किन्तु न कस्यचित्स्वातन्त्र्येण प्रशंसनमाकर्णितम्। यदि पाश्चात्यैर्वेदा अन्विष्टा: उपनिषद: परिशीलिता:, दर्शनविषये आत्मनो विचारा: प्रकटितास्तर्हीमेऽपि तानाद्रियन्ते। एवमेव यदा तै: (पाश्चात्त्यै:) पञ्चतन्त्रोपरि दृष्टिर्निक्षिप्ता, जर्मनदेशीयो विद्वान् केवलं पञ्चतन्त्रमेवादाय भारते सर्वतो भ्रमन्नन्विष्यति, स्थानस्थानीयेषु कालेजेषु पञ्चतन्त्रविषयकं महत्त्वं ख्यापयति, तदाऽस्माकं वर्तमानशिक्षितमहाभागा अपि तस्य प्रशंसां कुर्वन्ति। एतत्कृते भारते स्थाने स्थानेऽभवन् शिक्षितानां व्याख्यान-सभा:। जयपुरेऽप्यस्मिन् जर्मनविदुषा कॉलेजे प्रचारितं पञ्चतन्त्रविषयकमात्मनो गवेषणम्। नवशिक्षिता अपि शतमुखैरुद्घोषयन् पञ्चतन्त्रस्य महत्त्वम्। लखनऊत: प्रचरिते 'सुधा’-नाम्रि मासिकपत्रे प्राकाश्यन्त भाईपरमानन्दादीनां पञ्चतन्त्रप्रशंसननिबन्धा:। कथयत, किमिदम्?
पश्चिमदिग्देशादिदं विचारस्रोत: समुद्भूतं यत् ''सैषा (गैर्वाणी) वाणी नासीद् व्यवहारपरिगृहीता’’। तत्कालमेव नवशिक्षाव्युत्पन्नैरपि तथेति तदिदमभिमतम्। अस्तु, भवतु वा यत: कुतोऽप्ययं विचारोद्गम:, किन्त्वालोचनमस्य कर्तुं प्रयतामहे। नवशिक्षितसमाजे सफलता त्वस्मिन्विषये न कथञ्चिदाशिष्या, यतोऽत्र वराकाणां तेषामस्वतन्त्रत्वात्, पाश्चात्त्यमुखनि:सृतवाक्सुधाप्रतीक्षित्वात्।
वेदेभ्य: पुरातनं न किञ्चिद्वाङ्मयमद्यापि भूतलेनोपलब्धमिति गवेषकमूर्धन्यानां सम्मति:। वेदाश्च यस्यां भाषायामुद्भूता: सैव समयोपयोगिना संस्कारेण संस्कृता वर्तमानसंस्कृतभाषा सञ्जाता। ततश्च वेदा यदा आर्याणां साहित्यभाषासूचका: प्रत्यक्षमुपलब्धास्तदा व्यावहारिक्यपि भाषा तेषां (आर्याणाम्) किञ्चिदपरिष्कृता सैव (यस्यां वेदानां जन्म, सा गैर्वाणी) समुपगन्तव्या। न हि विजातीयभाषाभाषिणां ततो विजातीयं साहित्यं भवितुं युक्तिसङ्गतम्। यदि तु ततोऽन्या काचिद् भाषासीदिति साधयितुं प्रयत्यते तर्हि तद्भाषाया: सत्तासूचकं किञ्चित्प्रमाणमप्यावश्यकम्। विना प्रमाणं हि नाधुना किञ्चित्साधयितुं शक्यं, न सम्मान्यं नवीनैर्तूनम्। ततश्च निराधारा कस्यचिद् भाषान्तरस्य सत्ता कथं नाम सिध्येत्?
संस्कृतभाषाया: प्राचीनं साहित्यं भूण्डले प्रचलितानां सर्वासामपि भाषाणां साहित्यापेक्षया सुमहद् विस्तृतं सर्वाङ्गपूर्णं च। अस्या: साहित्ये-धर्म-दर्शन-ज्यौतिष-आयुर्वेदादीनामनन्तो ग्रान्थराशिरासीदिति तु जानन्त्येव सर्वेऽपि, किन्तु कला-शिल्प-ज्ञानादीनामपि बहवोऽद्भुता ग्रन्थास्तेषु प्रान्तेषु प्राप्यन्ते यत्र वैदेशिकानामुपप्लवा भूयसा नाभवन्। शिल्पशास्त्रस्यैक: संस्कृतभाषानिबद्धो ग्रन्थो मद्रास प्रान्तादन्विष्य मुद्रितोऽत्रत्य 'कलाविद्यालयस्य’ (स्कूल ऑफ आर्ट्स एण्ड क्राफट्स) अध्यक्षस्य श्रीअसितकुमारहाल-
दारस्य समीपे प्रसङ्गवशान्मया प्रत्यक्षमवलोकितोऽभूत्। अद्यापि प्राचीनसहित्यान्वेषणाधिकृतै-र्बहवोऽप्यलभ्या ग्रन्था अन्विष्यन्ते लभ्यन्ते च। नेपालादधुनैव आयुर्वेदविषयिणी कश्यपसंहिता प्राप्ता मुद्रिता च। व्याकरणादिविषये तु भूयानेव विस्तारोऽभूदत्र। भारद्वाजविरचितं वैमानिकशास्त्रमधिगतं मुद्रितं च दिल्लीस्थेनाऽर्यसमाजेन।
प्राचीनसाहित्यान्वेषणाऽधिकृतेन महामहोपाध्याय-श्रीहरप्रसादशास्त्रिमहाभागेन अखिलभारतीयसंस्कृतसाहित्यसम्मेलनस्य सभापतिपदाद् या वक्तृता प्रादीयत तस्यां प्रोक्तमासीद् यत् शताधिकानि तु भिन्नभिन्नानि व्याकरणान्येवाधिगतानि, येषां मध्यात् पाणिनीयाद्यानां कतिपयानामेव लोके साम्प्रतं प्रचार:।
काव्यनाटकादिग्रन्थास्त्वद्याऽवध्यपि प्रतिवर्षे नवीननवीना अन्विष्य प्रकाश्यन्ते। आर्याणां बहवो ग्रन्था भारताद् बहिर्नीता:, बहवश्च देशे एवाऽस्मिन् धर्मद्रोहभावनया क्षयमुपनीता:। बहवश्च भयभीतैर्ग्रन्थस्वामिभि: स्वकीयबुद्ध्या गोपिता एव वर्षा-वह्न्याद्युपद्रवै: स्वतो नष्टा:। हिन्दुधर्मद्वेषिणामवरङ्गजेबादीनां समये भूयांसो ग्रन्था: प्रज्वालनेनैव वह्निसादक्रियन्त, इत्यैतिहासिका जल्पन्ति। कतिपयमासपर्यन्तं पुरातनग्रन्थप्रज्वालनेनैव वह्निसाध्यानि कार्याणि केषाञ्चिद् वैदेशिकराजानां समये समभवन्निति सर्वत: प्रसिद्धम्। एवमादिरूपेण न स्वल्पकालार्थम्, अपि तु शतसहस्रवर्षपर्यन्तं सर्वतो ग्रन्थकर्मनाशानद्यां प्रबलं प्रवाहितायामपि यस्या: साहित्यमद्यापि सर्वापेक्षया विस्तृतमाख्यायते, तस्य मध्योन्नतिसमये कियान् वा विस्तारोऽस्य स्यादिति निष्पक्षपातै: सुधीभि: स्वयमेवाऽऽलोच्यम्। विचारीणयमिदानीम्, या भाषा भाषाव्यवहारे अव्यवहृता स्यात् अपि भवेत्तस्या भाषाया: साहित्यमेतावद्विस्तृतम्? व्यवहारगतां काञ्चिदावश्यकतामनुभूयैव हि साहित्ये ग्रन्थस्य कस्यचिदवतारो भवति। या भाषा व्यवहारेऽनुपात्तैवाऽभूत्तस्या अपि साहित्यमेतावत्सर्वाङ्गपूर्णं सम्भवेदित्यपि किं बुद्धौ समाविशेत्?
आवश्यकता हि प्रसविनी (त्री) पदार्थानाम्। यस्मिन् समये यस्य वस्तुन: समाजेऽपेक्षा, तदेव लोके आविष्कृतं भवेत्। अनपेक्षितस्य वस्तुन: सङ्ग्रहस्य का कथा, स्मरणमपि कदाचित्तस्य न भवति। ततश्च विभिन्नवर्गे विभक्तस्य जनसमाजस्य यद् यदावश्यकं, स्वीयलोके च धनुर्वेद-अर्थशास्त्र-शिल्प-कला-वैद्यक-ज्यौतिष-कामशास्त्र-सूदशास्त्र-प्रभृतयस्तस्मिन् समये विभिन्न-विभिन्नसमाजस्याऽपेक्षिता: सर्वविषयका एव निरमीयन्त ग्रन्था:। किं बहूना, पक्षिणां मिथ: सम्भाषाप्रभृतयोऽपि विषया नात्र परित्यक्ता:। एवं किल प्राचीनभारतस्य सर्वेष्वेव वर्गेषु संस्कृतभाषाया: सम्बन्धमवेक्ष्याऽपि कथमियमव्यवहार्या ज्ञायतां नाम? सर्ववर्गेषु प्रचारमपेक्ष्यैव प्राचीनै: पुरुषैरुच्यते स्म-
''एतद्देशप्रसूतस्य सकाशादग्रजन्मन:।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवा:।।’’
तर्काभाससम्पर्का: केचिदेवमपि प्रजल्पन्त: श्रूयन्ते 'यत्संस्कृतभाषा कदापि व्यावहारिकी नाऽभूत्। तत्रभवत: पाणिनेरुत्तरकालमेव एतस्या भाषाया: संस्कृतमिति व्यपदेशोऽधिगम्यते, नेत: पूर्वम्। तथा च व्याकरणकृतसंस्कारकालादारभ्य सेयं भाषा, स्वयं साहित्यसिंहासनमधिरोहन्ती व्यवहारक्षेत्रं प्राकृताऽपभ्रंशभाषादिभ्य: समर्पितवती, कथङ्कारं वा सेयं व्यावहारिकी शक्येत साधयितुम्?’
बाह्यप्रमाणानि-
सम्यगिदमुपन्यस्तं श्रीमद्भि:, किन्तु यस्यां भाषायां तत्रभवत्पाणिन्यादिभि: संस्कारमापाद्य संस्कृतमिति व्यपदेश: प्रवर्तित: सा भाषा संस्कृतात्पृथक् कर्तुं किं शक्येत श्रीमद्भि:? व्याकरणेन हि आदिकालमारभ्याऽद्यावधि वर्तमानायास्तस्या: परिष्कार एव कृतो नाऽऽविष्कार:। अन्यथा चेद् वैयाकरणा अमी भाषाया: सृष्टिकर्तार: प्रोच्यन्तां, न संस्कर्तार:। तथा च वेदाविर्भावादारभ्य अद्यपर्यन्तं वर्तमाना सेयं गैर्वाणी एकैव भाषा सिध्यति, न विभिन्ना भाषा। संस्कारसम्पत्त्या न किल वस्तुन: पूर्वसत्ता विनिवर्तते। यज्ञदत्तस्य पुत्र: शिक्षादिसंस्कारे सम्पन्ने न किल न भवति, नाऽन्यो वा भवति। अपि तु स एव शिक्षित: 'संस्कारवानिति’ लभते व्यपदेशम्। 'द्विज:’, 'पुनर्जन्मे’ति व्यवहारास्तु संस्काराणां सामर्थ्यविशेषव्यापका आहार्या एव। यथा व्याध्यादिकसङ्कटविशेषान्निर्मुक्त: 'पुनर्जन्म अद्याऽस्याभवदिति’ भाषणभाजनं भवति।
अस्तु, तथ्यमिदं नाऽभ्यधिकं समर्थनमर्हेत्। वर्तमाना राष्ट्रभाषा हिन्दी त्रयोदश-तम (ख्रि.) शताब्दीतोऽपभ्रंशभाषातो विभिद्य पृथग्रूपं विकासं लेभे। आरम्भिकमस्या: स्वरूपं तथाविधमस्ति यस्य हि वर्तमानकालिकेन रूपेण न लेशतोऽपि सम्भेद: संस्रवश्च। तथापि त्रयोदशशताब्दीत आरभ्य वर्तमानकालिक 'हिन्दोस्थानी’ पर्यन्ता सा एकैव (गीर्वाण) भाषास्तीति स्वीकारे कथङ्कारं वा भवेद्विप्रतिपत्ति:? 'सहस्रशीर्षा पुरुष:’, इति स्वरूपे वर्तमानसंस्कृतस्वरूपे च मौलिकधातुजन्य: को वा भेद इति किमनाग्रहिल: कश्चित्साधयितुं प्रभवेत्?
आङ्ग्लभाषा ह्याङ्गलानां राज्यकालाद् भारतेऽस्मिन् प्रवृत्ता। विस्तारस्त्वस्या एष्वेव परिगणितेषु वर्षेषु देशेऽस्मिन् सञ्जात इति सर्वविदितम्। इत: पूर्वं तत्तत्प्रान्तेषु स्व-स्व-प्रान्तीया भाषा: प्रचलिता आसन्। सार्वदैशिकं तु कार्यं संस्कृतभाषयैव समासिध्यत्। मध्यभारताद् रामेश्वरयात्रां गतो मनुष्यो मद्रासप्रान्तीयैर्जनै: स्वप्रान्तीयया भाषया न व्यवहर्तुमशकत्। संस्कृतभाषया तु तत्रापि व्यवहारसौकर्यं प्रत्यक्षमुपालभ्यत। वङ्गादिप्रान्तेष्वप्येवम्। अत एव अस्मद्भ्रातरो बहव: ('संस्कृतम्’, 'मधुरवाणी’-प्रभृति-सम्पादका:) कथयन्त्यपि यत् 'संस्कृतैव राष्ट्रभाषा, प्रत्यक्षं सर्वेष्वेव प्रान्तेषु एकरूपं प्रचलितत्वात्’। ततश्च अनायासं बोद्धुं शक्यते- 'यदीयं भाषा भारतीयानामव्यवहार्याऽभविष्यत्तर्हि कथं देशस्य एककोणमारभ्याऽपरपर्यन्तं सर्वत्र सुबोधा व्याप्ता च अभविष्यत्? देशे सर्वत्र आत्मीयभावानां प्रकाशनाय सेयं यदा परिगृहीता तत: कथमियं जनानामव्यवहार्या नूनम्?’
भाषावैज्ञानिकैस्तु युरोपपारस्यादिभाषाशब्दानामपि मूलं गैर्वाणभाषाया मौलिकशब्दा एवाऽऽख्यायन्त, किन्तु भारतीयभाषाशब्दानां सेयं संस्कृतभाषैवोपादानमिति तु सर्वेणापि शिक्षितसमाजेनाभ्युपेतम्। संस्कृतभाषैव स्वाभाविक-विपरिवर्तननियमानुसारं शनै: शनै: प्राकृतादिभाषास्वरूपमधिगत्य अन्ते तत्तत्प्रान्तीयभाषारूपे परिणता। एकस्या भाषाया अन्यभाषारूपे परिणमनं हि शनै: शनैर्व्यवहारप्रवाहेणैव कालक्रमाज्जायते। न हि कस्यचिदाज्ञावाक्येन आविष्कारेण वा अन्या भाषा अन्यभाषारूपे परिणमति। ततश्च न किमिदं बोद्धुं शक्येत यत्संस्कृता (गैर्वाणी) भाषा पूर्वं सर्वत: प्राचलत्, तत: कालक्रमानुसारं शनै: शनै: भिन्न-भिन्नदेशीयलोकानां भिन्न-भिन्नकण्ठताल्वादि-उच्चारणसाधनवशात् सा प्रान्तीयभाषा रूपमवापत्। इदानीं भाषाविपरिवर्तनं नियमं परिज्ञायाऽपि किं साधयितुं शक्येत यत् संस्कृता भाषा सेयं देशे अव्यवहार्याऽभवत्, इति?
सर्वेष्वपि भारतस्य प्रान्तेषु, किं राज्ञां किं प्रजानां, सर्वाण्यपि व्यवहारकार्याणि संस्कृतभाषायामेव अभवन्निति मर्मतो विचारे विचारशीलैर्बोद्धुं पार्येत। अतिप्राचीनानि राज्ञां शासनानि सर्वलोकेषु प्रचारार्थं शिलासु ताम्रपत्रेषु च लिखितानि गवेषणाविभागेन बहुशोऽन्विष्य प्रकटीकृतानि, क्रियन्ते च, यैरितिहासस्य भूयानंश: प्रमाणीक्रियते। एतेषामुद्देश्यं सर्वत: प्रसारो नाम। यदीयं भाषा अव्यवहार्याऽभविष्यत्तर्हि इयता परिश्रमेण राजानस्तामिमां पाषाणादिषु उत्करीतुं प्रायतिष्यन्त किम्? न हि लोकेष्वप्रचलितां भाषां सर्वलोकेषु प्रचारकामुक: कोऽपि परमपरिश्रमेण समुपादद्यात्। गच्छतु प्राचीनकथा। राज्ञां पारस्परिकव्यवहार: संस्कृतभाषयैव मोगलशासनकालपर्यन्तमपि प्राचलम्। आम्बेराधिपतिमहाराजाधिराजश्रीजयसिंहादिभि: सह छत्रपतिशिवाजीप्रभृतीनां संस्कृतभाषयैव मिथ: पत्रव्यवहार: प्राप्यते। सन्त्येवंविधानि पत्राणि जयपुरराज्यस्य 'दीवानी हजूरी’ विभागे (यानि जयपुरस्येतिहासप्रसङ्गेन कदाचित्प्रकाशितानि अपि)।
किं वाऽधिकेन, गच्छति काले प्रान्तीयभाषासु राजशासनलेख: संस्कृतभाषायामेवाऽभवत्-'स्वहस्तोऽयं मम जयसिंहदेवस्य’ इत्यादि। प्रजास्वपि परस्परदम् ऋणादानादिव्यवहारपत्रेषु ''लिखतंश, लिखतम्’’ इत्यादिनैवाऽऽरभ्यते। सर्वकार्यसिद्धौ ''लिखतं पढतं तक हो गई’’ इत्याख्यायते। जयपुरराजकीयव्यवहारपत्रेषु तु अद्यापि प्रारम्भे लिख्यते- 'दीवानवचनात्’ इत्यादि। संस्कृतभाषाप्रवृत्ति: प्रजास्वेतावत् प्राचरत् यदिदानींपर्यन्तमपि 'लिथो’ मुद्रालयमुद्रितेषु सर्वसाधारणपुस्तकेषु- 'अथ हीरा राँझा को ख्याल लिख्यते’, 'अथ राजा रिसालू को ख्याल लिख्यते’ इत्यादि निर्विशङ्कं प्राचलत्। यदि व्यवहार्येषु संस्कृतभाषाया: प्रचारो नाऽभविष्यत्तर्हि ध्वंसाऽवशेषा: कथमिमे यतस्तत: प्राप्येरन्?
वापीकूपतडागादिसार्वजनिककार्याणां या: शिलालिपयोऽधिगम्यन्ते तास्वपि सेयं भाषा प्राप्यते। पर:सहस्र (लक्ष) मुद्रा व्ययीकृत्य पुण्येन साकमात्मन: कीर्तिमपि विश्वस्मिन् प्रख्यापयितुमिच्छु: पुरुषस्तानेवोपायान् करोति, तयैव च भाषया लेखयति, यस्या: सर्वलोकेषु परिचयो भवेत्। यदीयं संस्कृतभाषा अव्यवहार्या, लोकेष्वप्रचलिता वाऽभविष्यत्तर्हि किं कीर्तिलोलुपा: प्राञ्चो धनिका: प्रमत्ता आसन् यत् इमामव्यवहार्यां भाषां प्रयत्नपूर्वकं शिलास्वलेखयन्? क्षणमवधानपूर्वकं विचार्यताम्, आर्याणां विवाहादिषु मङ्गलकार्येषु, मरणादिषु अशुभकार्येषु च सर्वेष्वधुनाऽपि संस्कारपरम्परा संस्कृतभाषयैव सम्पाद्यते। संस्कृतमयकर्मकाण्डपद्धतेरद्याऽपि सम्बन्धो न विच्चिछन्न:। एवं स्थितौ अपि, तत्रापि प्राचीने एव काले, महाभागैस्तदिदं निर्धारयितुमिष्यते यत् संस्कृतभाषा अव्यवहार्याऽभवदिति?
आर्यजाते: स्त्रीणामपि ये आचारा:, धार्मिकव्रतानि, त्यौहार’ इतिख्याता उत्सवा:, विवाहादीनां गीतानि, एवमादिषु सर्वेष्वेव संस्कृतभाषाया: सम्बन्धो निष्प्रतिबन्धमनुवृत्तोऽनुमीयते। नगरवासिनां व्यवहारा: शिक्षादिभि:, बहिर्देशवासिनां सम्पर्कादिभिश्च सामयिका:, परिवृत्ताश्चापि विलोक्यन्ते। किन्तु ग्राम्यजनेषु, स्त्रीप्रभृतिषु च ये व्यवहारा: प्राप्येरन् ते हि पूर्वप्रवाहानुगता:, स्वभावप्रचलिता एव भवन्ति। अन्वेषकजना ग्राम्येषु, स्त्रीणां व्यवहारभाषादिषु एव प्राचीनां रीतिनीतिमन्वेषयन्तीति जगति जानन्ति सर्वेऽपि। ततश्चारम्भादद्याऽवधि व्यवहारप्रवाहं प्रत्यक्षमुपलभ्याऽपि किं सेयमार्यभाषा अव्यवहार्या, कस्मिन्नपि काले अप्रचलिता च वराकी संसिध्येत्?
साहित्यविषये आलोचनाक्षेत्रमिदं न कस्यचिद् विवेकिनो व्याकोपाय भेवेदिति विदन्ति सर्वेऽपि। ततश्च सक्षमाप्रार्थनमिदमावेदनमस्ति यत् 'सेयं संस्कृतभाषा न कदाचिद् व्यवहार्याऽभवदिति’ वैदेशिकमहाभागानां, तत्पदाङ्कानुगामिमहोदयानां च वक्तुं तदैवाऽवसरोऽभवद् यदा ह्ययं देशो नानाविधाभिर्वैदेशिकजातिभिराक्रान्त: परवशां स्थितिं प्रगत:, विच्छिन्नैकताशक्ति:, इतस्ततो विशृङ्खल एवाऽऽसीत्। स्वातन्त्र्यकाले तु भारताद् बहिरपि मानवमण्डलैर्मुकुटतटघटितशासनानां सार्वभौमभूपालानां समये शासन-धर्मादीनां विषये कदाचिन्नैसर्गिकसूक्ष्मभेदसत्तायामपि एकतासूत्रं निभृतं तथा प्राचरद् येन सर्वेऽप्यात्मानं मिथ: सङ्घटितं विदन्ति स्म। तस्मिन् हि समये प्रान्तीयमवान्तरभेदं स्पृशन्ती अपि एकतासूत्रं देशेऽस्मिन् निभृतं सङ्घटयन्ती सर्वत: प्रचचार सेयं गैर्वाणी वाणी। अस्यैव हि समयस्य संस्मरणमकारि परस्ताद् भाविभी राजशेखरादिभि:-
''नाऽतिस्पष्टो न चाऽस्पष्टो न रूक्षो नाऽतिकोमल:।
न मन्द्रो नाऽतितारश्च पाठो गौडेषु बाडव:।।
रस: कोऽप्यस्तु काप्यस्तु रीति: कोऽप्यस्तु वा गुण:।
सगर्वं सर्वकर्णाटाष्टङ्कारोत्तरपाठिन:।।
गद्ये पद्येऽथवा मिश्रे काव्ये काव्यमना अपि।
गेयगर्भे स्थित: पाठे सर्वोऽपि द्राविड: कवि:।।
सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठवम्।
अपभ्रंशवदंशानि ते संस्कृतवचांस्यपि।।
शारदाया: प्रसादेन काश्मीर: सुकविर्जन:।
कर्णे गुडूचीगण्डूषस्तेषां पाठक्रम: किमु।।
तत: पुरस्तात् कवयो ये भवन्त्युत्तरापथे।
ते महत्यपि संस्कारे सानुनासिकपाठिन:।।
मार्गानुगेन निनदेन निधिर्गुणानां सम्पूर्णवर्णरचनो यतिभिर्विभक्त:।
पाञ्चालमण्डलभुवां सुभग: कवीनां श्रोत्रे मधु क्षरति किञ्चन काव्यपाठ:।।’’
काव्यमीमांसा, अधि. १ अ.७
अद्येव न सर्वदाऽऽसीदस्माकं विशृङ्खला सामाजिकी शक्ति:। भारतीयानां राज्ञां शासनकाले सुशृङ्खलायै परित: प्रचरन्ती वर्णाश्रमव्यवस्था शिक्षादिविषयेषु सर्वतोऽपि सुव्यवस्थितं व्यापिनं चैव क्रमं प्रवर्तयामास येन शिक्षिता: सर्वेऽपि देशवासिन: स्वत एव एकतासूत्रे सङ्ग्रथिता इवाऽऽसन्। पूर्वप्रघट्टकानुसारं प्राचीन काले सर्वतोऽपि प्रचलिता सेयं संस्कृतैव भाषा शिक्षाया भाषाऽऽसीदिति विचारेण पर्यवस्यति। त्यज्यतामयं विशृङ्खलप्राय: सर्वथाऽशान्तिमयो वर्तमानसमय:। परं भगवत्पाणिनिसमयपर्यन्तं तु गैर्वाणभाषैव सेयं व्यावहारिक्यभूदिति सुदृढं प्रमाणितं भवति। अत एव तत्र भवता पाणिनिना जनेषु सर्वतो व्यवह्रियमाणा सेयं 'भाषा’ पदेन व्यपदिष्टा। न हि किल जनेषु अप्रचलिता काचिद्वाणी 'भाषा’ पदेन व्यवहारमर्हति। यथा 'प्रथमायाश्च द्विवचने भाषायाम्’, 'भाषायां सदवसश्रुव:’, इत्यादि। तस्मिन् समये प्रतिदिनव्यवहारतो दूरीभूताया वैदिकभाषाया: प्रातिद्वन्द्व्ये प्रतिदिनव्यवहृता सेयं गैर्वाण्येव सामान्यतो 'भाषा’ पदेन व्यपदेशनीयाऽभवत्। अस्मदादीनामेव किम्, पाश्चात्त्यविदुषामप्यन्वेषणाऽनुसारं भगवत: पाणिने: समय: ख्रिराष्ट्रजन्मत: कतिशतकपूर्ववर्ती। ततश्च वैदेशिकप्रचारिताऽशान्ति-विरहिते स्वातन्त्र्यमये तस्मिन् समये संस्कृतमेव भारतेऽस्मिन् शिक्षाभाषाऽऽसीदिति स्वीकार्यं भवेत्। अन्यथा कथमेवम् अविशेषितं प्रायोक्ष्यत तत्रभवान् पाणिनि: ''भाषा’’ इति? किञ्च यस्या भाषाया वैदिकभाषातो विलक्षणं संस्कारमापाद्य सेयं 'संस्कृता’ समपाद्यत, सापि तस्मिन् काले नेतोऽधिकं पृथग्भूताऽऽसीत्। अत एव एकेन व्याकरणेन द्वयोर्भाषयोर्बोधाय प्रायतत पाणिनि:। प्रावर्तयच्च बहून्येव संस्कृतविभागीयसूत्राणि वैदिकभाषायामपि निजव्याकरणे।
अयं समय: संस्कृतभाषाया: कृते कीदृगिति विचारशीलानां न मन्ये भवेत् परोक्षम्। उपरित संस्कृतभाषाया भक्ति: प्रचुरं प्रदपूर्यते सामयिकमहाभागै:, ''स्वतन्त्रे भारते भारतस्य भाषा संस्कृतं भवेत्’’ इति मुखत: समुद्घोष्यते चाऽपि। किन्तु कार्यरूपे किं परिणतं भवतीति क्षणं प्रत्यक्षमालोक्यताम्। राजशासनादिषु कार्यनियुक्तानां शिक्षितमहाभागानामाङ्ग्लभाषाऽनुरागो नाऽद्यापि समाप्यते। अथवा 'टाइपराइटर’ द्वारा शासनादीनां त्वरितं प्रचारसौकर्यं नाद्यापि ते परित्यक्तुं क्षमन्ते। अतएव राजकीयव्यवहारस्य प्रबलायामस्यां प्रवाहधारायां संस्कृतस्य का कथा, संस्कृतशब्दबहुला वराकी हिन्दी अपि स्थानं न लभते यथाऽभिलषितम्। तस्या: प्रातिनिध्ये 'हिन्दोस्थानी’ इति पूर्वं परिचिता 'हिन्दी’ नाम्रा काचित्सङ्करभाषा तै: स्थापयितुमिष्यते। एवं दुर्धर्षयुगेऽपि-प्रगत (इत: पूर्वतन) जनगणनायां ('सेन्सस रिपोर्ट’) मद्रासप्रान्ते यावत्स्मरामि तावत् सप्तपञ्चाशत्कुटुम्बानां मातृ (व्यवहार) भाषा साम्प्रतमपि संस्कृतं लेखनीयाऽभवत्। तत: केन वा मुखेन समर्थयितुं प्रगल्भ्यते यत् 'संस्कृतं कदाचिदपि व्यवहारभाषा नाऽऽसीत्’ इति:?
आम्, एतत्तु अवश्यं विवेकतो निश्चेतव्यमेव यत् यादृशी संस्कृतभाषा वर्तमानकाले श्रीमद्भि: पुस्तकेष्ववलोक्यते, तादृश्येव भाषा सर्वदाऽऽसीदिति तु न विचारशीलानामाग्रह:। यतो हि जानीयुरेव भाषावैज्ञानिका यद् व्यवहारप्रवाहतो जायमानानि शैलीवस्तुनामादीनां परिवर्तनानि निश्चितमनिवार्याणि भवन्ति नूनम्। किन्त्वेवं सत्यपि न तेन सा भाषा काचिदन्यैव सम्पद्यते। ततश्चैवं शैलीप्रवाहपरिवर्तनानि, पश्यद्भिरपि कैश्चित् किं साधयितुं शक्येत यद् गीर्वाणभाषा सेयं कदाचिदपि व्यवहरणीया नाऽभवदिति?
आभ्यन्तरप्रमाणानि -
वर्तमानयुगस्य सभ्यता पाश्चात्यविदुषां निर्देशानुसारं, तल्लिखितपुस्तकानुसारम्, तत्कृतगवेषणानुसारं च, शनै: शनै: पोषितास्तीति विज्ञानं सर्वेषाम्। अस्माभि: प्राचीनमहर्षीणां ग्रन्थाधारेण किं वा पुरातनव्यवहारानुसारं च यदि किञ्चित्साधयितुमिष्यते, तर्हि नवीनशिक्षितमहाभागा:, वर्तमानकालिका: शासका: नेतारश्च नेदं हृदयेन स्वीकर्तुमिच्छन्ति। कदाचित् पूज्यस्य विदुष: कस्यचित् सम्मानार्थं, तस्य ज्ञानवृद्धत्वानुरोधाद्वा, कदाचित्ते उपरित: स्वीकुर्यु: किन्तु हृदयं तेषां न तुष्यति। किन्तु कस्यचित् पश्चिमदेशीयपण्डितस्य यद्यन्वेषणं लभ्येत तस्य सम्मतिर्वा तत्र प्राप्येत, तर्हि हृदयतस्ते स्वीकुर्वन्ति यदेतन्मतं सम्यगिति। महर्षेर्यास्कस्य समय: ख्रिष्टीयसंवत्सरप्रवृत्ते: सप्तशतवर्षेभ्य: पूर्वम्, आङ्ग्लदेशीयैरन्वेषकैरेव निर्धारित:। तस्य (यास्कस्य) समये सेयं गीर्वाणभाषा (संस्कृतम्) व्यावहारिकी आसीदिति सिध्यति। वैदिक-संस्कृतभाषातो भिन्ना, साधारण जनताया या भाषाऽऽसीत्तस्या: कृते यास्केन स्थाने स्थाने 'भाषा’ इति व्यपदेश: कृतोऽस्ति।१ जनैर्भाष्यमाणैव वाक् 'भाषा’ पदेन व्यवह्रियते इति हि साधारणव्युत्पन्नोऽपि वेत्ति। यास्केन निरुक्ते 'कृदन्त’ शब्दानां निष्पत्तिस्तेभ्यो धातुभ्य: प्रदर्शिता, ये हि धातवो लोकव्यवहारे समागच्छन्ति स्म। तस्मिन् समये भिन्न-भिन्न प्रान्तेषु संस्कृतभाषाशब्दानां यानि रूपान्तराणि, विशिष्टा: प्रयोगा वा प्रचलिता आसन्, तेषामुल्लेख: स्थाने-स्थाने यास्केन कृत:। यथा- 'शवति’२ इति क्रियापदस्य प्रयोग: कम्बोजदेशे (वर्तमानकाले पञ्चाप-प्रदेशस्य पश्चिमोत्तर-प्रान्ते) गमनार्थे क्रियते स्म। परं एतस्माद्धातोर्निष्पन्न संज्ञा शब्द: 'शव’ इति मृतार्थे ('मुर्दा’) प्रयुज्यते स्म। प्राच्यदेशेषु 'दाति’ इति क्रियापदं छेदनार्थे (दा-लवने) साधारणतया सर्वप्रक्रियासु प्रयुज्यते स्म, किन्तु उत्तरदेशीया एतद्धातुनिष्पन्नं 'दात्र’ ('हंसिया’ 'दांतखी’) मिति कृदन्तमेव प्रयुञ्जते स्म, न धातुम्।
एतदनन्तरं पाणिने: समयेऽपि संस्कृतस्य तदिदं रूपं यथावत्प्राचलत्। तस्मिन् समयेऽपि सेयं वाणी 'भाषा’ नाम्रैव व्यवह्रियते स्म। प्रतिदिनव्यवहारे सेयं भाषा उपयुज्यते स्म, इति प्रत्यक्ष भवेद्वीक्षकाणाम्। यदि कश्चित् कञ्चिज्जनं दूरत: समाह्वयति तदा प्लुत: स्वरो भवतीति पाणिनिरनुशास्ति। यथा-गोप: कृष्णं शब्दायते यत्- ''आगच्छ कृष्ण ३। अत्र गौश्चरति’’ अर्थात् कृष्णस्य अकार: प्लुतो भविष्यति। एवमेव यदि कश्च्चिछात्रो गुरुम् अभिवादयते, गुरुश्च छात्राय आशिष: प्रयुङ्क्ते तत्रापि प्रत्यभिवादवाक्ये प्लुत: स्वरो भवतीति पाणिनेरनुशासनम्। यथा- ''भो गुरो! त्वामभिवादये’’ इति अभिवादवाक्यस्य प्रत्युत्तरे- ''आयुष्मान् एधि देवदत्त ३’’ अत्र अन्तिमोऽकार: प्लुतो भविष्यति। एषा प्लुतप्रक्रिया सुस्पष्टं सूत्रयति यत्तस्मिन् समये सैषा संस्कृतभाषा साधारणतया जनेषु प्रचलिताऽऽसीत्।
किञ्च पाणिनेर्व्याकरणे प्रतिदिनं व्यवहृताया भाषाया व्यवहारशैल्योऽपि संस्कृतभाषाया लोके व्यवहृतत्वं सूचयन्ति यथा- 'दण्डादण्डि’ (दण्डै: दण्डैश्च परस्परं प्रहृत्य इदं युद्धं प्रवृत्तम्) हिन्दी-भाषायां 'लाठालाठी’। 'केशाकेशि’ (केशेषु केशेषु गृहीत्वा इदं युद्धं जातमिति) 'हाथाहाथी’ 'हाथापाई’ इति हिन्दी। एवमेव प्रयुज्यते- 'उदरपूरं भुङ्क्ते’ इति। अत्र उदरं पूरयित्वा भुङ्क्ते इत्येतावता ''पेट भर खाता है’’ इति लोकभाषाव्यवहार: सुस्पष्टमभिव्यज्यते। व्याकरणे एवंविधानां प्रयोगाणां साधुत्वप्रदर्शनात्प्रतीयते यत्तस्मिन् समये लोकभाषायां न इमे प्रयुज्यन्ते स्म। यदि ग्रन्थ-लेखन एव संस्कृतभाषाया उपयोगोऽभविष्यत्तर्हि एवंविध-प्रयोगाणाम्, ये हि मिथ: सम्भाषण एव प्रयुज्यन्ते, व्याकरणे साधुत्वप्रदर्शनस्य नाऽऽसीदावश्यकता।
तत्रभवत: पाणिनेरनन्तरं वृत्तिकारस्य कात्यायनस्य समये (पाश्चात्यगवेषणानुसारं विक्रमात् चतु:शतवर्षेभ्य: पूर्वम्), तथा भाष्यकारस्य श्रीमत: पतञ्जले: समये (विक्रमात् त्रिशतवत्सरेभ्य: पूर्वम्) अपि जनतायां संस्कृतभाषाया व्यवहार: प्रवर्द्धमान एवाऽभवत्। नवीननवीना: शब्दा भाषायां प्राविशन्, नवीननवीना: शैल्य: (मुहाविरे) प्रयोगे प्राचलन्। अतएव तासां साधुत्वव्यवस्थार्थं श्रीमता कात्यायनेन वार्तिकानि निर्मितानि। यथा- तत्रभवता पाणिनिना 'हिमानी’ एवं 'अरण्यानी’ शब्दयो: प्रयोग: स्त्रीत्वकल्पनायां प्रदर्शित:, किन्तु कात्यायनेन तयोर्विशिष्टोऽर्थो व्यवस्थापित:। यतो हि वार्तिककारस्य समये 'महत्’ हिमं हिमानी, घोरम् (महत्) अरण्यम् अरण्यानी इति लोकभाषायां व्यवहार: प्राचलत्। वरुणानी, रुद्राणी इत्यादिवत् 'यवनानी’ इति शब्दस्य व्यवहार: पाणिने: समये कदाचित् यवनस्य स्त्रियां भवेत्, किन्तु कात्यायनस्य समये यवनानां लिपिर्यवनानीति जनताव्यवहारे प्राचलत्।
महाभाष्यकारेण संस्कृतभाषाया: प्रयोगो भारतस्य प्रान्ते प्रान्ते विभिन्नो विभिन्न: प्रदर्शित:। यथा गत्यर्थे सुराष्ट्रदेशे (वर्तमान-काठियावाडप्रान्ते) हम्मति: प्रयुज्यते, पूर्वप्रान्ते 'रंहति:’, आर्येषु तु 'गच्छति’ इति। शब्दप्रयोगे च शिष्टा: प्रमाणमित्याह कात्यायन:। शिष्टाश्च- ''एतस्मिन्नार्यावर्ते (निवासे) ये ब्राह्मणा: कुम्भीधान्या अलोलुपा अगृह्यमाणकारणा: किञ्चिदन्तरेण कस्याश्चिद्विद्याया: पारङ्गतास्तत्रभवन्त: शिष्टा:। शिष्टा: शब्देषु प्रमाणम्’’ ६/३/१०९ सूत्रोपरि भाष्यम्। भिन्न-भिन्न प्रान्ते भिन्न-भिन्न: प्रयोग: स्पष्टं प्रमाणयति यत्तस्मिन् समये समग्रेऽपि भारते सेयं संस्कृतभाषा जनताया व्यवहारभाषाऽऽसीदिति।
महाभाष्ये वैयाकरण-रथचालकयोरेको मनोरञ्जक: संवादोऽस्ति- 'प्राजिता’ (रथचालक:) इति शब्दस्यार्थविषये। यथा- एवं हि कश्चिद् वैयाकरण आह- 'कोऽस्य रथस्य प्रवेता’ इति। सूत आह- 'अहमायुष्मन्! अस्य रथस्य प्राजिता’ इति। वैयाकरण आह- 'अपशब्द इति’। सूत आह- 'प्राप्तिज्ञो देवानां प्रिय, न तु इष्टिज्ञ:। इष्यत एतद्रूपमिति।’ वैयाकरण आह- 'अहो खल्वेतेन दुरुतेन बाध्यामहे’। इति। सूत आह- 'न खलु वेञ: सूत:, सुवतेरेव सूत:। यदि सुवते: कुत्सा प्रयोक्तव्या दु:सूतेनेति वक्तव्यम्’। २/४/५६ सूत्रोपरि भाष्यम्। ततश्च-यां भाषा रथचालकोऽपि बू्रते सा व्यवहारस्य भाषा नेति कथनं किमु समञ्जसं भवेत्?
महाभारतस्य भाषायां ''शैल्य:’’ ('मुहाविरे’) प्रतिपदमुपलभ्यन्ते। शैल्यश्च मिथ: सम्भाष्यमाणायामेव भाषायां भवन्तीति भाषावैज्ञानिका आहु:। यथा भाष्ये- ''पृष्ठं कुरु, पादौ कुरु ’’, (अर्थात् नानाविधां सेवां कर्तुमादिशति)। ततश्च विक्रमात्परस्सहस्रवर्षेभ्य: पूर्वत आरभ्य, विक्रमनृपतेरभ्युदयकालपर्यन्तं संस्कृतभाषा सेयमार्याणां मिथो व्यवहारभाषाऽऽसीदिति दृढं निश्चिनुम:। भारतस्याऽनेके प्राचीना: पृथिवीप राजहर्म्यमालायां नियममास्थापयन् यत्तेषामन्त:पुरे संस्कृतभाषयैव व्यवहार: प्रचलेत्। राजशेखरेण काव्यमीमांसायां विक्रमस्य नाम सूचितमस्त्यस्मिन् विषये। 'उज्जयिनी-नरपाल: साहसाङ्क विरुदभृद् विक्रमादित्यो दृढमिदं न्ययमयद् यत्तस्यान्त:पुरे संस्कृतमेव व्यवह्रियेत’ (काव्यमीमांसा पृ. ४०)। 'भोजप्रबन्धम्’ इतिहासविषये न मान्यं मन्यन्ते, किन्तु धारानरेशस्य भोजस्य शासने कुविन्दस्य तस्या वार्ता न किल विस्मृतिमर्हति येन संस्कृतपद्ये प्रत्युक्तमासीत्-
काव्यं करोमि, न हि चारुतरं करोमि
यत्नात् करोमि यदि, चारुतरं करोमि।
भूपालमौलिमणि-मण्डित-पादपीठ!
हे साहसाङ्क! कवयामि, वयामि, यामि।।
वर्तमानयुगस्याऽपेक्षा च संस्कृतभाषा च
संस्कृतभाषा सेयं देशजातिनिर्विशेषं सर्वेषामेव लोकानां पुरा व्यवहारसाधनमभूत्। कस्मात्कालादियमाविर्भूतेति तथ्यतया यद्यपि न निर्धारयितुं शक्यम्, किन्तु ''भूमण्डले सर्वत: पुरातनं वाङ्मयं सेयम् ऋग्वेदसंहिताऽऽस्तीति’’ विजेतृत्वाभिमानिभिर्वैदेशिक: पाश्चात्त्यैरपि सर्वथा सर्वेषामग्रत प्रमाणीकृतम्। वेदाश्च- या संस्कृतभाषाऽस्माभिरद्यत्वेऽनुभूयते, तस्या एव प्रकृतिभूतायां देवभाषायां निरमीयन्तेति विवेकिभि: स्वीकर्तव्यं स्यात्। काममद्यत्वे व्याकरणाकृतैर्नानाविधसंस्कारै: सुनिबद्धं किञ्चिद्रूपमापन्ना संस्कृता, 'अपरा’ भ्रमात्कदाचिद् व्यपदिश्येत, किन्तु 'अग्रिमीळेपुरोहितं यज्ञस्य देवमृत्विजम्’, 'सहस्रशीर्षा पुरुष: सहस्राक्ष: सहस्रपात्’ इत्यादिभिरभिन्नै: शब्दैर्धातुभिश्च सुस्पष्टं परिचेतुं शक्यामिमां प्राचीनभाषां वर्तमानकाले व्यवहृताया एतस्या: संस्कृतभाषाया: सकाशात्को नाम पृथक् साधयितुं तत्त्वत: प्रभवेत्? ततश्च-अनादिकालात्प्रचलिता सेयमद्याऽवधि शासनादिकृतां नानाविधां विघ्नबाधामनुबभूवेति को वा ऐतिहासिको न जानीयात्?
जैनबौद्धादीनां धार्मिकसङ्घर्षे सेयम् प्राकृतभाषया सह द्वन्द्वमसहिष्ट। तत अपभ्रंशभाषया भूयस्तरामपसारिता सेयं 'प्राचीनहिन्दी’ रूपमवाप्य, नानाविधानां प्रान्तीयभाषाणां जन्मदात्री भूत्वा, स्वस्वरूपे उत्तरोत्तरं वैरल्यमनुबभूव। किन्तु मोगलसम्राज: 'शाहजहांनस्य’ समयपर्यन्तं सेयं संस्कृतभाषा साहित्यगौरवेण सह भारतेऽस्मिन् सर्वत: प्रचचारेति शक्यं वक्तुम्। यतो हि साहित्यनिर्मातृणामन्तिम: स्वतन्त्रग्रन्थनिर्माता पण्डितराजो जगन्नाथ: स्वीयैर्विमर्शग्रन्थै:, सर्वलोकमान्यै: काव्यैश्च, संस्कृतभाषाया: समादरमस्मिन्नपि समये सर्वत: समसाधयत्।
तत आङ्ग्लशासने प्रवृत्ते राजनीतिनिपुणै: पाश्चात्त्यै: केनचिदभिसन्धिना सेयं संस्कृतभाषा नाऽभूच्चूर्णिता। प्रत्युत गुणपरीक्षकै: कतिपयै: पाश्चात्त्यविद्वद्भि: संस्कृतस्य भूयस्सु अंशेषु सेवा वा समादरो वा विहित इति वक्तव्यं भवेत्। तत: पाश्चात्त्यानां भारताद् बहिष्करणसिंहनाद: प्रवर्तितो गान्धिमहात्मप्रभृतिभिर्महाभागै:। भगवदनुग्रहात् वैदेशिकराष्ट्राणां राजनैतिकविषमपरिस्थितिवशाच्च भारतस्य स्वतन्त्रता समघोष्यत सर्वत:। किन्तु संस्कृतभाषाया भाग्ये स्वाधीनताकृतं सौभाग्यं नाऽद्यापि प्रादुर्भूतमिति वक्तव्यं भवेत्। वर्तमानसमये भारतस्य प्रतिप्रान्तमेव संस्कृतभाषाया विषये अतिशयभक्तिकथा: श्रूयन्ते। 'सेयं राष्ट्रभाषा जायताम्’ इत्यपि कोणादुत्त्थितो मधुरनाद: कर्णयोरभ्युपैति। कांग्रेसीया: शासका अपि बहुसङ्खयकप्रजानां परितोषाय, भारतीयानां प्राचीनमहापुरुषाणां भूमौ वयं स्थिता इति अनुरोधेन, मतदातृभ्यो धार्मिकलोकेभ्य: पूर्वमेवंविधमाश्वासनमस्माभि: प्रदत्तमिति लज्जया वा, संस्कृतसम्बन्धे अनुकूलान् उपन्यासान् प्रकाशयन्ति। किन्तु शासकमञ्चात् संस्कृतोद्धारकथा कार्यरूपे न कथञ्चिदपि परिणतेति प्रत्यक्षमिद संस्कृतक्षेत्रे कार्यं कुर्वतां नूनम्।
संस्कृतस्य पठनपाठनयो: प्रचारप्रश्रे समुपस्थिते तु मर्मविदां बहूनामेव मुखात्सेयं कथा श्रूयते यत्- ''अवश्यं संस्कृतभाषा भारतस्य कृते उपयोगिनी, पारिभाषिक-शब्दनिर्माणादिकृते भारतीयै: शरणीकरणीया च, तथापि वर्तमानकाले सा लोकानां कृते क्लिष्टा। तस्यां व्याकरणस्य या मार्मिकता सा अवश्यं तस्या: स्वरूपोचिता, अन्यान्यव्याकरणेषु दुर्लभा। किन्तु भाषान्तरपरिशीलनात्सर्वत्र सरलतामन्वेषयतां कोमलमस्तिष्काणां वर्तमानकालिकलोकानां कृते वस्तुत एव सा कठिना सिध्यति। प्राचीनकाले व्याकरणस्य सूक्ष्मता: ('बारीकियां’) सौष्ठवार्थमवश्यं प्राचलन् भाषायाम्। किन्तु यदि वर्तमानकाले संस्कृतभाषाया: प्रचार: सर्वेषु लोकेषु प्रसारश्च काम्यते तर्हि कानिचित् सौकर्याणि प्रचारणीयानि स्यु:।’’
संस्कृतक्षेत्रे ये किल कार्यं कुर्वन्ति, संस्कृतभाषाया सह प्रणयं वहन्तो ये हि तस्या: साहित्यमनुशीलयन्ति अन्येषामग्रे प्रशंसन्ति च, वर्तमानशासने महान्तमधिकारमारूढा ये हि संस्कृतभाषाया: पक्षपोषका:, येषां हस्ते शिक्षासूत्रं परम्परयापि सम्बद्धम्, येषां सकाशात्संस्कृतसेवकास्तामिमां प्रत्याशां धारयन्ति 'यदेते अधिकारारूढान् सम्प्रेर्य संस्कृतस्य हितं जातु साधयिष्यन्ति’, ये च प्रान्ते प्रान्ते परिभ्रम्य शिक्षाकार्ये रुचिं वहन्त: संस्कृतभाषां मन्दमन्देनाऽपि स्वरेण श्लाघन्ते, एवंविधा: सर्वेऽपि महाभागा: सम्प्रति संस्कृतस्य कठिनतां सूचयन्ति। भारते तस्या: परित: प्रचारार्थं सारल्यस्य संयोगम्, व्याकरणनियमेषु काञ्चित्सुविधाम्, व्यावहारिकशब्दानां वृद्धिं चाऽऽप्यावश्यकीं मन्यन्ते।
सरदार के.एम. पणिक्करमहाभागो लखनऊनगरे 'संस्कृतपरिषद:’ समुद्घाटनावसरे महता सम्भारेण भाषितवान्- ''व्याकरणे या दृढता पुरा प्राचीनपण्डितै: प्रभूततया प्राचार्यत सा सम्प्रति शिथिलीकरणीया, चेत्संस्कृतप्रचार: काम्यते।’’
के.एम्. मुंशीमहाभाग: संस्कृतसेवकानां सुपरिचित एव येन हि सौराष्ट्रप्रान्ते 'सोमनाथमन्दिरे’ ''संस्कृतविश्वपरिषद:’’ स्थापनं विहितम्। स हि कतिवारान् सूचयामास यद् व्याकरणनियमेषु सौकर्यं किञ्चिद् विधेयम् इति।
अतीता: कथा: कामं परत: क्रियन्ताम् किन्तु १९५५ ई. वर्षे द्वाविंशतितमस्य अखिलभारतीयसंस्कृतसाहित्यसम्मेलनस्य सभापतिमञ्चात् चिन्तामणि द्वारकानाथदेशमुखमहाभागेन (भारतराजधान्यां देहल्याम्) प्रौढतमभाषया सङ्कलिते निजभाषणे सूचितं 'यत् पाण्डित्याडम्बरदर्शनार्थं समासबाहुल्यं सर्वथा परिहार्यम्’ (पैरा. १४)। रामायणमहाभारतादीनि सरलसंस्कृतसन्दृब्धानि। ततस्तानि विहाय किमिति दण्डिबाणभारविप्रभृतीनां क्लिष्टेषु काव्येषु एतावानाग्रह:? (पै. १७)। संस्कृतव्याकरणाभिमतेषु विविधेषु भूतभविष्यदादिकालेषु बहवो विनाऽऽयासमपहातुं शक्यन्ते। एवमेव बहवो विभक्तिप्रकारा अनावश्यका:। बहुत्र 'अपाणिनीयम्, अपाणिनीयम्’ इति सुप्रयुक्तेषु पाण्डित्यदर्पाऽवहेला प्रयुज्यते। एतत्सुतरामनुचितम्। (पैरा १६)।
श्रीमता इन्द्रविद्यावाचस्पतिमहाभागेन तु ''वर्तमानभारते संस्कृतभाषाया: स्थानम्’’ इति नामकं पुस्तकमेव पृथक् प्रकाशितम्। तत्र- ''संस्कृतभाषां न्यूनाधिकरूपेण सर्वे भारतीया जानीयुरित्यभीष्टं चेत् तदर्थमेते उपाया अनुष्ठेया:’’- इत्यारभ्य- 'संस्कृतज्ञैर्लेखने भाषणे च अत्यन्तसरला सुबोध्या च भाषा प्रयोक्तव्या। तदर्थं प्रचलिता: शब्दा एव प्रयोक्तव्या:। यथासम्भवं समस्तानां शब्दानां प्रयोगास्त्याज्या:। असमस्तेषु पदेषु यथासम्भवं सन्धिर्न विधेय:। यथा- 'महिला आगच्छति’, अत्र 'महिलाऽऽगच्छतीति’ सन्धिं कृत्वा दुर्बोधता न करणीया इत्यादि।
एतदेव किम् अखिलभारतीयविद्याकेन्द्रात् श्रीवाराणस्या: काशिकराजकीयसंस्कृतमहाविद्यालयस्य मुखपत्रिका 'सारस्वती सुषमा’ या हि राजकीयतन्त्रेण (गवर्नमेण्ट) प्रकाश्यते, तयाऽपि स्वविशिष्टाङ्के (आश्विन-पौषौ २००६ सं.) सेयमावश्यकता प्रबलरूपेण सूचिता। सर्वत: पूर्वं मुखभागे एव डॉ. भगवानदासमहाभागस्य लेखोऽस्ति। यस्य हि प्रारम्भ एव वाक्येनानेन भवति यत्- ''संस्कृतभाषाया: प्रचार: साधारणजनतायामभिलषितश्चेत् तस्या व्याकरणं सरलीकर्तव्यम्। अंक-अङ्कयो:, पंच-पञ्चयो:, दंड-दण्डयो:, मंद-मन्दयो:, कंप-कम्पयो:, उच्चारणे न कोऽपि भेद: श्रोत्रेण बुध्यते। अतएव अनुनासिकवर्णानां स्थाने पूर्ववर्णशिर: स्थित: बिन्दु: एव अलं लिप्याम्, इति अनुमोदनीयम्।
भूतत्रयबोधनाय लङ् एव अलम्। भविष्यद्-द्वयबोधनाय लृट् एव, तथा लिङेर्विधिलिङ् एव। कर्मवाच्यवाक्येषु तु आत्मनेपदप्रयोग: उचित एव। किन्तु परस्मैपदआत्मनेपदविवेक: (अर्थात् अनयोर्भेद आग्रह:) त्याज्य:। एवं लिङ्गभेदेऽपि नाग्रहणीयम्। तद्धितानां च शब्दबहुलसमासानां च प्रयोग: यथाशक्ति वर्जनीय:। लेखेषु सन्धयो विच्छेद्या:। अपाणिनीया: प्रयोगा: इतिहासपुराणादिषु आर्षग्रन्थेषु बहुश: प्राप्यन्ते। तेषामनुकरणमिदानीमपि नाऽऽक्षेप्यम्।’’
(लेखेऽस्मिन् ''रेखा लिख्या।’’, 'शब्दा: पृथक् लिख्या:’, ''ऋस्थाने 'र’ प्रयुज्यते तन्मर्षणीयम्।’’ इत्यादीन्यपि सन्ति। किन्तु व्याकरणतो नातिविरुद्धा या मन्त्रणा सारल्यार्थमभिसूचिता सा सद्भिर्विचारणीया नूनम्।)
वर्तमानकालेन प्रयोगप्रवाहस्य परिस्थितिरप्यन्यथा परिकल्पिता। मार्मिकैकवेद्ये निगूढस्थले आत्मनेपदयो:, नपुंसकपुंलिङ्गयोर्व्यत्यास: (उल्लङ्घनम्) प्रायो बहुत्राऽवलोक्यते। सौकर्यार्थं सन्धीनामकरणं बहुभिरेव प्रवर्तितम् (व्याकरणग्रन्थेष्वपि 'सा विवक्षामपेक्षते’ इत्यादिना सुविधाया मार्ग: प्रदर्शितोऽस्ति।) 'सङ्ख्यावाचकशब्दानां संज्ञायामेव समासो भवेत्। अन्यथा तु विग्रह: (असमस्तमेव पदं प्रयोज्यम्) स्यात्’। अयं नियमो बहो: कालात् शिथिलीभूत:। ''द्वित्रवर्षेभ्य: सोऽयं नियम: प्रचलित:।’’ ''पञ्चवर्षेभ्य: संस्कृतच्छात्रसङ्ख्या न्यूनीभूता’’, ''सप्तवर्षैराचार्यपरीक्षाऽध्ययन सम्भवति’’, ''परीक्षोत्तीर्णस्य मे व्यतिगतानि विंशति-वर्षाणि’’, इत्यादय: प्रयोगा: व्याकरणमर्मविदां पण्डितानामपि लेखनीतो निर्गच्छन्ति। 'अनद्यतने एव भूते लङ् प्रयोक्तव्य:, अद्यतने तु सामान्यभूत: 'लुङ्’, इत्यस्य संरक्षा मार्मिकाणामपि वैयाकरणानां प्रयोगप्रवाहे न दृष्टा। ''उभयपदिषु धातुषु कर्तृगामिनि फले आत्मनेपदम्, परगामिनि परस्मैदम्’’ अयं विचारो वैयाकरणपुङ्गवानामपि गोष्ठ्यां नाऽवेक्षित: सम्प्रति। काममत्र बुद्धिपूर्णं सूक्ष्मसमवेक्षणमप्यकारि। ये केचिदङ्गुलिगणनीया: पण्डितविशेषा:, तेषामपि ''अमुकस्य नैरुज्यार्थं त्र्यक्षरमृत्युञ्जयमन्त्रजपमहं करिष्यामि’’, ''मम निर्विघ्रनैरुज्यार्थं मृत्युञ्जयमन्त्रजपमहं करिष्ये’’ इति सङ्कल्पे एव आत्मनेपदपरस्मैपदयोर्भेदविभेदो विलोकित:।
पञ्चाम्बुप्रदेशीयै: शिक्षाकार्यकर्तृभि: सारल्यमुपलक्ष्य बहुभ्यो वर्षेभ्य: पूर्वत एव 'लट् लृट् लङ् लिङ्’ इति चत्वार एव लकारा: (वर्तमानभविष्यद्भूतकालार्थं प्रेरणासम्भावनाद्यर्थं च) स्वीकृता:, अन्ये गलहस्तिता:। शब्दयोर्मिथ: सन्धिरुल्लङ्घित:। सोऽयं प्रवाह: प्रवाहस्वाभाव्यात् अन्यान्यप्रदेशेष्वपि तडिद्वेगेन सम्प्रवृत्त:। बहुप्रदेशीयेषु पाठ्यपुस्तकेषु तदिदं प्रत्यक्षीक्रियताम्। इत: एवंविधसौकर्यविचारेण सह स्वतन्त्रजीवानामन्यान्यपि प्रारब्धानि स्वातन्त्र्याणि। ततश्च भारतस्य सर्वेष्वपि प्रान्तेषु संस्कृतभाषामिमां प्रचुरं प्रचरन्तीं विलोकयितुमिच्छतां संस्कृतसेविनां केषाञ्चित्सोऽयं विचार: प्रादुरभूद् यत् पण्डितसमाज एव यदि सर्वं पूर्वापरं संस्कृतस्याऽभ्युदयं विचार्य संस्कृतभाषाया संव्यवहारे सारल्योपायान् प्रचारयेत्तर्हि सम्यग् भवेत्। अनर्गलं स्वातन्त्र्ये सम्प्रवृत्ते तु सुस्पष्टमव्यवस्था प्रादुर्भवेत्।
दक्षिणप्रान्ते (मद्रासप्रदेशे) अन्यान्यप्रदेशापेक्षया संस्कृतभाषाया भूयान् प्रचार:, उच्चारणादिषु शुद्धता च समवेक्ष्यते। संस्कृतभाषासम्बन्धिषु बहुषु विषयेषु तत्प्रदेशीयविदुषां मुखमीक्षन्ते अन्यान्यप्रदेशीया विद्वांस:। उत्तरप्रदेशे सोऽयं विचार: साम्प्रतं प्रवृत्त:, किन्तु दक्षिणापथे सारल्यविचार: कतिपयवर्षेभ्य: पूर्वत एव पण्डितसमाजे प्रावर्तत। 'ब्रह्मविद्या’ नामके 'आद्यार लाइब्रेरी’ मुखपत्रे ''संस्कृतग्रन्थिविघटनम्’’ इति शीर्षको निबन्ध: कुन्हनराजा एम.ए. (D. Phil) महोदयस्य प्रकाशितोऽभूत्पुरा। महाभागोऽयम् राजस्थाननिवासिनामपि नाऽपरिचित:। कियत्कालात्पूर्वमेष महाभाग: अनेकानेकदुर्लभग्रन्थपूर्णस्य राजहर्म्यपुस्तकालयस्य सूच्यादिनिर्माणव्यवस्थार्थं जयपुरनगरे समागमत्। अस्तु। व्याकरणसम्बन्धी विषय: सुललितपद्येषु निबद्धोऽस्मिन्निबन्धे। किन्तु आद्यन्तयोर्वक्तव्यम् आङ्गलभाषाप्रोदीरितमिति तत् संस्कृतेनाऽनूद्य, संस्कृतपण्डितानां सारल्यविचारे सौकर्योपस्थापनार्थमध: समुद्ध्रियते-