कान्तारकथा
।। वन्य पशुपक्षिणां रुचिकरमुपाख्यानम्।।
सनातनाशीर्वचनम्
(काशी) कालिदाससंस्थानम्
या कान्तारकथा व्यधायि कविना राजेन्द्रमिश्रेण ता-
मान्तं वाचितवानहं निपतितो विद्येऽद्भुताम्भोनिधौ।
तीर्यञ्चोऽपि यदा दयालुहृदया धर्म्ये पथि स्थेमिनः
स्वातन्त्र्ये सहयुज्वतां दधति, किं मानुष्यके नूतनम्।।
नेयं काचन पञ्चतन्त्रसदृशी तीFर्यक्कथा, विद्यते
त्वस्यां दर्शन-सृष्टि-शास्त्रकलनाऽप्याञ्जस्यसाधीयसी।
अस्यां ब्रह्मकथाऽस्ति मायिककथासम्श्रिता द्वैतिनोऽ
द्वैतेनापि कषायिता इह लसन्त्युज्जासितान्यक्षयाः।।
ये वै नागरका भवन्ति, नहि तेऽभिज्ञा भवन्त्यञ्ञसाऽऽ
रण्येनाचरितेन पाशवविशेषप्रोत्थितेनाऽत्र तु।
आरण्या अपि नागरन्ति मनसा पारिप्लवाः प्रीतिभिः
स्निग्धाभिः सहयुज्वतासरणिभिः स्वातन्त्र्यलक्ष्म्याः सुताः।।
मातृत्वं पशुपक्षिजातिसुलभो वात्सल्यमुग्धो गुणः-
स्तस्मिन्नस्ति न हि स्तनन्धयतया भिन्नोऽभिसन्धिः शुभः।
मैत्री-संहति-पारतन्त्र्यसदृशा ये वै विशेषाः समेऽ
प्येते मानवमानसैकसरसीजन्या न पद्मोत्तमाः।।
स्त्रीजातिः स्मरशान्तिमिच्छति, न वै तत्राऽसमर्थे जने
तस्या आन्तरमृच्छति क्वचिदपि प्रीतिं बलात् साधिताम्।
पतिव्रत्यकथा मृषा मातिमतां वर्यैरपि प्रोच्चकै-
रूद्गीताऽपि वपुर्गुणस्य विरहे सर्वत्र तुल्यं त्विदम्।।
भाषाऽत्यन्तपुरातनापि कलनामत्याधुनिक्याञ्चितां
धत्ते तीव्रगतिर्नदीव शरदः पङ्कं निरस्योज्ज्वला।
ज्योत्स्ना भावमयी सुधाधवलतामत्रादधाना लस-
त्यद्धा प्राकृतवैभवाऽवनपरा किंवान्यदन्यत् क्षमम्।।
06.11.08 गुरुवारः
रेवाप्रसादस्य द्विवेदिनः
सनातनस्य
कथापात्राणि
(Characters of the Jungle-Story)
१. महानन्दः Mahananda पितरौ मौद्गलेः
२. सुलोचना Mahananda’s wife
३. मौद्गलिः Mogali, The chief of the Story. The Woulf-Man कथानायकः, वृकमानवः
४. दुर्गमः Durgama, the Lion-chief सिंहराजः
५. वज्राङ्गः Vajranga, The Tiger-chief व्याघ्रराजः
६. महाबलः Mahabala, The Elephant-chief गजराजः
७. सर्वज्ञः Sarvajna, The Bear-chief भल्लूकराजः
८. मर्मज्ञः Marmajna, The Son of Sarvajna सर्वज्ञपुत्रः
९. सूचीनखः Suchinakha, The Premier of Durgama सिंहामात्यः
१०. कम्बुघोणः Kambughona, The Boar-chief वराहमुख्यः
११. शैलमस्तः Shailmasta, The Buffalo-chief महिषमुख्यः
१२. मन्दगः Mandaga, The Python-chief अजगरः
१३. सुदृष्टिः Sudrsti, The Valture-chief गृद्ध्रराजः
१४. स्थविरा Sthavira, The Lizard Lady अज्जुका गोधा
१५. दहनाक्षः Dahanaksha (The Spy of Lion) सिंहगुप्तचरः, उलूकः
१६. वज्रचञ्चुः Vajrachanchu (The Spy of Tiger) व्याघ्रगुप्तचरः, काकः
१७. द्विजिह्वः Dvijihva, The Jackal-chief जम्बुकमुख्यः
१८. दुर्लभः Dujlabha, The Young Jackal युवाजम्बुकः
१९. जर्जरः Jarjara, The father of durlabha दुर्लभजनकः
२०. धृष्टः Dhrsta, Fostering Woulf father वृकदम्पती
२१. सुवेगा Suvega, Fostering Woulf Mother वृकदम्पती
२२. सुकर्णः Sukarna, A Rabbit कश्चित् शशः
२३. गिरिबलः Giribala, An Elephant महाबलाऽनुजः
२४. द्रुतपदः Drutapada, An Antelope गवयः कश्चित्
२५. नृशंसः Nrshansa, A Crocodile नक्रः कश्चित्
२६. विवशा Vivasha, A Suirrel काचिन्नवप्रसवा गीर्हरी
२७. तालकण्ठः Talakantha, A Zirrafe जीर्णशफः कश्चित्
२८. दुर्मुखः Durmukha, The Hyena-chief लकुटव्यचाघ्रमुख्यः
२९. क्षुद्रास्यः Kshudrasya, A Cheetah चित्रकः कश्चित्
३०. दस्युः Dasyu, A Leopard तरक्षुः कश्चित्
३१. भल्लकण्टा Bhallakanta, A Porcupine शलली काचित्
३२. चित्रपृष्ठ Chitraprstha, A Zebra जवरः कश्चित्
कान्तारकथा
-धावत धावत। मम दारकं वृको नयति। इति क्रोशन्ति महानन्दभार्या गृहद्वाराद् बहिः आगतवती।
तस्याः क्रन्दनं श्रुत्वा सर्वेऽपि गृहसदस्या द्वारभूमौ पुञ्जीभूताः। सर्वाः स्त्रियोऽपि स्वकार्यं विहाय समागताः। क्रन्दनं श्रुत्वा प्रातिवेशिका अपि द्वित्राः, पश्चात् पञ्चषा अन्ते च बहवः समागताः।
-भोः किमभूत्? कश्चित् अपृच्छत्।
-महानन्दस्य नवजातं दारकं वृकोऽनयत्।
तावदेव काचिद् वृद्धा महानन्दभार्यां सान्त्वयन्ती पृष्टवती –
वधुके! कथं जानासि त्वं यद् वृक एव दारकं नीतवान्? किं त्वया दृष्टोऽसौ जातकं गृह्णन्?
-अथ किं मातः। करूणं क्रन्दन्ती महानन्दभार्याऽवदत्। इदानीमेव दारकं कटुत्तैलाभ्यङ्गेन स्तनदुग्धपानेन च शाययित्वा गृहाब्यन्तर गताऽहं तालवृन्तमानेतुम्। यावदेव बहिर्द्वारमागतवती, पश्यामि यत् कुक्कुर इव कश्चित्पशुः मम दारकं दंष्ट्राभिर्निगृह्य प्रयाति। इटित्येव मया ज्ञातं यत् नाऽयं कुक्कुरः। कुक्कुर एतादृशं नृशंसं साहसं नाऽनुतिष्ठति। अवस्यमेवाऽयं वन्यो वृकः।
इत्थं विचिन्त्यैव तं भीषयन्ती भर्त्सयन्ति द्रुतपदाहं दारकरक्षणाय धाविता। परन्तु स जाल्मस्तु मत्तोऽपि द्रुततरपदैरधावत्।
हा मातः किं करोमि? न जाने, मम दारकस्य किं करिष्यति? रक्षत मम जातकं भोः! रक्षत। ननमसौ वृको मम दारकं भक्षिष्यति। अलं विलम्बेन। रक्षत, रक्षत जातकम्। एवं कथयन्ती एव महानन्दभार्या जलाद् बहिष्कृता शफरीव भूमौ एव लुठितुमारभत। गृहमहिलास्तां प्रबोधयितुं सान्त्वयितुं चारब्धवत्यः।
तावदेव युवानो विंशतिमिता वृकमार्गमन्वेष्टुं सन्नद्धा अभवन्। कस्यचित् हस्ते लगुडः, कस्यचित् हस्ते भल्लः, कस्यचित् हस्ते परशुः, कस्यचित् हस्ते कुद्दालः, कस्यचित् हस्ते दात्रं, कस्यचित् हस्ते बन्धनरज्जुश्चाऽसन्। ते सर्वेऽपि वृकदिशायां प्रस्थिताः।
सन्ध्याकालस्यैव घटनेयमासीत्। केषुचिदेव गृहेषु दीपाः प्रदीप्ताः आसन्। अन्यथा सर्वत्राऽपि गहनान्धकार एव आसीत्। ग्रामे तु प्रायेण सर्वे निशारम्भे एव भोजनं निर्वर्त्य स्वपन्ति।
श्रावणमास आसीत् वर्षर्तोः। शष्पवृद्धया मार्गोऽपि विलुप्तप्राय आसीत्। कृषिक्षेत्राणि शस्यसङ्कुलान्यासन्। क्वचिन्माषाः, क्वचिद् वज्रान्नानि , क्वचित्तिलानि, क्वचित् श्यामकाः, क्वचित् मुद्गाः, क्वचित् भुट्टाः , क्वचिदिक्षवः, क्वचित् शणाः, क्वचिज्जलधान्यानि, क्वचित् पुनः कार्पासाः। प्रत्येकं क्षेत्रं दुष्प्रवेश्यं प्रतिभासति स्म।
तथापि साहसिको युवानो यन्त्रवार्तिकया प्रकाशलेखां परितः प्रसारयन्तः सर्वेष्वेव क्षेत्रेषु निपुणम् अन्विष्टवन्तः। निशीथं यावदन्वेषणकार्यं प्राचलत्। परन्तु सर्वमेव निरर्थकं जातम्। न जातकोऽवाप्तः, न वा वृकः क्वापि दृष्टः। हताशाः सर्वेऽपि ग्राममुपावर्तितवन्तः।
प्रातर्वेलायां भूयोऽपि सञ्जातमन्वेषणम्। सर्वाण्येव क्षेत्राणि निपुणं निरीक्षितानि। न क्वचिदपि वृकपदचिन्हानि. न क्वापि शोणितबिन्दुपतनम्। न चापि क्वचिद् भक्षितप्रायस्य जातकस्य कोऽप्यवशेषः। नदीतटे गहनारण्येऽपि केचिद् गतवन्तः। सर्वाण्यपि भूविवराणि वृकनिवासयोग्यानि निपुणतयाऽवलोकितानि। हा हन्त, महानन्दस्य अहीनो जातको न कुत्रापि समवाप्तः।
वराकी महानन्दभार्या नक्तन्दिवं विलपन्ति, स्वदुर्भाग्यं शपन्ति शनैः शनैः शान्ता जाता। श्यानं जातं नय़नद्वयं तस्या अश्रूणामभावत्। दिनाद् दिनानि, मासात मासाः वर्षाद् वर्षाणि च व्यतीतानि। सत्यघटनेयं काचित् पुरातनी कथा जाता। पश्चादपि महानन्दभार्या पुत्रीमेकां पुत्रद्वयं च प्रसूतवती! वृकभक्षितं जातकं नाऽसौ सम्प्रति स्मरति।
परन्तु वन्यवृकनिगृहीतः स एव जातको मदुपज्ञकान्तारकथाया नायकः। तस्य पितरं महानन्दं प्रायेण ग्रामवासिनो मुद्गलनाम्ना सम्बोधयन्तिस्म। तस्यैव मुद्गलस्य पुत्रभूतत्वादयं बालको मया मौद्गलिरिति कथ्यते।
कान्तारकथानायकस्य मौद्गलेर्वृत्तम आमूलात् श्रावयितुं पाठकानहं दशवर्षपूर्ववर्तिनि कालखण्डे सप्रणयं नयामि।