।।३।।
अथाऽपरेद्युः प्रत्युषस्येव सुकर्णाभिधः शशको मौद्गलिमुपागतः। नातिदूरे आसीत्तस्य बिलं यस्मिन्नसौ निवसति स्म। तस्याह्वानं श्रुत्वैव मौद्गलिर्भूविवराद् बहिरागतः। सुकर्णं दृष्ट्वा प्रभात एव स विस्मितो जातः।
-भद्र सुकर्ण! अपि कुशलम्? उद्विग्न इव परिलक्ष्यसे। इयति प्रभाते समागतः संशयं मच्चित्ते जनयसि! मौद्गलिरपृछ्छत्।
-मौद्गले! अरण्ये द्वित्रैरेव दिवसैः भीषणयुद्ध भविता। श्रुतं त्वया न वा?
युद्धम्? कीदृशं युद्धम्? कः खलु केन सह योत्स्यते? किमर्थं योत्स्यते! मौद्गलिः साश्चर्यं प्रश्नाननेकान अपृच्छत्।
सुकर्णोऽवदत् – मौद्गले! प्राग् विज्ञापितं त्वया यदिदानीं दशवर्षदेशीयोऽसि जातः। परन्त्वस्मिन् कान्तारेऽनेके वर्षिष्ठा अपि वर्तन्ते यथा महाबलनामाहस्ति। स खलु षष्टिवर्षदेशीयौ वर्तते। एवमेव सर्वज्ञनामा भल्लूकमुख्योऽपि पञ्चषष्टिवर्षदेशीय आख्यायते। मन्दगाख्योऽजगरस्तु महाबलादपि समधिकवयाः। स्थविरानाम्नी गोधाऽपि कान्तारेऽस्मिन् स्त्रीजातीयासु ज्येष्ठतामा प्रोच्यते। ततश्च पञ्चमो वयोवृद्धः परिगण्यते सुदृष्टिनामा गृद्ध्रराजः।
मौद्गले! एते सर्वेऽपि कान्तारकथाविशेषज्ञाः। ज्येष्टत्वादेते सर्वेऽपि व्यतीतघटनाः सर्वाः सम्यग्जानन्ति। यदा-यदा वनेऽस्मिन् सङ्कटं जायते, विवादः समुद्भवति युद्धस्थितिर्वा समुत्तिष्ठति तदा एत एव पञ्चा रक्षका भवनति। तस्मादेव कान्तारपञ्चायत्तस्य एते पञ्चपरमेश्वराः स्वीक्रियन्ते। पुरातनानि सर्वाण्यपि युद्धानि पञ्चैते जानन्ति प्रत्यक्षदर्शित्वात्।
इदानीम्पुनर्युद्धस्य विभीषिका समुत्था। परन्तु इतः प्राक् भवादृशः कश्चिद् महासत्त्वः काननेऽस्मिन् नासीत्। सम्प्रति भवान् वर्तते निखिलवनवासिनेत्रतारकभूतः। अतएव युद्धमिदं प्रारम्भात्पूर्वमेव समापयितव्यं भवत्प्रयत्नैः। अन्यथा उभयोः सेनयोः शतमिता श्वापदाः पशवश्च निरर्थकमेव सन्त्रसिष्यन्ति, नङ्क्ष्यन्ति वा।
सुकर्ण! भद्र! सर्वमाख्यातं त्वया पुरातनं वृत्तम्। परन्तु समासन्नमिदं युद्धं कयोर्मध्ये किमर्थं वा भविष्यतीति नाऽख्यातं त्वया। अज्ञात्वा युद्धस्य पृष्ठभूमिं किमहं करिष्यामि? मौद्गलिः सोत्कण्मपृच्छत्।
मौद्गले! अतीतकालेऽपि कान्तारेऽस्मिन् प्रत्येकं युद्धकारणमेव जातम्। इदानीन्तनं युद्धमपि तादृशमेव प्रतीयते।
भद्र! यथामति त्वामहमाख्यास्यामि। कदाचिन्मया प्रच्छन्नरीतया सिंहस्यकथनं श्रुतम्। कथाचिन्महिषाणां यूथे प्रविश्य, कदाचिच्च वराः यूथमनुसृत्य किञ्चिच्छ्रुतम्। कदाचित् काका क्रोञ्चाः कलविङ्का शुकाश्चटका वा स्वयमुपेत्य मां विज्ञापितवन्तः। एवं हि संग्रहवृत्त्यैव समाचारा मया सङ्कलिताः। तदिदानीं श्रावयामि।
भद्र मौद्गले! न तादृशं प्राणान्तकं वैरमन्ययोः कयोश्चन श्वापदयोर्मध्ये यादृसं सिंहव्याघ्रयोर्मध्ये। अनयोर्वैरं पितृपितामहपरम्पराऽनुगतं सत् शाश्वतिकं प्रतीयते। इदं सुविशालं कान्तारं भवानवेक्षत एव। अस्योत्तरदक्षिणदिशयोः पर्वतानां रन्ध्रबहुला दरीनिचिता गह्वरसङ्कुला शतमिताः श्रृंखला वर्तन्ते यासु लक्षकोटिसंख्याकाः श्वापदाः पशवः पक्षिणः सरीसृपा कृमयस्च निवसन्ति।
प्रायेणोत्तरदिशातो दक्षिणदिशां यावत् दशक्रोशव्यायतमिदं विशालं वनमर्धभागेन पृथक्करोति विभक्तानाम्नी नदी। नद्यामस्यां भयावहा बृहदाकारा नक्रा मकरा महामत्स्या शिंशुमारा कच्छपाश्च स्वीयैः कुटुम्बिभिस्सार्धं सुखं निवसन्ति। विभक्ता, पश्चिमदिशातः कान्तारे प्रविश्य, निखिलमेव वनं द्विधा विभजन्ति, प्रच्यां सङ्गच्छते बहुलताख्यां महानदीम्। ताननस्य पस्चिमोत्तरभागे पर्वतोपकण्ठस्थे वेणुवने भल्लूकानां वसतिः। ततश्च नद्यास्तटे पश्चिमदिशायामेव वनमहिषा गवया जीर्णशफाः , जवहरा विवधजातीया हरिणाश्च निवसन्ति। विभक्ताया दक्षिणभाग एव वर्तते क्रोशमितं व्यायतं सजलं सरो यस्मिन् हंसाः कारण्डवाः बकाष्टिट्टिभा वर्तकाः क्रोञ्चा अन्ये च वैदेशिका जलपक्षिणो निवसन्ति।
शाकाहारिणः पशवः प्रायेण स्थानं परिवर्तयन्तो दृश्यन्ते। परन्तु वनस्थो दक्षिणभागः प्रच्छायवृक्षसन्ततिप्राचुर्यात् पक्षिभ्यो द्रुमवासिभ्यो मर्कटादिजीवेभ्यस्समधिकतरं रोचते। श्रृगाला लोपाका लकुटव्याघ्राः शल्लकाः सूकराः गोधाः विषकर्परा भुजङ्गा अजगरादयश्च यथारूचि स्वाभिमतेषु स्थानेषु निवसन्ति।
मौद्गले! निवासव्यवस्थेयं वनौकसां जीवानां मया वर्णिता। तथापि व्यवस्थाया अस्या न किमपि विशिष्टं महत्त्वम्। महत्त्वं तु वर्तते वनेनस्मिन् द्वयोर्वसत्योरेव। प्रथमा तावत्सिहवसतिः। अपरा च व्याघ्र वसतिः। सिंहवसतिर्वर्तते औदीच्यपर्वतगह्वरे यत्र निवसति सटाभारजटिलो वज्रदन्तःपार्वणचन्द्रनेत्रश्छुरिकानखः पञ्चदशमितैगृहसदस्यैः परिवृतो दुर्गमाख्यः सिंहः। व्याग्र वसतिश्च वर्तते दक्षिणपर्वतगह्वरे यत्र तिष्ठति पवनातिजवस्तीक्ष्णद्रंष्ट्रो वज्राङ्गनामा व्याघ्रराजो यस्याऽनुगता वर्ततन्ते सर्वेऽपि चित्रकास्तरक्षवश्चापि। व्याघ्रस्यापि कुटुम्बे प्रायेण दशमिताः सदस्या वर्तन्ते।
यथा प्रागुक्तं मया यदनयोर्द्वयोः शाश्वतिकं वैरं वर्तते। यद्यपि कान्तारस्य बृहत्क्षेत्रत्वादुभयोः सङ्गमनं प्रायेण नैव जायते, संयोगवशाद्वा कदाचिदेव जायते। तथापि साम्मुख्ये सञ्जाते सत्युभयोः युद्धमनिवार्यं भवति। प्रायेणोभावेव अन्यतरं दृष्ट्वाऽपि तन्मार्गं जहतः। एवं सत्यपि जातु संघट्टनं भवत्येवाऽपरिहार्यम्।
प्रायेण व्याघ्रराजो वज्राङ्ग आत्मानं विभक्ताया दक्षिणभागस्याधिपतिं मन्यते। तत्क्षेत्रवासिनां समेषां प्राणीनां रक्षकमप्यात्मानमवगच्छति। मृगेन्द्रमुखयो दुर्गमः पुनः आत्मनं न केवलं विभक्ताया उत्तरभागस्यैव, अपितु समग्रस्यापि कान्तारस्याधिपतिं मनुते। व्याघ्रमसौ हीनबलं तुच्छविक्रमं चित्रकतरक्षुनिर्विशेषमेव पश्यति। व्यघ्रोऽपि सिंहगर्वमसहमान आत्मानं प्रति तस्य दुर्भावं सम्यग्जानन् तं तृणाय मन्यते।
दक्षिणकान्तारे सुखं निवसति कस्चिज्जम्बुकपरिवारः। अस्य कुटुम्बमुख्यो द्विजिह्वसंज्ञो व्याघ्रस्यातीव प्रियोऽनुचरो वशंवदश्च। तस्य त्रयः पुत्रा वर्तन्ते। कुटुम्बिभिः प्रतिवेशिकैश्च सार्धं निर्विघ्नं निवसन् द्विजिह्वोऽकस्मादेव सङ्कटापन्नो जातः। तस्य सङ्कटमेव समासन्नयुद्धस्य कारणं जातम्।
-द्विजिह्व सङ्कटं युद्धस्य कारणं जातम्? सुकर्ण! नावगच्छामि। मौद्गलिः सवितर्कमभणत्।
-तदेव सविस्तरं श्रावयामि। सुकर्णोऽवदत्।
कस्मिंश्चिद्दिवसे उत्तरदक्षिणभागयोः सर्वेऽपि श्रृगाला मृतमहिषं भक्षितुं पुञ्जीभूताः। द्विजिह्वोऽपि तत्र सपत्नीकः त्रिभिः पुत्रैस्तिसृभिः स्नुषाभिश्च सार्धं गतवानासीत्। उदरम्भरि भोजनं निर्वर्त्य सर्वेऽपि श्रृगाला मिथो मिलित्वा क्रीडितुमारब्धवन्तः। गन्धमाघ्राय ते स्वपरिचंयं यौनसम्बन्धञ्चापि दृढीकर्तुं यत्नपराः सञ्जाताः। तावदेव विभक्तोत्तरभागात्समागतः वल्लभनामा कश्चित्सुदर्शनो बलिष्ठः प्रणयिनीप्रसादनचतुरो जम्बुको द्विजिह्वस्य कनिष्ठां पुत्रवधुमेकाकिनीं ददर्श। यौवनभारभङ्गुरा तरललोचना कासकुसुमपुच्छा मसृणपृष्ठरोमावलीकाऽसौ जम्बुकी, प्रथमदर्शन एव वल्लभस्य चिन्तं हृतवती। वल्लभोऽपि तामनूढां ज्ञात्वाऽनुकूलयितुकामस्तदन्तिकमुपेत्य नेत्रयुगलं विस्तार्य समुद्ग्रीवस्सन् दक्षिणपादमसक-च्चालयन् स्वकीयस्मरभावमिङ्गिताकारचेष्टाभिः प्रतकाशितवान्। द्विजिह्वस्नुषा तु तं सुदर्शनजम्बुकयुवकं दृष्ट्वैव मदविह्वलाऽऽसीत्। साऽपि तमभिनन्दति स्वीयं स्मरभावं प्रकटितवती। ततश्च वल्लभस्तां कन्दर्पोन्मदां जम्बुकसुन्दरीं जिह्वया सर्वाङ्गेषु भूयोभूयः परिलिहन् तदगुह्याङ्गञ्च जिघ्रन स्वदमानश्च तां वेपथुमतीं कृतवान्।
एवं हि भगवतः पञ्चशरस्याऽमोघप्रभावादुभावपि क्षणेनैव समचित्तावजायताम्। वल्लभोऽपि रतिनिमित्तमेकान्तं मार्गयमाणस्तां विभक्तापारं स्वक्षेत्रमानीय यथारूचि सम्भुक्तवान्। पश्चाच्च तामात्मवसतिं नीतवान्। ततः प्रभृत्येव तौ दम्पतीभूय मितस्सहधर्माचरणं प्रारब्धवन्तौ।
अथ भोजनान्ते, विसर्जनवेलायां सर्वेऽपि श्रृगालाः सम्भूतहुङ्कारैराकाशविवरं सम्पूरयन्तः स्वावासं प्रति प्रस्थातुं समुद्यता अभवन्। परन्तु कनिष्ठस्नुषा द्विजिह्वस्य न क्वाप्यवलोकिता। रात्रिमापतितं दृष्ट्वा द्विजिह्वः सपरिवारः स्ववसतिमुपावर्तत। कतिपयदिवसानन्तरमसौ विज्ञापितः केनापि ज्ञातिना यत्तदीया स्नुषां सिंहक्षेत्रवासिनो वल्लभस्य सहचरी जाता।
ततश्च पुत्रैस्त्रिभिः पञ्चषैश्च सहायैः सार्धं द्विजिह्वस्तामनुनेतुं सिंहक्षेत्रंगतवान्। स्वकीयां स्नुषां बहुशोऽनुनीतवान्। वल्लभमपि तां निर्यातयितुं पौनः पुन्येन प्राबोधयत्। परन्तु न किल वल्लभः किञ्चिदुक्तवान्, न चापि तत्सहचरी तं परित्यज्य द्विजिह्वेन सहाऽगन्तुं समुद्यताऽभूत्। ततश्च ससहायो द्विजिह्वः कल्कनं प्रारब्धवान् यदवलोक्य सर्वेऽपि वल्लभपक्षीयाः शृगाला संघटिता जाताः। तेषां समेषां भूयसीं संख्यादृष्ट्वैव मध्येसमवायं तिरस्कृतो, भयभीतो द्विजिह्वो व्याघ्रक्षेत्रमुपावर्तत।
प्रियाविरहितो कनिष्ठपुत्रो द्विजिह्वस्य मुषित इव, लुण्ठित इव, विक्षिप्त इव जातः। नाऽसौ किमप्यश्नाति, न कमपि लपति, न चापि भूविवराद् बहिरायाति। हृदयसन्तापेऽसह्ये सञ्जाते सति, निभृतनिभृतं भूविवरद्वारान्निष्क्रम्य कदाचित् प्रदोषे, कदाचिन्निशीथे, कदाचिदपररात्रौ, कदाचित्सूर्योदयात्प्रागेव प्रोथमुत्थाप्य नेत्रे च निमील्य सहचरीञ्च संस्मृत्य करुणकरुणं परिदेवतेस्म। कनिष्ठपुत्रस्येमां स्मरव्यथामवलोक्य द्विजिह्वस्य तद्भार्यायाश्च हृदयं भिनत्तिस्म।
ततश्चैकस्मिन् दिनेऽसौ स्वाधिपतिं वज्राङ्गमासादितवान्। चिरादागतं सम्प्रेक्ष्ये स्ववशंवदं सेवकं द्विजिह्वं व्याघ्रेश्वरोऽतीव प्रीतोऽभूत्।
-स्वागतं स्वागतं ते द्विजिह्व! भद्र! वृद्धतामुपेत्य सकृदपि मां द्रष्टुं नायासि? किमत्र कारणम्? वज्राङ्गोऽपृच्छत्। द्विजिह्वोऽनुक्त्वैव किञ्चिद् करुणरोदनं प्रारभत्। वज्राङ्गो विस्मितो जातः।
आसीच्च तस्य चेतसि – हन्त! बुद्धिबले बृहस्पतिमप्यधरयन्, षड्यन्त्रप्रसारे शकुनिमपि न्यक्कुर्वन् कर्णोपजापकर्मणि च मन्थरामपि ह्रेपयन् सुहृल्लाभसुहृद्भेदोपक्रमे च स्वपूर्ववंश्यौ करटकदमनकावपि लघूकुर्वन् द्विजिह्वोऽयं यदद्य मामासाद्य विवश इव, दीन इव, कान्दिशीक इव, असहाय इव रोदिति, तमावश्यमेव केनचित् कारणेन भवितव्यं नियत सेवकोऽयं मम विगत युद्धेषु महत्साहाय्यमनुष्ठितमनेन भेदनीतिपारङ्गतत्वात् सर्वदैवाऽयं मम दक्षिणबाहु सञ्जातः। सम्प्रति वकारोऽयं वृद्धः सञ्जातः। यथेष्टं पर्यटितुमपि न प्रभवति। तथाप्यनेन त्रयोऽपि निजात्मजा मत्परिचर्यायां नियोजिताः। तन्मयाऽवश्यमेवाऽस्य सन्तापकारणं प्रष्टव्यम्।
-द्विजिह्वः! भद्र! किमेवं कातरीभूय रोदिषि? मयि जीवति, केन तेऽप्रियं कृतम्? स्वसन्तापकारणं भण। व्याघ्रोऽपृच्छत्।
-स्वामिन्! किं ब्रवीमि। महामृत्युर्न मां निगृह्णातीति कृत्वाऽद्य भवत्पुरतो रोदिमि। सहिक्कमवदत् द्विजिह्वः।
-हंहो, मृत्यौ कथमीदृशी रतिः? सम्प्रत्यपि नाऽतिहीनबलोऽवलोक्यसे! न चापि रोगजर्जरः। तत्कतं वरयसि मरणम्?
-अन्नदातः! अवमतस्य कदर्थितस्य मरणमेव वरम्।
-द्विजिह्वः! केनाऽवमतोऽसि? केन कदर्थितोऽसि? भण, त्वरितं भण! तवाऽपमानो ममैवाऽपमानो भद्र! व्याघ्रोऽपृच्छत्।
द्विजिह्वः सर्वमपि वृतान्तं, संवर्ध्य साऽतिशयमन्यथाकृत्य निवेदितवान्। निवेदनान्ते भूयोऽपि रुदितप्रायैः स्वरैरभणत् स्वामिन्! हतकेन वल्लभेन मम स्नुषाऽपहृता। अनेनाऽपहरणेन भवतामप्यैश्वर्यं खण्डितं तेन। भवदनुशासनं कलङ्कितं तेन। अद्य मम स्नुषाऽपहृता। श्वोनपरा काऽप्यपहरिष्यते। एवं हि, सर्वताऽरक्षितो जातो भवद्राज्यपरिधिः। स्वामिन्! नाऽहं स्वाऽपमानं चिन्तयामि, न वा तेन कथमपि दूये। परन्तु भवदीयं प्रतापमधंरीकृतं दृष्ट्वा भृंशं तप्यते मन्मनः।
द्विजिह्वस्य व्यथाकथां श्रुत्वा वज्राङ्गः क्रोधाऽभिभूतो जातः। आसीच्च तस्य विवेकोपहतचेतसी – हन्त! सत्यमेव महत्यवमानना मे जाता। मद्राज्यपरिधेः काऽपि जम्बुकवधूः सिंहाऽनुचरेणाऽपहृता स्यात् सबलात्कारं, किमतः परं मम लघुकरणम्? अनया घटनया तु विजयमहोत्सवं मंस्यन्तेदुर्गमप्रजाभूताः शृगालाः। तन्नाऽयं व्यवहारः कथमपि मर्षणीयः। प्रथमं तावन्नीतिमार्गेण दुर्गमं तत्किङ्करं वल्लभञ्चावगमयितुं प्रयतिष्ये। तथापि यदि सत्पथं तौ नाऽरोहतस्तर्हि समराङ्गणमेव निर्णायकं भविष्यति।
स्वचिन्तितं द्विजिह्वं विज्ञाप्य, बहुशस्तं सान्त्वयित्वा च वज्राङ्गस्तत्क्षणमेव वज्रचञ्चुनामानं स्वप्रणिधिं काकमाहूतवान्। सोऽपि स्वाम्यादेशमवाप्य सर्वाणि कार्याण्यपहाय द्विगुणितवेगेनोड्डीयमानो वज्राङ्गमासादितवान्।
-भद्र वज्रचञ्चो! पत्रं मदीयं त्वयेदानीमेव सिंहाय दुर्गमाय देयम्।
-यथाज्ञापयति स्वामी। सन्नद्धोऽस्मि।
सविनयमेवमुक्त्वा वज्राङ्गपत्रं त्रोटीपुटेनाऽऽकुञ्च्य वज्रचञ्चु प्रतस्थे। पशुपक्षिश्वापदवसतिं परिहरन्, मध्यमगत्या चाकाशे समुत्पतन् काकोऽसौ होरामात्रेणैव विभक्तां पारयित्वा दुर्गमराज्यक्षेत्रमाससाद। क्षणं यावदवतीर्य भुवं वापीनीरेणकण्ठशोषिणीं तृषं स्वीयां शमयित्वाऽयत्नोपनतमेकं मृतं मूषिकं भक्षयित्वा नवीकृतचेतनो भूयोऽप्यवाप्तबलो वज्राङ्गः सोत्साहं पुनरूदडीयत, होरावसानं यावच्च दुर्गमभवनमासादितवान्।
दुर्गमसभामसौ दृष्ट्वा विस्मितो जातः। पर्वतमालायामस्यां प्रायेण विंशतिमिता विस्तीर्णकन्दराआसन् यत्राऽसीत् बर्बरकण्ठीरवाणां वसतिः। मध्यकन्दरायां दुर्गमस्य सभाभवनमासीद् यत्राऽसौ विशालस्फटिकशिलासने समुपविष्ट आसीत्। तत्समीपमेव यथोचितस्थानेषु निषण्णा आसन् भल्लूकवृकश्रृगालवराहादिसामन्ताः। दक्षिणभागे सभायाः सरसनिपानमृत्तिकोपलिप्तशृङ्गंमण्डला लुलाया, वामभागे च अश्वानप्यतिशयानाःश्लक्ष्णकृत्तयो गवयास्तिष्ठन्ति स्म। मध्यभागेऽन्ये चाऽप्यारण्यकाः प्रजा आसन्। अतिप्रांशुत्वात्कन्दरायां स्थातुमक्षमा जीर्णशफा बहिरेवाऽतिष्ठन्। परमप्रियाऽनुचरोदुर्गमस्य दहनाक्षनामा कौशिककुलकौस्तुभमणिंस्तदन्तिक एव समुपविष्ट आसीत्। तावदेव समायातो दौवारिको दुर्मुकाख्यो वृद्धलकुटव्यघ्रः।
-जयतु जयतु महाराजः। देव! व्याघ्रपत्रमादायवज्रचञ्चुस्समागतो दक्षिणकान्तारात्। श्रुत्वा देवः प्रमाणम्।
-दौवारिक! तमविलम्बं प्रवेशय। दुर्गमोऽवदत्।
ततश्व, क्षणेनैव काकस्सभायामुपस्थाय पत्रं दुर्गमामात्याय भल्लूकाय सूचीनखनाम्नेऽर्पितवान्। राजाज्ञया तत्पत्रं सर्वजनसमक्षमेव वाचितवान् सूचीनखः।
स्वस्ति। व्याघ्रपतिर्वज्राङ्गो राजोचितमभिवादनं निवेद्य, विज्ञापयति सिंहपतिं दुर्गमंयद्भवत्सेवकेन केनापि दुर्लभनाम्ना जम्बुकेन, छलच्छंद्ममायोपाचारैश्च प्रलोभ्याऽस्मदभीष्टतमसेवकस्य वयोवृद्धस्य जम्बुकप्रमुखस्य द्विजिह्वस्य सरलहृदया स्नुषाऽपहृता दस्युवृत्तया। तन्नोचितं कथमपि। तं क्षुद्रकर्माणं दुर्वृत्तं जम्बुकापसदं प्रबोध्य, द्विजिह्वस्नुषाञ्च सादरं समर्प्य प्रजापालनपरं स्वकीयं राजधर्मं चरितार्थयतु भवानिति प्रार्थ्यते।
पत्राशयं श्रुत्वा दुर्गमोऽमात्यं सूचीनखमपृच्छत् – किमत्र करणीयम्? सोऽप्यवदत् – स्वामिन्! सर्वसम्मत्यैव सनूदर्भोऽयं निर्णेयः तदिदानीं पत्रसन्देशहरोऽयं प्रयातु। द्वित्रार्दिनैः पत्रस्यास्य समुचितमुत्तरं प्रेषयिष्यते। अमात्यप्रस्तावमभिनन्दनम् दुर्गमो वज्रचञ्चुमवोचत् –
-भद्र! मद्वचनाद् विज्ञापय व्याघ्रं यन्निखिलकान्ताराधिपतिर्दुर्गमेश्वरः श्रुतवान् पत्रवृत्तम्। व्याघ्राश्चित्रकास्तरक्षवो लकुटव्याग्राश्चेति सर्वेऽपि ममैव वशंवदाः सामन्ताः। तन्नाऽत्र पृथग् राजबुद्धिः करणीयाऽऽत्मविषये। यथा द्विजिह्वस्नुषापहारको मम प्रजाभूतस्तथैव द्विजिह्वोऽपि। अतएवोभयोरपि हितं मयैव चिन्तनीयं सम्पादनीयञ्च।
वज्रचञ्चो! घटनामिमां परमार्थतो विमृश्य द्वित्रैरेव दिनैः स्वनिर्णयमहं प्रेषयिष्ये सम्प्रति गच्छ त्वं यथासुखम्।
अथाऽपसृते वज्रचञ्चो दुर्गमस्सूचीनखमवोचत् – अतिजटिलेयं समस्याऽपतिता। तदविलम्बं जम्बुकयूथं सुदुर्लभमाकार्य सत्यान्वेषणं करणीयम्। अन्यथा जानात्येव भवान् यत्सर्वमपि वैरं, सर्वमपि युद्धं, भवत्येव रमणीमूलम्। क्वचिदेकस्य दुर्लभस्य दुराचरणेन समग्रमेव प्रजामण्डलं सङ्कटापन्नं न भवेत्। अतएव श्वस्तन्यां सभायां स्वपक्षं स्थापयितुं दुर्लभस्समायात्विति मन्निदेशादसौ विज्ञापनीयः। इत्युक्त्वैव दुर्गस्सभां परिसमाप्य स्वकन्धरासौधं प्राविशत्। वज्रचञ्चुरपि यात्रामार्गे यथारूचि विश्राम्यन्, यत्किचिदप्युपलब्दं भक्ष्यमश्नन्, पति मिलितान् नकुलकच्छपशशकादीन् कुशलवार्ताभिः परिचिन्वन् सन्ध्यां यावत् स्वस्थानमुपावर्तत।
अथ वज्रचञ्चो प्रस्थिते सति महामात्यस्सूचीनखो राजप्रणिधिं दहनाक्षमादिदेश सभायोजनविषये यद् – भद्र! रात्रावेव सर्वेऽपि सामन्ताः प्रजामुख्या विविधकुलवृद्धाश्च त्वया विज्ञापनीयाः। दुर्लभमपि सप्तनीकं सविशेषमाह्वय सभायामात्मानमुपस्थापयितुम्।
अथाऽन्येद्युर्मध्याह्नकाले दुर्गमेश्वरसिलाभवने सभाऽऽयोजिता। सर्वेऽपि श्वापदा वन्यजीवाश्चाऽन्ये यथावसरमुपस्थिताः। महाबलानुयायिनः करिणः करिण्यः कलभाः, मर्मज्ञाऽनुगताः प्रौढा युवानश्च भल्लूकाः, सुदृष्टिप्रमुकाश्चिल्लश्येनकङ्कगृद्ध्रा मन्दगप्रेषिता द्वित्रास्तत्कुटुम्बिनोऽजगरा मध्यमवयसः, स्थविरानुगताश्च गोधाः काश्चन, भूयासंश्चान्ये खेचरा जलचरास्तस्यां जनसभायां समुपस्थिता अभूवन्।
ततश्च राजाज्ञया सर्वप्रथमं महामात्यः सूचीनकः सर्वमपि घटनाचक्रम् आद्योपान्तं वर्णितवान्। तदन्तरमसौ दुर्लभमाह्वयत् स्वपक्षं प्रस्तोतुम्।
दुर्लभोऽवोचत् – स्वामिन्! न मया किमप्यपराद्धम्। गन्धजीविनो भवन्ति पशवः। गन्धेनैव मिथस्सौहृदं रतिव्यापारं साहच्चर्यञ्च निर्वहन्ति। तदेव मयाऽपि कृतम्। मत्सहचरी द्विजिह्वस्य स्नुषा, तत्पुत्रस्यार्दाङ्गिनी चेत्यपि न मया ज्ञातम्। मत्सहचर्यपि स्वीयं पूर्वसम्बन्धं नाख्यातवती। मदेककाम्यामेव तां मत्वा तत्परोऽहमभवम्।
भवन्तस्सर्वेऽपि वयोवृद्धा ज्ञानवृद्धा, साक्षात्कृतधर्माश्च। लघुना मुखेन महत्तथ्यं प्रकाशयन्नाहं वरो लक्ष्ये। तथाप्येतावदेव निवेदयितुमीहे यदिमे मर्त्यसमाजोचिताः सम्बन्धाः वाग्दत्तापरीणिताभगिनीभ्रातृजायाप्रभृतयन श्वापदानां पशूनां वा समाजे मान्या भवन्ति। मत्सहचरी न स्वप्नेऽपि द्विजिह्वं द्विजिह्वपुत्रं वा स्मरति।
स्वामिन्! सा मय्यतितरामनुरक्ता। अहमपि तस्यामनुरक्तः। भवत्संरक्षणे सुखिनावावाम्। अहं स्वभार्यां भोजयितुं भोक्तुं रमयितुञ्च पूर्णसमर्थोऽस्मि। सा मे द्वितीयमिव जीवितम्। सा मे प्राणवल्लभा। नाऽहं तदितरस्यां कस्याञ्चिल्लोलः।
न मया कथमपि भवदैश्वर्यं न्यक्कृतं न चाप्यनेन व्यवहारेण भवन्महिमाऽपि लघूकृतः। तदावां महाराजेन, बन्धुबान्धवैश्च संरक्षणीयौ।
इत्युक्त्वैव दुर्लभोऽखिलां सभां प्रणम्य मञ्चादवततार।
ततश्चामात्येन राजाज्ञासङ्केतितेनाऽभ्यर्थिता महाबलमन्दगसुदृष्टिप्रमुखाः पञ्चषा अपरेऽपि प्रजाप्रतिनिधयः स्वीयान् विचारान् प्रकटितवन्तः। परन्तु प्रायेण सर्वेऽपि दुर्लभाचरणमभिनन्दितवन्तः। पसुसमाजोचितमेव व्यवहारं सम्पादयतो दुर्लभस्य संरक्षणं दुर्गमेश्वरेण कर्तव्यमित्येव सर्वेऽपि निवेदितवन्तः।
सभावसानात्पूर्मेव शैलमस्तनामा महिषमुख्यो कम्बुघोणनामा च वराहराजो युगपदेव समुत्थितौ। उभावपि परमक्रोधनौ असहनशीलौ चेति समग्रमेवाऽरण्यं सुष्ठु जानातिस्म। तौ सरोषमकथयताम् –
स्वामिन्! एवं प्रतीयते यत्समरकण्डूतिः नृपमानिनं वलज्राङ्गमुद्वेजयति। तस्मादसौ कमपि व्याजमन्विष्यति। तदलमात्मावसादेन। सन्नद्धा वयमपि तुमुलसङ्गरार्थम्। कामं भिन्नरूचयो भिन्नव्यवहारा भिन्नभक्ष्या भिन्नपरम्पराश्च वयं कान्तारेऽस्मिन्, परन्तु स्वाधिपस्य सम्मानरक्षायै, स्वनिवासक्षेत्रस्य चाप्येकसूत्रतारक्षायै वयं सर्वेऽपि समन्विताः संघटितास्तिष्ठामः।
महिषवराहयोरभिनन्दनेन सभाऽवसिता। बूपतिर्दुर्गमोऽपि तस्यामेव रात्रौ वज्राङ्गपत्रोत्तरं लेखयित्वाऽपरप्रभातकाल एव स्वप्रणिधिं दहनाक्षं नाम नय़नदूष्णमुलूकं सपत्रं वज्राङ्गभवनं प्रेषितवान्। एवमासीत् पत्रलेखः –
स्वस्ति। उत्तरापथदक्षिणापथकान्तारयोः सविभक्तयोः सार्वभौमप्रशासकः सिंहभूपतिर्दुर्गमेश्वरो सप्रणयं विज्ञापयति व्याघ्रसामन्तं वज्राङ्गं यद्भवत्पत्रप्राप्त्यनन्तरम् घटनाचक्रं निभृतनिभृतं तत्त्वतः परिज्ञाय. दुर्लभपक्षं यथायथं ज्ञातुं प्रजाजनानाञ्च केषाचिद्राजनयधर्मपारङ्गतानापि न्याय्यमभिमतं श्रोतुम्, उचिताऽनुचितञ्च सम्यक्तया निर्णेतुं मयाऽऽयोजिता सभा ह्यस्तनेऽपराह्ने।
तत्र च सर्वसम्मत्याऽभिनन्दित एव दुर्लभपक्षः। सप्रमाणमिदं ज्ञातं यद् द्विजिह्वस्नुषैव पुरस्कृत्य वरयाञ्चकार दुर्लभं कान्त भावेन। न पुनर्दुर्लभस्तामुपच्छन्दितवान् छलच्छद्मना षड्यन्त्रेण वा। पशूनां स्वापदानां केचराणां जलचराणां वा समवाये न खलु मान्यः कोऽपि प्रजापत्यविधिः सहधर्मचरणस्य । गन्धजीविनो वयम्। अतएव स्मराकर्षणमात्रमूलमस्माकं सख्यं दाम्पत्यं वा।
अपि च दुर्लभेन नाऽपहृता द्विजिह्वस्नुषा। प्रत्युत क्लीबे सहचरेऽननुरक्ताऽसौ स्वयमेव परिपुष्टाङ्गं सुदर्शनं रतिक्षमं दुर्लभं वृतवती। उभावेव मितः परितुष्टौ। नाऽत्र किञ्चिन्नृशंसम् अनुचितम् अकल्याणकरम् अपमाजनकं वा। अतएव भवताऽपि सन्दर्भेऽस्मिन् प्रकृतिस्थेन भाव्यमिति। शम्!
परन्तु पत्रेणाऽनेन न जातातुष्टिर्व्रज्राङ्गस्य। तत एवाऽसौ युद्धोद्यमे व्यापृतो दृश्यते। भद्र मौद्गले! यथाज्ञातंवृत्तमिदं मया भवते निवेदितम्। तदिदानीं भवानेवाऽत्र प्रमाणमिति। विनिवेद्य सुकर्णो निभृतमवतस्थे।
सुकर्णमुखात् सर्वमिदं श्रुत्वा मौद्गलिर्विस्मितो जातः। हन्त दशवर्षदेशीयस्सन्नपयसौ केवलं विभक्ताया उत्तरभाग एव सीमितो वर्तते। नाऽसौद्रष्टुमशकत् इदानीं यावन्नद्या दक्षिणभागम्। नाऽसौ दृष्टवान गजपतिं महाबलम्, नाऽजगरं मन्दगं, न गृद्ध्रराजं सुदृष्टिं न चाप्यज्जुकां स्थविराम्। सिंहराजोदुर्गमः, व्याघ्रो वज्राङ्गः, उभयपक्षीयौ प्रणिधी वायसो वज्रचञ्चुरूलूकश्च दहनाक्षः, दक्षिणक्षेत्रीयो वृद्धजम्बुको द्विजिह्वः, स्वक्षेत्रीयश्च युवाजम्बुको दुर्लभः, दुर्गमामात्यः, सूचीनखाख्यो भल्ललूकः कोलकुलावतंसः कम्बुघोणः, सैरिभशेखरश्शैलमस्तश्चेति सर्वेऽप्यरण्यविहारिणो नामचर्ययैव मौद्गलिमुद्वेलितवन्तः। तान् सर्वानेकैकशो मिलित्वा परिचीय च कियदात्मीयं सुखं भविष्यतीति मौद्गलिरनुमातुमुपक्रमते स्म।
अकस्मादेवाऽसौ सर्वज्ञमुखादुद्गीर्णं पुराणवृत्तरसायनं स्मृतवान्। आसीच्च तस्य चेतसि –हन्त! अज्ञानमेव कान्तारवासिनां वैमनस्यमूलम्। उचितमाह पितामहः सर्वज्ञो यत्सर्वेऽपि श्वापदाः पशवः खेचरा जलचरा वनस्पतयः कृमयश्चैकस्यैव पितुस्सन्ततयः। महर्षे कश्यपादेव सर्वे समुत्पन्नाः। केवलं समेषां जन्मदात्र्यो भिन्नाः। एवं हि , कान्तारेऽस्मिन् सर्वेऽपि परस्परं सजातीया एव। न कोऽपि विजातीयः। मातृष्वस्रीया भ्रातरस्सर्वे इति वाच्यम्।
परन्त्विदं रहस्यं, पितामहात् सर्वज्ञाद् ऋते, को न्वपरो विजैनाति? न कोऽपि। रक्तसम्बन्धमिम् अजानन्त एव कान्तारवासिनस्सर्वेऽन्येभ्यो दृढ़ं द्रुहयन्ति। तदिदं रहस्यं विज्ञायैव कान्तारकल्याणं सम्भवति।
तस्या रात्रौ मौद्गलेश्चिन्ताग्रस्तस्य निकामं शयितव्यं सुलभं न जातम्। आसीच्च तच्चेतसि- युक्तमाह सुकर्णः। युद्धस्याऽस्यकिमप्यपरिहार्यं कारणं न वर्तते। तथापि युद्धमिदम् अपरिहरणीयं प्रतिभात्येव। भो किम्महत्त्वमत्र कान्तारे भार्यासंयोगस्य भार्यावियोगस्य वा? पशूनां श्वापदानां पक्षिणामन्येषां वा जन्तूनां भोगयोनिसम्मुत्पन्नानां दाम्पत्यं च भवति पूर्वजन्माऽनुगतं जन्मान्तरस्थायि वा। क्षणिकरतिसुखार्तमेव ते दम्पत्ति भवन्ति, पश्चाच्च तं सम्बन्धं परमार्थतो विस्मरन्ति। गन्धजीविनो वन्यपशवो, न तावद्विवेकजीविनः। अन्यथा कथ्यन्ते जन्मदात्रीं भगिनीं पुत्रीञ्चापि भोग्या इव भजेरन्?
तत्किमर्थं द्विजिह्वः स्नुषापहरणव्याजेन महाविनाशमामन्त्रयते? मन्ये क्षुद्रहृदयऽसौ। स्वार्थान्धोऽसौ। सिंहव्याघ्रयोः शाश्वतिकं वैरं ज्ञात्वैव विवेकहीनं व्याघ्रं युद्धार्थमुत्सेकयति। स्वयमसौ यौद्धुमसमर्थः। आत्मानं स्थविरं व्यपदिश्य गृहे स्थास्यति। परन्त्वन्यान् निरपराधान् श्वापदान् निरर्थकमेव घातयिष्यति।
युद्धेऽस्मिन् किं भविष्यति? सबलो निर्बलं व्यत्स्यति, नशिष्यति। यस्य येन सह कुलक्रमागतं वैरं, नैसर्गिकं वा साप्तन्यं स तं प्रत्यक्षमवेक्ष्य हनिष्यति। सर्पान् भक्षयिष्यन्ति मयूराः। मूषिकान् निगरिष्यन्तिनागाः। करिणश्शशकान् पदेन क्षोत्स्यन्ति, तरक्षवश्च द्रुमारूढान् वानरान् छेत्स्यन्ति। वृकाः वराहा लकुटव्याघ्राश्चाप्युभयपक्षीया मिथः संघट्ट्य विनंक्ष्यन्ति। सर्वमप्यरण्यं शून्यं भविष्यति। अयं भल्लूकशावानां किलकिलारावः, इदं पिककूजितम्, इयं मयूराणां केका, अयं सिंहनादः, अयं वराहाणां घुर्घुरारावः, अयं तित्तिराणां किलत्कारः, फूत्कारश्चायं भुजङ्गानाम्, इदं च मदमत्तगजानां चीत्कृतं, लोपाकानां खुखुत्कारश्चुङ्कृतयश्चेमाश्चटकानां नामशेषतामुपयास्यन्ति।
हन्त, एकस्यैव द्विजिह्वस्य दोषात् समग्रमेवाऽरण्यं विनंक्ष्यति। वस्तुतस्त्वसौ एव दण्डनीयः प्रतिभाति। तत एव मौद्गलिः वन्यसभामाह्वातुं सञ्चक्लृपे।
ततश्च भिन्नेहन्येव प्रबुद्धो मौद्गलिः कण्ठनालं प्रति प्रस्थितः। कान्तारस्य प्राच्यभागे स्थितं कण्ठनालाभिधं स्थानमिदम् अतिमहत्त्वपूर्णमासीत्। अत्रैव विभक्ता पर्वतरन्ध्रं दारयन्ती पुरस्सरति।। पर्वतस्य पृष्ठभागोऽत्र उत्तरदक्षिणकान्तारभागौ मिथस्संयोजयन् अधित्यकेव प्रतिभाति। वस्तुतोऽत्रैव वनभूमिर्नदीभिन्ना न दृश्यते। विभक्त्राऽत्र गभीरकुल्येव प्रच्छन्नरीत्या पर्वतान्तरे प्रविष्ठा दविष्ठे स्थाने पुनरात्मानं प्रकटयति। यतो हि स्थानमिदं कण्ठनालमिवातिसङ्कीर्णं तत एव कण्ठनालनाम्ना प्रख्यातम्।
सेतुकल्पेनानेनैव मार्गेण प्रायः सर्वेऽपि आरण्यका उत्तरदक्षिणभागयोः गतागतं विदधति। स्थानमेतद् विहाय सर्वत्राऽपि विभक्तानदी प्रत्यवायभूता तिष्ठति। अतएव तामतीर्त्वा दक्षिणत उत्तरमुत्तरतो वा दक्षिणारण्यमुगन्तुं सर्वथाऽसम्भवं भवति।
कण्ठनालेऽस्मिन् गगनचुम्बिनां पिप्पलपर्कटीशाल्मलीन्यग्रोधानामासीत् महान् समवायः। वटप्ररोहाः शतमित्रा अत्र हिन्दोलनरज्जव इव प्रतिभान्ति स्म। वस्तुतः समन्वितं क्रीडास्थानमासीद् इदं वरमण्डपमुभयोः कान्तारयोः। आदिवसमत्र वानरभल्लूकचम्पाजीव वनमानुषाणां यूथाः पृथग् वृक्षेषु दोलासुखमनुभवन्तो परिलक्ष्यन्ते स्म।
कण्ठनालमासाद्य मौद्गलिर्विविधानां श्वापदानां पशूनां पक्षिणां च कण्ठस्वरं प्रकटय्य तानाजुहाव। सर्वेऽपि कान्तारवासिनस्तस्याऽवाहनपद्धतिं सुष्ठु प्रत्यभिजानन्ति स्म। तस्याऽह्वाने विलक्षणमेव किञ्चित्सम्मोहनमाकर्षणञ्चासीत्येन न कोऽपि श्वापदो वनपशुर्जन्तुर्वा स्वगृहे स्थातुमशकत्। शनैः शनैः सर्वेऽप्यान्तुमुपचक्रमिरे। अर्धहोरानन्तरमेव वटमण्डपास्थानं तत् कान्तारवासिभिः पूरितम्।
विशिष्टान् कान्तारमुक्यानानेतुं सम्यक्प्रबन्धं कृतवान् मौद्गलिः। अतएव पञ्चपरमेश्वरभूताः कान्तारमान्याश्चापि सर्वे समागताः। सहाबलस्यानुजो गिरिबलो वयोबृद्धम् ऋच्छपतिं सर्वज्ञं पृष्ठोपरि समुपवेश्याऽनीतवान्। मन्दगनामानमजगरमपि मौद्गलिवशंवदो द्रुतपदमनामा गवय आनिनाय। स्थविरा स्वयमेवागता धावनक्षमत्वात् । दहनाक्षमुखात् मौद्गलिसन्देशं वाप्य गृद्ध्रराजस्सुदृष्टिरप्यागतवान्। विवधजातीयाः पक्षिणस्सर्वे काकबकपिकचातकमयूरटिट्टिभकलघण्टपिण्डकमहोक्षकुररकीरकाष्स्फोटकतित्तिरधनेशकपोतखञ्जन-चक्रचटककारण्डववर्तकहंसादयस्तु गगनविहारसुखमनुभवन्तः समागत्य न्यग्रोधशाखासु यथास्थानं समुपविष्टाः।
अन्ते च दुर्गमवज्राङ्गावपि समागतौ स्वीयैरनुचरैस्सह। तौ चापि क्रमेणोत्तरस्यां दक्षिणस्यां च दिशि विद्यमानयोमृत्कूटयोरुपरि निषेदतुः।
सर्वप्रथमं वर्षिष्ठ ऋक्षपतिः सर्वज्ञ एवाऽपृच्छत्- वत्स मौद्गले! किमर्थमाहूता वयम्। कान्तारवासिनामेतावान् विशालसम्मर्दो न मया स्वजीवने दृष्टः। वत्स! कान्तारस्याऽस्य सौभाग्यमिदं यद् भवान् सुवेगायाः कुक्षौ सञ्जातः। गजराजातिशायिबलवान् सिंहातिशायिपराक्रमवान् विहगातिशायिगतिमान् तरक्षुचित्रकातिशायिवेगवान् शुकमयूरातिशायि रक्तकण्ठवान् हरिगवयमहिषातिशायिधैर्यसंयमवान् व्याग्रातिशायिशक्तिमान् किञ्च सकलवन्यजीवातिशायिगुणवान् भवान् निस्चप्रचमेव कान्तारबन्धुः यो हि सर्वेषां सुखमिच्छति, सर्वेषां हितं कामयते, सर्वेषामभुयुदयमभिलषति, सर्वेषां कृते ताम्यति, चिन्तयति, प्रयतते च। तद्वत्स! यथा वयं सर्वेऽप्यतर्कितमेव भवता समाहूता अत्र, तथा तर्कयेहं यदवश्यमेव केनचित् अपरिहार्येण कारणेन भवितव्यम्। तत्पर्काशय झटित्येव स्वमनोनभिलषितम्! भवन्तं प्रति महदादरवशादेव सर्वेऽपि वन्यजीवाः सम्भूय समागताः।
सर्वज्ञवचनं श्रुत्वा मौद्गलिरवोचत् – पितामह! साधु तर्कितं भवद्धिः।
सर्वस्यापि कान्तारस्य आसन्नविपत्त्या पिडितसन्नेव भवतस्सर्वानद्याऽहमायासयामि। वस्तुतोऽरण्यमङ्गलममेव मम लक्ष्यम्। भवद्भिर्मयि यद् वात्सल्यं प्रदर्शितं तत्कृते भवतां समेषां कृतज्ञोऽस्मि
-काऽसौ विपत्तिर्वत्स? सर्वज्ञः पृष्टवान्।
-कुतस्समायातेयं विपत्तिः? सुदृष्टिरपृच्छत्।
-वत्स मौद्गले! न भूकम्पो, न जलप्लावनं, न दावानलः। मन्ये, कान्तारे सर्वतोदिशं मङ्गलमेव। तत्केयमपरा विपत्तिर्यया पीड्यसे त्वम्? स्थाविराऽगदत्।
-मातः! मौद्गलिरवदत्। नेयं विपत्तिर्दैवप्रदत्ता, न चापि स्वयमुत्पन्ना। वस्तुतः स्वार्थान्धेन केनचित्समुत्पाद्यते इयम्। परन्तु यथा सकृत्प्रज्ज्वालितोऽग्निः सर्वमपि दग्धुं प्रभवति तेनैव प्रकारेण सर्वार्थसिद्धिपरैः प्रयत्नैः समुत्पादिता विपत्तिरपि सर्वानवसादयत्येव। अतएव महाविनाशात्प्रागेव सा विपत्तिर्बुद्धिमद्भिः प्रशमयितव्या।
तदिदानीं विपत्तिकारणं विवृणोमि यत्समाधानार्थं भवन्तस्सर्वेऽद्य समाहूताः। दक्षिणकान्तारवासिनो द्विजिह्वाख्यस्य जम्बुकमुख्यस्य स्नुषा सम्प्रति उत्तरकान्तारवासिना दुर्लभेन सार्धं सुखं जीवति, तेन सह युग्मं विधाय! तेन प्रकुपितो द्विजिह्वः स्वयमकिञ्चित्करस्साम्प्रतं व्याघ्रराजं वज्राङ्गं समुत्सेकयति युद्धार्थम्। यथा श्रुतम्मया यदस्मिन् सन्दर्भे वज्राङ्गदुर्गमयोर्मध्ये पत्राचारोऽपि जातः। सिंहराजो दुर्गमो यथोचितमुत्तरमपि सम्प्रेष्य विवादं शमयितुमनुरुद्धवान्। तथाप्यसन्तुष्टो वज्राङ्गस्समरव्यवसाय एव व्यापृतः। कस्मिंश्चिदपि दिने युद्धमिदं प्रारब्धुं शक्नोति। श्रुत्वा भवन्त एव प्रमाणम्। स्वपक्षमत्र वनराजो दुर्गम एव स्थापयत्विति निवेद्यते।
-मान्याः प्रजाजनाः! सिंहराजोदुर्गमस्तावदेव सर्वान् सम्बोधयन् प्रोवाच। वज्राङ्गपत्रमवाप्य मया वयोवृद्धैः श्वापदैः पशुभिश्च सार्धं मन्त्रणा कृता। ते सर्वेऽपि दुर्लभपक्षं निशम्य, तञ्च निरपराधं मत्वा मामुक्तवन्तो यद्गन्धजीविनो वनवासिनः। अत्रत्यं दाम्पत्यं भवत्येव भोक्तृभोक्तव्यसहमतिमूलम्। नाऽत्र मर्त्यसम्बन्धा दृस्यनते जननीभगिनीपुत्रीप्रभृतयः। वस्तुत एषां रक्तसम्बन्धानां काप्यनुभूतिरपि न वर्तते वन्यसमाजे।
तदिदानीं प्रस्तावितं यदन्या अपि शतमिता नवयौवना जम्बुकयो वर्तन्ते कान्तारेऽस्मिन्। द्विजिह्वसूनुः कामप्यन्यां वरयेत्। यदि द्विजिह्वस्नुषा स्वयमेव दुर्लभेऽतितरामनुरक्ता सती न तं क्षणमपि परित्यक्तुमिच्छति तर्हि किमत्र करणीयम्?
साधु साधु! सम्यगुत्तरितं कान्ताराधिपतिना दुर्गमेश्वरेण! अहो सौजन्यं दुर्गमस्य! अहो सामर्थ्ये सत्यपि वैनीत्यमेतादृशं दुर्गमेश्वरस्य! एतादंशि वाक्यानि सभायां परितः श्रुतानि।
ततश्चाकस्मादेव कश्चिदकालवृद्धो जम्बुक उच्चैर्विलप्य मञ्चोपरि समागतः प्रावदच्च – जयतु जयतु वनराजो दुर्गमेश्वराः कान्तारस्य सर्वज्ञप्रमुखाः। भोः क्षणं यावदयमपि जनः श्रोतव्यो भवद्भिः।
भोः कान्तारवासिनः! जर्जरनामाऽहं जम्बुकः। यदि द्विजिह्वोऽस्यां सभायां क्वचिद्वर्तते, यदि वा तद्भार्योप्यत्रोपस्थिता स्यात्तर्हि उभावपि मां जर्जरनामानमकालवृद्धं जम्बुकं परिचिनुतां, मां प्रति समाचरितं स्वनृशंसपापकर्माऽपि च संस्मरताम्।
भो बन्धवः! इयं द्विजिह्वसहचरी प्राङ्ममैव भार्याऽऽसीत्। सम्भावयामि यद् दुर्लबोऽयं ममैव दारकः। भार्यया पुत्रेण च सार्धं सुखं निवसन्नहं कदाचिन्नद्यस्तटे विहरन् लम्पटेनाऽनेन द्विजिह्वेन सन्दृष्टः। कामसन्तप्तोऽयं मन्नयनसमक्षमेव मद्भार्यामनुनेतुमुपचक्रमे। साऽपि कामश्लथाङ्गी मामवधूय, स्वगर्भजातं स्तन्यमात्रैकजीवितं दीनदीनं स्वार्भकं विस्मृत्य द्विजिह्वमामन्त्रितवती। विरुद्धे सति मयि तावुबापि मां दन्तक्षतैः परमार्थतो जर्जरं विधाय ततः पलायितौ। प्रभूतरक्तप्रवाहवशान्मृतप्रायोऽहमचेतनस्सन् तत्रैवाऽपतम्। नाऽहं ततः परं किञ्चिद्ज्ञातवान्।
कतिपयहोरानन्तरं प्रत्यागते सति प्राणप्रवाहो, स्वक्षतानि जिह्वया लीढं लीढं किञ्चत्स्वस्थोऽहं जातः। परन्तु विषदन्तप्रसारान्निखलेऽपि शरीरे मेऽसाध्यः कश्चित्कण्डूतिरोगस्समुतपन्नो येन मासावधावेव शरीरचर्म मे लोमरहितं जातम्। ततः प्रभृत्येव क्षतविक्षताङ्गोऽहं जम्बुवसतिं परित्यज्य नद्यास्तटे निभृतं जीवनं यापयामि। पुत्रवियोगकातरस्य मे करुणा स्थितिः। भार्यायान्तराऽवाप्तेः प्रश्न एव नासीत्। का नु जम्बुकी पूतिबहुलमस्थिपञ्जरमात्राऽवशेषं जर्जरं मां वरयेत्?
नद्यास्तटे निवसन्तं मां दृष्ट्वा नृशंसनामा कश्चिन्नक्रो मय्यतितरां दयालुर्जातः। स एव मह्यं स्वभक्षिताऽवशेषं दत्त्वा प्राणवन्तं चकार। स एवाद्य मां विज्ञापितवान् यदद्य विलक्षणचरितेन कान्तारजीवने मौद्गलिनाऽमन्त्रिताः सर्वेऽपि वनेचराः। तत्त्वमप्यवश्यं गच्छ! बृहत्कलेबरोऽहं लघुपादैश्चलन् न कथमपि कण्ठनालमुपैष्यामि। परन्तु त्वमवश्यं गच्छ! बृहत्कलेबरोऽहं लघुपादैश्चलन् न कथमपि कण्नालमुपैष्यामि। परन्तु त्वमवश्यं गच्छ। प्रत्यावृत्त्य च मामपि ख्यापय सर्वंवृत्तमिति।
नक्रप्रेरितोऽहमत्राऽगतः। मौद्गलिमुखाद् द्विजिह्विनाम श्रुत्वैव सर्वं स्मृतम्मया। हन्त, यद्यसौ जाल्मोऽत्रसभायां स्याद्, यदि वा प्रवढेचनपरायणा पापिनी मद्भार्याऽपि स्यादत्र तर्हि समक्षमागत्य तौ मद्वक्तव्यमनृतयताम्।
तेन लम्पटेन मद्भार्याऽपाहृता कामान्धतामुपागता। अहञ्च मृत्युसुखे निपातितः। मम कौटुम्बिकं सुखं विनष्टं तेन। हा प्रभो! मम नयनतारककल्पो मद्बार्धक्याश्रयभूतो दारकोऽपि मे दूरभूतः। नाहमिदानीं यावद् ज्ञातुं क्षम आसं यदसौ केनापि श्वापदेन भक्षितो, जीवति वा? परन्त्वद्य स्वपुत्रं जीवितं दृष्ट्वा परां प्रीतिमुपगतोऽस्मि।
एवं विध नृशंसकर्माऽप्यसौ क्षुद्रः द्विजिह्वः स्नुषापहरणं व्यपदिश्य स्वापमानं दैन्यं वोपन्यस्यति? आत्मचरितं न समीक्षते कृतघ्नः? मां मृतं मत्वा निश्चिन्तो जातः? परन्त्वहं तस्यापसदस्य नृशंसकिल्विषं प्रकाशयितुमद्यापि जीवामि!
भोः साञ्जलिपुटप्राणममहं व्याघ्रराजं वज्राङ्गं प्रार्थये यत्तस्य खलु जालमस्य मिथ्योपचारं समादृत्य स्बन्धुबान्धवविलसितमरण्यमिदमशान्तं न विदधाति। यथाऽरण्यमिदं कण्ठीरवकुलावतंसे दुर्गमपादे श्रद्धते तथैव व्याघ्रवंशभूषणे वज्राङ्गेऽपि। वस्तुतो भवद्द्वयसख्याश्रितमेव कान्तारसुखम्। किमहमधिकं वच्मि। नाऽहमधिकं जीविष्यामि। तथापि मरणात्प्राक् अपि नाम स्वदुर्ललितजातकं सकृत्पश्येयं लोचनाभ्याम्!
एवं सकरूणं स्वव्यथाकथां निवेद्य मञ्चादवतरत्येव जर्जरे सर्वतोऽपि सभायां द्विजिह्वं तद्भार्याञ्च प्रति थूत्कारा धिक्कारा असाधुवादाश्च समुत्थिताः। सर्वाऽपि सभा द्विजिह्वविरोधिनी सञ्जाता। तत्सर्वमवलोक्य जर्जरव्याथकथामाकर्ण्य च व्याघ्रपतिर्वज्राङ्गोऽपि पस्चात्तापसिन्धौ निमग्नः।
तावदेव कश्चिद्युवा जम्बुकः परिधावन् मञ्चसमीपमागत्य रोदितु प्रवृत्तः। स आसीद् दुर्लभः। यथाकथञ्चित् स्वशोकवेगं नियम्य दुर्लभः कथयितुं प्रवृत्तः –
हा दैव! किमिदमद्य पश्यामि? अनेकवर्षानन्तरं वात्सल्यवन्तं स्वतातपादमद्य कीदृगवस्थं पस्यामि! हे कान्तारवासिनो बन्धवः! अयमेव मम तातपादो जर्जरः। अहमेवाऽस्मि जातकोऽस्यदुर्लभः। अचेतनं तातपादं दिवङ्गतं मत्वैव मया सन्तोषाऽवलम्बितः। द्विजिह्वतातपादयोर्द्वन्द्वे प्रवृत्ते सति भयार्तोऽहं कस्मिंश्चिदगर्तेनिलीनः। पश्चाच्च, दैववशात् तत्रागतेन केनचिज्जम्बुकसमवायेन सह भीतभीतस्सन् औदीच्यजम्बुकवसतिमुपयातः। तत्रैव च काभिश्चिन्नव प्रसूताभिर्दयामयीभिर्जम्बुकीभिः स्वस्तनस्तन्यपायेन संवर्धितोऽद्य जीवामि। जननी मामपहाय गतेतिमात्रं स्मरामि। किन्तु सैव द्विजिह्वस्य पत्नीति नाहं स्मृतवान्।
तदिदानीं स्वतातपादं समवाप्य न जातु परिहरिष्यामि। रुग्णः स्याद् व्याधिग्रस्तः स्यात्, जर्जरः स्यात् क्षपितायुर्वा स्यात्। यदृशोऽपि स्यात्। परन्तु ममाऽयं जन्मदाता। मम तातपादः। अस्योत्सङ्गे मासद्वयं यवत्क्रीडितम्मया। तात! तात! क्वासि त्वम्? अयमहमागच्छामि।
इत्येवं विलपन्नेव दुर्लभः स्वपितरमन्वेष्टुं प्रयतितवान्। परन्तु तावतैव कालेन जर्जरो निभृतनिभृतं क्वचिद् विलिल्ये। ततश्च वज्राङ्गस्तारस्वरेण घोषितवान् – भो भो बन्धवः! मौद्गलिर्प्रयत्नैरद्य महत्सत्यं द्विजिह्वदुष्चारित्र्यसाक्षीभूतं समुद्घाटितम्। सत्यमिदं कान्ताररक्षाकरम् अस्मन्मङ्गलकल्याणसाधकञ्च। तदहं भवत्समक्षं प्रतिजाने यदिदानीं मनो मे निर्मलं जातम्। जर्जर मुखाद् द्विजिह्वचरितं विज्ञाय विस्मितोऽस्मि जातः। स्वाविनयस्य पापाचारस्य च फलमवश्यममेवाऽसौ भौक्ष्यति।
हन्त, यथा द्विजिह्वस्य त्रयः पुत्रास्तथैव तत्पत्नीगर्भजातत्वाद् दुर्लभोऽपि तच्चतुर्थपुत्र एव! यदि जम्बुकहतको द्विजिह्वः स्वापराधस्य कृते सर्वसमक्षं क्षमां न याचते तर्हि निश्चप्रचं दण्डपात्रमसौ।
सम्प्रति, ससुखं सर्वेपि भवन्तः स्वगृहं गच्छन्तु। मत्तो नैव भयं कस्यचिदारण्यकस्य। वस्तुतोऽभयं समेषां मत्पक्षतः। प्रणमामि सर्वान् भवतः।
इत्येवं घोषितवति वज्राङ्गे सभाऽवसिता। युद्धविभीषिका कान्तारस्य समाप्ता। सर्वेऽपि श्वापदाः पशवः पक्षिणः सरीसृपा जन्तवः शनैः शनैः प्रतिष्ठिताः स्ववसतिं प्रति। अरण्यं परमार्थत एव अरण्यं सञ्जातम्।