मिस्टरस्य 'गीताज्ञानम्’
षड्रिपु- षड्धातु-षडैश्वर्य-षडाननप्रभृतिषडङ्कघटितकोष्ठकेषु शास्त्रस्य रत्नराशि: सुरक्षितोऽस्ति। एतन्मध्ये षड्रिपुचक्रं सर्वापेक्षया सुतीक्ष्णां सुपरीक्षितं सुसमादृतं च। भगवद्गीतायां स्फीताक्षैर्विलोक्यते-
''ध्यायतो विषयान् पुंस: सङ्गसतेषूपजायते।
सङ्गात् सञ्जायते काम: कामात् क्रोधोऽभिजायते।।
क्रोधाद्भवति सम्मोह: सम्मोहात् स्मृतिविभ्रम:।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति।।’’ (तृ.अ. ६२/६३)
(१)
मिस्टरगौरचन्द्र: जर्मनीप्रभृतिषु देशप्रकाण्डेषु चङ्क्रमणं विधाय परिशेषे तदेतत् स्वीकर्तुं परवशोऽभवत्- ''गीता खल्वेक: सारग्रन्थ:’’। परं तदयं परमपरितापस्य विषयो यद् गौरचन्द्रमहाशयो बहुकालं विदेशेषु स्थित्वा मातृभाषां हिन्दीं प्रायो बहुतरं विस्मृतवान्। अर्थात् प्रचलितभाषायां वार्तालापं कर्तुमवश्यमशक्नोत्-परं कदाचित् कदाचित् उपयुक्तं शब्दं विस्मृत्य तदन्वेषणाय विस्फारितनेत्रं पर्यन्ततो विलोकयामास। एवमुपायविहीन: सन्-
१. हस्तपदं सञ्चाल्य अथवा मस्तकं विधूय चेष्टाविशेषमकरोत्। किं वा-
२. अन्यं कञ्चिदुपादेयं शब्दं तत्परिवर्ते स्थापयितुं बाध्योऽभवत्।
यदा हि मिस्टरगौरचन्द्रेण भारतवर्षे पुन: पदार्पणं कृतमभूत्, तदा मिस्मन्दाकिनी प्रबलस्फुटनोन्मुखं कुसुममिव सुसज्जितासीत्। एक: कपोलो रक्तवर्ण:, अपरश्च आपाण्डु:’ एतद्धि होमियोप्याथीमते रोगस्य चिह्नम्। परं मिस्टरगौरचन्द्रस्य मते मिस्मन्दाकिनी नायिकानामादर्शभूता। अर्थात् मन्दाकिन्या नायिकास्वरूपेण ग्रहणे कृते सति षड्रिपूणां मध्ये कस्यापि उत्तेजनस्य नास्ति सम्भावना। शनै: शनै: अविश्रान्तभावेन एतदेव लक्ष्यीकत्य गौरचन्द्रो मन्दाकिन्या ध्यानं कर्तुमारब्धवान्।
मन्दाकिनी विषयभूता। गौरचन्द्र: अकरोत्तस्या ध्यानम्। तथा चात्र आसङ्गोत्पत्तेर्बहुष्वंशेषु सम्भावना। यतो हि मन्दाकिनी युवति:! किन्तु आसक्तिनामकस्य पदार्थस्योत्पत्ति: प्रायो मानसिकप्रवृत्तेरूपरि निर्भरा। आसक्ति: प्रत्येकविषयस्योपरि नियतं भवेदेव, एषा नास्ति नियता कथा।
मिस्टरगौरचन्द्रेण दृष्टम्-मिस्मन्दाया: कण्ठनली सङ्कुचित-विस्तृता। कण्ठस्वरो विकृतहारमोनियमवाद्यस्य 'नि’ (निषाद) स्वरप्रतिरूपक:। हावभावभङ्गीविषये मन्दाकिनी जडपदार्थ इव। अर्थात् उत्तेजनामप्राप्य न कथञ्चिदपि उत्तेजनस्य सम्भावना। उत्तेजनाप्रदाने च पाषाणादयो-जडपदार्था अपि चैतन्यं प्रकाशयन्ते एतद्धि आचार्यस्य वसुमहाशयस्याविष्कारेण प्रमाणितमभूत्। अत एव गौरचन्द्रेण स्थिरीकृतं यन्मन्दाकीनीविषये कथञ्चिदप्युत्तेजनं न दास्यामिति। यतो हि मानवप्रकृतेरपेक्षया जडस्य कियद्व्यवधानमिति परीक्षणे दत्तचित्तोऽभूद्गौरचन्द्र:। सुतरां,
(२)
गौरचन्द्रो मन्दाकिनीमवदत्- ''भवत्या साकं.....कृत्वा अतिप्रीतोऽभूवम्।’’ ''संलाप’’ पदं विस्मृतवान् गौरचन्द्र:। एतत्पूर्त्ति हस्तमुखं सञ्चाल्य कथञ्चिदकरोत्।
मिस्मन्दाकिनी-भवान् अस्माकं प्रतिवेशी। एवं भवतो भगिनी मे शैशवसहचरी। आवामेकस्मिन्नेव पाठालये अपठाव। भवद्धस्ते किमेतदस्ति?
गौरचन्द्र:- गीताया: टिप्पणीपुस्तकम् (नोटबुक)।
मन्दाकिनी- भवता मूलं संस्कृतपुस्तकमधीतमस्ति।
गौरचन्द्र:- एवं विज्ञानमपि, उभयोर्मध्ये निगूढ: सम्बन्धोऽस्ति। अनेके संस्कृतशब्दा: वैज्ञानिकसरणिमनुसरन्ति। न सन्ति तथा हिन्दीभाषायाम्। साहित्यानुरागिणो व्यक्तिमात्रस्य कर्तव्यं यद् विज्ञानस्य दुरूहशब्दानां प्रतिशब्दान् संस्कृतभाषात: सङ्गृह्य दैशिकसाहित्यस्य मुखमुज्ज्वलं कुर्युरिति।
मन्दाकिनी- अति सदुद्देश्यम्।
गौरचन्द्र:- एषु दिनेषु षड्रिपुसम्बन्धे आलोचनां करोमि।
मन्दाकिनी- किम्?
गौरचन्द्र:- मम विवेचनायां षडपि रिपवो नैकस्मिन् समये उत्तेजिता भवन्ति। एतस्य प्रमाणं गीतायामस्ति। कर्मक्षेत्रेऽपि तथैव दृश्यते। यदा हि काम: प्रबलो भवति, तदा क्रोधो न भवति। क्रोधे सति लोभो न भवति। किन्तु मम जिज्ञास्यमस्ति यत्..... एवं कामना, एक एव पदार्थो भिन्नो वा?
गौरचन्द्र: 'प्रणय’ पदं न स्मृतवान् तस्मिन् समये। अत एव हस्तमुखचेष्टया तस्यार्थं बोधितवान्। एवं पुन: प्रोवाच- ''मूलपदं विस्मृतवानस्मि। 'लव’ इत्येक: शब्दोऽस्ति, तस्य क: प्रतिशब्द?’’
मन्दाकिनी- प्रेम, प्रणय:, प्रीति:। भवान् तत्त्वानुसन्धित्सु:, न चेत्....
गौरचन्द्र:- न चेत्, किम्?
मन्दाकिनी- न चेत्.....न तु वा....मम कथनस्य एतदुद्देश्यम्.......मिस्मन्दाकिन्या मुखं लज्जारुणं भूत्वा पुन: पाण्डुरच्छायामचुम्बत्।
गौरचन्द्र:- भवत्या: खलु यथेष्टं क्षमता। प्रतिशब्द, प्रतिबिम्ब, प्रतिशोध, प्रतिप्रेम, प्रभृते: सर्वेषां न विलोक्यते क्षमता। भवती यदि, अध्यापनकर्मणि मम सहकारिणी अभविष्यत् तर्हि अहमति....अभविष्यम्।
मन्दाकिनी- कृतज्ञ:?
गौरचन्द्र:- आम्-आम्-तथैव।
गौरचन्द्रमहाशयो यस्य विषयस्य ध्यानं करोति स्म, तन्मध्ये कामनाया लेशमात्रमपि नास्ति। तथापि मन्दाकिन्या: सङ्गलाभस्य चेष्टा किमिति प्रादुरभूत्? एतदन्तराले उत्तेजनाया: किञ्चिदपि लक्षणमनभिवीक्ष्य गौरचन्द्रस्य कौतूहलमुद्दीप्तमभवत्। शारीरककामना, मानसिककामना च एतयोरुभयो: क्षेत्रं मन्ये नैकम्। ज्ञानलिप्साप्रभृति मानसिककामना। जानीमो गौरचन्द्रो यदन्विष्यति स्म, तत्खलु मन्दाकिन्यामस्ति। तस्य ज्ञानपिपासा मन्दाकिन्यां पूर्णरूपेण वर्तमाना। ये हि गौरचन्द्रस्याविदिता:, एवंविधान् बहून् विषयान् मन्दाकिनी जानाति। इयमेव मानसिकी सहानुभूति:, समवेदना च, जगति प्रयोजनस्य वस्तु। ''अत एव स्पष्टप्रजल्पनमेव सम्यक्’’।
गौरचन्द्र:- भवत्या:....करणे अस्ति काचिदापत्ति:?
'विवाह’पदं विस्मृतवान् गौरचन्द्र:।
मन्दाकिनी- यदि मम विचलनं न कुर्यासुर्भवन्तस्तर्हि तत्सम्पन्नप्रायमेव।
गौरचन्द्र:- विचलनं किम्?
मन्दाकिनी- उत्तेजनाप्रभृति,
गौरचन्द्र:- कदापि कथमपि किञ्चिदपि न भवेत्। सुतरामुभावपि परिणयसूत्रेण समबध्येताम्।
(३)
येयं प्रादुरभूद् विवाहस्येच्छा, सा किं काम:? अवश्यं टीकाकार: किमपि नाब्रवीद् विषयेऽस्मिन्। परं नैतत्कदापि सम्भवेत्, कामपदार्थ: स्वतन्त्र एव।
एवंरूपेण कामस्यार्थं ध्यायतो गौरस्य क्रोध उपस्थितोऽभवत्। न मयानिश्चितमेव स्त्रीलाभं कर्तुं वाञ्छितमासीत्, अथ च अधिमस्तकमियमापत्ति: कथं वा निपपात। किं च तस्या एव वा बुद्धि: कीदृशी? स्वल्पेन संवादमात्रेणैव एवंविधं महारम्भं कर्तुं कुतो वा सम्मताऽभवत्? हन्त कीदृक् सङ्कीर्णं हृदयम्!
प्रात:कालस्य 'चा’ पानमारभ्य, सायंकालस्य हार्मोनियमवाद्यपर्यन्तं सकलमेव मन्दाया: कार्यजातं मिस्टरगौरस्य निकटे विषवत्प्रतीतमभवत्। गौरचन्द्रेण प्रोक्तम्-''विरमतु तव हार्मोनियमवादनम्!’’
मन्दाकिनी-दृश्यताम्, सावधानम्! न स्यान्मे विचलनम्। विचलनस्य प्रतिशब्द: 'उत्तेजना,।
गौरचन्द्र:-य: कोऽपि भवतु प्रतिशब्द:। समग्रे दिनमभिव्याप्य चीत्कार:, आलाप:, हासपरिहास:, हार्मोनियमस्य 'पें पें, ध्वनिर्न मह्यं रोचते।’
(४)
मन्दाकिन्या स्पष्टमवबुद्धं यद् गौरचन्द्रस्य मोहप्रादुर्भावस्योपक्रमोऽस्ति। हार्मोनियमवादनं हासपरिहासप्रभृति सकलमेव विरतमभूत्। भवनमध्ये कठिना नीरवता परित: प्रतिष्ठिताऽभवत्।
मन्दाकिनी स्वसखीं विमलामाजुहाव। विमला प्रतिवासिनो युगलचन्द्रस्य नवपरिणीता सहधर्मिणी। अस्ति सेयं परमरसिका। विमला समागत्य एकान्तप्रकोष्ठे मन्दाकिन्या सह परामर्शमकरोत्। गौरचन्द्रो विलोकितवानेतत्। सन्ध्यासमये विमला सुस्वरमगायत्। गौरचन्द्रस्यैतत् श्रोतुं कौतूहलमभवत्। जवनिकान्तराले गायनं यथा यथा वर्द्धते स्म, तथा तथा गौरचन्द्रस्य एतदाकर्णयितुं लोभ: प्रवृद्धोऽभवत्। मोहितोऽभूद् गौरचन्द्र:। मनसि विचारयामास-''किन्तु 'मोह’ सम्पर्कादेव ''मोहित:’’।
गौरचन्द्र: शनै: शनैरुत्थाय मन्दाकिन्या: प्रकोष्ठके जगाम। निजगाद-''किञ्चित् पुनरपि गीयताम्।....’’
मन्दाकिनी-भवत: स्मृतिविभ्रम: सङ्घटितोऽस्ति।
विमला.-(सहास्यम्) किन्तु 'बुद्धिनाशो’ नाधुना जातोऽस्ति: गौर: अप्रतिभो भूत्वा स्वगृहं प्रत्यायात्। शय्यायां शयित्वा भावयति स्म- 'अस्मिन् वारे 'प्रणश्यति’ उपस्थितो भवेत्किम्?’
(५)
गौरचन्द्रो निरीक्ष्य भावयामास-'काम, क्रोध, लोभ, मोहा:’ एतदेकमेव वस्तु। अमुक (अन्यस्य)स्योपरि कामनायां सत्यां (स्वस्य) अमुकस्य क्रोधो भवति। स्वीय: अमुको यदि प्रबलो भवेत्तर्हि (दृग्गोचरीभूतस्य) पूर्वोक्तामुकस्योपरि भवेल्लोभ:। एवं केन प्रकारेण (तामेतां) प्राप्रुयामिति निरन्तरं भावयतो 'बुद्धिभ्रंशो’ भवति। गौरचन्द्रस्य मन्दाकिनीमुद्दिश्य क्रोधोऽभवत्। किन्तु भयमपि न्यूनं नासीत्, सुतरां मोहाक्रान्त: सन् ''प्रणश्यति’’ निमित्तं भीतिमयं स्वप्रमवलोकयामास।
छागप्रभृतयो गृहोद्याने यदा चौर्येण 'पत्रं पुष्पं फलं’ भक्षयितुं प्रयान्ति तदा लगुडाघातेन व्याकुलीभूता: सन्त: पलायन्ते। किन्तु लगुडाघात:, पलायनम्, पुनर्गमनं च एतदभ्यासत्रयं समानभावेन वर्द्धते नाम। अत एव ते पुन: पुनरायान्ति, पलायन्ते, पुन: पुनर्लगुडाघातं च सहन्ते।
किन्तु मानवस्य पक्षे एतत्स्वतन्त्ररूपम्। तस्य हि भवेद्बुद्धिभ्रंश:। एकद्ववारयोरेव लगुडाघातेन स्यादेतस्य सम्मोह:। न प्रसरेद्बुद्धि:। बुद्धिप्रचलनाभाव एव च मोह:। यदि बुद्धिरेकान्तत एव विनष्टा भवेत्तर्हि तमेतं वदन्ति मस्तिष्कस्य पक्षाघातम्। मा भूदेतादृशी अवस्था कस्यापि।
मिष्टरघोषो गौरस्य बाल्यसुहृत्। गौरस्तमेतं जिज्ञासते स्म- ''इदानीं क उपाय:?’’
घोष:-भवद्बुद्धे: किं सर्वथैव विलोपोऽभवत्?
गौरचन्द्र:-बुद्धिर्मे विलक्षणा, परं तस्या: समीपे चातुर्यं न मे परिचलति।
घोष:-तर्हि द्वन्द्वयुद्धमारभ्यताम्।
गौरचन्द्र:-सेयं कापुरुषता।
घोष:-तर्हि परित्यज 'उत्तेजनाम्’।
गौरचन्द्र:-पूर्वमेव एतत् सङ्कल्पं स्थिरीकृतवानस्मि।
घोष:-त्वं सम्पूर्णतया शीतलावाहनमसि। तव मनसि नास्त्यात्माभिमान:। यस्य नास्त्यहङ्कार: तस्य जीवनं भारभूतम्, बाधामयम्।
गौरचन्द्रेण निश्चितम्-'एतदेव सम्यक्’। एतद् बुद्ध्वा तस्याहङ्कार: प्रादुरभूत्। अभिमानपरवश: स नालपत्कमपि। आरब्धवान् स हि 'गीतापाठम्’। मन्दाकिनी एतत्स्वाभाविकं परिवर्तनमालोक्य परिजहास। अभिमानोत्फुल्लं स्वामिनो वदनमण्डलं चुचुम्ब। गौर: प्रोवाच- ''मन्दा.! त्वं खलु रमणीरत्नम्। नावलोक्यते तव.......कापि।’’
''तुलना’’ शब्दो गौरस्य विस्मृतिसागरे निममज्ज।
मन्दाकिनी-तर्हि विमला?
गौरो नासिकामाकुञ्च्य मुखत: प्रावदत्-''नैतस्या: भवत्या सह तुलना।’’
किन्तु हृदये समपश्यत्-''अहङ्कारमध्ये, यदि परकीयं सुन्दरं वस्तु दृग्गोचरं भवति तदा मनसि क एको विलक्षणो भाव: समुदेति।’’
चपण्डुक:
(१)
चूडामणिमिश्रो विलक्षणप्रकृतेर्विद्वान्। दुरूहाणामप्रचलितानां च शब्दानां विचित्य विचित्य प्रयोगे तस्य महानभिनिवेश:। हेम-चन्द्र-हारावली-वैजयन्तीप्रभृतयो ये प्राचीना: कोषास्तेषामद्भुताद्भुतशब्देषु तेन रक्तचिह्नमेव कृतमासीद् यदिमे तत्तदवसरेषु प्रयोज्या इति। अभिधानसङ्ग्रहो हि मिश्रमहाभागस्य सदा सहचर एव बभूव, यो नानाविधटिप्पणीभिश्चित्रितस्तस्य चेतस्तरङ्गं बहुधा सूचयाञ्चकार। किं बहुना, भोगीन्द्र-कात्यायनप्रभृतयो ये वा चिरन्तना अप्रकाशिता: कोषास्तेषामपि शब्देषु बहुधा मिश्रमहाभागस्य प्रयोगानुग्रहोऽभूत्। व्याकरणस्याद्भुताद्भुतेषु धातुरूपेषु सन्धिषु समासेषु तस्य प्रतिभा तथा प्रववृते येन हि लोकविलक्षणानां वाक्यानां स हि सृष्टिमकार्षीत्। प्रगल्भा अपि पडितास्तत्प्रयुक्तवाक्यानां किञ्चिद्विचिन्त्यैवाऽर्थं बुबुधिरे। वैयाकरणोऽपि वराक: शब्दानां सन्धौ बहुधा बभ्राम।
अखिलभारते सुप्रसिद्धोऽयं राजकीय: संस्कृतमहाविद्यालय:। महाविद्यालयेऽस्मिन् दूरदूरतस्ते शिक्षार्थिन: समाजग्मुर्येषां हि सुदृढपाण्डित्यमभीष्टं न केवलमुपाधिपत्रप्राप्तिमात्रम्। परन्तु विद्यालयस्य प्रायो बहव एव विद्वांसो मिश्रमहाभागाद् बिभ्यति स्म-न कदाचिद्दुरूहप्रयोगेण दुरवसरेऽयं दु:खयेदिति। विद्यालयस्य वार्षिकोत्सवे विहितवक्तृताय वासुदेवविद्याविशारदाय प्रशंसन् प्रावोचन्मिश्रमहाशय:- 'निर्भरमचकादाहो’। विशारदवराकोऽर्थे व्यामुह्यन्नपि 'श्रीमतामनुग्रह:’ इति गोलार्थं गदन् स्वासने निषसाद। पृष्ठत: स्थितैर्विद्यार्थिभिस्तु पृष्टमेव वराकै:- 'मिश्रमहोदया:! वाक्यस्यास्य तात्पर्यं न ज्ञातम्। 'निर्भरमचका’ इत्यस्य कोऽर्थ:?
मिश्रमहोदय:-आहो (अहो) निर्भरम् अचकाद् अशोभत (भवान्)।
आसीत्पण्डितानां प्रमोदगोष्ठी। भोजनसमये सहसा प्रावदन्मिश्रमहोदय:- 'बृबूकमानीयताम्’। विस्मयमिश्रं हास्यमनुभवत्सु सर्वेषु सकौतुकमप्राक्षीत्पाण्डेय:- 'महाशय! किमिदं बृबूकम्?’। स्वर्गतानां श्रीमधुसूदनविद्यावाचस्पतिमहाभागानां 'वैदिककोष’शोधक: शाण्डिल्यो मध्य एव प्रत्यूचे-'जलवाचकोऽयं शब्द:, किन्तु सोऽयं वैदिक:, न लोके प्रयुज्यते।’
मिश्र:- तर्हि इरा-उदकमित्यादय: शब्दा अपि वेदे प्रयुक्ता:। अत एव बहिष्क्रियन्तामिमेऽपि लोकगोष्ठीत:?
जनार्दनो जनान्तिकमुवाच शाण्डिल्यम्- 'किमिति मुधा प्रगल्भसे,नाऽयमाग्रहिलो जातु मन्येत।
बालानां सरलसंस्कृतशिक्षणाय लिखिते पुस्तके 'रई’ (मन्थदण्ड) इत्यस्य संस्कृतानुवादमाह मिश्र:- 'क्षुब्धमिति’। मार्मिकै: पृष्टमपि-भाव! बालानां कृते नायं शब्द: सरल: स्यात्। न चायं तथा प्रसिद्धोऽपि। अमरोऽपि- 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके’ इत्येव तन्नामान्याह, नेदम्। किन्तु मिश्रमहाराज: सहुङ्कारं प्रत्यूचे-'क्षुब्ध-स्वान्त-ध्वान्तेत्यादि-पाणिनीयसूत्रे क्षुब्धमिति मन्थनदण्डस्य नाम किमिति तर्हि निर्दिष्टम्?
स हि सविस्तरं समर्थयते स्माऽपि यत् सरलानां प्रचलितानां च शब्दानां प्रयोगोऽपि किं पाण्डित्यं नाम? प्रौढिस्त्वियमेव यद्वयं वदामो लोकास्तु अस्मन्मुखप्रतीक्षिणो भवेयुरिति। मिश्रमहाशयो यत्र क्वचिन्नवीनं शब्दमश्रौषीत्त्वरितमिमं टिप्पणपुस्तकेऽलेखीत्। यावच्च शब्दस्यास्य प्रयोगं नाऽकरोत्तावन्नायं निर्वृतिमलभत। अध्यापनसमयेऽपि एवं विधानामेक-द्वशब्दानां प्रयोगो मिश्रमहाभागस्याऽनिवार्य आसीत्; यदाहि वराका विद्यार्थिन: केवलं परस्परं मुखनिरीक्षणमेवाकार्षु:। अर्थे जिज्ञासिते तु मिश्रमहोदयस्तान् सोत्प्रासं भत्र्सयामास-'हन्त ईदृशा अपि विद्यार्थिन: संस्कृतपण्डितानां सम्प्रति भाग्ये लिखिता:, इत्यादि। सर्वेऽपि विद्यालयस्य विद्यार्थिनो वराका दु:खमतिष्ठन्।
एकदा सदानन्द: कैलाशनाथश्चण्डीप्रसादश्चेत्येमे सम्भूय मन्त्रणामकार्षुर्यन्मिश्र-महोदयायाऽस्मिन् विषये काचन शिक्षाऽवश्यं देया स्यादन्यथा विद्यालयेऽस्मिन् वासो दुर्घट:।
कैलाशनाथेनोक्तम्- 'अहमस्मै शिक्षां त्वेवंविधां दद्यां यदयमाजन्मापि न विस्मरेत्, किन्तु भवदादीनां सहयोगोऽपेक्ष्यते। नैवं भवेद् यदयमभियोग: अध्यक्षमहोदयपर्यन्तं गच्छेत्, अहं च वराको निर्वासनपुरस्कारं लभेय। अध्यक्षो हि विदेशिषु पूर्वमेव वक्रदृष्टि:।
चण्डी-सदानन्दाभ्यां साग्रहं प्रतिज्ञातम्- 'आवां ते सहकारिणाविति’।
कैलाश:- तर्हि अवसर: प्रतीक्ष्यताम्। इत्थमहं शिक्षायेयं येन अप्रचलितशब्दप्रयोगस्य शपथमेव कुर्यात्। आमरणं च दुरूहं शब्दं न प्रयुञ्जीतैव वराक:।
(२)
हस्तगतोऽभूदवसर:।
तृतीयमन्तरमसूच्यत घण्टाघोषेण। समाजगाम मिश्रमहाशयस्याऽध्यापनकाल:। श्रेण्यां स्थितो मिश्रमहाशयोऽध्यापनमकरोत्, कैलाशस्त्वाकाशं निरैक्षत, यथा नाऽस्य सम्बन्ध: स्यादध्यापनेन।
मिश्रमहोदय: सोत्तेजनमाह्वयत्- 'कैलाश!’।
कैलाश:- (आकाशाद्दृष्टिं प्रत्याहरन्) 'श्रीमन्’।
मिश्र:- त्वं गगने किं पश्यन्नभू:?
कैलाश:- भवदध्यापनं शृण्वन्नभूवम्।
मिश्र:- मिथ्या त्वं भाषसे।
कैलाश:- (निर्विशङ्कं तथैव तिष्ठन्) सत्यमहं निवेदयामि।
मिश्र:- तर्हि वद, किं मयोक्तम्?
कैलाश:- श्रीमद्भि: प्रतिपादितम् अभिधामूला व्यञ्जना सा भवति, यत्र अभिधावृत्ति:-----अभिधावृत्ति:---।
मिश्र:- अभिधावृत्ति: किम्?
कैलाश:- (सवैलक्ष्यम्) मम चित्तवृत्ति: क्षणमात्रमन्यत्र.......
मिश्र:- भो: सत्यं वद.......
कैलाश:- अहं क्षमां याचे।
मिश्र:- हन्त त्वमद्यावधि सर्वेषु कर्मसु एडमूक एव निरीक्षित:।
कैलाश:- भविष्यत्यहं भवदुपदेशेन चपण्डुक: सेत्स्यामि।
मिश्रो नवीनं शब्दमाकर्ण्यचकितोऽभूत्। साभिनिवेशं प्रत्यवादीत्- 'किमुक्तं भवता?’
कैलाश:- अहं भविष्यति चपण्डुको भविष्यामि।
मिश्र:- कोऽस्य शब्दस्याऽर्थ:?
कैलाश:- य: चातुर्यपुरस्सरं स्वकर्मणि निविष्ट: स्यात्।
छात्रेषु दूरस्था मुखं परावृत्त्य, समीपस्थाश्च पुस्तकं व्यवधानीकृत्य हास्यवेगं गोपयाञ्चक्रु:। मिश्रमहाभागो हस्तस्थितं पाठ्यपुस्तकं सम्मुखस्थे पुस्तकाधारे न्यक्षिपत्, उच्चैरवदच्च-'चपण्डुक इति कोऽपि शब्द: संस्कृते नास्ति’।
कैलाश:- श्रीमतामविदितश्चेत्किमन्यो वराक: कुर्यात्। मया ह्ययं शब्द: कोषे दृष्टोऽस्ति।
मिश्रमहाभागो महताऽवधानेन मेधां परिचालयामास साहित्यसागरे, किन्तु निरुद्धप्रतिभ: प्रोक्तवानन्ते-'नाद्यावधि मया सोऽयं शब्द: श्रुत:?’
कैलाशस्य पुनरधिकं साहसमभूत्। प्रोक्तवानयम्- 'काशीतो महापण्डितैर्नवप्रचारितं 'दिव्यज्योति:’ पत्रं ह्य: पठन्नासम्, तत्रैवायं शब्दो मया व्यलोकि।
मिश्रमहोदय: सवैलक्ष्यक्रुधं शब्दमिमं निजटिप्पणपुस्तके व्यलिखत्, अपृच्छच्च- तस्य कोषस्य किं नाम?
कैलाश:- वाचस्पत्यं बृहदभिधानम्!
तृतीयान्तरस्य समाप्तौ त्रयोऽपि सुहृद: सममिलन्।
चण्डी.- भवताऽयं चपण्डुक: सम्यगन्विष्ट:।
कैलाश:- (हस्तस्थितं पुस्तकमास्फाल्य) अथ किम्। स जानाति नवनवान् शब्दानहमेव जाने। इदानीं कीदृशमुत्तरं प्राप्तम्?
सदानन्द:- स शब्दो लिखित्वा गृहं नीतोऽस्ति। अवश्यं कोषेष्वन्वेषणं भवेत्।
कैलाश:- क्रियतां गवेषणम्। वयमपि प्रगल्भामहे यदेक: शब्दोऽस्माभिरपि तेभ्य: शिक्षित:। आजीवनकालं कोषपृष्ठानि कामं परिवर्तयन्तु नाम। अहमपि पश्यामि कुतोऽयमन्विष्यते? अयं तु ममैव तावदाविष्कार:।
सदानन्द:- अये! भवता ईदृश: शब्द: निर्दिष्टो यो नास्त्येव संस्कृतभाषायाम्? तर्हि त्ववश्यं निग्रहो भावी। किं तदा उत्तरं प्रतिपत्स्यसे?
कैलाश:- अलं चिन्तया। तूष्णीं स्थिता: कौतुकं पश्यत।
चण्डी.- कदाचित्पाशपतितो न भवे:? अतीवाऽऽग्रहिलोऽसौ।
कैलाश:- यदि भवतां सर्वविधं साहाय्यं स्यात्तर्हिं अस्पृष्टो बहिर्मुच्येय।
सदानन्द:-एतत्कृते तु न चिन्ता कार्या।
(३)
अपरस्मिन्दिने श्रेण्यामागत्यैव कैलाशं सम्बोध्य प्रोक्तं मिश्रमहाभागेन 'वाचस्पत्यं बृहदभिधानं तु मत्सविधे नास्ति, किन्त्वन्येषु सर्वेष्वपि कोषेषु मया भूयोऽन्विष्टम्, स हि शब्दो नास्त्येव। वाचस्पत्यमभिधानं ते द्रष्टुमिच्छामि।’
कैलाश:- यद्गृहे तत्पुस्तकमासीत्तत्पण्डितस्य पुत्र: संस्कृतं विहाय सम्प्रति वैदेशिकभैषज्यं प्रयागेऽधीते। स मे मित्रम्, तदागमने एव तत्पुस्तकमानेतुं शक्येत।
मिश्र:- न किल जीर्णं तत्पुस्तकं तेन सहैव नीतं स्यात्। अत: किं गृहे तन्न शक्येत द्रष्टुम्? अस्तु कदा तद् द्रष्टुं शक्येत?
कैलाश:- दुर्गापूजाया अवकाशे, यस्य हि साम्प्रतमप्येकमासोऽवशिष्यते।
मिश्र:- कैलाश! अहं सर्वं ते भाषितं सम्यगवगच्छामि। चपण्डुक: कोऽपि शब्द: कोषे नास्ति। एकवारं मिथ्या समुदीर्य तत्कृते मिथ्याशतमिदं स्पष्टं कल्पयसि।
कैलाश:- (दृढतया) मैवं श्रीमन्।
मिश्र:- अस्तु । दशहराऽवकाशोऽप्यागमिष्यत्येव। तत्समये तत्पुस्तकं तस्मात्सङ्ग्राह्यम्।
मिश्रमहोदयस्य मनसि महान् क्षोभ आसीत्। विजयदशम्या अवकाशे समाप्ते, द्वितीयस्मिन्नेव दिनेऽप्राक्षीत्स:- 'अप्यागत: स ते सुहृत्? क्व तानि कोषस्य पत्राणि?’
कैलाश:- पत्राणि मयाऽवश्यमानीतानि, किन्तु मन्ये महेन्द्रस्य प्रकोष्ठके तानि विस्मृतानि।
मिश्र:- तर्हि छात्रावासो न विद्यालयाद्योजनान्तरित:। गत्वा त्वरितमेवानीयताम्।
कैलाश:- किञ्चिद्विलम्ब्यैव पराववृते तत्र।
मिश्र:- प्राप्तानि तानि पत्राणि?
कैलाश:- न। प्रकोष्ठकं तन्निबद्धतालकम्।
निरोधयत्ने कृतेऽपि जहसु: सर्वे छात्रा:।
मिश्रमहोदयो विषदिग्धोऽभवत्। दुग्धमुख एकश्छात्र: श्रेणीस्थानां सर्वेषां सम्मुखे एव मामयं प्रतारयति। अत एव क्रोधेनाऽवादीत्- 'भिन्धि तालकमिदम्’।
कैलाश:- तालकमूल्यं को दद्यात्?
मिश्र:- अहम्।
कैलाश:- तर्हि गच्छानि? तालकयन्त्रं त्रोटयानि?
कैलाश उत्त्थाय ततोऽगच्छत्। मिश्रमहाभाग: क्रोधाविष्टो नाऽऽसने स्थातुमशकत्। क्षोभेण श्रेणीभवने इतस्ततश्चङ्क्रमणमकार्षीत्।
कैलाश: सहसैव पत्त्राणि तान्यादाय तत्राऽऽगच्छत्। त्रोटितं च तत्तालकं पुस्तकाधारे न्यधात्।
मिश्रमहाभागो बृहदभिधानस्य पत्त्रेषु तेषु सावधानां दृष्टिं प्राहिणोत्। इतश्छात्रास्तु सर्वे निर्निमेषदृष्टयो मिश्रमहाभागमभ्यलोकयन्।
कैलाश:- श्रीमन्! अपि दृष्ट: स शब्द:?
मिश्र:- (आश्चर्येण) आम्, अर्थोऽपि च स एव दत्तोऽस्ति।
कैलाश:- श्रीमद्भिरुक्तम्- अहं मिथ्याभाषीति।
मिश्र:- किन्त्वाश्चर्यम्। अन्येषु कोषेषु काव्यादिषु वा नाद्याप्ययं शब्द: कुत्रचिद्दृष्ट:।
मिश्रमहाभागेन तालकस्य मूल्यं सार्द्धृ रूप्यकं तदैव तस्मै वितीर्णम्।
विद्यालयस्याऽवकाशे जाते सर्वेऽपि छात्रा: कैलाशं पर्यवारयन्। अकथयंश्च- 'त्वयाऽद्य दर्शितो विचित्रश्चमत्कार:।’
कैलाश:-नायं चमत्कार:, अयमप्येको ममाविष्कार:, किन्तु साम्प्रतं सर्वेषामपि व: साहाय्यस्याऽऽवश्यकता।
सर्वेऽपि सोत्साहमवदन्- 'वयं सर्वेऽपि भवन्तमनुसरेम’।
कैलाश:- अलमन्येन। अस्य शब्दस्य विषये यदि क्वचिद्भवत: पृच्छेत्तर्हि स्पष्टं निषिध्यत। इयं घटना यथा जातैव न, तथा सर्वमपि विस्मरत।
सर्वैरुक्तम्- 'वयं सर्वेऽप्यस्यां प्रतिज्ञायां सुदृढा:’।
(४)
मिश्रमहाभाग: साम्प्रतं नवीनस्याऽस्य शब्दस्य प्रयोगार्थमत्युत्कण्ठितोऽभवत्। दैवयोगात्तेषु दिनेषु महाविद्यालयस्यास्य वार्षिकोत्सव: सन्निहित आसीत्। तदुपरि नाट्यसंघेन नाटकाभिनयस्याप्यायोजनमक्रियत। तस्य च प्रबन्धो मिश्रमहोदयस्यायत्तोऽभूत्। अत एवैकदा कालेजाध्यक्षमहाभागाश्चूडामणिमिश्रमपृच्छत- 'नाटकस्य विषये साम्प्रतं का परिस्थिति:?’
मिश्र:- अशास्यते-श्रीमतामुपालम्भस्याऽवसरो न स्यादिति।
अध्यक्ष:- अपि सुरेन्द्रेण स्वीयोऽभिनय:सर्वोऽपि सज्जीकृत:? प्रगते ह्यभ्यासाभिनये स एव सर्वत: कुण्ठ: शिथिलश्चाऽवलोकित:।
नाधुना मिश्रमहाभागेन धैर्यं रक्षितुमपार्यत। स हि त्वरितं प्रत्यूचे- साम्प्रतं स एव चपण्डुक: प्राप्येत।
अध्यक्षश्चकित: सन्नपृच्छत्-'किमुक्तं भवता, स कीदृश: प्राप्येत?’
मिश्रेणाऽऽम्रेडितम्- 'चपण्डुक:।’
अध्यक्ष:- कोऽस्यार्थ:?
मिश्र:- यो हि चातुर्यपुरस्सरं स्वकर्मणि निविष्ट:।
अध्यक्ष:- अपि कस्मिञ्चित्पुस्तकेऽयं दृष्टो भवता?
मिश्र:-नैव। वाचस्पत्ये वृहदभिधाने विलोकित:।
अध्यक्ष:- तदभिधानमहमपि द्रष्टुमिच्छामि।
मिश्र:- अहं श्वस्तदानयेयम्।
मिश्रमहाभाग: स्वस्थानं समुपेत्यैव कैलाशमाह्वयत्, प्रावदच्च-'बृहदभिधानस्य तानि पत्राणि श्वोऽत्राऽऽनेयानि।’
कैलाश:- परं तानि पत्राणि तु मनोहरेण सह गतानि।
मिश्र:- स क्व गत:, कदा च परावर्तिष्यते?
कैलाश:- अध्ययनाय शर्मण्यदेशं गत: चतुर्वर्षानन्तरं परावर्तेत।
मिश्र:-अरे! एतत्तु विषममुपस्थितम्। (पुन: किञ्चित्कालं विचार्य) तद् 'दिव्यज्योति:’ पत्रं यस्मिन्स शब्द: पठितस्तदेवाऽऽनय।
कैलाश:- तत्कृते तु मद्गृहे महान् कलहोऽप्यभूत्। तद्धि बालकै: खण्डश: कृत्वा प्रक्षिप्तम्।
मिश्र:- भद्र! यथैव भवेत्तथा तदभिधानस्य पुस्तकमन्यत: कुतोऽपि सङ्ग्राह्यं भवता। अध्यक्षस्तद् द्रष्टुं काङ्क्षति।
कैलाश:- यदाज्ञापयन्ति श्रीमन्त:। यावच्छक्यमहं यतेय। श्रीमद्भिरपि चैष्टितव्यम्।
नगरे सर्वतोऽप्यन्विष्यंश्चूडामणिमिश्रो वङ्गीयपण्डितस्यैकस्य गृहे वाचस्पत्यमभिधानमलभत। अहो ईश्वरेण सङ्कटो निवर्तित इति, स हि परमं प्रासीदत। किन्तु यदा तत्स्थलं दृष्टं तदा विस्मयस्य नाऽऽसीत्परिसीमा। सर्वोऽपि पूर्वदृष्टो विषयस्तत्रैवासीत् किन्तु चपण्डुकशब्द: स तत्र नासीत्। अतीव व्यामोहे न्यपतद्वराक:। प्रसङ्गस्याऽसम्भवेऽपि पुस्तकस्य प्रत्येकपत्रं निरैक्ष्यत ।
विद्यालये समागत्यैव कैलाशमन्यान्यांश्च विद्यार्थिनस्तदेतस्य शब्दस्य विषये बहुतरमपृच्छत्, किन्तु सर्वेऽप्यभूतपूर्वं विस्मयं प्रकाशयन्त: प्रत्यवदन् 'नैवंविध: शब्दोऽस्माभिज्र्ञात:, न वा पठित:, न च श्रुत:।’
मिश्रमहाशय: क्रोधेऽग्निशर्माऽभूत्, किन्त्वासीत्परवश:। कस्य किं कुर्यात्? विद्यालयस्य सम्पूर्णेऽपि कार्यकाले अध्यक्षस्य साम्मुख्यं यत्नेन पर्यहरत्। मनसि सभयमचिन्तयत्- 'चेदध्यक्षमहोदयो बृहदभिधानं दद्याचेत्तर्हि किमहं कुर्याम्?
(५)
विद्यालयस्य मध्यविश्रामे पुण्डरीकपाण्डेयोऽपृच्छत्- 'अयं चपण्डुक: कुत: समाहूत:? अस्मादादिभिस्तु नायं शब्द: कदाचिदाकर्णित:।’ मिश्रमहोदयोऽतीव चकित: सन्नपृच्छत्। 'केनाऽयं शब्दो भवते सूचित:?’
पाण्डेय:- बहवो विद्यार्थिन: समागत्याऽपृच्छन् प्रावदंश्च यदयं शब्दो भवत्सकाशाच्छ्रुत इति। मम विचारे नायं शब्द: संस्कृतभाषायां कुहचित्प्राप्येत। भवता क्वायं दृष्ट:?
मिश्रस्तूष्णीमासीत्। एतावतैव, अध्यापकचिन्तामणिचतुर्वेदस्तात्राऽऽगमत्। सोऽप्यपृच्छत्- 'अहह मिश्रमहोदय! चपण्डुकाख्या केयं नवीनाऽऽपत्?’
मिश्रमहोदयो रूक्षतयाऽवदत्- 'नाहं जानामि।’
चतुर्वेद:- अतीव विस्मयकरमिदम्। भवान्नवीनमेकं शब्दं पूर्वं जल्पति पश्चाच्च निषिध्यति-नाहं जानामीति।
मिश्र:- क: कथयति यदयं शब्दो मया प्रवर्तित इति?
चतुर्वेद:- आचार्यश्रेण्या विद्यार्थिनो वदन्ति।
मिश्रमहोदयस्य नेत्राभ्यां स्फुलिङ्गा इव वर्षिता:। सोऽवदत-'ते सर्वे धूर्ता: सन्ति। मुधाऽपवदन्ति माम्।’
मिश्रमहोदय: सङ्कटादस्माद्यथाकथञ्चिदात्मानमवमोच्याऽवकाशसमये गृहं गच्छन्नासीत्। एतावतैवाऽध्यक्षमहोदय: सम्मुखेऽमिलत्, किन्तु अनुकूलदैववशान्न किञ्चिदप्राक्षीदसौ।
यथैव मिश्रो विद्यालयाङ्गणं गच्छति तथैव उपाध्यायश्रेण्या ग्रामीण: कश्चिद्विद्यार्थी समागत्याऽपृच्छत् 'माननीया:! चपण्डुकपदस्य कोऽर्थ:?’
मिश्र: सिंहगर्जनयाऽवदत्- 'तव शिर:।’
परप्रेरणया समागतो विद्यार्थ्यसौ ह्रीत-भीतोऽभवत्।
मिश्रमहोदयो यथैव गृहमुपागच्छत्तथैव भृत्य: पत्रमेकं तद्धस्तेऽदात्। आसीत्तत्र लिखितम्- 'प्रिय चपण्डुकमहोदय!’ इतोऽग्रे नाऽशक्नोत्पठितुमयम्। पत्रस्य खण्डखण्डान्यकरोत्।
महाविद्यालयस्याऽस्य विद्यार्थिभिर्नवीनमिदं कौतुकं हस्तगतमक्रियत। यत्र यत्रैव मिश्रमहाभागोऽव्रजत्तत्र तत्रैव परस्परमिङ्गितेनाऽसूचयन्- 'इमे चपण्डुकमहोदया गच्छन्ति’। विद्यालयभवनस्य कापि भित्तिरेवंविधा नासीद्यत्र चपण्डुकशब्दो नाङ्कित: स्यात्। शनै: शनैरन्येषां विद्यालयानां छात्रा अपि वृत्तमिदमविदन्। एकदा कस्यचिद्विद्यार्थिन: पत्रमध्यक्षस्य सविधे समागच्छत् 'अहम् अध्यापकचपण्डुकमहोदयस्य सेवायां पुस्तकमिदमुपहर्तुमिच्छामि’ इति।
एकदा चलच्चित्रपटदर्शनाय समगच्छत मिश्रमहोदय:। तत्र मध्येभवनमेव सर्वैरेव विद्यार्थिर्भिहर्षनादोऽक्रियत-'धन्यवाद: श्रीचपण्डुकमहोदयाय’। वराकस्य मिश्रस्य गृहाद् बहिर्नि:सरणमपि दुष्करमभूत्।
अन्ते कण्ठागतप्राणेन मिश्रमहोदयेनैकदा रहसि कैलाशमाहूय प्रोक्तम्-'कैलाश! त्वं मे शिष्य:, अहं च ते गुरु:। एवं सत्यपि साम्प्रतं मित्रभावेन त्वां पृच्छामि-किमिदं रहस्यम्। बृहदभिधानस्य पुरातनेषु तेषु पत्रेषु मया स्वयं निजनेत्राभ्यां स शब्द: स्पष्टं विलोकितोऽभूत्। परमिदानीं कस्मिन्नपि तत्पुस्तके स शब्दो नाऽऽलोक्यते। किमिदमिन्द्रजालम्?’
मिश्रमहोदयस्य दैन्यभावेनानेन कैलाशस्य चित्तं सम्प्रति बलाद् दयापरवशमक्रियत। स हि निर्भयभावेनाऽवादीत्- 'सत्यं त्विदमस्ति यद् वृहदभिधाने न कोऽपि चपण्डुकशब्दोऽस्ति। मया ह्येकस्मिन् मुद्रायन्त्रालये प्रबन्धं कृत्वा एकपुटका (फार्म) त्मक: स कोषो नवीनतया मुद्रापितो येन हि प्रकरणानुसारी स शब्द: सन्निविष्ट: स्यात्। पुस्तकस्य अक्षरसञ्चिकादिकं सर्वमपि प्राचीनपुस्तकवन्न्यवेश्येत येन व: सन्देहो न स्यात्।’
मिश्र:- एकमन्यदपि ज्ञातुमिच्छामि....
कैलाश:- (विनयेन नतवदन एव) तदपि निवेदयामि। इदं सर्वमेतदर्थमायोज्यत यद् वयं सर्वेऽपि नवनवशब्दान्वेषणव्यसनितया भवतामतीवाकुला अभूम।
मिश्र:- कथय कथय। किमिति मध्ये विरमसि। एतदर्थं यदहं व्यसनमिदं परित्यजेयम्?
कैलाश:-आम्, श्रीमन्! सम्प्रति क्षम्यताम्। नाग्रे कदाचिदेवमविनय: स्यात्।
मिश्र:- अस्तु, प्रतिपदवकाशदिने मद्गृहे भोजगोष्ठ्या: प्रबन्धोऽस्ति। भवानपि तत्र सङ्गच्छताम्।
कैलाश:- अहमेकाकी नागन्तुं शक्नुयाम्। चण्डीप्रसादसदानन्दावपि सहचरौ स्याताम्।
मिश्र:- किमर्थम्?
कैलाश:- अस्मिन्कर्मणि तावपि समस्वत्वाधिकारिणौ। मुद्रणव्ययोऽपि ताभ्यां सोढ:, श्रेण्या अन्ये विद्यार्थिनोऽपि ताभ्यां वशीकृता:।
चिन्तापगमेन लघूकृतचित्तश्चूडामणिमिश्र: सस्मितमवोचत्-'भवत्वेवमपि। किन्त्वपूर्वमिदं शिखित्रयं निजगृहे स्वयमहमामन्त्रयामि। शिव: शिवं विधेयात्।’
शिष्या
(१)
संस्कृतसाहित्यसम्मेलने समागतानामस्माकं व्यत्युस्त्रीणि दिनानि। नैतेषु दिनेषु चिराद्दिदृक्षितापि वाराणसी केनापि सुहृदा विलोकयितुमशक्यत। दिने सम्मेलनम्, रात्रौ विषयनिर्वाचिनीति चर्याचक्रेणैव सम्पूर्णसमयस्य चूर्णनमक्रियत। गङ्गास्नानसमये विश्वेश्वराऽन्नपूर्णादिदर्शनं यत्किञ्चिदभूत्तदेव वाराणसीसमागमनसाफल्यममन्यत मनसि। किन्तु चिराददृष्टानां नानानगरेभ्य: समागतानां मित्राणां संलापसौख्येन सर्वाऽपि विनोदसामग्री साङ्गोपाङ्गा समपाद्यत। अस्तु ,तृतीयादिने यथैव सम्मेलनकार्यसमाप्तिर्जाता तथैवास्माकमावासधर्मशालाया दृश्यमेवाऽन्यादृशमभूत्। स्थाने स्थाने गृहयात्रार्थं स्रस्तरादीन्यबध्यन्त। कश्चित्पेटिकां पूरयति, तह्र्यन्य: पत्र-पुस्तकादीनि निबध्नाति। बहूनां कोष्ठकद्वारे तु अश्वशकटिरप्यागता यामास्थाय ते धूमशकटिदर्शनार्थमातुरा बभूवु:।
इतोऽस्माकं मण्डल्यामपि यात्रालहरि: प्रावर्तत। सर्वत: पूर्वं रमेश इतस्ततो विकीर्णानि निजवस्तूनि सञ्जग्राह। जयकान्तस्तदिदमालोक्याऽवोचत्-'कथं रमेश! किं रात्रेर्मन्त्रणा न मनसि संलग्रा? इयद्धनव्ययं कृत्वा समायातोऽस्येतावद्दूरम्, तर्हि कञ्चिद्विनोदमप्यनुभव। दिनद्वये न संसार: शून्यो भवेत्।’
रमेश:-किं करोमि सखे! कालेज: कालयति।
''अरे कालेजोऽपि काले कस्मैचित् कालाय कमप्यवकाशं ददात्येव। किमित्यन्यथा नियतदिनानामवकाशो नियत:?(अध्यापको वत्सरे, मासस्यैकस्याऽवकाशं प्राप्तुं शक्नोति।) किं वयं सर्वे निष्कर्माण:।’’
आसन् सर्वेऽपि तस्मिन्समये उत्कर्णा:। अत एव संलापशब्दं श्रुत्वैव सुहृन्मण्डल्यास्तत्रैवाऽधिवेशनमभूत्। हरिहर: समुत्त्थाय सपरिहासमवदत्- ''समित्यामस्यां ममैक: प्रस्तावोऽस्ति यदस्माकं प्रियसुहृत श्रीमान् रमेशचन्द्रमहोदय: स्वदेशयात्राया: पवित्रे कार्ये संलग्नोऽस्ति। अत एव तत्रभवन्तोऽस्मिन् साहाय्यं सम्पादयन्त्विति’’।
मनोहर:-'अहं हृदयस्यान्तस्तलेन तदेतत्समर्थयमान: साहाय्यकार्यस्य प्रारम्भमेव कर्तुमिच्छामि। भो रमेश! देहि ते वस्तुस्तूपम्, यावत्सज्जयामि’ इति ब्रुवन् बन्धनरज्जुं विस्रस्य स्रस्तरं विस्तारयामास। एक: सुहृत्तदुपरि निषसाद।
जयकान्तेनोक्तम्-''वस्त्रप्रावृतेषु सर्वेषु भवत्सु निरावरणाङ्गो 'हंसमध्ये बको यथा’ नाहं शोभे।’’ इत्युक्त्वा रमेशस्य राङ्कवं(दुशाला।) गात्रे प्रावारयत्।
गोपेश:-वावदूकानां सम्मेलने शुष्ककण्ठस्य न मे निर्वाह:। भवतु, जलेनैव तावत्कण्ठमार्द्रीकरवाणीत्युक्त्वा कूपाज्जलाहरणाय रमेशस्य पात्रं गृहीत्वा प्रकोष्ठाद्बहिरभवत्।
रमेश:-ज्ञातं मया यन्मूर्तिमत्सु शुभशकुनेषु श्रीमत्सु समुपस्थितेषु मम यात्रा न सेत्स्यतीति। किन्तु भवन्त: किं चिकीर्षन्तीति नाद्यापि बुध्यते।
गोविन्द:-किं चिकीर्षाम इति तु कार्यकाले ते सम्यग् विदितं भवेत्। परं वयं सर्वे 'शकुना:’(पक्षिण:, 'शकुनिशकुन्तशकुनद्विजा:’ अमर:।) इति भवता प्रोक्ते, क: कीदृश: शकुन इति जिज्ञासा तावदुदेति।
गोपेश:-अवश्यं रमेश: 'शुक:’, सुहृत्प्रीतिं विस्मृत्य 'तोताचश्मतया’ पलायमानत्वात्।
हरिहर:-जयकान्त: अवश्यं 'कान्तैका’, कलकण्ठतया च कलितनीलावगुण्ठनतया च तथैव प्रतीयमानत्वात्।
इदानीं सर्वेऽपि जयकान्तं वेष्टयामासु:। जयकान्त: सर्वेषामपेक्षया वयसि लघुर्गौरनिर्लोमशरीरो मृदुलगात्रयष्टिश्चासीत्। अत एव सर्वेपि तम् 'कान्ता’ इति मित्रप्रीत्या परिजहसु:।
रमेश:-अस्तु- विरमतु परिहास:। इदानीं निश्चीयतां किं वाऽस्यां यात्रायां चिकीर्षितम्? यदि कश्चिन्मनोविनोद: स्यात्तर्हि तु विलम्बोऽपि स्थाने। अन्यथा व्यर्थमेव कार्यक्षति: कस्मै फलाय स्यात्?
गोविन्द:-दृश्यताम्, मित्रगोष्ठ्यां परिहासो यदि विरमति तर्हि तु प्रस्थीयतामस्मिन् क्षण एव सर्वैर्गृहं प्रति, न कस्यापि कार्यक्रमस्यावश्यकता। इह हि सर्वत्रापि परिहासोऽनुस्यूतो भवेत्। 'मुहुर्रम’ मूर्तिर्न कश्चिदिह दृश्यते। अस्तु, भवत्प्रस्तावाक्षरेषु एतावन्मात्रमेव मे परिशोधनमासीत्, इदानीं निश्चीयतां यथेच्छं कार्यक्रम:।
वाद-विसंवादैरिदं निश्चितमभूत् यत्सम्प्रति दिनद्वयं स्थितिर्भवेत्, तत्रैकदिवसेन वाराणसीदर्शनम्, एकेन च वासरेण मध्ये प्रयागदर्शनं क्रियेत। तत्र प्रयागे मनोविनोदस्य प्रबन्धस्तन्नगरवासिना गोविन्देन कर्तव्यम्। सोऽयं च विनोदो यावच्छक्यमभूतपूर्व: सदा स्मरणीयश्च स्यादिति सर्वेषामेकमुखेन प्रस्ताव: समभूत्।
कार्यनिर्वाचनसमितेरस्या विसर्जनोत्तरं यथैव सर्वे आवश्यककार्येषु समलगन् तथैवाऽकस्माद् जयकान्तनाम्रा(टेलिग्राम:।) तडिद्वृत्तमुपालभ्यत। यत्रासील्लिखितम्- (अतिशीघ्रमागम्यताम्)’। नासीत्कार्यस्य निर्देश:। न केवलं जयकान्तस्यैव, अपि तु सर्वेषामेव मनसि चिन्तारेखेवोत्कीर्णा। अस्तु, निजवस्तूनि सज्जीकृत्य त्वरिततरमेव जयकान्त: कान्हपुरं प्रास्थित। नैतादृशे समये तं प्रतिरोद्धु कस्यचिन्मन: प्रावर्तत।
यावच्छक्यं काश्या: सुप्रसिद्धानि स्थानानि दृष्ट्वा सायं यदा वयं निवासस्थाने समागतास्तदा गोविन्दचन्दे्रण प्रोक्तम्-'यदि सर्वेषामनुमतिर्भवेत्तर्हि अहं भवद्भय: पूर्वगामिना वाष्पयानेन प्रयागं यामि, येन तत्र सर्वेषां वो निवासादिप्रबन्धं यथावत्सम्पादयामि। भवद्भिस्तु अपररात्राऽऽगामिन्या वाष्पशकट्या यथानिश्चयमागन्तव्यमिति।’
केषुचिन्मित्रेषु विमतेष्वपि, सुहृन्मण्डल्या एव कार्यमिति कृत्वा बहूनामस्मिन्ननुमतिरप्यजायत। अत एव बहुमतानुरोधेन गोविन्दचन्द्र: पूर्वमेव प्रयागं प्रातिष्ठत।
(२)
गोविन्दचन्दे्रण स्वगृह एवास्माकं निवासप्रबन्धो व्यधीयत। आसीत्तद्गृहमतिविस्तीर्णं विशालं च। नीचै:खण्डस्याऽऽस्थानभवनेऽस्माकं सर्वेषामावासोऽभवत्। उपरिखण्डे तु गोविन्दस्य पारिवारिकनिवासोऽभूत्।
त्रिवेणीस्नानं कृत्वा प्रयागस्यावश्यकावश्यकस्थलेष्बभ्रमाम। एकस्य परिचितमित्रस्याऽऽग्रहान्माध्याह्निकभोजनमपि सर्वेषां तद्गृह एव समपद्यत। अत एव भोजनादितो निवृत्ता वयमपराह्णेऽपि भ्रमणक्रमं नाऽत्यजाम। प्रसिद्धप्रसिद्धस्थानानि दृष्ट्वा यदा वयं न्यवर्तामहि तदाऽप्यासीत्सायंकाले विलम्ब:। अत एव सर्वेषामिच्छानुसारं नौकारोहपूर्वकं 'सङ्गम’ दर्शनं निरधार्यत। नौकामारुह्य सलिलकणशिशिरं मारुतमासेवमानेषु सर्वेषु मनोहरेणोक्तम्-'कथय रमेश! त्वादृशस्य मारवजीवस्य भाग्ये यदेतत्सुखमघटत तत्पुण्येऽस्माकमधिकारोऽन्यस्य वा?’
रमेश:-वासन्तिकरात्रौ प्रतीक्षापरस्य कस्यचित्कोमलजीवस्य दीर्घनि:श्वासानां दायभागपि भवानेवास्ति, अन्यो वा?
गोविन्द:-स जीव: कोमलोऽस्ति कठोरो वा इति तु दूरस्थितानां नास्कमाकं विदितम्, परं कामसूत्रपण्डित: स जीव इति त्वनुमिनुम:।
मनोहर:-अयि भो: किमेतत्? कथमिदमनुमितम्?
हरिहर:-रमेशस्य कपोलस्थितैर्नखक्षतै:।
सर्वेऽपि जहसु:।
गोविन्द:-नहि नहि। रमेशस्य मतमस्ति यत्पण्डितपत्नीभि: संस्कृतमवश्यमध्येयं तत्रापि च कामसूत्रम्।
गोपेश:-तर्हि तत्परीक्षा कुत्र भवेत्?
गोविन्द:-प्राचीनमिदं शास्त्रम्। अत एव प्राचीनरीत्या गृह एव परीक्षाप्रबन्ध: कर्तव्य: स्यात्।
गोपेश:-प्रबन्धो गृहे वा भवतु, रमणीये कस्मिञ्श्चिदुपवने वा एतन्न मे प्रष्टव्यम्। किन्तु परीक्षक: काशीकलकत्तादिसुप्रसिद्धपीठस्थो भवेदन्यो वा?
गोविन्द:-नहि नहि। 'हाउस एग्जामिनेशन (गृह्यपरीक्षा)’ नियमेन अध्यापक एव परीक्षायामधिकृतो भवेत्। कथं भो रमेश! एतदेव न?
हरिहर:-अहो त्रिवेणीतटे कीदृशी पुण्यचर्चा परिचालिता पण्डितै:। कुतो न स्यात्, सुसभ्या: संस्कृतपण्डितास्तावत्! अत एव हि स्वरुचेरनुसारमादर्श उपस्थाप्यते।
गोपेश:-आदर्शस्तु भवता उपस्थाप्यतां नापितेन(दर्पणं दर्शयित्वा मेलकादिषु नापितेन पारितोषिकं प्राप्यत इति राजपुत्रदेशाचार:।) वा। अत्र तु वसन्तोत्तेजितस्य मनसो विनोद: क्रियते।
हरिहर:-अहह गृहादागतानां दिनान्येव कति व्यतीतानि, यद्वसन्तोत्तेजनापि समजायत।
अस्तु. सान्ध्यभ्रमणं कृत्वा यदा वयमावासं प्रतिन्यवर्तिष्महि तदा समभवद्भूयान् विलम्ब:। गोविन्दस्य गृहजना भोजनसामग्रीं सज्जयित्वाऽस्मत्प्रतीक्षायामतिष्ठन्। यथैव वयं गृहमागमाम तथैवास्मानुपरि (तृतीयखण्डे) समाहूय साङ्गोपाङ्गं भोजनमकारयन्। भोजनं निर्वर्त्य उपरिखण्डात्सोपानमवतरद्भिर्दृष्टमस्माभिर्यद् मध्यमखण्डस्य प्रसाधिते एकस्मिन् प्रकोष्ठके स्थितो गोविन्दस्ताम्बूलानि सज्जयतीति। तस्मिन् कक्ष्ये गोविन्दस्य पारिवारिकं जनं कञ्चिददृष्ट्वा एकाकिनं गोविन्दमेव च ताम्बूलान्युपयुञ्जानमालोक्य ताम्बूलत्वराकुलो हरिहरस्तत्सविधे गत्वा तद्धस्तात्ताम्बूलमाच्छिद्य सविनोदमभ्यवजहार।
एतस्मिन्नेव समये जवनिकाऽऽच्छन्नाद्भवनान्तरान्नि:सृत्य सुन्दर्येका गोविन्दस्य चरणयो: सविनयं प्राणमत्। कृतमुखावगुण्ठनामेनामालोक्य 'गोविन्दस्य काचित्पारिवारिकमहिलेयम्’ इति मनसि सङ्कुचन् हरिहर: प्रत्यागन्तुमैच्छत्। परं गोविन्दोऽवगुण्ठितामेतामवदत्-'एते उज्जयिनीनिवासिन: प्रसिद्धा: संस्कृतपण्डिता:। साहित्याचार्या: मम मित्राणि’।
सा तु संयोजितकरद्वया अतिविनतगात्रयष्टिर्हरिहरमपि सादरं प्राणंसीत्। तस्या आकारप्रकारयोर्भक्तिर्विनय: सौष्ठवं च सुस्फुटमस्फुरत्। हरिहरस्तु किञ्चित्सङ्कुचितश्च विस्मितश्च सुप्रीतश्च स्तब्धमतिष्ठत्।
व्यतिकरमिमं दृष्ट्वा नीचैस्तलं गच्छन्तो वयं सर्वेऽपि मध्येसोपानमेवाऽवातिष्ठामहि, कौतुकपरवशो न कश्चिदपि नीचैर्गन्तुं प्राभवत्। गोपेशेनोक्तम्-'मन्ये, गोविन्दचन्द्रस्य काचित् पोष्यसम्बन्धे वधू:। अथवा, इदानीमेव परदेशादागता काचित्सम्बन्धिनी। अत एवाऽत्राऽस्माकमवस्थितिर्नोचिता।’
मनोहर:- धन्योऽसि! यदि पोष्यसम्बन्धिनी, तर्हि हरिहरेण सह परिचयस्य कासीदावश्यकता? गोविन्दस्य यत्र कुटुम्बस्त्रियो निवसन्ति, तत्र न कृत्वा अत्र प्रणामस्य वा कोऽभिप्राय:?
रमेश:- यत्किञ्चिदस्तु। ताम्बूलमत्रैव गृहीत्वा गमिष्याम:।
इत्युक्त्वा स हि गोविन्दाधिष्ठितस्य विस्तीर्णस्यास्य सौधपृष्ठस्य एकस्मिन् कोणे गत्वा तस्थौ। वयमपि सर्वे तमनुसरन्तस्तत्पार्श्वगा अभवाम। रमेशेनोक्तम् 'कथं हरिहर! एकाक्येव ताम्बूलं प्रहीष्यसि?’
हरिहर:- अवश्यमेवेदं भावि। यत: सम्प्रति गोविन्दो द्विभुज एव ताम्बूलवीटिका: सम्पादयति ततो यथाक्रममेव ताम्बूलानि लभ्येरन्, न तु खलेकपोतन्यायेन।
दृष्टमस्माभिर्यत् प्रणामपर्यस्तगात्रयष्टिर्विनय-सङ्कोचावनतवदना सेयमवगुण्ठिता गोविन्दस्याऽऽज्ञां प्रतीक्षमाणेव पार्श्वतस्तिष्ठति। आसीत्तस्मिन् समये पार्श्वप्रकोष्ठके हरितवर्णो विद्युत्प्रकाश:। यो हि द्वारमुखादागत्य अनावृत्तेऽस्मिन् सौधपृष्ठेऽपि प्रतिफलति स्म। अत एव परिमित-मधुरे प्रकाशे स्थितया अस्या वस्रच्छटा साधारण्यपि हारिणीव संवृत्तासीत्। साधारणमूल्यत्वेऽपि स्वच्छसुन्दरसूक्ष्मवसननिर्मितमध: परिधानीयम्। उपरि च हारि-हरितवर्णं सूक्ष्मसुन्दरमुत्तरीयवस्त्रं प्रावृतम्, अग्रतोऽवलम्बितेन येनास्या वदनं साम्प्रतमवगुण्ठितमभूत्। परं वस्त्रस्य सूक्ष्मतया तन्मध्यतस्तद्गात्रसुषमा स्फुटमभित: प्रसरन्तीवाऽऽसीत्।
आसीत्सा गौर-सुन्दर-सुघटितसर्वावयवा। अतएवैतस्मिन्नुज्ज्वले विद्युत्प्रकाशे सूक्ष्म-हरितवस्त्रान्तरात्परित: स्फुरितं तल्लावण्यं प्रकटमिव प्रतीयते स्म। वस्त्रान्तरात्प्रतिफलितानि विरलानि भूषणानि सान्ध्यतमसि नक्षत्राणीव प्रतिभासन्ते स्म। किशोर्या अस्या वय:क्रमोऽष्टादशवर्षेभ्यो नासीदधिक:। अत एवोज्जृम्भमाणनवयौवनमांसलेऽस्या वक्षसि निबिडनिबद्धा पाटलकौशेयकञ्चुलिका उत्तरीयवस्त्रान्तरितापि स्वाच्छाद्ययोरुत्तुङ्गतामनक्षरं घोषयन्त्यासीत्।
(३)
वसन्तयामिन्यामस्यां नवयौवनामिमामालोक्य रसभावनापरिनिष्ठित: सर्वोऽप्ययमस्माकं सहृदयसमाजश्चकितचञ्चलोऽभवत्। प्रत्येकमनसि नानाविधा विचारतरङ्गा: प्राचलन्, किन्तु गोविन्दस्य काचित्पारिवारिकमहिला न भवेदिति सन्देहेन संदानितो वाञ्छन्नपि न कश्चित्कञ्चित्किमपि वक्तुं प्राभवत्। एतस्मिन्नेव समये आज्ञां प्रतीक्षमाणायै अस्यै प्रोक्तं गोविन्देन-'मालति! अद्य नास्मिन् समये भवत्या: पाठनं सम्भवेत्।’
मनोहर:- अरे एतत्किम्! इयं गोविन्दस्य शिष्या? किञ्च, 'एतस्मिन् समये’ इति किं रात्रौ पाठो भवति?
इतो हरिहरेणातीव सभ्यतया पृष्टम्-'किं श्रीमती किञ्चित्पठति?’
गोविन्द:- आम्। एतस्या अस्मत्प्रतिवेश एव निवास:। एतस्मिन्समये इयं मत्त: किञ्चिदभ्यस्यति।
हरिहर:- किं भवत: सजातीया श्रीमती?
गोविन्द:- नहि नहि। वैश्यजातीया सेयम्। अस्मत्प्रतिवेशे य: श्रेष्ठिमहोदयो निवसति तत्पुत्रवधूरियम्।
गोपेश:- काञ्चिल्ललितकलां शिक्षते, उत हिन्दीभाषादिकम्?
गोविन्द: प्रश्नाकूतं परिजानन्नपि धैर्येण संवृत्त्य गभीरभावेनोत्तरयामास-'सम्प्रति संस्कृतं पठति।’
सर्वेषां परमं कौतुकमभूत्। मनोहरेण पृष्टम्-'अपि संस्कृतम्! सम्प्रति किमधीते?’
गोविन्द:- अधुना काव्याध्ययनमारब्धम्।
सर्वेषामुत्तरोत्तरं कौतुकवृद्धिरभूत्। श्रेष्ठिन: पुत्रवधू:, संस्कृतं चाधीते। स्फुरन्नवयौवनया चानया सम्प्रति काव्याध्ययनमुपक्रान्तम्। रात्रिश्चाध्ययनकाल इति भूरि भूरिकौतुकायाऽऽसीत्, किन्त्वपरिचितै: सहसा कथं प्रष्टव्यमिति सङ्कोचोऽर्गलायितोऽभवत्। अस्तु, गूढोक्तिचतुरेण मनोहरेण प्रसङ्गं परिचाल्य युक्त्या पृष्टम्- 'अहो साधीयसी उन्नतिर्जाता। कियन्ति वर्षाणि जातानि?’
गोविन्द:- इयं त्रयोदशवर्षीयाऽऽसीत् तदानीमेवाऽनया मत्सविधे संस्कृतभाषा प्रारब्धासीत्। सम्प्रति पञ्चवर्षाण्यतीतानि।
मनोहर: - कथं सहसैव संस्कृताध्ययनस्य योग्यताऽभवत्?
गोविन्द:- नहि। इयं हिन्दीभाषायां पूर्वत एव शिक्षिताऽभूत्। पितृगृह एवास्यास्तावती योग्यताऽभवद्यथा हिन्दीभाषाया: साहित्येऽस्या: समुचित: प्रवेशोऽभवत्। इह तु धर्मानुरागी श्रेष्ठिमहोदय: संस्कृत-स्तोत्रादिकमेव पाठयितुमैच्छत्।
मनोहर:- श्रेष्ठिमहोदयस्य धर्मानुग: सत्यं पुन: पुन: प्रशंसार्ह एवास्ति यो हि वयस्थामपीमां स्तोत्रपाठकर्मठां द्रष्टुमैच्छत्। इतो भवतोऽपि विद्यानुरागो न नाम न्यूनमभिनन्दनीयो यो हि स्तोत्राणां स्थाने औचित्यानुरोधात्सरसकाव्यानां पाठनमेवारेभे!
संलापक्रम: शनै: शनैर्विकासोन्मुखो जायत इति मध्ये एव प्रसङ्गं परिहरता प्रोक्तं गोपेशेन-'सत्यमेव श्रेष्ठिमहोदयस्य न केवलं धर्मोत्साह एव, अपि तु हृदयदार्ढ्यमपि प्रशंसनीयमस्ति यत्प्रतिवेशस्य वधू: सत्यपि श्रीमती भवत: समीपे निर्विशङ्कं पठितुमायाति।’
हरिहर:-साम्प्रतिकलोकानां पक्षे तु नेदं नवीनम्, किन्त्ववरोधप्रथापक्षपातिनां परिवाराणां विषये अवश्यमिदं दृढतास्थानम्। विशेषतश्च, श्रीमत्या मुखावगुण्ठनमिदं प्रश्नस्यावसरमुपस्थापयति।
गोविन्द:-सम्यगिदम्। परमस्माकं च श्रेष्ठिमहोदयस्य च परिवारयो: पारम्परिक: परस्परसम्बन्ध:। विशेषतस्तु, मत्पत्न्या: श्रीमत्यां प्रचुर: स्नेह:। अत एवोदार-धार्मिकेण श्रेष्ठिमहोदयेन समये सति स्तोत्राध्यापनं मय्येव निसृष्टम्।
गोपेश:-तर्हि रात्रिकालिकमिदमध्यापनं कथं प्रारभ्यत?
गोविन्द:-दिवा जीविकाकार्यव्यासक्तस्य न मेऽवसरो भवति। इयमपि च गृहकार्यव्यग्रा तिष्ठति। अत एवायमेव समय: प्राप्यते।
मनोहर: - को दोष:। भवत: श्रीमती इयं च श्रीमती यदा वयस्ये, तदा य: कोऽपि समयोऽस्तु। का बाधा?
एतदुपरि महेशेन मनोहरस्य पृष्ठमतिनिभृतमामर्दितं यत्किमिदं करोषि, भद्रमहिला मनसि किं कथयिष्यतीति।
गोविन्दस्तु व्यङ्ग्यमिदं बुद्ध्वापि अजानन्निव सरलं प्रोवाच- 'वयस्या तु नास्ति, इयं हि मत्पत्न्या: लघीयसी।’
महेश:-स्पष्टमेवेदम्। श्रीमत्पत्नी सततिद्वयं सूतवती, श्रीमती तु सम्प्रति किशोर्येव।
एतदुपरि सर्वेषां हास्यमुदैत्। परमतिकष्टेन तदुपरुद्धम्। उक्त गोपेशेन-'अध्ययनपक्षे त्वेतदुपयुक्तमेव। अध्यापनस्य हि समय: साहित्यविद्भिरयमेव मनोरम: प्रोक्त:। किन्तु स्तोत्रपाठस्य स्थाने सरसकाव्याध्यापनं कथमारब्धमभूत्?’
गोविन्द:-प्रारम्भिकसंस्कृताध्ययनं विना शुद्धोच्चारणं चार्थज्ञानं च न जायते। अत एव नवीनपद्धत्या आवश्यकव्याकरणबोधोत्तरं पूर्वं पञ्चतन्त्रादि सरलगद्यं पाठितम्। ततस्तु उत्तरोत्तरमभिनिवेशं पश्यता मया पद्यकाव्याध्यापनमिदमारब्धम्। आश्चर्यं यदस्या: प्रतिभाऽसामान्या। प्रतिदिनं चानुराग: प्रवर्द्धते।
महेश:-अनुरागवृद्धि: कुतो न स्यात्। पञ्च वर्षाण्यतीतानि। विशेषतस्तु भवत्सदृश: साहित्यमार्मिको यदाऽध्यापकस्तदा कथं वा अनुरागो न भवेत्?
एतदुपरि सर्वैर्नयनाभ्यां भूरि भर्त्सितो महेश: परं स तादृग्भावमभिव्यञ्जयामास यथा नाऽस्य किञ्चिद् व्यङ्ग्यमासीदिति। किन्तु सर्वेषां सन्देहोऽभूत् यदियमस्माकं परिहासं परिज्ञास्यतीति। परं तद्दर्शनेन प्रतीयते स्म यत्सा अतीव मनस्विनी दृढचरित्रा च। अत एव नास्योपरि तस्या भू्रक्षेपोऽपि। गोविन्देन प्रसङ्गान्तरं चालयितुं प्रोक्तम्- 'भवन्त: किञ्चन पृच्छन्तु, येन सर्वं परिज्ञातं भवेत्’।
दिनमखिलमितस्ततो भ्राम्यतां सुहृदां वसन्तरजनी तु तावत्परिहासविनोदेन व्यतीयादिति तादृशमेव प्रक्रममापादयितुं पुस्तकाधारस्थाद्रघुवंशात् षष्ठसर्गस्थं शलोकमेकमुद्घाट्य अङ्गुल्या निरदिक्षन्महेशस्तां प्रति। सा तु लज्जावरुद्धस्वाभाविकस्वरमपि सुविस्पष्टाक्षरं यथार्थंनिर्व्यूढयति-विराम-पदभङ्गमनोहरं तथा मधुरं पपाठ यथा प्रत्येकपदे अर्थावबोधपाटवं तस्या: प्रकटं प्रस्फुरति स्म-
'तमालवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु।
तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु।।’
दण्डान्वयं विधाय प्रत्येकपदस्यार्थं सूचयन्ती शैलीनिबद्धया हिन्दीभाषया समञ्जसं शलोकार्थं निजगाद सा।
अखिलाद्रघुवंशादन्विष्य सभ्यमहिलां प्रत्येतादृश: प्रश्र एव पूर्वं सर्वेषां हृदि('अखरना’ हिन्दी।) आस्खलति स्म, परं समधुरप्रौढया तदुत्तरप्रणाल्या विस्मय: प्रमोदश्च तथाऽकस्मात् प्रादुरभूद्यथा न कस्यचिद्धृदि भावान्तरस्याऽवसरोऽभवत्। अनेन हि सफलतागर्वमिव मनस्यनुभवन् निजगाद गोविन्द:-'पाठितादतिरिक्तं स्वाभाविकबुद्धिविमर्शेऽपि न मन्दा प्राप्येत भवती. परीक्ष्यतां मनागेतदपि।’
पूर्वमेवोद्रिक्तेन लब्ध इदानीमवसरो महेशेन। अथवा केवलं महेशेनैवेति कुतो वदाम:, आसीदान्तरिकीच्छा सर्वेषामेव। अत एव गोविन्दाभिमुखीकृतमुखमेवाऽप्राक्षीत्स:-'उक्तिरियं स्वयंवरप्रसङ्गे। ततश्च वैवाहिककुमारीं प्रति राजसभामध्ये एतादृश: संलाप: कथमुचित:, सोऽपि च स्त्रीद्वारा!’
प्रश्रोऽयं न केवलं गोविन्दशिष्यामेव तामेतां पस्पर्श, अपि तु सर्वैरेव स्व-स्वहृदि निभृतं विचारितोऽभूद् यत् सत्यं किमेतस्य समाधानं स्यात्?
सा तु क्षणं निध्याय नीचीकृताननैव निजगाद-'वर्ण्यमानस्य नरपालस्य वरणेन भाविजीवने को वा ते लाभ इति सूचनमात्मकर्तव्यं भावयन्ती परिचयकारिणी कुमार्या: समवयस्का विवाहमङ्गलप्रसङ्गे सख्युचितपरिहासेन तदिदमाह। अनया च सह सख्या इव परिहासव्यवहार: सूचितोऽप्यग्रे कविना--'तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे’ इति। किञ्च पूर्वपद्ये 'दिश: सपत्नी भव दक्षिणस्या:’ इति सूचनोत्तरं सपत्नीविलसितमिदं सूचनीयमेवासीत्कविना।’
यावद्वयमेतस्य समाधानमालोचयामस्तत: पूर्वमेवैतस्यास्तदिदमुत्तरमाकर्ण्य सर्वेऽपि स्तब्धा इवाऽभवन्। नानादिग्देशेभ्य: सम्मेलने समागता विद्वांसोऽपि यं प्रश्रं विचारणीयमनुभवन्ति तत्समाधानं नवशिक्षितैका महिला प्रत्यक्षमेव करोतीति कस्य वा न विस्मयाय स्यात्? अवश्यमियमसामान्या नारीति सर्वेषां हृदयेऽङ्कितमासीत्। किन्तु विनोदकाण्डेऽधिकमग्रे प्रसरन्महेश: पुन: पप्रच्छ-'ताम्बूलवल्ल्या सह पूगानाम्, एलालतया सह चन्दनानां च सहयोगस्य किं स्वारस्यम्?’
सर्वैरेव नयनाभ्यामत्यर्थं भर्त्सितोऽधुना महेश:-'किमेवं सभ्यतासीमानम-प्यतिक्रामसीति’। गोविन्दोऽपि तदिदमसमञ्जस समीकुर्वन्निव तां प्रत्याह'मलयस्थलीना-मेवंविशेषणेन किं वात्र तात्पर्यमित्येषां प्रश्र:।’
सा तु परित: किञ्चिदपश्यन्तीव ग्रन्थविमर्शैकताना निम्रदृष्टिरुचरयामास-'क्रीडास्थानस्य तत्सामयिकशोभासूचने कवेस्तात्पर्यम्।’
अवगुण्ठिताया महिलाया: कृते प्रश्रोऽयमतीव दुरुत्तर आसीत्। प्रतिपदं लज्जोल्लङ्घनस्य भयमभूत्, किन्तु मनस्विन्यास्तस्या: 'क्रीडा’ 'तत्सामयिकशोभेति’ च पदद्वयं तटस्थमिव स्थितमपि सर्वविधमप्यभीष्टमर्थं सूचयामाम। सर्वेऽप्यभूतपूर्वेण विस्मयेनाक्रान्ता अभवन्।
एतस्मिन्नेव समये जवनिकाच्छन्नात्तस्माद्भवनात्खटात्कार इवाश्रूयत यदुपरि सा मन्दगम्भरीमुत्थाय वक्षोभरावनतपूर्वकायेव सविनयं प्राणंसीद् गोविन्दम्। तत: सर्वेषामस्माकमभिमुखीभूय शिरसि मुकुलीकृतकोमलगौरकरपुटा तथा विभ्रमेण प्राणमद्यथा विद्युत्प्रकाशेऽस्मिंस्तस्या गात्रसौष्ठवमत्यन्तमेव समाकर्षकमासीत्। ततो जवनिकामपसार्य भवनान्तरितायामपि तस्याम्, व्यतीतेष्वपि कतिचित्क्षणेषु सञ्जातया नवीनयाऽनया घटनया सर्वेऽपि स्तब्धा इवातिष्ठन्।
अस्तु, एतद्विषयिणीभि: परिहासविनोदमयीभिर्वार्ताभिश्चिरेण सुप्तानामस्माकं सा रजनि: क्षण इव व्यत्यगात्। प्रत्यूषे वाष्पयानेन स्वस्वगृहानवाप्तानामप्यस्माकं सा घटना न बहुं कालं यावन्मानसादपासरत्। परस्तात्तु विदितं गोविन्दाद् यदस्याऽभिनयस्य सूत्रधार एव किं सर्वस्वभूत: कान्तेति मित्रै: परिहसितो जयकान्त एव। अतर्कितं जयकान्तसमीपे तडिद्वृत्तोपलम्भादेव तस्यारम्भ:। 'अभूतपूर्वस्य सदा स्मरणीयस्य विनोदस्य’ समन्वय: साम्प्रतं सर्वेषामभूत्।
फाल्गुनगोष्ठी
(१)
सुस्पष्टविपरीते लोकानां *गड्डरिकाप्रवाहे दययाऽश्रुमोचनधीर: कबीरोऽवश्यं व्यमनायिष्यत यदि संसरणमिदं व्यलोकयिष्यत। अहो यदुपरि हस्तपरिमिताया धूले: साम्राज्यं तदपि पक्कं संसरणं व्यपदिश्यते? किन्तु गोष्ठीनिमन्त्रका में सुहृदस्तु न मिथ्या वदिष्यन्ति। तैरासीदुक्तं यत्पथि सुदृढो राजमार्ग:। वायुशकल’ मारुह्य सुखं गोष्ठीस्थलमागष्यिसीति। हन्त धूलिरपि कीदृशी या सूक्ष्मतायां वासन्तिकपुष्पपरागादपि श्रेष्ठा, ऊर्ध्वगमने वायोरपि जेष्ठा। तया हि मे नासायां तावानधिकारौ लब्धो येन श्वासागमनस्यापि विश्वासो व्यलुप्यत। नूनं वायुशकलमिदं मे धूलिसमुद्रेऽस्मिन्नवश्यं विलुप्तमभविष्यद्यदि मे हस्ते *हस्तदण्डो नाभविष्यत्।
अस्तु, परिकल्पितविविधदेवतोपचार: पूर्वपुण्यबलेन यथा कथञ्चित्प्राप्नवं तदेतदुपवनं यत्र मे मित्राणि प्रातरारभ्यैव भोजगोष्ठीप्रबन्धाय कृतोपनिवेशान्यासन्। धूलिवैतरणीं विलङ्घ्य सोऽयमाराम: साक्षात्स्वर्ग इव मे प्रतीयते स्म। अभूदपराह्णस्य द्विवादनम्। जठरकुहरे समुदतिष्ठन्प्रबला: क्षुधाकल्लोला:। अहं विचारमात्रेणाऽपि प्रमोदमन्वभवं यन्मित्रै: सर्वाऽपि भोज्यसाम्रगी सज्जीकृता स्यात्। आसीन्मे प्रस्तावो यदद्य 'चूर्णमा’ भोज्ये पय: सारोऽपि मिश्रीक्रियताम्, अनुभूयतां चाऽभूतपूर्व: स्वाद:। अवश्यं ते सम्प्रति मदागमनं प्रतीक्षन्ते।
प्राविशमहमारामम्। आसीन्मध्यदेशेऽस्य द्वादशाद्वारिका। निश्चितवानहमवश्यमस्यामेवोद्दण्डमण्डली सा स्थिता स्यादिति। उपसर्पतो मे विचारा: प्राचरन्मनसि- 'यदुपगत एव सर्वानहं गाढमुपालप्स्ये यद् गोष्ठया: कृते केन महाबुद्धिना तदिदं स्थानं नियमितम्? नगरादियद्दूरे, मार्गोऽपि मरोर्मातामह:?’ किन्तु नासीत्कोऽपि तस्मिन्स्थाने। मयाऽनुमितं यद् वृक्षगुल्मे कुत्रचिन्निषण्णा: स्यु:, यतो हि बहिरुद्यानस्य तत्रैवाऽऽनन्द इति। किन्तु सर्वमहमारामं व्यचिनवं नासीत्कस्यचिदपि गन्धो बान्धवस्य। ननु किमेतदजनि? वृक्षमध: स्थितो मालाकारो दूरे भूमिमवखन्नासीत्। गत्वाऽहमेनमपृच्छम्- 'अपि प्रातरद्य केचन नागरिकजना: समागमन्नुद्यानेऽस्मिन्?।’
'न कोऽपी’ ति स प्रत्यवदत्।
'अहो मुरारिनामा नाऽऽगमत्कश्चिज्जन:? आसीत्स हि गौरवर्ण:, स्थूलप्रायकाय:, वार्तासु चपलश्चलने चटुलतमश्च।’
'न नाम कश्चिदेवंविधो दृष्ट:।’
'अहो मोहनेति मण्डल्यां मिथ: प्रख्यायमानोऽपि नागमत्? यस्य मुनेरिव दीर्घा: केशा कृशप्राय: कायश्च।
नैतादृशोऽप्यदृश्यत’।
'अये मण्डल्यां सर्वतोऽपि मुखरतमो माधवेति माधवेति मिथ: सम्बोध्यमानोऽपि नालोकित: कश्चित्?’
कोपकषायित: स प्रत्युदतरत्- 'न माधवो न मुरली न मनोहरो न मेघराजो न मान्धाताऽपि कश्चिदिह दृष्ट:’।
हृदयमवस्थाप्य खिन्नोऽहं तत्रैव न्यषीदम्। हन्त तृतीयोऽयं वारो मे वञ्चनस्य। एकदा नौकागोष्ठ्यां मामाह्वयन् यत्र भङ्गारसमाकण्ठमापाय्य तत्रैव मदनिद्राणं मां विमुच्य समागच्छन् गृहे। द्वितीयवारे दूरोद्यानं मां नीतवन्त:, यत्र भङ्गापान- शौच-जलविहारादि सर्वं मया सह विधाय भोजनसमये कदलीपत्राहरणाय मां दूरे विसृज्य सर्वेऽपि कृतसङ्केता: स्थानान्तरमगच्छन्। ननु द्विर्बद्धमेव सुबद्धं भवति, किन्तु सोऽयं तृतीयेऽवसरो मे मूर्खीकरणस्य।
आसीन्निदाघर्तु:। घोरोऽपराह्ण:। इयती दूरता, तादृशश्च सुखकरो मार्ग:। किन्तु परवशोऽहं कषायितहृदय: प्रत्यावर्तिषि यथा कथञ्चिन्नगरम्। गृहमगत्वा प्राप्रवमहं मुरारेर्गृहे। किन्तु नासीत्स तत्र। मार्गे माधवस्याऽपि मन्दिरमपश्यं किन्तु नास्याऽप्यनुसन्धानमलभ्यत। ज्ञातं मया-यत्सर्वेऽपि कृतसङ्केता: कुत्रचिद् बुद्धिपूर्वं विलीना:।
गृहमागच्छतो मे मार्गे समभूत्समागमो दीनानाथेन। एष हि समीपवर्तिनो मानगञ्ज’ धूमशकटिस्थानस्य प्रधानाधिकारी। अयं मे निकटसम्बन्धी, आसीच्चास्योपरि मत्कृतो महीयानुपकारभारो येनाऽसौ ममानुरोध पूर्णतमममन्यत। नमस्कारोत्तरमपृच्छमहम्- 'अपि कुशली भवान्। कथय क्वेदानीं साधयसि?’।
'मासद्वयावकाशमयाचिषं निजाधिकारिभ्य:, तस्य किल स्वीकृतिरद्यैव लब्धा। सप्ताहे प्रयातोऽस्मि गृहम्। अत एवाऽवश्यकानि कानिचिद्वस्तूनि सङ्ग्रहीतुं समायासिषं नगरे। भवांस्तु कतिधा प्रार्थितोऽपि न कदाचित्समायाति तत्र। भूयसी मे वाञ्छा यदेकां रात्रिं तत्रैव विश्राम्येद्भवान्।’
'बाढम्। समायास्यामि भवत्कार्यस्थाने। यावच्छक्यं च भवद्गृहगमनस्य पूर्वमेव भवद्दर्शनं कर्तास्मि।’
क्षुत्क्षामकण्ठो नाधिकमालपितुमशक्नवम्। अत एव कष्टशतैर्यथाकथञ्चिदवाप्नुवं गेहम्।
(२)
कतिचिद्दिनानि न समभूत्समागमो मित्रेण केनाऽपि सह। स्वकार्यनियोगे निलीनस्य ममेव सर्वेषामपि व्यत्यगमन् कतिचिन्मासा: किन्तु समुपस्थित एव फाल्गुने पुन: सर्वेषामन्तराशये समुदतिष्ठद्विनोदलहरी। अत एव सर्वेऽप्येकदा सम्भूय समागच्छन्मम गृहम्। सर्वेषाममीषां दर्शनेन जागरूकवञ्चनदु:खो यावदहं किञ्चिद्वदामि तत: पूर्वमेव सर्वेऽप्यट्टहासेन मे गृहमपूरयन्। एकैकश: पूर्वघटनामुल्लिख्य, अन्त:कषायितां मन्मूर्तिं चावलोक्य सर्वाऽपि सुमतिसमिति: सेयं कतिचिन्मुहूर्तान् प्रचण्डेनाट्टहासेनैव समत्यवाहयत्। साहित्यवर्णितस्य विहसितस्य प्रत्यक्षोदाहरणस्वरूपो मुरारिर्मामवादीत्- 'यावदस्मभ्यं भोजगोष्ठीमेकां नोपहरसि तावन्न ते विमुक्तिरेवंविधेभ्य: सुखशतेभ्य:। अपि ज्ञातं भवता?।
कोपाऽऽवेगमन्तर्निगृह्य प्रोक्तं मया- 'नाहं गृहे गोष्ठीं व: कर्तुमर्हामि। सुचरितैस्तत्रभवतामाप्यायित: सर्वोऽपि गृहजनो वराक:।’
'अस्तु तर्हि बहिरेव कुत्रचित्।’
माधवोऽवदत्-'न चेदमतिक्रमणयोग्यं फाल्गुनमहापर्व’।
'अपि मानगञ्जस्थानमनुमन्यन्ते भवन्त:? लघुशाखायास्तदिदमितस्तृतीयं वाष्पशकटिविश्रमस्थानम्। अतीव रमणीय: प्रदेश:। जनसम्मर्दाद्विविक्तप्रायं सर्वसौलभ्यजुष्टं च तत्स्थलम्। विशेषतश्च संक्षिप्ता धूमशकटियात्राऽपि विनोदाय स्वत: सम्भवेत्। तत्रत्य: - प्रधानाधिकारी मे मित्रम्। तत्साहाय्येन गोष्ठीप्रबन्धेऽपि भवेत्सौकर्यं बहुधा।’
ममेयं सम्मतिरभूत्सर्वेषामनुमता। शुभस्य शीघ्रमिति श्व एव तत्र गमनस्याऽभून्निश्चय:। द्वितीयदिने चतुर्वादनस्य धूमशकट्या प्रास्थिष्महि वयं सर्वेऽपि, पञ्चवादने चाऽवापाम मानगञ्जमिदम्।
दीनानाथो मया सह नररत्नसमारोहमिममालोक्य समभूत्सम्भ्रान्त: पूर्वम्। किन्तु मया पृथङ् नीत्वा प्रोक्ता: काश्चिद्वार्तास्तस्य कर्णे। स हि विहस्य समभूत्तूष्णीम्। सर्वेषां प्रकाशे पृष्टं मया अपि भवान् श्व एव गृहं गन्ता?।
'श्व: किम्, अद्यैवोत्तररात्रे चतुर्वादनस्य शकट्या प्रतिष्ठेय भवनं स्वम्। मम स्थानापन्नोऽधिकारी समायातोऽत्र। श्व एवारभ्य मेऽवकाश: प्रारभ्येत’।
इतो मित्रमण्डल्यां मुरारि-मोहनयो: प्रावर्तत वादसंरम्भो यत्कुत्र स्यादासनसन्निवेश: सर्वेषाम्। मोहनोऽवदद् गोष्ठीस्थानमित: किञ्चिदेव दूरगत: सोऽयं वृक्षगुल्म: स्याद् यतो धूमशकटिकौतुकमप्यक्षिगोचरं भवेत्। मुरारेरासीत्सम्मतिर्यत्कूपस्य सन्निधानगतायाममुष्यां *वेद्यामेव नर- पावकानामेषां स्थापनं स्याद्यत्र सुखेन भोज्यहविषो होम: प्रारभ्येत। परं या सम्मतिर्मया प्रादायि सा हि निजनवीनताया: कारणात्सर्वेषां हृदयङ्गमाऽभवत्।
धूमशकटिविश्रमस्थानस्य पार्श्व एव *लोहलेखानां किञ्चिद्दूरे समभूदूध्र्वगतो —जलटङ्क एक:। एष हि पञ्चविंशति: हस्तोच्चतायां लोहस्तम्भानामुपर्यवस्थितोऽभूत्। आरोहणाय लोहनिर्मिता निश्रेणिरस्यासीत्संलग्ना। स चाऽयं टङ्क उपरितो दृढाच्छादितोऽभूत्। प्रोक्तं मया- 'प्रधानाधिकारिणो मित्रतावशात्किमिति वयमस्योपरि नाधिकारं करवाम? निशि चन्द्रिकाचमत्कारे महानानन्दो भवेत्। समन्तादुन्मुक्तपवनमिदं स्थानम्। नीचैश्च सलिलशीतलतया गङ्गायां घोष इव शैत्य-पावनत्वयोरप्यनायासेन लाभ: स्यात्। समन्तत: समुन्नतवृक्षावृततया न कस्यचिद् दृष्टिनिक्षेपस्याऽप्यवसर:। वयं सर्वानवलोकयामो न च कश्चिदस्मानवलोकयेदित्यस्य तदिदं प्रत्यक्षनिदर्शनम्।’
विविक्तप्रणयिनां मण्डलेऽस्मिन् सेयं सम्मति: सर्वेषामपि सर्वात्मना सम्मानिताभूत्। मम विलक्षणप्रतिभाया: प्रमोदकोलाहलेनाऽक्रियत सर्वैरभिनन्दनम्। अस्तु, टङ्कस्यास्योपरि समभूदास्तरणस्य प्रबन्ध:। सहृदयमण्डलस्याऽस्य समभूत्तत्रैवाऽधिवेशनम्। उज्जृम्भते स्म प्रमोदकलकलस्य साम्राज्यम्। हासपरिहासै: प्रणयप्रमोदै: क्रीडाकौतुकैश्च न प्रतीयते स्म व्यतीतोऽपि द्वित्रघण्टात्मक: काल:। अष्टवादने समभूत्सर्वेषां सम्मतिर्यत् साम्प्रतं प्रारभ्यतां भोजनम्। अत्रैव च सोऽयं सग्धिमहोत्सव: समनुभूयेत। प्रेषितोऽहमभवं प्रबन्धार्थमेतस्य।
(३)
दीनानाथमहाशय: शकटिविश्रमस्थानस्थे निजकार्यालये आसीदवस्थित:। तमुपसृत्याऽहमवदम्-'श्रीमन्! सम्प्रत्यादिश्यतां कश्चित्कर्मकरो यो निश्रेणिनिपातने मे विदध्यात्साहाय्यम्। किन्तु पूर्वमेको जलकुम्भ: प्रहीयतामुपरि। एष्वेव दिनेषु प्रबल: साम्प्रतमूष्मा।’
स हि प्रेषितवान् भृत्यमेकं सह मया। कर्मकरो यथैव प्रापयामास जलकुम्भमुपरि तथैवानुमितं सर्वैर्यद्भोजनमपि साम्प्रतमुपस्थितप्रायम्। गण्डूषादि कृत्वा सर्वेऽपि समनह्यन्त भोजनाय। किन्तु नीचैरवतीर्य भृत्योऽयं मत्साहाय्येन निपातयामास लोहनिश्रेणिमेताम्। अहं च नीचैरवस्थितो व्यलोकयं कौतुकम्। घण्टार्द्धं यावत्प्रतीक्षित: सर्वैरपि भोजनकाल:। किन्तु ततोऽपि चिरयति भोजने समन्त्रितं सर्वैर्यन्नीचैरवतीर्य कश्चिदनुसन्दध्याद्यद्भोजने किमिति साम्प्रतं विलम्ब:। मुरारिरेतद्गवेषणायै नीचैरवरोढुमभवत्सन्नद्ध:। किन्तु किमिदम्? निश्रेणिरियं कुत्र विलुप्ता? अधो निरीक्ष्य दृष्टं मुरारिणा यदियमधिरोहणी भूमौ निपतिताऽस्ति।
तदेतस्मिन् खण्डजगति यद्धि जलटङ्कोपर्यासीदुपनिविष्टम्, महती क्रान्तिरुपातिष्ठत्। ममाद्यापि महानेवानुतापो यत्पर्याप्तप्रकाशाऽभावात् भयविषादखेदाप्लुतं मित्रमण्डल्या मुखमण्डलं न तदाऽहमलोकयितुमपारयम्। किन्तु कोलाहल: पूर्णरूपेणाऽश्रूयत।
नीचै: स्थित एवाहमप्राक्षम्-'कथं भो मुरारिमहोदय! कोऽयमकाण्डे कोलाहल:?’।
'अयि भो:! अत्रत्या निश्रेणि: कथमियं नीचैरवापप्तत्?’
'उपरि स्थिता भवन्त एव विद्यु:, भोज्यप्रबन्धार्थमितो गत: कथमहमिदं जानीयाम्।’
'अरे महदिदं सङ्कटमुपस्थितम्। कथं वयमवरोक्ष्याम:?’
'का नूनमावश्यकता नीचैरवरोहणस्य। प्रातस्तदिदं प्रतीक्ष्येत नाम। हन्त महाभाग्यैरेवमुच्चस्थानमवाप्यते।’
'मा मुधा प्रलपै:’
'पश्य, कीदृङ् निरभ्रं गगनमण्डलम्। परितो ज्योत्स्नयाऽऽप्लाविता सेयं मही। शीतलो मन्द: सुगन्धिश्च गन्धवाह: परित: प्रसरति। विजृम्भमाणश्च सम्प्रति विरहिदुरन्तोऽयं बसन्तो नूनम्।’
'जोषमास्स्व। न खेदय मुधा दुरुक्तैरान्तरं न:’।
'अयि भो: पश्य परित: किञ्चित्। आदर्शशोभाकर: कुसुमाकर: सोऽयम्। रमणीयतमश्चाऽयं समन्ताद्वनोद्देश:। कैश्चिदप्यनाक्रान्तपूर्वं महाभागधेयलभ्यं चेदमुच्चै: पदम्। किमितोऽधिक: सौभाग्यसमायोग: स्यात्? निश्चिन्तमवस्थित: सम्प्रति कुर्या: प्रकृतिदेव्या निरीक्षणं निभृतम्। नूनमभिनन्दत वो भागधेयं यत्स्वर्गलोकस्य कियत्सन्निहिता: सम्प्रति भवन्त:।’
आदिष्टोऽभून्मया दीनानाथभृत्य: पूर्वम्। स हि यथानिदेशं विशालपरिष्कृते भोजनपात्रे विस्तृतां भोज्यसामग्रीमापूर्य स्थापयामास मे सम्मुखे। अहमपि नीचैरवस्थाय सुहृदां दृष्टिभि: सर्वत: करम्बित: प्रारप्सि यथासुखं भोजनम्। अहमवादिषम्- 'अहो रसगोलकास्त्वमी स्वादेन सुराणामपि मनोदोलका नूनम्। किं च कर्चूरिकाणां मनोरमगन्धस्त्वयं नीरन्ध्रमनुबध्राति मदुदरमिव समग्रमपि परित: प्रदेशम्। भवन्तो नूनं धर्मशास्त्रज्ञा:। अत एव सञ्जातमिदमर्द्धभोजनं भवतामपि। उक्तं हि शास्त्रे 'आघ्राणे ह्यर्द्धभोजनम्’।
नैतस्य किञ्चिदुत्तरमलभ्यत। किन्तूर्ध्वदृष्टिना मया लक्ष्यीकृतं यत्सम्मिलितानि बहूनि दृशां द्वन्द्वानि जलटङ्कादुपरितो मय्यवर्षन् तिग्मतमं कोपकृशानुम्। भोजनं परिसमाप्य प्रतिष्ठमानेन प्रोक्तं मया-उपरि शीतलजलकलश: स्थापित एव समीपे भवताम्। रिक्तोदरे हि शीतलजलपानं त्रिदोषनाशकमाख्यातमायुर्वेदे। किञ्चिद्-दूरे गत्वा, पुन: परावृत्त्य प्रोक्तवानहम्- एकमन्यदपि सूचनीयमावश्यकं मन्ये। दीनानाथेन मे सन्दिष्टमस्ति निशि चेत्कलकल: स्यात्तर्हि नाहमिमं प्रतिविधातुं शक्नुयाम्। नियोगपरवश: सूचयेयं रक्षापुरूषेभ्यो यत्केचन बाह्यपुरुषा बलाज्जलटङ्कमारुह्य कुर्वन्त्युपद्रवमिमे साम्प्रतम्।’
नीरवकरुणाऽऽक्रन्देन मिश्रित: समाकर्ण्यत निगूढकोपध्वनिरूर्ध्वप्रदेशात्।
अभूदेकादशवादनं रजन्या:। शकटिविश्रमस्थलमुपेत्य संविष्टवानहमेक-स्यामाऽऽसन्द्याम्। मानगञ्जमिदं लघुशाखाया लघुतमं विश्रमस्थानम्। नास्मिन् रात्रौ शकटीनां यातायातम्। अत एव स्थानमिदमासीच्छान्तिपूर्णम्।
अतिप्रत्यूषे चतुर्वादनस्य वाष्पयानेन प्रातिष्ठत गृहं दीनानाथ:। अहमपि तथैव शकट्या प्रत्यावर्तिषि निजगृहम्। दीनानाथ: प्रस्थानसमये प्रोक्तवान्नवीनं निजस्थानापन्नं यो ह्यासीत्तस्य सुहृत्- मम केचित्प्रघुणिका जलटङ्कोपरि स्वपन्ति श्रान्ता: साम्प्रतम्। प्रात: षड्वादनस्य शकट्या: पूर्वमेव निश्रेणिमारोप्य कृपया ते समवतारणीया: श्रीमता ।