प्रस्तावना
आचार्यो महावीरप्रसादो द्विवेदी (१८६४-१९३८ ई.) हिन्दीसाहित्ये युगप्रवर्तक: समीक्षक: पत्रकारश्च। अस्य नाम्रा आधुनिक हिन्दीसाहित्यस्य एक: कालखण्ड: द्विवेदीयुगम् (१८९३-१९१८ ई.) इति समाम्रायते। सरस्वतीति मासिकपत्रिकाया: सम्पादकत्वेन अनितरसारधारणीं सारस्वत- सपर्यामयं सम्पादयामास।
द्विवेदिवर्य: संस्कृतभाषाया: संस्कृतसाहित्यस्य पाण्डित्येनापि कामपि ख्यातिं प्राप। नैषधचरितचर्चा, कालिदास की समालोचना, कालिदास की निरंकुशता, कालिदास और उनकी कविता, आलोचनाञ्जलि इत्यादयोऽस्य संस्कृतसाहित्यविषयका: ग्रन्था: प्राकाश्यं गता:। 'कुमारसम्भवसारं’ सम्पूर्य महाभारतमप्यनेन १९०८ ई. वर्षे भाषान्तरीकृत्य प्रस्तुतम्। तथैव 'नैषधचरितचर्चा’ 'विक्रमाङ्कदेवचरितचर्चा’ इत्यादयो ग्रन्था अस्य अध्ययन- विवेकं प्रमाणयन्ति। पुष्पदन्तविरचितस्य शिवमहिम्रस्तोत्रस्य अत्यन्तं रमणीयं रूपान्तरमनेन १८८५ तमे क्रिस्त्वब्दे विहितम्। भर्तृहरे: वैराग्यशतकस्य हिन्दीरूपान्तरमेतत्कृतं १८८९ ई. वर्षे प्रकाश्यतां गतम्। गीतगोविन्दस्य अनुवादमसौ विहारवाटिकेतिनाम्रा १८९० ई. वर्षे प्राकाशयत्। एवमेव गङ्गालहरी (१८९१), भामिनीविलास: (१८९१), अमृतलहरी (१८९६), कुमार- सम्भवसार: (१९०२) इत्याद्या अन्या अस्य रूपान्तरिता: कृतय:।
अस्य काव्यसङ्ग्रहेषु काव्यमञ्जूषा १९०३ ई. वर्षे प्रकाश्यतां याता। अस्यां ३३ काव्यानि सम्पुटितानि। तेषु शिवाष्टम्, (१८९५) प्रभातवर्णनम् (१८९६), अयोध्याधिपस्य प्रशस्ति: (१८९६), कान्यकुब्जलीलामृतम् (१८९८), समाचारपत्रसम्पादकस्तव: (१८९८) सूर्यग्रहणम् (१८९८), मेघमालां प्रति चन्द्रिकोक्ति: (१८९८) कथमहं नास्तिक: (१८९८) इत्यष्टौ काव्यानि संस्कृतेन गुम्फितानि, शिष्टानि हिन्द्याम्।
इत्थं हिन्दीभाषायां साहित्य-समीक्षाया: प्रवर्तक: साहित्यमर्मज्ञेषु मूर्धन्य आचार्यो महावीरप्रसादद्विवेदी संस्कृतकवित्वेनापि स्वप्रातिभं ज्योतिरदीपयत्। संस्कृतपरम्परायां गहनमवगाढोऽयं महाभाग: हिन्द्या सह संस्कृतमव्यभि- व्यक्तिसौकर्याय स्वजीवने दैनन्दिनकार्येष्वपि च शिश्रिये। दिवङ्गताया: स्वपत्न्या: स्मृतौ अनेन लक्ष्मीसरस्वत्योर्मन्दिरमेकं निर्मापितम्। तत्र भार्याया मूर्तिं प्रतिष्ठाप्य संस्कृतोपनिबद्ध: स्वोपज्ञो लेखोऽयं निधापित: -
नवषण्णवभूसंख्ये विक्रमादित्यवत्सरे।
शुक्रकृष्णत्रयोदश्यामधिकाषाढमासि च।।
मोहमुग्धा गतज्ञाना भ्रमरोगविपीडिता।
जुह्नुजाया जले प्राप पञ्चत्वं या पतिव्रता।।
निर्मापितमिदं तस्या: स्मृतौ स्मृतिमनिदरम्।
व्यथितेन महावीरप्रसादेन द्विवेदिना।।
पत्युर्गृहे यत: सासीत् साक्षाच्छ्रीरिव रूपिणी।
पत्याप्येकादृता वाणी द्वितीया सैव सुव्रता।।
अतोऽग्रे लक्ष्मीसरस्वत्यो: संस्तवं विधाय कविनालेखि-
एषा तत्प्रतिमा तस्मान्मध्यभागे तयोर्द्वयो:।
लक्ष्मीसरस्वतीदेव्यो: स्थापिता परमादरात्।।
पत्न्या: कृते स्वोपज्ञे समाधिलेखेऽस्य संस्कृतकवित्वं भावप्रवणं तरलितम्। तथाहि-
संस्मृत्य तेऽद्य सरसं च कथाकलापं
सत्यं वदामि हृदयं शतधा प्रयाति।
आर्तस्य निर्गतधृतेर्मम शोकशान्त्यै
त्वत्सन्निधौ गमनमेव विनिश्चिनोमि।
पत्र-सन्देशादिप्रदानेऽप्ययं कदाचित् संस्कृतं प्रयुयोज। काश्या: 'श्रीराम’ पत्रस्य सम्पादकं लेखसम्प्रेषणार्थमनुरुन्धन्तमयं स्वपत्रे शिखरिण्यां श्लिष्टाक्षरै: समादिशत्-
अनेकाधिव्याधिव्यथितहृदयं दीनवदनं
विहीनं पुत्रादिस्वजनसमुदायेन जगति।
अतित्रस्तं ग्रस्तं हतविधिविलासै: सपदि मां
शरण्यं श्रीराम त्रिभुनवपते पाहि रमया।।
वार्धक्ये विगतविभव: सर्वथा संन्यस्त: परिजनवियुक्तोऽप्ययं संस्कृत- व्यवहारं न जहौ। पत्रोत्तरप्राप्त्यैरसकृदनुबघ्रन्तं कमपि सज्जनमयं समबोधयत्-
क्षीणशक्तिर्जराजीर्णो मन्ददृष्टिरहं बुध।
पत्रदाने प्रदाने च न समर्थोऽस्मि क्षम्यताम्।
अन्यदा आशीराकाङ्क्षमाणं श्री बनारसीदास-चतुर्वेदिनमयं संस्कृतै- राशीर्भिरवर्धयत्-
आत्मानुकूलं च विधाय कार्य
सदैव सतयेन पथा प्रयाहि।
कुर्वन् स्वशक्त्यार्थपरोपकारं
बनारसीदास सुखी भव त्वम्।।
पर:शतं समीक्षात्मकलेखान् प्रबन्धांश्चातिरिच्य हिन्दीभाषायामस्य सम्पत्तिशास्त्र इति अर्थशास्त्रविषयको ग्रन्थ:, आख्यायिकासप्तक इति कथाग्रन्थ:, महिलामोद इति स्त्रीशिक्षणग्रन्थ: आध्यात्मिकीति दार्शनिको ग्रन्थ: विज्ञविनोद: जलचिकित्सा इत्यादयोऽन्ये ग्रन्था: सन्ति।
कविताकलाप (१९०९) तथा च सुमन (१९२३) इत्यभिधानाभ्याम् अस्य अन्यत् काव्यसङ्ग्रहद्वयमपि प्राकाश्यं यातम्।
संस्कृतचन्द्रिकासम्पादकै: अप्पाशास्त्रिराशिवडेकरवर्यैरस्य सारस्वत: सम्पर्क आसीत्। तैरपि संस्कृतचन्द्रिकायामस्य शिवाष्टकम् (३/७), प्रभातवर्णनम् (३/१२), अयोध्याधिपस्य प्रशस्ति: (४/८), कान्यकुब्जलीलामृतम् (६/६), समाचारपत्रसम्पादकस्तव: (६/२), सूर्यग्रहणम् (६/३), इत्यादीनि काव्यानि प्रकाशितानि। 'मेघमालां प्रति चन्द्रिकोक्ति’ रिति कविता हिन्दीप्रदीपे (२३/४-६ अङ्केषु) प्राकाश्यं गता, कथमहं नास्तिक: इति काव्यं च राजस्थानसमाचारपत्रस्य २७.५.९९ दिनाङ्कितेऽङ्के प्रकाशितम्। हिन्दीभाषाया: पत्रिका: वार्तापत्राण्यपि च तदानीं संस्कृतरचना: सहर्षं प्रकाशयन्ति स्म इत्येतेन विज्ञायते। तथैव अप्पाशास्त्रिराशिवडेकरस्य शुकं प्रति इति स्वातन्त्र्यसङ्ग्रामयुयुत्सा- भावसम्भृताया: कविताया राष्ट्रकविना मैथिलीशरणगुप्तेन विहितो हिन्दीभाषानुवाद आचार्यप्रवरेणानेन स्वसरस्वतीपत्रिकायां १९११ तमे ई. वर्षे प्रकाशित:। एतेनापि आचार्यमहावीरप्रसादद्विवेदिसदृशानां सहृदयसंस्कृतानुरागिहिन्दीसमीक्षकाणा- मौदार्येण कथं संस्कृत-हिन्दी-साहित्ययो: विंशशतके साहचर्यमभवदिति सुकरं ज्ञातुम्।
द्विवेदिवर्यस्य मौलिकहिन्दीकाव्येष्वपि संस्कृतकाव्यानां छाया: समुन्मिषन्ति। तथाहि वसन्ततिलकवृत्तेन निबद्धे देवीस्तुति शतककाव्ये-
आरक्त नेत्र करि शस्त्र समस्त साधी,
दैत्याधिराज तनु मध्य कृपाण आधी।
वेगि प्रवेशि कृत जो रव घोर वानी,
देवै शरीरसुखसम्पति सो भवानी।।
साहित्यक्षेत्रे युगावतारस्यास्य उपलब्धानि दश संस्कृतकाव्यानि स्वतन्त्र- पुस्तकरूपेण प्रकाश्यन्ते। सहृदया: संस्कृतपाठका एतेभ्यो मुदमाप्स्यन्तीत्याशासे।
-राधावल्लभ: त्रिपाठी
कान्यकुब्जलीलामृतम्
सदैव शुक्लारुणपीतवर्ण-
पाटीरपङ्कवृतसर्वभाल!
आभूतलालम्बिदुकूलधारिन्!
हे कान्यकुब्ज-द्विज! ते नमोऽस्तु॥ १॥
बहूनि गायन्ति यशस्त्वदीयं
पत्राणि* ते वशधरै: कृतानि।
एकस्य तन्मे मितभाषिणस्त्व-
मिदं क्षमस्व स्तवञ्चचलत्वम्॥ २॥
भवन्ति ते धन्यतमा द्विजा, ये
त्वदीयसम्बन्धमवाप्रुवन्ति।
व्रजन्ति ते ब्रह्मपदं तथान्ते
त एव वंशं निजमुन्नयन्ति॥ ३॥
अहो दयालुत्वमत: परं किं?
यथेहितं यद् द्रविणं गृहीत्वा।
निन्द्यानपि त्वं विमलीकरोषि
तदीयकन्याकरपीडनेन॥ ४॥
स्वगोत्रजानेव यदा सदा त्वं
''किं धाकरै* स्तै’’? रिति धिक्करोषि।
तदाऽन्यजातीयजनास्त्वदीया:
के नाम वन्द्यैरपि वन्दनीया:?॥ ५॥
शास्त्रीयवार्तासु भवत्यहो ते
मुखे रसज्ञा किल कीलितेव।
स्थिते तु वैवाहिकभाषणे त्व-
माविष्करोष्यद्भुतवाक्पटुत्वम्॥ ६॥
शेषस्तदा किं रसनासहस्रं
स्वीयं महीदेव! ददाति तुभ्यम्?
येन त्वदुक्तिप्रखरप्रवाहै-
स्तिरस्क्रियन्ते बहु वाग्मिनोऽपि॥ ७॥
मन्ये तदैव त्वयि वासवोऽपि
न्यासीकरोत्यक्षिचयं स्वकीयम्।
न चेन्निमेषेण कथं परेषां
दोषानसंख्यांश्च समीक्षसे त्वम्॥ ८॥
कन्याविवाहे समुपस्थिते त्व-
मृणं गृहाभूषणविक्रयं च।
कृत्वा, कृतार्थं मनुषे नृजन्म
विलक्षणौदार्यमिदं त्वदीयम्॥ ९॥
पुन: पुन: पुत्रवधूपितुश्च
धनानि हृत्वाऽपि धरासुरेन्द्र!
निरन्तरं तस्य कदर्थनायां
न शोभते ते रसनोपयोग:॥ १०॥
गुणान्वितं, द्रव्ययुतं, विहाय
हा! भूसुर! त्वं कुलपक्षपातिन्!
मूर्खाय, नि:स्वाय, वराय कन्यां
प्रदाय तज्जन्म वृथाकरोषि॥ ११॥
किं विद्यया? किं तव कर्षणेन?
व्यापारवृत्त्या किमु? चापि भृत्या?
जयत्यहो स श्वशुरालयस्ते
त्वं कल्पवृक्षीयसि यं सदैव॥ १२॥
नि:शेषनिन्द्यव्यसनेषु नित्यं
शनै: शनैर्नाशितवित्तजात:।
चिरेण जागर्षि चमत्कृत: सन्
विद्राव्य दीर्घालसघोरनिद्राम्॥ १३॥
यत्नेन केनापि तदा कथंचित्
करोति कष्टेन वयोऽतिपातम्।
तथापि हा! हा! न जहासि शुष्कं
गभीरगर्वं वरवंशजातम्॥ १४॥
अलं विवाहादिविधिस्तवेन
हे कान्यकुब्जावनिदेव! देव!
अत: परं पश्य निजान्यलीलां
श्रुतिस्मृतिस्थापितधर्मशीलाम्॥ १५॥
ते वाजपेयादिसवा: कृतास्तै-
रेकद्विवारं तव पूर्वजैस्तु।
पारावतच्छागलमत्स्यमेधा
मखा गृहे ते प्रभवन्त्यनेका:॥ १६॥
स्वभ्रातृगेहेऽपि यदाऽप्रसन्न:
पानीयपानेऽपि शिरो धुनोषि।
वेश्याजनस्याप्य रसामृतेन
कृतार्थतां यासि यदाऽसि तुष्ट:॥ १७॥
समाजमुख्यास्तव ये सभासु
तेषां चरित्रं भुवनातिशायि।
विहाय कांश्चिद्गणयन्ति नान्यां-
स्ते कान्यकुब्जद्विजनामयोग्यान्॥ १८॥
विशिष्टविद्यापरिशीलनेन
बुद्धेर्विकाशो भवतीति नीति:।
एषामहो त्वद्विदुषामुदार
भाव: परं सङ्कुचतीव भाति॥ १९॥
नैवं करिष्यामि वृथान्ननाशं
नैवं ग्रहीष्यामि धनं विवाहे।
उच्चैरिति त्वं परिषत्सु नित्यं
करोषि भूदेव! दृढां प्रतिज्ञाम्॥ २०॥
परन्तु तत्तन्नियमावलीनां
निवेश्य पत्रं गृहपेटिकायाम्।
उपस्थिते विप्र! विवाहकाले
सर्वं क्षणाद्विस्मरसीति चित्रम्॥ २१॥
अध्यक्षतां, किंबहुना, त्वदीयां
गृह्णन्ति ते तेऽपि तदा पलाय्य।
स्वलम्बिलांगूलमितस्ततश्च
गूहान्ति भाता इव भो द्विजेन्द्र!॥ २२॥
अपव्ययस्ते भवति द्विजेश!
किं नातिनिन्द्यव्यसनेषु नित्यम्?
परं स्थिते सर्वसमाजकार्ये
पुरस्त्वमंगुष्ठशिर: करोषि॥ २३॥
त्वयि प्रसन्ने च तथाऽप्रसन्ने
हानि: समाना भवति द्विजानाम्।
तुष्ट: समाकर्षसि वित्तराशिं
रुष्टो व्यथां त्वं हृदये ददासि॥ २४॥
मृगेन्द्रतां यल्लभते बलेन
सिंहो वने, तत्तु यथार्थमेव।
कुतस्तदा विप्र! वद त्वमेव
महीसुरेन्द्रत्वमिदं त्वयाप्तम्? २५॥
का नाम सन्ध्या? प्रणवोऽपि सम्यङ्-
नोच्चार्यते ते स्वजनैरनेकै:।
महीसुरश्रेष्ठ! बलात्तथापि
स्वश्रेष्ठतां त्वं विजहासि नैव॥ २६॥
तदस्ति किं त्वं कथय द्विजेन्द्र!
मूर्खोऽपि सन्स्थापयसीह येन।
निजोच्चतामन्यमहीसुरेभ्य:
स्वगोत्रजेभ्योऽपि विवाहकाले॥ २७॥
यश: पवित्रं निजपूर्वजानाम्
विभाव्यते किं भवता सगर्वम्?
निवेदय त्वं शपथेन तेषां
के के गुणा आत्मनि संगृहीता:॥ २८॥
त्वं नाममात्रग्रहणेन तेषां
श्रीहर्षमिश्रादिमहाजनानाम्।
समीहसे पूज्यपदं ग्रहीतु-
महो विमोहस्य विजृम्भणं ते!॥ २९॥
आस्ते यथोक्तैव दशा त्वदीया
तथापि केचिद्भुवि कान्यकुब्जा:।
सन्त्येव शुद्धाचरणाश्च येषां
सन्दर्शनं पुण्यकरं नराणाम्॥ ३०॥
आस्तामिदं तत्तव लीलयाऽलं
पारं व्रजेत्क: कथनेन तस्या:?
अतोऽधुना साञ्जलिबन्धमेत-
द्यदुच्यते तच्छृणु भूसुरेन्द्र!॥ ३१॥
दिनानि ते तानि गतानि, नात:
शुष्काभिमानेन सुवंशजेन।
भविष्यति त्वत्कुशलं कदापि
विचिन्तयान्त:करणे त्वमेव॥ ३२॥
त्यजालसं, शीलय विप्र! विद्यां
विधेहि दुष्टव्यवहारनाशम्।
उदारतां बन्धुषु दर्शय त्वं
कुरुष्व कार्यं सुजनादृतां च॥ ३३॥
महत्त्वमायाति हि मानवेषु
सुविद्ययैवात्र मनु: प्रमाणम्।
मन्दादरस्तद्वचने यदि त्वं
तदा न किं हन्त हत: स्वधर्म:?॥ ३४॥
मत्संमुखेऽसौ किल क: पदार्थो
विभावनेयं भवतश्च माऽभूत्।
यदस्ति किञ्चिद्वचने मदीये
ग्राह्यं, गृहाण, त्यज सर्वमन्यत्॥ ३५॥
त्वत्कीर्तिगाने, चरितामृतस्य
पाने, रता विप्र! पुराविदोऽपि।
जानन्ति के नो तव सप्रमाणं
यश: पुराणादिषु वर्ण्यमानम्?॥ ३६॥
न विस्मरातश्चरितं पवित्रं
शाण्डिल्यकात्यायनकाश्यपानाम्।
अद्यापि विद्याविभवेन येषां
विभूष्यते भारतभूमिखण्ड:॥ ३७॥
किं विस्तरेण बहुनेति हृदि प्रधार्य
हे कान्यकुब्जमहिदेव! नमस्करोमि।
स्वस्यैव मामपि कुलस्य करीररूपं
जानीहि सादरमयं विनयो मदीय:॥ ३८॥
समाचारपत्रसम्पादकस्तव:
देशोपकारव्रतधारकाय
नानाकलाकौशलकोविदाय।
नि:शेषशास्त्रेषु च दीक्षिताय
सम्पादकाय प्रणतिर्ममाऽस्तु॥ १॥
पत्रे स्वकीये जगदेकनेत्रे
शिशुं त्रिपादं त्रिशिरस्करञ्च।
सृजस्यजस्रं कुतुकेन तेन
सम्पादक! त्वं चतुराननोऽसि॥ २॥
आक्रष्टुमुच्चैर्निजपत्रमूल्यं
नवोपहारादिविधेर्विधाने।
समस्तमायाविशिरोमणित्वात्
त्वमेव सम्पादक! माधवोऽसि॥ ३॥
स्वदोष राशिञ्च तृणं विधाय
त्रुटिं समालम्ब्य लघुं परेषम्।
अलेख्यलेखै: कृतकालनाशात्
त्वमीश्वरो भीमभयंकरोऽसि॥ ४॥
सम्पादक! त्वत्कृपयैव लेखा
निंद्या अपि स्थानमवाप्रुवन्ति।
बुधाऽऽदृतास्तेऽपि भवन्ति हेया:
सकोपदृक्कोणकटाक्षपातात्॥ ५॥
त्वं लेखनीं पाणितले निधाय
विराजसे वीर! यदाऽऽसने स्वे।
सुरेन्द्रसिंहासनमप्यचिन्त्यं
तदाऽतिगर्वेण तिरस्करोषि!॥ ६॥
गृह्णासि सम्पादकतां यदैव
तदैव शास्त्राणि सविस्तराणि।
भाषा: समस्ता: सकला कलाश्च
त्वां त्वद्भयेनेव समाश्रयन्ति॥ ७॥
अहो! विचित्रं तदतीव भाति
सम्पादकत्वेन सहैव यत्ते।
आयाति शक्तिर्मनसि क्षणेन,
नानानवीनौषधिकल्पनाया:॥ ८॥
पत्रेषु सम्प्रेषितपुस्तकानां
नामैव गृह्ण विदधासि मौनम्।
आलोचनामन्यकृतां तथाऽपि
रम्यामपि त्वं किल धिक्करोषि! ९॥
विज्ञप्तिमेतां शृणु मामकीनां
वदामि सम्पादक! ते हिताय।
परस्य सत्पुस्तकपत्रकेभ्यो
मा, मैव गुप्तं विषयान् हर त्वम्॥ १०॥
टाइम्समुख्यानि जयन्तु तानि
पत्राणि येभ्य: परिगृह्य वार्ता:।
त्वमन्यदानोदरपूरकस्य
प्राणान् स्वपत्रस्य सदैव पासि॥ ११॥
नम्रोऽसि मूल्यग्रहणे, च मौनी
पत्रोत्तरे, दोषनिदर्शने स्वे।
रुष्ट: कुतो नीतिविदो वद त्वं
विलक्षणा नीतिरियं गृहीता?॥ १२॥
अभद्रभद्रौषधिपुस्तकानां
विक्रेतृवर्ग: समवाप्य सम्यक्।
विज्ञापनद्वारमलभ्यलाभं
प्राप्नोति सम्पादक! ते प्रसादात्॥ १३॥
इहास्ति साधुत्वमत: परं किम्?
प्रकाश्य लोकस्य विमाननां यत्।
स्थिते भये पाणियुगं प्रसार्यं
'क्षमस्व, हा हेति च भाषसे त्वम्॥ १४॥
गायन्ति सम्पादकतागुणानां
लीलां यथाशक्ति महाजनास्ताम्।
स्वातन्त्र्यविद्याबलवर्धनानि
सर्वाणि यच्छक्तिविजृम्भणानि॥ १५॥
अतोऽन्वहं भक्तिभरान्वितोऽहं
कीर्त्ति त्वदीयां किल कीर्तयामि।
ममोपरीदं स्तवनं निशम्य
प्रसीद सम्पादक! सर्वद्य॥ १६॥
मेघमालां प्रति चन्द्रिकोक्ति:
स्वदोषराशिञ्च तृणाय मत्वा
ममोपरि त्वं यदकारणञ्च।
करोषि कृष्णे! करकानिपात-
माश्चर्यमेतन्ननु मेघमाले!॥ १॥
रत्नाकरो यस्य पिता, च लक्ष्मी:
स्वसा स्वयं सा जगतोऽस्य माता।
नारायणो यद्भगिनीपतिश्च
स विश्रुत: किं तव नो सुधांशु:?॥ २॥
इन्दु: सदा य: शशिशेखरस्य
महात्मन: सर्वसुखाकरस्य।
विराजते विस्तृतभालदेशे
तस्यांगजामेव हि मामवेहि॥ ३॥
तामेव मां व्योम्नि वृथावृणोषि
पुन: पुन: कृष्णमुखि! त्वमेवम्।
कुबुद्धिशीले! त्रपसे कथं न
विशालवर्षोपलवर्षणेन?॥ ४॥
नूनं विजानासि च मेघमाले
यदेतदन्याय्यमिह प्रदर्श्य।
श्रीश्रीपतिं त्र्यम्बकमिन्दुमब्धिं
सर्वांश्च कोपाकुलितान् करोषि॥ ५॥
सुशलाघते यामनिशं त्रिलोकी
तां निन्दयन्ती प्रतिभासि मे त्वम्।
उन्मादयुक्ता, किमु सन्निपात-
ग्रस्ता, पिशाचस्य करे गता वा? ६॥
''अहं जगज्जीवनहेतुभूता’’
यदेवमेवं बहुशो विकत्थ्य।
इतस्ततस्ताण्डवमातनोषि
जानामि तत्सर्वमहं यथार्थम्॥ ७॥
स्वस्यैव दोषञ्च गुणञ्च सम्यक्
नेत्रद्वयं पश्यति न स्वकीयम्।
तत्त्वं मुखान्मे शृणु तत्त्वमद्य
यद्यस्ति वाञ्छा श्रवणे त्वदीया॥ ८॥
विभाव्यते चण्डि! मयेति नूनं
समस्तदेशार्दनतत्परस्य।
अवर्षणस्याद्य न तस्य कोऽपि
स्मृतिं विसस्मार विकम्पदात्रीम्॥ ९॥
भिक्षारतासंख्यमनुष्यजाति-
रहो प्रसादेन तवैव पश्य।
विना जलं वृष्टिभवं विनान्नं
कीनाशदेशातिथितामवाप॥ १०॥
वध्वश्च बाला विधवात्वमापु-
र्नरा: पितृभ्रातृवियुक्तताञ्च।
विचिन्त्य तत्तत् हृदयं जनानां
हा! हन्त!! हा हा!!! शतधा प्रयाति।११॥
त्वं* सैव पापे! खलु वत्सरेऽस्मि-
न्देशानहो मालवगुर्जरादीन्।
पुनश्च निर्मानुषतां विनेतु-
मवर्षणेनैव समुद्यताऽसि॥ १२॥
विकत्थसे दुर्मुखि! जीवदान-
कथां मुहुस्त्वं कथयन्त्यथापि।
विधाय कर्म्मेदृशमप्यनर्हं,
न लज्जसे? धिक् तव साहसिक्यम्।१३॥
विहारदेश: सहसा बभूव
प्रायो विनष्ट: सलिलाप्लवेन।
दिनानि जातानि बहूनि नैव
न विश्रुतं तत्किमु मेघमाले?॥ १४॥
मृता मनुष्या: पशवो हताश्च
गता जले ग्रामगणा अनेके।
पिनाकपाणिर्मम विद्यतेऽस्मिन्
साक्षी, त्वदीयोऽपि च वज्रपाणि:॥ १५॥
अयं प्रसादोऽपि तवेति लोके
विलक्षणं वेत्ति मनुष्यार्ग:।
दत्ते च तुभ्यं बहु धन्यवादं
त्वया गृहीत: स न वा, न जाने॥ १६॥
नृशंसताभ्यासपरामिमां स्वां
कृतिञ्च विस्मृत्य तथापि कृष्णे।
चराचरप्राणधनप्रदान-
भेरीं भृशं वादयसीति चित्रम्॥ १७॥
धन्या त्वदीया किल सत्यतायां
प्रीतिश्च, धन्यस्तव युक्तिवाद:।
धन्यञ्च धाष्ट्र्यं ननु मेघमाले!
त्वञ्चापि धन्या स्वयमेव बाले!॥ १८॥
गृह्णासि पाथोऽधिपतेश्च यस्मात्
पाथ: सदा पाणियुगं प्रसार्य।
करोषि तस्मिन्नपि वज्रपातं;
हा हा विवेकस्तव कीदृशोऽयम्॥ १९॥
जानासि किं त्वन्न तवैव योगं
प्राप्य प्रिया: प्रेमपरा निशायाम्।
केलिस्थलं सत्वरमेव गत्वा
कुर्वन्ति पापं व्यभिचारजातम्॥ २०॥
तवैव योगेन निशि प्रहृष्टा-
श्चौरा धनं धान्यमहो हरन्ति।
दशन्ति सर्पा अपि घोररूपा
यदासि रात्रौ गगने त्वमेव॥ २१॥
हे धूम्रवर्णे! जलवाष्पदेहे!
कृष्णे! न चाहङ्कृतिमुद्वहस्व।
स्वल्पां स्थितिं स्वामनुलक्ष्य तिष्ठ
वातोऽपि ते घातकृतौ समर्थ:॥ २२॥
दुर्धर्षिणि! क्वापि भविष्यसि त्वं
प्रहर्षिणी मे न वदामि सत्यम्।
पर्जन्यपूर्तिं मदमित्रनेत्र-
धारा: करिष्यति सदा यथेच्छम्॥ २३॥
कथमहं नास्तिक:
जागर्ति देव! तव शक्तिरनन्तरूपा
व्याप्ता चराचरमये भुवनत्रयेऽस्मिन्।
तारापथे, भुवि, नरे च, नरेश्वरे च
तोयेऽनले, मरुति, मृद्यपि साऽऽविरास्ते॥१
पश्यामि तां भुवननायक! भूतमात्रे
दृष्टं हि नैकमपि वस्तु तया विहीनम्।
एतन्मुहुर्मुहुरहं मनसा विचिन्त्य
पारं न यामि परमेश्वर! ते महिम्र:॥ २॥
पत्रं न कम्पमयते धरणीरुहाणा-
माज्ञां विनैत्र तव तत्त्वविदो वदन्ति।
जानामि सर्वमहमीश्वर! चेतसीदं
तर्हि प्रभो! कथमहो ननु नास्तिकोऽस्मि? ३।
वेदास्त्वदीयवचसां यदयं विलासो
जानाम्यह तदपि: तान् हृदि धारयामि।
केनास्तु नाम मम नास्तिक? इत्यवैषि
त्वञ्चेद्दयाघन! दयालुतयाऽभिधेहि॥ ४॥
लोकैकदीपकमणौ द्युमणौ त्वदीयं
सत्त्वं चकास्ति खलु यत्तिमिरापहारि।
तस्यैव कोऽपि भुवनाधिपते! सदंशो
रथ्यारज: कणगणेषु विराजतेऽयम्॥ ५॥
जानाति तत्त्वमिदमेव सदा जनो यो
ब्रूहि त्वमेव भगवन्! किमु नास्तिक:स:?
एवं भवेद्यदि तदा जगतीतलेऽस्मिन्
मन्ये ह्यभावमहमीश! सदास्तिकानाम्॥ ६॥
मूर्तीस्तु नौमि निखिलेष्वमरालयेषु
नाहं, न, देव! शृणु सत्यवचो वदामि।
सत्तां विलोक्य सकले जगति त्वदीयां
प्रीतिस्तथाप्यतिशया प्रतिमासु नो मे॥ ७॥
आश्चर्यमेतदखिलेश! न ते प्रभूतां
शक्तिं विलोकयत एव चराचरे मे।
सर्वत्र पश्यति तव प्रभुतां प्रभो! य:
स त्वेकवस्तुनि कथं विदधातु भक्तिम्? ८॥
एतादृशं जनमथो खलु ये विमूढा
आस्तिक्यतत्त्वरहितं प्रवदन्ति, ते तु।
मैरेयनाशितधिय: किमुत त्रिदोष-
पाशैकतानहृदया: किमु नेत्रहीना:?॥ ९॥
द्रष्टुं वधूजनमुखानि सुरालयेषु
सायं प्रभात इह यत्क्रियते प्रयाणम्।
लोका: स्तुवन्तु यदि नाथ! तदेव नूनं
हा हा!हतं!!जगदधीश!तदाऽऽस्तिकत्वम्॥
हस्तं निधाय जगदीश! पटान्तरेषु
प्रातस्त्वनेकविध मन्त्रजपच्छलेन।
कुर्वन्ति येऽन्यजनपीडनचिन्तनानि
तेभ्यो मदीयनमनानि लसन्तु दूरात्॥ ११॥
एवंविधैव भुवि धार्मिकता जनेषु
तोषं तनोति यदि देव! तनोतु कामम्।
प्राणात्ययेऽपि ननु नाभिलषाम्यहं तां
स्वैरं जनाभिहितनास्तिकता ममास्तु॥ १२॥
कृत्यं विधाय जगतीह मलीमसं ये
भाले दधत्यमलचन्दनपंकलेपम्।
तेषां निशम्य गणनामतिधार्म्मिकेषु
हास्यं जहाति जगदीश्वर! नो मदास्यम्॥ १३
ये सन्ति धर्म्मनिचया धरणीतले ऽस्मि-
न्नेका दयैव सकलेषु च सारभूता।
जानन्ति तत्त्वमिदमीश्वर! बालवृद्धा:
श्रद्धास्तु, नास्तु, रुचिभेदवशेन तस्मिन्॥
सद्धर्म्मसारमनुमाय यथामतीदं
शोकार्त्तबालविधवासु दयां दधेऽहम्।
तेनैव नास्तिकनर: किमहं भवेयम्?
पश्य त्वमीश! जडता जगतोऽस्य केयम्?॥
धर्म्मस्य मूलमिह देव! यदि प्रकृष्ट
आचार एव सुविचारकलोकदृष्ट्या।
तर्हि प्रयान्तु विलयं श्रुतयस्त्वदीया
अब्धौ पतन्तु तरसा स्मृतयोऽस्मदीया:॥ १६
ईश! श्रुतिस्मृतिपथं प्रतिवासरञ्च
के न त्यजन्ति बहुवारमिहैव नूनम्?
एते तु धर्म्मिकशिरोमणयस्तथापि
ग्लानिं भजन्तिं भुवनेश्वर! नो कदापि! १७॥
रूढिं विहातुमथ यो यतते परन्तु
तं, दुर्बलांगहरिणं किल केसरीव।
विश्वेश! पश्यति रुषारुणनेत्रलोको
हा हा! विवेकविषये किमियत्युपेक्षा!!॥
आचारमात्रपरिपालनलीन एव
लोके किलास्तिकनरप्रवरो; जनोऽन्य:।
घोरो हि नास्तिक-इति ब्रुवतां नराणां
स्वल्पापि देव! समुदेति कथं न लज्जा?॥
यत्ते स्वयं जगदिदं परिवृत्तिशीलं,
देवाधिदेव! तदहो! ननु को न वेत्ति?
आचार एव भजतु स्थिरतां कथं त-
न्नैसर्गिकं नियममीश! विहाय भूमौ॥ २०॥
कि भूयसाऽस्ति! भगवन्! न बिभेमि नूनं
लोका ब्रुवन्तु नितरामिह नास्तिकं माम्।
विश्वं विलोकयति नेत्रयुगञ्च याव-
त्तावद्भवामि भुवनेश! न तादृशोऽहम्॥
हस्त: कदापि कलितो न हि गोमुखीषु
सन्ध्यापि देव! समये समुपासिता न।
जानासि सर्वमिदमेव वदाम्यहं किम्?
स्वान्ते सदैव यत ईश! विराजसे त्वम्॥ २२।
नित्यं जपामि यदहं शुचिसत्यसूत्रं
लोके तदस्तु मम मंत्रजप: पवित्र:।
सा सज्जनेषु भगवन्! मम भक्तिरेषा
सैव प्रभो! भवतु देवगणस्य पूजा॥ २३॥
सर्वेषु जीवनिचयेषु दयाव्रतं मे
श्रेयो ददातु नियतं निखिलव्रतानाम्।
अच्छाच्छचन्दनरसादपि शीतलो मा-
मानन्दयत्वनिशमीशं! परोपकार:॥ २४॥
अन्यद्ब्रवीमि किमहं? जगदेकबन्धो!
बन्धुर्न कोऽपि मम देव! सुतोऽपि नास्ति।
तन्नास्तिकस्य भगवन्नथवाऽस्तिकस्य
हस्ते तवैव करुणाम्बुनिधे! गतिर्मे॥ २५॥
काककूजितम्
रे क्रूरकोकिल! कलं कुरु मा कदापि;
वाचंयमत्वमधुना भुवने भजस्व।
जानासि किन्न नवनीरदनीलदेह:
काकोऽमृताक्तवचन: समुपागतोऽहम्॥ १॥
त्वं पञ्चमेन विरुतं विजहीहि नूनं;
वक्तुं वसन्तसमयेऽपि न तेऽधिकार:।
सम्प्रत्यहं दशसु दिक्षु सदा सहर्षं,
तारस्वरेण मधुरेण रवं करिष्ये॥ २॥
दृष्ट्वापि मामुपगतं किल कज्जलाभं
किन्नाम रे शुक! न मुञ्चसि पञ्जरं त्वम्?
वाचा विमर्दितविशुद्धसुधारसोऽहं
स्थाने तवाद्य मधुराणि फलानि भोक्ष्ये॥ ३।
लोकस्तनोतु नयनद्वयदु:खदात्रे
वर्णाय ते नतिततिं हरिताय कीर!
शौरि: स्मरत्वसितभीमभुजङ्गमाङ्ग-
रङ्गाभिरामवपुषं परिपालयन् माम्॥ ४॥
धातुर्विमानवहनेन विदीर्णदेह!
रे राजहंस! खगवंशकलङ्कभूत!
निर्गच्छ तुच्छ! जगतीतलतस्त्वमाशु
मा मा कदापि मम सम्मुखमेहि भूय:॥ ५॥
लोकातिशायि गमनं हि ममेति तावद्-
गर्वं वहस्यतितरां ननु हंस! यावत्।
दृष्टा त्वया मम गतिर्न विलासिनीनां
लीलाललामगमनानि विडम्बयन्ती॥ ६॥
मुक्ताफलानि कठिनानि मराल! भुंक्षे;
मा तेन चेतसि चकास्तु तवाभिमान:।
भुञ्जे ततोऽपि मधुराणि सुकोमलानि
श्राद्धादिकेषु पृथु-पिंड-कदम्बकानि॥ ७॥
रे नीलकंठ! शितिकण्ठतनूभवस्य,
भारं वहन्नपि नहि त्रपसे, तदस्तु।
चित्रं मदीयचरणौ मृदुलौ मनोज्ञौ
दृष्ट्वापि नैव यदधोमुखतां प्रयासि॥ ८॥
सर्वे खगा: शृणुत सत्यमहं वदामि,
लोकत्रयेऽपि किल कोऽपि न मत्समोऽस्ति।
द्रष्टा विदीर्णचरणस्य निजप्रियाया
जानाति दाशरथिरेव स मे प्रतापम्॥ ९॥
तेनास्तु मंगलमये समयेऽद्य सद्यो
युष्मासु राजपदवी मम भूतलेऽस्मिन्।
अत्रैव वृक्षविवरेषु विराजमान:
सर्वाधिकारहरणाय सदा यतिष्ये॥ १०॥
एवं समालपति दुर्ललितां विरुद्धां
यावद्गिरं क्षतविवेकमति: स काक:।
तस्योपरि प्रबलवेगपरस्तु ताव-
च्छे्यन: पपात पविपात च प्रचण्ड:॥ ११॥
सूर्यग्रहणम्
अत्यन्तभीषणरणो दिशि पश्चिमायां;
हृत्कम्पकारि महिकम्पनमेव पूर्वे।
याम्ये तथा मनुजमारकरोगपीडा
प्रादुर्बभूव नितरां युगपद्यदैव॥ १॥
वेदेषुखंडशशिसूचितवैक्रमीये
संवत्सरे, जनपदेऽत्र तदैव येयम्।
दृष्टा जनैर्नभसि संघटनाऽद्भुता, तां
मित्रानुरोधवशतो ननु वर्णयामि॥ २॥
शीतर्तुमध्यगतमञ्जुलमाघमासे,१
मध्येदिनं दिनकरस्य तनूममायाम्।
आच्छादियष्यति शशी नियतं निजेन
बिम्बेन तूर्णमिति पूर्णतया निरूप्य॥ ३॥
तद्दर्शनाय विदुषामवलि: समन्ताद्
द्वीपान्तरादपि चचाल विलंघ्य सिन्धून्।
नानाविधानि परिगृह्य बुधस्तुतानि
यंत्राणि सूर्यविधुबिम्बपरीक्षकाणि॥ ४॥
विज्ञानशास्त्रकुशला विबुधा अनेका,
उच्चोच्चराजपुरुषा अपि गौरकाया:।
सिद्धिं विधाय रविवीक्षणसाधनानां
तस्थुर्यदा वसनवेश्मनि बक्सरादौ॥ ५॥
पूर्णोपरागमथ पङ्कजबान्धवस्य
ज्ञात्वा तदा भुवि चिरेण भविष्यमाणम्।
लौकैरकारि कृतभारतवर्षवासै-
र्यद्यद्वदामि तदहं नियतैर्वचोभि:॥ ६॥
युद्धं भविष्यति नृपेषु परस्परेषु;
लोकं गमिष्यति यमस्य रुजा प्रजा च।
धान्यं धनं बहु हरिष्यति चौरवर्ग;
इत्यादि कैश्चिदिह सूरिभिरन्वभाषि॥ ७॥
तत्तन्निशम्य सहसा मनुजा: सशङ्क-
म्पञ्चाङ्गवाचकजनानभिवन्द्य केचित्।
दैवज्ञराज! वद राशिफलं मदीय-
मेवं विरक्तमनसाऽञ्जलिबन्धमूचु:॥ ८॥
अन्नांशुकद्रविणदानविधानमाशु
दोषक्षयाय परिपृच्छ्य बुधांश्च केचित्।
उद्योगिन: समभवन् खलु तत्तदाप्तौ;
नास्त्यालये, तदपि देयमवश्यमेव॥ ९॥
दैवज्ञमेव शरणं शिरसा नतेन
केचित् फलानि भयदानि निशम्य जग्मु:।
केनाऽपि पंडितपते! परिपाहि नस्त्वं
यत्नेन, वाक्यमिति दीनतमं न्यवेदि॥ १०॥
भानूपरागकृतभाविमहर्घताया:
संचिन्तनेन विवशा: कतिचिद्बभूवु:।
अन्नं विनाऽस्मदसव: कथमीश! हा हा
स्थास्यन्ति दुर्विलसिता इति संविलप्य॥ ११
तत्तत्स्थलस्थितमहीसुरवल्लभानां
गेहेषु दत्तधनमाशु निवेषणाय।
काशीप्रयागमथुराकुरुपुष्करादि-
तीर्थानि चेलुरतिभक्तिभरेण केचित्॥ १२॥
काश्चित्तथा सुनयना: सरोनिम्नगादीतिय-
स्नानच्छलेन युवकै: सह सङ्गमाय।
ईयुर्मनोरथशतं हृदि धारयन्त्य:
संकेतितस्थलमनङ्गनिपीडितांग्य:॥ १३॥
केचिद्वधूवदनचन्द्रविलोकनाय,
केचिद्धनस्य हरणाय परस्य, केचित्।
कूले ययुर्ग्रहणदुष्परिणामदु:ख-
नाशाय सन्निकटवर्तिजलाशयस्य॥ १४॥
येऽस्मद्विधा विधिवशान्ननु किंचिदन्यत्
शक्ता न कर्तुमथ ते स्वकरे गृहीत्वा।
काचस्य कज्जलितपृष्ठतलस्य खंड-
मुच्चस्थले बहुभिरात्मजनैर्विरेजु:॥ १५॥
यस्मिन् क्षणे चपलतातिशयेन चन्द्र
उत्प्लुत्य मेघवदध: स्थलतश्चकार।
स्पर्शं प्रमाणितदिने दिवसेशबिम्ब-
स्तस्मिन् बभूव जनलोचनलक्षलक्ष्य:॥ १६।
दृश्यं विलोक्य तदिदं किल कोऽपि नाद:
संश्रूयते स्म भुवि लोककृत: समन्तात्।
स्नाने, जपे, हरिहरस्मरणे, च दाने
सर्वेऽभवन् रुचिविचित्रतया निमग्ना:॥ १७।
हंहो ग्रसत्यरुणमंडलमेष राहु:
पौराणिकै: खलु पुन: पुनरित्यभाणि।
वैज्ञानिकैरपरबुद्धिविचक्षणैस्तु
सर्वैरमानि शशिचण्डकराऽभियोग:॥ १८॥
धर्मं प्रभो! कुरु कुरु ग्रहणं प्रसक्तं;
त्वं देहि देहि वसनञ्च, धनञ्च, धान्यम्।
इत्यादि दीनवचनानि च याचकानां
केषां न कर्णकुहरे पतितानि तानि? १९॥
छायां करोति वियति स्म यदा यदेन्दु:
श्यामप्रभां वितनुते स्म तदा तदार्क:।
आपत्सु दैवविनियोगकृतागमासु
धीरोऽपि याति वदने किल कालिमानम्॥
कालक्रमेण शशिना निजनीलमूत्र्या
संच्छादनं कृतमियद्रविमंडलस्य।
येनेह रत्नगिरिबक्सरशाहडोल-
ग्रामेषु तस्य समलोकि समस्तलोप:॥ २१॥
शुभ्रप्रकाशरहिते जगतीतलेऽस्मिन्
यल्लोहितातपरुचिर्ददृशे मनुष्यै:।
तत्किं पुराणलिखितारुणराहुयुद्धे
जाते विधुन्तुदशिरोऽस्त्रनिपातजन्मा? २२॥
ग्रासं गते नभसि पूर्णतयाऽर्कबिम्बे
स्पष्टीबभूव भुवि कोऽपि तमिस्रपुञ्ज:।
आलोक्य कष्टमभितो महतां मलीना:
स्वान्ते सदा समधिकां मुदमुद्वहन्ति॥ २३॥
सन्ध्याऽऽजगाम सहसा किमुतेत्यकाण्डे
वासेच्छुकं खगकुलं विरुतिं ततान।
गावोऽपि गेहगमनोत्सुकतां दधाना:
पुच्छं प्रसार्य परितश्चलिता सशब्दम्॥ २४॥
खग्रासतामभजताऽर्क इति प्रदातुं
साक्ष्यं किमेष भगवानुशना मनुष्यान्।
तस्मिन् क्षणे समुदियाय नभोऽन्तराले
यन्त्रं विनैव यदयं सकलैर्व्यलोकि? २५॥
एवं गते मयि महाविषमामवस्थां
कुर्वन्ति किं जगति सर्वजना इतीव।
द्रष्टुं रवि: पिहितबिम्बतटाऽभिजात-
ज्योतिश्छटाक्षिनिकरं बिभराम्बभूव॥ २६॥
देदीप्यमानदहनव्रजभास्करस्य
साहाय्यमापदि विधातुमहो किमेष:।
वेगेन पश्चिमहरिद्वदनावलम्बी
वायु: क्षणं प्रवहति स्म तदा रुषेव? २७॥
पूर्णग्रहस्य समये कतिचित्पलानि
विश्वो विशेषकपिशीकृत ईक्ष्यते स्म।
औदास्यभावमभजन् जनतामुखानि
स्तब्धा बभूवुरिह सर्वदिशो नितान्तम्॥ २८।
चन्द्रस्ततो लघुतया निजया दिनेशात्
कक्षान्तरेषु गमनेन तदीयरोधम्।
कालक्रमेण विजहौ, तदनंतरं स
सूर्यो जगाम भुवि नेत्रपथं जनानाम्॥ २९॥
खग्रासमाप खलु य: स दिवाकरोऽयं
स्वच्छे नभस्यतितरा महसा चकासे।
सम्पद्विपद्युगमिदं हि नितान्तलोलं
कुत्राऽपि नैव भजते स्थिरतां चिराय॥ ३०॥
लोकद्वये भवति यावदिदं समस्तं
विज्ञानशास्त्रपटुभि: समुपादितानि।
तावत्क्रमागतरविग्रहणस्य यन्त्रै-
श्चित्राणि चित्रफलकानि मनोहराणि॥ ३१
आदित्यमोक्षमनुलक्ष्य ततो मनुष्या:
स्नानं विधाय विधिवद्गृहमागता: स्म:।
एतस्य च ग्रहणवर्णनगुंफितस्य
काव्यस्य पूर्तिरधुना क्रियते मयाऽपि॥ ३२।
एतानि पद्यकुसुमानि मयार्पितानि
सन्त्येव यद्यपि गुणै रहितानि मित्र१!
भक्तिं विलोक्य मम तावदिमां तथापि
त्वं स्वीकुरुष्व बुधपूजितपाद! तानि॥ ३३॥
शिवाष्टकम्
शीतांशुशुभ्रकलया कलितोत्तमाङ्गं
ध्यानस्थितं धरणिभृत्तनयार्चितं तम्।
कालानलोपमहलाहलकृष्णकण्ठं
विश्वेश्वरं कलिमलापहरं नमामि॥ १॥
गायन्ति यस्य चरितानि महाद्भुतानि
पद्मोद्भवप्रभृतय: सततं मुनीन्द्रा:।
ध्यायन्ति यं यमिनमिन्दुकलावतंसं
सन्त: समाधिनिरतास्तमहं नमामि॥ २॥
त्रैलोक्यमेतदखिलं ससुरासुरञ्च
भस्मीभवेद्यदि न यो दययार्द्रदेह:।
पीत्वाऽहरद्गरलमाशु भयं तदुत्थं
विश्वावनैकनिरताय नमोस्तु तस्मै॥ ३॥
पापप्रसाधनरता दितिजा अपीन्द्रं
सद्यो विजित्य सुरधामधराधिपत्यम्।
यस्य प्रसादबललेशवशादवाप्ता-
स्तस्मै ममास्तु विनति: परमेश्वराय॥ ४॥
नो शक्यमुग्रतपसाऽपि युगान्तरेण
प्राप्तुं यदन्यसुरपुङ्गवतस्तदेव।
भक्त्या सकृन्नततयैव सदा ददाति
यो, नौमि नम्रशिरसा च तमाशुतोषम्॥ ५॥
भूतिप्रियोऽपि वितरत्यनिशं विभूतिं
भक्ताय, य: फणिगणानपि धारयन् सन्।
हन्ति प्रचण्डभवभीमभुजङ्गभीतिं
तस्मै नमोऽस्तु सततं मम शङ्कराय॥ ६॥
येषां भयेन विबुधा रजनीचराणां
नो तत्त्यजुर्हिममहीध्रगुहागृहाणि।
हत्वा ददौ समिति तानपि शैवधाम
त्वत्त: परोऽस्ति परमेश्वर! को दयालु:॥ ७॥
अर्चा कृता न, तव नाम हर! स्मृतन्न
नो भक्तवत्सल! कृतं तव किञ्चिदन्यत्।
वीक्ष्य स्वपादकमलोपनतं तथाऽपि
मां पाहि कारुणिकमौलिमणे! महेश! ८॥
महावीरप्रसादो यो द्विवेदिकुलसम्भव:।
स भक्त्या परया युक्तश्चकारेदं शिवाष्टकम्॥ ९॥
प्रभातवर्णनम्
ममाऽचिरात् सम्भविता समाप्ति:
शुचा हृदीतीव विचिन्तयन्ती।
उष: प्रकाशप्रतिभामिषेण
विभावरी पाण्डुरतां बभार॥ १॥
मृगाधिपस्यागमनेन सर्वे
यथाल्पसत्त्वा विपिनं त्यजन्ति।
तथा भयेनेव विभाकरस्य
तारागणा लोपपरा बभूवु:॥ २॥
श्यामां सिषेवे चतुरोऽपि यामान्
यां, वीक्ष्य तस्या: पतनं शशाङ्क:।
मन्ये महाशोकसमाप्लुताङ्ग:
स पश्चिमाम्भोधिजले पपात॥ ३॥
अलङ्कृतोऽयं महसोदयाद्रि-
सिंहासनस्थो भविता क्षणेन।
इति प्रभाते विरुतिच्छलेन
द्विजा दिनेशस्य जगुर्यशांसि॥ ४॥
क्व मामनादृत्य निशान्धकार:
पलाय्य पाप: किल यास्यतीति।
ज्वलन्निव क्रोधभरेण भानु-
रंगाररूप: सहसाऽऽविरासीत्॥ ५॥
दृष्ट्वा पतन्तं रविबिम्बमारात्
दिवस्तमिस्रेण तिरोबभूवे।
महात्मनां सम्मुखसंस्थितो हि
कियत्क्षणं स्थास्यति दुर्विनीत:?॥ ६॥
कुशेशयै: स्वच्छजलाशयेषु
वधूमुखाम्भोजदलैर्गृहेषु।
वनेषु पुष्पै: सवितु: सपर्य्या
तत्पादसंस्पर्शनया कृताऽऽसीत्॥ ७॥
प्राप्योदयं पङ्कजकोशलीनान्
सद्यो मुमोचालिगणान् दिनेश:।
यद्वैभवे सत्यपि दैन्यदग्धान्
दु:खार्णवात् के न समुद्धरन्ति?॥ ८॥
त्वया समस्तं तिमिरं निरस्तं
कृतो महानुग्रह एष देव?
खगा इदं बोधयितुं रविन्नु
तदुन्मुखा नीडगृहेषु तस्थु:॥ ९॥
गावो वनं फुल्ललतां द्विरेफा
द्विजाश्च सन्ध्यासमुपासनार्थम्।
कृषीवला: स्वेष्टकृतिं प्रकर्तुं
जग्मुर्दिनेशाय नतिं विधाय॥ १०॥
इति तिमिरमुदस्य व्योममार्गेण पश्यन्
निखिलजनसमूहान् स्वस्ववृत्तौ विलग्रान्।
मुदित इव विवस्वान् शुक्लवर्णं बिभर्ति
तमहमपि च नत्वैतस्य पूर्ति तनोमि॥ ११॥
अयोध्याधिपस्य प्रशस्ति:
श्रीमत्प्रतापमहिपाल! विशालभाल!
काव्यार्थचिन्तककवीश्वरकण्ठमाल!
नित्यं प्रजाजनविपत्तिविनाशकाल!
भूया: सदा सुखसमृद्धिसुतान्वितस्त्वम्॥ १।
विद्वल्ललाम! भुवि विश्रुत! पूर्णकाम!
विश्वोपकाररत! सर्वगुणैकधाम!
स्वप्रान्त कौंसिल सभासदसत्प्रदीप!
कीर्तिर्दिवं व्रजतु ते सततं महीप!॥ २॥
वाल्मीकिजा, कविकुलस्तुतकालिदास-
पत्नी, सुबन्धुधनिकादिकपूज्यमाता।
जीर्णाखिलाङ्गकवितावनिता चिरेण
त्वां प्राप्य वैद्यमिव नीरुजतां दधाति॥ ३॥
या 'के-सि-आइ-इय इत्यतिमानमूला
दत्ता प्रशस्तपदवी भवते च राज्ञ्या।
कार्तस्वरेण सह रत्नमिवाविभाति
सा कोसलेश! तव नामसमागमेन॥ ४॥
त्वां वीक्ष्य दाननिरतं सततं नरेश!
लज्जाविनम्रवदन: सुरपादप: स:।
शङ्के सुमेरुगिरिगह्वरमाविवेश;
नो चेत्, कथं न भुवि लोचनलक्ष्यमेति? ५।
दानं, दयाधन! दयां, नयनैपुणञ्च,
शास्त्रे गतिं जनहिताचरणे रतिं, ते।
दृष्ट्वा दिलीपरघुरामकुशाजमुख्यान्
भूपांश्च न स्मरति पूर्वभवानयोध्या॥ ६॥
स्वप्रेऽपि न द्विजपतिं त्वमध: करोषि
मायां तनोषि च महीप! न शात्रवेऽपि।
न त्वं समाक्षिपसि देव! वृषं कदापि
तेनोपमा भवतु ते कथमच्युतेन?॥ ७॥
दीपाङ्कुरैर्दिनकरस्य कराभिपूर्ती
रत्नाकरस्य भरणञ्च तुषारतोयै:।
वैचित्र्यमावहति नाथ! यथा जनानां
कीर्तिस्तथैव कविभिस्तव गीयमाना॥ ८॥
अत्यन्तविस्तृतपवित्रयशस्त्वदीयं
सर्वासु दिक्षु परित: स्वतनुं तनोतु।
येनाखिलप्रवरपण्डितदत्तमान!
तुष्टि प्रहृष्टहृदय: परमां व्रजामि॥ ९॥