एकोनविंशः सर्गः
अथ यथासमयं धरणीसुता रुचिरशारदसौम्यनिशीथके।
प्रथितवंशधरौ यमजौ सुतौ रघुपतिप्रतिमौ समजीजनत्।।1।।
पणववेणुमृदङ्गकझल्लरीमुरजदुन्दुभिशंखनिनादकैः।
निखिलमेव नभोविवरं वृतं रघुकुले समजायत मङ्गलम्।।2।।
मधुरकण्ठनिनादितनिः स्वनैर्विशदसूतगृहाञ्चितगीतिकाः।
प्रमुदिताः प्रतिवेशवधूजना द्रुतमुपेत्य जगुर्निशि संगताः।।3।।
विशदवाद्यचयध्वनिबोधिताः श्रुतिपरम्परया सुतसम्भवम्।
समधिगम्य बभूवुरतन्द्रिताः सहृदयोत्तमकोसलनागराः।।4।।
रुचिरपौत्रमुखे विधुसन्निभे समवलोक्य मनोरथवर्धिताः।
ननृतुरेव महोत्सवमेदुरा भरतलक्ष्मणराघवमातरः।।5।।
अवनिजासहजा ननु माण्डवी सहृदया श्रुतकीर्तिरथोर्मिला।
स्वसृसुखैः सुखिता विभृयुश्चिरं प्रथितमङ्गलमोदकदम्बकम्।।6।।
नृपतिसौधसमक्षमुपाययुः पुलकहर्षभरान्वितनागराः।
निशि बभूव दिनं श्रितकौतुकं ह्यविदितं क्षपिताऽक्षियुगे क्षपा।।7।।
समुदिते नलिनीदयिते रवौ प्रथितमागधचारणवन्दिनः।
गृहमुपेत्य जगुर्विरुदावलीं रघुनृपान्वयकीर्तिविसारिणीम्।।8।।
स्वकुलवृद्धिविनोदितमानसः प्रमुदितो भरतः प्रचुरैर्धनैः।
सपदि याचकावृन्दमतोषयत् भवनमागतमागतवैभवः।।9।।
पुरनिवासिभिरात्मगृहाण्यपि कुसुमपल्लवमङ्गलतोरणैः।
सरभसं समलङ्करणैर्नवैर्विकसितानि सितानि सुधाचयैः।।10।।
न खलु सा सरणी रमणी न या न रमणी खलु याऽधृतगीतिका।
न च सुगीतिरसौ न रराध या सुहृदयानि दयानिचयात्मनाम्।।11।।
जनकजाऽपि च सूतगृहान्तरे यदवधि न्यवसत्कुलसम्मतम्।
नवमहोत्सवचारुकदम्बकम् अवृतदेव तदेवमहर्निशम्।।12।।
कतिपयेऽथ गते दिवसोच्चये निभृतसूतगृहाद्बहिरागतौ।
जनकजाजनितौ युगलार्भकौ समुदिता मुदिता ददृशुर्जनाः।।13।।
रघुपतिप्रतिमाविति काश्चन भरतगाविति लक्ष्मणगावथ।
स्वरुचिमूचुरिति प्रथिताङ्गनाः समवलोक्य सुतौ ननु तौ नुतौ।।14।।
जनकजाऽपि निशम्य सुयोषितां रसमयं वचनं हृदि मोदिता।
सविनयं निजगाद ममात्मजौ निखिलवंशधरांशधराविति।।15।।
पितृसमौ ननु तौ महितात्मना भरतलक्ष्मणशत्रुदमप्रभौ।
हृदयविक्रमरूपचयैरिति स्वजननीसदृशौ सदृशौ न किम् ?16।।
सुतमुखेन्दुदिदृक्षुरपि त्रपाशिथिलितो न शशाक रघूत्तमः।
ननु कुटुम्बिसमक्षमवेक्षितुं महितसंयमजौ यमजौ सुतौ।।17।।
अथ रघूत्तमगार्ध्यविभाविनी ह्यवसरं समवाप्य च कैकयी।
चरणसंवरणाय समागतं स्फुटमुवाच मुदा नतराघवम्।।18।।
अयि नरेन्द्र ! रघूत्तम ! नन्दन ! कथमिव त्रपसे किल राघव !
विधुमुखौ यमजौ रघुवंशिनौ ननु विलोकय पङ्कजलोजनौ।।19।।
इति निगद्य सुतावतिकोमलौ कलरवं दधतौ विहगप्रभौ।
कुतुकिनावददात्क्रमशश्च तौ रघुवराय मुदा जननी स्वयम्।।20।।
उपगता अपरेऽपि कुटुम्बिनो जनकजासहजा ननु मातरौ।
पुलकहर्षपयोनिधिवेल्लनैः स्फुटमदीर्यत राघववित्रपा।।21।।
क्वचिदलालयताशु पितामही क्वचिदथो जननीभगिनीचयः।
क्वचिदसौ जननीगृहसेविका ननु बभूवतुरीक्षणसन्निभौ।।22।।
अथ शनैर्दिवसा रविदीपिता विधुसिता मृदुशीतलरात्रयः।
तदनु मासचयैधितहायनं परिणतिं नु जगाम यथाक्रमम्।।23।।
जनकजातनुजौ परिवर्धितौ सपदि हायनपञ्चकसंयुतौ।
मधुरया च गिरा धृतवाचिकौ स्वजनचित्तमरञ्जयतामुभौ।।24।।
समदृशौ समचन्द्रमुखावभौ समरुची समभोजनपानकौ।
सदृशरोदनगायननर्तनौ ननु कुटुम्बिमनांसि बबन्धतुः।।25।।
प्रतिपलं जवनौ मृगशावकाविव गृहाङ्ण एघितधावनौ।
जनकजाहृदयं किल जह्रतुः कमलकोमलकान्तकलेवरौ।।26।।
गुरुवसिष्ठकृतैः कुलसम्मतैर्विधिभिरिद्धतनू ऋतसंस्कृतौ।
चपलशैशवलोलविहारणैः स्वजनहृन्दि च तौ प्रमुमोषतुः।।27।।
अथ रघुप्रमुखं समुपागतः सकललोकसमर्च्यपदाम्बुजः।
त्रिपथगातमसाजलसन्धिजप्रथितकाननवासिमुनीश्वरः।।28।।
तरणिवंशभवोऽत्रपुरा क्वचित् नृपतिमित्रसहो बहुवार्षिकम्।
गुरुवसिष्ठसमेदितमध्वरं ननु सुदाससुतस्समपूपुरत्।।29।।
सुविदितं तमकुण्ठतपोनिधिं स्वयमुपागतमीक्ष्य रघूत्तमः।
सविनयं सकुटुम्बमपूपुजन् मुनिजनोचितवेदविधानतः।।30।।
कुशलमङ्गलमूलमनामयं प्रकृतिपोषणवृत्तमपि क्रमैः।
रघुपतिं परिपृच्छ्य पराम्मुदं ह्युपगतो वलमीकमुनिस्तदा।।31।।
जनकजातनयौ स्फुटविग्रहौ रुचिरवेषधरावतिमोहनौ।
समवलोक्य तयोरभिधानकं मुनिवरः समपृच्छदथाधिपम्।।32।।
रघुपतिर्निजगाद सुताविमावकृतसंज्ञितकौ तदितः परम्।
भवदभीप्सितनामपदौ यदि प्रभवतां भवितास्मि कृती प्रभो !!33।।
सविनयं पुनरेव निवेद्यते जनकजातनयौ यदिमौ भवान्।
गुरुकुलेऽप्युपनीय निजाश्रमे प्रविदधातु यथारुचि संस्कृतौ।।34।।
इति निशम्य रघूत्तममंत्रणां विनयहार्दमयीं मुदितो मुनिः।
रघुसुतौ यमजावुपलालयन् स्फुरितमंत्रपदैरभिषेचयन्।।35।।
प्रथमजं तनुजं कुशभावितं स समबोधयदाशु कुशाभिधम्।
अनुगतञ्च लवैरभिषेचितं मुनिरवोचदधीत्य लवाभिधम्।।36।।
कुशलवाविति नामपदे शुभे तनुजयोरवगम्य रघूत्तमः।
परममोदमुपागमदूर्जितः स्वकुलजा अपरेऽपि च तुष्टुवुः।।37।।
अथ निशम्य हि दुग्धमुखार्भकौ गुरुकुलाभिमुखौ दयिताज्ञया।
प्ररुदती विरहव्यथयाऽऽर्दिता जनकजा दयितं स्फुटमब्रवीत्।।38।।
कुशलवौ रघुनाथ ! सुकोमलौ परुषकाननदारुणजीवनम्।
न किल सोढुमिमौ सहजं क्षमौ विरहितौ नु कदापि कुटुम्बतः।।39।।
निमिषमात्रमपि क्षमते न वा जनकजाऽतनुजा किल जीवितुम्।
तदपि नाथ विचारय दारुणं विशसनं मम यंत्रितमङ्गलम्।।40।।
कुशीलवौ तव कीर्तिकुशीलवौ रघुपतेऽ¬त्र ममापि यशः परम्।
ध्रुवमहं तनयस्मृतिकातरा मरणमेव गतास्मि न संशयः।।41।।
इति निवेद्य परं करुणाभरं प्ररुदतीं विकलां किल जानकीम्।
रघुपतिस्सदयं हयुपलालयन् विधुमुखं परिमार्ज्य ततोऽब्रवीत्।।42।।
हृदयदुर्बलतां त्यज मैथिलि ! प्रियतमे ! सुतमङ्गलमाश्रय।
कुशलवाविह पञ्चवसन्तकान् अतिययुस्समयो दुरतिक्रमः।।43।।
गुरुकुलाश्रयणस्य वयो न्विदं जनकजे ! स्वयमेव विचारय।
क्व खलु लभ्य इह प्रथितो गुरुश्चिरयशा वलमीकजसन्निभः ।।44।।
यदि निवेद्य सकृन्न सुतौ ददे मुनिवरोऽपि भवेदवमानितः।
विजहि तापमतः प्रियमैथिलि ! कुशलवौ त्वरितं ननु सज्जय।।45।।
दयितसान्त्ववचोभिरुपस्नुता सुतवियोगहता निजगाद सा।
हृदयवल्लभ ! रक्ष निवेदनं ननु वदामि निलीनमनोरथम्।।46।।
गुरुकुलं तनुजद्वयसङ्गता जिगमिषामि महर्षितपोवने।
अनुमतं यदि ते भवतादिदं कुशलवौ सुखिनौ मम नो व्यथा।।47।।
त्रिपथगाभिषवैर्नननु वृण्वती महितपुण्यमवेक्ष्य तपोवनम्।
कुशलवौ च निवेश्य यथोचितं त्वरितमेव भवन्तुमुपाश्रये।।48।।
परममोदमगाद्रघुनायको जनकजावचनं परिशीलयन्।
सुभगबाहुलतामृदुबन्धने प्रियतमां विदधत्स जगाद ताम्।।49।।
अयि शुभे ! रघुनायकनायिके ! अवनिजे विपदुत्सवसङ्गिनि !
प्रियतरौ तनयौ न च राघवः स्थविरकं खलु मां किमुपेक्षसे ।।50।।
सुमुखि ! ते हृदयं सुतकेन्द्रितं मम पुनस्त्वयि लीनमनोरथम्।
त्वमसि नो सुखिनी तनुजौ विना न च सुखी विरहे तव राघवः।।51।।
कुशलवौ रुचितौ मम नेति नो तदपि मैथिलि ! राघवजीवितम्।
त्वदनुगं प्रणये तव गूहितं कथमिति स्वयमेव न वेदये।।52।।
हृदयवल्लभरागवचोऽम्बुधौ सुखनिमज्जनसौख्यमुपेयुषी।
दयितवक्षसि लीनमुखाऽस्फुटं धरणिजाऽरुददश्रुमयी चिरम्।।55।।
स्वपदपद्ममरन्दकरोदरीं हृदयवल्लभ ! राघव ! मामिमाम्।
गणयसि त्वमहो कथमन्यथा प्ररुदतीति जगाद विदेहजा।।56।।
तव कृते त्वहमस्मि प्रियाऽद्वयाऽप्युपचितः प्रणयो मयि ते ततः।
त्रिषु विभक्तमिदं मम मानसं रघुवरेषु परन्तु समं समम्।।57।।
कुशलवौ रघुनाथ ! तवात्मजौ मम पुनर्वपुरात्मधरौ च तौ।
ननु विभज्य निजं त्रिषु विग्रहं त्रितयमेव कृतं मम सौहृदम्।।58।।
तदपि नाथ ! विदेहसुताऽश्रयस्त्वमसि केवलमत्र परत्र च।
सुमफलप्रसवाऽपि लताऽनघा त्यजति नैव तरुं दयिताश्रयम्।।59।।
प्रियतमावचनं रतिमेदुरं विशदयुक्ति निशम्य रघूत्तमः।
शिथिलयन् दयितां भुजबन्धनाद्रहसि तां निजगाद शुचिस्मितः।।60।।
भवतु गच्छ मतं तव रोचते कुशलवौ वृणुतां स्थिरतां त्वया।
स्वयमहं भवतीमवलोकये गुरुकुले प्रथिते सह सोदरैः।।61।।
व्यतिकरे निखिले किल निश्चिते रघुवरोऽथ दिदेश सुमन्त्रकम्।
जनकजां ससुतां मुनिपुङ्गवं गुरुकुलं स्वरथेन विमोक्षितुम्।।62।।
बहुविधन्नु महर्षिपदाम्बुजं रघुपतिः स्वजनैस्सह सन्नतः।
सविनयं बिससर्ज सुतान्वितां प्रियतमां पथि सारितलोचनः।।63।।
भरतलक्ष्मणशत्रुदमास्त्रयो नगरसीम्नि गताः प्रियदारकौ।
समुपलाल्य निवेद्य महर्षये प्रणतिमाययुराशु नृपालयम्।।64।।
कुशलवावनवेक्ष्य च मातरः सुभगपौत्रमुखच्छविकातराः।
नयननीरभरार्द्रकलेवरा विरहदैन्यमुपाययुरर्दिताः।।65।।
कनकपञ्जरगौ विहगौ यथा नभसि मुक्तविहारपरायणौ।
विघटितां समवाप्य सदर्गलां झटिति योजयतां स्वपलायनम्।।66।।
कुशलवावपि तद्वदलक्षितौ प्रथितकोसलराजमहालयम्।
समपहाय विमुक्ततपोवने जनकजाऽपि गता सुतरक्षिणी।।67।।
पल्यङ्गतल्पशयितो रघुवंशभानुः पूर्वप्रतीतिवशगस्तनुजौ स्वपार्श्वे।
सम्मार्गयन् निशि न तौ समवाप्य विद्धः उन्निद्र एव रजनीं क्षपयाञ्चकार।।68।।
सीतां क्वचित्प्रहितबाहुलतोऽङ्कपाशे नोऽवाप्य भग्नहृदयो हतगाढनिद्रः।
उत्थाय भूरिविरहार्दितकान्तकायो रात्रौ जजागर सहायपरोऽधिशय्यम्।।69।।
प्राणप्रियांप्रियतमां ननु जीववल्लीं सीतांविना विरहिणो निखिलास्त्रियामाः।
वत्साननेन्दुपरिवीक्षणसिन्धुकल्पश्रीराघवस्य प्रणयोर्मिहता अभूवन्।।70।।
द्वित्राण्येव दिनानि भूरितपने वीतानि सीतापतेः
वैदेहीप्रवियोगकातरतनोर्यद्यप्यदीनात्मनः।
किन्त्वेवं प्रतिभातमाशु निखिलः कल्पो यथा निर्गतः
दाम्पत्यप्रणयच्युतो नु दयितः सर्वं चिनोत्यद्भुतम्।।71।।
यत्काव्यं मधुवर्षि नव्यघटनं प्रस्थानभूतं नवं
सान्द्रानन्दमरन्दविन्दुरुचिरं सीताप्रमाणैः कृतम्।
सर्गः पूर्तिमगादयं लवकुशोत्थानाभिधस्तत्र वै
काव्ये जानकिजीवने गणनयाऽप्येकोनविंशोऽधुना।।72।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त ! निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।73।।
इति श्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गौतमगौत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये लवकुशोदयसंज्ञकः ऊनविंश सर्गः।
विंशः सर्गः
रामे प्रशासति महीं धनधान्यधर्मा आराधिता उपययुः परमां प्रतिष्ठाम्।
सौराज्यरञ्जितमनाः प्रकृतिर्नितान्तं लेभे महार्घविभवं मनसाऽप्यचिन्त्यम्।।1।।
मृत्युं सुतस्य ददृशुर्न जना न नार्यो वैधव्यमीयुरखिलाः पतिधर्मवत्यः।
नाभूत्कृशानुजलवातभयं प्रजानां नो क्षुद्भयं न च बबाध शरीररोगः।।2।।
राष्ट्रं पुरं जनपदो वसतिर्जनानां लुण्ठाकदस्युखलतस्करभीतिशून्यम्।
सर्वं बभूव धनधान्ययुतं सुवर्ष ह्यातङ्कदैन्यरहितं रघुनाथराज्ये।।3।।
दुर्भिक्षभूच्चलनवातविषूचिकाद्या भावाश्चिराय ममृजुः प्रबभूव धर्मः।
लोकः प्रहर्षमुदितो नितरां सिषेवेऽप्यामुष्मिकाभ्युदयहेतुमुदारकल्पम्।।4।।
स्वं स्वं नियोगमनुजग्मुरथाप्रमत्ताः सद्भावमङ्गलयुताश्च तुरीयवर्णाः।
सत्यैस्तपोभिरतुलैस्सुमखैश्चदानैः धर्मश्चतुष्पदयुतस्समवाप काष्ठाम्।।5।।
काले प्रयाति शनकैरिति राघवेन्द्रः सोदर्यमाह भरतं श्रृणु भो मनस्विन् !
यष्टुं सहानुजवरैर्मखमश्वमेधं सद्वंशकीर्तिनिलयं ननु कामयेऽहम्।।6।।
तन्मुञ्च लक्षणयुतं हयकृष्णसारं संरक्षणे सुपृतनाऽन्वितलक्ष्मणस्य।
शीघ्रं निमन्त्रय महर्षिवरान् विघिज्ञान्यज्ञक्रियाऽखिलरहस्यविदः समर्च्यान्।।7।
क्षिप्रं विभीषणमुपाह्वय राक्षसेन्द्रम् ऋक्षाधिपं कपिपतिं सबलं समित्रम्।
राज्ञोऽखिलान्भरतभूमिसमृद्धराज्यान्अन्यांश्च बाह्यधरणीप्रभुतोपपन्नान्।।8।।
देशान्तरे प्रवसतस्सकुलं द्विजातीन् ऋत्विग्वरानुपनिमंत्रय सिद्धमंत्रान्।
निर्मापय त्वरितमेव च नैमिषाख्येऽरण्ये विशालपरिधिं पृथुयज्ञवाटम्।।9।।
गन्धं घृतं चणकमाषकुलित्थमुद्ग ब्रीह्यन्नतण्डुलतिलादिविभोज्यजातम्।
प्राज्यं विधेहि बहुलाश्च सुवर्णकोटीः गोवस्त्रभूषणचयं विपुलप्रमाणम्।।10।।
रक्षापरान् बहुभटान् शतशो निवासान् शैलूषसूतनटगायकवादकादीन।
सर्वान् पृथग्गुणयुतान् निवहान् जनानां संस्थापयाशु भरत ! प्रविधानदक्ष !!11।।
शत्रुघ्नमानय नतं मधुरापुरीस्थम् अम्बाश्च वीर ! परिवासय नैमिषे त्वम्।
सौमित्रिणाऽप्यनुगतश्च सुमंस्रमुख्यैस्तूर्णंकुरुष्वनिखिलं प्रवरैरमात्यैः।।12।।
आज्ञामवाप्य रघुवंशकुवेलभानोः सौहार्दरञ्जितमना भरतो मनस्वी।
सर्वं चकार दिवसेष्वथ पञ्चषेषु भ्रातुर्मनोऽभिलषितं ननु कृत्यजातम्।।13।।
जाबालिकाश्यपपुलस्त्यवसिष्ठगर्गमौद्गल्यवामनमृकण्डुसुताग्निपुत्राः।
गाध्यात्मजच्यवननारदपर्वताद्यारामाध्वरे ऋषिवरा प्रवराः समीयुः।।14।।
लङ्कापतिः कपिपतिश्च युतौ सहायैर्यज्ञे समाययतुरिद्धमहोपहारौ।
सामन्तयूथनिचिता प्रकृतिप्रपूर्णाऽभून्नैमिषी वनधराऽप्यपरा न्वयोध्या।।15।।
देवान् गुरुन् ऋषिवरान् जननीः प्रवृद्धान्पौरान्प्रणम्य विनयैरथ राभभद्रः।
सौम्यो विदेहसुतया सह यज्ञवाटे जग्राह दीप्तमनसा यजमानदीक्षाम्।।16।।
दिव्येऽश्वमेधयजने प्रथितेनु तस्मिन् साज्यैस्तिलाक्षतमधूच्चयपायसाद्यैः।
पाटीरगन्धघनसारविमिश्रितैश्च हव्यै रराध विबुधान् रघुजस्ससीतः।।17।।
यज्ञार्पिताज्यनिवहैः प्रवहदिभरेवं तोयं बभौ घृतमयं ननु धेनुमत्याः।
दानार्थिनामुपरतो ग्रहणाभिलाषो भोजार्थिनाञ्चशशश्रृङ्गनिभा वुभुक्षा।।18।।
लेभे तदेव विपुलं तदसौ चकांक्ष सौवर्णरत्नरजतं वसनञ्च भोज्यम्।
ओष्ठाद्वचस्यभिहिते ननुयाचकानां वाञ्छाऽभ्यपूरिकपिभिश्च विभीषणेन।।19।।
गोवाजिसिन्धुरधराभवनान्नवस्त्रैस्तुष्टा द्विजा निगमपारमिता अवोचन्।
नो दृष्टपूर्व इह सौम्यमखः पृथिव्यां श्रीराघवेन्द्रसदृशः सततं समृद्धः।।20।।
संवत्सरं प्रववृते निमिषेऽश्वमेधो वासोधनान्नमणिकाञ्चनरत्नदानैः।
दत्तेऽपि भूसुरगणाय समृद्धहस्तैर्भूयोऽप्यवर्धत धनं तदहो विचित्रम्।।21।।
सौमित्रिमश्वचरणे भरतं ह्यरिघ्नम् आतिथ्यकर्मणि सुकण्ठविभीषणौ च।
दानार्पणे पवनजं मखविघ्ननाशे सम्यङ् नियोज्य परितोषमगान्नृपेन्द्रः।।22।।
भ्रान्त्वान्यवर्तत हयो वसुधाधिपेन्द्रैः सम्पूजितो जलधितोयलस्त्पृथिव्याम्।
दत्वा स्वदेशविभवोचितवस्तुजातं रामं नृपा जगृहिरे स्वकुलाधिराजम्।।23।।
निर्विघ्नमित्थमभिपूर्तिमितेऽश्वमेधे यज्ञावशिष्टसलिलेऽवभृथे पवित्रे।
रामो विदेहतनयासहितो नु सस्नौ वैतालिकोच्चरितशौर्यविभूतिगीतिः।।24।।
उद्गादृहोतृविधियाजिचयं यथेच्छम् अन्यांश्चयज्ञविधिपूर्तितरतान् द्विजाग्रान्।
इच्छाधिकैस्सुविभवैः परितोष्य रामः सर्वाश्च तान्प्रवयसोऽभ्यनमत् सभार्यः।।25।।
रम्यैर्महर्षिनिलयैश्श्रितपर्णशालैः सामन्तयूथनिलयैश्च दधत्पताकैः।
श्रृङ्गाटकापणचतुष्पथवीथिकाभी रम्य वनं पुरमभूत्किल नैमिषाख्यम्।।26।।
वर्षाजलाऽश्रुविकला घनमुक्तकेशा वात्योत्थधूलिमलिना सरयूतटस्था।
आवर्षमिद्धविरहा व्रतमङ्गनानां नीराघवा निरवहद् विरहिण्ययोध्या।।27।।
यज्ञक्रियाभिरखिले दिवसे निशायां नानाविधैरभिनयैर्नटनृत्यनृत्तैः।
पौराणिकाऽमृतकथाभिरथोपदेशैः प्राज्ञर्षिणां न गणितो द्युनिशोः प्रभेदः।।28।।
लास्यं क्वचिन्नु सुदृशां करणाङ्गहारमुद्रान्वितं क्वचिदभून्नरताण्डवीयम्।
नृत्तं क्वचिच्च जनलोकपरम्पराणामाकाशदर्शितमथ क्वचिदिन्द्रजालम्।।29।।
इक्ष्वाकुदण्डसगरांशुमतानरण्यशर्यातिमित्रसहचन्द्रभगीरथानाम्।
मान्धातृसंवरणहस्तिमरुत्सुहोत्रवैन्याजनैषधदिलीपरघुध्रुवाणाम्।।30।।
आश्चर्यविस्मयमयं सरसं सुवृत्तं सूताः क्वचिच्च जगदुर्धरणीपतीनाम्।
जाता क्वचिन्निगमजा च महर्षिवाटे चर्चा विभिन्नरुचिकाश्रितनव्यबोधा।।31।।
यज्ञार्थिनो द्विजवरा गृहिणः प्लवङ्गा भूपाः स्त्रियश्च पुरुषा बहुकोटिसंख्याः।
वर्षावधिन्नु विगतं न मनागबोधान् यज्ञक्रियाहृतहृदो ननु यज्ञवाटे।।32।।
पूर्णेऽध्वरे कुलगुरुर्मतिमान् वसिष्ठ उत्थाय राघवमवोचदशेषमंत्रम्।
भो रामभद्र ! भुवनाधिपते ! नृपेन्द्र ! वाचं श्रृणुष्व मम तावदिमामुदाराम्।।33।।
सोऽहं समागतमहर्षिजनानुरोधात् आशीर्वचांसि वितरामि च ते समेषाम्।
पूर्णोऽश्वमेधसुमखो निरुपद्रवस्ते भूतो न पूर्वमिह नो भविताऽपिनूनम्।।34।।
नेन्द्रेण नैव वरुणेन न वा यमेन सम्पादितो रघुपते ! समरूपयज्ञः।
का वा कथा प्रथितभूमिसदां नृपाणां प्राग्वर्तिनां तनुकवैभवशक्तिभाजाम्।।35।।
संस्थापितं नु भवता भुवि रामराज्यं लोकानुरञ्जनकरं खलु लोकतन्त्रम्।
भूपोऽप्यनेहसि भवादृशपूतचर्यो जातो न राघव ! वयं प्रचुरं स्मरामः।।36।।
यावद्धरां दधति सप्तकुलाचलेन्द्राः पाथोधयश्च रघुनाथ ! भुवि प्रथन्ते।
तावच्च ते धवलकीर्तिरिहास्ति लोके शोकापहा मनुजसत्पथभावयित्रि।।37।।
वाल्मीकिरत्र सदसि प्रथमः कवीनां सम्प्राप्तधातृवरवन्दितकाव्यशक्तिः।
सोऽयं रघूत्तम ! तवात्मजसूत्रधारो जानाति ते सुचरितं न परेऽनभिज्ञाः।।38।।
क्रौञ्चं पुरा द्युतटिनीतमसान्तराले व्याधप्रविद्धहृदयं दयितारिरंसुम्।
क्रौञ्चीममेयकरुणाञ्चितमर्मरावां दृष्ट्वैव शोकनिहतोऽयमभून्नितान्तम्।।39।।
प्राग्जन्मकर्मनियतः स्थिरभावमेतः श्लोकत्वमस्य रघुनाथ ! जगाम शोकः।
सोऽयं शशाप रभसं खलु तं नृशंसं रुक्षं ह्यभीकवधिकं गलदश्रुनेत्रः।।40।।
यत्क्रौञ्चमुग्धमिथुनादवधीस्त्वमेकं सम्मोहितं मनसिजेन शरैर्निषाद्।
तच्छाश्वतीः किल समा अगमः प्रतिष्ठां सा मैव वागुरिक!पाप ! नृशंसकर्मन्।।41।।
श्लोकं समाक्षरमधीत्य चतुष्पदं तं वाल्मीकिराश्रमगतोऽपि भृशं तताम।
शोकप्रवृद्धहृदयेन मया किमुक्तं तन्त्रीलयाद्यनुगुणं मुनिरित्यशंसीत्।।42।।
आलोक्य शोकविधुरं मुनिवर्यमेनं ब्रह्मा स्वयं प्रभुरुपेत्य चतुर्मुखोऽसौ।
सस्मेरमञ्जुवदनो निजगाद मुग्धो मा गाः शुचं कविवरेण्य ! भयं न कार्षीः।।43।।
श्लोकस्त्वया समुदितो न परं हि किञ्चिद्वाणी ममैवकृपया ननु ते प्रवृता।
स त्वं कवे ! समुपवर्णय रामगाथां कृत्स्नामुदारचरिताश्रयिणीं प्रपूताम्।।44।।
सर्वं प्रवक्ष्यति मुने ! तव मन्निदेशात् श्वो नारदो रघुपतेश्चरितं पवित्रम्।
यत्स्यात्तथाऽप्यविदितं विदितंभवेत्ते काव्येभविष्यति न वागनृताऽत्र काचित्।।45।।
तत् त्वं विधेहि रघुनाथकथामुदारां श्लोकान्वितां हृदयमोदकरीं मनोज्ञाम्।
स्थास्यन्ति शैलसरितो भुवि यावदूर्ध्वं तावत्कथाऽपिरुचिरा प्रचरिष्यतीयम्।।46।।
अन्तर्दधे विधिरिति प्रसभं प्रबोध्य प्रातस्ततो विधिसुतो द्रुतमाजगाम।
सत्कृत्य तं मुनिरयं रघुनाथ ! भक्त्या त्वत्साधुसद्गुणचयं चरितं न्वपृच्छत्।।47।।
आख्याहि मे त्रिभुवनार्चितपादपद्म ! लोके नु साम्प्रतमिह प्रियदर्शनः कः ?
विद्वान् कृतज्ञ इह चारुचरित्रयुक्तः को वाऽत्मवान्निखिलभूतहिते रतोऽस्ति !!48।।
सामर्थ्यवीर्यदृढताद्युतियुद्धशौर्यधर्मान्वितश्च विनयी ननु सत्यवाक्यः।
कस्यामरा अपि च बिम्यति युद्धरोषात्सुश्रूषुरस्मि भवतो ननु नेतृधुर्यम्।।49।।
पृष्टः कवीन्द्रवचनैः रघुनाथ ! सर्वान् श्रीनारदस्तव गुणान् स्फुटमाचचक्षे।
पश्चात्स्वयं त्वमभवः पथि चैत्रकूटे वाल्मीकिवन्द्यचरणार्पितभक्तिभावः।।50।।
एवं विबोध्य चरितं तव देवसिद्धात् पश्चात्स्वयं समनुभूय विलोक्य छन्दात्।
ज्ञात्वा परोक्षचरितान्यपि धातृतोषाद्वाल्मीकिरेषु कृतवान्स्फुटमादिकाव्यम्।।51।।
त्वच्चेष्टितानि हसितानि सुचिन्तितानि गूढान्यपि प्रतिभया भवने वने वा।
प्रत्यक्षमेक्ष्य किल मानसचक्षुषैव सोयं लिलेख सुकविः परिभूः स्वयम्भूः।।52।।
काण्डैश्च षड्भिरथ पञ्चशतैश्च सर्गैः श्लोकैश्चतुर्भिरपि विंशतिभिस्सहस्रैः।
कृत्वा रघूत्तम ! पुरा त्वदमोघगाथां तद्गायने कुशलवौ प्रयुयोज पश्चात्।।53।।
यज्ञान्ते ननु साम्प्रतं कुशलवौ रामायणीं तां कथां
गन्धर्वाविव रूपिणौ स्वरलयस्थानप्रमापारगौ।
तंत्रीवाद्यसमन्वितौ नवरसोद्गाराभिनेये पटू
कूजत्कण्ठमधुस्वरौ तव सुतौ मध्येसभं गास्यतः।।54।।
पाठ्ये गेयविधौ च भूरि मधुरं सिद्धं प्रमाणैस्त्रिभिः
मूलं त्रय्युपबृंहणस्य लसितं तंत्रीलयैर्मञ्जुलैः।
श्रृङ्गारादिरसैर्युतं जनमनोबन्धक्षमं सप्तभि-
र्युक्तंजातिभिरूर्जितं रघुपते ! स्वीयं चरित्रं श्रृणु !!55।।
यत्काव्यं मधुवर्षिं नव्यघटनं प्रस्थानभूतं नवं
सान्द्रानन्दमरन्दविन्दुरुचिरं सीताप्रमाणैः कृतम्।
सर्गः पूर्तिमितो नु तत्र विमलो विंशोऽश्वमेधाभिधः
काव्ये जानकिजीवने विशदयन् सीतां प्रियार्धाङ्गिनीम्।।56।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलम्
जीव्याद्धन्त ! निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।57।।
इति श्रीमद्दुर्गाप्रसादाभिराजीसूनोगौतमगौत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्येऽश्वमेधयज्ञसंज्ञको विंशः सर्गः।
एकविंशः सर्गः
ततः प्रभाते यमजौ कुशीलवौ महर्षिवाल्मीकिपदाम्बुजान्वितौ।
गुरोर्निदेशाद्रघुनाथगौरवं महासभायां जगतुः सुविश्रुतम्।।1।।
रघूत्तमाकारधरौ सुरुपिणौ महार्घबिम्बप्रतिबिम्वसन्निभौ।
कुवेलनैत्रौ च दधच्छिखण्डकौ विदेहजापुण्यपवित्रसत्फलौ।।2।।
विपञ्चिकादण्डधरौ सुवर्णिनावशेषगान्धर्वरहस्यवेदिनौ।
लयस्वरस्थानविमूर्च्छनाविदौ मयूरकेकाकलकण्ठनिःस्वनौ।।3।।
यशस्विनौ वेदपुराणनिष्ठितौ महर्षिवाल्मीकिकवित्वविग्रहौ।
विलोक्य तौ चन्द्रमुखौ कुमारकौ स यज्ञवाटो लुलुभेऽतिवत्सलः।।4।।
प्रणम्य वाल्मीकिमथ स्वगौरवं विदेहजां राघवमात्मसर्जकौ।
ततो गुरुन् पारिषदांश्च तल्लजान् कुमारकौ तौ जगतुः कथामृतम्।।5।।
रामो रामकथाऽमृतमूलम् !
सगरेक्ष्वाकुसुदासभगीरथघुचरिताम्बुधिकूलम् !!
स्फीतमुदितकोसलजनपदगतनगरी मनोरयोध्या।
बहुधनधान्यवती सुविशाला नृपदशरथभुजभोग्या।।6।।
द्वादशभिर्योजनैरायता त्रियोजनैर्विस्तीर्णा।
या सुविभक्तमहापथतोरणवलभीगोपुरकीर्णा।।7।।
अतुलप्रभाऽन्तरापणमहिता वरनारीगणरम्या।
मागधचारणसूतवन्दिता नो कथमपि रिपुगम्या।।8।।
वीणापणवमृदङ्गनादिता श्रितविमानगृहशोभा।
तण्डुलशालिफलेक्षुरसोदकविहितविबुधनलोभा।।9।।
परिखावप्रदुर्गपर्वतगृहकूटागारसुगूढा।
वारणवाजिवृषभखरकरभकसम्पूर्णाऽतिविरूढा।।10।।
मित्रबलार्जवशौर्यविभवधनधान्ययुतोऽवनिपालः।
तामतिरथो ररक्ष दशरथो जितेन्द्रियो रिपुकालः।।11।।
नो नास्तिको नानृती कामी नाविद्वान्न कदर्यः।
नाषडङ्गविन्नैव नृशंसो न व्यथितोऽत्र विगर्ह्यः।।12।।
कुण्डलमुकुटसुगन्धमाल्यचयहस्ताभरणविहीनः।
नायज्वा तस्करो न कृपणो नासंयतो न दीनः।।13।।
वर्णाश्रमपालिता पुरी सा विविधाध्वरपरिपूता।
अमरावतीव वैभवमहिता ऋषिमुनितीर्थपरीता।।14।।
धृष्टिसुराष्ट्रराष्ट्रवर्धनका विजयजयन्तसुमन्त्राः।
अष्टौ धर्मपालकाकोपौ सदमात्या धृतमन्त्राः।।15।।
वामदेवकात्यायनकाश्यपगौतममार्कण्डेयाः।
तस्य वसिष्ठजबालिसुयज्ञा ननु ऋत्विजो वरेण्याः।।16।।
शौर्यपराक्रमजितजगतः खलु तिस्रस्तस्य महिष्यः।
कौसल्याकैकयीसुमित्रा रूपशीलगुणवत्यः।।17।।
सन्ततिविधुशीतातपविरहितगगनजीवितो दीनः।
प्राप्ततुरीयवया अवनीशो गुरुपदपङ्कजलीनः।।18।।
जातदयोऽभ्युदयाय दयालुस्तस्याऽयतत वसिष्ठः।
ऋष्यश्रृङ्गमामन्त्र्य पुत्रमखमयीयजन्नृपनिष्ठः।।19।।
उद्दालकगङ्गातटविरचितसुतमखकुण्डसमुत्थः।
चारुचरुं व्यतरन्महिषीभ्यः स्वयमग्निः परितुष्टः।।20।।
मध्याह्ने सुतिथौ च नवम्यां चैत्रमाससितपक्षे।
चत्वारस्तनयास्सञ्जाताः कोसलभूपतिकक्षे।।21।।
भरतमसूत कैकयी पश्चात् कौसल्याऽदौ रामम्।
लक्ष्मणशत्रुघ्नौ च सुमित्रा यमजद्वयमभिरामम्।।22।।
तनयजननपुलकिततनुरधिपो हृतसमग्रसन्तापः।
ननु बभूव शरदम्बरशुभ्रोऽञ्चिततारकोऽवदातः।।23।।
सखि ! भालय कोसलभूपगृहम् !
नृपसूनुचतुष्टयमोदमयं सततामृतनिर्झरशैत्यवहम् !!
पुरुषार्थचतुष्टयरूपधराः सदुपायचतुष्टयरूपधराः।
बध्नन्ति दृशं हृदयेन शपे ननु भूपसुता नवकेलिपराः।।24।।
नटितं वलितं लपितं स्खलितं हसितं क्वचिदालयगोपितकम्।
शशिबिम्बकरग्रहणाऽयतितं ह्यपराधभयेन निगूहितकम्।।25।।
क्वचिदात्मरुचिध्वनितं निभृतंक्वचिदात्मविनोदसमुच्छलितम्।
किमहो न मनोहरणं रुचिरं नृपगेहभुवामिदमाचरितम्।।26।।
नवनीरबलाहकनीलतनुः सखि ! कोऽपि च शारदचन्द्रविभः।
परिधावति वेश्मनि वातरयो ननु कोऽपि विपश्यति हंसनिभः।।27।।
अतियाति नवो विगताऽनुभवं शिशुवृद्धिविलोकनसाक्ष्यमयम्।
क्षमते सखि ! कोऽतिजवं जगति प्रवरोऽप्यवरोद्धुमिमं समयम्।।28।।
विविधबालकौतुक परिवर्धितमुदितहृदयपरिवाराः।
समये याति विकासमुपययुः कोसलभूपकुमाराः।।29।।
राक्षसविघ्नविपन्नमखाध्वरखिन्नमना निरुपायः।
रामपराक्रमकीर्तिकथाश्रुतिसम्भावितसदुपायः।।30।।
दशरथमेत्य सुतौ प्रययाचे लक्ष्मणसङ्गतरामम्।
कुशिकनन्दनो विश्वामित्रो रघुनन्दनमभिरामम्।।31।।
मोहपरीतमना नरनाथो विगलदश्रुसम्भिन्नः।
प्रददे सुतौ तौ नुतौ सुमतौ हृदयाभिमतौ खिन्नः।।32।।
पथि गौतमगृहिणीश्रितचरणः शमितकुशिकसुतशल्यः।
निहतसुबाहुताटको रामश्शुशुभेऽसौ सुततुल्यः।।33।।
तदनु विरञ्चिकृशाश्वकुशिकसुतदिव्यायुधविज्ञानम्।
गुरुकृपयाऽशिक्षतां राघवौ बलाऽबलेत्यभिधानम्।।34।।
शाम्भवचापविभञ्जनसङ्गतजनकसुतोऽञ्चितकायः।
अधिमिथिलं रञ्जितपुरजनपदनरनारीसमवायः।।35।।
जनकनिमंत्रितभूपतिदशरथ आगतवान् सकुटुम्बम्।
परिणिनाय मिथिलेशसुताभिस्सपदि तनयनिकुरम्बम्।।36।।
श्रुतकीर्ति माण्डवीमूर्मिलां व्यूहुस्ततः क्रमेण।
शत्रुघ्नः कैकयीनन्दनः सौमित्रिश्च करेण।।37।।
रूपशीलगुणविनयविभूतिं स्वयंवृतां कनकाङ्गीम्।
सीतां तामुदुवाह रघुपतिः श्रीरामोऽपि नताङ्गीम्।।38।।
विविधभोज्यफलरसभूषणकृतसततनवनवातिथ्यः।
अधिमिथिलं मासान्तमनैषीन्नृपदशरथोऽथ विज्ञः।।39।।
तनयैस्तनयवधूभिस्सार्घं ततः पुरीमुपयातः।
जनकार्पितसथवाजिसमदगजमणिसुवर्णसंघातः।।40।।
कौतुकमङ्गलमोदमहोत्सवसिन्धुसन्तरणसौख्या।
अलभत चिरकांक्षितसौभाग्यं रघुभूभुजामयोध्या।।41।
द्वादशसमा व्यतीयुश्शनकैः सुखसमृद्धिरसतृप्तः।
कोसलपतिरियेष रघुवीरं ह्यभिषेक्तुं यतचित्तः।।42।।
मन्थरया श्रन्थितसुविवेका किन्तु भरतजनयित्री।
प्रत्यवायभूता ननु भूता दुर्भाग्यप्रसवित्री।।43।।
राज्यं सा भरताय ययाचे कोसलराज्यनिवासम्।
रघुपतये द्वादशवर्षाणां दूरविजनवनवासम्।।44।।
अंगीकृतपितृवचनरघुपतिः सोदरप्रियासमेतः।
मुदितमनाः काननं प्रतस्थे सोऽवाच्यामनिकेतः।।45।।
नय मामपि राम ! सहैव वनम् !
वरमद्य निकृन्त करेण गलं त्यज किन्तु न हीनबलं स्वजनम् !!
इति भूरिवचोऽन्वितनेत्रयुगप्रसरज्जलसन्ततिसिक्ततनुः।
करुणं विलपन् रघुनाथकृते निपपात पथि प्रविभक्तहनुः।।46।।
जगृहे रथदण्डममेयबलो भुवि कोऽपि च पौरजनश्शयितः।
न मुमोच रथाश्वखलीनचयं करबद्धनिवेदनमन्य इतः।।47।।
नगरी च निरात्मशरीरनिभा सरयू च वहद्रुधिरा सततम्।
रघुनाथ ! विना भवता भवताद् भवतापविमोचनमद्य कथम् !!48!!
फलमूललताद्रुनिपाननदीनदभूधरसिंहमृगाक्तवनम्।
अभिराम ! निवत्स्यति यत्र भवान् भविता नु तदेव सुरायतनम्।।49।।
इति कातरपौरजनाः करुणं विलपन्त उपेत्य सृतिं निहताः।
रघुनन्दनमन्वयुरार्तिभरप्रविलीनधियोऽर्दितगात्रयुताः।।50।।
उपतमसं व्यपहाय सनिद्रं व्यथितपौरजनवृन्दम्।
निभृतं ययौ रथस्थो रामो निरुपायोऽमतनिन्दम्।।51।।
श्रृङ्गवेरपुरमेत्य सुरनदीं गुहकृपया स ततार।
यामुनगाङ्गसमन्वयतीर्थं तीर्थपतिं प्रससार।।52।।
कृतजाह्नव्यभिषेकराघवो भरद्वाजपदलीनः।
कालिन्दीमवतीर्यं सङ्गतश्चित्रकूटमविलीनः।।53।।
कृतवाल्मीकिचरणपरिचर्यः श्रितकामदगिरिवासः।
कोलकिरातपुलिन्दशबरजनमधुरीकृतप्रवासः।।54।।
परिसान्त्वितनिर्यातनकातरसोदरभरतसमाजः।
जनकनिधनहतहृदयराघवः प्रशमितदैन्यविषादः।।55।।
अत्र्याश्रममुपगम्य सभार्यः ससहोदरः प्रवासी।
दनुजविदलनार्थ प्रतिजज्ञे मुनिजनजरणनिवासी।।56।।
आरराध च निहत्य विराधं यतिगणहृदयमुदारः।
सुखमुवास चर्चितनिगमागमशास्त्रधर्मचयसारः।।57।।
अतिपरिचयसञ्जातगृहजनोचितसम्मोहनबन्धः।
दण्डकवने विवेश मनस्वी सहकृततापससंघः।।58।।
दिवसं क्वचित्क्वचित्सप्ताहं पक्षं क्वचिदधिमासम्।
विविधाश्रमे ऋषीणां विदधे रघुपतिरत्र निवासम्।।59।।
रुचिरपुराणकथाऽमृतवर्धितकौतुकमनोऽनुरागः।
अवधौ दशवर्षाणां विगते नान्वभवद् रघुनाथः।।60।।
ततस्सुतीक्ष्णाश्रममुपयातः कृतमुनिचरणसपर्यः।
तन्निर्दिष्टपथेन राघवो द्रुतमुपययौ सुचर्यः।।61।।
गोदावर्यनुतटघटजाश्रममेत्य विभूतिसमृद्धम्।
पर्यपूपुजदगस्त्यपदाम्बुजमात्महिताय समृद्धम्।।62।।
प्राप्य ततः पैतामहास्त्रमपि संकल्पितदनुजान्तः।
पञ्चवटीमासाद्य मनोज्ञामवसत्तत्र च शान्तः।।63।।
बकुलनीपकदलीपरिवेष्टितपर्णकुटीरनिवासी।
कन्दमूलफलगिरिनिर्झरजलवनतृणधान्यचयाशी।।64।।
विनतसहोदरसंवाहितपदपङ्कजयुगलकिशोरः।
वैदेहीशरदिन्दुकान्तमुखदर्शनचटुलचकोरः।।65।।
ससुखमुवास जनस्थाने खलु रघुनाथोऽक्षतकायः।
गोदावारिशिशिरमधुमारुतहृतपरितापनिकायः।।66।।
शिरसि निधाय दशास्यनिदेशं दण्डकवनाधिराज्यम्।
तत्प्रशशास खरोऽतिनृशंसो मत्वा निजसौभाग्यम्।।67।।
तत्र कदाचिद् दशमुखभगिनी शूर्पणखा स्मरकामा।
दिव्यतनुं रघुपतिमुपताया रमणीवेषललामा।।68।।
भुवनविमोहन ! मनसिजसुन्दर ! कमलनयन ! छविसिन्धो !
कोऽसि कुतोऽसि वने कुरूषे किं स्त्रीकुरु मां रतिबन्धो !!69!!
लङ्कापतिदशवदनसोदरी शूर्पणखाऽहमुदारा।
त्वां दृष्ट्वैव विद्धहृदयाऽहं त्यक्तनिखिलपरिवारा।।70।।
मायाशक्तिबहलनिपुणाऽहं तव पदपङ्कजदासी।
त्वां सुखयामि नरोत्तम ! विभवैर्भव यौवनसुविलासी।।71।।
इत्यनियंत्रितवाचमवोचच्छूर्पणखां रघुनाथः।
रामोऽहं कोसलनृपतनयः पितृवचनादिह यातः।।72।।
कामिनि ! कृतदारोऽहमयोग्यस्तव निजदयिताऽसक्तः।
गच्छ सहोदरमम्बुजनयनं स भवेन्ननु तव भक्तः।।73।।
तां राक्षसीमवेत्य लक्ष्मणो लज्जाशीलविहीनाम्।
प्रख्याप्यात्मदास्यमशरण्यः स्वीचक्रे न विलीनाम्।।74।।
पदकन्दुकसन्निभा निशिचरी मध्येद्वयमुपरुद्धा।
दुस्सहमनसिजशरहतहृदया विमताऽभूत्संक्रुद्धा।।75।।
जनकसुतां स्वमनोरथपूरणविघ्नमयीं तत्कालम्।
भक्षयितुं धृतवती स्वरूपं प्रकृतं सा विकरालम्।।76।।
दुश्चेष्टितमवलोक्य तदीयं सौमित्रिहर्बहुरुपाम्।
नासाकर्णविरहितां चक्रे समधिकतरं कुरुपाम्।।77।।
दनुजभक्ष्यतापसाऽमता सा विकृता कुलं शपन्ती।
खरं प्रेरयामास भर्त्सनैगाढतरं विलपन्ती।।78।।
कृमिसन्निभतापसदुर्विनयं प्रेक्ष्य खरो ह्यभिमानी।
आत्मनिकृतिमनुभूय निर्ययौ दण्डयितुं भटमानी।।79।।
खरदूषणशीर्षत्रयपृतनामेक एव रघुवीरः।
किन्तु जघान कृशानुसन्निभस्तुमुलसंगरे धीरः।।80।।
वीक्ष्य विलक्षणशौर्यविक्रमं रघुनाथं विदहन्ती।
व्योमचारिणी साऽससाद लंकाधिपतिं विलपन्ती।।81।।
तामवलोक्य विरूपितदेहां दशवदनो लङ्केशः।
वैरिपराक्रमकथाऽसहिष्णुर्निर्मितयतिवरवेषः।।82।।
मारीचं धृतकनकमृगतनुं कृत्वा दुरितसहायम्।
द्रुतमाययौ जनस्थानं तच्छ्रुत्वा बलमुरुगायम्।।83।।
पर्णगृहादुत्सार्य राघवौ कूटोपायविधानैः।
क्रोशन्तीं स जहार जानकीं मायाव्योमविमानैः।।84।।
प्रहृतखड्गविनिपातितपक्षं जटायुषञ्च युयुत्सुम्।
वायुजवोऽतिजगाम रावणस्तं प्रविहाय मुमूर्षुम्।।85।।
कृतयतिवेषकदर्थिपौरुषखलदशवदनगृहीता।
स्थलशफरी कुररीव विहायसि ताम्यति विलपति सीता।।86।।
क्वासि राम ! रघुनाथ ! दयित हे ! क्वासि दीनजनबन्धो !
क्वासि जनकजाहृदयातपघनचन्दन ! हे छविसिन्धो ।।87।।
नयबलविक्रमशौर्यपराक्रमभूरिनिहतरिपुलोकः।
क्वासि ससायक ! भो रघुनायक ! दनुजकदम्बकशोकः।।88।।
स्पृशति देव ! पञ्चाननदयितां सति केसरिणि श्रृगालः।
वरटां तुदति वायसो मलिनो दूरे वसति मरालः।।89।।
क्वासि सुलक्षण लक्ष्मण ! देवर ! पश्यसि किन्न विपन्नाम्।
त्वामपमन्य विमानमाश्रितां वारय मामवसन्नाम्।।90।।
विलपन्तीति भृशं गिरिशिखरे शाखामृगसमुदायम्।
प्रेक्ष्य ववर्ष विदेहनन्दिनी भूषणवसननिकायम्।।91।।
परिवर्तितमृगदेहमाहतं मारीचं समवेक्ष्य।
रघुनाथो विव्यथे सोदरं मध्येमार्गमुपेत्य।।92।।
पर्णकुटीरमवाप्य राघवः प्रियारहितमतिदीनः।
उन्मद इव विललाप स करुणं सलिलविरहितो मीनः।।93।।
क्वास्ति देवि गोदावरि ! सीता ?
अपि दृष्टा मम हृदयवल्लभा केन कथं क्व च नीता !
हे खग-मृग ! हे पुलिनवरटगण ! रुचिरपञ्चवटि धन्ये !
हे दण्डकवनमहितदेवते ! शिशिरजले गिरिकन्ये !!94!!
मदिरमृगवधूसविनयनयना स्मितवचनाऽप्यभिरामा।
श्रावणसजलजलदशितिकेशाऽवामा क्व नु मम वामा !!95!!
ख्यातम्मुदा जनस्थानं त्वं प्रभवसि विजनस्थानम्।
सन्तापयसि सुलभविपदं किं मां शरणागतरामम् !!96!!
वैदेहीं वैदेहि पञ्चवटि ! नो चेद्धन्मि शरीरम्।
मम दयितां प्रजघास घस्मरं मन्ये हतककुटीरम्।।97।।
कृतसोदरपरितोषराघवः पथि जटायुषं दीनम्।
वीक्ष्य निशम्य ततोऽखिलवृत्तं तं प्रददाह विलीनम्।।98।।
निहतकबन्धनिदेशधारिणौ पम्पाभिमुखौ धीरौ।
शरभङ्गं शबरीञ्च ददृशतुः स्नेहमयीं रघुवीरौ।।99।।
ऋष्यमूकशिखरे पवनात्मजयोजितकपिपतिसख्यः।
वालिवधाय ततः प्रतिजज्ञे रामः शक्तिपरीक्ष्यः।।100।।
ददौ शरैकनिकृत्ततालतरुनिवहो भुजबलमानम्।
द्वन्द्वरतं निजघान वालिनं दुरितचयप्रतिमानम्।।101।।
हृतवनितासाम्राज्यसङ्गतः कपिपतिरतनुकृतज्ञः।
आजुहाव राघवसमुद्धृतः प्लवगबलं नयविज्ञः।।102।।
लक्षकोटिमितऋक्षविटपिमृगमर्कटगोलाङ्गूलाः।
दिशि-दिशि ययुर्निदेशनिबद्धा भयरहिता गतशूलाः।।103।।
सिन्धुसलिलमुल्लङ्ध्य सलीलं पवननन्दनो धीरः।
अधिसन्ध्यं प्रविवेश दशानननगरेऽलक्ष्यशरीरः।।104।।
गृहवलभीतोरणपथवाटीरावणयुवतिनिवेशान्।
निपुणनिपुणमवलोक्य विव्यथे देशान् महितविशेषान्।।105।।
दिष्ट्या सोऽनुजगाम निशीथेऽशोकवनं रमणीयम्।
तत्र ददर्श जानकीं दधतीं क्षामवपुर्दयनीयम्।।106।।
आश्रितसघनशिंशपादलचयनिलयो ज्वलनसमानम्।
साश्रु ददर्श विदेहसुताया रावणकृताऽवमानम्।।107।।
दशवदने विगते विदेहजां कांक्षितमरणोपायाम्।
निभृतमुपेत्य निवेद्य मुद्रिकामतूतुषत्प्रभुजायाम्।।108।।
याहि मा शुचमम्ब ! सीते !
विरहरजनीयं व्यतीता भाग्यरविरधुनाऽभ्युदीते !!
त्वद्विरहसन्तापघस्मरवेदनाऽहतकान्तकायः।
नो दिवारजनीप्रभेदमवैति ते दयितोऽसहायः।।109।।
सजलजलधरवर्षणं न भयं तथाऽस्माकं ससर्ज।
किन्तु राघवलोचनाश्रुजलेऽखिला पृतना ममज्ज।।110।।
निमिषकं प्रहरायते प्रहरञ्च देवि ! दिनायतेऽलम्।
दिवसमपि सत्रायते सत्रञ्च तस्य युगायतेऽलम्।।111।।
मुञ्च मा धैर्यं जननि ! राघवमवेहि समागतं त्वम्।
विश्वसिहि पतिदेवते ! सकुलं दशाननमाहतं तम्।।112।।
देहि मेऽभिज्ञानमम्ब ! तवाङिघ्रदर्शनसम्बलम्।
आशिषा भावय सुतम्मां सेवकं रघुपतिबलम्।।113।।
सीताऽर्पितचूडामणिमोदितपवनसुतो रिपुनाशी।
वनमवगाह्य फलानि जघास बभञ्ज तरुन् प्रविलासी।।114।।
कन्दाङ्कुरं चखान निपानं सुखं ततार विशालम्।
वनपालान् प्रजहार बबन्ध शशाद निनाय च कालम्।।115।।
सचिवसुतांश्चतुरोऽथ दशाननतनयं ह्यक्षकुमारम्।
प्राभञ्जनिर्जघान मुष्टिकाघातैः कल्मषभारम्।।116।।
दशमुखबलाभिमाननिनंक्षुर्घननादेन निबद्धः।
प्रज्जवालितलाङ्गूलशिखाभिर्महाकालसंक्रुद्धः।।117।।
लङ्कापुरीं ददाह दारुणं स्वर्णमयीमतिकामम्।
सिन्धुसलिलशिशिरीकृतकायः पुनरागतश्च रामम्।।118।।
आद्यन्तं विनिवेद्य च वृत्तं जनकसुतापरितापम्।
चूडामणिं ददौ रघुपतये पवनसुतोऽवनिजाऽप्तम्।।119।।
चूडामणिमवाप्य रघुनाथो विगलदश्रुसुस्नातः।
वैदेहीविपदं निशम्य जज्वाल महारोषार्तः।।120।।
अथ दाशरथिसङ्केतमाप्य चचाल वानरवाहिनी।
जयजयतिवाचमुदीर्य मध्यन्दिन अनन्तपताकिनी।।121।।
गजगवयधूम्रगवाक्षजम्भसुषेणकुमुददरीमुखाः।
नलनीलमैन्दबृहद्बलार्कप्रजंघरुमणोल्कामुखाः।।122।।
द्विविददुर्मुखशरभकेसरिपनसवृषगन्धोत्कटाः।
गन्धमादनवह्निसौरभतारकाङ्गदरणभटाः।।123।।
प्लवगपतिऋक्षेशमारुतिरामलक्ष्मणमण्डिता।
वाहिनी प्रससार वात्यारयमयी रणपण्डिता।।124।।
विकटपर्वतकूटकठिनकठोरकाननभेदिनी।
नदनदीगिरिसेतुकूपतडागजनपदलंघिनी।।125।।
जलधिपुलिनमवाप्य विश्रममाप वानरवाहिनी।
कन्दमूलफलार्द्धमेरुमहेन्द्रशिखरविलासिनी।126।।
शरणमत्र विभीषणो दशकन्धरानुज आगतः।
अभिषिच्य सिन्धुजलेन सः रघुनायकैस्सचिवीकृतः।।127।।
नलनीलनिर्मितसेतुपथपारंगता ननु वानराः।
लंकामुपेत्य सुवेलशिखरमुपाश्रिता अतिदुर्धराः।।128।।
अथ तुमुलसङ्गरभुवि कपिध्वजिनीनिपातितनिशिचराः।
क्षतविक्षता निहता निकृत्ताः प्लाविताश्छलनापराः।।129।।
इन्द्रजितमहनत्सुमित्रानन्दनो मायामयम्।
रावणञ्च जघान रामः सानुजं जगतीभयम्।।130।।
लोकरावणरावणे निहते लसितनीलाम्बराः।
सिद्धसुरगन्धर्वकिन्नरयक्षपितृविद्याधराः।।131।।
कुसुमलाजाक्षतसुरभिनिचयं ववृषुरानन्दिताः।
जय राम ! राघव ! रघुपते ! जय लक्ष्मणेति वचोऽन्विताः।।132।।
कुन्दतुहिनहिमहासहारघनसारशुभ्रशुभचरिताम्।
जानन्नपि मनसा रघुतनयो नाऽभिननन्द स दयिताम्।।133।।
लोकभयात्स उवाच जानकीं कृतम्मया कर्तव्यम्।
त्वमसि मोचिता रिपुहस्तादिह याहि निजं गन्तव्यम्।।134।।
मध्येसभमनुभूय वल्लभाद् दुस्सहमिदमपमानम्।
हतहृदया मैथिली लक्ष्मणं सदयमुवाच विधानम्।।135।।
आनय काष्ठयचं प्रिय लक्ष्मण ! रचय चितां सुस्फीताम्।
दयितकदर्थितकलुषशरीरामिह धक्ष्याम्यथ सीताम् !!
रामो यदि न स्नेही !
श्वसिति मुधा वैदेही !!136।।
दशमुखदुरितसहस्रगुणाधिकशूलदचरितकलङ्कः।
हतभाग्यां मां व्यथयति वल्लभपरिकल्पितमलपङ्कः।।
देहे ताम्यति देही !
श्वसिति मुधा वैदेही !!137।।
अतसीसूनसमप्रभवल्लभपुनरीक्षणसुखलुब्धा।
यन्न मया प्राणाः सन्त्यक्तास्तत्फलितैरिह विद्धा।।
गृहमनुसरति न गेहो !
श्वसिति मुधा वैदेही !!138।।
यद्यपि परिमेयो न चतुर्दशभुवनबहलविस्तारः।
तदपि दयितहृदयानुरागसीमितदयितासंसारः।।
लोको मय्यस्नेही !
श्वसिति मुधा वैदेही !!139।।
रोषकृशानुपरीतलोचनो रघुपतिचरणविनीतः।
सोदरदृढनिश्चयातङ्कितः सौमित्रिः प्रविभीतः।।140।।
मलयजदारुचितां संविदधे कृतशपथा तां सीता।
सत्वरमधिरुरोह शोकार्जवशीलचरित्रपरीता।।141।।
प्लवगदनुजरोदनपरिदेवनचीत्कृतहाहाकारैः।
व्योम बभूव निचितममरोरगकिन्नरपितृपरिवारैः।।142।।
स्वयमुदियाय ततो हुताशनः सीतामक्षतदेहाम्।
शीलचरित्रमयीं रघुपतये तामददात्सुस्नेहाम्।।143।।
वियति विरञ्चिशिवेन्द्रदशरथा वैदेहीं दयमानाः।
अजिग्रहन् सुरसिन्धुपवित्रां रघुनाथं श्रितयानाः।।144।।
वृन्दारकवन्दितां वल्लभामग्निपवित्रितकायाम्।
जगदनुरञ्जनरतो राघवो ततो ननन्द स जायाम्।।145।।
संस्मृतभरतविरहरघुवीरः सविभीषणकपिसैन्यः।
प्रस्थानं पुष्पकाधिरूढो विदधे प्रशमितदैन्यः।।146।।
समरभूमिसागरभूधरवनविविधजनपदव्रातम्।
सन्दर्शयन् मुदा वैदेहीं समुपययौ यात्रान्तम्।।147।।
यामुनगाङ्गसङ्गभूराजितभरद्वाजपदलीनः।
रजनिमनैषीन्मुनिवराश्रमे भरतचिन्तया दीनः।।148।।
अपरेद्युः प्रस्थितोः रघुपतिः कोसलभूमिमुदाराम्।
धृतगोमतीस्यन्दिकातमसासरयूमतनुविहाराम्।।149।।
पवनतनयमुखविदितरघूत्तमपुनरागमनसुवृत्तः।
स्वजनसचिवगुरुपौरसमन्वितभरतोऽभूच्चलचित्तः।।150।।
सोदरचरणपतितनतकायो विगलदश्रुपरिमग्नः।
रघुपतिभुजपरिरम्भशीतलो भरतोऽभूद्धृदि लग्नः।।151।।
स्वजनकुशलशिशिरीकृतहृदयं प्रकृतिसदयजननाथम्।
अभिसिषेच रघुपतिं वसिष्ठः सिंहासने महार्धम्।।152।।
लंकापतिकपिभटविहारसुखसंक्रीडनैरयोध्या।
मासं यावदभून्मनोरमा नवकौतुका विशोध्या।।153।।
रामे शासति महीं स्थापितं स्वयमभूदृतं सत्यम्।
ईतिभीतिरहितं महीतलं ननु जगाम सौहित्यम्।।154।।
अनृतदुरितकल्मषपरपीडनपरधनवस्त्वपहाराः।
ईष्यामर्षभेदछललाञ्छनकपटविकटकुविचाराः।।155।।
नो जजागरु रघुपतिराज्ये धरा बभूव सुशस्या।
सुजला सुफला देवमातृका यथोचितं नृपवश्या।।156।।
सीताशीलचरितगुणलक्षणदिव्यजननमहिमानम्।
परमेश्वरगुणविग्रहमण्डितदशरथनन्दनरामम्।।157।।
पौरजनानां संसदि विशदं विदधे राघवनिष्ठः।
महातपाः सर्वज्ञसत्तमः स्वयमाराध्यवसिष्ठः।।158।।
विष्णुनिभो रघुनाथ इदानीं लक्ष्मीनिभा च सीता।
वैकुण्ठप्रतिमा साऽयोध्या पौरा विवुधस्फीताः।।159।।
स्वर्गायते रत्नगर्भेयं रामराज्यमहनीया।
अमरावत्यपि सम्प्रतीयते कृपणा ननु दयनीया।।160।।
यमजौ सुतावविन्दत रामो रामायणगातारौ।
प्राचेतसवाल्मीकिदीक्षितौ ननु लवकुशौ कुमारौ।।161।।
चन्द्रकेतुमङ्गदं लक्ष्मणस्तक्षपुष्कलौ भरतः।
शत्रुघ्नश्च सुबाहुमविन्दत शत्रुघातिनं प्रणतः।।162।।
ब्रह्माण्डे विलसति वसुधेयं वसुधायां रघुवंशः।
रघुवंशे विलसति रघुनाथो रघुनाथे विष्ण्वंशः।।163।।
महितविरञ्चिनिदेशपुरस्कृतवाल्मीकिरतिविज्ञः।
हस्तामलकीकृतपरोक्षघटितः संस्फुरत्प्रतिज्ञः।।164।।
आदिकविस्तस्यामृतचरितं मुदा जगौ परिपूतम्।
चतुर्विंशतिश्लोकसहस्रैः परलोकोदयदूतम्।।165।।
यावद् भुवि विलसन्ति सागराः गिरयो गङ्गाधारा।
प्रचरतु सदा स्वैरमिह तावद्रामकथेयमुदारा।।166।।
इति नवसरसिद्धां कण्ठमाधुर्यनद्धां क्वणनमृदुविपञ्चीसप्तनादानुबद्धाम्।
चतुरभिनययोगस्वैरबुद्धां कुमारौ जगतुरमितशक्ती विस्मृतक्षुत्पिपासौ।।167।।
ऋषिमुनिसमवायो राजवर्गोऽवरोधः कपिबलमथ लोकोऽसंख्यानार्यो नराश्च।
रघुपतिगुणगीतं जानकीशीलवृत्तं नयनसलिलमग्नास्तस्थिरे सन्निपीय।।168।।
यत्काव्यं मधुवर्षि नव्यघटनं प्रस्थानभूतं नवं
सान्द्रानन्दमरन्दविन्दुरुचिरं सीताप्रमाणैः कृतम्।
सर्गः पूर्तिमगादयं नु चरमस्तत्रैकविंशोऽधुना
वैदेहीमनुकीर्तयन्नघुपतिं श्रीजानकीजीवने।।169।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेवदचनं श्रीविह्णोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त ! निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।170।।
इति श्रीमद्दुर्गाप्रसादाभिराजीसूनोगौतमगौत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवणीकवेरभिराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये रामायणगानसंज्ञको एकविंशः सर्गः।