एकादशः सर्गः
चन्द्रिका विधुसङ्गतेव दधत्प्रकाशा मेघवारितवैभवा कुमुदाभिनन्द्या।
मैथिली प्रययौ वनं रघुनाथनाथा सौधसौख्यमपास्य कान्तपदानुरागा।।1।।
शर्वरीं समतीत्य ते तमसातटान्ते श्रृङ्गवेरपुरे प्रतीर्य च जहनुकन्याम्।
पूतयामुनगाङ्गसङ्गमनेऽभिषिक्ता भरद्वाजमुपाश्रिताः पदवन्दनायै।।2।।
भानुजाञ्च ततोवतीर्य शनैस्सरन्तश्चित्रकूटगिरिप्रदेशमुपाययुस्ते।
कामदे शिखरे विधाय पलाशगेहं सीतया सह राघवस्समुवास तत्र।।3।।
तत्र कोलकिरातवृन्दपरीतदेहा पूजिता च वनेचरीभिरकृत्रिमाभिः।
वन्यमूलफलोपहारचयैर्नितान्तं सेविता ननु मैथिली विभवं प्रपेदे।।4।।
दुष्प्रवेशवनं लतागृहकुञ्जरम्यं पुष्पगन्धभराञ्चितं घनसारशीतम्।
पक्षिभिर्मृदुकूजितैः पशुभिश्च नद्धं मैथिलीं प्रकृतिप्रियां विपुलं ननन्द।।।5।।
राघवात्प्रथमं विहाय धराङ्कशय्यां जानकी दयितं प्रबोधितवत्युदारा।
आननेन्दुमथावलोक्य कुवेलकल्पं राघवस्य पराम्मुदं बिभराम्बभूव।।6।।
सा ययौ हिमशीतलां सरितं वनान्ते प्रातरेव पयस्विनीं विशदप्रवाहाम्।
मोदिता मृगशावकैः पथि लोलनैत्रैर्मल्लिकाक्षसुतेव धीरपदैरुपेता।।7।।
दुर्मनायितमेक्ष्य भूरिविलम्बहेतोर्हार्दमेदुरमानसं दयितं दयालुम्।
दृवकटाक्षसुसाक्षिकैःप्रणयोपचारैःसाध्वसं दधतीव साऽनुनिनाय कान्तम्।।8।।
उत्पलं ननु देव ! पश्य मयोपनीतं त्वत्कृते मृदुसौरभं तदिदं गृहाण।
कर्णमूलमुपेत्य तादृशवादिनी सा स्पर्शजन्यसुखैः प्रियं विनतञ्चकार।।9।।
निर्भरं दयितोपगूढनिबद्धदेहा स्थण्डिलेऽपि सुखं व्रततिनिचये शयाना।
देवराभिमता किरातवधूभिरिष्टा सा वनं सुखदं गृहाऽभ्यधिकं नु मेने।।10।।
राघवं मुनयो निभालयितुं य एताः कामदेऽनुदिनं स्फुटप्रघुणोपचारम्।
सिद्धपाककलाऽमृतातिशयेन तेभ्यः सा समर्प्य ररक्ष राघवगेहिनीत्वम्।।11।।
गूढशास्त्ररहस्यभेदपरे हि कान्ते तापसैस्सह सूपदेशसुधां श्रुतिभ्याम्।
श्रृण्वती वनवाससत्फलमालुलोके ज्ञानरश्मिविभासितान्तरवृत्तिका सा।।12।।
सा कदाचिदुपेत्य पर्णगृहं सकान्ता घोरकाननमध्यगं प्रथितानसूयाम्।
सेवया परिचर्यचा बहु तर्पयन्ती आशिषं समवाप देवरकान्तमूलाम्।।13।।
स्फाटिके हि शीलातले दयिताङ्कतल्पे सा क्वचिज्जनशून्यनीवृतिचिन्तयाना।
कान्तहस्तकृतैः प्रसाधनसंविधानैर्लालिता मुदमाप संयमिना प्रियेण।।14।।
सा क्वचिज्जलचारिणां युगलं रिरंसुं प्रेक्ष्य कातरमुद्रया दयितं पठन्ती।
दुस्त्यजं विपिनावधेश्शपथं स्मरन्ती नेत्रवारि मुमोच वारिणि निम्नगायाः।।15।।
स्थण्डिले कदुवन्यपर्णयुते शयाना स्वप्नदृष्टनृशंसवृत्तभयान्विता सा।
क्रन्दनं दधती चकार पतिं प्रगाढाश्लेषबद्धमपि क्वचिद्गलदश्रुनेत्रम्।।16।।
उर्मिलाश्रुतकीर्तिमाण्डविकाभिरस्याः स्वप्नकौतुकवर्धितां सरसां मनोज्ञाम्।
शर्वरीषु निशम्य सौधविविक्तवार्तां चिन्तयन् विपदं प्रियां दयतेस्म रामः।।17।।
मैथिलि ! त्वमतो मया विनिवारिताऽसीः स्वप्नवृत्तपुरस्सरं दयिते तदित्थम्।
मंत्रयत्यपलापयन्त्यखिलं तमूचे भाषसे किमहो मृषा कितवोऽसि जातः।।18।।
मानसं मम कान्त ! पादसरोजमाध्वीभृङ्गभूतमिदं क्वचिन्न गतं क्षणाय।
वेदिम तत्कथमेष्यति प्रविहाय रात्रौ मामिह प्रियरक्षितां क्वचिदन्यवासम्।।19।।
राघवः शिशुसन्निभां छलछद्मवाचं सस्मितां ननु सत्यगोपनयत्नसिद्धाम्।
श्रोत्रयुग्मरसायनप्रवणांहि श्रृण्वन् मौनमेव दधे विदेहसुतामनोज्ञः।।20।।
तां विलोक्य वनेचरीनिवहः कदाचित् पुष्पकुड्मलसन्निभां कमनीयदेहाम्।
साश्रुपातमुवाच धिग्विधिमाधिमूलं भूर्यसाम्प्रतकारिणं ननु विप्रतीपम्।।21।।
शैवलं हि यतोत्तिहा शिशुराजहंसी मानसं प्रविहाय मौक्तिकसत्प्ररोहम्।
स्वामिनी ! प्रसभं विदीर्यत एव दृष्ट्वा त्वामिहोत्क्रमणे वने हृदयं समेषाम्।।22।।
कन्दरैकगृहा वयं फलमूलभक्ष्या नागरं विभवं श्रुतं किल नान्वभूम।
वन्यसङ्कटकण्टकैर्नितरां भवामो मूर्च्छितास्तदपीह हन्त ! वृथा कथाते।।23।।
देवि मैथिलि ! गाहसे गिरिनिम्नगायां स्थण्डिले स्वपिषि प्रयासि पदातिरेव।
वल्कलं कुरुषेऽङ्गवारणमत्सि कन्दं नो तथापि विषदमेषि तदेव चित्रम्।।24।।
कैकयीं धिगहो यया कृतमेतदेनो धिग्विधिं धिगदः पुरं धिगमूंश्च पौरान्।
हन्तं ! कोऽपि बभूव नो विपदां निरोद्धा द्वेषपापभुवां प्रजासु मृता न्वयोध्या।।25।।
एवमादिभिरात्मचिन्तितहृद्यवाक्यैरार्जवातिशयान्वितैरनुरागगर्भैः।
सान्त्वनां ददतिस्म कोलकिरातभार्याः श्रद्धया परयाऽभिभूतहृदो रुदत्यः।।26।।
मा कृथा अयि साध्वि ! कोपमथ प्ररोषं सत्कृतैर्हि विधेर्वयं ननु भाग्यवत्यः।
अन्यथा शरदिन्दुकान्तिमयी मुखश्रीःस्यात्कथं सुलभेति काचिदुवाच तन्वी।।27।।
चित्रकूटवनं प्रमोदवनं नु जातं जाह्नवी च पयस्विनी नृपसद्म दर्भः।
कामदं शिखरं सुमेरुनिभं विभाति सर्वमेव शुभागमैकफलं भवत्याः।।28।।
स्मेरगर्भमधीत्य हृद्यवचःप्रकर्षं कोलभिल्लपुलिन्दयूथपसुन्दरीणाम्।
नागरैस्सह मैथिली ननु तोलयन्ती तास्तुतोष परं वचोऽमृतमर्पयन्ती।।29।।
अम्ब ! माऽतितरां गमस्त्वमखर्वखेदं वैभवं दयिताङिघ्रपद्मयुगेऽस्ति पत्न्याः।
राघवे सति कानने विजनं न चैतत् आत्मनैव शपामि सौधसुखातिशायि।।30।।
वैभवं नगरस्य नैव यथा वनान्ते सर्वथा वनवैभवं न तथैव सौधे।
मन्दिरे सुखिनी यथाऽऽसमहं रघूणां वल्लभेन सहाहमूनसुखा वने नो।।31।।
मत्कृते विजनादपि ग्रहिलाऽभविष्यद्राघवेण विना समेधितराजधानी।
काननं ह्यमरावतीसुभगं तथैव प्राणवल्लभसाहचर्यमुपेत्य जातम्।।32।।
हंसकोकिलकीरचातकगीतिकाभिर्नेत्रसौख्यरैर्मयूरकपोतनृत्यैः।
अद्रिश्रृङ्गपतज्जलाहततंत्रवाद्यैः किन्न मे सुलभं वनेऽपि सुखं त्रयाणाम्।।33।।
शीतलोऽत्र पयस्विनीसलिलाभिषिक्तो वाति गन्धवहः फलन्ति मृदूनि वृक्षाः।
सर्वभोगमयो निरत्ययकामदोऽयं राजते हि ममाश्रमे विबुधोपभोगः।।34।।
मैथिलीवचनं निपीय कृतप्रणामाः सद्गुणान् विजनेशयाः पथि शंसमानाः।
जन्मनश्च कृतार्थतां मनसा स्मरन्त्यः आत्मनो वसतिं ययुः पुनरागमेच्छाः।।35।।
आगतो भरतस्ततो विनतोऽश्रुसिक्तः सङ्गतः गुरुपौरजानपदैश्च सर्वैः।
प्रार्थनां स चकार वंशपरम्पराया रक्षणाय निवेद्य तातमहाप्रयाणम्।।36।।
धैर्यबुद्धिमनोहृदन्तकरं नु वृतं राघवस्तदधीत्य पूतचरित्रभूपम्।
संस्मरन् सुतकातरं विललाप दीनः प्राददाच्च जलाञ्जलिं ससहोदरोऽसौ।।37।।
साग्रहं सदयं प्रबोध्य पितुर्महिम्ना तद्वचःपिररक्षणेन कुलव्रतेन।
पादुके च समीहिते भरताय दत्वा राघवो विससर्ज तं नगराय सद्यः।।38।।
नित्यशोऽथ विलोक्य बन्धुजनप्रवाहं बन्धनञ्च दृढीभवज्जनितान्तरायम्।
राक्षसैः रहितां धरामपि कर्तुकामश्चित्रकूटमुपेक्ष्य राम इयाय याम्याम्।।39।।
दण्डकाभिधया वनं विदितं समेषां राक्षसैः पुरुविक्रमैर्निचितं पृथिव्याम्।
दूषणस्त्रिशिराः खरश्च समेत्य यत्र शासनं विवधुर्दशाननभृत्यभूताः।।40।।
दारुणा भगिनी च शूर्पणखाऽप्यमीषामार्यधर्मनवाङ्कुरप्रलयाग्निकल्पा।
कामरुपधरा भ्रमन्त्यनिशं वनान्ते साध्वसं विदधे मनरसु तपोधनानाम्।।41।।
रम्यनिर्झरिणीप्रपातनिपानवापीवृक्षगुल्मलताद्रिरन्ध्रविमण्डितताऽपि।
सा वनी तपसामभून्न विशल्यमोको रक्षसां नरभक्षिणामतिचारकम्पात्।।42।।
नापरे मुनयो विहाय विभुं सुतीक्ष्णं दण्डके शरभङ्गमप्यवसन् भयार्ताः।
श्रूयते स्म समन्ततो विपिनान्तराले घस्मरो दनुजाऽरवः ऋतधूमकेतुः।।43।।
निश्चिकाय रघूत्तमः प्रसमीक्ष्य सर्वं मानसे यदिदं वनं द्रुतमुद्धरिष्ये।
दण्डकं समभीष्टराक्षसनाशसत्रदीक्षितस्य भवेत्स्थलं मम राघवस्य।।44।।
लक्ष्मणं स दिदेश पर्णगृहोद्यमाय कानने रुचिरे शिलोच्चयमूर्च्छनाभिः।
वल्लकीमिव वादयन्त्यमलप्रवाहा यत्र हंसतटी तटिन्यवहन्नु गोदा।।45।।
तत्र वै प्रिययाऽनुजेन सहाभिरामो राघवस्ससुखं व्रतं द्रढयन्नुवास।
रम्यपञ्चवटी छविश्रयिणीनिकामं मैथिलीमपि रञ्जयां द्रुतमास कामम्।।46।।
तत्र शूर्पणखा कदाचिदुपेयिषी सा वीक्ष्य दिव्यतनुं मनोजसहस्रजैत्रम्।
राघवं रतिपीडिता प्रजहद्विवेका क्लृप्तशोभनविग्रहासदयं ह्यवादीत्।।47।।
सौम्य सुन्दर ! कोऽसि किं कुरुषे वनेऽस्मिन् त्वादृशं पुरुषं न पूर्वमितोन्वपश्यम्।
मामकं हृदयं प्रलीनमहो त्वयीदं कामये रतिवल्लयभं स्मरनिर्जिताऽहम्।।48।।
याचनामयि कान्त ! पूरय मे रतिज्ञः कामिनीहृदयार्तिनाशपरो भव त्वम्।
पादपद्मसपर्यया सुखमर्पयन्ती त्वत्कृते भविताऽन्विता सततं समृद्ध्या।।49।।
निस्त्रपं वचनं निशम्य हि यातुधान्या आर्जवेऽपि नृशंसतां स्फुटमीक्षमाणः।
वैरमूलमपि स्वयं निभृतं विचिन्वन् दर्शयन् दयितामुवाच सकैतवं ताम्।।50।।
राघवोऽस्मि शुभे ! पुरी मम काऽप्ययोध्या विश्रुतास्ति नवाततोऽस्मि वनं प्रपन्नः।
आज्ञया पितुरेष दण्डमटासि भार्यासोदरानुगतश्चतुर्दशहायनान्तम्।।51।।
पश्य मे दयितां न तां विनतां विहाय स्वीकरोमि परामयं खलु मेऽस्ति धर्मः।
गच्छ सुन्दरि ! सोदरं वनिताविहीनं त्वामसौ रमयेत्पुरन्ध्रिमनोमनोज्ञः।।52।।
लक्ष्मणं समुपेत्य शूर्पणखा ययाचे कामविह्वलमानसा नमितैर्वचोभिः।
राघवेङ्गितमर्मगो ननु सोऽपि तस्याः स्वीचकार न कामनां दुरितैकमूलाम्।।53।।
क्षोभिता नु गतागतैरुभयोस्समीपं सा विदेहसुतां मनोरथविघ्नसूत्रम्।
हिंसितुं विकरालवेषधराऽभ्यधावत् कृत्रिमां रमणीतनुं परिवर्त्य तूर्णम्।।54।।
वीक्ष्य भैरवविक्रियां किल यातुधान्या लक्ष्मणस्त्वरितं चकर्त सकर्णनासाम्।
सा खलीकृतविक्रमा रुधिरं वमन्ती क्रन्दनं दधती खरान्तिकमाजगाम।।55।।
वीक्ष्य शूर्पणखागतिं प्ररुषाऽग्निदीप्तः स्वाभिमानपरः खरोऽभियौ प्रहर्तुम्।
दूषणत्रिशिरः पुरस्सरमेत्य तूर्ण सोऽरुणद् विपिनं सहस्रशतप्रवीरैः।।56।।
राघवोऽपि नियोज्य वेपितवल्लभाया रक्षणे प्रियलक्ष्मणं समुपात्तधन्वा।
आययौ द्रुतमेकलः क्षणदाचराणां ध्वंसनाय रणाङ्गणं ननु पञ्चवट्याम्।।57।।
मण्डलीकृतकार्मुकस्य विमुच्य मौर्वीं चण्डरावमजीजनत् भुवनप्रकम्पम्।
राक्षसा बधिरायिताः किल येन कल्पध्वंसकालपयोदगर्जितसन्निभेन।।58।।
कुम्भजाय पुरन्दरोपनतेन पूर्वं कुम्भजेन च रक्षसां शमनाय पश्चात्।
साग्रहं निजहेतवे सुखमर्पितेन वैष्णवेन शरासनेन समन्वितोऽसौ।।59।।
निर्भयं प्रविवेश राक्षससैणन्यगर्भे केसरीव करालदंष्ट्र इभेन्द्रयूथे।
तीक्ष्णसायकवर्षणैः ककुभो विरुन्धन् राक्षसान् स ददाह तूलनिभान् क्षणेन।।60।।
मस्तकं कपिशप्रभं स चकर्त तूर्णम् अर्धभिन्नपलाशवृन्तनिभं खरस्य।
दूषणञ्च जघान सैन्यपतिं त्रिशीर्ष लीलयेव मदान्धसिन्धुर उत्पलानि।।61।।
वीक्ष्य शूर्पणखा रघूद्वहचण्डशौर्यम् आत्मनश्च विरुपतां करुणं स्मरन्ती।
द्वेषदैन्यपरीतखिन्नमना दशास्यं वर्त्मना नु विहायसोपजगाम तूर्णम्।।62।।
तद्वचांसि मृषाप्रपञ्चसमन्वितानि क्रोधरोषकृशानुवृद्धिकराण्यवेत्य।
आत्मशौर्यकदर्थनाऽनुभवासहिष्णुः रावणः स्वमदोष्मणैव ददाह विद्धः।।63।।
तिष्ठ शूर्पणखे ! शुभे ! मयि वर्तमाने नाक्षतो भविता शठो हि तवावमन्ता।
दिक्पतीन् विबुधानपि क्रमितुं क्षमोऽहं त्वद्रिपूनथ का कथा खलु तापसानाम्।।64।।
साम्प्रतं मम पश्य कूटनयाभियानं शत्रुसंहरणाभ्युपायमपि प्रगूढम्।
इत्यमुं परितोष्य सोऽभ्रपथैः प्रतस्थे पापनिष्कृतिदारुणः प्रविलुप्तधर्मः।।65।।
हृद्यरूपकथा विदेहनृपाङ्कजाया कर्णगोचरिता हि शूर्पणखावचोभिः।
तं हृषीकजसौख्यलोलुपमस्तधैर्यं वाडवाग्निरिवोन्ममाथ पयोधिगर्भम्।।66।।
ताटकातनुजं ससाद स मातुलं स्वं सिन्धुनीरपरीतभूमितले वसन्तम्।
जानकीहरणोद्यमस्य निशाम्य तस्मै योजनां स सहायतां त्वरितं ययाचे।।67।।
वीक्ष्य दारुणमन्त्रितं दशकन्धरस्य दुर्निवारमथ प्रतर्क्य वधं विरोधे।
मा रचो रघुवीरसायकलक्ष्यभूतं स्वावसानमपि ध्रुवं ह्यमृताय मेने।।68।।
हेमसन्निभरोमराजिपरीतकायः उत्प्लवैर्विदधत्सुखं वलनैस्सहेलम्।
स्निग्धलोलविलोकनैः कुतुकं वितन्वन् मैथिलीं मृगरूपधृक् स जगाम तूर्णम्।।69।।
चञ्चलैः स्वगतागतैर्नटनैर्विलोलैर्वल्गुतिर्यगवेक्षणैः प्रकृतक्रियाभिः।
जानकीहृदयं जहार स ताटकेयः सम्मुमूर्षुरपि प्रमोहपरोऽभिरामे।।70।।
तप्तजाम्बूनदनिभं समवेक्ष्य रङ्कुं दुर्लभं तमदृष्टपूर्वमथ प्रगाढम्।
चर्मणे स्पृहयाञ्चकार विनोदिताऽसौ मैथिली कुतुकान्विता दयितं बभाषे।।71।।
पश्य कान्त ! मृगं सुवर्णतनुं विचित्रं मे मनः प्रसभं हरत्ययमुत्प्लवैः स्वैः।
चर्मणे स्पृहयामि तत्सदयं प्रयाचे एनमानय मत्कृते निहतं प्रसीद।।72।।
राघवो दयितानुरोधमपेक्ष्य सद्यः प्रस्थितोऽनु मृगं प्रगृह्य धनुर्ह्यधिज्यम्।
स्वोद्यमं सफलीभवन्तमवेक्ष्य हृष्टो मारिचोऽपि दधाव वातरयो वनान्ते।।73।।
सम्मुखं ददृशे क्षणं क्षणमेव दूरं दृष्टितोऽस्तमितः क्वचित्पुनरुद्बभूव।
वामदक्षिणतिर्यगूर्ध्वसमानगत्या भ्रामयन् स रघूद्वहं प्रपथं निनाय।।74।।
कैतवैर्हरिणाधमस्य विवृद्धरोषो राघवोऽपि शरम्मुमोच करालमेकम्।
चीत्कृतिं करुणां विधाय पपात भूमौ राक्षसीं तनुमेत्य हिंसितताटकेयः।।75।।
लक्ष्मणं द्रुतमाजुहाव ततश्च सीतां राक्षसो मरणक्रमे विपुलस्वरेण।
रावणस्य समीहितं सफलं विधातुं श्रेयसे स्मृतवान् विभुं रघुनाथमन्ते।।76।।
मैथिली घनगर्जितप्रचितं तदार्तं वाचिकं नु निशम्य नष्टविवेकधैर्या।
राघवव्यसनार्दिता रुदती भयार्ता लक्ष्मणं वचनं जगाद सबाष्पकण्ठा।।77।।
राघवो व्यसनार्दितो ध्रुवमेव मन्ये आजुहोति सहोदरं स्वसहायतायै।
गच्छ लक्ष्मण ! मा विलम्बमये भजेथा मज्जतीव मनो मदीयमगाधसिन्धौ।।78।।
लक्ष्मणो विनतैः स्वरैर्निजगाद शान्तो देवि ! कीदृगयं भ्रमः क्षिणुते किल त्वाम्।
एक एव निहन्ति यः खरदूषणादीन् सङ्गरे व्यसनं भवेत्किमु राघवस्य ??79।।
नूनमेष निशाचरस्य छलप्रपञ्चः साम्प्रतं निहतोऽस्ति यः किल धन्विनाऽर्ये !
याहि विक्लवतां न चाश्रय कातरत्वं शीघ्रमेति रघूत्तमस्तव सान्त्वनार्थम्।।80।।
देवि भूमिसुतेऽन्यथाऽलमिह प्रकल्प्य रक्षणेऽस्मि नियोजितस्तव सोऽहमार्यैः।
दण्डके प्रचरन्ति घोरनिशाचरास्ते युक्तमस्ति न हातुमत्र विनाकृतां त्वाम्।।81।।
देवरोदितसान्त्वनामृतसत्ययुक्तां जानकी न ववार कालगतिप्रमोहात्।
साऽऽक्षिपच्चरितं स्त्रियोचितभीरुबुद्धिर्लक्ष्मणस्य मृषोहितैर्दुरितैश्च गर्ह्यैः।।82।।
मर्मविद्ध इवाहतो वनदेवतानां वीरुधामथ भूरुहां सरितां खगानाम्।
आश्रये वनितां विहाय सहोदरस्य लक्ष्मणो व्यथयार्दितो विपिने विवेश।।83।।
क्षोभसंशयतापविद्धतनुं विशीर्णां चन्द्रिकामिव कालमेघविलूनशोभाम्।
रावणोऽवसरं निभाल्य महर्षिवेषी मैथिलीं द्रुतमाजगाम विपन्नेचित्ताम्।।84।।
दिव्यरक्तदुकूलसंवृतचारुदेहः शाम्भवञ्च दधत्त्रिपुण्डकमुत्तमाङ्गे।
पाणिनद्धपलाशदण्डकमण्डलुश्च प्रीतवारुणलोचनोऽधरमन्दहासः।।85।।
धीरशान्तगतिस्समीपमुपेत्य मृद्व्या वाचया गुणरूपशीलनुतिं वितन्वन्।
आतिथेयमसौ विदेहसुतां ययाचे प्रस्फुटीकृतगेहिनीजनधर्मचर्यः।।86।।
दुर्व्यथाऽपि गृहागतं यतिकं विशिष्टं वीक्ष्य शापभयादुपेत्य गृहे नु सीता।
कन्दमूलफलादिकं समुपाहरन्ती पाद्यविष्टरसत्कृतं विनता जगाद।।87।।
स्वागतं यतिवर्य ! राघवगेहिनी त्वां मैथिली प्रणमाम्यहं महितं तपोभिः।
कानने किमु लभ्यतेऽशनपेयजातं यत्तथापि समर्पितं तदिदं गृहाण।।88।।
वल्लभो मम कोसलेशसुतो धनुष्मान् राघवो ननु देवरोऽपि स लक्ष्मणाख्यः।
प्रेरिताः पितुराज्ञया गहने वनेऽस्मिन् आचतुर्दशहायनानि वयं वसामः।।89।।
हायनं चरमं न्विदं तदतीत्य तूर्णं मत्पुरीं रुचिरामुपैमि शुभामयोध्याम्।
स्थीयतां दयितः समेष्यति सानुजं तं वीक्ष्य ते भविता सुतृप्तिरिहागतस्य।।90।।
मैथिलीमितिवादिनीमवरोध्य मध्ये रावणो रघुनन्दनस्तवनैरजीर्णैः।
विद्विषन् वनवासकष्टकथाभिरस्या मानसं क्वचिदन्यभूमिमियेष नेतुम्।।91।।
हन्त राजसुते ! क्व ते लवलीलताभं कोमलं वपुरीदृशं क्व च भूमिशय्या ?
पल्वलेषु विचिन्वतीं किल राजहंसीं दर्दुरान् परिलक्ष्य मे हृदयं प्रभिन्नम्।।92।।
तापसे रघुनन्दने प्रणयं व्यलीकं मैथिलि ! च्युतवैभवे तवकं समीक्षे।
प्रोद्धराम्बुधरावलेपनिगीर्ण इन्दुर्बालकैरविणीं सुखैरनुरञ्जयेत्किम् ।।93।।
साम्प्रतं प्रकृतं वदामि हिताय सीते ! मां भजस्य सुरासुरोज्जयिनं समृद्धम्।
रावणोऽस्मि शुभे ! त्वदास्यमृगाङ्कसिन्धुः आगतस्तव दिव्यरूपसुधावकृष्टः।।94।।
वासवोऽपि नमत्यधीनचरस्त्रिसन्ध्यं नो कलापचयं विधुस्तनुते कदाचित्।
भास्करो न तपत्यलं पवनो न वात्यां चेष्टते प्रभविष्णुतामहमुद् वहामि।।95।।
मैथिलि ! प्रमदोत्तमे ! जलधौ त्रिकूटे राजते नगरी सुवर्णमयी महार्घा।
तत्र मे हृदयेश्वरीव लभस्व सौख्यं देदभोग्यमचिन्त्यमेव धराचराणाम्।।96।।
एवमादि विजल्प्य छन्नतनुञ्च हित्वा आस्थितः स्वतनुं विभूतिमयीं दशास्यः।
तद् वचांसि निशम्य रूपमवेक्ष्य मूलं मैथिलीभयविहवला विकलाऽचलाभूत्।।97।।
सा कथञ्चिदुपेत्य धैर्यमुवाच दैन्यक्रोधरोषभयार्दिता श्रृणु भो दशास्य !
धिक् छलं हतपौरुषं विबुधाधिपत्यं धिक् च ते मलिनायितं हृदयं निकृष्टम्।।98।।
इन्द्रियं न जितं किमिन्द्रजयेन तत्ते हृत्तमो न गतं ततस्तरणोशिता का ?
निष्कले त्वयि का नु चन्द्रकलासमीक्षा वर्जिता मरुता त्वयैव धृताऽस्ति वात्या।।99।।
साम्प्रतं खलु ते छलं निखिलं प्रवेद्मि राघवो मम देवरश्च यथोपनीतौ।
आगतोऽसि निरन्तरायमवेत्य सर्वं पाप ! पापमयीमिमां विनतिं प्रयोक्तुम् ।।100।।
वल्लभा रघुवंशभानुनिभस्य चाहं राघवस्य विवेहजा च कुलप्रसूता।
स्वप्नजाऽपि न मे रतिः पुरुषान्तरेषु स्वामिजीवितजीवितास्मि तदर्पिताऽहम्।।101।।
गच्छ यावदुपैति नो ह्यनुजद्वितीयो राघवः खरदूषणादिपिशाचहन्ता।
कार्मुके दयितस्यमे सशरे ह्यधिज्ये क्रन्दितुं क्षमसे न रावण ! विक्षताङ्गः।।102।।
एवमादिवचोभिराशु महोग्रकायं रावणं व्यवधूय साध्वसवेपिताङ्गी।
यावदेव चचाल पर्णगृहाय सीता तावदेव पुरस्ससार शठस्सझम्पम्।।103।।
वामकेन निगृह्य मूर्द्धजपाशबन्धं दक्षिणेन युगोरुकञ्च दृढं नियम्य।
मैथिलीं स जहार तां परिदेवमानां क्रन्दितामसहायिनीं कुररीसुदीनाम्।।104।।
सोऽधिरुह्य रथं मनोजविनं नभोगं मायिकं सभयं ससार समीक्षमाणः।
राघवानुगतं निजं परिशंकमानः पापभारविलीनसत्त्वविवेकधर्मः।।105।।
मौक्तिकाश्रुपृषन्ति नेत्रसरोरुहाभ्यां दण्डकेषु बृहन्ति पर्णचये गिरन्ती।
व्याधहस्तगतेव वत्सतरी स्वनन्ती जानकी विललाप शून्यदिशीक्षमाणा।।106।।
क्वासि भो रघुनाथ ! किन्न श्रृणोषि वाचं क्रन्दनं मम कान्तः ! मत्प्रणयावसक्तः।
एष मां विवशां हरत्यधमो दशास्यो राक्षसो गतपौरुषस्त्वयि वर्तमाने।।107।।
प्राणवल्लभ ! निर्विदेहसुतः क्षणार्धं नो भवानुषितोऽद्य यावदपि प्रसक्तः।
तत्कथं भवसि स्वयं विरहे विना मां त्वां विनाऽप्यहमेव वा कथमाश्रयिष्ये।।108।।
देवता विहगा लतास्तरवो नु गोदे ! जानकीविपदं प्रवक्त समेत्य यूयम्।
राघवं दयितं परं हृदयेश्वरम्मे बोधयेध्वमिदं दशास्यनृशंसकर्म।।109।।
आत्मपापप्रधर्षिताऽस्मि ममैव दोषः पूर्वजन्मकृतं भवेन्ननु पातकम्मे।
वत्स लक्ष्मण सौम्य ! मूढधिया भवन्तं न्वक्षिपं यदिदं नु तस्य फलं विषाक्तम्।।110।।
मैथिलीकरुणस्वरं परिदेवनाढ्यम् आरुणिर्हि निशम्य गृध्द्रपतिर्जटायुः।
प्रेक्ष्य ताञ्च बलाद् दशानननीयमानां चक्रमे तरसा सपक्षधराधराभः।।111।।
सान्त्वयन् स विदेहजां कुलिशप्रहारैः पादचञ्चुपुटाग्रयोर्विरथञ्च कृत्वा।
चिक्षिणे ननु रावणं रुधिरप्लुताङ्गम् ऊर्णुनाव वधूं प्रसारितपक्षतिभ्याम्।।112।।
लब्धसंज्ञ इहान्तरे कुपितोऽधमोऽसौ प्राहरच्छतधा चकर्त विहङ्गपक्षौ।
सन्निपात्य च तं भुवि प्रससार तूर्णं लङ्घयन् गिरिश्रृङ्खलातटिनीवनानि।।113।।
ऋष्यमूकगिरौ स्थितान् समवेक्ष्य सीता वानरान् करुणैः स्वरैः परिदेवमाना।
भूषणं वसनञ्च पातितवत्यानाथा राघवाय सलक्ष्मणाय निजप्रतीकम्।।114।।
रोदनैहृतचेतनैर्हृदयव्यथाभिर्मूर्च्छिता निपपात साऽधिरथं विपन्ना।
चेतनां पुनरेत्य सा हरिणीव बद्धालुब्धकेन तताम नेत्रपयोवृताङ्गी।।115।।
क इह जगति भुङ्क्ते सौख्यमत्यन्तमिद्धो
विपदनुगतसौख्यं दृश्यते लोकसिद्धम्।
प्रभवति खलु चान्द्री कौमुदी नन्दनायै
परमुदयति भानौ साऽपि दैन्यं प्रयाति।।116।।
काव्यं यत्क्रियते विदेहतनयासत्प्रेरणाभिर्नवं
प्रस्थानं च निवेद्यते मतिमतां तोषाय मोदावहम्।
सम्पूर्णो ननु रावणापहरणप्रख्यस्स एकादशः
सर्गोऽयं मदुपज्ञवृत्तरचितश्श्रीजानकीजीवने।।117।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्री जयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।118।।
इति श्रीमद्दुर्गौप्रसादाभिराजीसूनोर्गौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये रावणापहरणसंज्ञक एकादशः सर्गः
द्वादशः सर्गः
रघुनाथपदाश्रितां तथा विलपन्तीं कुररीमिवाऽनिशम्।
अपहृत्य विदेहनन्दिनीं स्वपुरीमेत्य तुतोष रावणः।।1।।
अयुतैर्नियुतैर्निशाचरैः कृतरक्षे पुरतो बहिश्चरे।
स्फुटवारिजगन्धमेदुरे द्रुतवातप्रविकीर्णसौरभे।।2।।
लसदुन्मदभृङ्गमण्डले शतरूपद्रुमवीरुदञ्चिते।
शुकसारसकोककोकिलोरगभुक्चातकहंसमण्डिते।।3।।
स्फुटपार्वणचन्द्रचन्द्रिके सुखसह्यादितिनन्दनातपे।
सुरसौधनिपानभूषितेऽरुणकङ्केलिकदम्बनन्दिते।।4।।
स्वविलासविहारकानने मणिहर्म्येऽक्षतभोगसङ्कुले।
स विदेहसुतां न्यवेशयत् निभृतं पञ्जरगां शुकीमिव।।5।।
अतिभीषणरूपवैखरीं स्फुटदंष्ट्रामरुणारुणेक्षणाम्।
विनियोज्य च राक्षसीततिं यमहासां प्रतिबद्धरक्षणे।।6।।
स जगाद निशाचरीगणं प्रतिपाल्येयमिह प्रयत्नतः।
प्रविशेन्न च कोऽपि कर्हिचित् स्वजनो वाऽथ परः कथञ्चन।।7।।
उपगम्य मधुद्रवोपमैर्वचनैः सान्त्वपरैर्विदेहजाम्।
मम विक्रमशौर्यवैभवैर्हृदि लोभं जनयाशु दुस्त्यजम्।।8।।
यदि सामवचोभिराश्रयेद्विनतिं नैव ततो विभूषणैः।
मणिरत्नमयैर्विलोभय प्रतिपत्त्या प्रतिसार्य कौतुकम्।।9।।
वलयाङ्गदहारहंसकैः श्रुतिताटङ्कयुगाङ्गुलीयकैः।
कटिसूत्रदुकूलसञ्चयै रमणीदृष्टिविलोभनक्षमैः।।10।।
समपेक्षितवस्तुभिश्चिरं हृदयम्मोदय गीतनर्तनैः।
परिहासकथेतिहासकैरितरैर्वा सुखहर्षसाधनैः।।11।।
त्रिजटामिति हृद्यवाचिकैः सविशेषं प्रतिबोध्य रावणः।
स्वगृहं निजगाम शङ्कितो हृतसीताहृदयः स्मरोन्मुखः।।12।।
मणिरत्नमयेऽपि वेश्मनि प्रतिबद्धा हरिणीव जानकी।
दयिताङिघ्रकुवेलसच्छविस्मरणं सन्दधती रुरोद सा।।13।।
रघुवीर मदार्तिनाशन ! क्व नु शेषे समुपेक्ष्य वल्लभाम्।
इयमस्मि निशाचराऽहृता तव सीता तव पादसेविनी।।14।।
क्षणमात्रमपोह जीवने न मयाऽतर्कि विना त्वया प्रभो !
श्वसितुं यदहो दिवानिशं ननु जीवामि धिगात्मवञ्चिताम्।।15।।
दयया न मया निरर्थकं कुसुमञ्चापि वियोजितं क्वचित्।
रघुनाथ ! तथाप्यनाथिता दुरितैः कैर्गमिता दशामिमाम् !!16।।
दुरितोच्चयमेव निर्भरं किल केषाञ्चिदतीतजन्मनाम्।
इयमद्य विभर्मि हा विभो ! ननु जानामि न ते पदच्युता।।17।।
भजते न पृथक्त्ववेदनामपि राहुग्रसिते विधौ मुदी।
उपरागमिमं न वेद्मि हा प्रविभक्तामृत चन्द्रचन्द्रिकम्।।18।।
अयि नाथ ! कथं विलोचनाच्छुभदृष्टिर्विरहं समश्नुते।
हृदयात्कथमेव विच्युतं ननु सुस्पन्दनमद्य दृश्यते ??19।।
विभवेन बभूव यत्सुखं ननु पीडा तव पीडया ध्रुवम्।
श्वसितैश्च तवैव जीविता तव सीताऽद्य कथं विपद्यते !!20।।
अवलोक्य कदाप्यणीयसीमधरग्लानिमुपैषि वैक्लवम्।
दयिता तव सैव वल्लभ ! प्लवपूरे विपदां निमज्जति।।21।।
अधिकण्ठमिदं भुजार्पणं न सुषुप्तौ शिथिलीकृतम्मया।
अपि यत्नवती सहे कथं परिगाढां विरहव्यथामिमाम्।।22।।
सतिशौर्यपराक्रमोद्धुरेत्वयि सिंहे ननु सिंहिकामिमाम्।
कुदृशा किल जम्बुकाधमः समपश्यतदियं विगर्हणा।।23।।
करुणावरुणालय ! त्वया किमुपेक्ष्ये त्वदशेषजीविता।
बत नाथ ! न विग्रहः क्वचित् प्रजहाति प्रतियातनां निजाम्।।24।।
सबला किल जीवितक्षयेऽप्यहमासं पुनरस्मि साम्प्रतम्।
अबलैव परन्तु रावणव्यपहारेष्वभवं कदर्थिता।।25।।
मुखचन्द्रदिदृक्षयैव हा व्यवसाये मरणस्य मानसम्।
अयि वल्लभ ! कातरायते प्रणयैस्ते शिशुवद्धि लालितम्।।26।।
त्वदपाङ्गविभङ्गलोकनश्रितसख्यं मम लोचनद्वयम्।
दयितोत्तम ! काङ्क्षति ध्रुवं समवाप्तुं करकज्जलार्पणम्।।27।।
मणिबन्धयुगं समीहते घटितं वर्तुलकङ्कणं त्वया।
अयि नाथ ! निपानपङ्कजैः ननु भूयोऽपि मृणालमण्डितैः।।28।।
अयमस्ति विलोलकुन्तलो हतभाग्यो विजनाश्रयादधौ।
कतिधाऽनुबभूव नो त्वया विहितां पत्रविधानचातुरीम्।।29।।
सकृदेव पुनस्त्वदुत्सवं प्रणयाचारविभावितात्मनाम्।
ननु जीवति जानकी चिरं वपुषां दर्पकदर्पनाशिनाम्।।30।।
रघुनन्दन ! राम ! राघव ! क्षमसे सर्वमपि त्रिविष्टपम्।
अवलोकितुमङ्ग ! किन्न मामरिगेहे निहितां समीक्षसे !!31।।
इति भूरिवचोभिरात्मिकीं गणयन्ती विपदं मनोव्यथाम्।
घनवर्णणसन्निभाश्रुभिः स्नपयन्ती विललाप जानकी।।32।।
अवलोक्य तदीयदुर्विधं सदयं पार्श्वमुपेत्य सत्वरम्।
त्रिजटा निजगाद चिन्मयी न शुचं याहि परां विदेहजे !!33।।
ननु राक्षसवंशजाऽप्यहं तव दैन्यं विपदं विभावये।
त्वमसि प्रियजीवितान्तरं शुभचारित्र्यवती प्रियार्पिता।।34।।
शयनं तव भूमिवेदिका व्रतमूर्ध्वं रजनीषु जागरः।
अभिषेक इवाश्रुवर्षणं नियताहारविधिश्च जीवितुम्।।35।।
अयि देवि विदेहजे ! त्वया बहु सोढं बहुमानलाञ्छनम्।
दशशीर्षनृशंसकर्मणा ननु लङ्का क्षयमेष्यति ध्रुवम्।।36।।
विवशासि हतासि मैथिलि ! प्रतिरुद्धासि वियुक्तवल्लभा।
अवधीरणदैन्यधर्षिता पतिचिन्ताग्लपितासि भामिनि !!37।।
न मयेति न तेऽनुभूयते निकृतिर्देवि ! तथापि वच्म्यहम्।
त्यज मा त्वरितं जिजीविषां हृदयं धारय वल्लभाशया।।38।।
घ्रुवमेष्यति शोकमूर्च्छनां रघुवीरोऽपि तवाक्षतस्मृतिः।
न दुनोति विशिष्य चन्द्रिकामुपरागो विधुमप्यमत्यलम्।।39।।
न भविष्यति राघवः सुखी विरहे नन्दिनि ! तावके ध्रुवम्।
ननु विश्वसिहि प्रवर्धितार्तिरसौ ते कुरुते गवेषणाम्।।40।।
अहमस्मि तवाङिघ्रचारिणी मयि विश्वस्तमनास्त्वमर्हसि।
अभिधातुमशेषमन्त्रणां मनसो नासि शुभे ! ह्यरक्षिता।।41।।
न बिभीहि च रावणाधमात् स्मरमूर्च्छाहृतधर्मगौरवात्।
अयि देवि ! न तेऽवमाननां क्षमते कर्तुमसौ हि भीरुकः।।42।।
अवबुध्यसि सत्यमेव चेत् स्वतनुं वल्लभलोभरक्षितम्।
तदिमां फलमूलसेवनैरशनैर्वा परिवेढुमर्हसि।।43।।
नृपनन्दिनि ! तावकं तपः परिणामं धृतभूरिमङ्गलम्।
त्वरितन्नु ददाति मे मनो नितरां विश्वसितीति निर्मलम्।।44।।
त्रिजटामितिवादिनीं प्रियामुपगूह्यातिजवेन जानकी।
निजगाद सखि ! त्वमेव मे हृदयज्ञा मम सम्बलं परम्।।45।।
क्षयमेति कदा विपन्निशाऽभ्युदयं याति च भाग्यभास्करः।
नहि किञ्चिदपि प्रतीयते सखि ! मध्यावधिजीविका न्वहम्।।46।।
इह रावणपालिते पुरे च्युतधर्मार्जवशीलसंस्कृतौ।
मम पूर्वशुभैरथोद्गता मरणं स्याद्ध्रुवमन्यथा मम।।47।।
पटहध्वनिरुत्थितोऽन्तरा दशशीर्षागमवृत्तवेदकः।
त्रिजटाऽपससार मैथिलीमुपलाल्यातिमुदा यशस्विनी।।48।।
रविकोटिसमप्रभैर्युतो ह्यवतंसैर्विविधाङ्गसङ्गतैः।
घृतचारुदुकूलकञ्चुकः परिणद्धाऽमितरत्नसञ्चयः।।49।।
करलम्बितचन्द्रहासकः शिवभूत्यञ्चितभालपट्टकः।
गजमन्दगतिः स्मरेषुभिर्हृदि विद्धोऽथ ससार रावणः।।50।।
स विलोक्य विदेहजां ज्वलन्मणिभूषामिव हृद्यभीषणाम्।
भुजगस्य भिया शशाक नो सहसा स्वीयवचांसि जल्पितुम्।।51।।
शलभो नु यथा शिखार्दितो दहनात्प्राक् भयमेति पुष्कलम्।
स ददर्श विनीतलोचनां नियमक्षामतनुं तथैव ताम्।।52।।
अवलम्ब्य विपन्नसाहसं निजगादाथ वचो यथायथम्।
श्रृणु मैथिलि ! यन्मयोद्यते निभृतं देहि यथोचितोत्तरम्।।53।।
हृदये मम राजतेऽनघे ! तव मूर्तिर्गुणरूपदीपिनी।
दयसे न कथं दशानने जितदेवासुरसिद्धचारणे।।54।।
हरिणाक्षि ! जिगीषुसत्तमं त्रिजगज्जिष्णुमुपेत्य रावणम्।
वद पूर्तिमिता न का स्पृहा विभवेऽप्यद्य न येन मोदसे।।55।।
अपहाय दरिद्रराघवं हृतराज्यं गतवैभवञ्च तम्।
अयि मानिनि ! लोकवन्दितं भज मां त्वं महिषीप्रतिष्ठया।।56।।
उपयास्ति यौवतं नु मे तव दास्यं मयजापुरस्सरम्।
अवलोक्य साम्प्रतं मुदा सकृदेवोपनतं दशाननम्।।57।।
अयि जानकी ! ते प्रतीक्षया न मयाऽद्यावधि साहसं कृतम्।
कतिधा न निवेदनं कृतं किमु रोषो मयि नावसीयते !!58।।
प्रणयार्तिनिवेदनैरिति प्रकटय्य स्वमनोथम्मुदा।
अथ मौनमुपेयुषि श्लथे दशशीर्षे निजगाद जानकी।।59।।
अयि रावण ! धिक् पराक्रमं विजयं धिक् तव पाण्डितीमपि।
चरितं खलु ते प्रमाणयेत् तव शौर्यं विभवं यशस्करम्।।60।।
रघुनाथपदाब्जमाधुरीं मनसाऽप्यन्यजनं न चिन्वतीम्।
इह पज्जरबन्धनाश्रितामबलां मां वदितुं न लज्जसे !!61।
शिवभक्तिरियं नु कीदृशी प्रणयश्च व्यभिचारसङ्गतः।
गरमाणमहो न रक्षति प्रमदाया धिगिदं विलोचनम्।।62।।
अयि रावण ! ते नु पौरुषं क्व गतं शम्भुपिनाकतोलने।
परिणीय कथं न मां तथाऽनलसाक्ष्यैरुपनीतवानसि।।63।।
बहु जल्पसि मूढ ! किं मुधा ननु ते मृत्युरुपैति तेऽन्तिकम्।
उपयास्यसि तामधोगतिं प्रगता यां खरदूषणादिकाः।।64।।
कुलिशादपि घोरघस्मरो रघुनाथस्य शरोऽग्निसन्निभः।
तव तूलतनुं रणाङ्गणे ज्वलयिष्यत्यथ नाऽत्र संशयः।।65।।
दनुजाधम ! मां न ते रतिः प्रणयो वाऽथ समाहरत् किल।
नियतं श्रृणु जानकी त्वयाऽन्वयनाशाय बलादिहाहृता।।66।।
न भयं मम चन्द्रहासतः श्रृणु कामान्ध ! मुमूर्षुरस्म्यहम्।
रघुनाथदिदृक्षया परं वपुरद्यावधि रक्ष्यते मया।।67।।
इयदेव न ते विभासितं नलिनी भास्कररागरञ्जिता।
अमृतांशुमपि प्रभोज्जवलं निशि दृष्ट्वा न विकासमश्नुते।।68।।
अहमस्मि रघूत्तमप्रिया रघुनाथाननचन्द्रिका।
इतरेषु जनेषु का स्पृहा पुरुहूतोऽस्त्वथवाऽस्तु रावणः।।69।।
गणय स्वदिनानि रावण ! दयितो मे न भविष्यति श्लथः।
त्वमवाप्स्यसि निश्चितं फलं द्रुतमेवाचरितस्य सङ्गरे।।70।।
इति तप्तवचांसि मैथिली निजगाद त्वरितं पराङ्मुखी।
रुदती ननु बाष्पगद्गदा नतशीर्षांऽवगणस्य रावणम्।।71।।
अवलोक्य विदेहजातनुं घनपर्भामिव दीप्तदामिनीम्।
निकृतिञ्च निशम्य शल्यदां भयरोषौ युगपद्ववार सः।।72।।
अनुभूय निजावमाननां विकरालं स हि चन्द्रहासकम्।
अवकृष्य रुषैव कोशतो ज्वलदङ्गरनिभो जगाद् ताम्।।73।।
विषवल्लरि ! मैथिलि ! त्वया मम रागं ह्यपलप्य जल्पितम्।
अधरोत्तरमाश्रितं बहु प्रथमञ्चापि तथैव साम्प्रतम्।।74।।
ननु शोकरयो न ते गतः प्रतिकूलानि मया कृतानि ते।
प्रमदासि दशास्यगौरवं न विजानासि पतिप्रवञ्चिता।।75।।
इति हेतुतुरीयनिष्टया सकृदद्यापि वचांसि मर्षये।
पुनरेवमवद्यवादिनीं नियतं हन्मि परन्तु दुर्मुखीम्।।76।।
इति रोषमनोव्यथाभरैः श्लथयात्रो मणिमण्डपाद्बहिः।
गतवान् विमनाः शनैः शनैर्दशकण्ठो भवनं तिरस्कृतः।।77।।
निर्भर्त्स्य दीप्तवचसा विगते दशास्ये सीता रुरोद करुणं त्रिजटामवाप्य।
हा देव राघव ! विलोकय जानकीं स्वां दुर्वृत्तराक्षसमनोभवलक्ष्यभूताम्।।78।।
नेदं वपुः श्रयति मे शुचितां पुराणीं स्पर्शेण दूषितमहोऽधमरावणस्य।
अद्यैव नाथ ! विदहामि चिताग्नितल्पे स्याद्येन जन्मनि नवे पुनरेव पूतम्।।79।।
मद्दुःखतङ्गिनि ! सखि त्रिजटे ! दयस्व आनीय काष्ठदहनादि चितां विधेहि।
सह्यो न सम्प्रति मयाऽयमवद्यभारस्तज्जीवितं सपदि भस्मचयं करिष्ये।।80।।
प्राणैषणां दयितसङ्गमिनीं विहाय सीता दशाननतिरस्कृतिनिष्टधैर्या।
काष्ठाग्निसञ्चयममुंबहुशो ययाचे निर्यद्विलोचनजला त्रिजटां प्रविद्धाम्।।81।।
यत्काव्यं मघुवर्षि नव्यघटनं प्रस्थानभूतं नवं
सान्द्रानन्दमरन्दविन्दुरुचिरं सीताप्रमाणैः कृतम्।
तस्मिन् पूर्तिमुपैत्ययं करुणया सम्प्लावितो द्वादशः
सर्गोऽशोकवनाश्रयाभिध इह् श्रीजानकीजीवने।।82।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।83।।
इति श्रीमद्दुर्गौप्रसादाभिराजीसूनोर्गौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्येऽशोकवनाश्रयसंज्ञको द्वादशः सर्गः।
त्रयोदशः सर्गः
अथ प्रभातोन्मुखरात्रिकाले विनिद्रनेत्रा विगतं स्मरन्ती।
शुश्राव वाणीममलाऽनवद्यां कुतोऽपि सीता सहसैव दिव्याम्।।1।।
श्रीरामगाथाऽमृतमर्पयन्ती विकस्वरा प्राञ्जलभव्यभावा।
सा वैखरी हर्षविषादभावं ससर्ज चित्ते युगपद् विचित्रम्।।2।।
तताप सा जातविपत्तिशङ्का क्व राक्षसानां पुरि रामचर्चा !
भवेन्नु माया किल रावणस्य प्रास्ताविकं नाम छलान्तरस्य।।3।।
गता निशीथे त्रिजटा प्रबोध्य क्व वाऽपरा रोहति मत्समीपम्।
कथञ्चिदप्यस्ति न चेह पुंसां शक्यः प्रवेशो ननु तर्हि कोऽयम् !!4।।
निभाल्य विष्वक् विरराम सीता तथापि नो कोऽपि कुतोऽप्यलोकि।
अश्रूयताऽनन्दपयोधिगर्भाऽक्षता कथा केवलमिद्धसौख्या।।5।।
जयत्यसौ दाशरथिर्मंनस्वी रघूद्वहो नीलबलाहकाभः।
निदेशतः पूज्यपितुर्वने यो भार्याऽनुजाभ्यां सह संविवेश।।6।।
उवास वर्षाणि बहूनि कुर्वन् स तापसानां महितोपकारम्।
नीराक्षसं शंसितचित्रकूटं चकार यः प्रोद्यतधुर्यधन्वा।।7।।
स दण्डके शूर्पणखां नृशंसां विरुपयन्नाशु खरं जघान।
सैन्यं समग्रं खलु राक्षसानां य एकलस्साधु युयूष वीरः।।8।।
स्ववंशजानां निधनं निशम्य सञ्जातरोषो भुवि रावणाख्यः।
छलेन सीतां दयितां तदीयां प्रणाधिकां हन्त जहार नीचः।।9।।
अथैणरूपं विपदेकमूलं मारीचमाहन्य निवृत्त्य गेहम्।
प्रियामपश्यन्नितरामधीरो बभूव रामो गलदश्रुदृष्टिः।।10।।
लतावितानानि खगान् पशूंश्च गोदावरीं पञ्चवटीं विशालाम्।
गिरिं प्रपातं वनदेवदेवीः प्रियां नु पप्रच्छ चिराय रामः।।11।।
विदेहजाशून्यवनं विलापैर्व्यलीलपद्राघव आधिविद्धः।
स लक्ष्मणेनानुजरत्नभूतेनाकारि शान्तः शपथैः स्वकीयैः।।12।।
प्रियां विचिन्वन गहने वनान्ते जटायुषं तातसखं खगेन्द्रम्।
विदेहजारक्षणभूरियत्ने निकृत्तपक्षं समवाप वीरः।13।।
सविस्तरं वृत्तमनूद्य सर्वं दिवङ्ते पक्षिपतौ समक्षम्।
संहृत्य काष्ठानि विमथ्य चाग्निं ददाह तं धुर्यमनन्तवीर्यः।।14।।
अवाङ्मुखो नीवृति वर्धमानः स ऋष्यमूकान्तिकमाजगाम।
यदीयश्रृङ्गे कपिसैन्ययुक्तः सुग्रीव आसीत्खलु वानरेन्द्रः।।15।।
कृशानुसाक्ष्ये सह तेन मैत्री नियोजिता मारुतिना सुखाय।
संश्रुत्य सुग्रीवविपत्तिहेतुं प्रतिश्रुतं बालिवधाय तेन।।16।।
जघान स द्वन्द्वरतं बलिष्ठं तदग्रजं वालिनमिद्धशौर्यम्।
विभूतिभार्यानगराधिवासव्यपाश्रयोपात्तसुकण्ठदैन्यम्।।17।।
ततश्च वर्षर्तुदिनानि रामः प्रियास्मृतिक्लेशचयोर्जितानि।
व्रती व्यतीयाय यथाकञ्चित् तप्ताश्रुपातप्रविभिन्नदेहः।।18।।
घनोपरुद्धार्धविधौ प्रियाया विलम्बिकेशावृतचारुवक्त्रम्।
कलापिनां नृत्ययुतां कलापे पर्याकुलं कुन्तललोलभारम्।।19।।
इन्दिन्दिराव्यक्तरवेषु वाचं स्फुटोत्पले मञ्जुलवल्गुहासम्।
स्फुटीभवच्चम्पककुड्मलाग्रे सीमन्तरागस्य ललामलेखाम्।।20।।
निदर्शनैः किं बहुभिर्मयोक्तैरितस्ततस्तां प्रकृतिं समग्राम्।
प्रियामयीमेव समीक्षमाणो जिजीव सः प्रस्रवणे मुमूर्षुः।।21।।
निर्माय रूपं क्वचिदश्मपट्टे मनश्शिलाभिर्न तुतोष कामम्।
च्युताश्रुभिः प्रोञ्छितशैलतल्पे प्राणेश्वरीं स्वामसकृल्लिलेख।।22।।
शिलाशयः क्वापि च गाढनिद्रः प्रियामवाप्याशु चुचुम्ब रामः।
गाढोपगूढे ननु मध्यभग्ने प्रमत्तभावेन रुरोद मुक्तम्।।23।।
व्यथाकथेयं कथनैरसाध्या विदेहजाभर्तुरिति स्फुटम्मे।
वियोगदुःखं स्वयमेव रामो जानाति सीता द्रुहिणोऽथवाऽसौ।।24।।
अथ व्यतीते जलदागमेऽसौ सुग्रीव आत्मीयचरान् दिदेश।
विदेहजाऽन्वेषणदत्तचित्ताः प्रतस्थिरे कोटिमिताः कपीन्द्राः।।25।।
यूथः प्रतस्थे दिशि दक्षिणस्यां कृतात्मनामन्यतमः कपीनाम्।
विमार्गयन्तो वनराजिकूटान् समुद्रवेलां ददृशुश्च सर्वें।।26।।
निशम्य सम्पातिमुखेन देव्याश्छलेन लङ्कापतिनाऽपहारम्।
प्रवोधितो जाम्बवता हनूमान् ललङ्घ सिन्धुं स्मृतकोसलेन्द्रः।।27।।
स लङिक्नीं मुष्टिरयप्रहारैः प्रत्यूहभूतां निभृतं निहत्य।
प्रदोषकाले प्रविवेश पुर्यां लघिष्ठरुपोऽप्यनिरीक्ष्यमूर्तिः।।28।।
गृहे-गृहे साधु निरीक्षमाणः प्रतोलिकाट्टेषु च तां वलभ्याम्।
समाससादाथ गतेऽर्धरात्रे प्राभञ्जनिर्नीपवनं तदेतत्।।29।।
आस्थायवृक्षे न्विह शिंशपायां निरन्तरालच्छदगर्भगूढः।
ददर्श सर्वं ज्वलदग्निरोषस्य आञ्जनेयो ददशीर्षकृत्यम्।।30।।
न राक्षसोऽहं न च रावणोऽहं छलं न वेदं न मृषेन्द्रजालम्।
अवेहि मामम्ब ! तदीयदूतं यस्य स्मृतौ जीवितकातराऽसि।।31।।
इयं कथा प्रत्ययमात्रसिद्ध्यै आश्रविता सारमयी त्वदर्थम्।
उपैमि मातस्तदहं पुरस्तात् विभीहि नो तेऽस्मि तनूजभूतः।।32।।
इतीरयन् तुङ्गतरोस्सझम्पं प्रकूर्द्य भूमौ विनतो हनूमान्।
तस्थौ समक्षं दयितप्रवृत्तिश्रुतिश्लथाया वसुधाङ्कजायाः।।33।।
समर्पयामास मुदाऽङ्गुलीयं श्रीरामनामाङिक्तमादरेण।
जगाद चैनां श्रुणु देवि सीते ! मनस्समाधाय शुचं न याहि।।34।।
त्वामेकलश्चापि सहैव नेतुं क्षमोऽस्म्यहं विश्वसिहि प्रकामम्।
करोमि किं किन्तु न मेऽधिकारो नाज्ञापितोऽहं प्रभुणा तदर्थम्।।35।।
विहाय चिन्तां ग्लपनञ्च दैन्यं नियम्य मातर्नयनाश्रुवर्षम्।
कालं प्रतीक्षस्व ससैन्यरामो द्रुतं समायाति वधाय शत्रोः।।36।।
पौरन्दरी दिग् रुधिरायतेऽद्धा उदेष्यति क्षिप्रमुदर्कविम्बः।
अतोऽर्हसि त्वं प्रणयप्रतीकं कञ्चित्प्रदातुं प्रियसान्त्वनार्थम्।।37।।
निपीय वाचं प्रविलोक्य शौर्यं प्राणेश्वरप्रेषितमुद्रिकां ताम्।
सा सस्पृहं प्रीतमनाः प्रचुम्ब्य प्रोवाच सीता गलदश्रुनेत्रा।।38।।
प्राभञ्जने ! राघवदूत ! वत्स ! दास्यामि किन्ते विपदन्विताऽहम् ?
मृत्यूदधावद्य निमज्जिताऽहं त्वयोद्धृताऽस्मि प्रसभं समेत्य।।39।।
आशीरियम्मे ननु तात ! यावत् ससागरा तिष्ठति मेदिनीयम्।
तवामरस्याक्षतकीर्तिरास्तां स्याद्राघवान्नो क्षणविप्रयोगः।।40।।
घनाभिषिक्ता धरणीव साऽहं विलुप्ततापा शिशिरान्तराला।
त्वद्वाचिकैर्जीवितगार्ध्यलुब्धा प्राणाङ्कुरं हन्त विभर्मि भूयः।।41।।
पुत्र ! त्वया मद्वजनान्निवेद्यं श्रीरामपादाम्बुजयुग्ममूले।
निमेषमात्रोऽपि च कालखण्डो युगायते देव ! विदेहजायाः।।42।।
दिनानि यातानि विना भवन्तं निशा व्यतीती रघुनाथ ! या वा।
प्रभो ! तदायुर्न जिजीव सीता धुव्रं विजानीहि च तद् विनष्टम्।।43।।
मदन्तिकान्नाथ ! तवाङिघ्रमूलं पत्रं यदि स्याद्विततन्नु यावत्।
नेत्राञ्जनैरश्रुविमिश्रितैश्चेल्लिखेत्स्वदैन्यं स्वयमेव सीता।।44।।
व्यथाकथा क्षेष्यति नो तथापि प्रभो ! वियोगात्तव सिक्तमूला।
द्रुतं समासाद्य विपन्नभाग्यां भार्यामनाथामव राघवेन्द्र !!45।।
शशाक नो वक्तुमितोऽधिकं सा निरुद्धकण्ठाऽमितबाष्पवेगात्।
स्मृतव्यतीतावधिभूरिभाग्या पाणिद्वयाच्छन्नमुखी रुरोद।।46।।
असह्यसन्तापरयं विलोक्य दम्भोलिमर्मच्छिदमात्मसंस्थम्।
प्राभञ्जनिश्चापि विपन्नधैर्यो मुमोच नेत्राम्बुनिरभ्रवर्षम्।।47।।
प्रोवाच वातात्मज आशु बुद्धः कुतोऽयमेत्यम्ब ! दुरन्तमोहः !
न किम्मयि प्रत्ययलेश आस्ते न राघवेऽकुण्ठशरेऽनुजे वा !!48।।
वेत्स्यम्ब ! मन्येऽधिकमात्मदुःखं न कोसलेन्द्रस्य चिनोषि पीडाम्।
त्वत्तोऽधिकं ताम्यति दूनचित्तो धवस्त्वदीयस्सततं त्वदर्थम्।।49।।
कालादपि त्वां प्रसभं ग्रहीतुं क्षमोस्ति रामः क्व नु रावणोऽयम्।
समग्रलङ्कामहमेव भग्नां कर्तुं क्षमे पश्य मदीयशौर्यम्।।50।।
प्रवृत्तिमात्राय विलङ्ध्य सिन्धुम् अत्रागतः पूर्णमनोरथोऽस्मि।
परन्तु मातस्तव सान्त्वनायै प्राभञ्जनेः कापि भवेच्चिकीर्षा।।51।।
विलोकयाम्ब ! स्वसुतस्वरूपं प्रमार्जयाश्रूणि मयासि शप्ता।
यथैव सोढः प्रनिदाघदाहस्तथा प्रतीक्षस्व पयोदवेलाम्।।52।।
उक्त्वेति सीतां व्यथयाऽवसन्नां दधार देहं प्रकृतं हनुमान्।
भीष्मं महाभूधरश्रृङ्गतुल्यं चाम्पेयवर्णं श्रितरोमराजिम्।।53।।
करालदंष्ट्रं दृढतालजङ्घं प्रलम्बबाहुञ्च वरेण्यघोणम्।
मनश्शिलाव्यायतदीर्घवक्षःकपाटयुग्मं बलविक्रमाढ्यम्।।54।।
स तेन रूपेण विनभ्रभावैः प्रणम्य सीतां निजगाद भूयः।
स्मृतिप्रतीकं ननु देहि मातः कार्यो विलम्बो न मनागिदानीम्।।55।।
प्राभञ्जनिं प्रेक्ष्य विशालकायं विदेहजा प्रीतमनाः सहर्षम्।
चूडामणिं वल्लभसान्त्वनार्थं समर्पयामास कपीश्वराय।।56।।
पुनः पुनस्सा तमुवाच वत्स ! त्वदाशयैवोच्छ्वसितुं यतिष्ये।
संस्मारय प्रेष्ठतमं मदीयं कुमारसौमित्रिमपि प्रवृत्त्या।।57।।
अनन्तकारुण्यविभूषिताय प्राणेश्वरायापि च मे नमस्याम्।
समर्पयेः सम्प्रति गच्छ सौम्यः ! पन्थाः शिवोऽयं नितरां भवेत्त्ते।।58।।
सीताविसृष्टस्त्वरितं हनुमान् प्रविश्य कङ्केलिवने विशङ्कः।
चखाद मिष्टानि फलान्यनूनं बभञ्ज वृक्षान् व्रततीः जघर्ष।।59।।
जघ्रौ स पुष्पाणि सकृत्सहस्रं चचर्व कन्दान् वसुधां चखान।
विलासवापीनलिनीमृणालोच्चयं सहेलं चपयाञ्चकार।।60।।
उद्यानपालान् जगृहे विभीतान् तुतोद तांस्तीक्ष्णनखैर्विषाक्तैः।
चकार वै संस्मरणीयशोभां वनीमशोकां विधुरां सशोकाम्।।61।।
उपद्रवं भृत्यमुखैर्निशम्य समागतोऽक्षो दशशीर्षपुत्रः।
पिपेष तं मुष्टिदृढप्रहारैर्जगर्ज चण्डं प्ररुषा हनूमान्।।62।।
स राक्षसानां पृतनां विशालां मिमेथ तूर्णं तरुदुष्प्रहारैः।
निशम्य सोदर्यवधं रुषाऽन्धस्समाययौ दर्पितमेघनादः।।63।।
स नागपाशेन नियम्य वीरं प्राभञ्जनिं रावणसम्मुखीनम्।
चकार सञ्जातजयैकगर्वः कृतागसं प्रोद्धतवानरेन्द्रम्।।64।।
अथाहितप्रश्न उवाच विज्ञो वातात्मजो धृष्टतया दशास्यम्।
अवेहि मां रामपदाब्जपूतं दूर्त हनूमन्तमनन्तवीर्यम्।।65।।
दशास्य ! सीतां रघुवीरभार्यां समर्प्य तस्मै विभवं भजेथाः।
ध्रुवं विजानीहिकथाऽन्यथा ते लोकाञ्चले संस्मृतिमेष्यतीति।।66।।
मलिम्लुचस्तं दयितापहारं छलेन कुर्वन् न गतोऽसि लज्जाम् ?
दुर्दान्त ! नीचाधम ! निस्त्रपस्त्वं भुवस्तनोष्येव कलंकभारम्।।67।।
मध्येसभं धृष्टकपीन्द्रवाग्भिस्तिरस्कृतोऽसौ कुपितो दशास्यः।
उवाच भृत्यान् ननु लोलजिह्वं प्रदग्धलाङ्गूलमिमं कुरुध्वम्।।68।।
विलोक्य वैरुप्यमथाऽस्य रामो लङ्कापतिं ज्ञास्यति साधुरीत्या।
विपुच्छकश्चायमपि प्रमोदं विधास्यति स्वीयसुहृत्सु नीचः।।69।।
किमीहतेऽन्धो नयने ननु द्वे निशम्य वाचं मुमुदे हनूमान्।
निदेशपूर्तौ दनुजास्समोदम् अयुञ्जतामोदभरप्रहृष्टाः।।70।।
प्रभूतलाक्षाघृततैलवस्त्रप्रकामलिप्ते खलु दीर्घपुच्छे।
अथोल्मुकीभूत इवाग्नियोगात्सझम्पमुत्प्लुत्य रुरोह सोऽट्टम्।।71।।
गृहाद् गृहं हर्म्यतलात्ततोऽन्यत् प्रवातवेगात् परितोऽपि धावन्।
प्राभञ्जनिर्भीष्मकृशानुदाहैर्ददाह लङ्कां मरुता समिद्धैः।।72।।
स भस्मसात्कृत्य निमेषमध्ये पुरीं दशास्यस्य सुवर्णसौधाम्।
प्रशाम्य पुच्छाग्निमगाधसिन्धौ प्रणम्य सीतां त्वरितं प्रतस्थे।।73।।
द्रुतदहनशिखाभिर्दग्धसौधाट्टयूथा दशवदनपुरी सा जातशंकापि लंका।
अभवदतिवि रूपा जातरुपप्रणाशैर्व्रततितरुवनीवोद्दामदावाग्निदग्धा।।74।।
पथि-पथि पृथुचर्चाऽश्रूयतासौ नगर्यां बहलबलनिधीनां मारुतीनां नितान्तम्।
भयविकलपिशाचाः स्वापसौख्यं न जग्मुर्गतवति कपिनाथेऽप्याहितानर्थशंकाः।।75।।
यत्काव्यं मधुवर्षि नव्यघटनं प्रस्थानभूतं नवं
सान्द्रानन्दमरन्दविन्दुरुचिरं सीताप्रमाणैः कृतम्।
सर्गः पूर्तिमियाय तत्र हनुमत्प्राप्त्याह्वयस्साम्प्रतं
प्रत्युज्जीवितमैथिलीविषयकश्श्रीजानकीजीवने।।76।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलम्
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।77।।
इति श्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गौतमगौत्रीयभभयाख्यमिश्रवंशावतंस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये हनुमत्प्राप्तिसंज्ञकस्त्रयोदशः सर्गः।
चतुर्दशः सर्गः
प्रवृत्तिभरमण्डितो विजयसौख्यचञ्चत्तनु-
स्सुमेरुशिखरप्रभः प्रकटघोरकण्ठध्वनिः।
प्रवातजवनातिगो वियति दीप्तपुच्छध्वजः
प्रभञ्जनसुतोऽनघः समुदियाय सिन्धोस्तटम्।।1।।
निशम्य किल दूरतः किलकिलध्वनिं प्रोद्धुरं
समीरसुतविग्रहस्फुरदमन्दवाप्लवम्।
जगाद ननु जाम्बवानयमुदेति सिद्धोद्यमः
प्रचण्डबलमारुती रघुपतिप्रियालालितः।।2।।
अथाम्बुधितटाश्रितः पुलकहृष्टरोमो द्रुतं
प्रणम्य खलु सादरं प्रथममृक्षराजम्मुदा।
ततो निखिलबान्धवान् सपदि गाढमालिङ्ग्य च
विदेहतनुजाकथां पवनपुत्र आख्यातवान्।।3।।
उपात्तजयवैभवस्त्वरितमेव शम्पारयैः
प्रलङ्ध्य नदभूधरानुपययुर्द्रुतं प्रस्त्रवम।
जयध्वनिमथोन्नतं रघुपतेः समुच्चारयन्
जगाद विनयान्वितः समुपसृत्य ऋक्षेश्वरः।।4।।
प्रभो ! प्रणतपालकोन्मदरिपोऽमाप्तेच्छितो
विदेहतनुजाञ्चितो रिपुपुरीछविध्वंसकः।
उपैति चरणाम्बुजं पवननन्दनोऽकम्पनो
दशास्यसुतहिंसको निहतवैरिसेनाचरः।।5।।
समुच्छ्वसितरोमभिः पुलकभावमावेदयन्
दृगश्रुततिसूचितप्रचुरगाढगाढव्यथः।
निवेद्य किल विस्तरैर्निखिलवृत्तमाद्यन्तकं
ददौ सपदि सादरं पवनजोऽथ चूडामणिम्।।6।।
व्यथार्तनयनोत्पलप्रवहमानधाराम्बुभी
रघूत्त्तमपदद्वयं कमलकोमलं क्लेदयन्।
उवाच खलु मारुती रघुपते ! विषादाम्बुधौ।
निमज्जति विदेहजा झटिति देव ! तां वारय !!7।।
त्वदेकशरणा प्रभो ! त्वदनुलीनचित्तान्विति
स्त्वदङिघ्रयुगवारिजे हृदि निरन्तरं बिभ्रती।
श्लथा कुमुदिनीव सा घननिरुद्धचन्द्रातपा
कथं कथमपि ध्रुवं श्रयति जीवितं जानकी।।8।।
इदं मम निवेदनं तदतिसत्वरं धार्यतां
दयस्व रघुनायक ! प्रणतरक्षणे दीक्षित !
विलम्ब इह नोचितो ननु निमेषमात्रावधि-
र्वधाय खलु रक्षसां त्वरितमेव यामो वयम्।।9।।
निवेद्य विनयाञ्चितः कपिपतिस्ततो जानकी-
प्रदत्तमतिदारुणं करुणकातरं वाचिकम्।
रुरोद शिशुसन्निभः स्मृतविदेहजाऽतङ्कितः
शशाक न च हिंसितुं पवनन्दनो वेदनाम्।।10।।
निशम्य दनुजाधमाचरितकिल्विषं घस्मरं
युगान्तदहनो दृशोखततार सीतापतेः।
विदेहतनयास्मृतिद्रवितबाहुवल्ली द्रुतं
चकर्ष धनुरायतं प्रथितराक्षसान्तव्रतम्।।11।।
विदेहतनयाव्यथाक्षुबितसर्वगात्रो ज्वल-
त्प्ररोषशिखिधर्षितो भ्रुकुटिवक्रतामादधत्।
दिधक्षुरिव रावणं सकुलमेव लंकापुरं
कृशानुमुखभूधरो रघुपतिर्द्रुतं प्रोत्थितः।।12।।
सुकण्ठ ! ननु सैनिकान् रणभटांश्च सेनापतीन्
समादिश कपीश्वरान्प्रचलनाय भेरीरवैः।
समुच्चरितघोषणोऽनुजकपीशसंयोजित-
स्ससार पथि राघवस्समरभूमिकालान्तकः।।13।।
ततः कपिनृपाज्ञया रणयुयुत्सवो वानरा
गवाक्षगजदुर्मुखद्विविदमैन्दरम्भादिकाः।
सुषेणनलकेसरिप्रणसतारकोल्कामुखाः
प्रचेलुरतिदर्पिता भुवनकम्पिभिर्गर्जनैः।।14।।
अनंगवृषवह्नयः शरभधूम्नगन्धोत्कटाः
वृहद्बलदरीमुखौ गवयनीलजम्भार्ककाः।
प्रजंघरुमणाभिधौ कुमुदसौरभोन्मादनौ
प्रचण्डजयघोषणैः सपदि जग्मुरुत्साहिताः।।15।।
ततोऽधिदृढकन्धरं हनुमतोऽधिरुढः स्वयं
महामहिमराघवस्सुभटमध्यगोऽभासत।
बभौ तदनु लक्ष्मणो बलवदङ्गदांससस्थितः
उभौ ययतुरन्तिके ननु कपीशऋक्षेश्वरौ।।16।।
कपीन्द्रबलवाहिनी सततसिंहनादान्विता
ससार सुभगे क्षणे नियतमुत्तराफाल्गुनौ।
रवौ गगनमध्यगे मरुति वाति गन्धोद्धुरे
पयोदसुखिते पथि प्रचुरपुष्करामोदिते।।17।।
दिनैः कतिपैश्च ते जलधितीरमासादिता
महेन्द्रगिरिमेखलाः श्रमविनोदिनीःभेजिरे।
प्रहृत्य शिरसि द्रुतं ह्यवमतोऽत्र दुर्बन्धुना
दशाननसहोदरश्शरणमाययौ राघवम्।।18।।
हनूमदभिमंत्रितो रघुपतिस्ततस्सादरं
ननन्द स विभीषणं समभिधाय लङ्केश्वरम्।
पयोधिजलसेचितप्रवरभालपट्टायतं
स्वयं विनियुयोज तं सचिवकर्मणि प्राञ्जलम्।।19।।
अथोदधितितीर्षया सुदृढसेतुकं त्वष्ट्ऋजौ
बबन्धतुररिन्दमौ गिरिबृहच्छिलासञ्चयैः।
विलोक्य नलनीलयोः स्थपतिकर्मदाक्ष्यं प्रभुः
शशंस सुपथञ्च तं जलधिपारगं मञ्जुलम्।।20।।
कपीन्द्रपृतना ततो जलधिसेतुपारङ्गता
सुवेलगिरिसानुषु श्रमविनोदनं सन्दधे।
फलार्द्धतरुसञ्चयैर्मधुरकन्दमूलाङ्कुरै-
रतूतुषदसौ गिरिः प्रघुणसन्निभान्वानरान्।।21।।
निशम्य किल रावणः प्रणिधिभिर्महासागर-
प्रसेतुदृढबन्धनं कपिबलावतारं पुरे।
दिदेश शुकसारणौ विगणनाय संयोधिनां
बलाबलसमाधये रिपुबले पुरान्तःस्थिते।।22।।
विभीषणगवेषितौ कपितनूधरौ तावुभौ
निमद्धमणिबन्धकौ सपदि ताडितौ वानरैः।
उपात्तशरणौ ततोऽक्षतदयेन सम्मोचितौ
प्रदाय रिपुदेशनां रघुसुतेन शान्त्यर्थिना।।23।।
निवेद्य निजदुर्गतिं रघुपतेश्च चञ्चद्गुणान्
कपीन्द्रपृतनाभटप्रबलशौर्यमातङ्कितौ।
विवेहतनयार्पणं त्वरितमर्थयाञ्चक्रतुः
भयार्तशुकसारणौ जनकजापतेः सौहृदम्।।24।।
दिदेश जननी च तं प्रचुरवत्सला केकसी
तदेव शुभमंत्रितं नयविदस्य मातामहः।
परन्तु मदघूर्णितो दुरभिमानजीर्यन्मति-
र्जजल्प निजदुर्ग्रहं कमपि नैव मेनेऽङ्कुशम्।।25।।
प्रहस्तमथ रावणस्सदसि तं महामात्यकं
दिदेश पुररक्षणप्रचुरमंत्रणामूर्जितः।
प्रवञ्चनपरायणात्सपदि विद्युजिह्वात्त्त–
श्शिरसश्छलयितुं च तां जनकजामसौ प्राप्तवान्।।26।।
प्रदर्श्य किल मस्तकं रघुपतेरसौ मैथिली-
मुवाच श्रृणु जानकि ! प्रहतराघवं विस्मरेः।
मदीक्षणसुधे ! प्रिये ! जनकजेऽधुना रावणं
भजस्व भव भामिनि ! प्रथितपट्टराज्ञी च मे।।27।।
निकृत्तपतिदेवरप्रथितमस्तकौ जानकी
विलोक्य विललाप सा करुणया वचो बिभ्रती।
मदर्थगतजीवितौ ! रघुकुलावतंसौ कथं
दशामुपगताविमां निहतराक्षसौ धन्विनौ ।।28।।
विपत्तिचयकारणं दयित ! मन्दभाग्याऽस्म्यहं
धिगस्तु मम जीवितं तदिदमद्य जह्यामिह।
प्रसीद दशकन्धर ! श्रितमनोरथ ! प्रार्थये
ममापि किल मस्तकं सपदि छन्धि खड्काहतैः।।29।।
विलोक्य विधवामपि स्वधवमात्रनिष्ठां हि तां
विशीर्णहृदयो द्रुतं दशमुखो जगामालयम्।
ननाश विगते स्वयं दुरभिसन्धिमायाप्यसौ
शिरोयुगलमप्यदस्त्वरितमेव चान्तर्दधे।।30।।
उवाच सरमा ततो जनकजां निबद्धादरा
विशुद्धहृदया शुभे ! जहि विषादशोकोच्चयम्।
वशीकरणवञ्चनौपयिककौशलं रावणो
ह्यनङ्गवशगस्त्वयि प्रणियुयोज पापोद्यमः।।31।।
गभस्तिचयमालिनि स्फुटति भास्करे वानरा
दशास्यनगरीं ततो रुरुधुरात्ततीक्ष्णायुधाः।
द्रुमाङ्कुशगदाशिलापरिघपट्टपाशोल्मुक-
कृपाणशरतोमरप्रनखभिन्दिपालैर्युताः।।32।।
प्रहस्तपरिरक्षितं नगरगोपुरं प्राङ्मुखं
रुरोध पृतनापतिर्महितविश्वकर्मात्मजः।
वृतो नु दशकोटिभिः कुमुद आययौ वानरै-
स्तदीयपरिरक्षणे पनसवर्धितोऽतन्द्रितः।।33।।
महोदरसुरक्षितं स्फुरदवाङ्मुखं गोपुरं
रुरोध पृतनापतिः प्रथितवालिपुत्रोऽङ्गदः।
अभूच्छतबलिर्वृतो द्विदशकोटिभिर्वानरै-
स्तदीयपरिरक्षको विपुलविक्रमोऽरिन्दमः।।34।।
चमूपतिरथोद्भटः पवननन्दनो वारुणं
रुरोध पुरगोपुरं सबलमिन्द्रजिद्रक्षितम्।
तदीयसहयोधनोऽपि च बभूव तारापिता
सुषेण इभवद्बली कपिभिरावृतः कोटिभिः।।35।।
दशास्यपरिरक्षितं सशुकसारणं गोपुरम्
उदङ्मुखमगात्स्वयं रघुपतिर्दधल्लक्ष्मणः।
ररक्षतुरतन्द्रितौ सुभटवाहिनीं मध्यगां
कपीश्वरविभीषणौ जरठजाम्बवद्गोपितौ।।36।।
प्रतुङ्गवलभीशिखाप्रवरतोरणार्चालये
गवाक्षतरुकोटरोपवनहट्टश्रृङ्गाकाटके।
विटंकपरिखातटीपरिघवप्ररत्नापणे
गजाश्वगृहमन्दुरासरणिकूपघट्टेऽथवा।।37।।
वितस्तिमितमप्यहो न किल तद् बभावास्पदं
महीध्रशिखरोपमैः कपिभिरावृतं स्यान्न यत्।
दशाननपुराङ्गनाः प्रचितसाध्वसा दारका
ज्वलन्नयनमर्कटप्रकटचीत्कृतैश्चिक्लिशुः।।38।।
विलोक्य नगरग्रहोच्चलितपौरधैर्यध्वजं
दिदेश किल रावणो दनुजयूथपान् सत्वरम्।
उपेत्य नगराद् बहिर्हत कपीन् प्रणेनिक्त तान्
विभीत नहि राक्षसाः ! सपदि पिंष्ट हिंस्तात्त वा।।39।।
ततस्तुमुलसंगरो ह्युभयपक्षयोर्जुज्युवे
स्वपक्षजयशब्दितः प्रचुरशंखभेरीरवः।
गजाश्वरथसंकुलः प्रकटसिंहनादोद्धुरो
बलाबलविचारणारहित इष्टविध्यद्वधः।।40।।
सुरासुरमहारणादपि भयङ्करे सङ्गरे
जघान किल को नु कं कथमथायुधैः कीदृशैः !
इतीव गणनाऽखिला न खलु सम्भवा व्यायता
इयत्खलु गवेषितं कपिभिराहता राक्षसाः।।41।।
विभिन्नशिरसो भुवि प्रवहमानरक्ताञ्चिता
निपेतुरथ राक्षसाः क्रकचकृत्तवृक्षप्रभाः।
बभौ समरमेदिनी त्रुटितहारकेयूरिणी
शरत्समयशर्वरी विशदतारताराङ्किता।।42।।
हतो हनुमताऽचिरं जरठजम्बुमाली ततः
प्रजंघ इभपौरुषोऽप्यवसितो नु सम्पातिना।
जघान खलु लक्ष्मणः कृतभयं विरुपाक्षकं
विभेद घनमालिनं ननु सुषेण आस्कन्दितः।।43।।
विलोक्य प्रथमे दिने प्रमुखरक्षसां दुर्वधं
दशास्यतनुजो निशि प्रघसकूटयोधी खलः।
विभेद रघुनन्दनौ स्वयमलक्षितो मार्गणै-
र्बबन्ध च विमूर्च्छितौ सुदृढनागपाशैरुभौ।।44।।
निशम्य निहतौ मृषा सुतमुखात्ततो रावणो
निनाय रणमेदिनीं जनकजां दधत्पुष्पकाम्।
विलोक्य भुवि शायिनौ दयितदेवरौ मैथिली
रुरोद विकलस्वरा ह्युरसि ताडयन्ती स्वयम्।।45।।
अहो नु कथमीदृशं घटितमेतदुच्चावचं
निकामशुभलक्षणाऽप्यहमुपैमि वैधव्यकम् ?
वचांसि वितथानि किं पुरुषलक्षणज्ञानिनां
समग्रपृथिवीशिता सपदि यैश्च मे घोषिता !!46।।
प्रवृत्तिमुपलभ्य मे पवनपुत्रसिन्धुप्लवात्
प्रतीर्य किल सागरं मकरनक्रमत्स्याकुलम्।
अये दयितवल्लभां जनकजामवाप्तुं निजा-
मयं भुवि निपातितोऽनुजयुतः पतिर्मे कथम्।।47।।
इतिस्खलितगद्गदोच्छ्वसितवाचया निर्भरं
जगाव रुदतीं ततस्त्रिजटका शुभे ! मैथिलि !
अलं बहलरोदनैर्दयित एष सम्मूर्च्छितो
भविष्यति सचेतनस्त्वरितमेव भाग्येश्वरि।।48।।
ततः प्रचुरसान्त्वनैस्त्रिजटयान्विता जानकी
ह्यशोकवनिकां गता शिथिलधैर्यबन्धा पुनः।
सुपर्णकृपया च तौ भुजगपाशसम्मोचितौ
बभूवतुरधिष्ठिताविह महत्तरौ राघवौ।।49।।
अकम्पनमथाहनत् पवनजोऽपि धूम्राक्षकं
ममर्द परमङ्गदः प्रबलवज्रदंष्ट्रं रुषा।
प्रहस्तमवधीद्रणे धृतशिलो हि नीलोऽक्षतः
स्वयं रघुपतिर्जघन कुम्भकर्णं दृढम्।।50।।
नरान्तकमथाङ्गदोऽक्षतमहोदरं नीलक-
स्त्रिशीर्षमपि वायुजो वृषभकोऽपि मत्ताभिधम्।
अहिंसदतिकायिनं प्रवरलक्ष्मणो विक्रमी
जघान च कपीश्वरः सपदि कुम्भकर्णात्मजम्।।51।।
विभेद मकराक्षकं खरसुतं स्वयं राघवो
निकुम्भमपि मारुतिर्द्वितयकुम्भकर्णात्मजम्।
क्रमेण निजयूथपान् रणहुतान् निशम्यार्दितो
रुरोद विषमूर्च्छितो दशमुखः स्मरन् किल्विषम्।।52।।
मदान्ध ! यमसादनं नयति पुत्रपौत्रैः सह
मदन्वयधरः पुमांस्त्वरितमेव ते नाशकः।
पुरा यदनरण्यकः परिभवाच्छशापेति मां
तदद्य परिलक्ष्यतेऽवितथमेव मे नश्यतः।।53।।
अहं निधनकारणं शठ ! भवामि ते निश्चितं
ज्वलन्त्यधिचितं पुरा यदपि वेदवत्याह माम्।
शशाप परिधर्षिता तपसि वर्तमाना मया
तदप्यगति साम्प्रतं जनकजामिषेणाद्भुतम्।।54।।
सुरासुरमहोरगप्रभृतिजीवितेभ्यः पुरा
प्रजापतिरुवाच मे वरयते निजाऽवध्यताम्।
दशास्य ! भविता भयं तव नरादथो वानरात्
यतो हि समुपेक्षितौ जडमते ! त्वया द्वाविमौ।।55।।
तदद्य चरितार्थतां श्रयति वैधसी भर्त्सना
विचूर्णितदिवौकसोऽप्यमितापौरुषा यद्भटाः।
समेत्य युधि पातिताः सपदि हन्त शाखामृगै-
र्हतो ननु पदातिना रघुसुतेन मे सोदरः !!56।।
इति स्फुटितमानसं स्वजननाशचिन्तार्दितम्
उपेत्य पितरं प्रभुं महितमेघनादोऽक्षतः।
विजल्प्य बहु पौरुषं वितथवल्गनैस्सान्त्वयन्
जगाम समराङ्गणं नमुचिवैरिवैरीवरः।।57।।
निवेश्य रथमण्डपे जनकजां स मायामयीं
हतास्मि ननु राघवेत्यतितरां भयं बिभ्रतीम्।
चकर्त शिरसा सतीं हनुमताऽसकृद्वारितो
जहास वियदुत्थितः कपिबलं द्रुतं भीषयन्।।58।।
उवाच किल मत्सरी सविध एव ते घातिता
स्फुटं जनकजा मया पवनपुत्र ! तत्साम्प्रतम्।
श्रमो विफलताङ्गतः कपिचमूचरैरर्जितो
निवर्तय यथासुखं क्षपितजीवितं राघवम्।।59।।
निशम्य दयितावधं रघुपतिर्जहज्जीवितो
रुरोद करुणं गलन्नयनवारि मध्येरणम्।
विदेहतनये ! प्रिये ! दशरथस्नुषे ! मैथिलि !
विहाय किल राघवं क्व नु गताऽसि तद्ब्रूहि मे !!60।।
निदाघविरहातपैश्शिथिलवैभवे भावित-
ग्रहग्रहणसंकटे क्रमितसिन्धुमेघच्छदे।
मृगाङ्क इह पार्वणे भवति सम्मुखीने कथं
कुमुद्वति ! विधुप्रिये ! द्विरदकालसम्प्लोषिता !!61।।
वृथैव धनुरुत्तमं घटजदत्तमेतद् वृथा
शरा दनुजघातिनो जलधिजीवनक्वाथिनः।
वृता कुशिकनन्दनान्ननु बलाऽबलाख्या वृथाऽ–
प्यधीतिरवितासि नो जनकनन्दिनि ! त्वं यया।।62।।
हृता दयितदेवरोभयसयत्नसंरक्षिता
हृता दशमुखोद्यमैः पुनरिहासि नो रक्षिता।
कथं दधदिदं प्रिये ! रघुपतिः कलङ्कद्वयम्
अनेहसि गतिं श्रयेन्निधनमेव रामौषधम्।।63।।
इति व्यथितरोदनैः कपिबलं निजं सोदरं
विषादविषमूर्च्छितं विकलयन्तमासादितः।
विभीषण उवाच हे रघुपते ! कथं दूयसे
हतां जलदनादिना जनकजां कथं मन्यसे !!64।।
अलं विलपनैः प्रभो ! वितथकृत्यमेतद्रिपो-
श्चरा इदमवादिषुः श्रयति जानकी जीवनम्।
विहाय करुणां ततो व्यसनकारिणं रावणिं
निकुम्भिलसुरालचे जहि नृपेन्द्र ! मायाविनम्।।65।।
पुरश्चरणमश्नुते यदि नु तस्य सिद्धिं प्रभो !
सुरैरपि न नंक्ष्यते तपउपात्तदिव्यायुधः।
अतस्तपसि विघ्नितं जहि शठं प्रसह्येषुभिः
पितुश्शतगुणाधिकं दुरितदम्भमायाधरम्।।66।।
विभीषणविबोधितः प्रबलरोषसम्मूर्च्छितो
ज्वलन्मुखमहीधरप्रतिमविग्रहो लक्ष्मणः।
मरुत्सुतनलाङ्गदप्रभृतिभिर्वृतस्तत्क्षणं
चचाल स निकुम्भिलां सपदि राघवाशीर्युतः।।67।।
ततो गिरिशिलोच्चयैर्विटपिभिस्समुत्पाटितैः
प्रहृत्य कपयो द्रुतं दशमुखात्मजं मिम्यिरे।
विलोक्य स्वमनोरथं विफलितं ज्वलल्लोचनं
जगाद किल लक्ष्मणः कितव ! पौरुषं दर्शय।।68।।
विगूह्य तनुमात्मनः प्रहरसीह नो ते त्रपा
हिनस्सि खल ! मैथिलीं वितथमायया निर्मिताम् !
अथाद्य तव कौशलं दनुज ! लोकयिष्येऽखिलं
पुरन्दरजयध्वजं प्रथितविक्रमं रावणे !!69।।
ततस्तुमुलसंगरोऽभवदनन्तशस्त्रान्वितो
बभर्ज शरपीडया जलदनाद आतङ्कितः।
विलोक्य विनशद्बलं प्रघसरोषयुल्लक्ष्मण-
श्चकर्त किल शीर्षकं झटिति तस्य संराविणः।।70।।
समीक्ष्य निहतञ्च तं हनुमदादयः सिष्णिहुः
कुमारमथ लक्ष्मणं ननृतुरुहिरे पृष्ठके।
जहर्ष ननु राघवोऽनुजपराक्रमोत्साहितो
महाभयविमोचितं कपिबलं च मेने स्वयम्।।71।।
गुणाग्र्यसुतधर्षणोच्छ्वसितमन्युशोकव्यथः
पणीकृतनिजास्मितो दशमुखस्त्रिलोकव्रणः।
विवेश रणमेदिनीं प्रलयकालमेघप्रभः
क्वणद्बहलकिङ्किणीजयरथस्थ ऊर्ध्वध्वजः।।72।।
विलोक्य चिरकांक्षितं भुवनरावणं रावणं
सुरासुरविमाथिनं जनकजाहरं वैरिणम्।
जगाद निजयूथपान् ज्वलदलोलनेत्रद्वयः
प्रबोध्य रघुनन्दनो निभृतमद्य पश्यन्तु माम्।।73।।
हरामि भुवनत्रयप्रचितशोकशङ्कुं रणे
निहत्य दनुजाधमं बहुतिथावधिप्रेक्षितम्।
भविष्यति वसुन्धरा नियतमद्य नीरावणा
दशास्यनिधनेऽथवा मयि हते नीराघवा।।74।।
प्रबोध्य कपियूथपान् समधिरुह्य चैन्द्रं रथं
मनोगतिमरिन्दमं प्रवरमातलिप्रेरितम्।
ससार पुरतो बली दशरथात्मजो राघवो
निबद्धविकिरज्जटः शरशरासनालंकृतः।।75।।
जगाद किल राघवं दशमुखो रुषा भर्त्सयन्
कुलक्षयफलानि ते समुपनेष्यते रावणः।
अये मुषितवैभव ! स्मरसि किन्न मां विक्रम-
प्रसारजितनिर्जरं त्रिभुवनैकमल्लं रणे।।76।।
निवार्य रघुनन्दनस्तमितिवादिनं प्रावदत्
मदान्ध ! कुलपांसन ! त्रिभुवनन्तुदोत्पीडक !
श्रुतं बहु दशास्य ! ते समरशौर्यमीक्षेऽद्य च
त्वदन्य इह भूतले प्रथितविक्रमः कोऽपरः ??77।।
स्नुषाऽपि नलकूमरप्रियतमा त्वया धर्षिता
तपांसि किल चिन्वती पतित ! वेदवत्यर्दिता।
हृता यतिविडम्बितैर्मयि गते प्रिया मैथिली
स्मरान्ध ! वनिताग्रहिस्तदयमेव ते विक्रमः ??78।।
निरस्य खलु सोदरं जगृहिषे बलात्पुष्पकं
ततर्प्थ रतिभिश्चिरं विवशयोषितामिन्द्रियम्।
ननंष्ठ शठ ! संहितामृतपथस्य पापैर्निजैः
पुलस्त्यकुलकालिमन् ! तदयमेव ते विक्रमः ??79।।
मदेकशरपातितप्रथितवालिना मर्दित-
स्ततोऽर्जुनखलीकृतस्समुपसृत्य माहिष्मतीम्।
प्रचण्डबलविक्रमोत्सवकथाः कति स्मारये
कथान्तमपि रावण ! त्वमिह मत्कृतं द्रक्ष्यसि।।80।।
दशास्यमिति मार्मिकैर्गरलवाग्भिरास्फालयन्
ववर्ष निशितान् शरान् रघुपतिर्महाभैरवः।
अजस्रशरवर्षया दिनमदृष्टसूर्यप्रभं
व्यलोकि किल दुर्दिनं घनतमोऽवरुद्धं यथा।।81।।
प्रवृत्तमुदयाद्रवेः प्रववृधे रणं धस्मरं
ह्यवेदि न गतागतं दिवसनैशयोः कैरपि।
विमाननिलयाः सुरा वियति युद्धमिद्धं स्थिता
दशास्यवधकांक्षिणो ददृशुरङ्गनाभिर्युताः।।82।।
रघूत्तमशरक्षतप्रवहमानरक्तश्रवैः
प्रफुल्लितपलाशतामुपगतो रणे रावणः।
चकर्त बहुशः शिरस्त्वरितमेव तद् प्रोद्गतं
विरञ्चिवरदानतोऽभवदमानितो राघवः।।83।।
विषस्य विषमौषधं तदिति मातलिस्मारितो
विरञ्चिरचितं पुरा ननु शचीपतेः श्रेयसे।
अगस्त्यकृपयाऽर्जितं स्फुरदमोघपैतामहा-
भिधं दहदिषुं ततो रघुपतिः क्रुधा सन्दधे।।84।।
चकर्त शिरसां चयं स किल रुक्मपुंखश्शरः
पपात भुवि रावणः पृथुकबन्धभूतोऽचिरम्।
अचिन्त्यमिदमद्भुतं समरसाहसं दारुणं
विलोक्य ननृतुर्मुदा जनकजापतेर्वानराः।।85।।
ववर्ष सुमनोभरं सुरगणो जगुः किन्नरा
ननर्तं सुरयोषितां वियति यूथ आमोदितः।
विरञ्चिशिववासवप्रभृतिदेवताश्चक्रिरे
रघूत्तमगुणस्तवं विजयशंसितैर्वाचिकैः।।86।।
विपन्नभुवनत्रयं दशमुखे हते साध्वसं
विहाय मुदमादधे स्वकमवेक्ष्य निष्कण्टकम्।
दिशो विमलताङ्गता मरुदमन्दगत्या ववौ
ऋतं सपदि सुस्थितं समभवत्प्रयत्नं विना।।87।।
यत्काव्यं मधुवर्षि नव्यघटनं प्रस्थानभूतं नवं
सान्द्रानन्दमरन्दविन्दुरुचिरं सीताप्रमाणैः कृतम्।
सर्गस्तत्र चतुर्दशो ह्यवसितश्श्रीजानकीजीवने
सीतोद्धारपरो रणोद्यमहरो नाम्ना च लङ्काजयः।।88।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।89।।
इती श्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गौतमगौत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये लङ्काविजयसंज्ञकश्चतुर्दशः सर्गः।
पञ्चदशः सर्गः
अथ प्रवृत्तिं रुचिरामिमां प्रभुर्विदेहजां श्रावयितुं समादिशत्।
मरुत्सुतं बुद्धिविवेकमण्डितं वशंवदं प्रीततमं सहायिनाम्।।1।।
स सत्वरं नीपवनस्थमण्डपे प्रवातनिष्कम्पशिखामिवोज्जलाम्।
स्वतेजसा दीप्तिचयं प्रकुर्वतीमुपेत्य सीतां निजगाद साञ्चलिः।।2।।
क आगतस्त्वामयि देवि मैथिलि ! सकृन्न्वेक्षस्व शुचं जहि द्रुतम्।
अयं हनूमांस्तव पूर्वसंस्तुतस्तवाङ्घ्रिपाथोजयुगं प्रवन्दते।।3।।
शुकीव येनेह शलाकपञ्जरे भृशं निरुद्धा दयिताश्रयच्युता।
स नामशेषोऽस्त्यधुना दिवङ्गतस्त्रिलोकशोको ननु देवि ! रावणः!।।4।।
प्रचण्डदोर्दण्डविमुक्तघस्मरज्वलच्छरेणाऽद्वितयेन राघवः।
ददाह तं तूलनिभं रणाङ्गणे प्रभातसूर्यो मिहिकोत्करं यथा।।5।।
विभीषणो राजसुखं निषेवते सुराश्च सर्वे दधते महोत्सवम्।
ऋतञ्च सत्यञ्च पुनर्व्यवस्थिते विनोदयत्यात्मतनुं वसुन्धरा।।6।।
क्षमाऽक्षमाऽद्यैव वभूव सुक्षमाऽप्यपास्तसंज्ञा त्रपते पुनस्त्रपा।
सकृत्पुनर्जीवति रावणे मृते स आर्यधर्मोऽधिवसुन्धराङ्गणम्।।7।।
अपोह्य शोकं निकृतिं मनोव्यथां भवाम्ब ! सीते ! गमनाय निर्वृता।
उदीक्षितुं त्वां विकलः प्रतीक्षते प्रवृद्धहर्षाम्बुनिधी रघूत्तमः।।8।।
निपीय वाचो मरुदात्मजादिमाः प्रहर्षरोमाञ्चदृगश्रुकातरा।
सगद्गदोत्ण्ठमुवाच जानकी प्रचण्डशौर्यो भव वत्स मारुते !!9।।
अतः परं प्रेष्ठतमं सुखावहं ह्यनन्तसन्तापवरुथभञ्जकम्।
न मेऽस्ति वृत्तं भविताऽपि नेतरत् त्वयाऽद्य सीता सुत ! मृत्युवारिता।।10।।
बलं बलीयोऽक्षतमस्तु विक्रमोऽक्लमो न ते वैक्लवमेतु मारुते !
प्रवर्धतां रामयशोऽतिगं यशो मदश्रुशुक्लीकृतमेव तेऽनघ !! ।।11।।
मया धृतं वत्स ! रघूत्तमाहितं भवेद्द्युलोकाश्रयि देवकीर्तितम्।
सगर्भसीताङ्कुरितं महाद्रुमप्रथाङ्गतं बीजनिभं यशस्तव।।12।।
दिदृक्षति स्वातिघनं यमक्षतं विदेहजाऽपीयमधीरचातकी।
तदीयपादाम्बुजवल्गुतल्पके निधेहि मे पुत्र ! दृगश्रुदक्षिणाम्।।13।।
अथ प्रयाते पवनात्मजेऽचिरं विभीषणप्रेषितराक्षसाङ्गनाः।
विदेहजां स्नानसुगन्धमार्जनप्रसाधनालङ्करणैरबूभुषन्।।14।।
गतोपरागेव निरभ्रचन्द्रिका विभावितार्कोदयभा सरोजिनी।
वसन्तरम्येव वनी पुनर्नवा ललामलावण्यपरीतविग्रहा।।15।।
ज्वलत्प्रदीपाङ्कुरराजिराजितप्रपूतनीराजनतुल्यवैभवा।
वभौ प्रगाढाक्षतमोदमेदुरा महीयसी मैथिलभूपनन्दिनी।।16।।
ततोऽधिरूढां शिविकां विदेहजामवेक्षितुं वानरराक्षसा जनाः।
समाययुः क्षिप्रपदैस्समन्ततो भृशं निरुद्धा अपि दण्डपाणिभिः।।17।।
विलोक्य लोकान् दयितादिदृक्षुकान् विभीषणं राम उवाच साग्रहम्।
पदातिरागच्छतु मैथिली शनैर्ममेच्छितं तामिति भद्र ! वेदय।।18।।
क्रतौ विवाहे व्यसने स्वयंवरे विपत्सु युद्धेषु च दर्शनं स्त्रियः।
न दूष्यते नीतिविदोऽव्रुवन्निति स्थिते स्वयं का मयि दोषसर्जना !!19।।
वनौकसो वानरपुङ्गवा इमे मदर्थलोष्टीकृतसौख्यजीविताः।
चिराय पश्यन्तु विदेहजामिह प्रजाश्च ते भद्र ! मयेति काम्यते।।20।।
विभीषणेनाऽनुगताथ मैथिली विरूढमन्दाक्षभराभ्युपेयुषी।
विलीयमानाऽपघनेषु सस्पृहं शनैः शनैर्वल्लभमभ्यवर्तत।।21।।
ततः प्रहर्षस्मयखेदसाध्वसव्यतीतदाम्पत्यरतिप्रवेदनैः।
चिराददृष्टं दयितं ददर्श सा विधुप्रभं साधु विधुप्रभा स्वयम्।।22।।
वियोगसन्तापदुरन्तदुःस्मृतिप्रसूतनेत्राम्बुभरैर्ज्वलत्तनुम्।
निषेचयन्ती दृगपाङ्गभङिगभिः प्रियोन्मुखी सा लघुतामशिश्रियत्।।23।।
अतर्कितं स्नेहविनाशचर्वितप्रवर्तिको लुण्ठितकोमलप्रभः।
समुद्गिरद्भर्त्सनधूमसन्ततिर्जगाद रामः परुषं रुषाक्षरम्।।24।।
अवेहि सीते ! प्रसभं समुद्धृ तां मया त्वमात्मानमचिन्त्यरङ्गरे।
निहत्य लङ्काधिपतिं जगत्त्रयप्रकम्पकं राक्षसराजरावणम्।।25।।
त्वदर्थमेवेदमभून्महद्रणं महोदधिस्सेतुपथेन लङिघतः।
निहत्य शत्रुं वनितापहारिणं त्वदर्थमेवीपनतः पराक्रमः।।26।।
ललङ्घ सिन्धुं पवनात्मजो बली बभूव सुग्रीव इह प्रभावकः।
उपेक्ष्य बन्धुं विगुणं समागतो विभीषणश्चापि बभाज सन्ततम्।।27।।
प्लवङ्गमा नीलनलाङ्गदादिकाः स जाम्बवांश्चापि वयोनयाधिकः।
इमे हि सर्वे मदधीनजीवितास्त्वदर्थमेवाऽनशिरे रणाङ्गणम्।।28।।
अयञ्च मे दुर्ललितस्सहोदरो मदर्थसन्त्यक्तसमग्रैभवः।
त्वदर्थमेवासहदात्मसंक्षयप्रसंङ्कटं त्वद्दयमानदेवरः।।29।।
कृतम्मया मानवता स्वपौरुषप्रवर्धनं पूरयता प्रतिश्रुतम्।
न मेऽस्ति लोकादधुना भयं न वा विगर्हणा क्लैव्यकलङ्कदीपनी।।30।।
रणान्तमासीत्तव मे समन्वितिर्न मेऽधुना किञ्चिदपि प्रयोजनम्।
प्रयाहि तत्सम्प्रति यत्र कुत्रचित् इहैव वा तिष्ठ मया न रोत्स्यसे।।31।।
दशाननस्पर्शमलीनविग्रहां तदीयकन्दर्पदृशाऽवलोकिताम्।
चिराय तस्याध्युषितां महालयं विदेहजे ! त्वां न वरीतुमुत्सहे।।32।।
पयोधिबन्धो न बभूव दुष्करो न वा वधो राक्षसकूटयोधिनाम्।
परन्तु विश्वासयितुं सुदुष्करं भवेन्नु लोकं चरिताभिशंकिनम्।।33।।
मनोरमां दिव्यतनं गृहे स्थितामभीष्टगात्रां समवाप्य रावणः।
न मर्षयत्येव चिरं जना इति द्रुतं प्रवक्ष्यन्ति तदस्ति दुस्सहम्।।34।।
निशम्य मध्येसभमेव भर्त्सनां विनष्टभार्यागुणशीलगौरवाम्।
प्रियोदितां वज्रकठोरघातिनीं रुरोद चिक्लेश मुमूर्च्छ मैथिली।।35।।
विसिष्मिये रामगिरा विभीषणो विभाय सुग्रीव उवोष लक्ष्मणः।
ततञ्च तस्तम्भ विशीर्णमारुतिः समग्रलोकोऽपि लुलोठ दुःखितः।।36।।
विलोक्य रौद्रं रघुनाथविग्रहं प्रनष्टमाधुर्यसहिष्णुतार्जवम्।
न कोऽपि तं सान्त्वयितुं शशाक वा प्रबोधितुं जातदयोऽपि भावुकः।।37।।
अथ प्रमृज्याश्रुततिं विदेहजा प्रवृद्धमन्युर्निजगाद राघवम्।
प्रभोऽद्य विज्ञातमिदं मयापि यन्न मे पतिस्त्वं न च वल्लभाऽस्मि ते।।38।।
न रावणाद् वानरराजवालिनः खरात्कबन्धाद् वरुणाच्च यद्भयम्।
विभेत्यसौ लोकमतात्कियत्पुनः ध्रुवं मयाऽद्यैव तदत्र लोकितम्।।39।।
लघून्यसाराणि वचांसि चिन्वता त्वया स्वदेवत्वमपोहितं प्रभो !
विपन्नवित्रस्तभुजङ्गभुक्षणैः खगत्वमारूढवता सुपर्णिना।।40।।
तृणाय मत्वा विभवान् सह त्वया वनं मया स्वीकृतमार्तिसङ्कुलम्।
मनोऽरतिर्मे परिलक्षितातदा शरीरशुद्धिः पुनरद्य लक्ष्यते ??41।।
अनायुधा हीनबलाऽसहायिनी हृता दशास्येन शरीरदुर्ग्रहैः।
न कामकारो मम तत्र राघव ! प्रतीपदैवं ननु मेऽपराध्यति।।42।।
न गात्रमासीन्मदधीनमर्दितं ततो न वैवश्यमसोढुमर्हसि।
कथं न मे त्वं हृदयं वशानुगं त्वदाश्रयं पश्यसि वीर ! पावनम् ??43।।
विमन्यसे वल्लभ ! मां प्रदूषितां दशास्यसंस्पर्शवशाद्यदि ध्रुवम्।
कथं न तत्यक्थ विराधधर्षितां विदेहजां प्राग्विपिने नु दण्डके ??44।।
श्रमोऽथवा नाथ ! वृथैव किं कृतो हतोऽपि वाली क्रमितश्च सागरः।
अभीप्सितस्त्यागविधिर्यदि प्रभो ! मुधा समुद्धर्तुमयाति मैथिलीम्।।45।।
जिता समर्प्येत धराऽथवा स्वयं नृपेण भुज्येत चिराय राघव !
न किन्तु भार्या रिपुहस्तमोचिता वितीर्यते ह्यत्र परत्रसङ्गिनी।।46।।
व्रतोपवासैर्दधती कृशां तनुं वियोगवैश्वानरतापधर्षिता।
त्रिसन्ध्यमुष्णाश्रुकृताभिषेचना त्वदङ्घ्रिपाथोजनिलीनमानसा।।47।।
खलीकृता राक्षसपापकर्मणा स्वजीवितत्यागपरापि केवलम्।
दिदृक्षया प्राणचयं ववार यत् त्वयाऽद्य तन्मे तपनं पुरस्कृतम्।।48।।
त्वदार्यसंस्कारविभूतिपौरुषैः कृतार्थिताया मरणं नु मे वरम्।
न चाद्य दौर्बल्यमुपात्तलाघवं भवेत्तवेदं मम दृष्टिगोचरम्।।49।।
स्वकान्तसंसर्गसुखप्रहारिणावुभौ मदर्थं किल तुल्यविक्रमौ।
पुरन्ध्रिपण्यक्रयविक्रयार्थिनौ निमज्जितावात्मनि रामरावणौ।।50।।
अपाङ्गभङ्गेक्षितवल्गुवल्गनैः शुभं चरित्रं स्वयमातनोति यः।
स एव भार्याचरितानि शङ्कते ततः परं किं भविताऽतिदारुणम् ??51।।
विपन्नचित्तः प्रकृतः पुमानिव मदीयचारित्र्यमिहाद्य शंकसे ?
दृशोर्ममास्ते चरितं प्रमाणितं कथं त्वया नो स्वयमेव पठ्यते ??52।।
इदं न कर्तुं यदि शक्यते त्वया महाबलं पृच्छ मरुत्सुतं तदा।
ददर्श यः स्थण्डिलशायिनीं निशि प्रजागरोच्छूनदृशं विदेहजाम् !!53।।
निमेषमात्रं प्रतियातनेव मां दिवानिशं या न जहौ तपस्विनी।
विपृच्छ तां वल्लभ ! पूतमानसां चरित्रमर्म त्रिजटां स्वशान्तये।।54।।
स्फुटं न्वजीविष्यदथाद्य रावणश्चरित्रमप्रक्ष्यदमुं पुनर्भवान्।
अवक्ष्यदासौ न मृषा विदेहजाचरित्रचर्यां कथयेदनाविलाम्।।55।।
अभद्रवाचो निजगाद रावणो ह्यलूलुभच्चापि महार्घवैभवैः।
मदुत्तरैः संक्षुभितः कदर्थनामपि क्वचिन्मे कृतवाननादरात्।।56।।
तथापि दूये न तथा तिरस्कृता निशाचरीणां सविधे रहोगृहे।
स लम्पटो राक्षस इत्यपेक्षया पतिं पुनर्वीक्ष्य न तत्स्मृतिं दधे।।57।।
कुले रघूणामुदितः पतिर्मम त्वमार्यसंस्काररतो गुणाग्रणीः।
परन्तु लोकस्य पुरः कदर्ययन् विपन्नभार्यां ननु भासि दारुणः।।58।।
मृता लता या च्युतवृक्षसंश्रया मृता नदी मूलमुपेत्य मारवम्।
मृता कुलस्त्री पतिसौहृदच्युता धिगङ्गनात्वं भवपापमिश्रितम्।।59।।
प्रकम्पते मेरुरपि प्रभञ्जनैर्नदीजलैस्सिन्धुरपि प्रवर्धते ?
प्रतप्यते भानुरहो शिखावलैर्यदद्य रामो दयितां परीक्षते।।60।।
स्वलोककीर्तेरियती प्ररोचना ममार्यशीलस्य च घोरलाञ्छना ?
कुतो न्विदं राघव ! तत्त्वपारग ! ध्रुवं पतित्वेन जुहोषि गेहिनीम्।।61।।
त्वदप्रिया त्वद्यशसां कलङ्किनी जिजीविषामि स्वयमेव नो क्षणम्।
तदद्य प्रत्यक्षमिमां विदेहजां जुहोमि ते द्वेषकृशानुसञ्चये।।62।।
निरस्तभार्योचितशीलवैभवा निरर्गलाश्रुप्लवभिन्नविग्रहा।
इतीव रामं परुषाक्षरैः सती विजल्प्य सीता निजगाद लक्ष्मणम्।।63।।
प्रसीद मे देवर ! तात लक्ष्मण ! नयाशु ! काष्ठानि चिताञ्च योजय।
प्रतिक्षणं व्येति युगातिदुर्वहं प्रयच्छ मे शीघ्रमतो नु निष्कृतिम्।।64।।
निशम्य देव्या गिरमूर्ध्वनिष्ठुरां विलोक्य सोल्लुण्ठमधीरलोचनः।
स्वमग्रजं स्नेहलवप्रशोषिणं रुषा प्रजज्वाल विषण्णलक्ष्मणः।।65।।
ततश्चितां काष्ठचयेन सत्वरं विरच्य दीप्तामकरोत्सहोदरः।
तथापि रामो न जगाद विव्यथे न चापि तस्तम्भ मुमूर्च्छ नोऽथवा।।66।।
न जाम्बवान्नापि विभीषणो न वा कपीश्वरो वायुसुतो न वाऽङ्गदः।
विलोक्य रौद्रं रघुनाथविग्रहं ह्यजीर्णशोकोऽपि शशाक बाधितुम्।।67।।
प्रदक्षिणीकृत्य ततो नु राघवम् अधोमुखं त्रिर्द्विजदेवसंहतिम्।
प्रणम्य लोकञ्च गभीरनिःस्वनैरुवाच सीता परितापधर्षिता।।68।।
मनो न मे राघवपादपङ्कजं गतं यदि क्वापि विमुच्य जीवने।
तदद्य मां रक्षतु सर्वतोमुखं ह्युशीरशीतो भगवान् स पावकः।।69।।
विशुद्धचारित्र्यवती यदि ध्रुवं भवेन्मनोवाक्करणैश्च जानकी।
तदद्य तां पातु हिमार्द्रपावकस्त्रिलोकसाक्षी ननु भूतभावनः।।70।।
तथा समुच्चार्य वचो विदेहजा पपात दीप्ताग्निचये सझम्पितम्।
स्त्रियस्समस्ता रुरुदुः ससाध्वसं प्रचुक्रुशुः सम्मुमुहुर्भयाकुलाः।।71।।
भयान्विताश्चापपतन्नदुद्रुवन् सुकोमला माणवकाः स्वमन्दिरम्।
यथाकथञ्चिद्व्यथमानमानसा वयोऽतिवृद्धाः सदयं हि तस्थिरे।।72।।
विलापचीत्कारनिपातधावनप्रमोहहाहेतिमहारवैर्नभः।
तदा नु पर्याकुलमेव सर्वतः द्रुतं समालक्ष्यत धैर्यभञ्जकम्।।73।।
चिताप्रविष्टामवलोक्य जानकीमभूद्विसंज्ञो हनुमान् सलक्ष्मणः।
विभीषणोऽश्रूणि मुमोच कम्पितः प्लवङ्गमाश्चापि चकम्पिरे भिया।।74।।
अथाधितारापथमिष्टवाहना महेन्द्रमुख्यास्त्रिदशास्समाययुः।
विदेहजाशीलपरीक्षणं महद् दिदृक्षवो योजितपुष्पवर्षणाः।।75।।
वृषध्वजाऽम्भोजमृणालसम्भवावुभावलञ्चक्रतुरभ्रमण्डलम्।
जयध्वनिध्वस्तविलापरोदनाः सुरा ननन्दू रघुनाथमूर्जितम्।।76।।
उवाच देवप्रमुखः प्रजापतिः कृती भवान् राघव ! लोकनायक !
अपेक्ष्य लोकं यदियं तपस्विनी पवित्रमूर्तिर्दयिता परीक्षिता।।77।।
अनिन्द्यसौन्दर्यवतीं गुणान्वितां धवानुरक्तां मृगलोचनां प्रियाम्।
परस्त्वदन्यः क इव त्यजेज्जनोऽन्यथा धरित्र्यां परिभोगकातरः।।78।।
वदेहजां भूमिसुतामयोनिजामवेहि लक्ष्मीं कमलालयां ध्रुवम्।
न मानवी सा न च मानवो भवान् उभावपि स्वर्गविहारिणौ जनौ।।79।।
स्ववल्लभां स्वीकुरु भद्र ! राघव ! कृशानुशक्तिः क्व तदीयदाहने ?
स्वयं प्रपूतोङ्गचयाभिमर्शतो न पावयित्रिं प्रपुनाति पावकः।।80।।
त्रिलोकशल्यं दशवक्त्रमट्टितुं स्वकर्मभिः स्थापयितुं निदर्शनम्।
प्रभोऽवतीर्णोऽसि धरां सुरार्चितः कथं स्वरूपं न विचीयतेऽनघ !!81।।
अथ निगदति वाचं पद्मयोनावदारामिति निखिलजनौघप्राणपीयूषदात्रीम्।
परिशमितचितार्चिः स्वाङ्कमारोप्य सीतां प्रकटितनिजमूर्तिर्हव्यभागुत्पपात।।82।।
तरुणतरणिदीप्तां नीलवक्रालकान्तां निशितकनकभूषां रक्तकौशेयवेषाम्।
त्रिदशयुवतिसौम्यांदिव्यरूपां ददौ तां सपदिजनकजातां राघवायाऽग्निदेवः।।83।।
वैदहीं सुरसिन्धुपूतचरितां गृह्णीष्व दत्ताम्मया
त्वत्प्राणां मनसा गिरा च कृतिभिः शुद्धामनन्याश्रयाम्।
कः शक्तोऽक्षततेजसैव नितरां स्वेनैव संरक्षितां
संस्प्रष्टुं मनसाऽपि दूषितमनाः सूर्यप्रभां राघव !!84।।
एवंवादिनि धातरि प्रणिहिते देवे च वैश्वानरे
सोत्कण्ठं नयनाम्बुसिक्तवदनो जग्राह रामः प्रियाम्।
सोऽवादीन्ननु देव ! साधु भवता रामोऽद्य संरक्षितः
उत्तीर्णोऽस्मि समं विदेहसुतया कौलीनकुल्यामहम्।।85।।
जानाम्यात्मनिलीनसौम्यहृदयां चारित्र्यशुद्धां प्रियां
पूतां राममयीमनन्यशरणां स्वप्नेऽपि नोऽन्याश्रयाम्।
आशंकेत ममापि चारुचरितं लावण्यलालाटिकं
लोकोऽयं कृपणस्ततो व्यवसितं कृत्यम्मया निष्ठुरम्।।86।।
कौलीनं भजतेऽधुना रघुपतिर्नो वा विदेहात्मजा
आवां द्वावपि पावितौ सुकृतिनौ देव ! त्वदीयाशिषा।
एवं प्रोच्य रघूत्तमे सविनयं सीताकरं गृह्णति
माङ्गल्योत्सवसागरः कपिबले लोके द्रुतं प्रोद्गतः।।87।।
यत्काव्यं मधुवर्षि नव्यघटनं प्रस्थानभूतं नवं
सान्द्रानन्दमरन्दविन्दुरुचिरं सीताप्रमाणैः कृतम्।
सर्गः पञ्चदशोऽयमेति विरतिं स्वाधीनकान्तां दधत्
तस्मिन्नग्निपरीक्षणाभिध इह श्रीजानकीजीवने।।88।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।89।।
इती श्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गौतमगौत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्येऽग्निपरीक्षासंज्ञकः पञ्चदशः सर्गः।