।।७।।
दुर्गमवज्राङ्ग विवादे परिसमाप्ते सति मौद्गलिः समेषामारण्यकानां प्रेष्ठबन्धुर्जातः। सम्प्रति सर्वेऽप्यरण्यवासिनस्तं सम्यक्तया प्रत्यभिजानन्ति स्म। सुवेगापि पुत्राऽभ्युदयमवलोक्य परमां प्रीतिमुपागता। कान्तारे सर्वं यथावत् प्रवर्तते स्म। वर्षान्तरमागतः शीतर्तुः। शीतानन्तरमागतो वसन्तर्तुः। वसन्तानन्तरञ्च समागतो ग्रीष्मर्तुः। एवं हि, षडृतुपरिवर्तैः कालोऽग्रेसरन्नासीत्।
अधुना मौद्गलिः प़्चदशवर्षदेशीयः सञ्जातः। सहसैव तद्धर्मपिता धृष्टः स्वीयामिहलीलां संवृतवान्। जनन्या सार्धमेव मौद्गलिरपितत्कृते बहु परिदेवितवान्। यद्यपि नाऽसौ रहस्यमिदं ज्ञातवान् यदयमेव धृष्टो मर्त्यजातकं तं ग्रामाद् वनमानीतवान्। सुवेगासम्प्रत्यपि तद्रहस्यं यत्नेन गोपायतिस्म।
एषु व्यतीतेषु पञ्चसु वर्षेषु मौद्गलिः भ्रामं-भ्रामं निखिलोऽपि कान्तारोद्देशं सम्यक्तयाऽपश्यत्। स खलु कदाचित् सुदष्टिं दृष्टवान् कदाचिच्च मन्दसमीपमुपविश्य तदनुभवान श्रुतवान्। कदाचिदसौ कम्बुघोणं कोलमुख्यं, कदाचिच्च महिषराजं शैलमस्तं कदाचित्पुनरज्जुकां स्थविरामुपेत्य तास्ता वार्ताः कुर्वन् समयमनैषीत्। महाबलसर्वज्ञो चातितरां तस्मै स्निह्यतः स्म। एवमेव सभायोजनानन्तरं दुर्लभवज्रचञ्चुदहनाक्षमर्मज्ञादयस्सर्वेऽपि मौद्गलेर्विश्वस्ताः सुहृजस्सञ्जाताः। सुकर्णस्तु तस्य सार्वकालिकमित्रमासीदेव।
स आसीत् कश्चिद्ग्रीष्मकालः। प्राच्यां प्रतप्ताऽयोगोलककल्पो मार्तण्डस्समुदियाय। सचाप्युदयन्नेवाऽग्निस्फुल्लिङ्गान् वर्षितुमारेभे। तडागा वाप्यः स्रोतांसि वनस्य शुष्कानि जातानि। दक्षिणाकान्तसरोवरमपि स्वल्पसलिलं जातम्। श्यानपङ्का पुलिनधरित्रि सूकरसैरिभसिन्धुराणां गताऽगतैरगम्यप्राया सञ्जाता। सममेषां जीवनं केवलं विभक्ताश्रितमासीत्।
सर्वेऽपि श्वापदाः पशवः खेचराश्च घनच्छायेषु तरूतलेषु तच्छाखासु च विश्राम्यन्तो निदाघमतिवाहयन्ति स्म।
तावदेव कान्तारेऽतिदारुणं वृत्तं घटितम्। कण्ठंनालसमीपस्थे वेणुवनेऽकस्मादेव सन्दीप्तोऽग्निः। वस्तुतो वेणुवने तस्मिन् सहस्रमिताः कीचकाख्याः शुष्कवेणवोऽप्यासन्। ते च प्रचलति दुर्वारवेगे पश्चिमवायौ मिथस्संघट्टय वह्निमुत्पादिवन्तः। शुष्केन्धनमवाप्य समीररयसन्धुक्षितोऽयमग्निः क्षणेनैव महाभैरवं रूपमापद्य दावाग्निमुद्रां दधार। वने सर्वत्राऽपि चीत्काराः फूत्काराः सीत्काराः विविधक्रन्दनध्वनयश्च प्रोत्थिताः। भीतभीताः श्वापदाः पशवश्च प्राणभयेन पलायितुं प्रवृत्ताः। समर्थाः पक्षिणस्तु प्रोड्डीना आकाशे परन्त्वशक्ताः खगशावकास्तु कुलाये,वेव भस्मीभूताः।
दावाग्निर्नितरां वर्धमान एवाऽसीत्। शरपत्रनिष्कुटं प्रज्ज्वालयन्, वेणुवनञ्च सन्दहन्, शुष्कद्रुमांश्च कवलयन्, निष्पत्रनिम्बमधुपादिशाखाचयं संभक्षयन् प्रलयवेलोत्थघस्मरव्योमकेश इवायं कान्तारदावदहनः समग्रमेव वनं निश्शेषयितुं समुद्यत आसीत्।
कर्णात्कर्णमुपयान्ती दावाग्निकथेयं मौद्गलिमासादितवती। मौद्गलिर्झटित्येव गृहात् प्रस्थितः। दैववशादुपनतं गवयमेकमारूह्य, गजचीत्कृतैः सर्वान् गजान् आह्वयन् मौदेगलिः कण्ठनालमाससाद। महाबलो मौद्गलिध्वनिं समीक्षमाणः स्वानुचरानवदत् – वत्साः1 भयसङ्कटोद्वेगजनकं मौद्गलेर्गजर्चीत्कृतम्। तद्वश्यमेव केनापि दारुणेन व्यतिकरेण भवितव्यम्। त्वरितमेव यूयं सर्वेऽपि ध्वनिमनुसरन्तो गच्छत। यथाऽहं तर्केय मौद्गलिः कण्ठनालादिश्येव गतो वर्तते। तदलं विलम्बेन।
महाबलवचनैराज्ञप्ताः शतमिता युवानः प्रौढाश्च स्तम्बेरमास्त्वरितमेव धावन्तः पुरस्सृतवन्तः। कण्ठनालमुपेत्य ते दारुणं दावानलं प्रत्यक्षमवलोकयाञ्चक्रुः। गगनचुम्बिनो वृक्षा अपि तैलवर्तिका इव निर्भरं ज्वलन्ति स्म। तेषु वृक्षस्कन्धेषु सुखं शयाना रक्तमुखाः कृष्णमुखाश्च शाखामृगा शाखातश्शाखां प्लवमानाः करुणकरुणं क्रन्दन्ति स्म।
अथ सर्वेऽपि गजा मौद्गलिना विज्ञापिताः – बन्धवः! शुण्डादण्डेन यावच्छक्यं जलं विभक्तातः समानीय वर्धमानोऽयमग्निर्निर्वापयितव्यः। अलं विलम्बेन। मौद्गलिर्निर्दिष्टाः सर्वेऽपि करिणो विभक्तातटमवातरन्।
ततश्च सर्वेऽपि वानराश्चम्पाजीवा वनमानुषाश्चापि मौद्गलिना निर्दिष्टाः- भो यूयमपि सघनतरुपल्लवसञ्चयेन तृणनिष्कुटादिलग्नमग्निं सन्ताड्य निर्वापयत। निहतशिको विघ्नितविस्तरश्च वह्निः स्वयमेव शममेष्यति। अलमालस्येन। बन्धो! आत्मकार्यमिदम्।
एवं हि मौद्गलिना विज्ञापिताः सम्प्रार्थिताः सर्वेऽपि गजा वानरादयश्च वह्निशमने संलग्नाः। अर्धहोरावधिकेन प्रयासेन दारुणो दवाग्निः शान्तो जातः। वेणुवनं तु दग्धमेवाऽसीत्। तत्पार्श्ववर्ति वनमपि दग्धप्रायमलक्ष्यत। परन्तु एतावतैव संहारेण शममुपयातः कान्तारकृशानुः। धूमायमाना हरितद्रुमास्तृणगुल्मादयश्च परमार्थतो जलाभ्युक्षणैर्निर्वापिताः।
मौद्गलिप्रयासेन शशाम दावानलः।
अपरेद्युरेव सन्ध्याकाले भयावहवात्या कान्तारमान्दोलितवती। समग्रमपि गगनमण्डलं धूलिनिचयैर्धूसरं जातम्। तरणिबिम्बं रजस्तिरस्करणीयामवलुप्तं जातम्। ततस्च वेगवन्तः प्रभञ्जनाः समग्रानेव पादपानान्दोलितवन्तः। क्षणेनैव सञ्जातस्कन्धकोटरा अवकेशिनः शुष्कप्रायाः समुद्धृतमूला जीर्णजीर्णा द्रुमाः समुत्खाताः। केषाञ्चित् तरूणां शाखा एव त्रुटित्वाऽपतन्। वृक्षोपरि पतितः कोऽप्यन्यो वृक्षो बन्धुकण्ठलग्नो विलपन्निव प्रतीयते स्म। तरूच्छायां श्रयन्तः केचन् रङ्कवः शाखावपातेन प्राणहीनाः सञ्जाताः।
वात्याचक्रे समुत्थे सति सर्वेऽपि श्वापदाः सरीसृपाः भूगर्तेषु पर्वतरन्द्रेषु मृत्कूटविवरेषु वा नीलीनाः। योऽपि बहिरागतवान् स एव प्रचण्डेन समीरवेगेनोद्भ्रान्तः कृच्छ्रेण च क्वचित्स्थितो जातः। प्रायेण होरानन्तरमेव वात्याचक्रवेगश्शशाम। शनैः शनैराकाशमण्डलं निर्धूलि जातम्। पुनरपि ददृशे मन्दप्रभो भानुः। काष्ठाश्च निर्मला अभवन्। पुनरपि प्रारब्धः श्वापदानां पशूनां सरीसृपाणामन्येषाञ्च प्राणिनां सञ्चारः।
रात्रौ सुकर्णः समायातः। तन्मुखं म्लानमासीत्। नयनयोश्च भयं सुस्पष्टमवलोक्यते स्म। स आसीद् दैन्यपर्याकुलः। तं तदवस्थमवेक्ष्य मौद्गलिरपृच्छत् –
-भद्र! सुकर्ण! किमापतितम्? इतः प्राक् कदापि रात्रौ न समायातस्त्वम् तत्किमप्यप्रियं घटितं, घटनीयं वा?
-मौद्गले! सर्वनाशोऽवलोक्यते कान्तारस्य! शशोऽवदत्।
-अलं प्रहेलिकया। स्पष्टं भण।
-किं भणानि? मानवाः केचिदद्य वने संदृष्टाः। श्रुतं यत्ते नगरादागताः। नेदं शुभलक्षणम्! सुकर्णौऽभणत्।
-भद्र! कीदृशा भवन्ति मानवाः? किमर्थं तेभ्यो भेतव्यम्?
-मौद्गले! मानवा भवन्ति यद्यपि वयमिव चतुष्पादा एव। परन्तु ते पश्चाद्वर्तिभ्यां द्वाभ्यां पादाभ्यामटितुं धावितुं समुत्प्लवितुं प्रहर्तुञ्चाऽभ्यस्ता भवन्ति। पुरोवर्तिभ्यां द्वाभ्यां हस्ताभ्यां ते भुञ्जन्ति, पिबन्ति, मोचयन्ति, घ्नन्ति, सारयन्ति, ताडयन्ति विविधानि चान्यानि कार्याणि सम्पादयन्ति।
मानवानां मुखं त्वन्मुखमिव चन्द्रवद्वर्तुलं भवतु। अस्माकमिव तेषामपि भवति नासिका, नयनद्वयं, कर्णद्वयं, शीर्षं, मस्तकं चिबुकं दन्तादिकञ्च।
यथा वानरा , यता चम्पाजीवा, यथा वनमामनुषा, यता वा त्वं, तथैव मानवा अपि। परन्तु ते हसन्ति लपन्ति, विलपन्ति च। शशौऽवदत्।
-सुकर्ण! त्वया स्वयमेव दृष्टः कोऽपि मानवः?
-न खलु । परन्तु स्थविरा ममाख्यातवती। साऽद्यैव तानपश्यत्।
-किमर्थं ते वनमागताःस्युः? किमत्र तेषामागमनप्रयोजनम्?
-मौद्गले! श्रुतं मया यत्तेनिगृह्णन्ति सिंहान् गजान् सूकरांश्च। ततश्च तान् मर्त्यवत्शिक्षितान् विधाय, तैः मर्त्योचितानि कार्याणि कारयन्ति, दर्शकांश्चाऽनुरञ्जयन्ति।
-किन्ते मानवा भवन्ति सिंहेभ्योऽति बलवत्तराः? गजेभ्योऽपि महत्तराः? मौद्गलिरपृच्छत्।
-न खलु भंद्र मौद्गले! परन्तु मानवास्ते भवन्ति सिंहेभ्यो गजराजेभ्यश्च बुद्धिमत्तराः। यथाऽस्मासु विद्धिमत्तरो भवान् तथैव मानवा अपि। स्वबुद्धयैव ते पशूनपि सबलान् नृशंसान् सर्वथा ऋजून् विदधति, वशमानयन्ति च।
-तर्हि चिन्ताविषयोऽयम्। सर्वेऽपि सिंहा गजा भल्लूका वराहाश्च विषयेऽस्मिन्नप्रमत्ता विधातव्याः। भद्र सुकर्ण! श्वस्तने प्रभातकालमेव कार्यमिदं सम्पादनीयमावाभ्याम्।
किम्मानवास्ते मामपि कार्यमिदं निग्रहीष्यन्ति? सहसैव मौद्गलिरपृच्छत्।
-किं भणानि? बन्धो! पशु सन्नपि भवान् मानव इव परिलक्ष्यते इति पितामहः सर्वज्ञ एवाऽकथयत्। महद् वैलक्षण्यं भवच्छरीरे। तद्भवन्तमवलोक्य मानवा अवश्यमेव कुतुहलाक्रान्ता भवेयुः। अतोऽवश्यमेव भवन्तमपि निग्रहीतुं यत्नपरा भविष्यन्ति इति तर्कये। तदाकर्ण्य चकम्पे मौद्गलिः। सुकर्णोऽपि गृहमुपावर्तत।
तस्यां रात्रौ मौद्गलेर्निकामं शयितव्यं नासीत्। मर्मच्छिदोऽनेकेऽधरोत्तरा विचारतरङ्गास्तस्य हृदयोदधिमान्दोलितवन्तः। आसीच्च तस्य चेतसि – हन्त! यदि मानवा मामपि यथाकथञ्चिन् निगृह्णीयुः? तदा किं करिष्याम्यहम्? मम किं करिष्यन्ति मानवाः? मया किं मर्त्योचितं कार्यं कारयिष्यन्ति? मत्तोऽपि बलबत्तरास्ते। मत्तोऽपि बुद्धिमत्तरास्ते। मत्तोऽपि महत्तरास्ते! हा दैव! मयि निगृहीते सति किं भविष्यति मम जनन्याः?
इति चिन्त्यन्नेव मौद्गलिर्त्यथार्तो जातः। तन्नयनाभ्यां वारिधारा च्यवितुमारभमत। नाऽसौ कथमपि शयितुं शशाक।
।।८।।
प्रत्युषस्येवाऽपरेद्युर्गजानां करुणकरूणास्चीत्कृतयोऽश्रूयन्त। सर्वमप्यरण्यमुद्भ्रान्तमिव क्षुब्धमिव विपत्तिग्रस्तमिव जातम्। गजानां श्रुतिविवरविदारकाणि चीत्कृतानि श्रावं-श्रावं विनष्टनिद्राः सर्वेऽपि श्वापदाः सत्त्वाः पशवः पक्षिणश्च चीत्कृत्स्थाने पुञ्चीभूताः। कश्चिद्युवा हस्ति कस्मिंश्चिद् गर्ते निपतितः आसीत्।
धावन्नागताः सुकर्णः। मौद्गलिस्तावता कालेन निद्रामग्न एवासीत्। वस्तुतो व्यतीतरजन्यामसौ निशीथानन्तरमेव स्वप्तुमशकत्। स्वनिग्रहसम्भावनामनुश्रुत्य स परमार्थतो भयभीतो जातः। परन्तु सुकर्णाग्रहवशात् सुवेगा तं प्रत्यबोधयत्। मौद्गलिर्नेत्रद्वयं करतलाभ्यामसकृत् सारयन् मुहुर्मुहुः सञ्जिहानश्च भूविवराद् बहिर्निश्चक्राम। सुकर्णं दृष्ट्वा सविस्मयमपृच्छत् –
-अये, एतावती प्रभाते समायातोऽसि? सुकर्ण! अपि सर्वं कुशलम्?
-बन्धो! क्व कुशलम्? सुकर्णोऽवदत्। स्थविराऽज्जुका साधूक्तवती। मानवाः पशून् निग्रहीतुकामा वने प्रविष्टाः स्थिराश्च वर्तन्ते।
मौद्गले! त्वम्पुनः सिंहान् गजान् भल्लूकांश्च सविशेषं प्रतिबोधयितुमिच्छुरासीः। परन्तु तत्प्रबोधनात्प्रागेव मानवैः स्वकौशलं प्रदर्शितमेव।
-किं जातम्? मौद्गलिः साशङ्कमपृच्छत्।
-मानवाः ह्यस्तने दिवाकाल एव हस्तिनं प्रातयितुं गभीगर्तं निर्मितवन्तो गजयूताऽभ्यस्ते नदीमार्गे। तञ्च गर्तं तेऽस्थूलवृक्षशाखावंशदण्डाभिराच्छाद्य हरिततृणैर्गोपितवन्तः। अद्य प्रत्युषस्येव कश्चिद्युवा हस्ती गर्तोपरि समागच्छन्नेव गर्ते पपात। बहुश- कृतप्रयत्नोऽपि बहिरागन्तुं न शक्नोति।
मन्ये, निग्रहीतारो मानवास्तं दुर्भाग्यशालिनं गजयुवानमवश्यमेव स्थूलरज्जुभिर्भत्स्यन्ति।
-सुकर्ण! अत्याहितं जातम्। परन्त्वलमावेगेन। मयि जीवति न कोऽपि वन्यो जीवो निग्रहीष्यते। एहि, तत्रैव चलावः।
सुकर्णानुगतो मौद्गलिर्धावन्नेव घटनास्थलमाससाद। मानवानां बुद्धिकौशलमवेक्ष्य हतप्रभोऽसौ जातः. गभीर आसीद् गर्तः। बहिरागमनं कथमपि शक्यं नाऽसीत्। अकस्मादे करिशावकस्य वर्षाकालीना गर्तपातघटना मौद्गलेः स्मृतिपथमायाता। स गजान् अन्यांश्च समवेतान् आरण्यकान् निर्दिष्टवान् – भोः अलं कालव्यतिपातेन। सर्वेऽपि यूयं शिलाखण्डैः मृल्लोष्ठैः शुष्ककाष्ठखण्डैः कच्चरैश्च पूरयतमेमं गर्तम्। यावदेव गर्तोऽयं सम्पीरितस्सन् धरित्रीसमतलतामुपयाति, हस्ती स्वयमेव बहिरागमिष्यति। तदलं विलम्बेन। बन्धवः! बन्धुरक्षार्थं सन्नद्धा भवत।
मौद्गलियुक्तिमाकर्ण्यैव सर्वेऽपि श्वापदाः पशवः पक्षिणश्च यथाशक्ति गर्तं पूरयितुं संलग्नाः। गजाः पादेन बृहच्छिलाः पुरस्सारयन्तो गर्ते ता न्यपातयन्। गृद्ध्राश्चिल्लाः श्येनाः काकाश्च शुष्ककाष्ठानि गर्ते पातितवन्तः। नकुलाः मूषिकाः शलल्यः भल्लूका जम्बुका बृकाः गोधाश्च गर्तप्रान्तभागस्य मत्तिका निखन्याऽवटे पातितवन्तः। सूकराः शशा महिषा मेषाश्छागादयश्च कच्छशष्पकाण्डानि निकृत्य गर्तं पूरितवन्तः।
एवं हि, प्रायेण होरावधिकव्यवसायेन गंभीरगर्तोऽसौ वलनभूमिसमतलो जातः। ततश्च युवा हस्ती गर्तं समुल्लङ्घ्य बहिराजगाम। सर्वेऽपि सिन्धुरा अन्ये च वन्यजीवा प्रसन्ना जाताः। मौद्गदलेर्युक्तिः सफला जाता।
सर्वमिदं दृस्य पार्श्वस्थशाल्मलितरूशिखरनिर्मिते मञ्चे तिष्ठन्तौ द्वौ मानवौ निर्भरं पश्यन्तावास्ताम्। तूष्णीमाश्रितौ तौ केनाऽपि पशुना नाऽवलोकितौ यदि तौ कथमपि दृष्टिगोचरावभविष्यतां तर्हि तयोर्मरणं ध्रुवमासीत्। कोऽपि चम्पाजीवो वनमानुषो वा वृक्षमारूह्य तावधो निपातयेत्। तरक्षुर्वा कश्चिन्मौद्गलिना सङ्केतितस्तौ क्षणेनैव क्षतविक्षताङ्गौ कुर्यात्। अजगरो वा कश्चिदुपेत्य तौ दृढं निर्दयञ्चाश्लेष्य़ाऽस्थिपञ्जरं तयोश्चूर्णयेत्। मिथः परिचिताः श्वापदा वन्यपशवश्च काममन्योऽन्यं मर्षयेयुः। परन्त्वपरिचितं कमपि दृष्ट्वा तु ते प्रकृत्यैवाऽसहिष्णव आक्रामकाश्च जायन्ते। रहस्यमिदं नागरादागतौ तौ मानवावपि सम्यक्तयाऽजानीताम्।
परन्तु मौद्गलिमवलोक्य तयोर्विमयः परां काष्ठामधिरूढः। प्रतिच्छवियन्त्रेण मौद्गलेरनेकानि छायाचित्राणि तौ निभृतनिभृतं गृहीतवन्तौ।
स्वतन्त्रे जाते सति गजे मौद्गलिः सर्वान् आरण्यकान् सम्बोध्य अकथयत् – बन्धवः! शृण्वन्तु भवन्तः। भवतां हितं कथयामि। श्रुतम्मया, यद् वन्यजीवान् कांश्चित् निग्रहीतुं क्रीडारसिकानां मानवानां कोऽपि समवायस्सम्प्रति, प्रच्छन्नरीत्या कान्तारे तिष्ठति। एते सिंहान् गजान् भल्लूकान् वनमानुषांश्च निगृह्य, विद्युत्कशाबलेन मृत्युभयमुत्याद्य तान् सबलात्कारं मर्त्योचित्व्यवहारान् शिक्षयिष्यन्ति। पश्चाच्च तेषां मर्तयोचितान् व्यवहारान् प्रदर्श्य दर्शकेभ्यो धनमर्जिष्यन्ति।
श्रुतम्मया यन्मानवशिक्षिताः भल्लूका द्विचक्रीं चालयन्ति। शिक्षिता गजाः कन्दुकेन क्रीडन्ति। लौहत्रिपादायामेकपदेन तिष्ठन्ति। स्वपृष्ठोपरि सटाभरदारुणं सिंहं संस्थाप्य, परिधौ परिक्राम्यन् सर्वान् दर्शकान् अभिवादयन्ते। सिंहाश्चापि मानवशिक्षिता लौहासन्दिकायामेकैकशः उपविशन्ति। दक्षिणाग्रपादं समुत्थाप्य सर्वानभिनन्दयति।केचित्पुनः ज्वलदयस्तन्त्रीगोलकं प्रधाव्य समुत्पुलत्य च पारयन्ति। एवमेवाऽन्ये चापि पशुपक्षिणो विविधाः क्रीडाः प्रदर्श्य दर्शकाननुरञ्जयन्ति। शिक्षितान्न पशुविहगान् एते मानवाः महता धनमूल्येन विक्रीणन्त्यपि।
बन्धवः! तदप्रमत्तास्तिष्ठत यूयं सर्वेऽपि । एते हि प्रवञ्चकाः स्वार्थान्धाः षड्यन्त्रपारङ्गाः पापा अस्मत्स्वातन्त्र्ययवैरिणः। हन्त, न ते शरीरबलेनास्मान् कथमपि निग्रहीतुं शक्ताः। तस्मात् स्वबुद्धिबलेन स्वार्थं साधयन्ति। वस्तुतो नैतत् तेषां सद्बुद्धिबलम्। सर्वथा दुर्बुद्धिबलमेतत्। भ्रातरः! तदेव दुर्बुद्धिबलं मानवानां भवद्भिरत्र प्रत्यक्षमवलोकितम्। विचारयन्तु तावत्। यस्य पर्वताकारस्य गजस्य लघुनाऽपि शुण्डादण्डाघातेन मानवा धराशायिनो भवेयुः, प्राणहीना वै भंवेयुः, यस्य चट पादेनैकेनैव दलितास्ते क्षुण्णरज्जः कल्पा भवेयुस्स एव सहस्रमर्त्यबलो गजस्तैर्गर्ते पातितः स्वबुद्धिबलेनैव!
एवमेव ते वागुरामास्तीर्य, बन्धनरज्जूश्च प्रसार्य, निभृतनिभृतं पादग्रहणदक्षं लौहनिगडञ्चापि यत्र-तत्र समुपयोज्य सिंहादीनपि निग्रहीतुं प्रयतिष्यन्ते। अतएव भवन्तस्सावधाना अप्रमत्ताश्च भवेयुः। अलमाक्रमणेन। अन्यथा मृत्युभयेन ते ग्रस्ताः सन्तो युष्मान् क्षेप्यास्त्रेण घातयुष्यन्ति। केवलमात्मत्राणमेव चिन्तनीयम्। सम्यग् दृष्ट्वा पुरस्सरन्तु। स्वगृहे एव स्थिरा भवन्तु। अलं भूयस्तवेन गताऽऽगतानाम्। यथाऽहं भवतस्सर्वान् विडम्बयिष्यन्ति। अतोऽकस्मादेव विश्वासो न करणीयः।
यावत्सङ्कटं मद्वचनं परिपालनीयम्। सम्प्रति निवर्तध्वं स्वगृहम्। अहमपि जननीसमीपं गच्छामि। अनाख्याय किञ्चिदिहायातोऽस्मि। इत्युक्तवैव मौद्गलिः सुकर्णेन सह स्वावासं प्रस्थितः।
शनैः शनैः सर्वेऽपि श्वापादः पशवः पक्षिणः सरीसृपा जलचरास्तत्स्थानादपायाताः। परन्तु मौद्गलिवचनं निशम्य सर्वेऽपि भयभीताः सञ्जाताः।
।।९।।
अपक्रान्तेषु च सर्वेषु श्वापदेषु पशुषु मञ्चस्थयोः पुरुषय़ोः पुनरुज्जीविताः प्राणाः साद्वसंवेगात् ताविदानीमपि कम्पमानावास्ताम्। नृशंसश्वापदानां वनपशूनां च एतावतीं बृहतीं संख्या तौ जीवने प्रथमवारं प्रत्यक्षमवलोकितवन्तौ। तावसकृत् इदमेव चिन्तयमानावासतां यत् हे प्रभो! यदि नाम तौ कथमपि श्वापदैर्दृष्टौ भवेतां तर्हि निश्चप्रचं जीवनं तयोरद्य परिसमाप्तमेव।
सम्प्रति प्रत्यागतचेतनौ तौ नगरस्थितं स्वसमुदायं कार्यालयञ्च सर्वमपि प्रत्यक्षदृष्टमाख्यातवन्तौ चलवाग्यन्त्रमाध्यमेन। विशेषरूपेण तौ मौद्गलिविषये वर्णितवन्तौ यत् प्रत्यक्षमवलोकित आवाभ्यां वृकमानवः। निश्चप्रचं स मानव एव, न खलु पशुः। स द्वाभ्यां पादाभ्यामटति। तस्यमुखं सर्वदा मानवमुखमनुहरति। परन्तु नाऽसौ मानवभाषां व्यवहरति। श्वापदोचितसङ्केतैरेव सर्वं निर्वहति। तस्य चेष्टेऽङ्गिताकारमुद्राअस्फुटभाषाञ्च तस्य सर्वेऽपि वन्यजीवाः सम्यगवगच्छन्ति।
किमधिकेन? नाऽसौ पशुरिव कुण्ठितबुद्धिः। यदि नामासौ नाऽत्राऽभिष्यत् तर्हि गर्तपतितस्य गजस्य बहिर्निष्क्रमणं सर्वथाऽसम्भवमेवासीत्। परन्त्वागतप्रायएवासौ बृकमानवः स्वबुद्धिमत्तया, गर्तं पूरयित्वा तं गजं बहिरानीतवान्। इयं बुद्धिर्मानवस्यैव, न तावत्पशोः।
तस्य बृकमानवस्य छायाचित्राणि दर्शं दर्शं भवन्तो विस्मिताः पुलकिताश्च भविष्यन्ति। अतएव यथासीघ्रमत्रागच्छन्तु। आतङ्किता बलवद्भीताश्च वयम्। भवत्सु समागतेष्वेव वृक्षमञ्चादधोऽवतरिष्यामः। न कापि चिन्ता कार्या। सफलतामुपयातमस्माकमभियानम्। वन्यपशुग्रहणप्रयासे समवाप्तोऽस्माभिर्बृकमानवः। वृत्तान्तमिममाकर्ण्य निखिलमपि राष्ट्रं रोमाञ्चमनुभविष्यतीति विश्वास आवयोः।
अन्वेषणयूथसदस्ययोः सन्देशमिममवाप्य बृकमानवसन्दर्शनवृतञ्चापि निशम्य पुलकिता अभूवन जन्तुशालाधिकारिणः। तत्कालमेव सर्वेऽपि प्रबन्धा यथापेक्षितं निर्व्यूढाः। आखेटकर्मणि निपुणाः शासकीयकार्यालये पञ्जीकृताः केचन स्वापदग्रहणदक्षा आखेटका अपि समाहूताः। एवञ्च प्रायेण पञ्चाशन्मिताः सेवका, अधिकारिणो रेञ्जरपदवाच्या, जनपदवनाधिकारी, मृगयादक्षा नागरिकाश्च वाहनारूढाः कान्तारं प्रतिष्ठितवन्तः। प्रायेण होराद्वयानन्तरमेव ते सर्वेपि गिरिशृंङ्खला-प्रचुरां वनान्तभूमिमतीत्य, कान्तारसीम्नि प्रवहन्तीं विभक्तानाम्नीं महानदीञ्चाप्यति-क्रम्य तत्स्थानमासादिवन्तः यत्र पूर्वेद्युः हस्तिगर्तो निर्मित आसीत्।
जन्तुशालाधिकारिणः अन्यांश्च दलसदस्यानागतान् संवीक्ष्य मञ्चस्थौ आखेटकौ त्वरितमेव वृक्षादवातरताम्। ततश्च तौ यत्किमपि यन्त्रमाध्यमेन सन्दिष्टवन्तौ तदेव पुनः सविस्तरं यथाक्रमञ्चाक्यातवन्तौ।
-त्वं सप्रमाणं वक्तुमुत्सहसे यदसौ बृकमानव एवासीत्? अधिकारी आखेटकमपृच्छत्।
-महोदय! भगवता शपामि। यमहं दृष्टवान् स आसीत् बृक्मानव एव। पृच्छतु भवान् मम सहचरमिमम्। नाहं तमेकधापश्यम्। प्रायेण होरामात्रमनवरतमपश्यम्। विविधासु मुद्रासु तमावामपस्याव। सकदाचित् भल्लूकान् किमपि सङ्केतयति स्म, कदाचिद् गजान्, कदाचिद् बृकान्। स्वयमप्यसौ निष्क्रियो नातिष्ठत्। किञ्चित्कुर्वाण एव परिलक्ष्यते स्म। आखेटकोवदत्।
-अथ तस्य शरीराकृतिः?
- शरीराकृतिस्तु सर्वता मानवाकृतिरिव। केवलं तस्य निखिलेपि शरीरे सान्द्ररोमराजय आसन्। नखास्तस्य श्वापदानां नखा इवासन्। दन्तपङ्क्तयोप्युच्चावचास्तीक्ष्णाश्च। नासौ मनुष्य इव वक्तुं समर्थः। केवलं मूक इवास्फुटं लपन् हस्तसङ्केतैश्च यतोचितं निर्दिशति स्म।
-तच्छरीरे किमप्यावरणमासीन्न वा? अधिकारी पृष्टवान्।
-सर्वथा नग्न आसीदसौ। श्वेतवनमानुष इव पादाभ्यां द्वाभ्यामेव पर्यटन्नसौ वृकमानव एव परिलक्ष्यते स्म।
-भवतु, सम्प्रति निश्चितं जातं यदसौ बृकमानव एवासीत्। तदिदानीं श्रृण्वन्तु भवन्तः। जीपयानैस्त्रिभिः श्वापदान् वयं विद्रावयिष्यामः। प्रतियानं सप्तजनाः भविष्यन्ति। एकस्तावद्यानचालकः। तत्समीपस्थो भविष्यति छायाचित्रग्राहकाः। पश्चाद्वर्तिन्यामासन्दिकायां द्वौ जनौ स्थास्यतः सायुधौ। वामे दक्षिणे वा भागे बृकमानवं सम्प्रेक्ष्यैव तौ क्षेप्यास्त्रगुलिकया चैतन्यमात्रहारिण्या तमाहतं करिष्यतः। ततोपि पृष्ठवर्तिन्यामासन्दिकायामुपविष्टास्त्रयो जना रिक्तलौहपिटकमाहत्य, शङ्खमाध्माय तारतरं मुखध्वनिञ्चोत्पाद्य वन्यजीवान् सन्त्रासयिष्यन्ति येन ते भयमादधान उपद्रुताः स्युः।
भो, एतदेव कार्यं त्रयाणामपि वाहनानां भविष्य़ति। वाहनानि तावदिमानि वामे दक्षिणे मध्यभागे च युगपदेव पुरस्सरिष्यन्ति।
पुनरपि कृपया सर्वे सावहिताः श्रृण्वन्तु यत् –
न कोपि कमपि श्वापदं हनिष्यति। केवलं तेषां विद्रावणमेवास्माकं लक्ष्यम्,
पुनश्च, अबियानेस्मिन् वृकमानवनिग्रहणमेवास्माकम् एकमात्र लक्ष्यम्। अतएव केवलं स एव गुलिकाप्रहारेण निस्संज्ञोविधेयः। कमपि श्वापदमाक्रामकं दृष्ट्वा सम्भूयात्मरक्षा करणीया। यद्यपेक्षितमनिवार्यं च स्यात्तर्हि विस्फोटद्वाराभीषयितव्यास्ते। बृकमानवे निगृहीते सति विद्रावणकार्यं परिसमापनीयम्। अद्यतनं कार्यमेतावन्मात्रम्। गजसिंहादिग्रहणं पश्चाद्वयं करिष्यामः।
अवशिष्टा जना अत्रैव स्थिरा भविष्यन्ति। यदि भवन्तः सङ्कटापन्ना स्युर्यदि वा किमपि साहाय्यामपेक्ष्येत तर्हि चलमदूरभाष माध्यमेन विज्ञापनीया वयम्। तदिदानीमल्पाहारं निर्वर्त्य, भगवन्तं स्मृत्वा स्वकार्यं प्रारभन्तां भवन्तः। न भेतव्यम्। अस्माकं समवाये शल्यचिकित्सका, नाडीविशेषज्ञा वैद्याः, सहायकाश्चान्येपि विद्यन्ते। अतएव न कापि चिन्ता कार्या।
भो बृकमानवनिग्रहेणेनाऽभिनवमितिहासं स्रक्ष्यामो वयम्।
इत्यभिधाय मौनमुपगतवति वनाधिकारिणि सर्वेऽपि जना अल्पाहारं निर्वर्तितवन्तः। ततश्च वाहनत्रये यथानिर्दिष्टमुपविष्टाः एकविंशतिजनाः कान्तारसय़ोत्तरभागे प्रस्थिताः। औदिच्यदिशातः विभक्तातटं यावद् विद्रावण कार्यं प्रवर्तिष्यत् इति पूर्वत एव निश्चितमासीत्। एतदपि मञ्चस्थाभ्यामाखेटकाभ्यामाख्यातमासीत्। यद्बृकमानवाऽवाप्तेः सम्भावना कान्तारस्योत्तरभागे एवाऽसीत्।
ततश्च पूर्वनिश्चितकार्यक्रमानुसारेण त्रीण्यपि वाहनानि प्रतस्थिरे। औदीच्यदिशिगत्वा ते सर्वेऽपि लौहपिटकानि तुर्यश्रृङ्गशङ्खादीनि च वादयितुं प्रारब्धवन्तः। विविधधातुद्रव्यनिर्मितवाद्यानां तेन समवेताऽरवेण भोङ्कारक्रेङ्कारचीत्कारफूत्कारशीत्कारतडत्कारचटत्कारधमत्कारादिसमन्वितेन कान्तारे अकस्मादेव सम्भ्रमः समुत्पन्नः। किमिदमभूतपूर्वमापतितमिति द्रष्टुं यावदेव सिंहा भल्लूका बृक्काः श्रृगाला मृगगवयादयः स्ववसतीभ्यो बहिरागतास्तावदेव विस्फोटानां कापि श्रृङ्खलाऽश्रूयत। एवं प्रतीयते स्म यथा शतमिताः प्रलयाम्भोदाः युगपदेव गर्जन्ति। श्वापदान् गिरिकन्दरा-भूरन्ध्र-निष्कुटेभ्यो बहिंर्भूतान दृष्टवैव वनराजीषु प्रच्छन्नानि वाहनानि, नभोविवरव्यापिनं यन्त्रनादं जनयन्ति, सहसा तान् विद्रावयामासुः। पिटकवादन-विस्फोटध्वनि-क्षेप्यास्त्रचण्डनादानां समन्वितेन भैरवरवेण सन्त्रस्ताः श्वापदाः विद्रुताः। तेन सिद्धं प्रयोजनं हाङ्कारिणाम्।
मौद्गलिरपि तस्मिन् दिने प्रभातकाल एव सर्वज्ञसमीपं गतवानासीत्। वस्तुतो हस्तिग्रहणार्थं नगरवासिभिः कृतमुपायमवेक्ष्य महति चिन्ता तन्मनसि जाताऽऽरण्यकानां प्राणिनां योगक्षेमविषये। तस्मिन्सन्दर्भ एव सत्परामर्शमवाप्तुमसौ परमधीमन्तं भल्लूकराजं सर्वज्ञं प्रति समुपेतः। चिरं यावत्पितामहेन सह विचैरविमर्शं कृत्वा यावदेवाऽसौ सुकर्णवसतिमुपाजगाम तावदेव कौबेरदिशातस्समापतन्तं कमपि श्रुतिविवरविदारणक्षमं प्रसृमराऽऽरवमश्रौषीत्। तेन विस्मितश्चकितसम्भ्रान्त इवाऽसौ जातः।
क्षणानन्तरमेव मौद्गलिरपश्यत् यत्सर्वेऽपि वन्य जीवा यमदिशायां विद्रवन्तस्समागच्छन्ति। मुखेभ्यः फेनराशिमुदवमन्तो मृगा गवया, जिह्वा बहिर्निष्कास्य समुच्छ्वसन्तो मृगेन्द्राः, उद्वृत्तलोलनेत्राः महिषाः, सन्त्रस्तनयना जीर्णशफाः, किलकिलारावं प्रकटयन्तो जवरा, अन्ये चापि भीतभीता जीवाः प्राणान् रक्षितुं धावन्ति। अनाख्यातमपि सर्वं वृत्तं वेद मौद्गलिः।
अभूच्च तन्मनसि – अहो! श्वापदान् स्वायत्तीकर्तुमिदमभियानं मर्त्यानाम्! ह्र्यस्तनप्रयासऽसाफल्यमवाप्य सन्तप्ततराः संरुष्टतरास्तेऽद्य दारुणमिमं बृहदुपक्रमं प्रारब्धवन्तः। तन्नाऽद्य दृश्यते कल्याणं मङ्गलं वा कान्तारस्य। अवश्यमेवानेके श्वापदा अद्य निग्रहीष्यन्ते।
एवं चिन्तयत्येव मौद्गलौ वायुवेगाद् दक्षिणवाहनं तत्समीपमागच्छत्। वाहनमकस्मादेव संमुखमवलोक्य, स्वनिग्रहं ध्रुवं मत्वा मौद्गलिश्चित्रकोत्प्लवेन कमपि तुङ्गतरं वृक्षमारोढुमियेषे। तं पादाभ्यां द्वाभ्यां धावन्तं वनमानुषाद्भिन्नञ्च दृष्ट्वा यानस्थाः सर्वेऽपि चालकच्छायाचित्रकाराखेटकप्रभृतयस्समवेतस्वरैः क्रन्दितवन्तः - सोऽयं वृकमानवः! सोऽयं वृकमानवः! भो बन्धवः! वृकमानवोऽयं सौभाग्येन दृष्टः। अयं सम्मुखमेव धावति। तद् निगृह्यतामयम्। नाऽपयातु क्वचित्। क्वचित्प्रच्छन्नो न भवेत्।
एवं क्रन्दत्सु तेषु सहसैव छायाचित्रकारो मौद्गलेरनेकान् प्रतिबिम्बान् जग्राह। क्षणं यावत् मौद्गलिः प्रांशुवृक्षं कमप्यन्वेष्टुं वाहनसमक्षं धावन्नासीत्। परन्तु तावदेव तन्नितम्बे कण्टकमिव किञ्चिन्निखातम्। तथापि तत्सर्वमदृष्ट्वैव मौद्गलिरात्मत्राणार्थं वेगेन पुरस्ससार।
तावता कालेनैव चैतन्यहरिण्या क्षेप्यास्त्रगुलिकया स्वद्रुतप्रभावः प्रदर्शितः। वराको मौद्गलिर्मूर्च्छितस्सन् धरित्र्यां निपपात।
निगृहीतो मौद्गलिः। सर्वाण्यपि वाहनानि तत्रैव स्थगितानि। सर्वेऽपि विद्राविताः श्वापदा विभक्ताभिमुखं प्रयाता आसन्। न कोऽपि वन्यजीवो ज्ञातवान् यत् केन सह किं घटितम्? को नु मृतः? को वा क्षतविक्षतोऽभूत्? को वा निगृहीतः? सर्वेऽपि स्वात्मानमेव सुरक्षितं मत्वा प्रसन्ना जाताः।
सर्वेऽप्याखेटकास्तं बृकमानवं समवेक्ष्य हतप्रभाः सञ्जाताः। सर्वथा युवानं मानवमेवानुहरतिस्म बृकमानवः। त्वरितमेव कश्चित् चलदूरवाण्या जन्तुशालाधिकारिणं सूचितवान् यन्निगृहीतो बृकमानवः। तञ्चादाय सर्वेऽपि वयं द्रुतमागच्छाम इति। हस्तौ पादौ च पृथक् संयमितौ मौद्गलेः। तस्य मुखोपरि कृष्णवर्णं वस्त्रमास्तीर्णम्। तञ्च वाहने स्थापयित्वा सर्वेऽपि स्कन्धावारं प्रति प्रस्थिताः।
सन्ध्याकालात्पूर्वमेव सर्वेऽपि नगरमुपावृत्ताः। महता संरम्भेण सत्प्रबन्धेन च बृकमानवोऽयं कस्मिंश्चित् सुदृढे लौहपञ्जरे स्थापितः। बृमानवं दिदृक्षूणां महान् जनसम्मर्दस्तत्र जन्तुशालायां पुञ्जीभूतः। कर्णपरम्परया प्रवृत्तिरियं सर्वैरपि पौरैर्ज्ञाता। ततश्चाग्रिमे दिवसे लक्षसंख्याका दर्शकाः जन्तुशालां परिगतवन्तः। ततश्च रक्षिणां साहाय्येन यथाकथञ्चित् ते नियन्त्रिताः।
जनपदाधीशः मण्डलाधीशः, मुख्यमंत्री राज्यपालः, कुलपतिः अन्ये चापि सम्मान्याधिकारिणो जन्तुशालानिदेशकेन बृकमानवनिग्रहसन्दर्भे सूचिताः। अन्येद्युस्तु सर्वेष्वेव समाचारपत्रेषु सच्छायाचित्रं बृकमानवनिग्रहणवृत्तं प्रकाशितं जातम्। कार्यान्तराणि सर्वाण्यपि स्थगितानि समाजे। सर्वत्रापि बृकमानवस्यैव चर्चा जाता।
मूर्च्छायामपगतायां मौद्गलिरात्मानं सुदृढलौहपञ्जरनिबद्धमपश्यत्। सुकर्ण वचनं स्मृतवानसौ यद् विलक्षणस्वरूपं भवन्तमपि ते ग्रहीतुं शक्नुवन्ति। हा हन्त तदेव सत्यं जातम्! निगृहीतोऽस्मि मानवैः? चिरं यावदसौ लौहपञ्जरशलाका भङ्क्तुं प्रायतत। परन्त्वसफलो जातः। ततश्च श्रमश्लथस्सन् भूयोऽपि बहिरागन्तुं प्रायतत।शलाकयोरन्तराले शीर्षं निधातुं यत्नमकरोत्। तत्सर्वमपि व्यर्थं जातम्। हस्ताभ्यां मौद्गलिः पञ्जरविधूननं समुत्पाटनं भञ्जनं वा कर्तुमियेष। परन्तु तस्मिनपि न क्षमो जातः। ततश्च किंकर्तव्यविमूढोसौ विवशीभूय, विविधैः परिवर्तितस्वरैर्वन्यमित्राण्याह्वातुं प्रारभत। तस्यावाहनेऽतीव दैन्यं, वैवश्यं, साध्वसं, पारतन्त्र्यजञ्च दुःखमासीत्।
परन्तु मौद्गलेरन्तस्तापं मरणान्तकं वा परिपीडनं तत्र को न्ववगच्छेत्? सर्वेऽपि तत्र कुतूहलोपशमनार्थमागता आसन्। सर्वेषां मनोरञ्जनावसरोऽयमासीत्। मौद्गलिग्राहकास्तु स्वबुद्धिकौशलं साहसं षड्यन्त्रश्च प्रशंसन्त आत्मशौण्डीर्यं दर्शयन्ति स्म। न ते क्षणमात्रमप्यन्वभवन् यद् विद्रवन्तं कमपि वन्यसत्त्वं, क्लीबा इव चेतोहर्या क्षेप्यास्त्रगुलिकया मूर्च्छितं विधाय ते, तमानेतुं शक्ता अभूवन्।
संस्मृतकान्तारो व्यथाक्रान्तो मौद्गलिर्न किमप्यखादत् न वा जलमपिबत्। शिथिलभूयपञ्जरभूमौ शेतेस्म, प्रबुद्धो वा बहिर्निर्गन्तुं प्रयततेस्म, मुक्तकण्ठो वा करुणकरुणं क्रन्दनं कुरुतेस्म। कदाचित् विक्षिप्त इव व्यवहरति। कदाचिच्चछीर्षं विधुन्वन्, जातु निजोदरं ताडयन्, मुखं व्यादाय वा चीत्कुर्वन्नसावुन्मत्त इव परिलक्ष्यते स्म।
अन्येद्युर्मध्याह्नं यवज्जलमप्यसौ भूयः प्रदत्तं नाऽपिबत्। तदा जन्तुशालाधिकारिणश्चिन्तिता जाताः। केचनपशुनिसर्गविशेषज्ञाःवनविज्ञानपण्डिता अपि परामृष्टाः। तेऽपि पूर्वृत्तान स्वानुभवान् वर्णयन्तोऽवदन् – यन्नेदं शुभलक्षणम्। केचन कान्तारजीवनसमासक्ता जीवा कान्तारव्यतिरिक्ताः सन्तो जीवितुं नेच्छन्ति। सद्य एव म्रियन्ते।
तत्रापि वृकमानवोऽयं विशिष्टो जीवः। निश्चप्रचमयं कश्चिन् मानवंजातक एव। यथाकथञ्चित्कान्तारोपगतः वन्यप्राणिनां मध्ये एव परिपालितः। शरीरमात्रेणाऽयं मानवः। परन्तु प्रकृत्या पूर्णोऽयं पशुः। अतएव पशून् विना जीवितुं न शक्ष्यति। अस्य पञ्जरं सिंहव्याघ्रभल्लूकादीनां पार्श्व एव स्थापयन्तु। मन्ये तावता स्तोकं सान्त्वितोऽयं भविष्यति।
मौद्गलिपञ्जरः सिंहवाटीसमीपमानीतः। अस्मात् स्थानात् सिंहा व्याघ्रा भल्लूका बृका सर्वेऽपि परिलक्ष्यन्ते स्म। मौद्गलिस्तानरण्यबन्धून् दृष्ट्वा चिराभ्यस्तस्वरैस्तानाजुहाव। परन्तु न तेऽभीष्टमुत्तरं दत्तवन्तः। समेषामेतेषां वन्यप्रवृत्तयो विनष्टा अभूवन्। सम्प्रति ते सर्वेऽपि मांसखण्डलोभिनो वनपालदासानुदासास्तत्कृपाकाङ्क्षिणस्सञ्जाता आसन्। विलुप्तैवासीत्तेषां तेजस्विता। विनष्ट एवासीत् तेषां वन्यो निसर्गः।
एवमेव व्यतीतो द्वितीयोऽपि दिवसः। मौद्गलिं विवशीकृत्य यथा – कथञ्चिन्नलिकया पोषणौषधिमिश्रितं दुग्धं तदुदरे प्रवेशितम्।