''संस्कृतग्रन्थिविघटनम्’’
भारते भाषाया: प्रश्नोऽद्य पराकाष्ठां प्राप्त:। आङ्गलभाषायाऽद्ययावत् भारतस्य राजभाषाऽऽसीत्, सा विजेतृणां कारणादासीत्। भारते सा सर्वजनव्यवहारभाषा, संलापोपयोगिनी चाऽपि नासीत्। परं विजितत्वादस्माभि: सा राजकीयकार्येषु व्यवहार्याऽभवत् अद्य विजेतारो गता:। ततश्च काऽस्माकं स्यादिति प्रश्नो महत्त्वमापन्न: अद्य एतद्विषये भूयान् मतभेद:। तत्र च विभिन्नभाषाणांकृते लोकानां श्रद्धा, अस्मिन् मतभेदे च भावावेश एव मुख्यं कारणं न तु विवेक:। मया संस्कृतभाषाया: पक्षपात: सदैव कृत:। परं तां राष्ट्रभाषां निर्मातुमितरथा वा मया केवलं भावावेशकारणान्न पक्षपात: कृत:, अपि तु प्रायोगिकी सुविधा असुविधा च दृष्टिगोचरीकृता। संस्कृतमद्य भारते सार्वजनिकशिक्षायोज्या भाषा स्यादित्यत्र कतिपया आपत्तय: क्रियन्ते। '' संस्कृतमति-कठिना भाषा। संस्कृतं मृतभाषा। यदीयं सार्वजनिकशिक्षायामनिवार्या क्रियेत तर्हि सार्वजनिकी अवनतिर्भविष्यति। केवलमियं भूतकालस्य भाषाऽस्ति।’’ इत्यादय:। अस्मिन् निबन्धेऽहं संस्कृतभाषाया: प्रायोगिकानि काठिन्यानि सरलीकर्तुं काञ्श्चित् परिष्कारान् (सुधारान्) प्रस्तौमि। प्रत्येकं भाषा कानिचन कठिनानि, कानिचिच्च सरलानि तत्त्वानि रक्षति। उपाया: सन्ति, यै: भाषाणां कठिनता: दूरीकर्तुं शक्या:। सरलतानां च लाभ: प्राप्तुं शक्य:। अहं वाञ्छामि यदद्य संस्कृतभाषा युगस्याऽनुरूपा निर्मीयेत युगस्येच्छानुसारं तस्या: सरलं स्वरूपं सम्मुखीक्रियेत। तत्र च कठिनानां प्रयोगानामपसारणाय सरलीकरणाय चोपाया आश्रीयेरन्। संस्कृते व्याकरणप्रयुक्तं काठिन्यमवश्यं वर्तते। तत्र केषाञ्चन नियमानां शिथिलीकरणमावश्यक स्यात्। लौकिकीनामन्यासां च भाषाणां शब्दा: स्वातन्त्र्येण संस्कृते ग्राह्या निर्मेया वा। मयाऽस्मिन् प्रस्तावेऽस्माकं प्राचीनानां शास्त्रकाराणां पद्धतिरेवाऽऽश्रिता। विचारार्थमिदमहं प्रस्तौमि-
संस्कृतस्य व्याकरणं दृढबद्धं पुराकृतम्।
काठिन्यभीता: प्रायोऽपावर्तन्तेऽद्य जनास्तत:।।१।।
एतं ग्रन्थं श्लथीकर्तुमुपादेय: परिश्रम:।
संस्कृताभिमुखान् बालान् पुनश्चाक्रष्टुमिच्छुभि:।।२।।
पूर्वाचार्यै: शास्त्रक्लृप्तादद्य व्याकरणाध्वन:।
बहूनां पण्डितानां तु व्यतियानं न सम्मतम्।।३।।
अचिरादार्षमार्गस्योच्छेदो वा स्यात्, उताऽधुना।
ईषद्व्यतिक्रम: कार्योऽस्माभिस्तस्यैव रक्षणे।।४।।
इत्येवं विशयग्रस्ते विदुषामपि चेतसि।
सम्मोहस्य विमर्दाय विचार: क्रियते मया।।५।।
स्खलितान्येव भाषाणां वृद्धिं कुर्वन्ति भूरिश:।
इदानीं व्यतियानं यत् तत् पश्चान्नियमो भवेत्।।६।।
धातूनां तावदुभयपदिनां कर्तृगे सति।
फले, प्रयोगो विहित: सूत्रेण ह्यात्मनेपदे।।७।।
एतादृशस्तु नियम: प्रयोगे नोपलभ्यते।
तथैव लिङ्गेष्वप्यस्ति विहितेभ्यो व्यतिक्रम:।।८।।
एवमेव समासेषु यङ् लुगादिष्वपि क्वचित्।
तद्धितेषु कृदन्तेषु दृश्यते विधिभञ्जनम्।।९।।
लङनद्यतने लिट् च परोक्षे सूत्रसम्मतौ।
नियमोऽयं प्रयोगेषु न तु प्रायेण दृश्यते।।१०।।
नपुंसके पुंसि वा किं त्रिदिवेति पदं भवेत्।
वेदे नपुंसकं दृष्टं पुंलिङ्गममरोदितम्।।११।।
अगारशब्दोऽमरेण नपुंसकमुदीरितम्।
सप्तागारानिति मनौ पुंलिङ्गोऽपि प्रयुज्यते।।१२।।
रामायणे भारते च कालिदासकृतिष्वपि।
अपाणिनीया वर्तन्ते प्रयोगा विविधास्तथा।।१३।।
उत्सृष्टसूत्रा: सन्त्येव प्रयोगा आर्षसंज्ञका:।
सम्मता: शास्त्रकाराणां साधव: स्वीकृतास्तत:।।१४।।
कर्मण्यदृष्टैकफले शास्त्रमेव प्रयोजकम्।
दृष्टे फले त्वनुभवोऽप्यस्ति कर्मनियामक:।।१५।।
शास्त्रं वस्तुस्थितिं ब्रूते प्रायेण विषये निजे।
प्राक्कालेषूपलब्ध्वां वा तत्तत्कालेषु लक्षिताम्।।१६।।
वृद्धौ सत्यां केचिदंशा: क्षीयन्तेऽन्ये तु केचन।
भवन्त्युपचिताश्चानुवर्तन्ते स्थायिनोऽपरे।।१७।।
अयं स्वभावो लोकेऽस्मिन् विषयानखिलानपि।
परिगृह्णाति, नैव स्यात् संस्कृतस्याऽपवादता।।१८।।
ईकारान्तो रात्रिशब्द: प्रायो वेदेषु दृश्यते।
देवास इति देवेभिरिति रूपे च पाक्षिके।।१९।।
गमध्वै गन्तवे चेति रूपाणि विविधान्यपि।
दृश्यन्ते वेदसूक्तेषु कृदन्तानीतराणि च।।२०।।
नष्टान्येतानि रूपाणि पश्चात्कालीनसंस्कृते।
रूपाणि नूतनान्यन्यान्याविर्भूतानि कानिचित्।।२१।।
कालिदासादिकालेषु प्रसिद्धानि पदानि च।
लुप्यन्ते चेत्प्रयोगेष्वर्वाक्काले का क्षतिर्भवेत्।।२२।।
रूपाणि नूतनान्येवमुदियुश्चेत् प्रयुक्तिषु।
पूर्वग्रन्थेष्वदृष्टानि, किं तत् प्रक्षोभकारणम्।।२३।।
कस्य वांऽशस्याऽपचयाद्रूपहानिर्भविष्यति।
भाषाया: कस्य वा नाश: सम्वृद्धौ पर्यवस्यति।।२४।।
अत्र कर्तुं नैव शक्या क्लृप्ति: शास्त्रेण केनचित्।
शरणं केवलं तत्र कवयोऽन्ये च पण्डिता:।।२५।।
विशेषणविशेष्याणां क्रियात्कर्त्त्रोश्च सर्वदा।
वचनादिष्वैकरूप्यं रक्षणीयं प्रयत्नत:।।२६।।
संस्कृतं भाविकालेऽपि लभते यदि पोषणम्।
स्वातन्त्र्यं बहुशोऽस्माभि: कल्पनीयं प्रयुक्तिषु।।२७।।
ईदृशश्चोद्यमो द्वेधा निर्वर्त्य: संस्कृतेऽधुना।
सञ्चयात् सङ्ग्रहांऽशानां, भ्रंशे लोचनमीलनात्।।२८।।
शर्ववर्मा बोपदेवाश्चाचार्य: शाकटायन:।
हेमचन्द्रश्च भिन्नानि शब्दशास्त्राणि चक्रिरे।।२९।।
रूपावतारे कौमुद्या युगले प्रक्रियामुखे।
सर्वस्वे च परित्यक्त: सूत्राणामादिम: क्रम:।।३०।।
पाणिन्युपज्ञे शास्त्रे ये ग्रन्थय: क्लेशहेतव:।
तेषां विश्लथनायैवमाचार्याणां परिश्रम:।।३१।।
आचार्यपारम्पर्यस्य रक्षायां दीक्षिता वयम्।
किमर्थं वा विषीदामो ग्रन्थिसन्ततिवेष्टिता:।।३२।।
शब्दा: सामान्यविधिभिर्निष्पन्ना: सन्ति भूरिश:।
प्रायेण चैते भाषायां बालानामपि सुग्रहा:।।३३।।
अस्मच्छब्दस्तथा युष्मच्छब्द: सदृशरूपिणौ।
रूपाणि यत्तदादीनां समानान्येव कृत्स्नश:।।३४।।
प्रायेणाजन्तरूपाणि सामान्यविधिगोचरा:।
हलन्तरूपवत् क्लेशं ग्रहणे जनयन्ति न।।३५।।
अकारान्तास्तत्र शब्दा: पुंस्यादन्तास्तथा स्त्रियाम्।
तदादय: सर्वनामशब्दा: प्राय: सरूपका:।।३६।।
इकारान्तस्तथा चोकारान्त: पुंस्येकरूपिणौ।
ईकारान्त: स्त्रियामूकारान्तश्चापि तथाविधौ।।३७।।
रूपं नपुंसके प्राय: पुंलिङ्गमनुवर्तते।
तृतीयातो, द्वितीया च सदा प्रथमया समा।।३८।।
लिङ्गभेदाद्रूपभेदो हलन्तेषु न दृश्यते।
विविधानां हलन्तानां रूपे सूक्ष्मा मिथो भिदा।।३९।।
तिङन्तेष्वपि लट् लङ् च लोट् लिङ् लृट् च न दुर्ग्रहा:।
प्रथमे पुरुषे लिट् च प्रारिप्सूनां न दुर्ग्रह:।।४०।।
तथैवाऽऽद्यं विकरणं चतुर्थं षष्ठमेव च।
दशमं रूपनिष्पत्तौ ललितं ह्येषु सम्मतम्।।४१।।
लृङ्लुटौ विरलौ दृष्टौ लुङ् च प्रायेण वर्जित: (वर्ज्यते)।
एवं सामान्यत: सिद्धा शब्दा नोद्वेगहेतव:।।४२।।
प्रायस्तिङ्न्तरूपाण्युत्सृजन्तश्च कृदाश्रया:।
प्रयोगान् सुगमान् कर्तुं बालानां शक्नुमो वयम्।।४३।।
पुराणानीतिहासाश्च पञ्चतन्त्रकथास्तथा।
काव्यानि कालिदासादिकवीनाम् एवमादिषु।।४४।।
सामान्यविधिनिष्पन्ना ललिता: सुगमा अपि।
शब्दा एवोपलभ्यन्ते न च ते श्रमकारिण:।।४५।।
एकस्यार्थस्य पर्यायेष्वनेकेषूपलभ्यते।
द्वित्राणामेव सत्कार: काव्येष्वन्ये तु नादृता:।।४६।।
यावतामेव रूपाणां प्रायेणाऽवगमाद् भवेत्।
उद्वेगकारणं नैव बालानां ग्रन्थशीलनम्।।४७।।
उच्चित्योच्चित्य तावन्ति विहायाऽन्यान्ययत्नत:।
लघु व्याकरणं किञ्चिन्निर्मातुं शक्यते बुधै:।।४८।।
अक्लिष्टमार्गेणाऽनेन भाषाद्वारं प्रवेशिता:।
क्रमेण बाला व्युत्पन्ना भविष्यन्ति श्रमं विना।।४९।।
सामान्यत: परिचये लब्धे तेषां च संस्कृते।
पश्चाद्विशेषरूपाणां ग्रहणं स्यान्न दुष्करम्।।५०।।
आत्यन्तिकक्लेशहीना भाषा कापि न विद्यते।
स्वभावतो न वा काऽप्यापातत: क्लेशसङ्कुला।।५१।।
क्लेश: केषुचिदंशेषु लालित्यमितरेषु च।
सर्वासामेव भाषाणामयमौत्सर्गिक: क्रम:।।५२।।
उक्तेह सरला रीति: प्राक्तनग्रन्थशीलने।
प्रयोगे संस्कृतस्याऽस्ति वाच्यं किञ्चित्ततोऽधिकम्।।५३।।
अपहानाय पीडानां कल्प्यन्ते नियमा: सदा।
येऽस्मान् बन्धन्ति नियमास्ते क्षेप्तव्या: सुदूरत:।।५४।।
यद्भङ्गादर्थसन्देहो, दृष्टा: सार्वत्रिकाश्च ये।
तादृशेष्वेव नियमेष्वस्तु भक्तिरचञ्चला।।५५।।
आत्मनेपदमित्यादि विभागे दशधा स्थिते।
भेदे विकरणानां च तथा कृत्तद्धितेषु च।।५६।।
सनाद्यन्तेषु रूपेषु स्त्रीप्रत्ययविधिष्वपि।
कारकाणां विशेषोक्तौ समासान्तेषु सन्धिषु।।५७।।
अस्पष्टलिङ्गभेदेषु सूक्ष्मेष्वन्येषु कुत्रचित्।
यदि भ्रंशा: प्रयोगे स्युर्मील्येतां लोचने तदा।।५८।।
स्वैरमेवाऽन्यभाषाभ्य: स्वीकार्याऽद्य पदावलि:।
यथायोग्यं च विपरिणता संस्कृतवाङ्मये।।५९।।
नूतनानामाशयानामक्लेशेन प्रकाशने।
कालेष्वेष्ववतीर्णानामेषैका सरला गति:।।६०।।
भाषाया ग्रन्थिविश्लेषे निगलानां च मोचने।
पूरणे वाङ्मयस्याऽपि सन्त्येवं विविधा: क्रमा:।।६१।।
द्वारं समूलमपवारितकण्टकं चेत्
पादद्वयाद्विगलिता यदि शृङ्खला चेत्।
सम्पूरितं नवपदैरपि वाङ्मयं चेत्
स्यात्संस्कृतं च निखिलैरुपभोगयोग्यम्।।६२।।
संस्कृतभाषा भारतस्य तासु तासु समस्यासु प्रमुखं भागं ग्रहीतुमारब्धवती। भारतेक बहवो नेतार:, विवेकिन: शिक्षाशास्त्रिणश्च, संस्कृतस्य राष्ट्रभाषापदार्हतां मुक्तकण्ठं समर्थितवन्त:। अहमप्येतस्य समर्थक:। परं कथनमात्रेण न सिध्यति कार्यम्। प्रयोगरूपेण विचारे प्रारब्धे कठिनता: प्रादुर्भवन्ति।
राष्ट्रभाषा राष्ट्रस्य प्रत्येकजनेन बोध्या स्यात्। प्रत्येकराष्ट्रनिवासी तां कार्त्स्न्येन जानीयात्। राष्ट्रभाषा हि प्रत्येकं विधानमण्डलसदस्येन, प्रत्येकं न्यायकर्मचारिणा, प्रत्येकं राजकर्मचारिणा, विश्वविद्यालयस्य प्रत्येकजनेन सम्पूर्णरूपेण अधीता स्यादित्यावश्यकम्, अद्यत्वे सर्वोऽपि संस्कृतं कार्त्स्न्येन न बोद्धुं प्रभवति। नैषधचरितकृतो हर्षस्येदं पदं प्रत्येकप्रस्तावे स्मरणीयम्- 'अधीतिबोधाचरणप्रचारणै:’। प्रचारणं खल्वन्तिमं सोपानम्। यदि केवलं प्रचार एव क्रियेत, अध्ययनं, मननं, मुख्यत: आचरणं च न क्रियेत, तर्हीदमस्मच्छास्त्रविरुद्धम्। मम प्रस्तावश्च-तुर्णामप्यमीषां कार्याणां ध्यानं कृत्वा समुपस्थापित:। राष्ट्रभाषाया: प्रचारकैरिदं विचार्यं नाम।
अहं संस्कृतं केवलं राष्ट्रभाषात्वेन स्वीकृतं द्रष्टुमिच्छामि। अहं वाञ्छामि यत् संस्कृते: सभ्यतायाश्चेयं प्रधानभाषा सम्पद्येत। ऋग्वेदप्रातिशाख्य-बृहद्देवता-श्लोकवार्तिक-बृहदारण्यक-भाष्यवार्तिक-अमरकोष-अष्टाङ्गहृदय-सङ्गीतरत्नाकर इत्यादिषु ग्रन्थेषु यथा शुद्धवैज्ञानिकविषयाणां कृते पद्योपयोगिसंस्कृतस्योपयोग: कृत:, तथैवाऽद्यापि वैज्ञानिकेषु सामाजिकेषु कार्येषु च संस्कृतं प्रयुज्येतेति मे लालसा। अहं वाञ्छामि संस्कृतं तावतीं प्रभावशालिनीं भाषां द्रष्टुं यद्विदेशीया: भारतस्य ज्ञानं लब्धुं संस्कृतं पठेयु:। ते संस्कृतं स्वदेशेऽध्याप्य भारतीयं ज्ञानं स्वदेशेषु प्रचारयितुं शक्रुयु:। अपि चाऽहं संस्कृतं संस्कृतेरान्तरराष्ट्रियां भाषां निर्मातुमिच्छामि। एतच्च प्रयत्नसाध्यम्। अधीतिबोधाचरणप्रचारणै: साध्यम्। एतत्कृते प्रायोगिकं कर्म कर्तव्यं स्यात्। एतदर्थमेव मयाऽयं निबन्ध: प्रस्तुत:।’’
एवं किल वर्तमानयुगस्य मानितानां प्रधानपुरुषाणां बहूनामेव आशय प्रकटीकृत:। साधारणजनताया अप्यवस्था न विवेकिनामपरिचिता। अतएव अखिलभारतीय संस्कृतसाहित्यसम्मेलनसदृशीभि: प्रामाणिकसंस्थाभि:, शिक्षाक्षेत्रे प्रचुरानुभवशालिभि: समर्थपण्डितैश्चापि, सम्भूय ''संस्कृतग्रन्थिविघटनस्य’’ मार्ग: प्रदर्शनीय:।
नाधुना दीर्घमीमांसा ह्युपेक्षा वाऽपि जायताम्।
किमितोऽधिकमावेद्यं तत्त्वज्ञेषु विवेकिषु।।१।।
एतद्विषये उत्साहिन: पण्डिता: स्वीयं स्वीयमभिमतं संस्कृतपत्रेषु चेत्प्रकाशयेयुस्तर्हि 'सम्भूय तत्त्वनिर्धारणे भूयसी सुविधा स्यात् पत्राणामुपयोगोऽप्येवंविधे समये।’
संस्कृतभाषायामन्यभाषाशब्दानां शनै: शनै: प्रवेश:
प्राकृतभाषायां बहवो 'देशी’ शब्दा: सममिलन्निति जानन्ति प्राकृततत्त्ववेदिन:। अत एव हि 'देशीनाममाला’दय: कोषा: प्राकृते पृथक्प्रासिध्यन्। एवमेव प्राकृतभाषाद्वारेण संस्कृतभाषायामपि प्राकृतशब्दा:, संस्कृतभाषाया वेषविन्यासं वहन्त: प्रचलितभाषाया: शब्दा अपि बहव: सममिलन्।
मेरुतुङ्गाचार्येण 'प्रबन्धचिन्तामणि’ नामक: सङ्ग्रहग्रन्थो 'बढ़वान’ नगरे सं. १८६१ वत्सरे संस्कृतभाषायां व्यरचि। एतस्मिन्नैतिहासिक्य: कथा, आख्यायिकाश्च सङ्गृहीता:, यत्र शैली भोजप्रबन्धस्येव दृश्यते। जैनधर्मस्य माहात्म्यं ख्यापयितुं धर्मोपदेशा अपि बहवोऽत्र सङ्गृहीता:। कथानां मध्ये प्रसङ्गोपयुक्ता अपभ्रंशकविता अप्युद्धृता: या हि सङ्ग्रहीतु: समयात् शतद्विशतवर्षेभ्य: पुरातन्य:। पुस्तकस्य भाषा संस्कृतं तथापि सा देशभाषाशब्दैरोतप्रोता। स्पष्टं प्रतीयते यत् जैनलेखकैर्देशभाषायां विचारितं संस्कृते च निबद्धम्। देशभाषाया: प्रचलिता: शैल्य: (मुहाविरे), लोकोक्तय: (आभाणका:) शब्दाश्च संस्कृतव्याकरणस्य चोलकं परिधाय स्थाने-स्थाने प्रविष्टा:। यथा-
धर्मबहिका- 'बही’। धाटीप्रयात-'धाड़ा डालना’। न्युञ्छन्-'न्योछावर’१। दवरक:-'डोरा’। पादोऽवधार्यताम्-'पगधारो, पधारो’। कञ्चोलक-'कचोली कटोरी’। जीर्णमञ्चाधिरूढ:-'टूटी खटिया पर पड़ा’। हक्कित-'बुलाया हुआ’। छिम्पिका-'छींपि’। निजतनकगृह-'निजतणो(राजस्था.) घर’। व्याघुटन्ती-'लौटती हुई (बाहुडती हुई (राज.)’। वलित-'लौटा’। कार्मण-'कामण, जादू’। पट्टकिल-'पटैल’। सेजवाली-'सेझवाली’ (राज.) 'पालकी’। तापिका-'तई, कडाही’ (तपेली, राज.)। फुल्लावयिष्यति-'फुलावेगा’। सिद्धचन्द्रादिकृतकादम्बरीटीकायामपि बप्पीहा-'पपीहा’। कलाचिका-(कलाई प्रकोष्ठे) कुञ्चिका-कूंची 'ब्रश’ इत्यादय: शब्दा दृश्येरन्।
वर्तमानकाले संस्कृतभाषायां प्रविष्टा हिन्दीभाषानुहारिण: वैदेशिकच्छायाशब्दा: वातावरण-सहानुभूति-जागृति-वास्तविक-प्राकृतिक-पुनीत-स्वर्गीयगायन-पूञ्जीपतय:-कर्गज-('ज्योतिष्मती’ पत्रिकायां) सुसङ्गठिता:-राज्यसञ्चालनसूत्रम्-क्रान्तिकारिण:-प्रस्ताव:-प्रगतिशील:-आन्दोलनम्-धारा ('दफ़ा’)-निर्वाचनम्-टिप्पणी-संस्कृतजगतो महानुपकार:-लोकतन्त्र-प्रजातन्त्र-राजतन्त्र-(पूर्वमासीद्राजशासनं किन्तु नायं शब्दो व्यवहृत:) 'विहारसंस्कृतशिक्षासुधार:’ (सूर्योदय, १७ वर्षे अङ्क १२)- 'सुधारका:’ इति बहव: प्रयुञ्जते। 'सुधार’ शीर्षकलेखे मुहु: प्रायुज्यत। 'स्वकीयां ढक्कां स्वयं वादयन्त:’ (प्राध्यापका:) (Beating their own drums) (मधुरवाणी ७ वर्ष ४ अङ्क)।
धनादेशपत्रम् (मनीआर्डर), पत्रप्रेषणां (डाक), प्रयुञ्जन्तोऽपि ङ्क.क्क. प्रेषणस्य सूचनां ददति। प्रान्तीयताऽपि संस्कृते प्रचलिता। वङ्गीया: सम्भ्रान्तपुरुषा:, लुक्कायितं कुर्वन्ति। दण्डायमाना: शून्ये उत्तोलयन्ति। पुरा 'लेख:’ इति लेखनक्रियायां लेखे वाऽयं शब्द: प्रायुज्यत, साम्प्रतं 'निबन्ध’- पर: प्रयुज्यते। 'संस्कृतभाषाया लेखा अपि तैर्लिखिता:’ 'लेखस्याभ्यर्थनायामवश्यं लेखं दत्तवन्त:’ इत्यादि। 'लेखक’ शब्दो लिपिजीवके, किन्तु साम्प्रतं रचनाचतुरे। यथा 'ते सिद्धहस्ता लेखका आसन्’ (सूर्यो.)। 'संस्था’ शब्द: स्थितिवाचक: किन्तु साम्प्रतं सङ्घटना 'बॉडी’ पर्याय:। यथा-'राजसत्ताद्वारा नियुक्तसंस्थासु लोकसेवा सङ्घटिता’ 'सहानुभूति:, समवेदना’।
एवं हि यथा-यथा विभिन्नभारतीयभाषासु लिखन्तो विद्वांस: संस्कृते साहित्यरचनां कुर्वन्ति, ते तत्तद्भाषापरिगृहीतानां तत्तदाशयसूचकानां शब्दानां तेषु तेष्वाशयेषु संस्कृते प्रयोगं विधाय भाषाया अस्या आयामान् विस्तारयन्तीति किमधिकं भाषिकीवित्सु।
संस्कृतनिष्ठा हिन्दीशब्दावली
स्वातन्त्र्यप्राप्तेरनन्तरं भारतीयेन संविधानेन यथैव निर्धारितं यत् देशस्यास्य राजभाषा हिन्दी भविष्यति, तदिदमावश्यकमापतितं यद् हिन्द्यां प्रशासनस्य, विज्ञानस्य, वाणिज्यस्य अन्यान्यासां ज्ञानशाखानां च पारिभाषिका: शब्दा हिन्द्यां सङ्कलय्य सैषा भाषा समृद्धा विधीयेत। एतदर्थं भारतीय संविधानस्य ३५१ तमायां धारायां स्पष्टीकृतं यद् हिन्द्या: पारिभाषिकी शब्दावली प्रमुखत: संस्कृतभाषातो गौणतश्चान्याभ्यो भारतीयभाषाभ्य: परिगृह्येत। आसीदयं सुस्पष्टो भाषाया अस्या महत्त्वस्वीकार:। एतदनुसारं भारतराष्ट्रपतिना १९६१ तमे ख्रिस्तीयवत्सरे वैज्ञानिक-पारिभाषिक-शब्दावलीआयोग एक: समस्थाप्यत येन विविधज्ञानशाखानां शब्दा: प्रमुखत: संस्कृतस्य विपुलाद् ज्ञानभाण्डागारात्सङ्कलय्य प्रकाशिता:। एतस्मात् पूर्वं डॉ. रघुवीर इत्याख्येन विदुषा स्वकीये बृहदाकारे शब्दकोषे ज्ञान-विज्ञान-वाणिज्य-प्रशासनादिविविधविषयका: परोलक्ष्यं पारिभाषिकशब्दा: संस्कृतस्य पुरातनवाङ्मयात् कौटिलीयार्थशास्त्र-शुल्बसूत्रायुर्वेदरसायनसङ्गीतज्यौतिषगणितादिशास्त्रग्रन्थेभ्यश्च विचित्य सङ्कलिता अभूवन्।
विश्वस्मिन् कतिपया एव भाषा: सन्ति तथाविधा यासु समस्तस्यापि मानवीयज्ञानस्य वाचका: शब्दा उपलभ्येरन्। येषु देशेषु ज्ञानविज्ञानयोर्विवेचनं, मन्थनं च भवति तेषामेव देशानां भाषासु तत्तद्विषयवाचका: शब्दा: समुद्भवन्ति।
एविधा: समृद्धा भाषा: ''पुस्तकालयभाषा:’’ (Library Language) इत्याख्यायन्ते भाषिकीविद्भि:। संस्कृतं हि पुरातनी पुस्तकालयभाषा। ज्ञानविज्ञानशाखा-समुद्ररूपा सेयं भाषा पर:सहस्रं वर्षेभ्यो विश्वगुरोर्भारतस्य ज्ञानं जगति प्रसारयन्ती विभ्राजत इत्यस्या महत्त्वं भाषाशास्त्रिणो जगति प्रसेधितवन्त एव। अस्यां हि भाषायां विविधविषयका: शब्दा वेदकालादेवोपलभ्यन्त इति सर्वा एव भारतीया भाषा अस्या भाषाया अधमर्णा:। एवं हि समस्ता पारिभाषिकी शब्दावली संस्कृतादेव भारतीयाभिर्भाषाभि: परिगृहीता।
अपरं चास्या महत्त्वमभूद् यत्पाणिनिना भगवता यद् व्याकरणमस्या निरमीयत तस्मिन् धातुभ्य: प्रत्ययान् संयोज्य तत्तादृशार्थकान् शब्दान् व्युत्पादयितुमेका समादरणीया पद्धतिरन्तर्निहिताऽस्ति। पद्धतिमिमामाश्रित्य तत्तदर्थवाचका: शब्दा निर्मातुं तूर्णमेव शक्यन्ते। येषामर्थानां वाचका: शब्दा न पुरातने वाङ्मये समुपलब्धास्तत्कृते आयोगेन नवीना: शब्दा: संस्कृतभाषाया व्याकरणमाधृत्यैव निर्मिता:।
तस्यास्य संस्कृतभाषामहिम्न एवेदं विजृम्भितं यदद्य पर:सहस्रं संस्कृतशब्दा हिन्दीभाषाया अन्यान्यभाषाणां च शब्दकोषेषु पाठ्यग्रन्थेषु च विलसन्ति, तानेवाधीत्याद्य छात्रा: कलाविज्ञानविधिवाणिज्यादिपरीक्षा उत्तरन्ति। किं नेदं हर्षावहं संस्कृत-विदुषां यदस्या भाषाया: ऊर्ध्वाधर-(Vertical)-पश्चबाह्यगलजालिका (Posterior External Jugular Plexus) दोलन (Oscillation)-आन्तरनोदक (Impeller)-प्रभृतय: शास्त्रीयशब्दा विज्ञानपुस्तकेषु, सिद्धदोष (Convict)-साक्ष्य (Evidence)प्रभृतय: शब्दाश्च विधिपुस्तकेषु समग्रेऽपि देशे प्रसृता अद्यत्वे? अयमासीदस्या एव भाषाया महिमा येन त्वरितमेव चतुर्लक्षसङ्ख्याका: शब्दा हिन्द्यै प्रदत्ता यद्बलाच्च सर्वोऽपि विश्वस्य ज्ञानराशिरद्य हिन्द्यां समानीयतेऽनुवादादिविधया।
एवं हि गीर्वाणगिरा सेयमादिमादेव कालाद् भारतस्यास्याजरामरं पीयूषस्रोतोऽस्ति यन्महिम्ना भारतं जगद्गुरुत्वपदवीमधिरुरोह, साम्प्रतमपि च विश्वस्मिन् महामहिमशालि सुखासनं बिभर्ति।