।। अथ तृतीयोऽध्याय:।।
काव्यकारणनिरूपणम्
जागरिता प्रतिभा तस्य कारणम्।। १। ३। १।।
तस्य काव्यस्य कारणं जागरिता स्पन्दशीला। यद्यपि प्रतिभा सार्वजनीना, स्पन्दस्तु कविप्रतिभाया: स्वभाव:। कविस्वभाव एव तत्प्रतिभा। स चायं कविस्वभावस्त्रिविध:-सुकुमारो, विचित्र उभयात्मकश्च। प्रतिभा चिदंशभूता चराचरात्मके समस्तेऽपि जगति सर्वत्र व्याप्ता। इयं प्रतिभा अविचारितं व्यवहरन्ती सर्वेषु जन्तुषु विद्यमाना। युक्तमुक्तवान् वाक्यपदीयकार:-
उपश्लेषमिवार्थानां सा करोत्यविचारिता।
सार्वरूपमिवापन्ना विषयत्वेन वर्तते।।
साक्षाच्छब्देन जनितां भावनानुगमेन वा।
इतिकर्तव्यतायां तां न कश्चिदतिवर्तते।।
प्राणत्वेन वा लोक : सर्व: समनुपश्यति।
समारम्भा: प्रतीयन्ते तिरश्चामपि यद्वशात्।। (वा.प. २। १४-१६)
काव्यघटनानुकूलशब्दार्थोपस्थितिर्जागरणम्। जागरणे च हेतवो भवन्ति-गुरूपदेश:, लोकशास्त्राद्यवेक्षणम्, काव्याभ्यास:, काव्यगोष्ठय:, सहृदयानां सङ्गति:, प्रसङ्गविशेषो घटनाविशेषो वा।
क्वचित् सा कवित्वशक्तिरूपा तदनुकूलशब्दार्थादिज्ञानमभ्यासं च स्वत आत्मसात् करोति। क्वचित्तु प्रथमं प्रतिभया बीजभूतया काव्याङ्कुरोत्पत्ति:, व्युत्पत्त्या तस्य पूर्तिरभ्यासेन च तत्परिष्कार:। तद्यथाऽऽह कुन्तक:-
'कविचेतसि प्रथमं च प्रतिभाप्रतिभासमानमघटितपाषाणशकलकल्पमणिप्रख्यमेव वस्तु विदग्धविविरचितवक्रवाक्योपारूढं शाणोल्लीढमणिमनोहरतया तद्विदाह्लादकारिकाव्यत्वमधिरोहति’। (व.जी. १। ७ वृत्तौ)।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
प्रथमाधिकरणे काव्यकारणनिरूपणं नाम तृतीयोऽध्याय:।।
।। अथ चतुर्थोऽध्याय:।।
काव्यभेदनिरूपणम्
चतुर्विधं तत्।। १। ४। १।। उत्तमोत्तमम्, उत्तमम्, मध्यमम्, अवरञ्च।। १। ४। २।। सर्वाङ्गीणं जीवनं निर्दिशत् महावाक्यं प्रथमम्, जीवनस्यैकदेशं निर्दिशद् द्वितीयम्, वस्तुविशेषं मन:स्थितिविशेषं वा प्रकाशयन्मध्यमम्, पदार्थमात्रपर्यवसितं त्ववरम्।। १। ४। ३।। नानादिक्कालावच्छिन्नानां वाक्यानां पुरुषार्थप्रवर्तक: समूहो महावाक्यम्।। १। ४। ४।।
तत्र कविगतसमाधिनिष्यन्दभूतं विविधविद्यावदातं सकलशास्त्रतत्त्वसमन्वितं जीवनस्य सर्वाङ्गीणं रूपं निर्दिशत् जगतो नानावस्थानां परिज्ञाने प्रमाणभूतमभिनवकल्पनाभिरामं काव्यमुत्तमोत्तमम्।
महावाक्यत्वं जीवनस्य सर्वाङ्गीणस्वरूपनिरूपणपरत्वं चात्र विशिष्यते। किं नाम महावाक्यम्? वाक्योच्चयो महावाक्यमित्याह साहित्यदर्पणकार:। तत्र यथा वाक्ये अर्थैकत्वं तथैव वाक्यानां समुच्चयेऽपि एकवाक्यतायां सत्यां महावाक्यं जायते। प्रबन्धे तु तेषु तेषु सर्वेषु प्रकरणेषु वा प्रयुक्तान्यपि वाक्यानि एकवाक्यतां साधयन्ति। तद्यथाऽऽह पतञ्जलि:-विदेशस्थमपि सद् एकं वाक्यं भवति, तेन शाखान्तरोक्तानामपि प्रधानवाक्येन समभिव्यवहार:।
एकवाक्यता द्विधा-पदैकवाक्यता वाक्यैकवाक्यता च। यथा वाक्यस्य विभिन्नेषु पदेषु अङ्गाङ्गिभावो गुणगुणिभाव: शेषशेषिभाव उपकार्योपकारकभावो विशेषणविशेष्यभावो वा भवति, तथैव महावाक्यस्य तेषु तेषु वाक्येष्वपि। उक्तमेव कुमारिलभट्टेन-
स्वार्थावबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया।
वाक्यानामेकवाक्यत्वं पुन: संहत्य जायते।।
अथवा वेदान्तदृशा-
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।
अर्थवादोपत्तिश्च लिङ्गतात्पर्यनिर्णये।।
इत्युक्तदिशा उपक्रमोपसंहारौ, अभ्यास: अपूर्वता, फलं प्रयोजनं वा, अर्थवाद उपपत्तिश्चेति षट् हेतव एकवाक्यतासाधका निर्दिष्टा:।
अथवा यथा चतुरङ्गसैन्ये रथसैन्य-हस्तिसैन्याश्वसैन्य-पदातिसैन्यानि संहत्य एकीभावमापन्नानि जयश्रियोऽवाप्तये व्यूहन्ते सन्नह्यन्ते वा, तथैव महावाक्यगतानि वाक्यानि। तत्तत्प्रकरणादिषु वाक्यानां समुच्चया अपि मिलित्वा प्रबन्धस्यैकवाक्यातां निर्मान्ति, यथा युद्धे सैन्यानां नानाव्यूहा: परस्परं सन्नह्यन्ते। ततश्च माघेन कृष्णशिशुपालयुद्धवर्णने श्लोकैर्यथा महावाक्यं तथैव व्यूहै: श्रीकृष्णसैन्यमिति उपमा साधु प्रायोजि-
श्लोकैरिव महावाक्यं व्यूहैस्तदभवद् बलम्।
यथा बले सैन्ये वा विविधा व्यूहा परस्परं सन्नह्य एकीभूय वा विजयरूपं पुरुषार्थं साधयन्ति, तथैव महावाक्येऽपि नानावाक्यानि एकवाक्यतायां सन्नह्य पुरुषार्थं साधयन्ति। तानि च नानावाक्यानि भवन्ति तत्तद्दिक्कालसंशिलष्टानि। नानादिक्कालावच्छिन्नत्वेऽपि तेषामखण्डकाले पर्यवसितिरिति महावाक्यनिकष:। तेन नानादिक्कालावच्छिन्नानां वाक्यानां पुरुषार्थप्रवर्तक: समूहो महावाक्यामिति महावाक्यलक्षणं सूत्र उक्तम्।
नानावाक्यानि व्यष्टिगतानि तेषां समुच्चयश्च समष्टिं समुन्मीलयति। भवितुमर्हन्ति च एतेषु नानावाक्येषु पृथक् पृथग् अलङ्कारा:। ते सर्वेऽप्यलङ्कारा: सम्भूय काव्यस्य अलङ्कारत्वं साधयन्ति। एतच्च महालङ्कारत्वं काव्यस्य। भवति चात्र श्लोक:-
नानालङ्कारसम्मर्दो महालङ्कृतये भवेत्।
महावाक्यं लसेत् काव्यमेकवाक्यतयान्वितम्।।
सम्मर्दो वा व्यतिकार: सम्भेद: सम्प्लवोऽथवा।
अलङ्कारविशेषाणां काव्ये तावदपेक्ष्यते।।
इदमत्राकूतम्-काव्ये निष्पाद्यमानस्य अलङ्कारस्य तावद् द्वैविध्यम्, सामान्य-विशेषभेदात्। अलङ्कारसामान्यं तु सर्वव्यापि काव्ये सर्वत्रानुस्यूतं च। अलङ्कारविशेषास्तावद् विभिद्यन्ते। तद्दृशा एवेह उक्तम्- अलङ्कारसम्मर्दो महालङ्कृतये भवेदिति। न हि एकेनैवालङ्कारविशेषेण निष्पद्यते उत्तमकाव्यम्। वस्तुत एकस्मिन्नलङ्कारे प्रयुज्यमाने स्वत: परापतन्ति तत्सहचरभूता इतरे अलङ्कारा:। तद्यथा स्मृतिं विना कथं प्रेमा, प्रेमाणं विना कथमाह्लादो वा इत्यग्रे प्रतिपादयिष्याम:। अत एव काव्ये अलङ्कारसम्मर्द:, अलङ्कारव्यतिकर:, अलङ्कारसम्भेद:, अलङ्कारसम्प्लवो वा सर्वथाऽपेक्ष्यते।
महावाक्ये जीवनस्य सर्वाङ्गीणं रूपं प्रतिफलति। जीवनं तु प्राग् व्याख्यातमेव 'त्रयाणामपि सकल: समुल्लासो जीवनम्’ (१। १। ५) इति सूत्रे। तेन-
महालङ्कारघटितं महावाक्यसमन्वितम्।
उत्तमोत्तमं भवेत् काव्यं पुरुषार्थप्रवर्तकम्।।
यथा रामायणं महाभारतं च। यथा वा-रघुवंशशाकुन्तलोत्तररामचरितादीनि काव्यानि। वैदेशिके साहित्ये महाकवे: शेक्सपीयरस्य शोकान्तनाटकानि, टॉल्सटॉयकृतौ 'वार एण्ड पीस’ इत्युपन्यास:, अन्ये चैवंविधा: प्रबन्धा:।
रघुवंशस्य महावाक्यत्वं पुरुषार्थाभिधायकत्वं च प्रतिपादयन्नाह अरुणगिरिनाथ:-
'शिवयोरुपादनाच्च सर्वरसाश्रयत्वं सर्वपुरुषार्थहेतुत्वं यतस्तावेवादौ सराभिनयनं कुर्वाणौ नाट्यवेदं प्रवर्तितवन्तौ। पुरुषार्थहेतुत्वं च तयो: प्रसिद्धम्। अत्र दिलीपादिचरिते भूयसा धर्मस्य व्युत्पत्ति:, वीरश्च रस:। रघ्वादिचरितेऽर्थस्य तस्यैवान्त्याश्रमालम्बने मोक्षस्य, शान्तश्च रस:। अग्निवर्णचरितादौ कामस्य, शृङ्गारश्च। अजप्रलापादौ करुणरस:। ताटकावृत्तान्तादौ बीभत्स:। शूर्पणखावृत्तान्तादौ हास्य:। तद्दर्शनादौ सीताया भयानक:। जामदग्न्यवर्णने रौद्र:। मायासिंहेतिवृत्तादावद्भुत:।’
'ननु विधिनिषेधावगतिहेतुर्महावाक्यं प्रबन्ध इति हि प्रबन्धलक्षणम्। अत्र च नानाफ लान्तराणाम्, नानाराजचरितानमुपनिबन्धे कथमेकवाक्यता? अर्थैकत्वाद्ध्येकं वाक्यम्। उच्यते-अत्राप्येक एव वंशलक्षणोऽर्थ उपनिबद्ध:। विधिनिषेधावगतिश्चैकं फलम्। यथा परिकथायामवान्तरवाक्यानां तु प्रबन्धायमानानां सन्धिसन्ध्यङ्गादिसर्वं निरूप्यमेव’।
महाकवीनां प्रबन्धेषु नानावाक्यानि तत्तत्प्रकरणगतान्यवकीर्णान्यपि सम्बध्यन्ते, अनुषज्यन्ते। अभिनवगुप्तेन समवकारनिरूपणे इदमवकीर्णत्वं सम्बद्धत्वं च साधु न्यरूपि-
'एवं महावाक्यार्थनिर्वाहहेतुसम्बद्धतैव सर्वस्य जायते। एवं हि सानुसन्धाना विततदृशोऽपि त्रिवर्गसिद्ध्युपायव्युत्पत्त्यनुगृहीता भवन्ति, निरनुसन्धानापि तावत् परिसमाप्त्या तावत्युपाये निजहृदयसंवादबलादिति। (नाट्यशास्त्रे- १८। ६३-६६ इत्यत्र अभिनवभारती)।’ अत्र पारावारे तरङ्गभङ्गवत् शास्त्रं स्वत एवोच्छलति। एतच्च षष्ठेऽध्याये शास्त्रसङ्गतिविचारे पुन: प्रतिपादयिष्याम:।
जीवनस्यैकं पक्षं, शास्त्रैकदेशं च निर्दिशद् दशाविशेषं प्रसङ्गविशेषं च निरूपयत् कमनीयकल्पनाविलासमनोहरं काव्यमुत्तमम्। यथा-भारवि-माघ-श्रीहर्ष-रत्नाकर-प्रभृतीनां महाकाव्यानि। यथा वा हिन्दीभाषायां प्रसादकवे: कामायनीति महाकाव्यम्। सनातनकवे रेवाप्रसादस्य द्विवेदिन उत्तरसीताचरितम्, अभिराजराजेन्द्रमिश्रस्य जानकीजीवनमप्यत्र निदर्शने। पदार्थविशेषवैचिर्त्यनिदर्शकं मनोदशामात्रप्रकाशकं वा काव्यं मध्यमम्। यथा-भल्लटप्रभृतीनामन्योक्तय:। क्वचिच्चेदं महावाक्यायमानमुत्तमकोटिमपि संस्पृशति। यथा अमरुककवे: 'लिखन्नास्ते भूमिमि’ति मुक्तकम्। तच्च तृतीयेऽधिकरणे मुक्तलक्षणे मीमांसिष्यामहे। यथा वा ज्ञानकवेर्महाकालस्तुतौ-
भस्मोद्धूलनहेतवे तव महाकालेश्वर ब्रूहि तत्।
शिप्रारोधसि सञ्चिता मम चिता किं नोचिता स्यादिति।।
अत्र 'सञ्चिता चिता नोचिता’ इत्यत्र यमकनिबन्धनपुरस्सरं या भक्तिभावना प्रकटीकृता सा जीवनमर्म परामृशन्ती आधिभौतिकाधिदैविकाध्यात्मिकलोकत्रितयावतारं विदधाना महावाक्यायते। तेनात्र उत्तमं काव्यम्। अस्मिन्नुत्तमकाव्ये भोजनस्य पाके यथा नानाव्यञ्जनोषधय: कुश्लेन सूदेन मिश्रिता आस्वादं जनयन्ति, तथैव विभिन्नशास्त्राणां निष्यन्दा: कविना सम्मेलिता: स्वदन्ते। तच्च षष्ठेऽध्याये शास्त्रसङ्गतिनिरूपणे प्रतिपादयिष्याम:।
शब्दाडम्बरसङ्कुलं प्रतिभादारिद्र्यदैन्यादतिस्वल्पसुभाषितं काव्यमवरम्। तच्च कस्यचिदेकस्य पदार्थस्य वस्तुनो वा वर्णने पर्यवस्यति। यथा-स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटादीनि पद्यानि मम्मटादिभिरुदाहृतानि। अत्रैवान्तर्भवन्त्यालेख्यप्रख्यानुकृतिपराणि अन्यच्छायायोनिकाव्यानि। यथा ममैव-
नमस्तुभ्यं नेतृवर्य यत्कण्ठ: पुष्करायते।
मदाभोगघनध्वाने नीलकण्ठस्य ताण्डवे।।
अत्राधुनिकस्य नेतुर्विडम्बनार्थं प्राचीनश्लोके पदद्वयं परिवर्त्य परिहासो व्यधायि। अर्थविशेषसमुल्लासे सत्यप्येतादृशि काव्ये क्वचिद् वर्णसावर्ण्यरम्यताया आग्रहो भजते प्राधान्यम्। तथा तत्रैवाग्रे उक्तम्-
जटाधीश हठाधीश मठाधीश नमोऽस्तु ते।
अत्र धीश इति पदान्तव्यावृत्तिव्यामोहादेव कविना पदसन्निवेशो व्यधायि नार्थसमादरादिति एतादृशकाव्यानामवरत्वमेव। मन्दीभूतप्रतिभापरिस्पन्दानां व्युत्पत्तिप्रदर्शनपराणां नामावलीकीर्तनरतानां काव्यानामप्यवरत्वमेव।
मम्मटेन तु इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधै: कथित:, अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्यं तु मध्यमम् इति उत्तममध्यमाधमकाव्यानि लक्षितानि। तत्सर्वं न क्षोदक्षमम्। यतो हि कस्मिंश्चित् काव्ये अतिशयिनो व्यङ्ग्यस्य प्राधान्यं वर्तते, तथापि न तत्र तथा चारुता यथा अन्यस्मिन् काव्ये सत्यपि वाच्ये प्रधाने भवितुमर्हति। यथा भवतैव उदाहृते उत्तमकाव्यस्योदाहरणे नि:शेषच्युतचन्दनस्तनतट इत्यादौ कीदृशी चारुता। त्वं तस्यामधमस्य सकाशं रन्तुं गता न स्नातुमिति रण्डाचरितप्रकाशनतज्जनितपरिदेवनमात्रपर्यवसायि तत्र व्यङ्ग्यम्। तदपेक्षया अतिशयमनोहरा हरस्तु किञ्चित् परिलुप्तधैर्येत्यादयो महतां महच्चरितप्रकाशनपरा वाच्यव्यङ्ग्योभयसौन्दर्ययो: परस्परस्पर्धाधिरोहपरिपूर्णा: काव्यबन्धास्तु केवलं नात्र व्यङ्ग्यमतिशायाति मत्वा मध्यमकुक्षौ निपात्यन्त इति कीदृशोऽयं ध्वनिडम्बर:। तस्माद् व्यङ्ग्यस्य प्राधान्यं काव्यस्योत्तमत्वनिर्धारणे न मानदण्डो भवितुमर्हति। एतच्च पुन: शब्दवृत्तिविचारे प्रतिपादयिष्याम इति आस्तां तावत्। भवन्ति चात्र परिकरश्लोका:-
अङ्गाङ्गिभाव: प्राधान्यमेकस्याऽन्यस्य लाघवम्।
काव्यस्योत्तमतां ज्ञातुं न प्रामाण्यमर्हति।।
उत्तमोत्तममादौ स्यादुत्तमं तदनन्तरम्।
मध्यमं चावरं चैवमित्थं काव्यं चतुर्विधम्।।
सिद्धश्च साधकश्चैव ह्याभ्यासिकस्तथाऽवर:।
काव्यभेदानुसारेण कवयोऽपि चतुर्विधा:।।
रचनाप्रवृत्तिदृष्ट्या तत् सूक्ष्मरूपेण भिद्यते।
पौरुषेयं तथा चैवापौरुषेयमथो द्विधा।।
काव्यं द्विविधं पौरुषेयमपौरुषेयञ्च। अपौरुषेयं तु साक्षात्क्रियमाणं न पुरुषायासजन्यम्। यथा-वेदा:। पौरुषेयं पुन: नवनवोन्मेषशालिप्रज्ञाप्रभावग्रथितं लोकोत्तरवर्णनानिपुणस्य कवे: कर्म। यद्यपि अपौरुषेयकाव्येऽपि यावन्न साक्षात्क्रियमाणं वस्तु अभिव्यनक्ति ऋषिकविस्तावन्न जायते रचनाया: सामग्रयमिति तत्रापि पौरुषेयत्वमापतत्येव। तथैव च ऋषिकल्पानां कालिदासादीनां कृतिष्वपि दर्शनं क्रियमाणमेव काव्यमुपजनयति न सामान्यजनवच्चेष्टया तनिनर्माणमिति तत्रापि पौरुषेयत्वमापतत्येव। तथैव च ऋषिकल्पानां कालिदासादीनां कृतिष्वपि दर्शनं क्रियमाणमेव काव्यमुपजनयति न सामान्यजनवच्चेष्टया तन्निर्माणमिति तत्राऽपौरुषेयत्वमेवाङ्गीकार्यम्।
स्वकीयकाव्यस्य पौरुषेयत्वं प्रतिपादयन्त: स्वयमेव ऋषय आहु:-सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत, रथं न धीरा स्वपा अतक्षाम, वस्त्रेण भद्रा सुकृता इति ऋग्वेदे। अतश्च ऋषयोऽपि मन्त्रदर्शने प्रज्ञाया प्रभावं मानसिकसृष्टे: सामर्थ्यं चोरीकुर्वन्ति। तथापि प्राधान्येन व्यपदेशा भवन्तीति न्यायेन यत्र साक्षात्कारस्य प्राधन्यम्, आयासस्य च गौणत्वं तत्रापौरुषेयं काव्यमिति व्यपदेश:। काव्ये च क्वचित् कविहृदयविकस्वरभास्वरप्रतिभासमुन्मेषविहितदर्शनेन तेषां तेषामनुभवानां स्वत: समुन्मीलनाद् अपौरुषेयत्वस्य तथैव च शिक्षाभ्यासजनितरचनापाटवस्य च समं समावेशात् पौरुषेयत्वापौरुषेयत्वयोर्मणिकाञ्चनयोगोपिऽपि जायते।
चतुर्विधकाव्यानुसारि चातुर्विध्यमुक्तं कवीनाम्-उत्तमोत्तमं कवयन् सिद्ध:, उत्तमं कवयन् साधक:, मध्यमं कवयन्नाभ्यासिकोऽवरं च कुर्वाणो घटक:। भवति चैषां चतुर्विधानां कवीनां तासु तासु विधासु रचनाभिनिवेश:। तद्यथा-नाटक-प्रकरण-महाकाव्य-कथाऽऽख्यायिकाबृहत्कथोपन्यासादिषु काव्यविधासु सिद्धकवीनां कर्तृत्वं यथा स्वारस्यं साधयति न तथेतरेषाम्। खण्डकाव्य-सङ्घात-कुलक-प्रहसन-भाण-व्यायोग-समवकार-डिमेहामृगाङ्कवीथि-नव्यैकाङ्कादिरूपकेषु भवति साधककवीनां गति:। मुक्तकेऽर्थचित्रे विशेषं प्रगल्भन्त आभ्यासिका:। घटकास्तु क्वचिद् विवरणबहुलं सूचीनिबन्धनमात्रपराहतं यमकानुप्रासविन्यासरम्यमप्यर्थसौन्दर्यविरहितं खड्गबन्धादिविचित्रचमत्कृतिमात्र-प्रदर्शकं काव्यं निबध्नन्ति।
एकस्मिन्नेव कवौ क्वचिदुत्तमोत्तमत्वं काव्यत्वं क्वचिदुत्तमत्वं क्वचिन्मध्यमत्वमवरत्वं वा जलप्रवाह इव सम्मिश्रितं एकैकशो वा दृश्यते। एक एव कविरादौ घटक: परस्तादाभ्यासिकोऽनन्तरं साधक: परिणतौ च प्राप्तप्रतिभासप्रकर्ष: सिद्धोऽपि स्यात्। न वाल्मीकिव्यासादय इव सिद्धा एव भवन्ति सर्वे कवय:। तथा हि कविकुलगुरो: ऋतुसंहारे आभ्यासिकस्य कवे: रचनाकौशलं समुन्मिषति। स एव कुमारसम्भवे मेघदूते च प्रतिभाया विकासं प्रकटीकुर्वन्नुत्तमकाव्यरचनया साधककोटिमवगाहते। अनन्तरं च रघुवंशे शाकुन्तले वा समुन्मीलितार्षचक्षु: अव्याहतप्रकाशितप्रातिभज्योति: सिद्धकविपदं प्राप्नोति।
यायावरीयस्तु सारस्वताभ्यासिकौपदेशिकेति भेदेन त्रैविध्यं कवीनां परिकल्पयति। तदेतदरमणीयम्। त्रयाणामेतेषां कवीनामुपरिनिर्दिष्टचतुर्विधकविकोटिषु यथास्थानमन्तर्भाव:। उपदेशस्य च काव्यकरणेऽकिञ्चित्करत्वात् तद्विनापि सर्वथा काव्यप्रवृत्तेरौपदेशिक-कविकोटिर्न स्वतन्त्रतया परिकल्पनीया। यथाऽऽह धनञ्जय:-
आनन्दनिष्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धि:।
योऽपीतिहासादिवदाह साधुस्तस्मै नम: स्वादपराङ् मुखाय।।
परिकरश्लोश्चात्र-
काव्यं किमहो शकयमुपदेशशतैरपि।
यदि न प्रातिभं ज्योति: शब्दराशिं प्रकाशयेत्।।
अथ समीक्षकविचार: -
चतुर्विध: समीक्षक:- तत्त्वाभिनिवेशी, विषयनिष्ठ:, विषयिनिष्ठ:, सतृणाभ्यवहारी चेति।। १। ४। ५।।
तत्त्वाभिनिवेशी विषयनिष्ठो विषयिनिष्ठ: सतृणाभ्यवहारी चेति चतुर्विधा: समीक्षका:। ते प्रायो यथाक्रममुक्तचतुर्विधकाव्येषु कविचतुष्टये वा तत्तत्प्रकारविशेषसमीक्षणे विनिबद्धधियो भवन्ति। यद्यपि य: कोऽपि यं कमपि काव्यविशेषं कविविशेषं वा परिशीयेदिति नात्रानैकान्तिकत्वम्, तथापि उत्तमोत्तमं काव्यं सिद्धकविकृतं तत्त्वाभिनिवेशी एव सम्यग् विवेचयितुं प्रभवति। तस्य तु सकलमपि परमार्थं काव्यगतं हस्तामलकवद् भवति। शास्त्रानुसारेण काव्यगतविषयविश्लेषणपुरस्सरं समीक्षमाणो विषयनिष्ठ: समीक्षक:। अयमाभ्यासिक:। अस्य खण्डकाव्यं मुक्तकं कुलकं सङ्घातं वा चित्रादिकाव्यं वा परिशीलयितुं भवति योग्यता। स च अत्रायमलङ्कार:, अयं गुण इति, इयं च रीतिरिति काव्यं परामृशति। तस्योत्तमोत्तमं काव्यं परिशीलयितुमपि न क्षमत्वम्, किन्तूत्तमकाव्यविवेचनेऽयं सविशेषं पटीयान्। स्वानुभूतिमनुसरन् य: काव्यसीक्षायां प्रवर्तते, स विषयिनिष्ठ: समीक्षक:। स स्वविवेचने कविना हृदयसंवादमनुभवति तथानुभावतयपि। यथा-मेघदूतस्य विद्युल्लताटीकायां पूर्णसरस्वती। सर्वविधं काव्यम्- 'अहो अहो, साधु साधु’ इति निगदन् य: श्लाघते स सतृणाभ्यवहारी समीक्षक:। नैतस्य विवेक्त्री सदसत्परीक्षणा धिषणेत्यमर:।
अत्रैवान्तर्भवन्ति भावका:। अरोचकी मत्सरी सतृणाभ्यवहारी तत्त्वाभिनिवेशीति भेदाच्चतुर्धा भावक इति यायावरीय:। तन्न। अरोचकित्वं भावकत्वं चेति परस्परं विप्रतिषिद्धम्। एवमेव मत्सरित्वं भावकत्वमपि। अन्यच्च यस्य अरोचकित्वं मात्सर्यं वा बद्धमूलं, न तस्य काव्यभावनायां काव्यसमीक्षायां वाऽधिकार:। यदि तु अरोचकित्वं मात्सर्यं वा बद्धमूलं, न तस्य काव्यभावनायां काव्यसमीक्षायां वाऽधिकार:। यदि तु अरोचकित्वं मात्सर्यं वा न बद्धमूलं तर्हि उत्तमोत्तमस्योत्तमस्य वा काव्यस्यावगाहनेन निर्धूतकल्मषो भावकतां प्रतिपद्येत, तदा समीक्षमाणस्यास्य यथाप्रवृत्ति तस्योक्तचतुर्विधसमीक्षककोटिषु यथायोग्यमन्तर्भाव: स्यात्।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
प्रथमाधिकरणे काव्यादिभेदनिरूपणं नाम चतुर्थोऽध्याय:।।
शब्दस्यैको व्यापारस्तिस्रो वृत्तयश्च।। १। ५। १।। ताश्च त्रिभिर्लोकैरन्विता:।। १। ५। २।। वाच्यलक्ष्यव्यङ्ग्या अर्था:।। १। ५। ३।। सर्वेष्वलङ्कारो व्याप्त: ।। १। ५। ४।। एतैश्च शब्दार्थै: काव्ये रूपवस्तुसमवाय:।। १। ५। ५।। स च त्रिविध:।। १। ५। ६।।
शब्दस्य वस्तुत एक एव अखण्डो व्यापार:। तेनैकेन सर्वे अर्था अवबुध्यन्ते, अर्थबोधकाले एतावानर्थो मया लक्षणया अत: परं च योऽर्थ: स व्यञ्जनयाऽवगत इति पार्थक्यबुद्धेरभावात्। यच्च पृथक्करणं वृत्तिषु स्वीकृतं तदपि न पारमार्थिकम्। भवति चात्र श्लोक:-
शब्दस्यैकैव व्यापार: सङ्केत इति यो मत:।
वृत्तयस्तु त्रिधा तस्य लोकत्रयसमन्विता:।।
अभिधा-लक्षणा-व्यञ्जना इति तिस्रस्तस्य सङ्केतव्यापारस्य भेदा:। शब्दवृत्तय इति यावत्। ता अपि आधिभौतिकम्, आधिदैविकम्, आध्यात्मिकं च तत्त्वं समुन्मीलयन्ति। ताभिश्च वाच्य-लक्ष्य-व्यङ्ग्या अर्था: प्रकाश्यन्ते। यथा आधिभौतिकाधिदैविकाध्यात्मिकलोकानां समं समुपस्थिति: काव्ये काम्या तथैव एतेषां त्रयाणामर्थानामपि समवाय: काव्यस्य श्रेष्ठताया: साधक:। अङ्गाङ्गिभाव:, उपकार्योपकारकभाव:, परस्परस्पर्धाधिरोहश्चेति भवन्ति त्रयाणामपि अर्थानां परस्परसहभावस्यावस्था:। तासु परस्परस्पर्धाधिरोह: श्रेयान्। तद्यथोक्तं मया स्वकीये शब्द इति काव्ये-
आकाशे त्वविनश्वरं विनिहित: शब्दो हि सन्तिष्ठते
शब्द: सम्प्लवते त्वपारजलधावर्थस्य नौकासमम्।
शब्दो मानसरोवरं ह्युडुपवन्मे मानसं गाहते
कृष्टज्ये धनुषि प्रधारितशर: शब्दश्च सन्धीयते।।
आदौ रिङ्गति चाभिधावसुमतीपृष्ठे स सङ्केतितं
प्राप्यार्थं रभसा विमुञ्चति धरां वृत्तिं श्रयंल्लक्षणाम्।
दीर्घाद् दीर्घतरं रयं प्रकटयन् व्यक्त्या प्रकृष्ट: पुन-
र्व्योम्नोऽनन्तपथं प्रयाति सहजं शब्दो विमानप्रभ:।।
अलङ्कारस्तु सर्वेषु अर्थेषु भवत्येव काव्ये। स तु काव्यस्य स्वो धर्म:। यथा अग्निर्न भवति औष्ण्येन विना, तथैव न स्यात् काव्यमलङ्कारं विना। उक्तमेव जयदेवेन-
अङ्गीकरोति य: काव्यं शब्दार्थावनलङ्कृती।
असौ न मन्यते कस्मादनुष्णमनलङ्कृती।।
यथा अग्नौ उष्णता सदैव भवति परन्तु क्वचिद् धूमावलीढत्वात् कान्तिमत्ता ज्वालानां विशालता चेत्यादयो विशेषा दृश्यन्ते वा न वेति, एवमेव द्विविधोऽलङ्कार इह काव्ये प्रोक्त: सामान्यो विशेश्च। तत्र सामान्यस्तु एतेषु सर्वेषु वाच्यलक्ष्यव्यङ्ग्यार्थेषु समं समुल्लसति। सर्वेषामेव चार्थानामलङ्कारत्वमिष्यते। तेन काव्ये रूपवस्तुसमवायो घटते। स च त्रिविध:। क्वचित् प्रथमं रूपस्यावतरणं भवति, तदनु तदनुरूपं वस्तु अवतरति। यथा चित्रे रेखाकृति: प्रथमं निर्मीयते, तदनु तस्यां भावाधानं विधीयते। क्वचिद् वस्तु पूर्वं कवे: साहित्यकारस्य वा मानसे लसति, तस्याभिव्यक्तये समुचितां विधां पदावलीं चानन्तरं कल्पयति स:। यथा द्रव्ये वस्तुनि वा सति, तदनु तन्निधानाय पात्रमन्विष्य तस्मिंस्तत् स्थाप्यते। क्वचित्तुं रूपं वस्तु च युगपद् रचनायां प्रादुर्भवत:। यथा गाव: शृङ्गौ सममेव प्ररोहत:। भवन्ति चात्र श्लोका:-
वाच्यं लक्ष्यं तथा व्यङ्ग्यं समं व्याप्तावतिष्ठते।
अतिशय्य तथा तांश्च काव्येऽलङ्कार एव स:।।
समं समविभक्ताङ्ग: काव्यसर्वाङ्गसौष्ठवे।
काव्यं च सर्वतो वृत्वाऽलङ्कारश्च महीयते।।
विचित्र एव सम्बन्धो रूपेण सह वस्तुन:।
क्वचिद् रूपं जनिं याति रचनारम्भणे पुर:।।
यथा रेखासु वर्णानां विन्यासैराकृतिर्भवेत्।
तथा रूपे समुदिते विन्यस्तं वस्तु जायते।।
क्वचिद् वस्तु कवे: पूर्वं मानसे विद्यते पुर:।
तन्निधाने यथापात्रं रूपमस्याथ कल्प्यते।।
पात्रे श्लेष:। यथापात्रं यथायोग्यं, यद्वा पात्रं कथायामुपादीयमानं नायकादि। निधानार्थमुपात्तं पात्रमिव।
तिलतण्डुलवच्चापि गोशृङ्गसदृशोऽपर:।
नीरक्षीरसमश्चैव क्रमशो याति श्रेष्ठताम्।।
शब्देन चाप्यते रूपमर्थे वस्तु प्रतिष्ठितम्।
शब्दार्थौ लसत: काव्ये त्वर्धनारीश्वरोपमौ।।
वस्तुतस्तु परस्परस्पर्धारोह: परस्परोपकारित्वं परस्परस्पृहणीयशोभत्वं चानयोर्ज्यायान्। तद्यथाह कुन्तक:-
समौ सर्वगुणौ सन्तौ सुहृदाविव संस्थितौ।
परस्परस्य शोभायै शब्दार्थौ भवतो यथा।। (व. जी., पृ. १०)
परस्परस्पर्धाधिरोह इति कथनेन शब्दार्थयोर्द्वन्द्वात्मक: सम्बन्ध: प्रकटीभवति। अनयो: परस्परं स्पृष्टुं, परस्परमभिभवितुमपि च प्रकृष्टताया प्रतिस्पर्धा जागर्ति। तेन च रचनाकाले कविरपि द्वन्द्वग्रस्तो भवति। एतच्च द्वन्द्वालङ्कारविमर्शे पुनर्विशदीकरिष्यते।
आधिभौतिकाधिदैविकाध्यात्मिकसत्तानां पारस्परिक: सम्बन्ध: पदपदार्थवाक्यार्थानामिव वर्तते। वाक्यार्थ एव परमार्थ:। पदं तु आधिभौतिकं रूपम्। पदार्थस्तेन बुध्यते। स च पदार्थो मानसिकबोधे पर्यवस्यन् परामृशत्याधिदैविकं तत्त्वम्। वाक्यार्थबोधे तु आध्यात्मिकी सत्ता समुन्मीलति।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
प्रथमाधिकरणे शब्दव्यापारनिरूपणं नाम पञ्चमोऽध्याय:।।
त्रिविधा शास्त्रसङ्क्रान्ति:। समवेता आरोपिता बलादानीता च।। १। ६। १।। साङ्कर्य:, संसृष्टि: ईषत्स्पृष्टत्वमभावश्चेति चतस्रोऽवस्था: शास्त्रावस्थानस्य।। १। ६। २।।
इह तावत् काव्यानि चतुर्विधानि प्रोक्तानि। तत्रोत्तमोत्तमे उत्तमे च भवति शास्त्रसङ्गतिरित्यवोचाम्। मध्यमेऽवरे चापि तानि तानि शास्त्राणि न भवन्ति विनिष्टानि। किन्तु न तत्र शास्त्रोन्मीलनं सहजमकृत्रिमं वा। 'शास्त्रपूर्वकत्वात् काव्यानां शास्त्रपूर्वकत्वम्, शास्त्राणामेव प्रत्युत काव्यपूर्वकत्वम्। विदितमेवापौरूषेयकाव्यमुपजीव्य समेषामपि षट्दर्शनग्रन्थानामयुर्वेदादिशास्त्राणां च प्रवर्तनमभवदिति। उत्तमोत्तमोत्तमकाव्ययो: प्रतिभासंरम्भपूर्वकत्वमेव ग्राह्य:। प्रतिभैव रचनायां प्रवर्तयति। रचनाकाले प्रातिभदृशैव शास्त्राणि यथावदुन्मीलन्ति सम्मिलन्ति काव्ये। तेषां तेषां शास्त्राणामभ्यासन्तु अन्तेवासिदशायां यथेतरे तथैव कवयोऽपि कुर्यु:। परन्तु न तादृशशास्त्राभ्यासस्य काव्यकरणायाविनाभावित्वम्। श्रूयन्ते हि निरक्षरा विद्याध्ययनवर्जिता अपि महाकवय:। शास्त्रानुशीलनाभावेऽपि प्रतिभा क्वचित् यथाप्रसङ्गं काव्ये शास्त्राणि स्फोरयति। अत एव शास्त्रपूर्वकत्वं काव्यस्य न स्वीकुर्म:। ननु यथा मनुष्याणां कृते काव्यकरणोपदेशपराणि काव्यशास्त्राणि कविशिक्षाग्रन्था वा तेषामनुशीलनेन काव्यं सम्भवतीति शास्त्रपूर्वकत्वं काव्यस्येति चेत्तदपि न। काव्यशास्त्रकविशिक्षादिग्रन्था एव महाकवीनां काव्यमुपजीव्य विरच्यन्ते। लक्षणग्रन्थानां लक्ष्याधृतत्वमेव। अत एव न शास्त्रपूर्वकत्वं काव्यस्य। शास्त्रस्य तावत् पश्चाद्वर्तित्वमेव।
राजशेखरस्तावत् शास्त्रकवि: काव्यकविरिुभयकविरिति त्रिधा कवित्वं विकल्पयति। तत्रापि शास्त्रकविमयं त्रिधा विभजति-य: शास्त्रं विधत्ते शास्त्रे काव्यं विधत्ते, योऽपि काव्ये शास्त्रार्थं संविधत्ते। सर्वमेतदग्राह्यमिति नो मतम्। य: शास्त्रं विधत्ते तस्य शास्त्रकार इत्येव संज्ञा न्याय्या, न कविरिति। काव्यकविरिति संज्ञापि नौचित्यमावहीति। कविस्तु काव्यं कुर्यादेव, तत्र काव्यकविरिति कविभेदकथने किं नाम पौरुषम्? अपि नाम अकाव्यमपि कवि: कुर्यात?
शास्त्रेषु वैद्यकप्रभृतिषु क्वचिद् विनेयोन्मुखीकरणाय काव्यसौन्दर्यमादधति ग्रन्थकारा:। न तेषां ग्रन्थानामेतेन शास्त्रकाव्यमिति व्यपदेशो युक्त:, न च ते ग्रन्थकारा कवय इति व्यपदेशार्हा:। ये पुन: काव्येषु स्वोपज्ञेषु प्रसङ्गविशेषवशाद् युक्तिप्रदर्शनप्रयोजनान्मध्ये मध्ये शास्त्रमुदाहरन्ति ते कवय एव न शास्त्रकारा:। यदि तु प्रतिभापरिदृष्टशास्त्रतत्त्वस्य काव्येषु सङ्क्रान्तत्वात् कालिदास-भवभूत्यादीनां पारदृश्वनां कवीनां कृतय: शास्त्रतुल्यास्ततोऽप्यधिकतरं गौरवास्पदं वा कथ्यन्ते, तेन चेमे महाकवय: शास्त्रकवय इत्युच्यन्ते, तदा त्वर्थवाद एष:।
तेन काव्यशास्त्रयो: परस्परमुपकार्योपकारकभावसम्बन्ध: स्वीकार्य:। ननु यदि शास्त्रेषु अलङ्कारप्रयोगो भवति तर्हि कथं न तत्र काव्यत्वमिति चेत्, तन्न। न तावद् यथा गौस्तथा गवयो यथा माषस्तथा मुद्गपर्णीत्यादिकथनेषु भवति उपमालङ्कार:। ननु शास्त्रेषु सौन्दर्यानुभूतिसमन्विता अपि भवन्ति काव्यालङ्कारा इति चेत्, सत्यम्। दृश्यन्ते वेदादौ उपनिषत्स्वपि वा रमणीया अलङ्कारप्रयोगा:। 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषष्वजाथ’ इति मन्त्र ऋग्वेदेऽस्यवामीयसूक्ते उपनिषदि चायाति। राजशेखरस्तु काव्यालङ्कारविज्ञानादेवैतादृशमन्त्राणामर्थबोधस्तेन वेदस्याप्यध्ययनाय अलङ्कारशास्त्रस्यानुग्राहकत्वमिति मनुते। सत्यमेतत्। तथापि शासनात् शंसनाद्वा शास्त्रम्। यत्र शासनं शंसनं वा प्रधानं तत्र शास्त्रसंज्ञैवोचिता, न क्वचित् कस्यचिदलङ्कारस्य प्रयोगदर्शनात् काव्यसंज्ञा। नैतादृशालङ्कारप्रयोगेणालम्भावो निष्पद्यते जीवनस्य सकलसमुल्लासभूत:। द्विविधास्तावदलङ्कारा आभ्यन्तरा बाह्याश्चेति वक्ष्याम:। तत्र आभ्यन्तरालङ्काराणां प्रयोगेणालम्भावापादनम्। न तु केवलं बाह्यालङ्काराणां प्रयोगेण। यदि त्वमन्दप्रतिभापरिस्पन्देन विकस्वरभास्वरहृदयसमुच्छलिताऽनुभूतयो शास्त्ररचनायां कवितायन्ते तदा काव्यमेव तत्। न तु सर्वे शास्त्रकारा एवं क्षमन्ते। दुर्लभैवेयं सिद्धि:। अत एव शास्त्रकारेभ्य: कवीनेव बहु मन्यामहे।
अथवा काव्यं स्वत एव प्रामाणिकम्, न परस्य कस्यापि दर्शनस्य शास्त्रस्य वा प्रामाण्यमपेक्षते, इति धिया काव्यं स्वत एव स्वस्य शास्त्रं वक्तुं शक्यते। तेन तु अन्यस्य कस्यापि शास्त्रस्य काव्ये समावेशो नानिवार्य इत्येव सिद्ध्यति। तथापि केचन कवयो भवन्ति अधीतिनो विद्वांसो वा। तेषामध्ययनं शास्त्रानुशीलनमपि यथावसरं तेषां काव्यरचनायां प्रतिफलति। एवमेव केचन मनीषिण: शास्त्रकारा: कवयश्च समं भवन्ति। यथा अभिनवगुप्त:। एतादृशानामाचार्यकवीनां शास्त्रग्रन्थेषु कवित्वं, काव्येषु च शास्त्रं मिश्रितं भवति। तत्रापि प्राधान्येन व्यपदेश: कार्य:। यथाऽभिनवगुप्तस्यैव परमार्थदर्शने सन्ति नाना कारिका अत्यन्तं रमणीया: कवित्वप्रकर्षदृशा। तत्र निबद्धु: स्वारस्येन व्यपदेशो भवेत्। तद्यथा-कथा-दृष्टान्त-कारिकादिसंवलितं रामावतारशर्मणां परमार्थदर्शनं वस्तुतो दर्शनग्रन्थ एव। क्वचिच्च काव्ये श्रुतिशीलिततत्त्वानां नवाविष्कारो जायते। यथा हर्षदेवमाधवस्य प्रकाशोपनिषदि-
ते तपस्यन्ति/प्रकाशमन्वेष्टुम्/अहमाह्वयाम्यभिसाराय/प्रकाशम्/ते रचयन्ति प्रकाशस्य भाष्याणि/अहं स्पृशामि तम्/यथा त्वाम्/ते भित्तिषु बध्नन्ति प्रकाशाभासम्/तत्र जल्पन्ति किमपि/अहं निर्वस्त्रावस्थायाम्/तं बध्नामि मयि। (पृ. १२)
निवातो यथा दीपो भूत्वा/तम् अनुभवत्/तं तथा अनुभवत्/यथा/असावपि युष्मान् अनुभवेत्। (पृ. १३)
अत्र आत्मा वा अरे द्रष्टव्य: श्रोतव्यो मन्तव्य इति विज्ञातारं वा अरे केन विजानीयादित्यादि चोपनिषद्वचसां स्वानुभूतिसमन्विता कवेरभिव्यक्तिर्यथा जाता, तेन कविप्रतिभापरिस्पन्द एवानुभूयते, न शास्त्रच्छाया। अत: काव्मेवैतत्, न शास्त्रम्। तत्त्वतस्तु काव्ये दर्शने च न कोऽपि भेद:। कविरपि द्रष्टा ऋषिर्वा, ऋषिरपि च भवति कविरेवेति पूर्वमवोचाम। परन्तु काव्ये दर्शनं शास्त्रं वा काव्यप्रक्रियान्त:पाति सदेव आयाति तदङ्गीकार्यम्, अन्यथा तु बहिष्कार्यमेव। दर्शने शास्त्रे वा काव्यं परापततु नाम, तदपि दर्शनस्य शास्त्रस्य अङ्गभूतस्तत्प्रक्रियायां यथा घटेत तावदेव स्वीकार्यम्। क्वचित्तु शास्त्रं वैतत् काव्यं वैतदिति शास्त्रकारकौश्लेन कविप्रतिभासंरम्भेन वा सचेतसामपि भ्रमो भवति। तथा हि-
सत्यं मनोरमा रामा: सत्यं रम्या विभूतय:।
किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम्।।
अत्र जीवनस्य जगतो वा नश्वरताप्रतिपादने कवयितु: स्वारस्यम्। प्रसङ्गोपात्तमीदृशं पद्यं शास्त्रेऽपि भवितुमर्हति, काव्येऽपि। तस्मात् शास्त्रस्य समावेश: काव्ये कामं भवेत्, नापि वा भवेत्। यदि भवति तर्हि काव्यसमयान्त: पाती भूत्वैव भवेत्। काव्ये शास्त्रस्य सङ्क्रान्तिस्तावत् पारावारे तरङ्गभङ्गवत्, व्यञ्जने लवणवत्, वस्त्रे स्थगनवस्त्रवदिति त्रिधा। यत्र अगाधप्रतिभायत्तीकृत: समस्त: शास्त्रनिचय: स्वत एव यथावसरं काव्ये सङ्गमं विदधाति तत्र प्रथमा। मतिदर्पणे हि कवीनां विश्वं प्रतिफलतीति राजशेखरस्योक्ते:। शास्त्रतत्त्वनि:स्यन्दिनी क्वचिदावर्तबुद्बुदतरङ्गभङ्गिभि: प्रकटीभवति, यथा च पारावारादावर्तबुद्बुदतरङ्गादयो न पृथक् परिचेतुं निर्वक्तुं वा शक्यन्त एवमेव काव्येऽस्मिन् कतम: कीदृश: शास्त्र इति यत्र न सर्वथा इदमित्थन्तया वक्तुं शक्यते तत्र अनिर्वाच्या प्रथमा। तद्यथा भवभूतिना-
एको रस: करुण एव निमित्तभेदाद्
भिन्न: पृथक् पृथगिव श्रयते विवर्तान्।
आवर्तबुद्बुदतरङ्गमयान् विकारा-
नम्भो यथा सलिलमेव हि तत् समस्तम्।।
इत्यत्र निमित्त-विवर्तादिपदावली वेदान्तादिभ्यो कामं गृहीता, परन्तु स्वकीयकविदर्शनस्य तामङ्गभूतां विधाय। तेन न शास्त्रप्रतिपादनमिदम्, अपि तु कविदर्शनम्। यथा वा रघुवंशमहाकाव्ये-
रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते।
देशे देशे गुणेष्वेकवमवस्थास्त्वमविक्रिय:।। (१०। १७)
अत्र तावद् 'रसो वै स’ इति श्रुते:, 'त्रिगुणमव्यापिसामान्यमचेतनं प्रसवधर्मि’ तथा च पुरुषस्तु० इत्यादिसांख्यकारिकावचसां गुणानां विकारित्वस्य परमपुरुषगताविकारित्वस्य च प्रतिपादनं कथाप्रसङ्गधारायां स्वस्तस्तरङ्गायितम्। न चेदं सांख्यस्य प्रतिपादनमिति वक्तुं सुकरम्। यथा वा भवभूतेर्मालतीमाधवे स्मृतितत्त्वविवेचनम्, तत्तु स्मृत्यलङ्कार उदाहरिष्याम:।
यत्र कविर्यथाप्रसङ्गं यथाधीति यथास्वारस्यं च तत् तच्छास्त्रं काव्ये सङ्गृह्णाति तत्र द्वितीया। सङ्ग्रहोऽयं क्वचिदुपमानद्वारेण क्वचिच्च रूपकनिर्मितये आरोपद्वारेण भवति। यथा मम प्रस्थानलहर्याम्-
अर्थप्रकृत्या परिपोष्यमाणां
साबाधनिर्वाहितसन्धिबन्धम्।
प्रस्तावनातो भरतस्य वाक्यं
यावत्कृतं जीवननाट्यमेतत्।।
आरम्भयत्नौ विनिधीयमानौ
प्राप्तेस्तथाऽऽशा नियता तथाऽऽप्ति:।
एता अवस्थास्तु मयाऽनुभूता:
फलागमं तत् सकलं प्रतीक्षे।।
अत्र शास्त्रतत्त्वस्य साटोपमारोपं विदधान: कविर्न केवलं जीवने नाट्यस्य अपि तु नाट्यगतानामर्थप्रकृतीनामवस्थानां सन्धिबन्धानामपि जीवने पश्यति व्याप्तिम्। आरोपेऽस्मिन् प्रतिपादयिष्यमाणात्मानुभूतेरहङ्कृतेर्वाऽलङ्कारस्याभावान्न तथा काव्यानुगुणत्वम्। चमत्कारप्रदर्शने समधिकतरं कविधीर्विश्राम्यति।
उपमानद्वारेण यथा पुनर्ममैव धरित्रीदर्शनलहर्याम्-
दूरे संस्था निकटमिह सा भासते भास्वतीव।
स्वेष्टस्येव च्छविरूपनता साक्षिभास्यस्वरूपा।।
अत्र साक्षिभास्यस्वरूपा इष्टस्य उपास्यस्य भगवतश्छविरित्युपमा प्रसङ्गवशादानीता। उपमायाश्चास्या समावेश इह भोजने लवणमिव आस्वादवृद्धिकरस्तथापि न स्वतस्त्वम्, अतो न कालिदासादीनामिव कवेरस्य शास्त्रतत्त्वानां स्वायत्तीकृतत्वम्, अपि तु पृथग्भूतमेव शास्त्रतत्त्वं भासते। यथा वा नैषधकारस्य-
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मन:।
तत्तु तत्रैव रमते हता पाणिनिना वयम्।।
अत्र पाणिनीयं शास्त्रं कविर्नायकस्य रत्युत्कर्षाय अन्यथाविधाय उदाहरति।
यत्र तु प्रतिभादारिद्र्यदैन्यात् काव्यपूरणे स्खलन् कवि: शास्त्रमवलम्बते, स्वकाव्यच्छिद्रपिधानाय शास्त्रतत्त्वैस्तदाच्छादयति वस्त्रेऽन्यवस्त्रस्य स्थगनसीवनमिव तत्र अधमा सङ्क्रान्ति:। तद्यथा मम 'वर्तमान’ इति गजलगीतौ-
छलैर्जात्या वितण्डाभिस्तते वा निग्रहस्थानै:।
प्रमाणं केनचित् किं वा नु लब्धं वर्तमानेऽस्मिन्।।
अत्र छल-जाति-वितण्डा-निग्रहस्थान-प्रमाणेति शब्दा न्यायदर्शनस्था वर्तमाननिरूपणे आरोपिता:।
प्रथमायां कोटौ आशस्यप्ररोहादन्ने रस इव प्रतिभापरिस्पन्देऽन्तर्र्भूतमेव शास्त्रतत्त्वं परिस्फु रति, यद्वा प्रतिभा स्वत: स्वकीयं शास्त्रं निर्मिमीते अथवा परिष्करोति अन्यदीयं शास्त्रम्। द्वितीयायामन्नस्य पाककाले नानाव्यञ्जनौषधिसम्मिश्रणमिव शास्त्रमिश्रणं भवति। तृतीयकोटौ तु कवि: परान्नमेव स्वकाव्यपात्रे परिवेषयतीति दिक्।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
प्रथमाधिकरणे शास्त्रसङ्गतिनिरूपणं नाम षष्ठोऽध्याय:।।