षोडशः सर्गः
अथनिहतदशास्योऽन्वास्यमानः कपीन्द्रैःसुरसदसि विपूतां मैथिलीं प्राप्य रामः।
प्रतिजगमिषुरयोध्यां सोदरस्नेहविद्धःसपदि सदयमूचे राक्षसेन्द्रं प्रपन्नम्।।1।।
त्वरयति मम चेतः कैकयीनन्दनं तं मम विरहजतापोद्दामदावप्रदग्धम्।
निरवधिकवियोगं द्रष्टुमद्यैव भद्र ! विरचय तदुपायं मत्कृते तूर्णतूर्णम्।।2।।
मनसि वचसि काये धर्मसंस्कारबद्धस्त्वमसि ऋतपरीतः साधु लङ्कां प्रशाधि।
मयि विनिहितमुद्धिर्मां सदैव व्रवीथा अहमपि नितरां त्वांसंस्मरिष्यामि पुर्याम्।।3।।
इति निगदति रामे दुर्वियोगव्यथार्ताः प्रवरकपिभटास्ते निर्यदश्रुप्ररोहाः।
ददृशुरतनुदीना गृघ्नुनेत्रैरदीनां प्रकटितनिजभावा वत्सलां मैथिलीं ताम्।।4।।
कपिभटहृदयज्ञा साधु तेषां कृतज्ञा सविनयमिदमूचे राममासाद्य सीता।
मयि भवतु कृपालू राघवः पूरितेच्छः प्लवगनिकरमुख्यानेतु सर्वान्समेत्य।।5।।
सहृदययितायाः प्रीतवाचं निशम्य प्रमुदितमनसाऽसौ राघवस्तानवोचत्।
अभिलषितमिदम्मे वक्ति सीता मनोज्ञं स्वयमपि च निनीषुर्युद्धवीरानहं स्याम्।।6।।
अयि दनुजपते ! त्वं लक्ष्मणश्चाञ्जनेयः इह कुरुत समग्रं सत्प्रबन्धं मिलित्वा।
रघुकुलनृपतीनां राजधानीमयोध्यामुपसरयु मनोज्ञां यूथपा भालयन्ताम्।।7।।
इति कथयति रामे पुष्पकं राक्षसेन्द्रो धनपतिपरितुष्ट्यै विश्वकर्मप्रणीतम्।
सुरनगरसदृक्षं कामनामात्रनेयं पृथुविततविमानं सत्वरं ह्याजुहाव।।8।।
अथ कुमुदसुषेणोल्कामुखार्कप्रजघां गजगवयगवाक्षानङ्गगन्धोत्कटाश्च।
द्विविदपनसनीलोन्मादनोज्जम्भधूम्नाः शरभनलसमेता यानमध्ये प्रविष्टाः।।9।।
रघुपतिरपि भार्यां स्वाङ्कमारोप्य तस्थौ मणिरचितमहार्घे रत्नपीठे पुरस्तात्।
अथ तदनु निषेदुर्वालिसूनुः सुकण्ठः पवनसुतसुमित्रानन्दनौ जाम्बवांश्च।।10।।
परिजननिकुरम्बे पुष्पकोत्सङ्गरूढे रघुतनयनिदेशाद्रक्षसेन्द्रो रुरोह।
कपिबलमवशिष्टं सान्त्वयित्वा प्रकामं मणिरुचिरविमानं प्रेरयामास रामः।।11।।
वरवरटशरीरं नीरवं वातवेगं कनकशिखरिवप्रं हर्म्यकक्षैर्विभक्तम्।
बहलमणिगवाक्षं किङ्किणीनादरम्यं वियति निभृतमेव प्रेरितं ह्युत्पपात।।12।।
अथ चलति विमाने पातयामास दृष्टिं विकटसमरभूमौ संस्मृतातीतदुःखः।
रघुपतिरवकृष्य प्रीतभार्यां समीपे शिशुरिव कुतुकार्तस्तामुवाच प्रमुग्धाम्।।13।।
प्रविततरणभूमिं तामिमां पश्य सीते ! प्रथितदनुजवीरा वानरैर्यत्र शीर्णाः।
इह पवनतनूजेनाहता धूम्रमुख्या इह खलु घननादं लक्ष्मणस्ते जघान।।14।।
समदगजबलाढ्यः कुम्भकर्णोऽत्र विद्धः इह सुमुखि दशास्योदेवशत्रुर्विशीर्णः।
विषधरशरबन्धैः कूटयोधीन्द्रशत्रुः इहशिखरिसुवेलेऽस्मान्बन्धक्षपायाम्।।15।।
पवनसुतसमक्षं कृत्तशीर्षां निशम्य विधुमुखि ! घननादेनात्र दैन्यव्यथार्तः।
अतिकरुणविलापैर्वानरेन्द्रानुदश्रून्ननु विरहितसीतो राघवोऽहं चकार।।16।।
जलनिधिचलवेलालोलखेलाखलीनं पुलिनमिदमनूनं सैकतं पश्य सीते !
श्रितकपिपृतनोऽहं सिन्धुमुत्तीर्य रात्रौ दशमुखविजिगीषुश्चेह सुष्वाप तान्तः।।17।।
जलधिधनुषि रुढोऽमोघबाणप्रभोऽयं दशवदनजिघत्सुः सेतुरालोक्यतेऽत्र।
इह खलु नलनीलस्पर्शमात्रेण सिन्धौगिरिशिखरनिकायः पुप्लुवे फेनतुल्यः।।18।।
वियदुपरिसुनीलं नीलसिन्धुश्च नीचैरुभयमपि समानं पश्य कान्ते विचित्रम्।
इह गगनपृथिव्योर्लक्ष्यते नैव भेदो निखिलमपि विहायस्सागरो वा विभाति।।19।।
इहसुमुखि धरायां यावती सृष्टिरास्ते ह्यधिजलधि ततोऽपि प्राज्यमात्राविचित्रा।
त्रिगुणमधिकमस्ति व्यायतं सिन्धुवक्षो जलनिधिरशनाया देवि ! पादांशभूमेः।।20।।
झषमकरभुजङ्गग्राहनक्रप्रविद्धं प्रहसदिव निकामं शुभ्रडिण्डीरपुञ्जैः।
लुठदिव चलवीचिक्षोभवेगात्प्रमत्तं जलधिविकलरूपं रूपय प्रेयसीदम्।।21।।
नयनपथमुदीते भारतोर्वीधरोऽयं वियति शिखररूढः शैलराजो महेन्द्रः।
दशवदनपुरीं तां द्रष्टुकामस्सझम्पं सपदि पवनसूनुस्सागरेऽतः पपात।।22।।
त्रिपुरहरपरीतं तीर्थमेतच्च सिन्धोर्जलधिहृदयबन्धात्प्राङ्मया स्थापितं यत्।
अयमिह शरणम्मामागतो राक्षसेन्द्रो विरहितदशशीर्षः शुद्धभावोऽनुभाव्य।।23।।
चलितशतपताका हेमहर्म्याट्टश्रृङ्गा विततसुपथरम्या तोरणैर्दुष्प्रवेशा।
द्रवितकनकदीप्ता वालिभुक्तापुरीयं प्लवगपतिरिदानीं शास्ति यां सन्नयज्ञः।।24।।
मदिषुकुलिशघातप्राणशून्योऽत्र वाली मयि विनिहितबुद्धिश्चानुभूतस्वपापः।
प्रियतनुजकराग्रं मत्करे मेलयित्वा स्वजनगणपरीतोऽत्रैव जीवान् मुमोच।।25।।
अथदयितमुदारं प्रार्थयामास सीता कपिपतिपरिणीता नाथ वाञ्छामि नेतुम्।
बहलपुरुषपुञ्जेष्वेकलाऽत्मानमत्र ह्यविरतमसहायां निर्विनोदाञ्च मन्ये।।26।।
जनकदुहितृवाचं युक्तियुक्तां निशम्य प्लवगपतिमवादीद्राघवेन्द्रस्तदर्थम्।
अथ झटिति विमानं भूमितल्पेऽवतीर्णं कनकवसनसज्जा रूढवत्यो महिष्यः।।27।।
रुचिरतनुलताभिस्ताभिरावेष्ट्यमानाकपिपतिदयिताभिर्मुख्यतारारुमाभिः।
विपुलहृदयमोदं सङ्गताऽत्मानुकूलं सदृशसदसि सौख्यं विन्दते सर्वजन्तुः।।28।।
प्लवगयुवतिवृन्देऽध्यासितेऽद्धा विमानं पुनरपि सकृदूर्ध्वं लाघवादारुरोह।
रघुपतिरनिमेषैर्लोचनैः साधु पश्यन्स्मृतविगतविषादो मैथिलीं तामुवाच।।29।।
गगनधुरि विलग्नः शान्तकान्तारकान्तो मुखरसलिलपातो भूरिरिङ्गद्विहङ्ग।
गिरिरयमतिरम्यः प्रस्रवाख्यो विशालो ह्यधिदरि घनकालो यत्र सीते व्यतीतः।।30।।
कति कति कतिधा नो धातुरागैर्विचित्रैरनुकृतय उदाराश्चित्रितास्ते मयाऽत्र।
कथमपि मयि सुप्ते किन्तुसौमित्रिणाताः करपुटजलसेकैःक्षालिता स्मारिकात्वात्।।31।।
सजलजलधराणां घोरघोरं विरावं श्रवणपुटनिपेयं धैर्यविध्वंसदक्षम्।
शिशुरिव निशि श्रृण्वन्नस्फुटक्रन्दनार्तः इह सुदतिधृतोऽहं लक्ष्मणेनाङ्कपाल्याम् !!32।।
इममपि गिरिकूटं पश्य यत्र त्वयाऽमुं कपिगणमवलोक्य प्रच्युतास्तेऽवतंसाः।
पवनतनययत्नैः सङ्गमोऽत्रैव जातो दशमुखवधहेतू ऋष्यमूकेप्लवङ्गैः।।33।।
मुकुरविमलनीरा स्नानसोपानतीरा ऋषिमुनिकपियूथे सानुकम्पा नु पम्पा।
प्रतिमधुपमुपेतं यत्र धीरोद्धतत्वं प्रतिनलिनि च रूढामानिनीमानचर्चा।।34।।
अनुतटमिह सीते ! पूजयामास भक्त्या सहृदयशबरी सा धर्मचर्याऽनुलीना।
निहत इह कबन्धो देवि ! दग्धो जटायुःप्रणम विहगराजं भस्ममात्रावशेषम्।।35।।
स्मरसि सुतनु ! तीरे पर्णशालां तटिन्याननु सकृदपि पश्य प्राक्सखीन्वन्यबन्धून्।
वनघनतडिदाभा देवि गोदावरीयं बकुलकुटजवृक्षा लक्ष्मणाऽरोपितास्ते।।36।।
निहतदनुजयूथे दण्डकेऽस्मिन्निदानीं पथि-पथि तृणगेहास्तापसानां लसन्ति।
अयसिह मखधूमो देवि ! पारावताभः प्रथयति वियदुत्थः कायकल्पप्रमाणम्।।37।।
इह तपति सभार्यो दक्षिणाशावधूटीवदनतिलकभूतो विन्ध्यवेधा अगस्त्यः।
अतपदिह सुतीक्ष्णोगस्त्य शिष्योमनस्वी सच मुनिशरभङ्गो येन वर्धापिताऽसीः।।38।।
जनपद इह वृद्धो लास्यगीतैः कलाभिः सुभगयुवतिरूपैः ख्यातसंज्ञो विदर्भः।
इयमपि च मनोज्ञा मालवी मालभूमिर्विलसति भुवि रेवा यत्र चैतेदशार्णाः।।39।।
अयि विधुमुखिसीते ! चित्रकूटं मनोज्ञं वयमिममुपयाता लक्ष्यते कामदोऽसौ।
स्मरसि सुतनु ! वृत्तं धृष्टंइन्द्रात्मजोऽसौ प्रहितशरविपन्नो दण्डितोऽत्रैव मूढः।।40।।
अयमुपनदि वृक्षैः सत्फलैः सान्द्रकुञ्जैरमृतसलिलवारिस्रोतसा सम्परीतः।
गिरि शिखरविलीनश्चाश्रमोऽत्रेर्महर्षेरिह सकृदनसूया त्वां दिदेशात्रिभार्या।।41।।
निहत इह विरोधो बाधको राधकानां भरत इह विनेतुं मामुपागच्छदार्तः।
अनुदिनमिह जाता शास्त्रचर्चा सहैव स्फुटनिगमरहस्यैस्तापसैर्ज्ञानवृद्धैः।।42।।
किमिह परिचिनोषि प्राप्यवाल्मीकिगेहम् उपरि शिखरिश्रृङ्गे पूर्वदृष्टं समृद्धम्।
सुखदवसतियोग्यं शान्तकान्तारदेशं ननु महितमहर्षिं साध्वपृच्छं तदाऽहम्।।43।।
प्रणम विबुघसिन्धुं भानुकन्याञ्च सीते ! वयमिममुपयातास्तीर्थराजं मनोज्ञम्।
रघुकुलनृपतीनां सिद्धसाम्राज्यभूमेर्विधिमखपरिपूतो गोपुराभः प्रयागः।।44।।
अमृतधवलतोया राजहंसीव गंगा शबलतनुमयूरीसन्निभा भानुकन्या।
सरभसमिह बद्ध्वा देवि ! गाढोपगूढं चिरविरतिजखेदं साधु रिंक्तः प्रगाढम्।।45।।
चसणकमलचर्यामत्र सम्पाद्य सम्यक् सुरमुनिजनपूज्यश्रीभरद्वाजसूरेः।
अधिभरतमभीष्टञ्चापि विज्ञायवृत्तं तदनु जिगमिषामिप्राप्त सीमामयोध्याम्।।46।।
इति जनकतनूजां साधु सम्बोध्य रामः पवनगति विमानं स्थातुमत्रादिदेश।
रघुपतिमवलोक्य प्रीतदृष्ट्या महर्षिः पुलकभरतवृताङ्गस्सौम्यवाग्भिर्ननन्द।।47।।
जयतु जयतु रामो राघवस्सिद्धमंत्रो हृदयकलुषमोहोत्सारणानाममोघः।
जयतु दशमुखारिर्धर्मरक्षाप्रदक्षो वयमिह सविशेषं स्वागतं व्याहरामः।।48।।
निखिलविपिनवृत्तं वेदिम् रुढैस्तपोभिर्न खलु किमपि गूढं मत्कृते रामभद्र !
श्रितकपिपतिसख्यो बद्धसिन्धुर्जितारिर्विलससि ननुदिष्ट्यातीर्णकान्तारवासः।।49।।
श्रयति निरवधीतिं भीतिमक्षुण्णतेजा विरहवि शिखविद्धो नित्यनव्यप्रतीक्षः।
भरत उषितनन्दिग्रामजीर्णो विशीर्णस्तमनुजमणिरत्नं राम ! सम्भावयाशु।।50।।
जिगमिषति दिशान्तं वारुणं वाऽरुणोऽयं सपदिनलिनबन्धुस्तन्न युक्तं प्रयातुम्।
प्लवगबलसमेतस्साधु विश्रम्य रात्रौ समशितमधुपर्कः श्वः प्रभाते क्रमेथाः।।51।।
इति रघुपितमिष्टं प्राघुणं प्राघुणानां मधुरविशदवाग्भिर्भावयन् मामतेयः।
महितविबुधभोगैरातिथेयं विधातुं प्रवरनिजतपोभिः सत्प्रबन्धांश्चकार।।52।।
अथ नवनिधयस्ते सिद्धयश्चाष्टसंख्याः पुरुषयुवतिरूपा दिव्यभोगान्महार्घान्।
झटिति समुपनिन्युर्वासभोज्यानुरूपानभवदतनुकामा साऽभिरामा त्रियामा।।53।।
अथ विकसति भानौ भानुवंशावतंसः पवनसुतमवोचद्राघवो भद्र ! तूर्णम्।
धृतवरनवेषः सर्वमावेद्य वृत्तं सुखय भरतमाशु प्रोत्सुकं तं मदर्थम्।।54।।
शिरसि धृतनिदेशो वायुजो वायुरूढो वनजनपदभूमिं स्यन्दिकां गोमतीञ्च।
अतिलघुतमसाख्यांनिम्नगास्ता अतीत्य द्रुमनिकरपरीतं नन्दिवासं ददर्श।।55।।
समशितफलमूलं रुक्षगात्रं कृशाङ्गं जटिलमतनुशोकं वल्कलं संवसानम्।
रघुपतिपदलीनं वेष्टितं साध्वमात्यैः कुलगुरुबलमुख्यैः पौरवर्गप्रजाभिः।।56।।
विमलमणिविटङ्के पादुके राघवस्य चतुरुदधिधरित्रीं पालयन्तं निधाय।
अथ भरतमुदारं व्रह्मतेजः प्रकर्ष दधतमवलुलोके मारुतिर्दूरतोऽपि।।57।।
निभृतमवनितल्पं क्षिप्रमेत्य द्विजातिः प्रकटितवरवेषस्तत्समीपञ्च गत्वा।
पवनतनय ऊचे साधु वर्धस्व तात ! सुभगममृतवादं त्वत्कृते व्याहरामि।।58।।
त्यज हृदयजदाहं दारणं भो मनस्विन् भवति सदभिलाषस्तेऽधुना पूर्णकामः।
अयि भरत ! यमित्थंनीलमेघाभदेहं विगणयसि समाधौ सोऽभ्युपेतस्समक्षम्।।59।।
विततसमरभूमौ रावणं कुम्भकर्णं नमुचिरिपुविजैत्रं रावणिं योधमुख्यान्।
प्लवगबलसहायो राघवेन्द्रः प्रमथ्य क्षपितविजनवासोऽभ्येति तूर्ण ससीतः।।60।।
इति कथयति वाचं वायुसूनौ प्रहृष्टो विशदनयनदृष्टिः कैकयीनन्दनोऽसौ।
विपुलपुलकभारैर्द्राक्पपात क्षमायां क्षणमपि बुबुधे नो चित्तचैतन्यमार्तः।।61।।
अथ सपदि मुहूर्ताल्लब्धसंज्ञः समुत्थः पवनतनयमङ्के सन्निधाय प्रगाढम्।
निखिलविजनवृत्तं साधु पप्रच्छ वीरः कपिपतिरपि तस्मायाचचक्षे क्रमेण।।62।।
स्वजननिवहमध्ये पौरवर्गे च तूर्ण प्रजवपवनवेगात् कर्णरूढा प्रवृत्तिः।
अभवदखिललोके चर्चिता सौख्यदात्री युवतिरिवसकामाऽलङ्कृताभूदयोध्या।।63।।
विततकुसुमलाजाः साक्षताश्चन्दनार्द्राश्चलितशतपताकाः क्षालिता गन्धतोयैः।
पणवमुरजभेरीशङ्खश्रृङ्गप्रणादा निखिलनगरवीथ्यः सज्जिताः संबभूवुः।।64।।
स्तवनकुशलसूताः सर्ववादित्रदक्षा रघुकुलसृतिविज्ञा वन्दिवैतालिकाश्च।
सरसललितलास्योन्मादिता वारवध्वो रघुपतिमभिषेक्तुं निर्ययुस्ता गृहेभ्यः।।65।।
रथतुरगगजस्था हेमपल्यङ्कनद्धाः समरविजयदक्षा निर्ययुः सैन्यवीराः।
कनकरथविरूढा राजदाराश्च सर्वा रघुपतिमभिषेक्तुं नन्दिभूमिं समीयुः।।66।।
द्विजकुलगुरुबन्धुश्रेष्ठवीरैरमात्यैर्विजयजयसुमंत्राशोकसिद्धार्थमुख्यैः।
अनुगत उपगूढश्चापि शत्रुघ्नकेन नभसि विततदृष्टिः कैकयीजोऽवतस्थे।।67।।
त्वरितमथ मुहूर्तात्पुष्पकं व्योम्निनीले जलदमदिरमन्द्रोद्घोषविस्ताररम्यम्।
विबुधनगरकल्पं किङ्किणीनादनद्धं विततशतपताकं हंसतुल्यं व्यलोकि।।68।।
अवतरति विमाने निर्ययौ राघवेन्द्रस्तदनु जनकजाऽसौ लक्ष्मणश्च प्रसन्नः।
प्लवगसुभटभार्या राक्षसेन्द्रः प्लवङ्गास्तदनु बहिरुपेताः सर्व एव क्रमेण।।69।।
कथमिव ननु कः कः केन केन क्रमेण प्रियजनमिह कं कं कैश्च रूपैर्ननाम।
तदखिलवरवृत्तं शारदाख्येयमेव प्रकृतकविकवित्वं क्षीणशक्त्येव तत्र।।70।।
रघुपतिदलीनं दण्डवद्भूमितल्पे नयनसलिलसेकक्लिन्नगात्रञ्च पश्यन्।
भरतमतिविपन्नं राघवञ्चाऽप्यधीरं क इद नहि रुरोद ग्लानिहर्षप्रवेगैः।।71।।
अथ रघुपतिरङ्के सोदरं सन्निधाय भरतमतिविनीतं लालयंश्च प्रगाढम्।
अवददतिशयार्द्रः मा शुचं याहि तात ! ननु युगपदिदानीमावयोर्दुःखनाशः।।72।।
वन्द्यं वसिष्ठमपि राम उपेत्य तूर्णं सीतासहोदरयुतोऽविकलो ववन्दे।
पश्चात्समस्तजननीः भटमंत्रिमुख्यान् पौरान् प्रजाश्च गतवान् सदयं क्रमेण।।73।।
सुग्रीवमारुतिविभीषणवालिसूनुऋच्छेशनीलनलधूम्रसुषेणजम्भान्।
मैन्दार्कगन्धमदनोल्कमुखादिवीरान् रामः सशौर्यगुणपुञ्जकथं चचक्षे।।74।।
आयोध्यकान् प्रियजनान् समुवाच राम एषामृणं निखिलजीवनमुद्वहिष्ये।
एतद्बलेन समरं विजितं मया तत्सत्यं व्रवीमि हृदयेन शपेऽधमर्णः।।75।।
दिव्यान् विभीषणगुणान् महितं वसिष्ठम् अश्रावयद्रघुपतिर्विनयाऽभ्युपेतः।
वृद्धं शशंस पृतनापतिजाम्बवन्तं वातात्मजं प्रथितविक्रममङ्गदञ्च।।76।।
पूर्तिङ्गते परिचये शनकैर्भटानां स्वाम्याज्ञया च नभसि प्रहिते विमाने।
दिव्यं रथं जनकजासहितोऽधिरूढो रामो विवेश नगरे जयनादघुष्टः।।77।।
लाजाक्षतान् कुसुममाल्यमुगन्धजातं बाला मधूकमधुगीतलया अवाक्षुः।
मार्गस्थपौरविकसज्जयजीवशब्दैः संवर्धितो रघुपतिर्भवनं ससाद।।78।।
प्राप्ते राजमहालयं रघुपतौ राज्याभिषेकोत्सवो
निर्विघ्नं समपादि वंशगुरुणा मध्येसभं वासरे।
रामोऽभून्नृपतिर्विदेहतनया राज्ञी च पट्टाऽनघा
साऽयोध्या महिता पुनः सुखमयी सम्प्राप्य स्वं वल्लभम्।।79।।
हृद्यैर्वादननृत्यनाट्यविकसच्छैलूषकृत्यैस्ततः
वीराणां नगरावलोकनसुखैर्दिव्यैश्च भोजोत्सवैः।
माङ्गल्यप्रचुरा प्रमोदजलधौ हंसीव निर्यत्स्वना
मासान्तं ह्यमरावतीव विभवं भेजे रघूणां पुरी।।80।।
यत्काव्यं मधुवर्षि नव्यघटनं प्रस्थानभूतं नवं
सान्द्रानन्दमरन्दविन्दुरुचिरं सीताप्रमाणैः कृतम्।
सर्गः षोडशको जगाम विरतिं राज्याभिषेकाभिधः
तत्रायं महिषीत्ववर्णनपरः श्रीजानकीजीवने।।81।।
मूलं श्रीकविकालिदासकविता श्रीहर्णवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।82।।
इति श्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये राज्याभिषेकसंज्ञकः षोडशः सर्गः।
सप्तदशः सर्गः
राघवे वसुधां प्रशासत्यञ्जसा स्थापितं परितोऽपि सौराज्यं नवम्।
ईतिभीतिविमोचिताऽऽयोध्या बभौ नायिका श्रितवल्लभेव प्रोन्मदा।।1।।
प्रस्नुतस्तनिका नवा गृष्टिर्यथा क्षीरमुद्गिरति स्वयं वत्साशया।
मेदिनी रघुनाथशौर्योल्लासिता सा बभौ फलमूलसस्याच्छादिता।।2।।
स्यन्दिकाः सरितस्तडागाः साम्बूजाः सत्त्वनिर्भयजीवितं जातं वनम्।
यज्ञधूमसमन्वितं नीलं नभो राघवप्रथिमानमाचक्शौ ध्रुवम्।।3।।
धूलयश्शमिता ववुर्गन्धानिला वारिदा ववृषुर्यथाकालं सदा।
नाधिकं प्रतताप नैदाघेऽथवा नाधिकं प्रशशाम शीतर्तौ रविः।।4।।
धर्मसंस्कृतिशीलसौजन्यादिका हृत्सु भावचयाः प्रजानां तस्थिरे।
लौकिकाऽभ्युदये स्फुरन्निः श्रेयसे व्यापृता मनुजाः स्वयं सौवस्तिकाः।।5।।
वर्णधर्मरतस्समाजो भारते रामराज्यसुखन्दधे मोदावहम्।
स्वस्थितौ परितोषिताः सर्वेजनाः कारणं न बभूव कोऽप्यन्यैनसाम्।।6।।
नित्यमेव सलाययुर्विद्यालवः पण्डिता निगमागमज्ञाः शास्त्रिणः।
शास्त्रगूढरहस्यचर्चार्थं मुदा राघवेण च तोषिता गेहान्ययुः।।7।।
सूत्रकर्मविशारदाः कर्मान्तिका यंत्रकाः खनका नयज्ञा वेधकाः।
कुम्भकम्बलमाल्यकारा गान्धिकाः क्राकचा रजकाः कुविन्दाः शौण्डिकाः।।8।।
ग्रामघोषमहत्तराः शैलूषका रत्नवैकटिका नदी कैवर्तकाः।
स्नापका रथकारका मायूरका रोचका मणिहारिणश्चोष्णोदकाः।।9।।
दान्तिका भिषजः कृषाणाः शिल्पिनो वंशचर्मसुधाकृतो दौवारिकाः।
सूतमागधवन्दिनो वैतालिकाः सेतुदुर्गसभाकृतः सन्तक्षकाः।।10।।
नर्तका गणिकाऽभिनेतारोऽथवा गायकाः कवयो बुधाः श्रुतिकोविदाः।
मन्त्रिणो रणयोधिनो वैखानसा पण्डिताश्च पुरोधसो राज्याश्रिताः।।11।।
स्वेषु कर्मसु निर्भरं सर्वेऽपि ते राघवेऽवति मेदिनीं भक्त्यार्पिताः।
येन राघवशासनं सर्वोदयं स्वर्गमप्यतिचक्रमे दिव्यैर्गुणैः।।12।।
लालिता स्वसृभिः सखीभिर्देवरैर्मातृभिश्च विदेहजा रामप्रिया।
पावनं रघुवंशसूत्रोन्नायकं गर्भमक्षतमादधे तेजस्विनम्।।13।।
गर्भगौरवमन्थरा सा नोऽधिकम् आजगाम बहिः स्वसौधाद् ब्रीडिता।
देवरैरधरोत्तरं सम्भाषिता साध्वसाद् विजहे तदीयं सौहृदम्।।14।।
भक्षितं विपुलं किमार्ये ? येन ते स्थूलमद्य हि लक्ष्यते नम्रोदरम्।
तुन्दिला भव माऽन्यथा सन्द्रक्ष्यसे सत्वरं स्थविरा ततोऽहं वेदये।।15।।
आननं कथमीक्ष्यते पीतं नु ते मन्थरं यतसेऽतितुं किं कारणम् ?
कण्टकं यदि पादलग्नं स्यादहं देवि ! तत्करवाणि साहाय्यं तव !!16।।
एवमादिकटूक्तिभिस्तां गर्भिणीं लक्ष्मणः प्रजहास शत्रुघ्नोऽथवा।
भर्त्सितोऽपि सुमित्रया श्रुत्वा वचो मैथिली स्मितमेदुरा त्रेपे चिरम्।।17।।
सा क्वचिन्निजगाद सोल्लुण्ठं च तावुर्मिलां श्रुतकीर्तिमालक्ष्य द्रुतम्।
स्थूलतामनयोर्द्वयोः सम्प्राप्तयोः कोविदौ ! निभृतं तदा प्रक्ष्याम्यहम्।।18।।
वाटिका हिमलुप्तपत्रा नीरवा पक्षिकौतुकवञ्चिता ध्वस्तोत्सवा।
वैभवं तनुते यथा वासन्तिकं पुष्पकोरकमञ्जरीगन्धाश्रितम्।।19।।
भग्नसौधसुखाऽप्ययोध्या साम्प्रतं राघवेन्द्रसमागमैर्ज्योतिष्मती।
हर्षसिन्धुविलोलवीचीनर्तनैर्यौवनं समवाप सा विष्वङ्मुखम्।।20।।
एवमेव सुखोत्सवप्राये दिने याति कश्चिदुपाययौ प्रायोजितः।
राघवप्रणिधिः प्रजावृत्ताञ्चितो दुर्मुखाभिध आश्रये श्रद्धारतः।।21।।
स्वामिनं स विविक्त सौधस्थायिनं सत्वरं समुपेत्य चञ्चद्रोचिषम्।
जानुपीडितभूतलो बद्धाञ्जलिस्सादरं प्रणनाम दैन्यप्लावितः।।22।।
तं तथाविधमात्मकर्तव्यार्पितं निर्भयं सुपरीक्षितं सिद्धक्रियम्।
प्रत्ययैश्च जितं विलोक्याधोमुखं राघवः प्रणिधिं प्रियं ग्लानिं ययौ।।23।।
निश्चितं श्रुतविप्रियो मर्माहतो दुर्मुखोऽयमुपैति नो व्रूतेऽनघः।
तन्मयाऽपि रहस्यमस्याशेषतो ज्ञेयमेव नृपासनस्थेनोचितम्।।24।।
राघवः परिसान्त्वयन्नूचे ततो भद्र दुर्मुख ! किंकृतोऽयं सम्भ्रमः ?
विप्रतीपमुपाश्रितं वृत्तंनु किं तन्निवेदय निर्भयं रामोऽस्म्यहम्।।25।।
भूपतिस्सहतेऽखिलं ह्युच्चावचं नैव चित्रमिदं नवा किञ्चिन्नवम्।
लोकतन्त्रमिदं द्विधा सम्भुज्यते शंसयाऽथ विनिन्दया पर्यायतः।।26।।
यश्चतुर्दशवत्सरान् रौद्रे वने सत्त्वराक्षसमध्यगस्तस्थौ मुदा।
घस्मरे समरे च यो लङ्कापति सञ्जघान विदेहजासन्तापिनम्।।27।।
तत्कृते किल दारुणं सर्वं च यत् विद्यते ननु भद्र ! सामान्यं ततः।
यच्छ्रुतं भण तन्मुदा गुप्तं रहः सर्वथाऽभयमेव ते सन्धीयते।।28।।
भूपतेर्वचनं निशम्योर्ध्वाननो नेत्रवारिनिषिक्तगात्रो दुर्मुखः।
कम्पितैर्ननु वाचिकैरुचे प्रभो ! मैथिलीचरितं प्रजाऽलं शंकते।।29।।
शर्वरीगहनान्धकारे भ्राम्यता भर्त्सिता रजकेन गेहोत्सारिता।
गेहिनी जननाथ ! सन्दृष्टा मया वल्लभाङ्घ्रिसमर्पिता क्लेशार्दिता।।30।।
तामुवाच पतिर्न चाऽहं राघवः स्वीकरोति दशास्यनीतां यः स्त्रियम्।
याहि शीघ्रमितोऽथवा दण्डान्तरं चिन्तयानि सुदारुणं पापापगे ।।31।।
तन्मयेति निवेदितं वृत्तं श्रुतं दुर्नियोगनियोजितेन क्ष्मापते !
देव एव ननु प्रमाणं साम्प्रतं दुर्मुखो विरराम दत्वा वाचिकम्।।32।।
दुर्मुखेऽपसृते व्याथार्तो भूपतिः कालकूटदहद्वपुः सम्मूर्च्छितः।
राजसौधकपाटरुद्धं सार्गलं सत्वरं प्रविधाय चात्मानं स्थितः।।33।।
नाऽगतो जननीः प्रणन्तुं नोऽथवा सोदरैस्सह पूर्ववद् वार्तां दधे।
मैथिलीमपि गर्भिणीं पप्रच्छ नो वल्लभां कुशलं न वाऽऽदन्नो पपौ।।34।।
दर्शनं न ददौ प्रजाभ्यो नोऽथवा राजकार्यमियेष साकं मन्त्रिभिः।
वंशपूज्यवसिष्ठमप्यासाद्य नो मन्त्रितानि समादधे सायन्तने।।35।।
मैथिली स्वयमेत्य सौधं भूरिशः स्नेहपूर्णवचोभिरार्तं वाचिकम्।
नव्यया विपदा जगादाशङ्किता किन्तु नो विवृतौ कपाटौ सार्गलौ।।36।।
चर्चिताऽप्यवरोधगेहेऽभूदियं राघवस्य दशा झटित्युन्माथिनी।
विक्लवाश्च सहोदरा आतङ्किता नोऽभ्युपायममासिषुर्दैन्यार्दिताः।।37।।
लक्ष्मणोऽथ गवेषणैर्जज्ञे द्रुतं दुर्मुखागमनप्रवृर्तिं गोपिताम्।
आजुहाव स तं वरं गुप्तेचरं ज्ञातवानखिलन्नु वात्याकारणम्।।38।।
द्रागुपेत्य गुरुं रघूणां सम्मतं व्याजहार यथायथं वृत्तान्यसौ।
क्रोधरोषविलीनधैर्यालम्वनो निर्भयञ्च जगाद तं भीष्मं वचः।।39।।
देव हे रघुवंशपूज्यास्मद्गुरो ! राघवं परिसामयन्तां मूर्च्छितम्।
अन्यथा क्षयमेष्यति क्ष्मा कौसला दारुणैः किल निर्णयैस्तस्याचिरम्।।40।।
यत्पुना रजकाभिधेयोन्मादितो मैथिलीं जनरञ्जने बद्धादरः।
निश्चुकोष जिघाय वाऽयोध्यापतिस्तद् भविष्यति दारुणं निश्चप्रचम्।।41।।
सत्यमेव वदामि देवेमां पुरीमित्वरैर्निमिषे शरैर्धक्ष्याम्यहम्।
मज्जितस्सरयूजले पश्चात्स्वयमात्मदेहमपि प्रभो ! नंक्षाम्यमुम्।।42।।
मैथिली ननु मैथिली दिव्योद्भवा सूर्यवंशमहीयसी सा देवता।
साऽत्मजा जनकस्य राजर्षेः स्नुषा स्वर्गिणोऽपि च तातपादस्याञ्जिता।।43।।
राघवस्य करे न सा क्रीडाशुकी सा प्रभो ! जनपट्टराज्ञी सम्मता।
नोऽधिकार इहावमन्तुं कस्यचित् तां यशोविमलां तिरस्कर्तुं ततः।।44।।
मल्लिकाक्षसुतेव सा हित्वा सरो मानसं वनवासकष्टान्यादधे।
सन्ततं निजसेवया स्नेहैश्च सा काननेऽपि सुखानि कान्तायाददात्।।45।।
नीचरावणधर्षिता सीता सती वल्लभस्य कृते दुरन्तां वेदनाम्।
साऽन्वभून्निहता प्रविद्धा पीडिता रामजीवितजीविता पतिदेवता।।46।।
शत्रुधाम्नि तिरस्कृता सा निर्दयं सर्वलोकसमक्षमेवानादृता।
प्राणलोभमपोह्य संरूढा चितां मत्करै रचितां न दग्धा पावकैः।।47।।
मैथिलीमभिनन्द्य धाता धूर्जटिः पावको मम तातपादोऽपि स्वयम्।
ग्राहयां किल चक्रतुः श्रीराघवं वेद्म्यहं किमतः परं तद्गौरवम्।।48।।
एष नीचकृमिश्चरित्रं शङ्कते नारको रजकः प्रकृत्या दुर्मतिः।
क्षालितं वसनं नु तेनाऽजीवनं मानसं न तमोऽद्य यावत्क्षालितम्।।49।।
निन्दितोऽपि श्रृगालकैः किं केसरी दैन्यमेति परन्तु भूपो नेदृशः।
स प्रजारञ्जनकृतेऽनर्थं गुरो ! कर्तुमुत्सहते कमप्याशीविषम्।।50।।
तद्भवन्तमुपागतोऽहं मङ्गलं रक्षकं शरणं समेषां शर्मदम्।
राघवं दृढनिश्चयं क्रोधाद्धुरं दीक्षितुं क्षमते भवान् नान्यो जनः।।51।।
वज्रघातसमां प्रवृत्तिं दारुणां लक्ष्मणेन निवेदितां श्रुत्वाऽखिलाम्।
भैरवं प्रतिरोषमप्यालोकयन् क्लेशितो व्यथया वशिष्ठो व्याहरत्।।52।।
माऽतिमात्रमुपेहि दैन्यं लक्ष्मण ! जीवितेभविता न मय्युत्सादनम्।
कैकयीमुपशिक्षितुं कामं पुरा नाऽशकं ननु सान्त्वयिष्ये राघवम्।।53।।
राघवाश्रितमेव नो सिंहासनं मत्तपोभिरिहोह्यते भारं भुवः।
भूपतिर्न निरङ्कुशत्वं यास्यति चेष्टिते मयि तद्दिधास्येऽप्यंकुशम्।।54।।
गच्छ वत्स ! कवाटरन्धोद्घोषितैः श्रावय द्रुतमेव रामं मद्वचः।
मामुपेक्ष्य न निर्णयो ग्राह्यस्त्वया कोऽपि राघव ! सन्दिशत्येवं गुरुः।।55।।
प्रातरेव पुनस्त्वयाऽहं लक्ष्मण ! राजसंसदि वीक्षणीयः सत्वरम्।
मैथिलीं कृपणां न किञ्चिजज्ञापयेरन्यथा परितापमेष्यत्याकुला।।56।।
नो भविष्यति मैथिलीं हव्यं पुनर्भूपतिप्रकृतिप्ररोषस्याध्वरे।
इत्यहं प्रतिजान एव स्वात्मनो निष्ठया रविवंशमाङ्गल्यव्रती।।57।।
इति निगदति वाचं धर्मनिष्ठे वसिष्ठे
तरणिकुलमहिष्ठे तातपादप्रतिष्ठे।
शमितकलुषरोषो मन्दिरं सोऽभ्युपेत-
स्सपदि निशि सुमित्रासूनुराविद्धदेहः।।58।।
विजनभवनकक्षे द्वापि भ्रातरौ तौ
धृतरघुपतिचिन्तौ लक्ष्मणोऽथाजुहाव।
निखिलघटितवृत्तं श्रावयामास ताभ्यां
प्रवरगुरुनिदेशञ्चापि प्राभातिकं तम्।।59।।
भवनजनरमक्षं नो समुद्घाटनीयं
हतकरजकवृत्तं मैथिली नो श्रृणोतु।
रघुकुलमणिदीपं सा विभर्त्येव गर्भे
ननु परिहरणीयो भ्रान्तझञ्झाप्रकोपः।।60।।
रघुपतिविषयेऽतोऽस्माभिरन्यैव कापि
गृहजनसमवाये ख्यापनीयाऽति वार्ता।
इतिसमुदितमन्त्रो लक्ष्मणो वीतनिद्रो
भहितगुरुनिदेशश्रावणाय प्रतस्थे।।61।।
गत्वा सौधकवाटरन्ध्रनिकटं सौमित्रिरार्तस्वरै-
र्वासिष्ठं वचनं निदेशसदृशं रामं तदाऽश्रावयत्।
प्रोवाच स्वयमेव देव ! हृदयं मैवं भृशं तापय
त्वद्धस्ते किल जीवितं रघुपते ! तद्रक्ष लोकं गृहम्।।62।।
यत्काव्यं मधुवर्षि नव्यघटनं प्रस्थानभूतं नवं
सान्द्रानन्दमरन्दविन्दुरुचिरं सीताप्रमाणैः कृतम्।
सर्गः सप्तदशो जनापवदनप्रख्यो नु तस्मिन्नयं
सीतां संशयितां निवेद्य विरतश्श्रीजानकीजीवने।।63।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनूः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।64।।
इति श्रीमद्दुर्गाप्रसादभिराजीसूनोर्गौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये जनापवादसंज्ञकः सप्तदशः सर्गः।
अष्टादशः सर्गः
अथ प्रभाते भगवान् वसिष्ठः सम्प्रेष्य दूतान् परितो नगर्याम्।
आमंत्रयामास समग्रपौरान् विशेषतस्तं रजकं सभार्यम्।।1।।
वसिष्ठसन्देशमवाप्य सर्वे विहाय कार्याणि विलोलचित्ताः।
समाययू राजसभान्तरालं यथोचिस्थानमवेक्ष्य तस्युः।।2।।
अशेषशास्त्राम्बुधिमन्थनोत्थज्ञानमृतापानकपूतदेहाः।
विपश्चितो वेदविधानदक्षाः समाययुः पार्थिवदेवसंघाः।।3।।
विभिन्नविख्यातकुलप्रसूताः सामन्तवर्गा हयपृण्ठरूढाः।
समाययुर्वंशगुरोर्निदेशात् रणाङ्गणे दर्शितविक्रमास्ते।।4।।
सहस्रलक्षायुतकोटिपद्माधीशास्ततो वैश्यकुलावतंसाः।
समागता वैकटिका धनाढ्या व्यापारिणो नागरसार्थवाहाः।।5।।
ततोऽपरे तक्षककारुशिल्पिकुविन्दधानुष्कनिषादवर्गाः।
सुवर्णलौहासवकुम्भचर्मप्रवेश्मकारा रजकादयश्च।।6।।
नटा विटा वर्षवरा वरेण्याः कलाधरा भूपतिशंसिता ये।
समाययुः प्राप्य गुरोर्निदेशं जिज्ञासमानाश्च सभारहस्यम्।।7।।
सभा च सा दाशरथी महार्घा निरन्तरा लक्षमितैर्नु पौरैः।
ऐन्द्रीं सभामिन्द्रवृहस्पतीद्धामादित्यदीप्तां स्फुटमन्वकार्षोत्।।8।।
ततोऽधिमञ्चं विरराज मध्ये स्वयं वसिष्ठो भगवान् महर्षिः।
रामादयो बन्धुजनाश्च सर्वे सव्येतरीभूय गुरोर्निषेदुः।।9।।
अमात्यवर्याश्च सुमन्त्रमुख्यास्ततोऽष्टसंख्याः प्रमुखो बलानाम्।
मञ्चेऽवतस्थुर्ननु वामभागे प्रणम्य वन्द्यं प्रगुरुं वसिष्ठम्।।10।।
व्यवस्थितायाञ्च तथा सभायां ब्रह्मर्षिरुत्थानाय ततो वसिष्ठः।
पयोदमन्द्राक्षतकण्ठनिर्यत्स्वरेण सम्बोध्य चचांस्यवोचत्।।11।।
आयोध्यकाः पौरजनाः समग्राः ! मया वसिष्ठेन निवेद्य यूयम्।
आकारिता राजभये नृशंसे ह्युपस्थिते द्रागिह जीवने वः।।12।।
जलौघभूभ्रंशहिमावपातप्रवातझञ्झाशलभैकमूलम्।
नेदं भयं नापि च बाह्यशत्रुयुद्धोद्यमोत्पन्नमथापि नान्यत्।।13।।
आभ्यन्तरं मानसिकं करालं भयं भयानां प्रमुखं तदूर्ध्वम्।
आतङ्कमुत्पादयदात्मसृष्टं लुनाति भव्यं ननु कोसलानाम्।।14।।
पौराः प्रियाः ! मद्वचनं श्रृणुध्वं सनिष्ठमास्थाय च सावधानम्।
अहं ब्रवीम्यात्महितं समेषामायोध्यकानाञ्च हितं महारर्घम्।।15।।
त्रिकालवेली स्वतपः प्रभावैः ऋतस्य सत्यस्य च तत्त्वगोऽहम्।
सप्तर्षिवृन्दे गणितो महिम्ना विरञ्चिपुत्रोऽस्मि वसिष्ठनामा।।16।।
धातुर्निदेशादथ जीवलोकभव्याय सूर्यान्वयभूपतीनाम्।
अङ्गीकृता वंशगुरुप्रतिष्ठा मया चिरत्नात्समयात्पृथिव्याम्।।17।।
कियन्त एवाक्षतशौर्यभूपा मार्तण्डवंशोऽभ्युदिता मृताश्च।
यशोऽवशिष्टाः खलु किन्तु सोऽहम् अकालपच्यः स्वतनुं विभर्भि।।18।।
भगीरथं मित्रसहं दिलीपं रघुं जिगीषुञ्च तमिन्द्रमित्रम्।
भूपोत्तमं पक्तिरथं स्वधाम्ना निनाय लोकाभ्युदयं वसिष्ठः।।19।।
परन्तु सोऽहं तपसाऽऽर्जवैश्च स्वतेजसा चापि शपामि मान्याः।
यदात्मपुण्याक्षतभूरिभाग्यैः श्रीराघवं सम्प्रति निर्दिशामि।।20।।
न मानवो दाशरथिः पृथिव्यां स्वयं महाविष्णुरिहाऽवतीर्णः।
दृष्ट्या यया तत्त्वविमर्शशक्त्या पश्यामि रामं सुलभा न सा ते।।21।।
न यत्र गन्तुं क्षमते शरीरं सूक्ष्मं मनस्तत्र च यात्यशङ्कम्।
मनोऽपि यत्राऽक्षमते प्रयातुं सर्वज्ञ आत्मा सहजं प्रयाति।।22।।
सौक्ष्म्यं हि शक्तेरिदमापनीयं तपोबलेनैव न चान्ययोगैः।
अतीन्द्रियं योगमुपार्जितं स्वं प्रस्तौम्यहं तत्तपसाऽनुभूतम्।।23।।
रामस्य देवत्वमपीह लोके न चास्ति साधारणजीववेद्यम्।
अगस्त्यवाल्मीकिसुतीक्ष्णविश्वामित्रा विजानन्ति सुवेद्मि चाहम्।।24।।
जघान यः पञ्चदशे हि वर्षे सुबाहुमुग्रामपि ताटकाञ्च।
चिक्षेप पारेजलधि प्रविद्धं मारीचकं शैवधनुर्बभञ्ज।।25।।
विराधमिद्धं खरदूषणादीन् हत्वा जनस्थानमपेतविघ्नम्।
चकार यो लोकहिताय तूर्ण प्रियावियुक्तोऽप्यवधीत्कबन्धम्।।26।।
त्रिलोकसंराविणमिष्टवैरं गन्धर्वविद्याधरकिन्नराणाम्।
सुरोत्तमानामपि घोरशत्रुं प्रनष्टसौजन्यविवेकशीलम्।।27।।
मदोद्धतं चारुचरित्रशून्यं सबान्धवं यो निजघान युद्धे।
विदेहजादस्युमुपेतमृत्युं तं रावणं लोकभयं ननाश।।28।।
अहो स रामः किमु मर्त्य एव युष्मादृशः संशयितात्मशक्तिः ?
अपूवकर्मा न च किं स आस्ते आयोध्यकाः ! पृच्छत मानसानि।।29।।
मत्स्यादिनं यो गुहमङ्कपाल्यां संस्कारहीनं कृतवान् सहर्षम्।
स्वसौहृदे तं नियुयोज सद्यः स राघवः किं मनुजो न देवः ।।30।।
जटायुषं तातसखं वनान्ते सीतार्थमुत्सृष्टशरीरजीवम्।
ददाह तं योऽधिचितं सुतीयन् गृद्ध्रं स रामः किमहो मनुष्यः ।।31।।
प्रेम्णा शवर्या वशगो जघास यो दण्डकायां ! बदरीफलानि।
स्वादावबोधाय तयैव पूर्वं भुक्तानि रामः किमसौ मनुष्यः ।।32।।
जानन्नपि प्रीततमां स्वभार्यां चरित्रशुद्धां महितामनन्याम्।
ज्योत्स्नानिभां राघवपूर्णचन्द्रस्तत्याज तां लोकसमक्षमेव।।33।।
यशस्विनीमग्निपरीक्षितां तां विरञ्चिशम्भ्वादिसुरैः प्रशस्ताम्।
महीयसीं पावकपावयित्रीं पश्चाच्च जग्राह स किं मनुष्यः ।।34।।
न काकिणीं नाऽपि वराटिकां वा मूढो जनो मुञ्चति मोहविद्धः।
भ्रात्राऽर्पितं किन्तु न राज्यमैच्छत् यो राघवो हन्त स किं मनुष्यः।।35।।
अये जना नागरकाः प्रवीणाः ! सर्वेऽपि यूयं किल भाग्यवन्तः।
यद्रामराज्ये ससुखं वसन्तश्चकास्थ शेध्वे सहजं निशायाम्।।36।।
लौहान्यपि स्पर्शमणिप्रभावात्सद्यो यथा काञ्चनतां भजन्ते।
तथैव विष्णुप्रभरामदृष्ट्या विलोकिता यूयमपि द्युवासाः।।37।।
स एव रामो भगवान् नृपेन्द्रः प्रजोपकाराय हुतात्मसौख्यः।
अनन्तसन्तापचये निमग्नो व्यथार्दितस्सम्प्रति दैन्यमेति।।38।।
सायन्तने ह्यः किल दुर्मुखस्तं जगाद गुप्तं प्रणिधिर्नियुक्तः।
यन्मैथिलीमाक्षिपतीह कोऽपि चरित्रदृष्ट्या रजको नगर्याम्।।39।।
तदाप्रभृत्येव विवृद्धतापः प्रजाहितार्थाय दृढप्रतिज्ञः।
विमुक्तभोज्यान्नजलो निरुद्धद्वारो निशायां शयितुं न शेके।।40।।
सौमित्रितो वृत्तमिदं निशम्य मयापि रात्रौ प्रहितः स्वमन्त्रः।
यन्मामनामन्त्र्य न कापि राम ! कार्या त्वयाऽनर्थकरी प्रतिज्ञा।।41।।
मन्ये प्रयत्नैः किल लक्ष्मणस्य युष्माकमप्यञ्चितभागधेयैः।
महाविनाशोऽपगतो निशायां भवन्त एवात्र पुनः प्रमाणम्।।42।।
ससागरायाः कुशलं धरित्र्याः पौराः इदानीं रजकाश्रितं तत्।
तस्मान्मयाऽनीत इहैव सोऽपि तिष्ठत्ययं पार्श्वगतः सभार्यः।।43।।
इयं सभा लोकमतैकनिष्ठा लोकानुगा लोकसमिद्धतंत्रा।
गवेषणे लोकमतस्य नूनं न राजभीतिर्न च दैन्यभावः।।44।।
पौराः ! इदं पावनरामराज्यं हिनस्ति वैयक्तिकपारतन्त्र्यम्।
राज्ञोऽधिकारे प्रकृतिर्न बद्धा प्रजाधिकारे नृप एव बद्धः।।45।।
पूर्वं प्रतिज्ञातमिदं नृपेण यत्सेवकोऽसौ विनतः प्रजानाम्।
प्रजामनोवृत्तिपरीतराज्यं भुनक्ति रामो न निरङ्कुशोऽसौ।।46।।
तस्मान्न भेतव्यमिहाल्पमात्रं वाच्यो न्वभिप्राय उपेत्य मञ्चम्।
विदेहजां क्षालक भद्र ! नूनं प्रवेत्सि दुष्टां यदि हीनशीलाम्।।47।।
दृढा मतिस्ते यदि तत्स्वकीयं मतं ह्युपस्थापय निर्विशङ्कम्।
सीताविरुद्धं वदसि त्वमेकश्चान्येऽपि वा तद्भविता प्रकाशम्।।48।।
प्रास्ताविकं किन्तु मयोपनीतं श्रृणुष्व पूर्वं हतपक्षपातम्।
तपः प्रभावैर्गुरुगौरवैश्च सर्वेशितत्वं तनुते वसिष्ठः।।49।।
किमस्ति राजर्षिरिह क्षमायामन्योऽपि सीरध्वजतुल्यशीलः !
यस्यात्मजेयं खलु पट्टराज्ञी रामप्रियाऽस्माकमधीश्वरी च ।।50।।
पितुर्महिम्नैव विदेहजेयं ख्याता पृथिव्यामपि जानकी सा।
क्वचिच्च वैदेह्यपि बोध्यते सा सा मैथिली मैथिलभूपकन्या।।51।।
अयोनिजां क्षेत्रकृषिप्रजातामन्यामपि त्वं श्रुतवानसि प्राक् ?
कन्यामुदारां गुणरूपयुक्तां सीतासदृक्षीं यदि तद् वदेथाः।।52।।
प्रदीप्तवैश्वानरवेदिकायां स्थिताऽपि या काञ्चनतामवाप।
तां देववन्द्यामपि मैथिलीं त्वं जानासि सत्यं चरितावलीढाम् ।।53।।
यन्नेत्रदीप्ताग्निभयाऽभिभूतश्शशाक नो स्प्रष्टुमसौ दशास्यः।
स्वपापपश्चात्तपनप्रविद्धः सा जानकी किं चरितैर्विलुप्ता ।।54।।
पतिव्रता सौम्यसतीत्वमूर्तिः सकृन्न या रावणमालुलोके।
सा राघवप्राणगतिर्द्वितीया सीता चरित्रैर्विकला विभाति ।।55।।
स्वयं समेषामपि जीवभाजां चरित्रमारक्षति या महिम्ना।
तस्याश्चरित्रं ननु शङ्कसे त्वं स्वबुद्धिमेधाऽहितगर्वभारः ।।56।।
अग्निर्भवेदन्यपदार्थतापमात्राप्रमाणं ज्वलनप्रभावात्।
परन्तु तापोच्चयशक्तिभाजो भवेत्प्रमाणं किमहो कृशानोः ।।57।।
शक्तिर्भवेच्छक्तिमतः प्रमाणं प्रमाणमन्यन्न परन्तु शक्तेः।
स्वयं सृजत्यात्मगतं प्रमाणं ह्यनेहसि प्रार्थितपञ्चतत्त्वम्।।58।।
सम्भाव्यते नैव गुणप्रतीतिः स्फुटाऽपरेषां निजदोषदैर्घ्यात्।
तृणाविलं पश्यति नैव नैत्रं ह्युशीरशीतामपि चन्द्रिकां ताम्।।59।।
हृषीकदुर्भावमलं व्यपोह्य कार्यो मनुष्येण हि तत्तवशोधः।
न सीव्यते टङ्किकया दुकूलं स्यूतं भवेद्यत्किल सूक्ष्मसूच्या।।60।।
देव्याश्चरित्रं न च तर्कबुद्ध्या ज्ञातुं हि शक्येत निरुद्धगत्या।
तज्ज्ञापिका नाऽपि विपन्नदृष्टिरात्मैव तत्र क्षमते प्रदीप्तः।।61।।
एकोऽहमस्म्याहिततत्त्वबोधः सीतां विजानामि जगत्प्रवन्द्याम्।
यश्शङ्कते तच्चरितं प्रपूतं स चापसस्त्वं रजक ! प्रमादिन्।।62।।
प्रक्षालितं वस्त्रमलं त्वया भो मया स्वबुद्धिर्विमलीकृतेयम्।
क आवयोः श्रेष्ठतरः प्रशस्तः प्रश्नो ह्ययं निर्णयनीय एव।।63।।
अरुन्धि नाहं यदि रामभद्रं निश्चप्रचं सः प्रकृतेर्मुदर्थम्।
द्वेषाग्निकुण्डे जुहुयात्सगर्भां मृगीमिवाऽराधितपट्टराज्ञीम्।।64।।
परन्तु नेदं भविता दुरन्तं पापं वसिष्ठे मयि विद्यमाने।
नाहं भविष्यामि कृतावमानः सद्धर्मलुप्ते नगरे रघूणाम्।।65।।
प्रवच्म्यतो राघवमप्युदारं तत्त्वं खलीकृत्य मनोऽनुरागम्।
वयस्तपोवंशगुरुत्वदृष्ट्या क्षमोऽस्मि सम्यक्तमिहोपदेष्टुम्।।66।।
भार्यैव सीता नहि राघवस्य प्रजाऽपि सा प्राप्तसमाधिकारा।
सौभाग्यलक्ष्मी रघुवंशिनां सा पौरप्रजानामपि पट्टराज्ञी।।67।।
एकं मतं नैव मतं समेषां निरर्थकं तत्खलु लोकतन्त्रे।
मतं बहूनां यदि पट्टराज्ञीं क्षिपेत्तदा लोक इह प्रमाणम्।।68।।
न दण्डनीया रजकापवादात् न चापि पत्युः परुषाधिकारात्।
मतैः प्रजानामिह सांसदीनां निर्णेष्यते भाग्यमथो महिष्याः।।69।।
रागेऽक्षते वल्लभसम्पदस्तु प्रियाऽङ्गना तत्र न मे विरोधः।
परन्त्वसिद्धे खलु रागबन्धे न साऽप्रिया पत्युरुपार्जितं स्वम्।।70।।
दाम्पत्यमस्ति प्रणयैकमूलं विपर्यये तन्न बिभर्ति संज्ञाम्।
रागानुबन्धे त्रुटिते न काऽपि कस्यापि भार्या न च कोऽपि भर्ता।।71।।
रामो यदि द्वेष्टि विदेहजातां नासौ तदा वल्लभतामुपैति।
पत्नीं स्वकीयां दयिताधिकारैर्नासौ बहिष्कर्तुमपि क्षमोऽस्ति।।72।।
दण्ड्योऽपराद्धः खलु धर्मशास्त्रे न साधुताशीलगुणार्जवानि।
न वेद्मि वेदेहसुतापराधं कस्माद्धि दण्ड्या खलु पट्टराज्ञी ।।73।।
करोतुं पापं मनसोऽपराधं कोऽप्यन्य एव प्रतिरोषबुद्धया।
भुनक्तु दप्डं ह्यकृतापराधश्चान्यो जनो हन्त हतं प्रभुत्वम्।।74।।
समग्रलङ्काजनतासमक्षं प्लवङ्गसैन्येऽपि च विद्यमाने।
रुरोह सीताऽधिचितं मुमूर्षुः सा किं कथा लोकजनश्रुतिर्वा !!75।।
साक्षी स्वयं लक्ष्मण एष यो वै काष्ठानि संहृत्य चिताञ्चाकर।
साक्षी स्वयं राघव उग्ररोषो यन्मूलमासीद् दुरितं तदूर्ध्वम्।।76।।
अतः स्फुटं वच्मि निजाधिकारैस्तपोमहिम्ना गुरुगौरवेण।
विरौम्यहं चण्डमुदूर्ध्वबाहुः श्रृण्वन्तु सर्वे पौरवर्गाः।।77।।
चरित्रमास्कन्दति पट्टराज्ञ्याः प्रजाजनो यो हि विरुद्धबुद्धिः।
चितां समारुह्य निजं चरित्रं प्रदर्शयेत्सोऽपि सकृत् पवित्रम्।।78।।
मान्या जना नागरकाः प्रविज्ञाः ! एतावदेवास्ति ममाभिधेयम्।
निश्चेष्यते सम्प्रति लोकतंत्रैर्भाग्यं हि देव्या रजकार्दितायाः।।79।।
पक्षे विपक्षे च विदेहजाया वादो मया प्रस्तुत आत्मबुद्ध्या।
ऋतञ्च सत्यञ्च भवत्समक्षं प्रकाशिते शास्त्रपथानुकूलम्।।80।।
सीतास्वरूपं रजकप्रमोहं विशाम्पतेश्चापि गृहप्रभुत्वम्।
निष्पक्षपातं परिभाष्य सोऽहं करोमि सर्वं भवतामधीनम्।।81।।
मृतो वसिष्ठः किमु धर्मसिन्धुर्यस्मादनर्थोऽयमभूद्दुरन्तः।
मैवं वन्दन्त्वेष्यति कालखण्डे लोका इति प्राग्विहितः प्रयासः।।82।।
प्रोच्चार्य वाणीमिति तत्त्वगर्भां मोहान्धकारप्रसवप्रहन्त्रीम्।
विदेहजाशीलचरित्रसाक्ष्यप्रसारयित्रीं परिपुष्टरामाम्।।83।।
निजासने तिष्ठति विश्ववन्द्ये गुरौ वसिष्ठे निखिला समज्या।
निमज्जिता ग्लानिविषादसिन्धौ तूष्णीम्बभूवात्महता नताङ्गी।।84।।
विदेहजापूतचरित्रचर्चां श्रुत्वा च दैन्यं दयितावमानम्।
चिताग्नितल्पानुगतं प्रविद्धा वृदाश्च केचिन्मुमुहुः सभायाम्।।85।।
अजस्रनेत्राम्बुनिमग्नदेहा नार्यो नरा वर्षवराश्च सर्वे।
महासतीं मैथिलभूपकन्यां श्रद्धाभिभूता मनसा प्रणेमुः।।86।।
भटाश्च केचिद्रणभूमिदक्षा आप्लाविताः क्रोघरयप्रकर्षैः।
तमेव मूढं रजकं प्रहन्तुं मध्येसभं बुद्धिमकार्षुरुग्राम्।।87।।
परस्परं शून्यदृशा पठन्तः सर्वेऽपि तस्थुर्विकला विषण्णाः।
लघूकृताः पापभरैः स्वकीयैर्हतप्रभा रुद्धमुखा बभूवुः।।88।।
ततो ह्यकस्माद्रजको विपन्नः स्खलद्गतिर्नेत्रजलावमग्नः।
उपेत्य मञ्चं ननु वातगत्या वसिष्ठपादेषु पपात तूर्णम्।।89।।
पुनस्समुत्थाय निषेव्य रामं प्रगृह्य पादौ निहतो व्यथाभिः।
प्रोवाच सन्ताड्य निजं ललाटं संस्तम्भितै रोदनगर्भवाक्यैः।।90।।
अत्रैव मामद्य हिनस्तु देवः प्रकिल्विषं पापिनमात्तदोषम्।
जहान्यहं वा स्वयमेव नाथ ! प्राणान् मदीयांस्त्वयि सम्मुखीने।।91।।
महाजना जानपदा महार्घाः ! श्रृण्वन्तु सर्वे मम दीनवाचम्।
रुणद्धु मे श्वासगतिं पिनष्टु कलेवरं हन्तु च कोऽपि तूर्णम्।।92।।
कलङ्कभूतोऽस्म्यहमध्ययोध्यं स्थातुं च नार्हामि कृतावसादः।
निमेषमात्रं श्वसितुं शरीरे स्वयं नु जिह्रेमि दधद्विवेकः।।93।।
जिह्वामिमां स्वैरगतिं विलोलां स्तभ्नन्तु छिन्दन्तु यथायथं भोः !
स शास्मि यां वच्मि च पापगर्भ व्यलीकवादं किल मन्दबुद्धिः।।94।।
एकेन नीचेन मया पुरीयं निजापराधेन कृताऽवसन्ना।
वापीव हालाहलविन्दुनेव न मे गतिः सम्प्रति कल्मषाणाम्।।95।।
हे राम ! हे राघव ! दीनबन्धो ! क्षमस्व मां देव ! कृतापराधम्।
आयोध्यका जानपदाश्च सर्वे यूयं क्षमध्वं रजकं व्यथार्तम्।।96।।
न मेऽक्षरज्ञानमकुण्ठसुप्तेर्न चापि विद्वज्जनसाधुसङ्गः।
न वंशसंस्कार इहास्मि जातो जन्तुः पृथिव्यां रजकाभिमानी।।97।।
तिमिङिगलो गाङ्गजलैकपायी भवन्नपि क्लिश्यत एव यद्वत्।
जीवामि हा राममये पुरेऽस्मिन् रामच्युतोऽहं रजकः प्रमूढः।।98।।
अवादिषं क्रोधविनष्टबुर्द्धिर्मुखेन यद्देव ! निशि स्वभार्याम्।
न तस्य मूलं हृदये ममासीत् न वर्तते नाथ ! शपामि धर्मैः।।99।।
यथा वहन् मन्दगतिस्समीरः सृजत्यकस्मादपि भीष्मझञ्झाम्।
जितो महारोषचयैस्तथैव ह्युच्चावचं देव ! जगाद मूढः।।100।।
ब्रह्मर्षिवाण्या अमृतं निपीय किन्तु प्रलीनं मम बुद्धिजाड्यम्।
विलोकये सम्प्रति विष्णुरूपं लक्ष्मीनिभां भूमिसुताञ्च दिव्याम्।।101।।
जातं पुनर्जन्म ममाद्य देव ! प्रत्नं वपुः किन्तु नवश्चिदंशः।
ज्ञातम्मया राघवदिव्यतत्त्वं समुद्धराऽङ्घ्र्यम्बुजलीनगात्रम्।।102।।
निषादराजश्शबरी जटायुः सर्वेऽपि मत्तोऽभ्यधिकप्रशस्ताः।
तथापि हे नाथ ! दयैकसिन्धो ! मामुद्धर त्राहि पदप्रलोनम्।।103।।
न सान्त्वितोऽहं यदि देव ! दीनः कृतापराधो विशदान्तरात्मा।
अद्यैव मां श्रोष्यसि दीनबन्धो ! शरीरनष्टं स्वकृतैः प्रयासैः।।104।।
स्खलत्स्वरैर्गद्गदकण्ठघोषैर्मध्येसभं स्वीयवचांसि चिन्वन्।
रुरोद गाढं निपतात भूमौ विसंज्ञदेहो रजको व्यथार्तः।।105।।
तदीयदैन्यं करुणां विमूर्च्छां विलोक्य संश्रुत्य च नम्रवाचम्।
अमर्षरोषज्वलिता नु पौराः सर्वे दयाञ्चक्ररुपेत्य तोषम्।।106।।
विलोक्य पश्चात्तपनं तदीयं निशम्य चार्तानि वचांसि सद्यः।
हैयङ्गवीनं रघुनाथचित्तम् उदीर्णदैन्यं द्रवितं बभूव।।107।।
सकृत् समालोक्य गुरुं वसिष्ठं दृशोरभिप्रायमवाप्य तस्य।
सभासदाञ्चापि विभाव्य भावं भ्रातृंश्च सर्वान् विनतान् निरीक्ष्य।।108।।
स्वपाणिपाथोजसुधावलेपस्पर्शैर्हरन् दैन्यचयं प्रशोकम्।
द्रुतं समुत्थाप्य निधाय चाङ्के रघूत्तमस्तं रजकं रराध।।109।।
स सांन्त्वयंस्तं स्वजनं जगाद मा याहि दैन्यं रजक ! प्रशाम्य।
तुष्टोऽस्म्यहं ते हृदयं विलोक्य शपे प्रजाभिर्विशदोऽस्मि तात !!110।।
प्रजामनोवृत्तिसमर्थनम्मे श्रद्धेयकृत्यं प्रथमं वरिष्ठम्।
प्रजाहितं प्रीततमं महिष्ठं प्रजैव सर्वं किल रामराज्ये।।111।।
प्रयाहि गेहं ननु भद्र ! शान्तश्चितं समाधाय कुरुष्व कार्यम्।
भयं न रामादिह सज्जनानामसज्जनानामपि नैव रक्षा।।112।।
पृथ्वीमिमां स्वर्गसमृद्धितुल्यां विधातुमिच्छामि निजैः प्रयासैः।
प्रजाजनानां सहयोगभावस्त्वपेक्ष्यते तत्र सदैव भद्र !!113।।
यो यत्र यस्मिन् करणेऽवसक्तः समुन्नतस्तत्र भवेन्नितान्तम्।
राष्ट्रं यथा स्याच्चतुरस्रसिद्धिप्रभान्वितं सिन्धुनगेन्द्रमध्यम्।।114।।
एवं राघवतोषितस्स रजकस्सम्प्राप्तसञ्चेतनः
चञ्चत्प्राण इवाभवद्रघुपतेः संस्पर्शसौख्यं दधत्।
सर्वे जानपदाश्च खेदरहिताः सम्यक् पुनर्जीविताः
भूपालं मुदितं विलोक्य मुदितास्सर्वे बभूवुश्चिरम्।।115।।
यत्काव्यं मधुवर्षि नव्यघटनं प्रस्थानभूतं नवं
सान्द्रानन्दमरन्दविन्दुरुचिरं सीताप्रमाणैः कृतम्।
तस्मिन् पूर्तिमितो वसिष्ठमहितस्सर्गौऽयमष्टादशः
प्रख्यातो ह्यपवादनिर्णय इति श्रीजानकीजीवने।।116।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।117।।
इति श्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गौतमगौत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्येऽपवादनिर्णयसंज्ञकोऽष्टादशः सर्गः।