प्रथमम् अधिकरणम्
काव्यस्वरूपनिरूपणम्
।। अथ प्रथमोऽध्याय:।।
काव्यलक्षणनिरूपणम्
इह तावत् -
अलङ्कृतं शुभै: शब्दै: समयैर्दिव्यमानुषै:।
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम्।। इति भगवतो व्यासस्य,
काव्यबन्धास्तु कर्त्तव्या: षट्त्रिंशल्लक्षणान्विता:, इति भरतमुने:, शब्दार्थौ सहितौ काव्यम्, इति भामहस्य, शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली, इति दण्डिन:, तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुन: क्वापि इति मम्मटस्य चेत्थं प्राचां तानि तानि काव्यलक्षणानि परिशील्य काव्यलक्षणमिदं पुरस्क्रियते -
लोकानुकीर्तनं काव्यम्।। १।१।१।।
लोकशब्दस्तु लोकृ-धातोर्घञि प्रत्यये योजिते निष्पद्यते। लोकयति भासते लोकते पश्यति वा इति लोक:। तत्र यदेव भासते प्रकाशमायाति तल्लोक इत्येवार्थोऽत्र ज्यायान्। तेन 'लोको नाम जनपदवासी जन:। जनपदश्च देश एव’। इत्यभिनवभारत्यां (नाट्यशास्त्रस्य १३।६९ व्याख्याने) लोकधर्मिनिरूपणप्रसङ्गेऽभिनवगुप्तस्य, स्थावरजङ्गमात्मको लोक इति काव्यहेतुनिरूपणे मम्मऽस्य च लक्षणे इह अग्राह्ये। लोक इति कथनेन न केवलं जन इति अपि तु चराचरं जगदपि गृह्यत एव। न केवलं स्थावरजङ्गमात्मकम्, अपि तु चेतनया विभाव्यमानं सकलमेव भुवनं लोक इति वक्तव्यम्। लोकोऽयं न स्थाणु:, न वा स्थिरोऽपि तु प्रतिक्षणं परिवर्तमानो विकसँश्च वरीवर्ति।
प्रसङ्गवशात् सीमितेऽर्थेऽपि लोकशब्दप्रयोगो भवत्येव। तद्यथाऽमरकोशेऽप्युक्तम्- लोकोऽयं भारतं वर्षम् (अ. को. २। १। ६)। तेन भारतवर्षाद् बहिरपि लोके वर्ण्यमाणे नातिव्याप्तिर्मन्तव्या। कविना यद् दिव्येन आर्षेण चक्षुषा चर्मचक्षुषा वा साक्षात्क्रियते तदपि लोक:।
स च लोकस्त्रिविध:।। १। १। २।। आधिभौतिक आधिदैविक आध्यात्मिकश्च।। १। १। ३।। अनुषक्तत्वं चैतेषां त्रयाणामपि।। १। १। ४।। त्रयाणां च सकल: समुल्लासो जीवनम्।। १। १। ५।। तच्च साहित्ये प्रतिफलति।। १। १। २।।
इदं पञ्चभूतात्मकं जगद् अन्तर्बाह्यकरणैरनुभूयमानं तावदधिभौतिकम्। भूतेषु भवं, भूतसम्बन्धि वा अधिभूतम्। 'पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिश: अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप औषधयो वनस्पतय आकाश आत्मा-इत्यधिभूतम्-इत तैत्तिरीयनिषदुक्ते: (तै.उ.१। ७)। अस्मिन्नधिभूते भव आधिभौतिको लोक:। निखिलकाव्यकलादीनामयमेवाधार:। ऋतेऽमुष्मान्न मनुष्याणां कार्यव्यापारा: प्रवर्तेरन्निति। तद्यथाऽऽह भरतमुनि:-
कर्म शिल्पानि शास्त्राणि विचक्षणबलानि च।
सर्वाण्येतानि नश्यन्ति यदा लोक: प्रणश्यति।। (ना. शा. २९। १२८)
आधिदैविकस्तु लोको मानससाक्षात्कारजनित:। देवानां मानसी सृष्टिरिति नाट्यशास्त्रोक्ते: (२। २२)। देवानां मन:सङ्कल्परूपत्वात्, प्राणरूपत्वाद्वा। इदमत्राकूतम्-यच्चर्मचक्षुषा यथा दरीदृश्यते तत्तथा न भवति। इन्द्रियार्थसन्निकर्षजं ज्ञानमपि यद्यपि मनसि एव भवति, परन्तु भवति तत्र ज्ञानेन्द्रियव्पारस्यैव प्राधान्यम्।
यत्तु मनसा ज्ञानेन्द्रियं प्रेरयता जनेन तत्सङ्कल्पद्वारेण वस्तुनो नवीनं रूपमवलोक्यते विरच्यते वा, तत्र विलसत्याधिदैविको लोक:। वस्तुमात्रस्य प्रतीयमानं स्वरूपमेव तस्यात्मा। तस्मिन्नात्मनि यत् स्यात् तदध्यात्मम्। अत एव वस्तुन: आन्तरिकं रूपमेवाध्यात्मम्। यद्वा-अध्यात्ममिति क्रियाविशेषणम्। आत्मनि आत्मने आत्मन आत्मना वा अध्यात्मम्। आत्मसम्बन्धीत्यर्थ:। इत्थं च लोकस्य त्रैविध्यमेतदणोरणीयांसं महतो महीयांसं च समस्तं तत्त्वजातं क्रोडीकुरुते। भवति चात्र परिकरश्लोक:-
आब्रह्मस्तम्बावधि लोक: प्रसृत: सनातनोऽक्षय्य:।
लोकाद् बहिर्न किञ्चिल्लोके सर्वं प्रतिष्ठितं च।।
ननु परमसत्ता या श्रुतौ वर्णिता अचक्षुरवाङ्मनसगोचरमित्यादिकथनै:, सा तु सर्वथा अलौकिकी एवेति चेत्, तन्न। तत् लोक एव, न लोकातिक्रान्तम्। अथ ये महायोगिन:-समाधिषु वयं परब्रह्मप्रमोदार्णवं साक्षात्कुर्म इति ख्यापयन्ति, तान् इदं पृच्छाम:। तस्य परब्रह्मण: साक्षात्कारोऽत्रभवद्भिरस्मिन् लोके स्थित्वा क्रियते, अन्यत्र गत्वा वा? यदि अस्मिन् लोके स्थित्वा एव क्रियते तर्हि सिद्धमेव लोकान्तर्वर्तित्वं तस्य ब्रह्मण:। एतेन अलौकिकं वस्तु काव्ये वर्णयति कविरिति मतमपास्तम्। यल्लोके न भवति, तस्य काव्येऽप्यसम्भवात्।
कथं तर्हि 'लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवालङ्कारभाव:’ इति (ध्वन्यालोकलोचने, पृ. ४९९) अभिनवगुप्तस्य, लोकोत्तरचमत्कारकारिवैचिर्त्यसिद्धय इति (वक्रोक्तिजीविते, १। २) कुन्तकस्य, काव्यं लोकोत्तरवर्णनानिपुणस्य कवे: कर्मेति मम्मटस्योक्तय इमा सङ्गच्छेरन्? वस्तुत एतासूक्तिषु लोक इति पदेन क्वचिदापाततो स्थिरमिति विभाव्यमानं वस्तुस्वरूपं वस्तुन आधिभौतिकं वा रूपमेव गृह्यते। इदमाधिभौतिकं रूपं भवत्येव काव्यस्याधारभूतम्, परन्तु न तन्निरूपण एव काव्यं पर्यवस्यति। तस्मिन् प्रतिष्ठितमपि काव्यं तदतिक्रामति। इदं तावत् काव्यस्यासाधारणत्वमसामान्यत्वं वा। अतश्च कारिकाया 'लोकोत्तरचमत्कारकारिवैचिर्त्यसिद्धय’ इति पदं व्याचिख्यासु: कुन्तक आह-असामान्याह्लादविधायिविचित्रभावसम्पत्तय इति। काव्यस्य मानवजीवनगतदैनन्दिनसामान्यकथनस्य च भवत्येव विशेष:। अयं विशेष: परिभाषितो भोजेनोक्तिलक्षणे-विशिष्टा भणितिर्या स्यादुक्तिं तां कवयो विदुरिति।
अमुमेव विशेषं प्रसिद्धिव्यतिक्रमं वा क्वचिदलौकिकत्वं कविताया आमनन्ति आचार्या:। अत एव भोजस्य लक्षणं रत्नशेखरष्टीकते- 'प्रसिद्धिव्यतिरेकेण तु या काचित् कविप्रतिभया भणितिराकृष्यते सा भवति लोकोत्तरा। तथा च प्रतिभाकृष्टतया चमत्कारित्वाद् गुणत्वम्। अत एव कवय इत्याह। कविसहृदयानामेव तादृशोक्तिपरिचयसम्भवात्’।
(सरस्वती-कण्ठाभरणे, काव्यमालासं., पृ. ६०)।
भवतु नाम काव्यस्य माहात्म्यख्यापनाय तस्य लोकोत्तरत्वनिरूपणम्, तत्र च लोकशब्दस्य सङ्कुचितेऽर्थेऽपि ग्रहणम्, परन्तु लोकानुकीर्तनं काव्यमित्यस्मिंल्लक्षणे यो लोक उल्लिखितस्स तु त्रिलोकीमेव समावेशयति, न केवलमाधिभौतिकं जगत्।
एतेन त्रैकालिकत्वमपि सिध्यति कविताया:। यतो हि आधिभौतिकं जगत् प्रायो वर्तमानेनानुबद्धम्, इतरौ पुनराधिदैविकाध्यात्मिकौ लोकौ अतीतानागताभ्यां कालाभ्याम्।
त्रैविध्यं प्राप्तोऽयं लोको प्रतिक्षणं नवायमानो नित्यं परिस्पन्दमान: परिवर्तमानश्च काव्ये निरूपित आनन्त्यं धत्ते। उक्तमेवानन्दवर्धनेन-
अवस्थादेशकालादिविशेषैरपि जायते।
आनन्त्यमेव लोकस्य वाच्यस्यापि स्वभावत:।। (ध्वन्यालोके, ४। ७)
जङ्गम्यमानत्वाद् गतिशीलत्वाच्च लोकोऽयं जगदिति व्यपदिश्यते। तेनायं प्रतिक्षणं परिवर्तते, नवायते, आनन्त्यं च याति। तस्माच्चामुं लोकं जगद्वा विषयीकृत्य प्रवर्तमाना कविताऽपि यात्येवानन्त्यम्। पुनरपि युक्तमुक्तवानानन्दवर्धनाचार्य: काव्ये वस्तुगतिमधिकृत्य-
वाचस्पतिसहस्राणां सहस्रैरपि यत्नत:।
निबद्धा सा क्षयं नैति प्रकृतिर्जगतामिव।। (तत्रैव, ४। १०)
कस्मिंश्चित्काव्य आधिभौतिकजगत:, कस्मिंश्चिदाधिदैविकजगत:, कस्मिंश्चिच्चाध्यात्मिकजगतो भवति प्राधन्येन निरूपणम्, तथापि कालिदासस्य मालविकाग्निमित्रे आधिभौतिकमेव जगद् विशिष्य नाट्यायमानम्। कालिदासस्येतररूपकयो: प्राधान्येनाधिदैविकजगद् विलसति। योगिनोऽरविन्दस्य सावित्रीमहाकाव्ये आध्यात्मिकं जगत् प्राधान्येन कीर्तितम्। इत्थं काव्ये प्रसङ्गवशात् क्वचिदन्यतमस्त्रिषु लोकेषु निरूप्यते।
क्वचित्तु एकं द्वयं वा निराकृत्य अपरस्मिन्नवधानवान् प्रतिभाति कविर्न तत्र परमार्थत एकस्मिन् पक्षपात:। तथा हि मम प्रस्थानलहर्याम्-
कामं करालं जगदस्मदीयं
कामं तथाऽवस्करराशिजुष्टम्।
वासं तथाप्यत्र वरं तु मन्ये
स्वर्गाच्च संन्यासगतापवर्गात्।।
देवालयात् भक्तिसुखात् प्रभोर्वा
सायुज्यलाभात् किल ब्रह्मभावात्।
मन्ये वरं ते सविधे निवासं
क्लेशाकुलेस्मिन् जगति प्रकामम्।।
अत्र आधिभौतिकं जगद् विहाय संश्रितौ संन्यासपवर्गौ न वास्तविकौ, न तादृशौ संन्यासापवर्गी काम्यावित्यभिप्राय:। अत आधिभौतिकतायामपि आधिदैविकाध्यात्मिकयोरवतरणमभिप्रेतं कवेर्न तयोर्निराकृति:। वस्तुत: साहित्ये नैतेषु त्रिषु एकं विनाऽपरमवतिष्ठते। तेनैव पुरुषार्थसिद्धि: काव्येऽपि। आधिभौतिकेन अर्थस्य, आधिदैविकेन कामस्य, आध्यात्मिकेन च धर्मस्य मोक्षस्य च सिद्धि:। पुरुषार्र्थेष्वपि यो धर्मपूर्वकोऽर्थ: कामेा वा स एव वस्तुतोऽर्थ: कामो वा, अर्थं विना कामं विना च न वस्तुतो धर्म:, धर्मार्थकामान् विना च कथं मोक्षावगतिरिति चत्वारोऽप्येते परस्परमनुषक्तास्तथैव साहित्ये आधिभौतिकाधिदैविकाध्यात्मिकतत्त्वविलसितं समन्वितम्। अत एवोक्तम्-अनुषक्तत्वं चैतेषां त्रयाणामिति।
जीवनं तु पुरुषार्थचतुष्टयसमन्वितमेवाखण्डतां सम्पूर्णतां च धत्ते। तेनैव जीवनस्यालङ्कार: परिपूर्णता वा। तदुक्तं कालिदासेन-
स चतुर्धा बभौ व्यस्त: प्रसव: पृथिवीपते:।
धर्मार्थकाममोक्षाणामवतार इवाङ्गभाक्।। (रघु. १०। ८४)
एतेषामाधिभौतिकाधिदैविकाध्यात्मिकतत्त्वानां विकास: समुल्लासश्च जीवनम्। तच्च जीवनं समेषामेव सचेतनानां भवति। मनुष्यस्य तिरश्चां समूहस्य राष्ट्रस्य स्थावरजङ्गमानां समेषां भवत्येव जीवनम्। तेन त्रैविध्यम् अवस्थात्रितयात्मकं वा जीवनस्य। कदाचिज्जीवन आधिभौतिक: पक्ष: प्राधान्येन स्फुरति, कदाचिदाधिदैविक:, कदाचिच्चाध्यात्मिक:। तच्च जीवनं साहित्ये शास्त्रेषु निरूप्यते महाकविभि: शास्त्रकारैश्च। अनुकीर्तनगतानां वक्ष्यमाणानां चतसृणामवस्थानां वैशिष्ट्यात् काव्ये तावदस्य जीवनस्य भवति क्वचित् प्रतिफलनं, क्वचिदुन्मीलनं, क्वचिद्विकासदृष्टि:, क्वचिच्च समुल्लास:। जीवनं कवेर्मतिदर्पणे प्रतिबिम्बितं भवति। यदुक्तं राजशेखरेण-मतिदर्पणे हि महाकवीनां विश्वं प्रतिफलतीति। परन्तु प्रतिबिम्बोऽयं न साधारणदर्पणगतप्रतिबिम्ब इव निर्जीव:। अतश्च न मिथ्या, न प्रातिभासिको, न व्यावहारिकोऽपि तु परमार्थत: सत्य एव। साहित्ये प्रतिफलितं जीवनमपि न कस्याश्चन एकस्या व्यक्ते:, न वा केवलं धीरोदात्तानां, नापि केवलं पौराणिकानाम् ऋषीणाम्। न केवलं व्यक्तेरपि तु समग्रस्य समाजस्य राष्ट्रस्यापि भवति जीवनम्। अत एव परमार्थदर्शनकारो नवदर्शनावतारो रामावतार आह-'जीवनं द्विविधम्, चिदात्मनो ज्ञानविज्ञानशक्तिद्वयत्वात्। तच्च व्यक्तिजीवनं सर्वात्मीयं जीवनं चे’ति (परमार्थदर्शने, पृ. २५३)। अस्मन्मते तु आधिभौतिकाधिदैविकाध्यात्मिकभेदेन जीवनस्य त्रैविध्यम्, व्यक्तिगतसमाजगत-ब्रह्माण्डगतेति पुनश्च त्रैविध्यमित्यलं परकीयमतविमर्शेण। भवन्ति चात्र परिकरश्लोका:-
साहित्ये जीवनं सर्वं सर्वाङ्गीणं नवं नवम्।
प्रतिबिम्बत्वमायाति समुल्लसति वर्धते।।
अद्भुत: प्रतिबिम्बोऽयं बिम्बमेव विभावयन्।
संस्कुर्वन् जीवनं तस्मिन् समवेतो नवायते।।
जीवने चास्ति साहित्यं साहित्ये जीवनं तथा।
परस्परकृता सिद्धिरनयो: सम्प्रवर्तते।
तथा चाह यायावरीयो महाकवि राजशेखर:-कविवचनायत्ता च लोकयात्रा। सैव नि:श्रेयसमूलमिति।
इत्थं लोकस्य स्वरूपं विशदीकृत्यानुकीर्तनं निरूपयति।-
अनुकीर्तनं चतुर्विधम्।। १। १। ७।। तेनास्य पूर्णता।। १। १। ८।। पूर्णता चालङ्कार:।। १। १। ९।।
तेन अलङ्कार एव काव्यम्।। १। १। १०।।
तस्य लोकस्यानुकीर्तनं काव्यम्। अनु पश्चात् कीर्तनं कथनम्। तेन लोकस्य पूर्ववर्तित्वं, काव्यस्य पश्चाद्वर्तित्वं च नियतम्। अनुकीर्तनं शब्दै: पुनराविष्करणम्। शब्दाश्च भवन्ति सार्था:। इत्थमनुकीर्तनमिति पदेन निर्दुष्टयो: सगुणयो: सालङ्करयो रसाभिव्यञ्जकयोश्च शब्दार्थयो: सङ्ग्रह:। अनेनानुकीर्तनेन काव्ये पूर्णता आयाति, सैव अलङ्कार:। तत्स्वरूपं च द्वितीयाधिकरणे विशदं वक्ष्याम:।
अनून्मीलनम्, अनुदर्शनम्, अनुभवोऽनुव्याहरणं चेति चतस्रो दशा अस्यानुकीर्तनस्य भवन्ति। यद्धि लोक इति जीवनमिति वा निरूपितमुपरिष्टात् 'एतेषां त्रयाणामाधिभौतिकाधिदैविकाध्यात्मिकलोकानां सकल: समुल्लासो जीवन’मिति कथयता ग्रन्थकृता, तस्य कवयितुर्मानसे प्रथम उन्मेषो नामानून्मीलनम्। उन्मिषितायास्तस्या: कवयित्रा स्वानतश्चेतसि दर्शनमेवानुदर्शनम्। अनुदृष्टायास्तस्या वर्णनाय वस्तुनो रूपस्य शब्दार्थयोर्वाऽऽविष्कारोऽनुभव:। अनुभूतायास्तस्या: स्फुटै: शब्दैर्गोचरीभवितुमर्है: कथनमनुव्याहरणम्। अनुव्याहरणेन पद्यात्मकत्वेन वैखरीरूपमापद्यते काव्यम्। तद्यथोक्तमादिकविना रामायणे- 'सोऽनुव्याहरणाद् भूय: शोक: श्लोकत्वमागत:’। इति।
इदमेवानुकीर्तनम् ऐतरेयमहीदासो अनुकृतिमित्याह। तन्मतेन सर्वाणि शिल्पानि अनुकृतिरूपाणि। तानि पुनर्द्विविधानि देवशिल्पमानुषशिल्पभेदेन। इदं समस्तं जगद् देवस्य ईश्वरस्य वा शिल्पम्। एतेषु सर्वविधशिल्पेषु अनुकृतिर्मूलं तत्त्वमित्याह महर्षिर्महीदास ऐतरेयब्रह्मणे। एतच्च छायालङ्कारविचारे पुनर्विचारयिष्याम:। भवति चात्र श्लोक:-
समस्तानां कलानां वै काव्यानां च तथा ध्रुवम्।
अलङ्कारक्रियायाश्च मूलं साऽनुकृतिर्मता।।
वाचो निरूपणे एतान्येव चत्वारि चरणानि वैयाकरणै: परा, पश्यन्ती, मध्यमा, वैखरीति निगदितानि। तथा चाह श्रुतिरपि-
चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिण:।
गुहा त्रीणीङ्गिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति।। (ऋग्वेदे, १। १६४। ४५)
भट्टतौतस्तु दर्शनं वर्णनं चेति द्विविधां काव्यरचनाप्रक्रियामाह-
नानृषि: कविरित्युक्त ऋषिश्च किल दर्शनात्।
स तत्त्वदर्शनादेव शास्त्रेषु पठित: कवि:।।
विचित्रभावधर्मांशतत्त्वप्रख्या च दर्शनम्।।
दर्शनाद् वर्णनाच्चाथ लोके रूढा कविश्रुति:।
नोदिता कविता तावद् यावज्जाता न वर्णना।।
दर्शनवर्णनयोर्द्वयी वस्तुतोऽनून्मीलनानुदर्शनानुभवानुव्याहरणानां चतुष्टयी विना न प्रवर्तते। तथा हि- उन्मीलितस्यैव तत्त्वस्य दर्शनम्। दृष्टस्य चानुभव:, अनुभूतस्य च कथनम्। एतेषां चतसृणामन्वितिमेव काव्यरचनाप्रक्रियां व्यपदिशन्त्याधुनिका:।
एतेषामनून्मीलनानुदर्शनानुभवानुव्याहरणानां विनियोगात् समुल्लसितैराधिभौतिकाधिदैविकाध्यात्मिकलोकै: काव्यविश्वं पूर्णतां याति। अत उक्तम्- तेनास्य पूर्णतेति। पूर्णता चालङ्कार:। तेन वस्तुतोऽलङ्कार एव काव्यम्।
यत्तूक्तमनुत्तमकविनाऽभिराजराजेन्द्रमिश्रेण- 'काव्यं तावत् स्वत: स्फूर्तं भावोच्छलनं किमपि। काव्यं न तावद्विमृश्य ध्यायं ध्यायं शास्त्रमिव सायासं लिख्यते। प्राक्पश्चाद्वर्त्याग्रहविनिर्मुक्तमिदं भावोच्छलनं स्वत: स्फूर्तत्वाल्लोकोत्तरत्वाच्च भवत्येव स्वभावजम्। नेदं शास्त्रप्रभृतिवाङ्मयान्तरमिव कृत्रिमप्रयत्नसाध्यम्’। इति, तदग्राह्यम्। काव्यपदेन न केवलं पद्यबद्धम् आधुनिकै: कवितेति व्यपदिश्यमानं वाङ्मयम्, अपि तु गद्यात्मकं कथाख्यायिकादिकं सर्वमेवात्र गृहीतम्। अन्यच्च यदि नाम स्वत:स्फूर्तं भावोच्छलनमेव काव्यमिति कथितम्, तर्हि कथं भट्टिकाव्यादीनि काव्यतया उदाहिृयन्ते। उदाहृतानि च तानि भवतैव काव्यत्वेन अभिराजयशोभूषण इति।
अनून्मीलनानुदर्शनानुभवानुव्याहरणानां या प्रक्रिया मया विवेचिता, तत्र क्वचित् प्रथमं विचार उदेति अनन्तरं तदनुरूपं भावोच्छलनम्, क्वचिद्वा भावोच्छलनं तदनु तदनुसारेण विचारो वा शब्दार्थघटना वा। नाटकस्य उपन्यास वा रचनायां प्रतिपत्रं यत्नमादधान: कविर्यदि विमृश्य पात्राणां संवादान् चरित्रविकासं वा न निरूपयेत्, तर्हि अव्यवस्थ: स्यात् साहित्यसंसार:। मुक्तकादिषु कामं केवलं निरर्गलभावोच्छलनेनैव भवतु काव्यपूरणम्। अन्यच्च-बहवो मुक्तकादिषु कामं केवलं निरर्गलभावोच्छलनेनैव भवतु काव्यपूरणम्। अन्यच्च-बहवो मुक्तककवयोऽपि स्वत: स्फूर्तेन केवलेन भावोच्छलनेन काव्यरचना भवतीति न स्वीकुर्वन्ति। तथाऽऽह वर्ड्सवर्थकवि:-काव्यं नाम स्वत: स्फूर्तानां भावानां स्फूर्तेरनन्तरं पुन:स्मरणमिति।
साहित्यस्याप्ययमेवाशय:। सम्-उपसर्गपूर्वकाद् धा-धातोर्निष्पद्यते साहित्यशब्द:। तद्यथा-'लुम्पेदवश्यम: कृत्ये तुङ्काममनसोरपि’ इति नियमाद् हितततयो: प्राक् सम् इत्युपसर्गस्य मकारो लुप्यति। तेन सम्+हित इति संहितायां प्राप्तायां सन्ततशब्दो यथा सततत्वेन तथा संहित इति शब्द एव सहित्वेन परिणमति। संहितत्वं नाम शब्दार्थयोरावापोद्वापसमन्वितं सम्यगाधानम्। संहितत्वं सहितत्वं वा साहित्यम्। तेन च- तुल्यवदेकक्रियान्वयित्वं, बुद्धिविशेषविशेषत्वे वा साहित्यमिति शब्दशक्तिप्रकाशिकाया (पृ. १०१८) इत्थं व्याचष्टे-एककारकान्वयित्वेन तुल्ययोरेकजातीयक्रिययोरन्वयित्वमिति। एतेन च साहित्ये एकवाक्यत्वं महावाक्यत्वं च साध्यते। एतत्तु साहित्ये वस्तुरूपान्वितिविचारे महावाक्यविचारे च पुन: प्रतिपादयिष्याम:।
कुन्तकस्तु साहित्यशब्देन सहभाव इत्यर्थमेव जग्राह-'सहितौ सहितभावेन साहित्येनावस्थितौ’ (व.जी., पृ. १०) इति कथयन्। परन्तु सोऽपि नायं सहभाव: सामान्य:, विशिष्टमेव साहित्यमिहाभिप्रेतमिति स्वीकरोति। तच्च विशिष्टं साहित्यं कीदृशमिति निरूपयता तेनैवाभाणि- 'वक्रताविचित्रगुणालङ्कारसम्पदां परस्परस्पर्धाधिरोह’ इति (तत्रैव, पृ. १०)। शब्दार्थयो: सामान्य: सहभावस्तु प्रसिद्ध एव। अतश्चाह-'सहिताविति तावेव किमपूर्वं विधीयते’? (तत्रैव, १। १६)। अतोऽपूर्व एव सहभाव इह विवक्षित:। तत्कृते चापेक्ष्यते शब्दार्थयोरन्यूनानतिरिक्तत्वमनोहारिण्यवस्थिति:। तद्यथाऽऽह-
साहित्यमनयो: शोभाशालितां प्रति काप्यसौ।
अन्यूनानतिरिक्तत्वमनोहारिण्यवस्थिति:।। (व.जी. १।१७)
अनयो: शब्दार्थयोरित्याशय:।
विद्यानिवासमिश्रास्तु-साहित्यं नाम विहितत्त्वं, प्रहितत्त्वं, पिहितत्त्वं, सन्निहितत्त्वं, निहितत्त्वमवहितत्त्वं वा, विधातु: सृष्टे रूपान्तरणाद् नवीनविधानकरणाद् वा विहितत्त्वम्, आच्छादनात् पिहितत्त्वम्, आत्मीयतया सन्निहितत्त्वं, सम्यग्विन्यासान् निहितत्त्वं, सम्प्रषणात् प्रहितत्त्वं, समाधिनिष्ठतया रचयितुमर्हत्त्वादवहितत्त्वं चेत्याहु:।
इदमत्राकूतम्-विधातु: सृष्टे: समनन्तरं नवविधानदक्षयोर्यद्वा नूतनसृष्टिसमर्थयो: सम्प्रेषणार्हयोरावरणकल्पयो: शब्दार्थयो: समुचितो विन्यास: साहित्यं काव्यमिति वा। ननु कथं नाम सहितत्वं पिहितत्वमाच्छादकत्वमित्यपि कथितम्। काव्यं नाम किमाच्छादयति पिदधाति वा? वस्तुत: शब्दार्थयोर्विचित्रोऽत्र विन्यासो रक्षाकवच इव मानवं पापेभ्यस्त्रायते। इदमेवावरकत्वं पिधानं वा। तस्माच्च काव्यं छन्द इति समाम्नातम्। तद्यथोक्तं तैत्तिरीयारण्यके (२। ५) -'छादयन्ति ह वा एवं छन्दांसि पापात्कर्मण:’ इति। अन्यच्च क्वचिद् आधिव्याधिप्रभृतिभौतिकतापेभ्य: क्षणं त्राणादपि आच्छादकत्वम्। तदुक्तं मम्मटेन- काव्यं शिवेतरक्षतय इति। वाचां परिस्पन्दो निवारयत्यमङ्गलम्। अतश्च यथात्मबोधाय तथात्मत्राणाय साहित्यं कल्प्यते। उक्तमेव तैत्तिरीयसंहितायाम्-अग्निरूपात् प्रजापतेरात्मानं त्रातुं देवाश्छन्दांसि श्रितवन्त इति- 'प्रजापतिरग्रिमचिनुत, स क्षुरपविर्भूत्वाऽतिष्ठत्, तं देवा बिभत्यो नोपायन्त छन्दोभिरात्मानं छादयित्वोपायन्तच्छन्दसां छन्दस्त्वम्’ (तै.सं. ५। ६। ६। १)। छन्दस्तु सर्वत्रानुस्यूतं समेषां मानसे पिनद्धं किमपि तत्त्वम्। काव्येऽपि गद्ये वा पद्ये वाऽस्य व्याप्ति:, प्रतिशब्दं छन्दसो वर्तमानत्वात्। तद्यथोक्तं मुनिना भरतेन- 'छन्दोहीनो न शब्दोऽस्ति न च्छन्द: शब्दवर्जितम्’ इति। अत एव समस्तं काव्यं छन्द इत्युच्यते, 'काव्यं छन्द’ इति यजुर्वेदोक्ते: (१५। ४)। अस्य च छन्दसो द्वैविध्यम् आभ्यन्तरबाह्यभेदात्। यदस्याभ्यन्तरं रूपं तत्तु समग्रां सृष्टिमभिव्याप्रोति। विद्यमाने तस्मिन् प्रबन्धेषु आन्तरिकी सङ्गति: सम्भवति, तेन तेषु महाकाव्यं निष्पद्यते। बाह्यं तु रूपं पिङ्गलादिशास्त्रेण निर्धार्यते। अविद्यमानेऽपि तस्मिन् क्वचिद् भवति छन्दसो निष्पत्ति:। उक्तमेव मयाऽप्यन्यत्र स्वकाव्ये-
त्रुटिते छन्दोबन्धे लययतिभङ्गे समं सञ्जाते।
किमपि किमपि यद् रचितं तदपि तदपि समजनि च्छन्द:।।
छन्द इति कथनाद् निबद्धत्वं स्वच्छन्दत्वं चेत्युभयमपि द्योत्यते। छन्द इव छन्दस् इति शब्दस्यापि अभिलाषे स्वैराचारे च प्रयोगात्।
यत्तु साहित्यं नाम दर्पणस्समाजस्येत्युक्तं तच्चिन्त्यम्। दर्पणे बाह्यं रूपं यथावत् प्रतिबिम्बितं भवति। साहित्ये काव्ये वा केवलं समाजस्य लोकस्य वा बाह्यं रूपमेव न निरूप्यते। यत्तु सूक्ष्ममाभ्यन्तरं वा तस्य रूपं तदपि भवति तत्र चित्रितम्। यदि तु साहित्यं लोकस्य आधिभौतिकाधिदैविकाध्यात्मिकानां त्रयाणामेव दर्पण इत्याशयेन तस्यादर्शत्वं निरूप्यते, तदा न दोष:। एतच्चास्माभिरप्यूरीकृतमेवोपरिष्टात्।।१। १। ६ इति सूत्रस्य व्याख्याने, लोकत्रितयसमुल्लासभूतजीवनस्य प्रतिफलनं कथं भवति साहित्य इति प्रतिपादयद्भि:। अभिनवगुप्तस्य मतेन कविप्रतिभा भित्तिभूता, तस्यां तर्पण इव निखिलं जगत् प्रतिबिम्बितं भवति-
भासा नाम च प्रतिभा महती सर्वगर्भिणी।
स्वस्वभावशिवैकात्मदेशिकात्मकचिन्मयी।।
यस्यां हि भित्तिभूतायां मातृमेयात्मकं जगत्।
प्रतिबिम्बतया भाति नगरादिव दर्पणे।। (महार्थमञ्जर्याम्, पृ. १०५)
इदं च प्रतिबिम्बितं जगत् कविप्रतिभामनून्मीलयत्यनुपश्यत्यनुभवत्यनुव्याहरति च।
ननु आधिभौतिकाधिदैविकाध्यात्मिकेति त्रिविधो लोक उक्त:। अस्मिन्नेव लोके अवस्थित: कवी रचयति काव्यम्। यच्चासौ रचयति काव्यं तदपि लोक एव। न तल्लोकातिगम: अपि तु लोकान्तर्वर्त्येव। कथं तर्हि लोकानुकीर्तनं काव्यमिति लक्षणं सङ्गच्छते? दर्शने द्रष्टृदृश्ययोरिवानुलोकानुकीर्तने कीर्तनकर्तृकीर्त्यमानयोर्भेदेनावश्यं भाव्यम्। काव्यमपि लोक:, कथं तर्हि लोकने लोकस्यैवानुकीर्तनं क्रियेत्? अत्रोच्यते-भवतु नाम आत्मनैवात्मनोऽनुकीर्तनं काव्यम्। यथा आत्मानमात्मनैवोद्धरति, आत्मानमात्मना वाऽऽविष्करोति नियमयति च सचेतनस्तथैव लोको लोकान्तर्वर्तिनैव काव्येनात्मानमाविष्करोति, नियमयति च। उक्तमेव राजशेखरेण-कविवचनायत्ता लोकयात्रा, सा च नि:श्रेयसमूलमिति। काव्यं लोकस्यैव विशिष्टं रूपम्। अनेन विशिष्टरूपेण सामान्यं स्वकीयं रूपं लोक: परिमार्जयति पुनराविष्करोति चेत्यपि शक्यते वक्तुम्।
लोकानुकीर्तनं काव्यमित्यवोचाम। लोके च शिवशिवेतरयो: शुभाशुभयोर्वा भवति युगपदुपस्थिति:। तत्र काव्यं तु शिवं शुभं च पुरस्करोति, नाशिवमशुभं वा। यच्च शिवं रूपं लोकस्य तत् सहजं कृत्रिमं वा। यदशिवं तत्तु कृत्रिममसहजमस्वाभाविकम्। यदि नामाशिवस्यापि निरूपणं करोति कविस्तदपि तस्याशिवस्य निरासाय। यावदशिवं पापं वा न परिचीयेत, तावत् तस्य निरासोऽपि कथं स्यात्?
अतश्च लोकस्य शिवं सत्यं सहजमकृत्रिमं वा रूपं निरूपणीयमिति काव्यस्य प्रतिज्ञा। अयं च लोकस्वभाव:। लोकस्वभावचित्रणमेव काव्यस्वभाव:। एतच्च चित्रणं काव्ये स्वभावोक्तिं जाति वा जनयति। तच्च जात्यलङ्कारविचारे पुन: प्रतिपादयिष्याम:।
तद्यथाऽऽहाभिनवगुप्त:-'काव्ये च लोकनाट्यधर्मिस्थानीये स्वभावोक्तिवक्रोक्तिप्रकारद्वयेन अलौकिकप्रसन्नमधु-रौजस्विशब्दसामर्थ्यसमर्प्यमाणविभावादियोगादियमेव रसवार्ता’। इति। (ध्वन्यालोकलोचने २। ४- वृत्तौ)। तथा च-
'यदा कविर्यथावृत्तवस्तुमात्रं वर्णयति नटश्च प्रयुङ्क्ते, न तु स्वबुद्धिकृतं रञ्जनावैचित्र्यं तत्रानुप्रवेशयति, तदा तावान् स काव्यभाग: प्रयोगभागश्च लोकधर्माश्रयस्तत्र धर्मी। काव्यनाट्ययोर्हि लोकानुसारित्वं वैचिर्त्ययोगित्वं वा धर्म:’। (नाट्यशास्त्रस्य १३। ७१-७२ इत्युपरि अभिनवभारती)।
ननु लोकानुकीर्तनं काव्यमिति लक्षणं कृतम्, इदं च लक्षणं 'अलङ्कृतं शुभै: शब्दै: समयैर्दिव्यमानुषै:। छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम्’।। इति भगवतो व्यासस्य, 'काव्यबन्धास्तु कर्तव्या: षट्त्रिंशल्लक्षणान्विता:’ इति भरतमुने:, 'शब्दार्थौ सहितौ काव्यम्’ इति भामहस्य, 'शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली’ इति दण्डिन:, 'तददोषौ शब्दार्थौ सगुणावनलङ्कृ़ती पुन: क्वापी’ति मम्मटस्य लक्षणै: सङ्च्छत इति विकत्थनं तु मुधैव, यतस्तामेव सङ्गतिं न पश्याम इति चेदुच्यते। लोकानुकीर्तनमित्युक्ते एतेषां समेषामेव लक्षणानां सङ्ग्रहो भवति। अनुकीर्तनेन शब्दार्थयो: साहित्यस्य लोकेन च भरतमुनिनिर्दिष्टकाव्यलक्षणानाम्। भरतमुनिस्तावत् षट्त्रिंशल्लक्षणानि काव्यस्य प्रतिपादितवान्। तान्यपि लक्षणानि श्रुतिसम्मतानि। यतो हि मन्त्रब्राह्मणयो: स्वरूपं विमृशन् शबरस्वामी स्तुति-प्रलपित-परिदेवन-प्रैषान्वेषणादिलक्षणानि निर्दिशति तत्र। तान्येव काव्लक्षणेषु मुनिनोरीकृतानि। तन्त्रवार्तिके मन्त्रलक्षण उक्तम्-
ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वश:।
लक्षणेन तु सिद्धान्तानामन्तं यान्ति विपश्चित:।
आशिष: स्तुतिसंख्ये च प्रलप्तं परिदेवितम्।
प्रैषान्वेषणपृष्टाख्यानुषङ्गप्रयोजिता:।
सामर्थ्यं चेति मन्त्राणां विस्तर: प्रायिको मत:।। (तन्त्रवार्तिके मन्त्रलक्षणे)
तत्रैव च ब्राह्मण लक्षणम् उक्तम्-
हेतुर्निर्वनं निन्दा प्रशंसा संशयो विधि:।
परक्रिया पुराकल्पो व्यवधारणकल्पना।।
उपमानं दशैवेते विधयो ब्राह्मणस्य तु।।
लोकवृत्तसङ्ग्रहस्यानुकीर्तनस्य च प्रकृष्टत्वमुत्कृष्टत्वमपकृष्टत्वं वा परिलक्ष्य उत्तमोत्तमम्, उत्तमम्, मध्यमम्, अधमं चेति काव्यस्य, सिद्ध: साधक: आभ्यासिको घटकश्चेति कवे:, तत्त्वाभिनिवेशी, विषयनिष्ठो विषयिनिष्ठो सतृणाभ्यवहारी चेति समीक्षकस्याचार्यस्य वा: साङ्कर्य, संसृष्टि:, ईषत्स्पृष्टत्वमभावतश्चेति शास्त्रसन्निवेशस्य कोटयो भवन्ति। भवति च परिकरश्लोकोऽत्र-
यथा कविस्तथा काव्यं तथा चापि समीक्षक:।
चातुर्विध्यं त्रयाणां च प्रत्येकं परिकल्पितम्।।
एतत्तु सविस्तरमग्रे दर्शयिष्याम:।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
प्रथमाधिकरणे काव्यलक्षणनिरूपणं नाम प्रथमोऽध्याय:।।
।। अथ द्वितीयोऽध्याय:।।
काव्यप्रयोजननिरूपणम्
एवं काव्यलक्षणं विमृश्य काव्यप्रयोजनमिदानीं विचार्यते।
मुक्तिस्तस्य प्रयोजनम्।। १।। २।। १।। सृष्टेश्चेतनायास्त्रैविध्येन सा त्रिधा त्रिधा।। १। २। २।। अनुषक्तत्वं चासाम्।। १। २। ३।। मुक्तिश्चावरणभङ्ग:।। १। २। ४।। आवरणं च सङ्कुचितप्रमातृत्वम्।। १। २। ५।। प्रमाता च कवि: सहृदयश्च।। १। २। ६।। तदीयचैतन्यसङ्कोच: सङ्कुचितत्वम्।। १। २। ७।।
तस्य काव्यस्य प्रयोजनं मुक्तिरेव, अन्येषां प्रयोजनानां तत्रैव गतार्थत्वाद् अकिञ्चित्करत्वाद्वा। सा च मुक्ति: सृष्टेस्त्रैविध्येन त्रिविधा, चेतनायास्त्रैविध्येन पुनस्रिविधा। अत उक्तम्-सृष्टेश्चेतनायास्त्रैविध्येन सा त्रिधा त्रिधेति। सृष्टेस्त्रैविध्यमुक्तमेव, आधिभौतिकाधिदैविकाध्यात्मिकभेदात्। तद्दृष्ट्या मुक्तिस्रिविधा-आधिभौतिकी, आधिदैविकी, आध्यात्मिकी चेति। आधिभौतिकदृशा सर्वे सुखिनो भवेन्तु, सर्वे लभन्तां शरीरपोषणार्थं सम्यगन्नपानादिकम्, शरीरक्षायै उचितं भवनं वासांसि चेति आधिभौतिकी मुक्ति:। प्रसादमायान्तु, निष्कलुषानि च भवन्त्विति आधिदैविकी मुक्ति:। आत्मनि स्वरूपावस्थानं च आध्यात्मिकी मुक्ति:। एषा त्रिविधापि मुक्ति: काव्येन साहित्यसाधनया वा लभ्या। चेतनायास्त्रैविध्येनेयं मुक्ति: पुनस्रिविधा। तथा हि त्रिविधा भवति चेतना-व्यक्तिगता, समाजगता, ब्रह्माण्डगता च। तद्दृशा वैयक्तिकी, सामाजिकी ब्रह्माण्डीया च त्रिविधा मुक्ति:। एता: षड्विधा अपि मुक्तय: परस्परेणानुषक्ता:। अत उक्तम्-अनुषक्त त्वं चासाम्। यावत् सर्वे जना अन्नपानादिकमपेक्षितं न लभन्ते, तावत् कथं मानसिकीं शान्तिं त आप्नुयु:, कथमाध्यात्मिकमानन्दं वा प्रारप्नुयु:? अत एव एकां मुक्तिं विना अन्या न भवति। व्यक्तिं विना समाजो नास्ति, समाजं विना व्यक्तिर्नास्ति, व्यक्तिं समाजं च विना विश्वं नास्ति। अत एव केवलाया व्यक्तेर्मुक्तिर्न भवति। येऽप्याहुरमुकेन अमुकेन ऋषिणा मुक्तिरधिगता, तत्सर्वं प्रवादमात्रम्। न हि काऽपि व्यक्तिरिह अन्याभिर्व्यक्तिभि: पृथग्भूता। तस्मादेको व्यक्तिर्मुक्ति लभेतान्यश्चामुक्तस्तिष्ठेदिति कथं सम्भाव्यते? याऽपि मुक्ति: स्यात् सा समेषामेव स्यात्।
ननु काव्यस्य करणेन श्रवणेन पाठेन वा समेषामेव स्यात्। ननु काव्यस्य करणेन श्रवणेन पाठेन वा कथमन्नपानादिकं लभ्येत, किमर्थं च साध्या आधिभौतिकी मुक्ति: साहित्यस्येति चेन्न। साहित्यं मानवस्य समग्रं गरिमाणं प्रतिष्ठापयति, तत्रैव जागर्ति अभिप्रेरणा आकाङ्क्षा च समेषां कृते समानमन्नपानादिकं सामग्रयेण स्यादिति। तथाह श्रुति:-
समानो मन्त्र: समिति: समानी समानं मन: सह चित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये व: समानेन वो हविषा जुहोमि।।
समानी व आकूति: समाना हृदयानि व:।
समानमस्तु वो मनो यथा व: सुसहासति।। (ऋ.सं. १०। १९१। ३-४)
काव्यस्य श्रवणेन पाठेन नाट्यस्य विलोकनेन अन्यासां च कलानां प्रत्यक्षेण प्रमातु: सहृदयस्य चैतन्यमानन्त्यमुपयाति। अयमानन्त्यानुभव एव मुक्ति:। यदाहु:-तदत्यन्तविमोक्षोऽपवर्ग इति, तदसत्। न लोके केनाप्येतादृश: सुखदु:खेभ्य आत्यन्तिक: शाश्वतिको वा मोक्षो दृष्ट:। काव्यानुभूतौ तु मुक्तेरनुभव: प्रत्यक्ष एव सचेतसाम्। काव्यं रचयित्वा कवेरपि मुक्ति:, भावयित्वा च सहृदयस्यापि। अत एवोक्तम्-प्रमाता कवि: सहृदयश्च।
सनातनस्तु प्रयोजनं नास्ति काव्यस्य, चुङ्कृतौ कलविङ्कस्येवेति काव्यालङ्कारकारिकायाम्, तमनुहरन् अभिराजराजेन्द्रोऽपि 'व्यवहारदृष्ट्या यश एव काव्यप्रयोजनभृतं तिष्ठति, परमार्थदृष्ट्या तु काव्यप्रणयनं कवे: स्वत: स्फूर्तं स्वाभाविककर्ममात्रम्। स्वाभाविकं कर्म न भवति कथमपि प्रयोजनसापेक्षम्’-इत्याह। तत् चिन्त्यम्। यतो हि ।। आनन्दाद्धयेव खल्विमानि भूतानि जायन्त आनन्दं प्रयन्त्यभिसंविशन्त्याह भगवती श्रुति:’। अत एव काव्यकर्मणोऽपि आनन्दावाप्ति: प्रयोजनं ग्राह्यम्। यच्च विहगा: स्वत एव कूजन्तीति दृष्टान्तितम्, तत्रापि विहगकूजनस्य स्वतस्त्वे वस्तुत आनन्दाधिगम: प्रयोजनम्। विहगानां तस्मिन्नेव मुक्तेरनुभव:। यदि तु-
न धनाय न पुण्याय व्यवहाराय नापि वा।
न च सद्य:सुखार्थाय काव्यं निर्मात्ययं कवि:।।
वस्तुतस्तस्य कर्मैतत् संस्कारोत्थं स्वभावजम्।
यदकृत्वा क्षणं यावन्नासौ शमधिगच्छति।।
यथा नोत्पतितुं शक्तो भ्रमरो गुञ्जनाद् ऋते।
तथा कविरयं काव्यादृते शक्तो न जीवितुम्।।
इति यदुक्तम्, तदपि कवेर्भारस्य उत्कायमानताया वर्णनमेव, अहो भारो महान् कवेरिति भामहोक्ते:। तेन शमप्राप्तिरिति भारावतारणमिति वा प्रयोजनं स्वयमेवात्र प्रतिपादितं निष्प्रयोजनमूलकतावादिना। यतो हि भारस्य वा सिसृक्षाया वा उत्कायमानताया वा अपाकरणमपि प्रयोजनं गणनीयम्। प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तत इति न्यायात् तेनैव प्रयोजनेन प्रेरित: कवि: कवयति। यदकृत्वा क्षणं यावन्नासौ शमधिगच्छतीत्युक्ते: शमावाप्तिरिह मुक्तिरेव।
प्रजापतिरिव कामजनितसंसार: काव्यसंसारं सृजति सर्जक:। अत एव यशोऽपि तस्य न प्रयोजनम्। ईश्वर: किं यश:काम्यया सृष्टिं तनोति? अन्यच्च काव्यं विरच्य न सर्वे श्रेष्ठा: कवय: कीर्तिं लभन्ते। महाकवयस्तु कीर्तिप्रलोभनं परिहृत्यैव काव्यरचनायां प्रवर्तन्ते, तादृशस्य प्रयोजनस्य मनसि वर्तमानत्वेन काव्यरचनायामेव प्रत्यवायात्। तद्यथाऽऽह कालिदास:-
'मन्द: कवियश:प्रार्थी गमिष्याम्युपहास्यताम्’।
अत्र मन्द: सन् कवियश:प्रार्थी च सन्नहमुपहास्यतां यास्याम्यत एव मन्देन कवियश:प्रार्थिना मया न भाव्यमिति यश:कामनाया: कविना निराकरणं व्यधायीति दिक्।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
प्रथमाधिकरणे काव्यप्रयोजननिरूपणं नाम द्वितीयोऽध्याय:।।