जानकी जीवनम्
(प्रथमः सर्गः)
पुरा विदेहेषु ववर्ष नाभ्रं बहूनि वर्षाणि किल व्यतीयुः।
प्रजासु हाहाकृतवेदनोत्थं निकामदुःखं प्रमुखीबभूव।।1।।
सरांसि शूष्काणि कुलायभूमौ परासवश्चापि विहंगवत्साः।
द्रुमोल्लसद्वृन्तनिकायलग्ना न पल्लवाः प्राणभृतिं प्रयाताः।।2।।
उदुम्बरोज्जृम्भितपुष्पभावं गता लघीयस्यपि मेघमाला।
स्फुरन्मनः क्षुण्णमनोरथानां दुरापता प्राच्यसमीरणोऽगात्।।3।।
निरन्तरं व्योम्नि ववुः प्रवात्या अदर्शि रात्रावपि धूमकेतुः।
विधे! न जाने भविता किमस्तीत्यनारतं जानपदैर्व्यतर्कि।।4।।
अथ प्रजाभिस्समवेतवाग्भिर्निवेदितो भूमिपतिः कृतात्मा।
कुलप्रसूतो ननु मैथिलानां शुशोच सीरध्वजपुण्यनामा।।5।।
मया कृतं किं दुरितं विधातर्व्यतीतजन्मन्यथवेह लोके।
सुदुर्निवारैर्यदनल्पपाकैः प्रपीडिता हन्त भवन्ति पाल्याः।।6।।
प्रजाजनो भूपकृतानि भुङ्क्तेश्रुतम्मयेति श्रुतिसारवाक्यम्।
खलीनहीनाश्वविरुढवीरः पतत्यधो रोहणकोविदोऽपि।।7।।
इति प्ररुढक्लमविवलवोऽसौ प्रजागरक्लेशविषण्णचित्तः।
विनिद्र एवारुणचूडरावैर्निशात्ययेऽहः कलयाम्बभूव।।8।।
समाप्य सूर्योदयकृत्यजातं ह्यमात्यमात्रापरबन्धुवर्गः।
दिदेश यानाय सुसज्जिताय प्रवातवेगाय महीमहेन्द्रः।।9।।
ततः क्षणानन्तरमेव भृत्या रथं समानिन्युरमेयवेगम्।
हयैश्चतुर्भिर्यु तमुत्पताकं मुहुः क्वणत्काञ्चनकिङ्किणीकम्।।10।।
स पुष्पधन्वेव वसन्तकेन प्रजेश्वरोऽमात्यवरेण नीतः।
पुरोपकण्ठस्थितशान्तशान्तं व्रतावदातं विजनं ददर्श।।11।।
मखोत्थधूमावलिसम्परीतं ज्वलत्पुरोडाशलसत्समीरम्।
विलोलखेलोपनतप्रबन्धैर्महर्षिभिश्चार्थितयोगचर्यम्।।12।।
सुपक्वजम्बूफलरक्तनेत्रैः पिकैर्मदोन्मत्तमनोभिराप्तम्।
बसन्त एवालघु याचमानैर्गृहीकृतं चातकपक्षिभिः कम्।।13।।
ददर्श राजा सहसैव तस्मिन्वनप्रदेशे रुचिरं कुटीरम्।
अमात्यसङ्केतितमात्मलक्ष्यं गुरोर्गृहं गौतमनन्दनस्य।।14।।
स्फुरत्पलाशावृतपर्णशालं ह्युपान्तचञ्चद्वकुलालवालम्।
विमण्डितं केसरगोपुरेण प्रवातयोग्यैर्व्रततीगवाक्षैः।।15।।
कलं मनश्शोकविदारिनादं मधुव्रतानां सरसं निपीय।
निशम्य कान्तारखगेष्टजल्पान्मुदं ययौ भूमिपतिर्नितान्तम्।।16।।
ततः क्रमेण प्रहिताक्षिचेता अरण्यमानोज्ञकदर्शनेऽसौ।
गुरोरभिप्रायमवेत्य भक्त्या ससार पादाम्बुजसेवनाय।।17।।
प्रणम्य साष्टाङ्गविधिप्रधानं व्रती नरेशो जनकाभिधानः।
मुखाम्बुजे वाक्सुरभिं निधाय व्यमोचयद्व्याहरणद्वविरेफम्।।18।।
गुरो कृपालो निमिकीर्तिहेतो विधेहि दीने मयि वत्सलत्वम्।
विभावसोर्याचितुकाम औष्ण्यं गृहीतशीतांशुरिवानतोऽस्मि।।19।।
दुरन्तदुर्भिक्षनिदाघदाहो दहत्यजस्रं जनतालतालीम्।
न भव्यमाराम इवावकेशी विधातुमीशः प्रभवामि तस्याः।।20।।
वसन्त हे पञ्चशरद्वितीय प्रभुर्भवानेव ममास्ति मान्यः।
न मे यथा स्याच्चरितं विलीनं कलङ्कपङ्के क्रियतां तदेव।।21।।
कनीनिकासीकरपूतवाग्भिर्निवेद्य दैन्योपहतार्थितानि।
इतीव भूजानिरियाय जोषं श्रुतिव्यथो यावदसौ मनस्वी।।22।।
नृपोत्तमाङ्गं कलकुन्तलाढ्यं विलम्बिकर्णोत्पलजातशोभम्।
प्रमोद्य सव्येतरपाणिनाऽसौ व्युदाजहारर्षिवरोऽपि तावत्।।23।।
मुधा न भैषीर्न च वत्स! याया गतिं विनिन्द्यां खलु किम्प्रभूणाम्।
प्रजात्ययेऽस्मिन्न तवास्ति दोषः स्वकर्मपाकं भजते मनुष्यः।।24।।
न दुर्दिनं नो मिहिकावपातं न शालभीतिं न च चक्रवातम्।
न वा प्रजानामहितं लघीयोऽप्यवेक्षते भूपतिरात्मदोषात्।।25।।
स्वसन्ततिः प्रीतिकरी न केषां मुदीव शुभ्रा ननु पार्वणेन्दोः।
तथापि मेघावरणैर्विपन्ना भवेदसौ तत्र न चन्द्रदोषः।।26।।
मयाऽपि लब्धात्मविबोधनेन ह्यतीन्द्रियज्ञानलसत्समाधौ।
अदर्शि सत्यं यदपि प्रजेश! प्रजासुखार्थं वितरामि तत्ते।।27।।
हलं विनिर्माय सुवर्णरत्नैस्त्वयैव धुर्येण वृषेण नेयम्।
कृते त्वयेत्थं क्षितिकर्षकर्मण्यपां सुवृष्टिर्भविताऽप्रमेया।।28।।
शतक्रतुश्चापि मखेन याज्यस्त्वयाऽत्र सीरध्वज! वैपरीत्ये।
मयोपदिष्टैर्विधिभिर्धृतस्त्वं विपत्पयोधेर्भवितासि मुक्तः29।।
विलम्बलेशोऽपि न वत्स कार्यो न वा वृथा कालकलातिवाह्या।
इतो निवृत्त्याशु च राजधानीं धियं समाधाय कुरुष्व कार्यम्।।30।।
इतीव राजानमनेकवाक्यैस्ससान्त्वनैर्दीप्तहृदं विधाय।
मखादिसम्पादनदक्षशिष्यैस्समन्त्वितं तं विससर्ज सिद्धयै।।31।।
समागतेऽथामृतसिद्धियोगे गुरोर्निदेशान्मिथिलाधिपोऽसौ।
निवेश्य सीरं पृथुकन्धरायां प्रचक्रमे कर्षितुमात्मगोप्ता।।32।।
क्षमाभृता हस्तिनखे प्रदेशे वितस्तिमात्रं ननु लाङ्गलेऽस्मिन्!
प्रकृष्यमाणे सुमहान् बभूव प्रजाजनानां जयजीवशब्दः।।33।।
महीसुरा दध्मुरनेकशङ्खाञ्जगुश्च भूपं नवपौरवध्वः।
अवाकिरन् सिद्धवधूकुलानि प्रसूनजालानि पतन्मधूनि।।34।।
प्रजाहितार्थी न बभूव कश्चिन्न वास्ति नो वा भविता त्रिलोक्याम्।
य ईदृशं हृदयकृषाणकार्यं समाचरेदाहुरिति स्म लोकाः।।35।।
शिबिर्दधीचो न च रन्तिदेवः पृथुर्नृगो वा नहुषाम्बरीषौ।
न केऽपि जग्मुर्जनकप्रतिष्ठां प्रजानुरागप्रसरावदाताम्।।36।।
पुरोधसा तेन विनीयमानो महोत्वेऽसंख्यजनावकीर्ण।
रराज राजा धृतयज्ञदीक्षो हरिर्नु वाचस्पतिनेव नन्द्य।।37।।
अथावरुद्धं भुवि लाङ्गलाग्रं दुरन्तीतीक्ष्णायसक्लृप्तकोटि।
बलैस्समग्रैरपि येन नेतुं शशाक नाग्रे निमिवंशधुर्यः।।38।।
अशक्नुवन् स्वेदलसल्ललाटस्सुवर्णदामश्रितकण्ठदेशः।
विलोलहस्तो नृपतिर्युयुत्सोर्ययौ छविं वासववाहनस्य।।39।।
निरुद्धशौर्यद्विगुणीकृतौजास्ततः प्रचण्डोभयबाहुशक्त्या।
चकर्ष सीरं भुवि यावदेव प्रकाशधारा प्रकटीबभूव।।40।।
दृगञ्चलानि द्युतिभिर्नयन्ती मलीमसान्धत्वममन्दवेगा।
सभाजयन्ती कुतुकं समेषां युगान्तमेघोदरदामिनीव।।41।।
व्यलोकि सर्वैरपि लाङ्गलाग्रप्रहारभिन्नोदरकुम्भतल्पे।
सुखं शयाना मदिरायताक्षी दिवौकसां श्रीरिव कापि बाला।।42।।
प्रफुल्लपद्मस्थमधुव्रताक्षी मनोज्ञचारुस्मितशोभिवक्त्रा।
सुरालयस्था बलिदीपिकेव प्रभोर्ध्वचक्रं परितः किरन्ती।।43।।
कलेव चान्द्री स्फुटचारुशोभा ज्वलद्धुताशप्रतियातनेव।
लतेव मालेव धरासुतेव प्रमोहविद्धं विदधे जनं सा।।44।।
अथाधिरूढे नृपतौ द्विभावं ह्यकर्णि वाणी वियदङ्गणोत्था।
गृहाण सीरध्वज! देवदत्तां सुतामिमां भर्त्सितलोकशोकाम्।।45।।
अवेहि राजन्ननपायदिप्तिं श्रियन्नु साक्षाद्गृहमागतान्ते।
स्वकर्मजं स्यात्फलमात्मरूपं ह्यचिन्तितं किन्तु विभातिभाग्यम्।।46।।
तवैव नाम्ना प्रथिताभिधानं गमिष्यतीयं भुवनेषु कन्या।
विदेहनन्दिन्यथ जानकीति श्रयेत संज्ञामिह मैथिलीति।।47।।
हलेन राजंस्त्वथ भूमिकर्षे कृते यतोऽप्रापि सुकन्यकेयम्।
ततो गमिष्यत्यभिधामनर्घां प्रजेश! सीतेति च लोकपूताम्।।48।।
विदेहवाचेति विकीर्यमाणे स्फुटाक्षरासंख्यकमौक्तिकौघे।
बलाहकानां ततयोऽप्यकस्मान्निरन्तालं गगने विरुढाः।।49।।
ततः क्षणेनैव पयोदधाराप्लवैर्धरित्री सलिलावगाढा।
विधौतनिश्शेषतरुप्रवाला भृतालवाला ददृशे समन्तात्।।50।।
इतस्ततः सैरिभकायपीनाः क्षणप्रभाश्रृङ्गधृतावलेपाः।
द्रुतं ध्वनन्तस्त्वरितं प्लवन्तोऽसिताम्बरे रेजुरथाम्बुवाहाः।।51।।
दुरन्तहृत्तापकरेतिवृत्तं निमेषपूर्वं प्रबभूव यत्र।
अखण्डमानन्दलसद्विधानं रराज तत्रैव बलादिदानीम्।।52।।
अथ गगनगिरं तां श्रोत्रयुग्मैर्निपीय
श्रितगुरुपरितोषश्शोषमेत्य श्रमाणाम।
घनजलकणिकाभिस्स्विन्नगात्रीं गृहीत्वा
करकमलकरङ्के हर्म्यमेव प्रतस्थे।।53।।
यत्काव्यं तरुणायते नवनवोन्मेषैर्लसद्वैभवं
सान्द्रानन्दमरन्दविन्दुरुचिरं वाण्याशिषाऽनारतम्।
राजेन्द्रस्य कृतावगादिह महाकाव्येऽवताराभिध-
स्सर्गाणामयमादिमश्चरमतां श्रीजानकीजीवने।।54।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीबिल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्यैकपुण्यं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।55।।
इतिश्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गोतमगोत्रीयभभयाख्य-मिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्येऽवतारसंज्ञकः प्रथमः सर्गः-
(द्वतीयः सर्गः)
समागते राजनि लब्धलालसे निधाय पाणौ तनुजामयोनिजाम्।
बभूव हर्षः सुमहाननुत्तमः प्रजासु दारेषु च सर्वतोमुखम्।।1।।
महोत्सवोऽथ प्रचचार पेशलः प्रजाजनेषु क्रमशो विसृत्वरः।
समुत्पतिष्णुर्नितरां मनोहरो गृहीतचेतोमृगबन्धवागुरः।।2।।
व्यपाठि भूपालयशो नु बन्दिभिः क्वचित्सभायां सुमुखैः शुकैगृहे।
क्वचिच्च तौर्यत्रिककं विभावितं विनोदरथ्यासु नटैः कुशीलवैः।।3।।
प्रदीपहारावलिराजिता पुरी नवा वधूटीव दधेऽवगुण्ठनम्।
समुल्लसत्थासकचारुकल्पनैर्नखक्षतानि प्रकटं विरेजिरे।।4।।
अनल्पकाश्मीरजलाभिषेचनैश्चकासयामासुरशेषवीथिकाः।
अमोघपथ्यौषिधेसेवनेन किं न यान्ति कान्तिं द्रुतमेव नीरुजः।।5।।
विवाहकालोचिततुङ्गतोरणैर्मणिप्रदीपैश्च गृहान्तरस्थितैः।
महार्घहर्म्याणि पुरौकसां ययुः श्रियं दुरापां सुरसद्मलम्बिनीम्।।6।।
न तद्गृहं यन्न विकीर्णगीतकं न गीतकं व्यायतमूर्च्छनं न यत्।
न मूर्च्छनं यन्न रसाक्तवाचिकं न वाचिकं यन्न सुधासहोदरम्।।7।।
प्रवर्तमाने पुरि हार्दवर्धिते महोत्सवेऽथ प्रसभं दिवानिशम्।
कलेव चान्द्री शनकैर्वयःक्रमं क्षणं व्यतीयाय विदेहनन्दिनी।।8।।
कराङिघ्ररक्तोत्पलमास्यपङ्कजं विलोचनद्वन्द्वकुवेलमद्भुतम्।
विलम्बिहस्ताग्रमृणालयुग्मकं समेत्य जातं क्षितिजाङ्गपुष्करे।।9।।
दिने दिने सा ववृधे प्रभामयी ह्यलोकसामान्यविकासमीयुषी।
अपेक्षते स्नेहममन्ददीपिका न वैधसी हृद्यकला चिरन्तनी।।10।।
अमोदयत्सा पितरावनारतं स्वकेलिलेशप्रचुरप्रचारणैः।
निभालयन्ती नियतिं विनोदनैः प्रजाजनञ्चापि चकार सम्भृतम्।।11।।
प्रदीप्तजापूनदभितिकालये क्वचिच्छविं स्वां समुदीक्षमाणा।
विलोलमञ्जीरपदैश्चतुर्दिशं नटीव नृत्यन्त्यनिशं चचार सा।।12।।
विलोक्य चन्द्रं वियति प्रभोज्ज्वलं विलोभनीयं ननु पर्वसंस्थितम्।
भृशं ययाचे जननीं विलक्षितां नवीनखेलाश्रितबालतर्कनैः।।13।।
क्वचिद् विनिर्माय मृदाघरट्टकं समं वयस्याभिरभीष्टरञ्जिनी।
मृषैव मृत्पेषणकम्रलीलया कुतूहलं सा विदधेऽवरधिणाम्।।14।।
सखीं कदाचित्परिकल्प्य मैथिली मृगाङ्गनां कामपि हार्दमेदुराम्।
परस्परोल्लासनचाटुकर्मभिस्स्वयं मृगीभूय रतिं ह्यचीकरत्।।15।।
कदम्बहिन्दोलविहारलीलया कलं स्वनन्ती मृदुगीतिमूर्च्छनाम्।
क्वचित्कुमारी रतिदर्पमर्दिनी पितुर्विनोदं कलयाम्बभूव सा।।16।।
क्वचिच्च विश्रब्धतया समागतान् कपोतपोताञ्जलदांशसन्निभान्।
निबद्धमुष्टिप्रविकीर्णतण्डुलैस्सभाजयन्ती ददृशे कुटुम्बिभिः।।17।।
गृहाङ्गणे रत्नचिरत्नभासुरे सुहृज्जने सुप्तिसुखं गतेऽपि सा।
क्वचिद्धठोत्थापितजन्मदांकथाग्रहैकसौख्यां विदधेस्नुतस्तनीम्।।18।।
गृहं विनिर्माय तृणादिसाधनैर्निवेश्य तत्रेप्सितदारुयोषितम्।
विलासविब्बोककटाक्षमण्डितां नवागतां गेहवधूटिकामिव।।19।।
विधाय चान्यं क्षितिजा सखीजनं विलग्धकान्तं परदेशवासिनम्।
अथानयोरेव समागमोहनैंश्चकार सर्वप्रियचित्तरञ्जनम्।।20।।
कदाचिदालेखनकर्मपेशलां विडम्बयन्ती धृततूलिकैव सा।
सखीमहो कम्प्रकरेण निर्भरं वभौ बकीभूतशुकाशुचित्रणैः।।21।।
रटानिशं जीवनजीवनं शुभे! भवत्यनेनैव तवाभिनन्दनम्।
इतीव चामीकरपञ्जराश्रितां रसाक्तवाचं निजभावशंसिनीम्।।22।।
पुनः पुनस्साग्रहमर्थशिक्षितां तथाऽप्यहो यौवनयौवनं न्विति।
स्फुटं भणन्तीं मधुकण्ठसारिकां रुषाऽवमेने च पदार्थदुर्ग्रहा।।23।।
कदाचिदन्तःपुरदीर्घिकाजले प्रवातकम्पापतदब्जरेणुके।
समं सखीभिश्श्रिततोयतल्पका मुदा विचिक्रीड विलासवर्धिनी।।24।।
स्पृशेत् पुरोवर्ति तटं प्रतीर्य का द्रुतं पराभूय समस्तसङ्गिनीः।
इति प्रतिस्पर्धिततोयधावना ललङ्घ वापीं शफरातिशायिनी।।25।।
अहं निलीये जल एव साम्प्रतं विमार्गयध्वं ननु मां यथेच्छितम्।
निमज्ज्य तूर्णं कलहंसमण्डले कृताश्रयेत्यालिविलक्ष्यताङ्गता।।26।।
ततः प्रयत्नैरपि वीक्षितुंक्वचिद् विदेहजाऽशाकि यदैव नालिभिः।
तदाट्टहासैर्जलचारिपत्रिणां दरं दधानाऽभ्युदियाय तन्मुदे।।27।।
क्षिपामि शैलेयककन्दुकं जले निभालये काऽऽनयतीदमादिमा।
अथैवमुद्घोष्य धृतिप्रवञ्चनैर्जहास सर्वा अवगाहकम्पिताः।।28।।
अहर्मुखं भानुमरीचिरोचिषं दिनान्तवेलामथवाऽरुणाऽरुणाम्।
विभावरीमिन्दुमुदीविनोदितां दिनं न यद्राजसुता व्यभावयत्।।29।।
अथैकदा चारुतरप्रभातके प्रसेदिवांसौ पितरावुपागता।
प्रचुम्ब्य पृष्टा जनकेन सस्मितं क आवयोस्तेऽतितरान्नु रोचते।।30।।
इति प्रगूढं जनकापलापजं वचोऽनुयोगं सहसा निशम्य तम्।
निषद्वरोदिवग्नचमूरुपोतकीगति प्रपेदे स्फुरदोष्ठकुड्मला।।31।।
ततोऽधितातं तदभीष्टतर्किणी ह्यधिप्रसु प्रेरिततन्मुखेक्षणा।
क्रमेण पश्यन्त्यभिभूतधारणा स्फुटं बभाषे न मनागपि ध्रुवम्।।32।।
कनीनिकावप्रमतीत्य पक्ष्मणोर्वनान्तरेखामवधूय लीलया।
दृगम्बुगङ्गा जलभारभङ्गुरा जवावतीर्णा ददृशेऽथ गण्डयोः।।33।।
विलोक्य बालोचितवल्गुसाध्वसं निजाङ्कजाया नृपतिर्विलक्षितः।
रुषा महिष्याऽपि निकामजल्पितस्सान्त्वनं सोऽभिननन्दमैथिलीम्।।34।।
अहो सुता मे कियती गुणान्विता मितम्पचाऽसंकसुका स्तनन्धया।
अहो शुभंयुः कियतीति लालयन् चकार सीतां नृपति भुजान्तरे।।35।।
ततः कदचिन्निमिराजनीवृति प्रवृद्धसौख्ये हरतालिकाभिधम्।
समाययौ पर्व सुवासिनीजनप्रियं प्रियप्राप्तिफलं मनोहरम्।।36।।
विधाय युग्मं मिथिलाकुमारिका इतस्ततोऽन्वेषणरूपणान्विताः।
जगुर्मनोज्ञां कजरीमुपोषिताः परिभ्रमन्त्यो गृहतो गृहम्मुदा।।37।।
मृदैकपिण्डे शितिशूकसंहतिं निवेश्य बालास्सतताभिषेचनैः।
प्रवर्धयामासुरथैतदङ्कुरान् वितस्तिदीर्घान्कचपाशसन्निभान्।।38।।
विदेहजाऽप्युत्सववासरागमे विडम्बयन्ती सहचारिणीव्रजम्।
कृताभिषेका धृतनव्यशाटिका यवान्बबन्धाधिसहोदरालकम्।।39।।
प्रभूतराशिं मणिरत्नवाससामवाप्य तेभ्यो मिथिलाधिपादपि।
ददौ समग्रं भगिनीभ्य ऊर्जिता रुचा सखीभ्यश्च विभज्य तत्क्षणम्।।40।।
अपूपुजद्धैमवतीं सहालिभिः प्रदोषकाले स्क्सृभिर्विमण्डिता।
वरन्नु याचस्व मनोरमं शुभे! सखीभिरुक्तेति ललास सुस्मिता।।41।।
भवत्यहो किंस्विदिदं वराभिधं पदार्थजातं यदिह प्रयाच्यते।
इति प्रजाताधिगतं रहस्यकं प्रयत्नरूढाऽपि न वेद मैथिली।।42।।
तथापि तस्या मनसि प्रभामयी प्रकल्पनैकप्रतिमा पदं दधे।
यथाम्बुतल्पे प्रतिबिम्बताङ्गतश्चकासस्ति वापीतटजोऽप्यनोकहः।।43।।
प्रभातकाले प्रथमं प्रबुद्धय सा क्रियाश्च निर्वर्त्य निसर्गसम्मताः।
सुतीयितं गेहविहङ्गमव्रजं सुभोजयामास कलानुरञ्जनी।।44।।
ततश्चतुश्शालमुपेत्य सत्वरं प्रमार्ज्य वस्त्रैरभिषिच्य वारिभिः।
धनुः पिनाकाख्यममेयविक्रमं शिवप्रदत्तं प्रणनाम साञ्जलिः।।45।।
उपेक्ष्य सूदान्स्वयमेत्य मैथिली महानसं तातरुचिप्रणोदिता।
अथ प्रयस्तोख्यसपीतिसङ्कुलं पपाच सौहित्यकरं नु भोजनम्।।46।।
प्रशिक्षिता केन कदा कथं कुतो विदेहजेयं शिशुभावविक्लवा।
प्रकुर्वती कान्दविकान् गतस्मयान् विभासतेऽतर्कि मुदेति गेहिभिः।।47।।
प्रभूतवत्सेऽपि नृपालमन्दिरे गुणैरुदारैस्तनुकान्तिसम्पदा।
जिगाय हृन्दि प्रसभं समीयुषां प्रजाजनानां क्षितिजैव नन्दिनी।।48।।
अनन्तबालोचितकेलिकल्पनैः कुटुम्बिपौराध्वगदर्शिमण्डलम्।
विनोदयन्तीत्थमथो विदेहजा निनाय बाल्य स्फुटयौवनान्तिकम्।।49।।
यत्काव्यं तरुणायते नवनवोन्मेषैर्लसद्वैभवं
सान्द्रानन्दमरन्दविन्दुरुचिरं वाण्याशिषाऽनारतम्।
राजेन्द्रस्य कृतावयं परिणतिं सर्गो द्वितीयोऽभजत्
वैढेहीशिशुकेलिवर्ण्यविषयः श्रीजानकीजीवने।।50।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्यैकपुण्यं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।51।।
इति श्रीमद् दुर्गाप्रसादाभिराजीसूनोर्गोतमगोत्रीयभभयाख्य- मिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधं महाकाव्ये शिशुकेलिसंज्ञको द्वितीयः सर्गः
(तृतीयः सर्गः)
इतीव सीता शिशुतैकसाक्षिणीं व्यतीत्य बालोचितकालश्रृङ्खलाम्।
कुमारिकाभ्यस्तरतिप्रबोधिनीं सृतिम्मनोजस्य शनैरवापिता।।1।।
अथाधुनाऽपाङ्गयुगप्रचारणं विलोलकर्णान्तमतर्कितं वभौ।
कपोलपालीयुगलेऽपि पाटलं प्रभिन्नकोषं समदृश्यताधुना।।2।।
अलङ्करिष्णुत्वमहो विवर्धितं ललामबालोचितरूपवैभवम्।
अपत्रपाऽपि स्वयमङ्गसेविनी जनिं प्रपेदे निभृतं प्रणोदिनी।।3।।
फलोत्सुकेव प्रसवर्धिगर्विता बभार बाला नवयौवनागमम्।
मरन्दनिस्यन्दवचोमधूनि सा तथैव दध्रे प्रतपच्छिलीमुखम्।।4।।
गृहे परास्कन्दिमिव प्रवेशितं प्रसह्य बाला न शशाक भर्त्सितुम्।
विभाव्य गात्रेऽपि निजे प्रतिष्ठितं शिशुत्वचौरं नवयौवनाधमम्।।5।।
व्यलीककौलीनकठोरकर्दमे पदान्यहो कारयता दिवानिशम्।
स्मरत्रपालुण्ठितबन्धुसौहृदप्रवञ्चितायाः किमु नापराधितम्।।6।।
रतिप्रवीजाङ् कुरयुग्मसन्निभौ पयोधरौ वक्षसि वीक्ष्य वर्धितौ।
विदूरकन्दर्पकथा व्यथालसा दुरन्तवैलक्ष्यमवाप जानकी।।7।।
नितम्बगुर्वी विनतांससौष्ठवा सुमध्यमा चारुचकोरलोचना।
वशागतिश्चन्द्रमुखी मिताक्षरा चकर्ष सीरध्वजकन्यका न कम्।।8।।
समुन्नतत्वादवतंसताङ्गता मनोज्ञनासेति विभाव्य निष्कृतिम्।
अहो प्रतिस्पर्धितया तयैव किं पयोधरौ तुङ्गतरौ बभूवतुः।।9।।
विरुण्डमुण्डोभयमध्यराजितो गलस्तनुत्वेन हि मौक्तिकस्रजा।
विभूष्यते वत्सनितम्बमध्यगा ककुद्मती किं शुशुभे क्रशीयसी।।10।।
अनङ्गलक्ष्मीमृदुतल्पसन्निभां ललामरोमौघहरिन्मणिप्रभाम्।
बभार सीता त्रिवलीमनुत्तमां रतेस्सपर्यास्थलिकामिवैव किम्।।11।।
अशेषगात्रऽस्तु तवैव वैभवं प्रयच्छ वाल्याच मुखन्नु केवलम्।
इतीव मध्यस्थविरञ्चिनाऽवितं बभौ वहन्त्यक्षिनिलीनशैशवम्।।12।।
कुवेलमास्ये करयोश्च पल्लवं जपासुमञ्चापि कपोलमण्डले।
रदच्छदे बिम्बफलं दधद्विधिश्चकार सीतां किमरण्यदेवताम्।।13।।
विवर्धितास्तण्डुलपूरमुष्टिभिर्विलोलबाल्ये कलहंस शावकाः।
विदेहजामन्दगतिम्मदालसां रुषेव दृष्ट्वाऽभिरूचि न पेदिरे ।।14।।
प्रभातवेलेव विहंगमस्वरा विलोलपाणिव्रततीष्टभास्करा।
गते तु मध्येऽम्बरमर्कयौवने रराज मध्याह्रविभेव वल्गुका।।15।।
शनैः प्रसूनावलिभारभङ्गुरा ध्वनद्द्विरेफोच्चयजातमत्सरा।
स्वयंप्रभा सा स्वचमात्तसौरभा शशाम चाम्पेयलतेव जानकी।।16।।
प्रवृद्धगात्राऽप्यनुबिद्धशैशवा गभीरभावाऽप्यविचार्यजल्पिनी।
बभौ द्वयोर्यौवनबाल्ययोरियं विनोदखेलास्थलिकेव कामिनी।।17।।
जिगाय मन्दस्मितमट्टहासकं व्यचोरद्धार्ष्ट्यकथामपत्रापा।
रुरोध कान्तारविहारकल्पनां स्वयम्भवान्तःपुरकावगुण्ठनम्।।18।।
विनष्टचापल्यशुका खलीभवन्निरर्गलामोदपरम्परालता।
वनस्थलीव प्रसभं विदेहजा धृता मृगव्यप्रिययौवनेन किम्।।19।।
दिवाप्रकाशोऽथ निशोथिनीमुखं दिवामणिर्वा निभृतं शिखावलः।
बभूव तस्याः क इवाधिकप्रियो विदेहजेदं बुबुधे न चेतरः।।20।।
अथोद्गतं संहननान्तरक्षमं विलक्षणं पञ्चशरैकभूषणम्।
मदानुषङ्गि प्रतिबुद्धयौवनं परश्वधीभूय गुणैकशाखिनाम्।।21।।
प्रपातनिर्बन्धरयो न साम्प्रतं व्यलोकि सीताचरणेषु केनचित्।
न वा सखीभिर्व्यवहारसारणी तटङ्कषाऽदर्शि तदेकलम्बना।।22।।
निसर्गमृद्वी वचनामृताऽपगा बभूव सम्प्रत्यधिकं कृशोदरी।
तथैव यातं करिणीविलम्बितं ह्यभूदकस्मादनुभावमण्डितम्।।23।।
पितुर्विदेहस्य भुजैकमञ्चिकां मुमोच तन्वी चटुलत्ववञ्चिता।
रहस्यमाख्यातुमपि क्रशीयसी न मार्गयामास सखीं न मातरम्।।24।।
अवैखरीकैव बुभोज भोजनं ह्यचातुरीकैव जगाद् वाचिकम्।
उपासनासद्मसमर्च्यविग्रहा शशाम बाला स्वयमेव मन्दिरे।।25।।
अये क्षणं पश्य विहङ्गयुग्मकं सखीति सान्द्रं लपिताऽपि मैथिली।
प्रदत्तसङ्केतविलक्षभावनां विभावयन्ती न ददर्श तन्मुखम्।।26।।
इयं लता हन्त न चूतसंश्रिताऽस्त्यतो विधास्ये परिरब्धभर्तृकाम्।
सखीजने चेति विजल्प्य निस्सृते सदृष्टिरोष न चचाल मानिनी।।27।।
अलं रुषा भामिनि! का नु कन्यका भवत्यनूढा जनकैकलम्बिनी।
तदेहि ते कान्तकथां निशामये कयाचिदेव हसिता स्मितं दधे।।28।।
इतीव मुग्धा सवयोभिरार्दिता समानगात्राभिरमेयनर्मभिः।
कथं कथञ्चिद् विनिवार्य यौवतं निनाय कालं पृथगिष्टसंस्थितिः।।29।।
सखीवचोभिस्स्वयमात्मशंसिनी कदाचिदादर्शतले विलोक्य सा।
निजाङ्गयष्टिं युवधैर्यलोपिनीं विमन्यमानेव निनिन्द गोपितम्।।30।।
तथाप्यहम्भावविलुप्तचेतनं मनो न तस्या निजरुपवैभवम्।
शशाक वेत्तुं न किलेदमूह्यते भवेन्न कस्यात्मगुणेषु वासना।।31।।
दिवानिशं पञ्चशरानुशंसनात् प्ररूढरागैव विदेहनन्दिनी।
अथाधिशय्यं दयितार्थजागरं समाचरन्ती स्मरसन्निधिं ययौ।।32।।
गतार्धसुप्तिं विनिमीलितेक्षणा घनान्धकारेष्वपि भूरिदर्शना।
व्यतर्कयद् वारिरुहेक्षणं प्रियं कदापि तन्वी कमपि स्वयंवृतम्।।33।।
समुत्थिते कान्तकिशोरकल्पने पयोदनीलाङ्गकलेबरं प्रियम्।
प्रभोज्ज्वलं पार्वणचन्दिराननं गुणाश्रयं चण्डधनुष्मतां वरम्।।34।।
भटं महोरस्कमनन्तपौरुषं प्रशस्तसुक्षत्रकुलैकनन्दनम्।
दशासु सर्वास्वपि मेदिनीसुता व्यकल्पयच्चारुमुखं शिलीमुखम्।।35।।
न रूपलावण्यमनोज्ञमार्दवं हृदि श्रितं स्वप्नविधौ यदीयकम्।
स एव काऽपि प्रसभं पदं दधे विदेहजाया हृदये नरोत्तमः।।36।।
अये स कीदृग्भविता स्मरोपमो मदङ्गमाध्वीरसिको मधुव्रतः।
विचिन्तयन्तीत्थमिदं मदालसा रतिप्रभा सा शयनाङ्कमागता।।37।।
न यत्प्रदातुं प्रबभूव जागरस्सुखं मनःक्षुण्णमभीष्टसङ्गजम्।
न चैव सुप्तिर्न च कान्तकल्पना प्रसह्य भाग्यं प्रददौ तदेव शम्।।38।।
वियुज्यमानालिकदम्बकाश्रयं ह्यवाप्स्यमाणप्रियचारुसङ्गमम्।
गृहीतधैर्योडुपकं नु तन्मनस्ततार सन्देहचलत्पयोनिधिम्।।39।।
बलाहकानां सततानुधावनैर्यथा हि वर्षासु निसर्गपाण्डुरा।
धृतप्रसादाऽपि मुदी विखिद्यते तथैव खेदं समवाप जानकी।।40।।
तथापि तन्वी जडतामलिम्लुचं जुगोप यत्नैरनुरागकन्दलम्।
शिखावलादप्यधिकं विचिन्त्यते प्रवातकम्पाद्धि तदीयवारणम्।।41।।
मनोगतं तत्सदकाण्डताण्डवं व्यपह्नुवानैव कुटुम्बिमण्डलात्।
निगीर्णनिर्यच्छितिधूमडम्बरा पतिंवरा साऽग्निशिखेव सम्बभौ।।42।।
मधुकरीव सरोरुहसम्पुटप्रविलसन्मकरन्दरसालसा।
निजकृतैः कमलोदरबन्धनैः परिगताऽपि रराज पितुर्गृहे।।43।।
यत्काव्यं तरुणायते नवनवोन्मेषैर्लसद्वैभवं
सान्द्रानन्दमरन्दविन्दुरुचिरं वाण्याशिषाऽनारतम्।
राजेन्द्रस्य कृतावयं परिणतिं सर्गस्तृतीयोऽभज-
त्सानन्दं स्मरजन्मवर्ण्यविषयश्श्रीजानकीजीवने।।44।।
मूलं श्रीकविकालिदासकविता श्रुहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्यैकपुण्यं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।45।।
इतिश्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गौतमगोत्रीयभभयाख्य- मिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये स्मराङ्कुरसंज्ञकस्तृतीयः सर्गः
चतुर्थः सर्गः
या श्रीश्चिरन्तनसखी कमलालयाख्या
नारायणस्य नवलाम्बुधरैकधाम्नः।
त्रेतायुगे जनकवेश्मनि सैव जाता
रामप्रिया दशमुखान्वयनाशनाय।।1।।
रामोऽभिरामचरितो मदनाङ्गयष्टि-
स्त्वाजानुबाहुररविन्दविलोचनोऽसौ।
साक्षात्स्वयं निखिललोकपतिर्मुरारि-
र्वंशे रघोरवततार किलाध्ययोध्यम्।।2।।
बालोचिताविरलकेलिकलाभिरिष्टान्
स्निग्धाञ्जनान् प्रसविनीः पितरं प्रवृद्धम्।
भ्रातृन्समानसरणीन् पुरपौरवर्गान्
आह्लादयन् सुमुखदाशरथिर्विरेजे।।3।।
यस्याविता दशरथोऽधिपचक्रवर्ती
मन्त्री सुमन्त्रपदभाङ्मघवा वयस्यः।
कल्याणमङ्गलहितानुभवी वशिष्ठो
रामो युवा जनपदं न कथं तदूर्ध्वम्।।4।।
पुण्यैर्जलैर्गतिमति सरयूरयोध्यां
पादाम्बुजप्रणयिनी नितरां सिषेवे।
देवो ववर्ष सलिलं समये निकामं
नित्यं ववौ मलयजान्वितगन्धवाहः।।5।।
दुःखं न जातु ददृशे पुरि नापमृत्यु-
र्नैवात्ययोऽपि महतां वचनीयता नो।
कौलीनभीतिरथवा द्रविणापहारो
राज्यं प्रशासति नृपे त्वजनन्दनेऽस्मिन्।।6।।
एवं विभूतिनिचिते रघुवंशभानौ
जाते ककुप्सु नितरामनपायसौख्ये।
प्राच्याम्महो दधति पद्मपतौ कदाचिद्
द्रागाजगाम किल गाधिसुतो महर्षिः।।7।।
आकर्ण्य गाधितनयं स्वयमागतं तं
गादीभवन्नरपतिः प्रणिदेशभूमौ।
सोत्कस्ससार तनयैर्महिषीभिराक्तः
पाद्यादिकव्यतिकरैरभिनन्दनार्थम्।।8।।
प्रक्षाल्य सादरमुभौ चरणो गरिम्णा
तस्मै समर्प्य चरणोदकविष्टरञ्च।
देवोचितं सुमधुपर्कमपि प्रयच्छन्
सद्योऽभिवाद्य निजगाद विनीतवाचम्।।9।।
यन्मे शचीश्वरकृपाकरुणाकटाक्ष-
च्छिन्नाहिताऽप्रतिमराजसुखं किलास्ते।
यन्मे यशोंऽशुकमिदं ककुभङ्गनाभि-
स्सन्धार्यते मृदुकलेवरगोपनाय।।10।।
यन्मे कलत्रतनयोदितभूरिभाग्यं
स्वैरं चकास्ति भुवने शमनं हृदीव।
चञ्चद्वपुस्समदसिन्धुरदानशोभाऽऽ
लानावनीप्रवहदम्बुसमूहसिद्धा।।11।।
दाक्षिण्यभावललिता मम चित्तवृत्ति-
र्देवे गुरौ पितरि यत् कलितावकाशा।
यद्वाऽतिथिप्रणयपारणमस्ति हार्दं
भृत्यायितस्य मम सेवनदर्पितस्य।।12।।
देव प्ररुढमहिमन् विनमद्दयालो
ज्ञातम्मया तदखिलं भवदेकमूलम्।
यावद्गुणा वनभुवां प्रभवेत् समृद्धि-
र्नासौ किमस्ति विभुतैव वसन्तकस्य।।13।।
सोऽहं समर्च्यचरणाम्बुजचञ्चरीकः
कुर्यामहो किमु सदौपयिकं हितन्ते।
प्राणैरपि प्रयतनं प्रविधातुमीहे
सत्याश्रयैकरुचिको भगवन् किमन्यत्।।14।।
वाचंयमे नरपतावथ गाधिसूनुः
स्निग्धेक्षणापहृतभूपमना जगाद।
राजन्नमेयभुजविक्रम! चापपाणौ
धात्रीं प्रशासति भयं त्वयि जन्मिनां किम्।।15।।
वाता वहन्ति नितरां सुमगन्धवाहा
मेघाश्च्यवन्ति भुवि सम्भृतवारिधाराः
किंवाऽधिकेन रघुनन्दन! लोकपाला-
स्सर्वेऽपि भूरिविभवैस्त्वयि कामयन्ते।।।16।।
प्राप्तस्तथापि यदहं ननु सत्यसन्धं
स्यात्तस्य कोऽपि सुमहान् स्पृहणीयहेतुः।
जाती प्रसूनविकला यदि माधवे स्या-
न्निश्चप्रचं विजयते गिरिशाभिशापः।।17।।
ख्यातौ नृशंसचरितौ भुवि ताडकेयौ
यज्ञक्रियाव्रततपोनिधिधूमकेतू।
आद्योऽभिधानमुपयाति सुबाहुमन्यो
मारीचमेव नृपते! भयमस्ति ताभ्याम्।।18।।
आरब्ध एव हवनेऽध्वरजातदीक्षैः
ऋत्विग्भिरेत्य मखवेश्मनि यातुधानौ।
मांसास्थ्यसृङ् मलसुराकरकादिवर्षै-
र्यज्ञं विखण्ड्य कुरुतो विजयाट्टसम्।।19।।
सोऽहं भवन्तमवनीश ! समागतोऽस्मि
तन्नाशनाय भवतस्तनयौ हि नेतुम्।
हेमन्तजातजडिमानमपोह्य लोकं
पातुं प्रभू न सुहृदौ मधुमाधवौ किम्।।20।।
रामं सलक्ष्मणमुदारधियं प्रदाय
प्रीतिं विधेहि मयि राघव ! रक्ष लोकम्।
एतौ कृतान्तजयिनौ रणदुर्मदोर्ध्वौ
ऎक्ष्वाकवीमृतसृतिं प्रवरां विधत्तः।।21।।
आकर्ण्य कौशिकवचांसि महीमहेन्द्र–
स्तूष्णीम्बभूव शनकैर्ग्लपिताननेन्दुः।
लोल्लन्नमत्तरलतारकनेत्रपद्मे
प्रालेयशीकरनते विमृशन् बभासे।।22।।
प्राप्ता मया परिणते वयसीष्टियत्नैः
पुत्रा इमे कुशिकनन्दन ! पूज्यपाद !!
तस्माद् विलक्षणरतिं सह सिन्धुतोयैः
पाठीनवृत्तिमिव सोऽनुभवामि नित्यम्।।23।।
तत्राप्ययं सुतवरो मम रामचन्द्रः
प्राणाधिकोऽस्त्यखिलजीवितनिर्विशेषः।
चैतन्यमेव वपुषां श्लथनेत्रदीप्तिः
रामान्तमेव कुशलं भुवि मेऽपि मान्यम्।।24।।
प्राणैर्विना दशरथीभवितुं न शक्तो
दृष्टिं विना दृगुभयं ननु मोघजन्म।
किं वा करोमि तदहं वितथं न भाष
रामं विना क्षणमपि श्वसितुं न शक्यम्।।25।।
गादीभवन्नरपतिश्चमरैणनेत्रो-
त्सङ्गस्फुटाम्बुनिवहाल्पितवैखरीकः।
वक्तुं शशाक कृपणो न मनागधीर-
श्चित्रार्पितस्य मुषितस्य गतिं जगाम।।26।।
दृष्टवा नृपस्य करुणां करुणाकरोऽसौ
प्रेमाश्रुपूरविनिमज्जितयाचनीयः।
प्राह स्म नैव किमपि प्रतिबद्धधैर्यः
कालोचित प्रकटयन्ति वचो विधिज्ञाः।।27।।
तस्मिन् क्षणेऽथ सहसैव गुरुर्वशिष्ठो
भूपं विषण्णहृदयं तमुपाजगाम।
वृत्तं निशम्य निखिलं स्मितकोपगूढं
प्रोवाच सादरमिदं कृतभूपलक्ष्यम्।।28।।
राजन्नलं बहु विजल्प्य मुधा प्रमुह्य
मामाऽवमत्य चिरवाञ्छितभागधेयम्।
नायं प्रयाचितुमिहोपययौ महर्षि-
र्दातुं परार्ध्यविभवं पुनरेव तुभ्यम्।।29।।
एषोऽस्ति गाधितनयस्स्फुरदूर्ध्वरेता
दिव्यास्त्रयोगकुशलोऽनभिभूततेजाः।
एनं विधाय गुरुगौरवभूरिधाम्ना
प्रीतं प्रभो ! तव सुतौ निशितौ भवेताम्।।30।।
एवं वशिप्ठवचसा व्यपनीतमोहः
सत्त्वोदयं ह्युपगतो ननु कोशलेन्द्रः।
पुत्रौ प्रगाढमुपगूह्य कृतप्रणामौ
प्रादात्स्वयं कुशिकनन्दनपूतपाणौ।।31।।
निष्क्रामति द्विपदविक्रमिणीष्टयोगे
रामे सहोदरयुते नगरात्तदानीम्।
अट्टाधिरुढपुरवासिदृगम्बुवाहा-
स्तप्ताश्रु सीकरझरीं ववृषुस्समन्तात्।।32।।
धात्र्यस्तु वत्सलतया भुवि सम्मुमूर्च्छुः
संक्रीडनैकरुचयो रुरुदुर्वयस्याः।
प्रस्थानकौतुकमुपेयुषि रामभद्रे
भद्रं बभूव तनुकं किल न प्रजानाम्।।33।।
दैन्यं ययौ सपदि संहननत्रयं त-
त्पश्चाददृष्टिभजन् रथनेमिधुर्याः।
अन्ते रथाङ्गगतिमर्दितधूलिनिर्य-
द्धूमप्रभाकपिशभाऽपि शनैर्विलुप्ता।।34।।
रामे गतेऽपहृतनूतननन्दनैवं
गृष्टिः पयोभरतिरोहितमेदिनीका।
क्रीडत्सरोवरटयूथविरावतुल्यै-
र्हम्भारवैरिव पुरी पुनराजुहाव।।35।।
निर्यद्दिनैः कतिपयैरथ राधवौ तौ
दिव्यायुधानि परिगुह्य गुरोः प्रसादात्।
सम्प्रेष्य चापि दनुजाञ्छिशुलीलयैवं
कीनाशमन्दिरमवापतुरात्मसौख्यम्।।36।।
वेदेतिहासबहुशास्त्रपुराणवृत्तैः
काव्योपभेदरतिशास्त्रकलादिभिश्च।
रात्रौ रघोः परिवृढद्वितयस्य मेधां
विद्योतयन् कुशिककीर्तिधरस्तुतोष।।37।।
इत्थं क्रमेण विगतेषु दिनेषु तस्मिन्
पुण्याश्रमे मुनिवरस्य विलीनचिन्तम्।
बालातपे स्फुटति तूर्णमुपाजगाम
भृत्यो विदेहनगराद्धयपृष्ठरूढः।।38।।
तस्मादधीत्य कुशलं ननु मैथिलानां
पत्रं विलोक्य प्रविधाय च सङ्गतार्थम्।
भृत्यं विसर्ज्य शनकैर्वृतसत्क्रियं तं
प्रोवाच हार्दमहितं वचनं मुनीन्द्रः।।39।।
दैवं ह्युपैति रघुवीर ! सपक्षभावं
सिद्धं निमंत्रणसुपत्रिकया तदेतत्।
वत्सौ ! श्व एव तरणौ सति सम्मुखीने
गन्तास्म ऊर्ध्वनगरीं मिथिलाभिधानाम्।।40।।
सीरध्वजो वितनुते निजकन्यकाया
लावण्यतोयनिधिमन्थनजातलक्ष्म्याः।
चञ्चत्स्वयंवरमहोत्सवसंविधानं
दृग्भिर्निपीय यदहो भविता सुखन्ते।।41।।
सीतेति नाम रुचिरं रुचिरानना सा
दीप्यत्कपोलकलकान्तिजितप्रवाला।
बाला सितेन्दुसुमुखी ननु पूर्वदृष्टा
सद्यः स्मृता स्मृतिपथं क्वचिदभ्युपैति।।42।।
चाम्पेयपुष्पपरिपाण्डुरकोमलाङ्गी
साक्षादसौ मधुजितोऽनुगतैव लक्ष्मीः।
तां सुन्दरीं परिणयेच्छृणु रामभद्र !
नारायणः स्वयमथो यदि वा तदंशः।।43।।
एवं प्रशंस्य बहुभिर्वचनोपहारै-
र्लीलामयीं जनकजां स्मृतसौम्यशोभाम्।
पादाब्जपीडनसुखं पुलकानुमेयं
ताभ्यां मुनिस्त्वनुभवन्सहसा निदद्रौ।।44।।
गुरुवचोभिरुपेतकुतूहलो जनकजेरितभूरिघनव्यथः।
धृतिपयोधिविगाहनवेपितो रघुवरोऽपि ययौ शयनीयकम्।।45।।
तस्यां रात्रौ मनसिजकथानायिकाऽकृष्टचेताः
काकुत्स्थोऽसौ क्षणमपि दृशौ मीलितुं नो शशाकः।
स्मारं स्मारं जनकतनयां वीतनिद्रं त्रियामां
रामोऽनैषीत्कथमपि च तां सोदराद् गोपितात्मा।।46।।
यत्काव्यं तरुणायते नवनवोन्मेषैर्लसद्वैभवं
सान्द्रानन्दमरन्दविन्दुरुचिरं वाण्याशिषाऽनारतम्।
राजेन्द्रस्य कृतावयं परिणतिं सर्गस्तुरीयोऽभज-
च्छ्रीमद्राघवपूर्वरागविषयश्श्रीजानकीजीवने।।47।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्यैकपुण्यं फलं
जीव्याद्धन्त निसर्गजोऽप्रमभिराड्राजेन्द्रकाव्यद्रुमः।।48।।
इति श्रीमद् दुर्गाप्रसादाभिराजीसूनोर्गौतमगोत्रीयभभयाख्य- मिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये राघवानुरागसंज्ञकस्तुरीयः सर्गः