।।१०।।
आखेटकमर्त्येष्वपगतेषु सर्वेऽपि श्वापदाः पशवश्च शनैः शनैः शङ्कोपहत चेतसः सल्तिमितनयना अविश्वस्तभावेन चतुर्दिक्ष्ववलोकयन्तः सन्द्यां यावत् स्ववसतिमुपावृत्ताः। सन्ध्यानन्तरमेमव समागता रात्रिः समस्तव्यवसायाऽवसायिनी। सर्वेऽपि औदीच्यकान्तारवासिनो विद्रावणवशात् अतिशयेन श्लथा निरुत्साहश्च सञ्जाताः। सन्धिबन्धाः समेषां त्रुटितप्राया आसन्। नेत्रयोः समेषां सम्पृक्ताऽऽसीत् प्रगाढनिद्रा। अतएव भोजनपानचिन्तां विहाय सर्वेऽपि गाढगाढं प्रसुप्ताः।
परन्तूत्तरेद्युर्मिथश्चर्चा प्रारब्धा पशुविद्रावणविषयिणी। सर्वेऽपि स्वानुभवमाख्यातवन्तः। अपगता विपदिदानीं मनोरञ्जनहेतुर्जाताऽऽसीत्।
-मौद्गलिर्न दृश्यते। ह्यास्तनिके उपप्लवे क्वासीदसौ? अकस्मादेव सुकर्णोऽपृच्छत्
........ न कोऽपि किञ्चिदुवाच। सर्वेऽपि गम्भीराश्चिन्तिताश्च सञ्जाताः। मौद्गलेः सन्दर्भे समायात एव गौणीभूता अपरे सन्दर्भाः। सर्वेऽपि वनौकसोऽनर्थशङ्कया विषण्णाः सञ्जाताः।
-भो नाऽस्माभिर्निष्क्रियैः स्थातव्यम्। गजोद्धारानन्तरं मौद्गलिर्मामवोचत् – सुकर्ण! एते नगरवासिनो मानवाः पुनरप्यागमिष्यन्ति। अतएव कान्ताररक्षार्थं स्थिर उपायोऽस्माभिः करणीय एव। तत् श्वस्तने प्रभातकाले परामर्शार्थं पितामहसर्वज्ञसमीपमुपयास्यामीति।
तत्पितामहमुपेत्य प्रष्टव्यं यन्मौद्गलिर्ह्यस्समागतस्तं न वा?
-समुचितोऽयं प्रस्ताव सर्वेऽप्युक्तवन्तः।
-तद् दहनाक्षो मौद्गलिं तदगृहेऽवेक्ष्य वेणुवने पितामहमुपयातु। वयञ्च सर्वे इत एव वेणुवनं प्रतिष्ठामहे।
अथ सर्वेऽपि कान्तारवासिनश्चिन्ताप्रतान्तनयना विषण्णहृदया अनर्थाशङ्कया विलुलितमानसा द्रुतपदैः सर्वज्ञं भल्लूकराजमुपाजग्मुः। सर्वप्रथमं तु तत्पुत्रो मर्मज्ञ एव विदितवेदितव्योऽभूत्। ततश्च मर्मज्ञविज्ञापितस्सर्वज्ञोऽपि मौद्गलिकुशलक्षेमाकाङ्क्षया मञ्चादधोऽवतीर्य तान् सर्वान् प्राह –
वत्साः! ह्यस्तने प्रभातकाल एव मौद्गलिर्मामागतवान्। स कान्तारपरिरक्षणविषयेऽतीव चिन्तापर्याकुल आसीत्। कान्तारधर्मं कान्तारसंस्कृतिञ्चाप्यधिकृत्य बृहतीं चर्चां कृतवान् मौद्गलिः।
सिंहादयो वन्यजीवाश्चाञ्चल्यवशादेव निगृह्यन्ते प्रवञ्चनपरायणैर्मानवैः। अस्माकं भयममेव जायते बन्धनहेतुः। यदि विद्रावणहाहाकारं श्रुत्वा सर्वेऽपि श्वापदा गिरिकन्दरासु, बृकशृगाललकुटव्याघ्रादयो भूरन्ध्रेषु वराहादयश्च गहनारण्यनिष्कुटेषु प्रच्छन्नाः स्युः, अलक्षिता वा भवेयुस्तदा तेषां निग्रहणं सर्वथाऽशक्यं भविष्यति। प्रकृत्यैव भयार्ता मानवाः सिंहान् व्याघ्रान्वा गवेषितुं गुहासु न जातुं प्रवेक्ष्यन्ति । परन्तु लौहपिटकारवं शङ्खतूर्यध्वनिं श्रुत्वैव श्वापदा यथा प्रकाशं पलायितुमारभन्ते तदा वाहनारूढा क्षेप्यास्त्रजालमार्गादिन्नद्धा मानवास्तान् सरलतयैव ग्रहीतुं समर्था भवन्ति!
मानवाः स्वबुद्धिबलेनैव विजयिनो भवन्ति। अन्यथा न तेऽस्मत्तो बलवत्तरा भवन्ति। अहो यं मृगेन्द्रं व्याघ्रं सिन्धुरं चित्रकं तरक्षुं वा दृष्ट्वैव मानवाः भयेन प्रस्रवन्ति तानेव किङ्करीकृत्य विद्युत्कशाबलेन यथासुखं नर्तयन्ति? कियल्लज्जाकरमिदमस्माकं वन्यजीवानां कृते?
भूयोऽपि मौद्गलिर्मामवोचत् – पितामह! कान्तारस्यापि केनचिद्धर्मेण भवितव्यम्। वन्यशब्दः सम्प्रति मानवैरसभ्यस्यार्थे नृशंस्यार्थे वा प्रयुज्यते। कस्मात्? यतो हि वनेऽस्मिन् न मानवीयाः सद्भावाः प्रेमदयादयः प्रतिष्ठिताः। अतएवास्माकमप्याचरणं किञ्चित्परिवर्तनमर्हति। तन्महासभायां पशूनां केचित्प्रस्तावा अवश्यमेव सर्वसम्मत्याऽङ्गीकरणीयाः। तद्यथा –
-सद्यः प्रसूतो जातकः कस्याचिदपि मातुर्न केनापि भक्षणीयः।
-पङ्कपतितः कश्चित्पशुर्न भक्षणीयः। प्रत्युत वारणीय एव।
-लतापाशसंयमितो निबिडनिष्कुटाबद्धो वा कश्चित् निरीहोऽसहायो वा पशुर्न हन्तव्यः।
-शावकः कस्यापि श्वापदस्य पशोर्वाऽऽत्मत्राणेऽशक्तो न हन्तव्यः।
-रतिव्यापार संलग्नौयुग्मौ न कथमपि हन्तव्यौ।
-खञ्जोऽन्धो व्याधिग्रस्तोऽसहायः कातरो वा कश्चिज्जीवो न जातु हन्तव्यः।
एवमाचरतामपि श्वापदानां कृते कान्तारेऽस्मिन् नावलोक्यते भक्ष्यस्य नैयून्यम्। पितामह! भवत्संरक्षणे एते सर्वेऽपि प्रस्तावाः श्वापदैरङ्गीकर्तव्याः।
वत्साः! मौद्गलिरस्माकं सखा, अस्माकं विपद्बन्धुः, अस्माकं कल्याणाशंसी, अस्माकं संरक्षकः। तस्य हृदयेस्माकं कृतेऽनन्तकारुण्यं वरीवर्ति। तदभावे वनमिदं निष्प्राणम्। निष्प्राणाश्च वयम्।
मया सह चिरं यावन्मन्त्रणामिमां सम्पाद्यैवाऽसौ, वनमानुषान् चम्पाजीवांश्च मितिलुं कणठनालं प्रति प्रतस्थे। ततः परं किमभूदिति नाहं जानामि।
-मौद्गलिर्ह्यस्तनरजन्यां स्ववसतिं नायात इति वदति तज्जननी। इदानीमप्यसौ स्वगृहे नैव वर्तते। इत्याह तावदेव मौद्गलिगृहादुपावृत्तो दहनाक्षः।
-पितामह! निश्चप्रचमस्माकं विपद्बन्धुरमौद्गलिर्निगृहीतः। करुणं विलपन् सुकर्णोऽवदत्।
-मौद्गलिर्निगृहीत एव। मया प्रत्यक्षमवलोकितं सर्वम्। इति तारस्वरेण भाषमाणा स्थविरा तावदेव समक्षमागता।
-भद्राः श्रृणुत यद्घटितम्। पितामहावासादुपावर्तमानो मौद्गलिर्ह्यस्तने मध्याह्ने मध्येमार्गं मया दृष्टः। स कण्ठनालं जिगमिषुरासीत्। अहमपि किञ्चिदशजनजातमन्विष्यन्ती विवराद् बहिः स्थाऽसम्। पञ्चषां एव निमेषा व्यतीताः स्य़ुः। तावदेव त्रीणि वाहनानि समासन्नप्रायाणि ददृशिरे। तदालोके सर्वेऽपि वनपशवः भयातङ्कातर्यविद्धा विद्रवन्तो दृष्टाः। तदवलोक्य मौद्गलिर्मामवदत् – अज्जुके! द्रुतं प्रविश कस्मिन्नपि भूविवरे। रक्षात्मानम्। समागता एते श्वापदग्राहिणो मानवाः।
-हा दैव! केन मुखेनाग्रे वर्णयानि? करुणकरुणं विलपन्ति स्थविरा बाष्पस्तम्भितकण्ठी, कम्पितकलेवरा चावदत् – वत्सकाः! आत्मानमग्राह्यां तृणगुल्माच्छन्नाञ्च मत्वा यवदहं किमपि सुरक्षितस्थानमन्वेष्टुं प्रयत्नपरा जाता तावदेव काचिदिषीका तीव्रजवेन मौद्गलिनितम्बे निविष्टा येनाऽसौ स्खलद्गत्या कतिचित्पदान्यग्रेसरीभूयैव सहसा भूमौ निपतात, निस्चेष्टश्च सञ्जातः।
मौद्गलिमवाप्यैव विद्रावणं मानवस्तैः स्थगितम्। सर्वाण्यपि त्रीणि वाहनानि तत्रैव निभृतं तस्थुः। ततश्च ते हस्तौ पादौ च पृथक् रज्ज्वा दृढमाबध्य, नेत्रोपरि च कृष्णकर्पटमाच्छाद्य मौद्गलिं वाहनमधिरोपितवन्तः।
तान् प्रस्थितान् दृष्ट्वौवाऽहमपि वाहनान्यनुसृतवती। अभून्मम मनसि यत् नीयमानेन मौद्गलिना साकं यदि नाहमुपैष्यामि तर्हि पश्चात् तदन्वेषणमपि दुस्साध्यं भविष्यति। तन्मयाऽप्यनुगन्तव्यमेव। वार्द्धक्येऽपि परमेश्वरकृपया प्राप्ता मयकेयती धावनशक्तिरिति स्मृत्वैव विस्मिताऽस्मि। नगरं यावन्मयानुसरणं कृतम्।
अनुसरणमार्गे प्रारम्भादन्तं यावत् स्थाने स्थाने मया स्वमेहनं विंसृष्टम्। तदगन्धेनैव सम्यकतया प्रत्यभिजानामि मार्गम्। यस्मिन् स्थाने वर्तते मौद्गलिः तदपि वनमेव संलक्ष्यते। तत्रापि सन्ति सिंहा व्याघ्राश्चित्रकास्तरक्षवः हरिणाः गवया जीर्णशफाः जवराश्चम्पाजीवा वनमानुषाः सर्पा अजगरा गोधा वानरा विविधजातीयाः पक्षिणश्च। परन्तु न कोऽपि स्वतन्त्रः। सर्वेऽपि पञ्जरे लौहनिर्मिते, स्थले सजलपरिखावृते, सरोवरेऽयोजालपरिच्छिन्ने, गभीरेनिपाने वा निरुद्धा जीवन्ति। आह रे धातः! मद्दुर्ललितदारको मौद्गलिरपि लौहपञ्जर एव निरूद्धः।
मौद्गलेर्दुर्दशामाख्यातुं नाऽहं शक्ता। दिवसं यावत्तत्र स्थिताऽहं सर्वमपश्यम्। केवल मौद्गलिं द्रष्टुं सहस्रमिता मानवा वने तस्मिन् संहता वर्तन्ते। परन्तु वनवियोगावसन्नो मौद्गलिः विक्षिप्त इव परिलक्ष्यते। न किञ्चिदश्नात्यसौ। न चापि जलं पिबति। प्रतिक्षणं भवतामेव स्वरैः करुणकरुणं क्रन्दित्वा साहाय्यार्थम्, किञ्च आत्ममुक्त्यर्थं भवतस्सर्वानाह्वयति वत्सो मे। यदि शीघ्रमेव न भवद्भिर्मोचितोऽसौ सार्वकालिकोऽरण्यबन्धुस्तर्हि निश्चितमेव प्राणांस्त्यक्ष्यति। मानवाः सबलात्कारं तत्कण्ठे नलिकां प्रवेश्य जलं क्षीरं वा पाययन्ति। परन्तु मौद्गलिस्तदपि त्वरितमुद्वमति।
एतत्सर्वं प्रच्छन्नरीत्यैव निरीक्षितम्मया। तत्र क्षणमात्रमप्यन्धकारो न जातः। जनशून्यमपि नाऽभवत् तत्स्थानम्। अतएव प्रयत्नवत्यप्यहं मौद्गलिसमीपमुपगन्तुं नाशकम्। परन्तु रात्रिं तेन सहैव यापयित्वा भूयस्समागताऽस्मि वृत्तं निवेद यितुम्। श्रुत्वा भवन्त एव प्रमाणम्। मूत्रगन्धैर्मार्गो मया सुष्ठु परिज्ञेयो विहितः। अतो मौद्गलिसमीपं भवतस्सर्वान् प्रापयितुं सर्वथा समर्थाऽहम्।
स्थविरामुखात् मौद्गलेः करुणकतां श्रुत्वैव सर्वज्ञप्रमुखाः सर्वेऽपि श्वापदा दहदग्निपिण्डकल्पाः सञ्जाताः। सर्वज्ञो दुर्गमं सम्बोध्य प्राह –
कान्ताराधिपते दुर्गमेश्वर! नाऽयं निष्क्रियताया अवसरः। अतएव जाल्मा दुर्बुद्धिगर्वितामानवा यथोचितं शिक्षयितव्याः। अयं प्रत्यक्षापमानो भवताम्। इदमुल्लङ्घनं वनमर्यादायाः। यदि नामारण्यकानां ग्रामनगरप्रेशो ग्रामीणैर्नागरिकैर्वा नाभिनिन्द्यते, न सह्यते तत्तेषां कान्तार प्रवेशः कथमस्माभिर्मर्षितव्यः? येभ्यः पशुभ्यः श्वापदेभ्यो वा ग्रामो रोचेत, नगरं रोचेत ते सुखं तत्र निवसन्तु। तत्र नाऽस्माकं काऽप्यापत्तिः। तथैव, येभ्यो मानवेभ्यो वनमपि रोचते ते सुखमत्र निवसन्तु। समागतं तेषाम्।
परन्तु कुतस्त्योऽयं न्यायो यच्छ्वापदा नगरे सबलात्कारं निरूद्धाः स्युर्लौहपञ्जरेषु? ये केसरिणोऽहन्येव निखिलकान्तारमतिक्राम्यन्ति लीलयैव हन्त ते शयनमात्रोचिते सङ्कीर्णावकाशे पञ्जरे कथं जीवन्तु? ये पक्षिणोऽहोरात्रं मुक्ते व्योम्नि यथासुखं विहरन्ति त एव कथं जीवन्तु जालपरिवृते कुटीरे? किं कारागृहसेवनं सर्वसौविध्यसम्पन्नमपि रोचते मानवेभ्यः? यदि नैव रोचते नाम, तर्हि कस्मात्तदेव दुःखमस्मभ्यं दीयते तैर्नृशंसैः?
राजन्! असह्योऽयमत्याचारः। अतएव स्थविरानेतृत्वे श्वस्तनप्रभातकाल एवेतः प्रस्थाय नगरमुपगन्तव्यमस्माभिः। लौहपञ्जरं चूर्णयित्वा न केवलं मौद्गलिरेव मोचयितव्योऽपितु सर्वेऽपि निबद्धाः श्वापदाः पशवः पक्षिणः सरीसृपाश्च तत्रत्या बन्धनमुक्ताः करणीयाः।
वत्स दुर्गम! त्वत्तातपादा विक्रमाख्या अस्मद्बालसुहृद आसन्। तत्सम्बन्धेन त्वमप्यसि मत्पुत्रकल्प एव। त्वयि विराजन्ते सम्यक्तया त्वज्जनकस्य सद्गुणाः। अतएव त्वामाज्ञाप्तुं वर्तत एव ममाधिकारः। अयमेव ममादेशः, ममाभ्यर्थना! दारूणमाक्रम्य स्वबन्धुबान्धवान् मर्त्यानां कारातोऽवमोचय। कान्तारस्य कान्तारवासिनाश्च सम्प्रभुत्वं रक्ष वत्स! पर्यटितुमशक्तत्मान्नाहं त्वया सह गच्छामि, परन्तु मर्मज्ञादयस्सर्वेऽपि मम पुत्रपौत्रास्तव सहयायिनो भविष्यन्ति। सम्प्रति सज्जीकुरु स्वसैन्यम्।
।।११।।
अथ वयोवृद्धात् सर्वज्ञात् प्राप्तप्रेरणो वनबन्धुवियोगसन्तप्तो वनपतिर्दुर्गमेश्वरो मौद्गलिमन्यांश्च वन्यजीवान् मोचयितुं मतिञ्चकार। सर्वोऽप्याक्रमणप्रबन्धो निर्व्यूढः।
अन्येद्युः सूर्योदयात्प्रागेव सर्वेऽप्यारण्यकाः श्वापदाः पशवः खेचरा सरीसृपाश्च नगरं प्रति प्रस्थिताः। गोधाविषकर्परभुजङ्गादयस्तु गजपृष्ठेष्वारूढा आसन्।
पूर्वदिवसयोर्गमनाऽगमनाभ्यां परिश्रान्ताऽज्जुका स्थविराऽपि गिरिबलपृष्ठारूढा, नगरपथं दर्शयन्ति, सैन्याग्रभागे स्थिताऽसीत्।
निभृतनिभृतमेव श्वापदसैन्यमिदं प्रभातात्प्रागेव जनशून्यमार्गेण पुरस्सरत् नगरमुपाययौ। स्थविरा श्वापदसैन्यमिदं जन्तुशालासमीपमानीनाय।
इदानीमपि मौद्गलिर्निजाऽभ्यस्तस्वरैर्वन्यबन्धुनाह्वयति स्म। तदाकर्ण्यैव ते ते सिंहगजभल्लूकवानरादयोऽपि प्रत्याह्वानं कृतवन्तः। ततश्चाकस्मादेव मौद्गलिर्निजाह्वानस्योत्तरं श्रुतवान्। श्रुत्वैवाऽसौ विस्मितो जातः। विश्वासो नाऽभूत्। स पुनरपि गजध्वनिमुदचरत्। गजश्चापि सर्वे त्वरितमेव प्रतिस्वरं दत्तवन्तः। ततश्च मौद्गलिः क्रमेण सिंहान् वनमानुषान् महिषांश्चाजुहाव। तेऽपि पूर्ववत् महतोत्साहेन्, महत्या च प्रीत्या प्रत्युत्तरं दत्तवन्तः। तत्सर्वं निशम्यैव पुलकितो जातो मौद्गलिः। विश्वासस्तस्य दृढीभूतो यत्समागतास्तमुद्धर्तुं तस्य बान्धवाः। ततश्च स्तिमितस्तिमिताभ्यां नेत्राभ्यां परितोऽपि प्रेक्षितुं प्रवृत्तो मोद्गलिः।
तस्मिन्नेवमाचरत्येव श्वापटसैन्यं सहसैव प्राकारभित्तिमिष्टकानिर्मितां भङ्क्त्वा जन्तुशालायां प्रविष्टम्। शतमितान् सिंहान् गजान् महिषान् गृद्ध्रान् सर्पांश्चाकस्मादेव समापतितान् दष्ट्वा सर्वेऽपि कर्मकरा जन्तुशालायाः किकर्तव्यविमूढाः सञ्जाताः।
कान्दिशीका भयार्ताश्च ते क्षणेनैव प्रणष्टाः। ततश्च प्रारब्धः स्वातन्त्र्योपक्रमः। महाबलगिरिबलाख्यौ गजौ मौद्गलेर्लौहपञ्जरस्य लौहदण्डद्वयं विपरीतदिशायां समाकृष्य, बहिर्निष्क्रमणयोग्यं विस्तृतावकाशं निर्मितवन्तौ येन मौद्गलिः सरलतया बहिरागतो महाबलपृष्ठञ्चाधिरूरोह। ततश्च सर्वे एव पशवःसंलग्ना बान्धवानां समुद्धारे।
संक्रुद्धाः गजा महिषाश्च सर्वा एवावरोधभित्तीर्न्यपातयन् येन सर्वेऽपि हरिणाः गवया मेषाश्छागाः स्वतन्त्रा जाताः। महाबलगजबलो शुण्डादण्डौ परिखायामवलम्ब्य नक्रान् मकरांश्चैकैकशो बहिरानीतवन्तौ। बहिरागतास्ते हस्तिपृष्ठमधिरूढाः। अयस्तन्तुनद्धपक्षिशालायाः विस्तीर्णा जालमार्गा हस्तीपृष्ठसमारूढैर्वनमानुषैर्दन्तक्रकचैर्विच्छेदिताः येन सर्वेऽपि विहगाः कलरवं विदधानाः स्वतन्त्राः सञ्जाताः।
ततश्च करिणः लघुवृक्षन् निपात्य परिखोपरि स्थापितवन्तो येन पर्यटनयोग्यः कश्चित्सेतुर्निर्मितः। तेन सेतुना सर्वेऽपि सिंहा व्याघ्राश्चित्रकास्तरक्षवो भल्लूकाश्च कतिपयैरेव निमेषैः स्वतन्त्रीभूय बहिरागताः।
एवं हि , अर्धहोरावधिकेन प्रयत्नेनैव सर्वं सम्पन्नम्। जन्तुशालाया सर्वेऽपि पशुपञ्जराः सम्भुग्ना, अवरोधिन्यो भित्तयो निपातिता, लौहजालमार्गाश्चापि च्छिन्नाः। विजयोन्मादसम्भृताः सर्वेऽपि श्वापदाः पशवश्च तारस्वरेण हुङ्कर्तुं प्रारेभिरे येन समग्रमेव दिगन्तरालं बधिरं जातम्।
परन्तु यावदेव ते सर्वेऽरण्याभिमुखीभूय निर्गन्तुं प्रवृत्ता अभवन् तावदेव क्षेप्यास्त्रमुद्यम्य केचन जन्तुशालारक्षिणस्तेषां मार्गमवरुद्धवन्तः। तदवलोक्य, निभृतनिभृतं कुटिलो नाम महाविषधरस्सर्पस्तदन्तिकमुपगतः पादतलञ्च कस्यचित् निर्भरं दृष्टवान्। कतिपयक्षणैरेवाऽसौ कृष्णकायस्सन् मुकेन फेनसंहतिमुद्वमन् भूमौ निपतात। तस्येमां दशामवलोक्य तत्सहायकास्तमादाय औषधालयमुपगताः। तावदेव विकटदंष्ट्रा बर्बरसिंहाश्चित्रकाश्च पञ्चषाःहुङ्कुर्वाणाः समक्षमागताः। तान् दृष्ट्वैव शिथिलपरिधानाः सर्वेऽपि जन्तुगृहरक्षकाः अस्त्रशस्त्राणि भूमौप्रक्षिप्य प्रद्रुताः। सर्वोऽपि जन्तुशालापरिसरो निमेषैरेव जनशून्यो जातः।
अद्भुतमासीद् दृश्यमिदम्। निर्बन्धाः स्वतन्त्रा विजयिनस्सर्वेऽप्यारण्का सहर्षं सपुलकमिदानीं स्वगृहभूतं कान्तारं प्रति प्रस्थिता। न कोऽपि नागरकानभीषयत्। सर्वेऽपि पङ्क्तिबद्धाः सन्तः शनैः शनैरग्रेऽसरन्। सर्वसमक्षमासीत् महाबलपृष्ठारूढो मौद्गलिः। तस्याप्युत्सङ्गे विलसति स्म वनाज्जुका स्थविरानाम्नी गोधा यस्याः प्रयत्नेनैव मौद्गलेरुद्धारः सञ्जातः। महाबलमनुसृतवन्तस्सर्वेऽपि श्वापदाः। तत्रापि वनराजो दुर्गमो गिरिबलपृष्ठारूढ आसीत्। अन्ये च सर्वे स्वयमेव भूमौ प्रचलन्ति स्म।
स्वापदाननुजग्मुः सर्वेऽपि पशवो महिषजीर्णशफजवरगवयप्रभृतयः। पश्चात्तने भागे आसन् चम्पाजीवा वनमानुषा गजाश्चान्ये। समुद्धृताः सर्वेऽपि नक्रा मकरा गोधाः सर्पा अजगरादयोपि हस्तिपृष्ठारूढा आसन्। पक्षिणश्च सर्वे व्योममार्गेण प्रस्थिताः। ते समुड्डीय प्राचलन्। एवं हि मिथोऽनुरञ्जयन्तस्तेमध्याह्नात् पूर्वमेव कान्तारमुपगताः।
मौद्गलिः कान्तारमुपेत्य सर्वप्रथमं सुवेगां प्रणनाम। ततश्चासौ पितामहचरणं सर्वज्ञमुपगम्य, कातरीभूय विलपन् तदुत्संगे मुखं गोपायित्वा चिरं यावदरोदीत्। भल्लूकराजोऽपि मौद्गलिर्पृष्ठं वत्सलकरतलेनासकृत्सारयन् तं पौनः पुन्येन चुचम्ब, सान्त्वयामास च। सर्वज्ञः सहर्षं सपरितोषमाह –
भो बन्धवः! स्वाधीनतादिवसोऽद्य कान्तारस्य! इतोऽग्रे “बन्धनं न सहामहे” इत्येव भविष्यत्यस्माकं जातीयः समुद्घोषः।
श्वस्तने मध्याह्न काले च भवन्तस्सर्वे कण्ठनालस्थं वटमण्डपमागच्छन्तु। तत्र मौद्गलिनाऽरण्यकल्याणाय समुपन्यस्तानां प्रस्तावानां सन्दर्भे विस्तृता चर्चा भविष्यति। ते च प्रस्तावा मया पूर्वमेव भवत्समक्षं प्रकाशितास्तिष्ठन्ति। यदि भवदीयी अपि केचित्प्रस्तावः स्य़ुस्तर्हि तेऽपि विचारार्थं महासभायां प्रस्तोतव्याः।
कान्तारबन्धुरित्ययमुपाधिर्मया दीयते मौद्गले! स्वस्ति भवद्भयः। यत्समीहितं मया तत्सम्पादितमस्माकमधीश्वरेण कण्ठीरवकुलकमलभास्करेण दुर्गमेनेति कृत्वा तस्मै अपि शुभाशिषः प्रदीयन्ते।
वनमेवाऽस्माकं जन्मभूमिः, लीलाभूमिः, कर्मभूमिर्विश्रामभूमिश्च। इदमेवाऽस्माकं प्रत्यभिज्ञानसाधनम्। आरण्यकाः वन्या वा कस्माद् वयं सम्बोध्यामहे? बन्धवः! केवलवनवासित्वात्। अतएव सम्प्रभुत्वमस्य कान्तारस्याऽस्माभिः प्राणपणेन रक्षणीयमेव। तच्चेदम्प्रथमतया वत्सेन मौद्गलिना कल्पितं दुर्गमेश्वरेण च सम्पादितम्।
अद्य न केवलमस्माकं हृदयस्पन्दभूतो मौद्गलिरेव बन्धनादुन्मोचितोऽपितु शतमिता अत्रत्या एव सदस्या अपि विमोच्य स्वगृहमानीता ये पूर्वं षड्यन्त्रदक्षैर्मानवैर्निगृहीता आसन्। चिरकालान्तरं ते द्रक्ष्यन्ति स्वकुटुम्बिन इत्यहो महदाश्चर्यम्।
तद्गच्छन्तु भवन्तः स्वं स्वं गृहम्। विजयमहोत्सवोऽयं श्वो मध्याह्नकाले कण्ठनाले विधिवत् सम्पादयिष्यते।
।। इतिश्रीमद्गौतमगोत्रीयभभयाख्यमिश्रवंशावतंसेन
ब्रह्मर्षिमहामहोपाध्यायविरुदालङ्कृतेन
समवाप्तमहामहिमराष्ट्रपतिपुरस्कारेण सम्पूर्णानन्दसंस्करृतविश्वविद्यालयकुलपतिचरेण
शताधिकगद्यपद्यचम्पूनाट्यगलज्जलिकादिप्रबन्धकविना
श्रीमद्दुर्गाप्रसादाऽभिराजीमध्यमतनूजेनाऽभिराजराजेन्द्रेण
विरचिता शिशुरञ्जिनी
कान्तारकथा पूर्णा।।