।।१।।
नद्यास्तटे गहनकान्तारे कश्चिद् धृष्टनामा वृको वसति स्म। तस्य नवागता सहचरी प्रथमगर्भं धृतवती। श्रावणमासे सा शिशुद्वयं प्रसूतवती। अतीव प्रीतौ जातकौ। तौ दर्शं दर्शं वृकी सुवेगानाम्नी पुलकमनुभवति स्म। शावकौ गाढम् अवष्टभ्य सा पर्यायेणाऽलिहत्। यदा तौ तच्चूचुकं निर्दशनेन मुखेन तरलयन्तौ दुग्धमपिवताम् तदा सुवेगाऽद्भुतं किमपि सुखमनुभवति स्म।
धृष्टोऽपि दूरत एव शावकौ पश्यति स्म। सुवेगाभयात् स कदापि धरित्रीकोटरे न प्रविशति स्म। सुवेगाऽपि तम् ईषदपि निकटमायान्तं दृष्ट्वा द्रंष्ट्रां प्रदर्श्य भर्त्सयति स्म। एकमेव कार्यमासीद् धृष्टस्य। प्रतिहोरं कस्यचिद् भक्ष्यस्यानयनम्। सोऽपि वृकीं प्रसूतां दृष्ट्वा, शावकयोः प्रीत्या यत्किञ्चिदपि सततम् आनयन्नासीत्। कदाचित् मृदुमांसं शशकं, कदाचिद् वन्यतित्तिरं, कदाचिद् मेषशावकं, कदाचिच्च ताम्रचूडम्। कदाचिदसौ ग्रामपरिसरमगत्वा सिंहव्याघ्राऽवशिष्टमेव स्वादु हरिणमांसं महिषमांसं गवयमांसं वाऽऽनयति स्म।
गभीरे धरित्रीविवरे शावकाभ्यां साकं शयाना सुवेगा सम्यक् रूपेण सुरक्षिता आसीत्। भुवरमिदं सर्वथाऽज्ञातमासीदन्येषाम्। बहुशः प्रयत्नै विवरमिदं प्राप्तवन्तौ दम्पती। परितोऽपि भूकोटरं निबिडा शरपत्रसंहतिरासीत्। भूकोटरप्रवेशस्य न कापि प्रत्यभिज्ञेया पदवी दृश्यते स्म, पूर्वमप्रयुक्तत्वात्। शरपत्रसंहतिं परितोऽपि प्रच्छायशीतला वन्यवृक्षा आसन्।
तस्मिन् दिने मध्याह्नकाले धृष्टः कुतश्चित् वन्यसूकरमांसमनीतवान्। वस्तुतो व्याघ्रभक्षिताऽवशिष्टमासादिदम्। यथेच्छं तदशित्वा सुवेगा शावकौ वक्षसि कृत्वा सुप्ता। प्रसवानन्तरं सा शक्तिहीना जाता। प्रायेण गाढं निद्रातिस्म। शावकावपि प्रकामं दुग्धं निपीय, मातृवक्षसि संलग्नौ गाढमशमायाताम्। धृष्टोऽपि सहचरी भोजयित्वा नातिदूरेऽतिष्ठत्।
परन्तु रात्रि भोजनस्य चिन्ता धृष्टं बाधतेस्म। अतएव सन्ध्यामापतन्तीं दृष्ट्वैव असौ शनकैरुत्थाय प्रस्थितः। सुवेगा तस्य प्रस्थानं न ज्ञातवती।
अथासन्नायां रजन्यां धृष्टो द्रंष्टाभ्यां किमपि निपीड्य समागतः। यावदेवाऽसौ बालकं भूतले न्यदधात् तावदेव सोऽस्फुटस्वरेण क्रन्दितुमारब्धवान्। सुवेगा तत्क्रन्दितं श्रुत्वा विस्मिता जाताऽपृच्छच्च –
-भो किमिदम् आनीतं त्वया?
-प्रत्यभिजानीहि, किम्मयाऽऽनीतमद्य त्वत्कृते? सस्मितमवदत् धृष्टः।
-नाऽयं पशुशावकस्वरः।
-सम्यग् ज्ञातं त्वया।
-तत्किमयं मानवजातकः? साश्चर्यं पृष्टवती सुवेगा।
-अथकिम्! ग्रामे प्रविष्टोऽहमद्य। मेषशावकं कमपि अन्विष्यन् बालकमिमं खट्वोपरि शयानमपस्यम्।
-तस्ततः?
-ततः किम्? स्थानं निरातङ्कं बालकञ्च सर्वथाऽरक्षितं दृष्टवा त्वज्जिह्वास्वादपरिवर्तनाय इममेव आनीतवानस्मि।
-अथ ग्रामसिंहा न त्वां दृष्टवन्तः?
-भो अदृष्टेऽनुकूले सति न कोऽपि पश्यति। पश्यन्तोऽपि सर्वे शिथिला निष्क्रियाश्च जायन्ते। तदलं विलम्बेन प्रिये! भक्षयेयम्। धृष्टोऽवदत्।
-सूकरमांसं गरिष्ठं भवति। तत्प्रकामं भक्षयित्वा न मे सम्प्रति भोजने रूचिः। पश्याद् भक्षयिष्यामि। सुवेगाऽवदत्।
-भवतु, नदीतटे पर्यट्य सहचरांश्च दृष्ट्वाऽगच्छामि।
एतदुक्त्वैव वृको नदीतटं गतवान्। तावद् बालकोऽपि क्षुधापीडितः हस्तौ पादौ चाकाशे प्रक्षिपन् हस्तिनखे भूविवरले वेल्लमानः सुवेगावक्षसि संलग्नः। अकस्मादेव दैवयोगात् सुवेगास्तनाग्रभागो बालकमुखे समापतत्। मातृस्तनपानाऽभ्यस्तो बालकः सुवेगास्तनात् गाढगाढं द्राक्षामधुरं दुग्दं पिवन् शान्तो जातः। सुवेगाऽपि सर्वं विस्मृत्य, वात्सल्याभिभूता तं मानवशिशुं जिह्वया लोढुमारभत।
स्वशावकयोः शरीरे तु सान्द्ररोमराजय आसन्। परन्तु बालकस्याऽस्य शरीरं सर्वथा रोमरहितं चिक्कणञ्चासीत्। बालकशरीरं प्रीत्या लिहन्ति सुवेगा विलक्षणसुखमनुभूतवती।
धृष्टस्तं बालकं मध्ये गृहीतवान्। अतएव पृष्ठे उदरे च तस्य दन्तक्षतचिन्हानि कानिचिदासन्। तेभ्यो रुधिरं वहति स्म। सुवेगा तेषु स्थलेषु स्वलालारसं निषिक्तवती, क्षतानि विरोपयितुम्। ततश्च सा बालकस्य गुह्याङ्गानि बहुषो लीढ्वा तच्छरीरं निर्मलं व्यदधात्। बालक आकण्ठं निपीय वृक्षीरं गाढं प्रसुप्तः।
बालकं प्रसुप्तं दृष्ट्वा सुवेगा चिन्तयितुं प्रवृत्ता – हन्त, धृष्ट आगच्छन्नेव प्रतिभाति। आगत्य प्रक्ष्यति – कस्मान्मया न भक्षितोऽयं मर्त्यबालकः। किं कथिष्यामि? अत्र स्थितोऽपि मानवजातकः किं करिष्यति? श्वापदेभ्यो भिन्नोऽयम्। नाऽस्मत्कुलसदस्य़ो भवितुमर्हति। तत्किमत्र करणीयम्? पीतमनेन मद्दुग्धम्। तदिदानीं शावककल्प एवाऽयं मत्कृते। नाऽयं मया कथमपि भक्षणीयः। किञ्च, प्राणानपि पणीकृत्य रक्षणीयोऽयं जातको मया।
एवं चिन्त्यन्त्या एव सुवेगायाः नेत्रद्वयम् अश्रुपर्याकुलं जातम्।
सुवेगा भूयोऽप्यचिन्तयत् – अथ, यदि युक्त्या प्रबोध्य, प्रणय-शपथं दत्वा, बालकमिमं निर्यातयितुं, धृष्टमादिशामि, तदपि न युक्तम्। यतो हि धृष्टोऽविश्वसनीयः। मार्ग एव जातकमिमं भक्षिष्यति। लोलजिह्वोऽसाविति जानामि। तद्यदि जीवितोऽवलोकनीयोऽयं शिशुस्तर्हि प्रतिक्षणं नेत्रसमक्षमेव स्थापनीयः। शनैः शनैः धृष्टोऽपि भक्षणलोभाद् विरतो भविष्यति। न मां प्रतिकूलयितुं विरोद्धुं वा क्षमतेऽसौ।
हन्त, धृष्टेऽनुकूले सत्येव सर्वं मे मनोऽभिलषितं सिद्धं भविष्यति। मानवशिशुमिमं बृकशिशुं विधास्ये। अयमपि चतुर्भिः पादैश्चलिष्यति, धाविष्यति। बृकगमनं, बृकोत्पतनं, बृकोच्छलनं, बृकधावनम्, किञ्च बृकाचरणं सर्वमपि शिक्षयिष्यामि। निर्लोमतनुरयं विलक्षण एव बृकशिशुर्भविष्यति कान्तारेऽस्मिन्।
सुवेगाचिन्तितं साफल्यमवाप। प्रकृत्यैव कामुको धृष्टः सुवेगां कथमपि रोषयितुं नैच्छत्। एवमाचरिते सति प्रियाऽनुरागो मां प्रति वर्धिष्यत एवेत्यपि स चिन्तितवान्। परमार्थत एवाऽसौ मानवशिशुभक्षणलोभाद् विरतो जातः। ततश्च सुवेगासमीपमासाद्य धृष्टोऽवदत् – प्रिये! त्वत्समीहितं सम्पादयाम्यहम्। न ते मत्तो भयम्। परन्तु मानवजातकोऽयं सर्वदैव सङ्कटापन्नो भविष्यति। यतो हि श्वापदभिन्नतया समेषामेव मांसाहारिणां कृते भक्षणीयोऽयं प्रतीभाति। तत् नक्तन्दिवम् आवाभ्यां रक्षणीयोऽयं भविष्यति।
-धृष्ट! मम स्नदुग्धं पीतमनेन। तस्मात् शावको मे जातः। सम्प्रति त्रयः शावका मे, न खलु द्वौ तवाऽप्ययं धर्मपुत्र एव। तद् ब्रूहि, इमं रक्षिष्यसि न वा? कातरीभूय सुवेगाऽवदत्।
-अलं चिन्तया। सुवेगे! तव जातको ममापि जातकः। एष स्वशावकाभ्यामेव प्रतिजाने यदिममपि मानवजातकं स्वजातकद्वयमिव द्रक्ष्यामि, रक्षिष्ये च।
धृष्टप्रतिज्ञां श्रुत्वा सुवेगा प्रसन्ना जाता। आत्मनि धृष्टस्य प्रीतिं सुवेगा सम्यग्जानाति स्म। सा सम्प्रति मर्त्यजातकविषये निश्चिन्ता जाता।
समयः स्वगत्यैव पुरसरन्नासीत्। मासाद् मासाः व्यतीताः। सुवेगाशावकौ तु कतिपयसालेष्वेव गतिशीलौ जातौ। भूविवर एव विस्तीर्णे तौ निर्भरं क्रीडितवन्तौ। तावता समयेन सुवेगाऽपि ईषत्कालं यावद् विवराद् बहिर्गन्तुमुपाक्रमत। तथापि भोजनप्रबन्धोऽधुनापि धृष्टाऽधीन एवाऽसीत्। मृतपशुमांसं द्रंष्टाभ्य़ामाकुञ्च्य यावदेव समांयाति धृष्टस्तावदेव शावकौ अहमहमिकयाऽग्रेसरन्तौ तन्मुखान्मांसमादातुं प्रयतेते। शावकयोः इमां सक्रियतां दृष्ट्वा धृष्टः पुलकमनुभवति स्म।
स्वशावकौ स्वावलम्बौ दृष्ट्वा सुवेगा मौद्गलिपालने पूर्वापेक्षयाऽप्यधिकं यत्नं कृतवती। शावकाभ्यां स्वेच्छयैव परित्यक्तं स्तनदुग्धमिदानीं मौद्गलिकृते सुरक्षितमासीत्। ततश्च धृष्टानीतस्य मांसस्य कोमलतमं भागमपि सुवेगा तमेव प्रीत्याऽभोजयत्। इदानीं धृष्टोऽप्यनुमत आसीत्सहैव शयितुम्। अतएव शावकौ पितुरुत्सङ्गे कृत्वला सुवेगा मौद्गलिमात्रं निजाङ्कपाशेऽवष्टभ्य सुखं शेते स्म।
सुवेगायत्नैः सम्पोषितो मौद्गलिरपि द्रुतगत्या शक्तिमान् जातः। तस्यापि नखा वृकनखा इव शिखरिणस्तीक्ष्णाश्च सञ्जाताः। दन्तपङ्क्तयोऽपि नतोन्नताः वृकदन्तपङ्क्तिनिभाः बासन्ते स्म। सोप्यधुना मातुः स्तन्यं त्यक्तवा मांसमाहरति स्म। मांसार्थं कदाचित् भ्रातृभ्यां स कलहमपि करोति स्म। तस्याऽखिलेऽपि शरीरे सघनरोमराजयः समुत्पन्नाः। सान्य स्थितौ तु मौद्गलिः बृकशावक व चतुर्भिरेव पादैः प्रचलति स्म, परन्तु संकटापन्नः सन् त्वरमाणो वा पूर्वकायमुत्थाप्य द्वाभ्यामेव पादाभ्यां मानव इव धावति स्म। चतुर्भिः पादैर्धावन्तो बृका युगलपादाभ्यां धावन्तं मौद्गलिं पश्चात्कर्तुं न कथमपि प्राभवन्।
शनैः शनैः मौद्गलिः पञ्चवर्षदेशीयो जातः। वृकाणां मानवानाञ्च संस्काराः शक्तयस्तस्मिन् युगपदे वृद्धिमवापुः। सुवेगायाः कुक्षिजातौ शावकौ तु श्वापदसंस्कारवशात् पितरौ परित्यज्य क्वाप्यन्यत्र गतौ। केवल सङ्गमने जाते सति गन्धपरिचयवशात् जननीमुखं लीढ्वा, तच्छरीरं वा सारयित्वा, पुच्छञ्चासकृत् चालयित्वा तौ प्रीतिं मातृभक्तिं वा प्रकटयतः स्म। सम्प्रति तावती सहचर्या अन्वेषणे यत्नशीलौ जातौ। अयमेवाऽसीदरण्यधर्मः। अयमेवाऽसीत् सत्त्वनिसर्गः।
परन्तु मानवसंस्कारसंवलितो मौद्गलिः क्षणमात्रमपि मातरमेकाकिनीं न परित्यजति स्म। सोऽधुनाऽपि आदिवसं वनाद् वने आहिण्डमानः, समापतन्त्यमेव रजन्यां मातृसमीपमागच्छति स्म। धृष्टोपि सुवेगां न तत्याज। ते त्रयोऽपि यत्किञ्चिदप्युपलब्धं सहैव भुक्त्वा भूविवरे शेरते स्म।
मौद्गलिशरीरे बृकमानवयोः समन्वितं बलं कौशलञ्चासीत्। एकतस्त्वसौ बृक इव विस्तीर्णां जलकुल्याम् एकेनैव समुत्प्लवेन पारयितुं क्षम आसीत्। अपरतश्च कपिरिव प्रांशुवृक्षशिखरमपि क्षणेमनैव स्प्रष्टुं क्षमो जातः। शाखातः शाखां, स्कन्धात्स्कन्धं गन्तुं मौद्गलिः श्येन इव समर्थ आसीत्। मधुरमधुराणि फलानि तरूभ्यः समाहृत्यमौद्गलि पितृभ्यां दत्तवान्। कदाचिदसौ अतिमधुरं कन्दं समुत्पाट्य गृहमानयति स्म। मौद्गलिसङ्गत्या फलशाककन्दादिकं भक्ष्यतोः सुवेगाधृष्टयोरपि शाकाहारं प्रति विलक्षणाऽभिरूचिर्जाता।
पञ्चवर्षीयो मौद्गलिरपि साम्प्रतं स्वावलम्बस्सञ्जातः। अहनि-अहनि वर्धमानस्तस्य नूतनपरिचयस्तं निखिलेऽपि कान्तारे समेषामभिमतं लोकप्रियं च विदधे। तं दृष्ट्वा न कस्यापि श्वापदस्य वन्यपशोर्वा किमप्याश्चर्यं जातम्। केवलं तच्छरीररचनामवलोक्य समेषां मनसि सकृद् विस्मयो जायते स्म। परन्तु यावदेव मौद्गलिः उच्चै समुत्प्लुत्य, वृक्षशाखामारुह्य वानरैः सह क्रीडितुमारभते स्म, यदाऽसौ बटवृक्षप्ररोहमागृह्य हिन्दोलनसुखमनुभवन् हस्तिनः पृष्ठे कस्यचित् आरोहतिस्म, अथवा कमपि सिंहशावकं कुक्षौ संस्थाप्य वर्तुलधावनं कुर्वन्, परावर्त्य तं शावकं शनैः क्रोडे स्थापयति स्म तदा ते सर्वेऽपि परमां प्रीतिमुपगच्छन्ति स्म। सुवेगायाः जातकोऽयमिति कृत्वाऽपि समेषां वन्यपशूनां मौद्गलिं प्रति महद्वात्सल्यमासीत्।
अयमपरो विशेषो विकासमवाप यन् मौद्गलिः समेषां वन्यजीवानां आङ्गिकीं वाचिकीं सात्त्विकीं च चेष्टामनुकर्तुं पूर्णपारङ्गत आसीत्। कदाचिदसौ सिंह इव गर्जतिस्म, कदाचिद्व्याघ्र इव सगुर्रुत्कारं नदति स्म, कदाचिद् चित्रक इव बुक्कतिस्म कदाचित् तरक्षुरिव मुखं व्यादाय श्मश्रूणि च रिङ्गयन्नस्फुटारवैर्भीषयति स्म, कदाचिद्वराह इव घुर्घुरध्वनिं जनयति स्म, कदाचित् वनगज इव चित्करोति स्मस कदाचिन् मयूर इव केकां, कदाचित्कोकिल इव कुहूरावं कदाचिच्चातक इव पिहूरावं जनयमन् कदाचित् पुनः क्रौञ्च इव रसति स्म।
स्वकीयं वाचं श्रुत्वैव ते सर्वेऽपि वन्यश्वापदाः पशवः विहङ्गमाश्च परमविश्वस्तभावेन मौद्गलिम् अभिनन्दतिस्म। आप्रभातात् सन्ध्यां यावन् मौद्गलिः एभिरेव आरण्यकैस्सार्धं क्रीडनलपन् पर्यटन् भुञ्जानश्च समयमनै,त्। तद्विषये जनन्या अपि कापि चिन्ता ना आसीत्। यतो हि सुवेगा सम्यक् ज्ञातवती यत्कान्तारे न कोऽपि मौद्गलेः शत्रुः। सर्वेऽपि तस्मिन् स्निग्धाः, प्रीतिमन्तः समासक्ताश्च।
अपरमपि किञ्चित् कालखण्डं व्यतीतम्। मौद्गलिरिदानीं दशवर्षदेशीयो जातः। सर्वैरेव वन्यजीवैः साकं तस्य सख्यभावो दृढीभूतः। बुद्धिस्तस्य परिपाकमुपगता। विवेकोऽप्यङ्कुरितः मानवोचितः। आसीच्च तस्य मनसि हन्त! सर्वेऽपि वनवासिनः कथं न सङ्गच्छन्ते, कथं न संवदन्ति, कथं न सम्मन्त्रयन्ति? हरिणाः सिंहव्यघ्रनादं श्रुत्वैव पलायन्ते। तरक्षवः सिंहं दृष्ट्वैव वृक्षमारोहन्ति। सरपो विलाद् बहिरेव नागच्छति। अजगराः प्रवञ्च्य श्रृगालं लोपाकं रङ्कुं वा समूलं निगरन्ति।
कस्मादयं भेदः कान्तारवासिषु? पक्षिणः नीडेषु, वानराः तरूस्कन्धेषु, सिंहाः पर्वतदरीषु, सर्पाः गोधा अजगराश्च भूविवरेषु, हरिणा वृच्छायासु मकरा नक्राश्च नदीजलेषु निवसन्ति! कस्मात्पुनः?
एतादृशीभिस्चिन्ताभिः पर्याकुलो मौद्गलिर्न क्षणमपि सुखं शान्तिं वाऽलभत्। कं नु पृच्छेदसौ? हस्तिनं पृच्छेत् गवयं वा? गृध्द्रं पृच्छेत् नागं वा? वानरं पृच्छेत् वनमहिषं वा? को नु प्रश्नानामेषां बुद्धिमत्तमस्चतुरतमः? को नु कान्तारेऽस्मिन् महीष्ठो वरिष्ठो ज्येष्ठश्च यमुपगत्य मौद्गलिः स्वयमेव निर्णयत् – अलम्-अलम् आशङ्कया। रात्रौ जननीमेव प्रक्ष्यामि कान्तारवृत्तान्तरम्। साऽवश्यमेव समग्रं रहस्यं मामवगमयिष्यति ज्ञानसम्पन्ना ममाम्बा। सा सुष्ठु वेत्ति अरण्यवृत्तम्।
-मौद्गले! पुत्रक! कथमद्य उदासीनः परिलक्ष्यसे? मौद्गलिं हीनबलं निस्तेजसञ्च दृष्ट्वा रात्रौ सुवेगाऽपृच्छत्।
-न किमपि मातः। मौद्गलिः स्वोत्कण्ठां तिरस्कुर्वन् अभणत्।
-अलं रहस्यगोपनेन। पुत्रक! प्रतिदिनमिव नाऽद्य प्रसन्नोऽसि। तत् शापितोऽसि मत्प्राणैः। सत्यं भण। किं जातम्?
-मातः! प्रश्नः कश्चिन्मां बाधते मध्याह्नादेव। तत एव परिश्रान्तोऽस्मि जातः। मौद्गलिरगदत्।
-प्रशनः? कीदृशः प्रश्नः? वत्स! कान्तारे तु सहस्रमिताः प्रश्नाः वर्तन्ते। इमे पर्वताः, इमे वृक्षाः, इमाः लताः. इमे वनेचराः विरुद्धस्वभावा, विपरीतरूचयः! वत्स मौद्गले! सर्वेऽपीमे प्रश्ना एव वर्तन्ते। परन्तु एतेषां को नु प्रश्नस्त्वामुद्वेजयति?
-अम्ब! साधु ज्ञातं त्वया। वस्तुतो ममाशङ्काया मूलमासादितवती भवती। इममेव प्रश्नं प्रष्टुकामोऽहं यदरण्ये कस्मादैक्यं न परिलक्ष्यते? कस्मात् सर्वेऽपि वन्यजीवा मिथोऽविश्वस्ता भीता पृथग्भूताश्च दृश्यन्ते।
मातः त्वमपि न कदाचिद् व्याघ्रगृहं गच्छसि। शशका मेऽतीवप्रियाः सुहृदः। परन्तु न ते मां द्रष्टुमत्र भूरन्ध्रे समायान्ति। मयाऽनुरुद्धा अपि ते कथयन्ति।
-मौद्गले! त्वत्पितृभ्यां भयमस्माकं जायते! मौद्गलिः सर्वमाख्यातवान् एकश्वासेनैव। मौद्गलिविचारं श्रुत्वा सुवेगा हतप्रभा जाता! किन्नु समुत्तरेत्? प्रश्नानिमान सा स्वयमपि न जातु चिन्तितवती। किञ्च, एषां प्रश्नानां समाधानमपि किमपि न ज्ञातवती सा। आसीच्च तस्याश्चेतसि –
हन्त! मर्त्यदारकोऽयं मौद्गलि। तदिदानीं स्फारं जातम्। अयमिदानीं मानव इव चिन्तयति। न तावदस्माकमिव कुण्ठिताऽस्य बुद्धिः। तदयं न मयाऽज्ञातसमाधानया प्रवञ्चयितव्यः, न चाप्यन्यथ सान्त्वयितव्यः। तत् कथन्न मौद्गलिं परिपक्वधियं परिणतानुभवं भल्लूकमुपगमयानि। सोऽवश्यमेव मज्जातकं सर्वमपि वनरहस्यमवगमयिष्यति। श्रुतं मया यदसौ वृद्धतमो भल्लूकः समेषामादरपात्रम्। गभीरोऽपरिमितश्च तस्य कान्ताराऽनुभवः।
एवं मनसि विमृश्य सुवेगा क्षणानन्तरं प्राह – वत्स मौद्गले! समक्षवर्तिनि वनोपकण्ठस्थिते सान्द्रवेणुवने कश्चिद् वृद्धभल्लूकः सकुटुम्बो निवसति। तं दृष्टवानसि वा? मौद्गलिःस्वानभिज्ञतां प्रकटितवान्। तदाकर्ण्य सुवेगा सप्रणयं मौद्गलिं निरदिशत् – वत्स! श्वस्तने प्रभातकाले तमुपगच्छ। सविनयं तम् ऋक्षपतिं प्रणम्य, परिचयञ्चात्मनो दत्वा स्वप्रश्न जातं पृच्छ विश्वसिमि, यदसौ निश्चप्रचं त्वत्प्रश्नान् समाधास्यति। सम्प्रति किञ्चिदशित्वा निर्भरं स्वपिहि।
मातः! न मे वुभुक्षा। त्वदङ्के निर्भरं स्वप्स्यामि। इत्युक्तवैव मौद्गलिः सुवेगावक्षसि संलग्नस्सन् सुष्वाप।
।।२।।
अथाऽपरेद्युः भिन्नेऽहन्येव मौद्गलिर्निद्रातस्समुत्थितः। भल्लूकदर्शनोत्कण्ठितस्य तस्य नयनयोः क्व निद्रा? मातरं गाढनिद्रामेव विहाय निभृतनिभृतमसौ पर्वतोपकण्ठस्थितं वेणुवनं प्रति प्रस्थितः। रमणीयमासीत्प्रभातम्।
सिंहशावकाः पर्वतदरीतो बहिर्निष्क्रम्य कलहायमानाः क्रीडन्ति स्म। हरितशष्पक्षेत्रे मृगाणां संहतिरासीत्। सर्वेऽपि पक्षिमो निजस्वरैर्गायन्तो वृक्षेषु समुत्पतन्ति स्म। नवप्रसूतं वत्सकं स्तन्यं पाययन्ति वनमहिषी स्वयूथे सुखं स्थिताऽऽसीत्। निर्भयाः शशाश्चटतुरङ्गमिव क्रीडन्ति स्म। वनपल्लवलेषु वराहाः प्रातरेव पङ्कस्नानं विदधाना मुस्ताकन्दान् मार्गयन्ति स्म।
एतत् सर्वं प्राभातिकमरण्यवृत्तं पश्यन् मौद्गलिः वेणुवनमाससाद। तमागतं वीक्ष्यैव सर्वेऽपि भल्लूकशावकाः किलकिलारावैः समुच्छलनं प्रारब्धवन्तः। द्विपदं तं विलक्षणं वन्यजीवं ते इदम्प्रथमतया पस्यन्त आसन्। शावकानां द्रुतधावनं दृष्ट्वा, चीत्कारांश्च निशम्य जरठा भल्लूकाः अवहिता जाताः। दुर्दान्तशत्रोः कस्यचिदागमनं समुत्प्रेक्ष्य ते सर्वेऽपि युद्धार्थं सन्नद्धा अभवन्।
तावदेव नेदिष्ठोऽभून्मौद्गलिः। प्रौढा भल्लूका अपश्यन् – अये! कोऽयं विचित्रो जीवः? न तावद्बृक इव शङ्कुमुखः। न पुनर्वन्यसूकर इव वहिरागतदृढद्रंष्टः। न चापि सिंह इव सटाभरमण्डितः। न चापि मर्कट इव लाङ्गूलवान्! पशुरिवापि भ्रमति चतुर्भिः पादैः। पादाभ्यामप्यतति वानर इव। सर्वथा विलक्षणऽयम्। तद विज्ञापनीयोस्मत्पितामहोऽस्यागमनविषये।
कुटुम्बिनां विवरणं श्रुत्वै वृद्धभल्लूको निष्कुटमञ्चादवतीर्य भुवमागतवान् प्राघुणञ्च विचित्रविग्रहम् अवलोक्य क्षणं यावत् विस्पारितनेत्राभ्यां तं पश्यान्नासीत्।
-पितामह! मौद्गलिरहम्। मौद्गलिः धृष्टनाम्नो वृकस्य जातकः प्रणमामि भवन्तम्।
-मौद्गलिः? अहो, सुवेगायाः पुत्रः?
- अथ किम्! मातुर्निदेशादेव भवत्समीपमागतोऽस्मि। ममाम्बा कथयति यत्कान्तारेऽस्मिन् भवानेव सर्वमान्यो ज्ञानवृद्धो वयोवृद्धश्च।
- अहो सुवेगायाः सौजन्यम्! वत्स! निखिलेऽप्यरण्ये तव जनन्याः कीर्तिः। सा मानवहृदयं प्राप्तवती। अत्यन्तमेव दयालुः संवेदनशीला साध्वी अनृशंसा च सा वर्तते। तामहं सम्यक्तया जानामि। बृकाणां कुले रत्नभूताऽसौ।
मौद्गले! तवापि विषये वहुशः श्रुतम्मया। श्रृगालःलोपाकः नागः शशः कोलः शल्लकः कपिः – यः कोऽपि मां द्रष्टुमिह समुपैति, सर्वप्रथमं तवैव चर्चां करोति। श्रुतम्मया यत्त्वं बर्बरसिंहमपि सटाभारेषु निगृह्य यथेच्छं नर्तयसि? बटप्ररोहमारूह्य वृक्षाद् वृक्षं निमिषमात्र एव समुपगच्छसि? विषधरो नागोऽपि तव कण्ठे हारलतेव शोभते? वत्स! कुतस्समवाप्तेयं दिव्यशक्तिः? आकृत्यापि न सम्यक्तया बृकमनुहरसि?
-पितामह! किमहं कथयानि? यादृशो विधात्रा निर्मितस्तादृशोऽस्मि। शैशवादेव निर्भयोऽस्मि जातः। अभ्यासादेव वृक्षाद् वृक्षमुत्पतामि। सर्वैरेव वन्यजीवैः समं मया सख्यं व्यवहृतम्। ततस्तेऽपि मयि सख्यमेवाचरन्ति। सिंहस्य अग्रवर्तिनि दक्षिणपादे बर्बरकण्टकं निखातमासीत्। तस्य पीडयाऽसौ पदातपदमपि गन्तुं न प्राभवत्। मया तदन्तस्त्रुटितं कण्टकं सरलतया बहिर्निष्कासितम्। असह्यवेदना केसरिणः शान्ता जाता। तद्दिनादेव सिंहयूथे मम निर्विरोधप्रवेशो जातः।
पितामह! एवमेव, येनकेनापि व्यवहारेण कार्येण वा सर्वेऽपि मया प्रभावितावशीकृताश्च। हस्ती मां पृष्ठेन वहति। गवयो धवनसुखं ददाति। वराहा अमृतमधुरान् कसेरूकन्दान् प्रयच्छन्ति। वानरा मम पृष्ठकण्डूतिं शमयन्ति। वनमहिष्यः स्तन्यं पाययन्ति।
पितामह! सर्वेऽपि ममात्मीयाः। समेषाञ्चाहमप्यात्मीयः।
-साधुसाधु! चिरञजीव वत्स! मौद्गले! पुत्रक! अरण्यपङ्केऽस्मिन् कुवलयकल्पोऽसि सम्भूतः। स्वागतं ते। सुखमुपविश। ब्रूहि सम्प्रति। किमर्थमागतोसि मत्सविधे?
-पितामह! सन्ति मम काश्चन् हृदुन्माथिन्यः पृच्छा यासामुत्तरं समाधानं वा मातुः पार्श्वे न विद्यते। अतएव सा मं भवन्तं द्रष्टुं निर्दिष्टवती।
एवं हि स्वागमनप्रयोजनं निवेद्य मौद्गलिस्तांस्तान् गूढप्रश्नान् स्वीयान् प्रास्तावीत्। भूयोऽप्यसौ प्राह- पितामह! जानाम्यहं मातुः प्रामाण्येन यद्भवान् ज्ञानविज्ञानमहासिन्धुः, करुणावरुणालयः, कृपाऽम्बोधरश्च! अतएव नैराश्यपाथोभिगमनं मां समुद्धरतु। वत्सकल्पोऽहं भवताम्। शिष्यकल्पोऽहं भवताम्।
पितामह! काऽस्ति कान्तारसंस्कृतिः? कीदृशोऽस्ति कान्तारन्यः? केन प्रकारेण प्रत्यवायबहुलेऽस्मिन् कान्तारे सुखं जीवितुं शक्यते? कथमत्र बन्धुत्वं सहिष्णुत्वं सख्यं वा स्थापयितुं शक्यते? सर्वेऽप्यत्र अन्येषां भक्षका एव दृश्यन्ते, न तावद् रक्षकाः। कस्मात्? आखुं निगिरति नागः। नागमश्नाति नकुलः। नकुलं भक्ष्यति श्येनः। श्येनं भक्षयति मकरः। परभक्षणपरम्परेयं शृङ्खलेव दृस्यते विजनेऽस्मिन्। सर्वत्राऽप्याशङ्का। सर्त्राऽपि प्रवञ्चनं षड्य़न्त्रम्। सर्वत्रापि विश्वासघातः। नकुत्राऽप्यरण्येऽस्मिन् हार्दिकी प्रीतिर्बन्धुता वा दृश्यते। सर्वेऽप्यत्र विभक्ताः पृथग्भूताः संशयापन्नाः प्रतिक्षणं शङ्काग्स्ताः प्राणभयार्ताश्च।
कथमेतत् पितामह? भवन्मुखात् किञ्चित् श्रोतुमिंच्छामि।
मौद्गलिप्रस्तावमनुश्रुत्य विस्मितो जातो वृद्धभल्लूकः। क्षणं यावदसौ तूष्णीमाश्रित्य मनसाऽचिन्त्यत् – अहो! नाऽयं बृकीगर्भजातः प्रतिभाति। अस्य बुद्धिबलन्तु मानवबुद्धिबलमनुहरति। भवतु, पश्चादस्य जन्मरहस्यं ज्ञातुं प्रयतिष्ये! परन्तु इदानीमस्य पृच्छायाः समाधानं मयाऽवश्यमेव प्रस्तोतव्यम्। भगवत्कृपासम्भावितानां पूर्वपुरुषाणामनुकम्पया प्रभवति मे बुद्धिः सर्वानपि प्रश्नान् समाधातुम्। समुचितम् पात्रमवाप्य पवित्रज्ञानं तस्मै वितरणीयमेव।
एवं मनसि सञ्चिन्त्य वृद्धभल्लूकः सप्रणयमवोचन् मौद्गलिम्।
वत्स मौद्गले! मम जीवनस्य सन्ध्यायां त्वमेको मदभीष्टतमः सम्प्राप्तोऽसि। इमामपि जगत्स्रष्टुः परमेश्वरस्य विलक्षणां कृपामेव मन्ये। अन्यथा अस्तोन्मुखं तारकमिव क्षणभङ्गुरमेव मज्जीवनम्। अद्य मरणं स्यात् श्वः परश्वो वा। एवं सति, मया सहैव मम ज्ञानसम्पदपि विलीनैवाऽभविष्यत्। परन्तु भगवत्कृपया त्वं सम्प्राप्तोऽसि। इदानीं सर्वमपि कान्ताररहस्यं तुभ्यमाख्याय सुखेन प्राणांस्त्यक्ष्यामि।
वत्स! पितामहात् पितृचरणं, पितृचरणाच्चाऽत्मानमागतमारण्यकं ज्ञानमद्य तुभ्यं प्रयच्छामि। एवमाख्यातवान् मम तातपादः कदाचिन्मां निजोत्सङ्गे कृत्वा- पुत्रक! न वयं सामान्यजातीया भल्लूकाः। वयन्तु ऋक्षपतेर्जाम्बवन्तो वंशजाता यः किलं मर्यादापुरुषोत्तमेन रामचन्द्रेणाऽपि लङ्कासमरावधौ स्वसाचिव्ये नियोजितः। तस्मादेव हरिकृपाबलेन बुद्धिरस्माकं स्फटिकनिर्मला नित्यप्रबुद्धा च।
वत्स मौद्गले! ऐकात्म्यमेव परमेश्वरस्वरूपम् अनैकात्मयञ्च सृष्टिस्वरूपम्। यदा निखिलब्रह्माण्डम् आत्मनि सङ्गोप्य जगत्स्रष्टा निष्क्रियस्तिष्ठति तदाऽसौ निर्गुणो निष्कलो निराकारो निर्विकारो वाऽभिधीयते। परन्तु यावदेवासौ आत्मगुप्तं ब्रह्माण्डं बहिर्निस्सार्य प्रतनोति सृष्टिरूपेण तदाऽसौ सगुणः सकलः साकारो वा कथ्यते।
वत्स! परम्पराया श्रुतमेव श्रावयामि। अन्यथा यत् श्रावयामि तदहमपि तत्त्वतो नाऽवगच्छामि। एवं खल्वाख्यातं मम पितृपादेन यत् सृष्टिरूपेणाऽत्मनं प्रस्तोतुं परमेश्वरः त्रिविधं सर्गं कृतवान् – वैकारिकं प्राकृतं वैकृतञ्च।
वैकारिकि सृष्टिर्देवानामासीत्। तस्यां सृष्टौ देवाः पितरः असुराः गन्धर्वा अप्सरसः सिद्धाः यक्षाश्चारणा राक्षसा भूतप्रेतपिशाचा विद्याधरकिन्नराश्चेति दशविदा आसन्।
प्राकृते सर्गे बुद्धिः अहङ्कारः महाभूतानि इन्द्रियाणि मनस्तमश्चेति षट् जायन्ते। षडिमानि तत्त्वानि समेषामेव जीवानां देवमर्त्यपशवादीनां शरीरसंरचनायां भवन्त्येव।
ततश्च समापतति वैकृतः सर्गः। अयं त्रिविधो भवति – स्थावरः तिरश्चीनः अर्वाक्स्रोतश्च। स्थावरे सर्गे वनस्पतयः औषधयः लताः त्वक्सारा वीरूधो द्रुमाश्च समायान्ति। तिरश्चिने सर्गे सप्त द्विशफाः, अष्ट एकशफाः, त्रयोदश पञ्चनकास्च जीवा गण्यन्ते। वत्स मौद्गले! गोः अजः महिषः कृष्णः सूकरः गवयः रुरुश्चेति सप्त पशवो द्विशफाः। मेषः उष्ट्रः खरः अश्वः अश्वतरः गौरः शरभश्चमरी चेति अष्टपशव एकशफा भवन्ति। एवमेव पञ्चनखेषु प्राणीषु श्वानः श्रृगाला वृका व्याघ्रा मार्जारः शशाः शल्लकाः सिंहाः कपयः गजाः कूर्माः गोधा मकराः कङ्का गृद्ध्रा शयेनाः भासा भल्लूका बर्हिणः हंसाः सारसाश्चक्रवाकाः काका उलूकादयस्च गण्यन्ते।
अर्वाक्स्रोतसि सर्गे केवलं मनुष्या एव गण्यन्ते।
एवं हि, सृष्टौ विद्यमानाः सर्वेपि गोचरा अगोचरा वा प्राणिनः परमेश्वरेणैव निर्मिताः। वत्स मौद्गले! सर्वाऽपि सृष्टिः देवमानवपशुपक्षिजन्तुर्कृमिवनस्पतिमयी एकस्यैव जगन्निर्मातुः करूणाया आकाङ्क्षाया वाऽभिव्यक्तिः। इदमेव सृष्टिरहस्यम्। विवेकिनो बुद्धिमन्तो जनाः समष्टिं पश्यन्ति, मूर्खाः पुनर्व्यष्टिम्। अयमेव भेदः अस्यां सृष्टौ वत्स!
यथा मानव समाजो ग्रामेषु नगरेषु वा निवसति तथैव पशुसमाजः कान्तारेषु वसति। एवं सत्यपि केचन मनुष्या वनवासिनोऽपि जायन्ते यथा ऋषयो मुनयो भिल्लाः किरातादयः। केचन पशवोऽपि ग्रामवासिनो भवन्ति यथा गावो महिष्य उष्ट्राः गजा अश्वा मेषा गर्दभा अजाः। केचित्खेचरा अपि मानव-सहचरा जायन्ते यथा शुकाः सारिकास्तित्तिरा वर्तका हंसास्ताम्रचूडादयः।
वत्स मौद्गले! अत्यन्तमेव पवित्रमिदं पौराणिकमाख्यानं यदहं त्वां श्रावयामि। पश्य, देवा दानवा दैत्या राक्षसाः पशवः पक्षिणो वनस्पतयः – सर्वेपि जीवा एकस्मादेव प्रजापतेः महर्षिकश्यपात्सञ्जाता इति निगदति पुराणम्।
महर्षे कश्यपस्य त्रयोदशपत्न्य आसन्। एता सर्वा एव दक्षप्रजापतेः पुत्र्यः। अदितिः दितिः दनुः काष्ठारिष्टा सुरसा इला मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिश्चेतिनामानि तासाम्। अदितेः द्वादशाऽदित्याः सम्मुत्पन्ना इन्द्रसूर्यादयः। दितेरदैत्यो समुत्पन्नौ हिरण्याक्षहिरण्यकशिपू। दनोर्दानवजाता अष्टाविंशतिसंख्याका वृषपर्वादयः। काष्ठातो द्विशफेतराः पशवो जाताः। अरिष्टाया गन्धर्वाः), सुरसाया यातुधाना, मुनेश्चाऽप्यरसः प्रादुर्भूताः। सर्वेऽपि भूरुहा वनस्पतयः इलायाः सन्ततयः। क्रोधवशातो दन्दशूकादयस्सरीसृपास्ताम्रातः श्येनगृंद्ध्रादयः पक्षिणस्सञ्जाताः।
सर्वेऽपि द्विशफाः पशवो नोमहिषादयः सुरभेः समुत्पन्नाः। सरमातस्सारमेयाः सर्वेऽप्यन्य श्वापदाः सिंहव्याघ्रचित्रतरक्षुवृकश्रृगालाद सञ्जाताः। तिमेश्च गर्भात् जलचराः प्राणिनः सर्वेऽपि सम्भूताः।
वत्स मौद्गले! कस्यपस्यैव पत्नी कद्रूः शेषानन्तवासुकीकर्कोटकाऽर्यकतक्षकादीनाम् अष्टनागानां जन्मदात्री। अपरा च आर्या विनता पक्षिराजस्य गरुडस्य सूर्यसारथेररुणस्य च जन्मदीत्रीति श्रूयते।
एवं हि सर्वेऽप्यारण्यकाः सगोत्रा एव। देवानांसुराणाम् मानवानाञ्च बन्धवस्सर्वे। समेषां प्राणिनामेक एव सङ्कल्पयिता, एक एव जन्मदाता। शरीरसंरचनाऽपि समेषां समानतत्त्व संघटिता। परन्तु बुद्धिवैषम्यात् केचिद् विवेकिनः सञ्जाता उचिताऽनुचितनिर्णयसमर्थाः। केचित्पुनः अविकसितबुद्धयो विवेकहीना गंधमात्रसंवेदिनो निहितेन्द्रियाश्चाऽतिष्ठन्।
मौद्गले! पुत्रक! त्वया पृष्टमासीतकारणं कान्तारवैषम्यस्य! तदिदानीं विशदीकरोमि! वत्स! पश्य, मानवाः स्वभावादेव बुद्धिगर्विता विवेकवन्तश्च। मानवानां समाजे शरीरबलस्य न किमपि महत्त्वम्। शरीरबलं न तत्र भवति निर्णायकम्। तस्मादेव मानवसमाजे प्रभवति बन्धुत्वं सख्यं सहभावश्च। परन्तु पशूनां समाजेऽत्रवने वत्स! शरीरबलमेव प्रधानम्। तदेव भवति निर्णायकमत्र। यौऽत्र यावदेव बलवान, यावदेव नृशंसः, षड्यन्त्रपारङ्गतः, यावदेव छलच्छद्मनिपुणः क्रूरश्च तावदेव सफलो विक्रमसम्पन्नो महामान्यश्च।
वत्स! कान्तार रहस्यं विवृणोमि यत्त्वया पृष्टमासीत्। बन्धुत्वं सख्यं वा भवत्येव न्यायस्य सहभावस्य वा मूलम्। परन्तु शरीरबलं भवत्यन्यायस्य मूलम्। यतो हि कान्तारे शरीरबलमात्रं प्रभवति तस्मादेवात्र पदे-पदेऽन्यायो दृश्यते। बलवानत्र निर्बलं पीडयति, उद्वेजयति, भक्षयति च। मानव समाजे बलवतां कृते निर्बला अनुकम्पनीयाः, सम्भावनीयाश्च। परन्तु कान्तारेऽस्मिन् निर्बला बलवतां भक्ष्यभूताः। तस्मादेव वराका निर्बला आत्मत्राणाय धावन्तो दृस्यन्ते।
त्वं सति, कथमत्र जङ्गले समत्वं सख्यं सुकं वा स्थापितं स्यात्? वत्स! त्व मानव इव विवेक सम्पन्नः परिलक्ष्यसे। परिणता तव धिषणा। प्रबुद्धस्तव उचिताऽनुचितनिर्णयसक्षमो विवेकः। सहानुभूतिसंवलितं तव हृदयम्।
तस्मादेवारण्यव्याप्तमन्यायम् अधर्मं परपीडनं वैषम्यञ्चावलोक्य भृसं दूयसे। निश्चप्रचं पशुसमाजसदस्यः सन्नपि त्वं मनुष्य इव सहृदयोऽसि, करुणामयोऽसि।
वत्स! त्वत्प्रयत्नैररण्यमिदं परिवर्तिष्यते। प्रयतस्व समत्वसंस्थापनाय। प्रयतस्व न्यायधर्मसंस्थापनाय। प्रयतस्व वत्स! बन्धुत्वसख्यसहभावसंस्थापनाय। लप्स्यसे साफल्यम्। इयमेव ममाशीः। इयमेव मम शुभाशंसा। अहं सर्वदैव तव साहाय्यं विधास्ये। स्वस्ति ते!
इत्युक्त्वा मौनमुपगतवति ऋक्षपतौ मौद्गलिस्तं सविनयं प्रणम्य मातृसमीपमागन्तुं सन्नद्धोऽभूत्।
यथाकालं पुनरपि भवन्तं द्रक्ष्यामिति निवेद्य, दूरतो भूयोऽप्यभिवाद्य मौद्गलिः प्रतस्थे। येन मार्गेण गतस्तेनैव स्ववसतिमुपावर्तत।