अथ अलङ्कारविमर्शो नाम द्वितीयमधिकरणम्
।। अथ अलङ्कारस्वरूपनिरूपणं नाम प्रथमोऽध्याय:।।
अलङ्कार: काव्यजीवनम्।। २। १। १।। आधिभौतिकाधिदैविकाध्यात्मिकविश्वत्रयसमुन्मीलनपुरस्सरं भूषणवारणपर्याप्त्याधायकतवमलङ्कारत्वम्।। २। १। २।।
वैदिकै: मनीषिभि: विश्वस्याधिभौतिकाधिदैविकाध्यात्मिकत्वेन त्रैविध्यमूरीकृतम्। काव्यं सर्वाश्च कला वा एतत् त्रिविधमपि विश्वं प्रतिपादयन्ति। अयमेवालङ्कार एतेषां काव्यकलादीनाम्। अलम्भूषणवारणपर्याप्तिष्विति निगदन्नमरकोषकारस्त्रिविधमर्थं निरूपयति अलमित्युपपदस्य। अलम्भावं समुद्भावयन्, विकासयन्नुल्लासयन् वाऽलङ्कारोऽपि काव्यकलादिषु एतत् त्रैविध्यं साधयति। तत्र भूषणं नामाधिभौतिकं, वारणमाधिदैविकं पर्याप्तिश्चाध्यात्मिकं स्तरं परामृशति। अयं च परामर्श उपमाद्यलङ्कारेषु तथैव अलङ्कारवादिभिरलङ्कारतयैवाभिमतेषु गुण-रिति-रसादिषु चरितार्थयितुं शक्य:। अलङ्करोतीत्यलङ्कार:, अलङ्कृतिश्चालङ्कार इति निर्वचनाद् अलं वा अरं वेत्युपपदम् ऋगतौ धातोर्निष्पन्नं गतिं प्रक्रियां वा व्यनक्ति। सा च प्रक्रिया भूषणं वारणं पर्याप्तिं चादधाति।
तथा हि-भूषणं साधयन् कवि: काव्यकलेवरे यमकादिविन्यासं विधत्ते, अनुप्रासेन प्रसाधयति वाण्यास्तनुम्, विस्तारयति वक्रोक्ति:। वारणेन तावत् हानोपादाने दृढमतिरसौ भवति। तेन सिध्यति काव्ये शिल्पगतं सौन्दर्यम्। वारणं नाम निवारणम्, तेन चानावश्यकस्य अनपेक्षितस्य वा परिहारो ग्राह्यस्य च सङ्ग्रहो जायते। यथा कश्चन तक्षा प्रस्तरेण शिल्पं निर्मिमीते। स प्रस्तरे यद् यद् अनपेक्षितं तत् तत् निस्सारयति, तेन स्वयमेव रमणीया आकृतिराविर्भवति। इत्थं कविरपि यद् यद् अनपेक्षितं तत् तद् विनिवार्य अपेक्षितं गृह्णाति। अत एव वारणं निवारणं वा भवति सर्वदा सञ्चयपूर्वकम्, सङ्ग्रहसहितं वा। यथा केनचित् पाश्चात्त्यमनीषिणा उक्तमपि-सौन्दर्यं नाम अतिरिक्तस्याऽपाकरणमिति (Beauty lies in removing excess)। किं तावद् ऊह्यम्, किमनूह्यमिति उक्तानुक्तदुरुक्तविचारपुरस्सरं सौन्दर्यं कविरनेन न्यस्यति। तद्यथा आक्षेपालङ्कारे वक्तुमिष्टस्यैव निषेधात् सौन्दर्यस्याधानम्।
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं
त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभि: प्रियशतैरनुरुध्य मुग्धां
तामेव शान्तमथवा तिमिहोत्तरेण।।
अत्र वासन्त्या उक्तौ वक्ष्यमाणविशेष्यस्य निवारणादलङ्कार आविर्भवति। अत्र वारण एव अन्तर्भवन्ति पदशैया-पाकादय: काव्यकोटय:। उक्तमेव-
आधानोद्धरणे तावद् यावद् दोलायते मन:।
पदस्य स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती।।
यत् पदानि त्यजन्त्येव परिवृत्तसहिष्णुताम्।
तं शब्दन्यासनिष्णाता: शब्दपाकं प्रचक्षते।। (काव्यालङ्कारसूत्रवृत्तौ - १। ३। १५)
न च आधिभौतिकं विना आधिदैविकस्य आध्यात्मिकस्य वा विश्वस्य सम्भव:, एवमेव उभे विना आधिभौतिकमपि निरर्थकमेव। अत एव अलङ्कारप्रक्रियायां भूषण-वारण-पर्याप्तीनां युगपत् समावेशस्तेन च एतस्य त्रिविधस्यापि विश्वस्य समुन्मेष:, तेन सकलमपि कल्याणोदर्कं मङ्गलमयं काव्यविश्वमिति न संशीति:।
इत्थं च अलङ्कारो हि नाम सर्वासु कलासु सर्वविधसाहित्ये च सार्वकालिक: सार्वदेशिक: सर्वङ्कषश्च मानदण्ड:। अलङ्कारोऽयं न केवलं काव्यविश्वस्य मानदण्ड:, काव्यमार्गे तासां तासां पद्धतीनां नियामकोऽपि। तद्यथा दण्डी अलङ्कारस्य द्वैविध्यमूरीकरोति-
काश्चिन्मार्गविभागार्थमुक्ता: प्रागलङ्क्रिया:।
साधारणमलङ्कारजातमत्र प्रकाश्यते।
काश्चन अलङ्क्रिया: मार्गविभागं कुवार्णा: काव्ये अनिवार्यं पदं प्राप्ता:। अपराः काश्चन भवन्ति साधारणा उपमादयोऽनुप्रासादयोऽलङ्कारा:। साधारणमलङ्कारमनादृत्य महाकवय: क्वचन अलङ्कारस्य विराड्-रूपं साधयन्ति। तद्यथा भट्टलक्ष्मीधरकृते चक्रपाणिविजयमहाकाव्ये बाणस्य मुखेन शिवस्तुतिं प्रयुञ्जानो महाकविराह-
उपमा यत्र नास्त्येव यत्र जातिर्न विद्यते।
निर्गुणो निरलङ्कारस्त्वमिव त्वयि मे स्तव:।।
अत्रोपमाया: जातेरलङ्कारस्यापि निवारणं विहितम्। स्वकीय: स्तव: निर्गुणो निरलङ्कारश्चोक्त : परमेश्वर इव। तेन वारणं तावदावापोद्वापसहितं कविना विहितम्। अथ त्वमिव त्वयि मे स्तव इति कथनेन उपमाया निवारणं विधायापि पुनरप्युपमा उपात्ता। तेन च सम्पन्नेह भूषण-वारण-प्ररोह-समन्विता पर्याप्त्याधानस्यानुत्तमा प्रक्रिया।
न केवलं प्रतिपद्यमपि तु प्रतिकाव्यं प्रतिप्रबन्धमेषा भूषण-वारण-पर्याप्त्याधानप्रक्रिया आधिभौतिकाधिदैविकाध्यात्मिकविश्वसमावेशकर्त्री गवेषणीया।
इत्थं च आधिभौतिकाधिदैविकाध्यात्मिकाध्यात्मिकविश्वत्रयसमुन्मीलनपुरस्सरं भूषणवारणपर्याप्त्याधायकत्वमलङ्कारत्वमिति अलङ्कारलक्षणं कर्तुं शक्यते। स चायमलङ्कार: काव्यस्य सर्वङ्कषो मानदण्ड इत्यपि सिध्यति।
सौन्दर्यमलङ्कार इति निगदन् वामन: काव्ये समग्रमपि सौन्दर्यं सौन्दर्यप्रक्रियां चालङ्काररूपामेव मनुते। एतेन ध्वनि-गुण-रीति-बन्ध-वक्रोक्ति-प्रभृतीनां समेषां काव्यतत्त्वानामलङ्कारवर्तित्वम्। तेन च- 'वाच्यवाचकमात्राश्रयिणि प्रस्थाने व्यङ्ग्यव्यञ्जकसमाश्रयेण व्यवस्थितस्य ध्वने: कथमन्तर्भाव:, वाच्यवाचकचारुत्वहेतवो हि तस्याङ्गभूता:, न तु तदेकरुपा एव इति। तथा च- 'न तु ध्वनेस्तत्रान्तर्भाव:। तस्य महाविषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमाणत्वादिति यदुक्तमानन्दवर्धनेन, तदपास्तम्, अलङ्कारस्यैव महाविषयत्वात्, तस्य वाच्यलक्ष्यव्यङ्ग्यादीनर्थान् व्याप्यापि तानतिशय्य अवस्थिते:। यथा पूर्वमवोचाम- वाच्यं लक्ष्यं तथा व्यङ्ग्यं समं व्याप्यावतिष्ठते, अतिशय्य पुनस्तांश्चेति। तथा चोक्तं रेवाप्रसादद्विवेदेन-
अस्मन्मते त्वलङ्कार: काव्यस्याङ्गस्य वीक्षणे।
ध्वनिं सोमं यथा वह्नि: कवलीकृत्य राजते।। इति
यदुक्तमलङ्कार: काव्ये जीवनं आधिभौतिकमाधिदैविकाध्यात्मिकं वा विश्वमुन्मीलयति। क्वचित्तु रचनायां जीवनस्यैकस्य पक्षस्य विशिष्य चित्रणं भवति। कस्यचित् कवे: रचनायाम् आधिभौतिकस्य, कस्याचिदाधिदैविकस्य, कस्यचिद् कवे: रचनायाम् आधिभौतिकस्य, कस्यचिदाधिदैविकस्य, कस्यचिद् रचनायामाध्यात्मिकस्य वा विश्वस्य प्राधान्यं दृश्यते। परमार्थतस्तु काव्ये सममेव त्रयाणां समुल्लासो भवति। प्राधान्यप्रतिपतितरापाततो जायते। तद्यथा भास-कालिदास-भवभूतीनामलङ्कारप्रयोगे क्रमश एतत्त्रितयमप्याधिभौतिकाधिदैविकाध्यात्मिकसमवेतं विश्वं समुन्मीलति: परन्तु व्यवहारदृशा तत्तत्स्थलेषु एकस्य प्राधान्यं प्रतीयते। तस्मिंस्तस्मिन् काव्ये प्रसङ्गे वा कवे: एकस्मिन् विश्वे दृष्टेर्विश्रान्ते:। भासस्य प्रातिभं चक्षु: प्राय आधिभौतिकमेव जगत् नानावर्णविशेषविच्छित्तिपुरस्सरं पश्यति। तस्य रूपकेषु स्वैरं डयन्ते यद्यपि कल्पनाविहङ्गमा:, परन्तु तदीयान्युपमानानि अप्रस्तुतविधानं वा भौतिकम् ऐन्द्रियगम्यमेव वा जगद् विषयीकुर्वन्ति प्राय:। तद्यथा-
क: कं शक्तो रक्षितुं मृत्युकाले
रज्जुच्छेदे के घटं धारयन्ति।
एवं लोकस्तुल्यधर्मो वनानां
काले काले छिद्यते रुह्यते च।।
दु:खं त्यक्तुं बद्धमूलोऽनुराग:
स्मृत्वा स्मृत्वा याति दु:खं नवत्वम्।
यात्रा त्वेषा यद्विमुच्येह वाष्पं
प्राप्तानृण्या याति बुद्धि: प्रसादम्।।
कालिदासीया तु प्रतिभा आधिभौतिकमतिक्राम्य आधिदैविके विश्राम्यति। तदीये रूपकत्रये क्रमश आधिभौतिकाधिदैविकं ततश्चाध्यात्मिकमारोहति प्रतिभानम् परन्तु प्राधान्यमाधिदैविकस्यैव तत्र वरीवर्त्यते। मालविकाग्निमित्रे त्वस्यैव राजनीतिसङ्कीर्णस्य दैहिकवासनापरिप्लुतस्य जगतो यथार्थमुन्मीलति। यत्र अस्य जगतो यथार्थस्यातिक्रमणमपि तत्रापि कविबुद्धिराधिभौतिके जगत्येव विश्राम्यति। परिव्राजिका अग्निमित्राय आशिषं प्रयुङ्क्ते। इदमेव तत्र तस्या आकूतम्-
महासारप्रसवयो: सदृशक्षमयोर्द्वयो:।
धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम्।। (१। १५)
अत्र धारिणी राज्ञो भार्या, भूतधारणी च राज्यमात्रम्, उभयोर्भर्ता अग्निमित्रो भवत्विति मङ्गलमाशास्ते परिव्राजिका।
विदूषकोक्तिषु उपमालङ्कारा बलादानीयमाना एनमेव यथार्थमुपोद्वलयन्ति। तथापि राजानमेग्निमित्रमुद्दिश्यैवासौ प्रखरजिह्वया खरतरसत्यं प्रकटीकुरुते 'सूनापरिसर इव गृध्र: आमिषलोलुपो भीरुश्चेति’ति तं भणति। गणदासहरदत्तयोर्मिथ: कलहे प्रसक्ते विदूषक: सोल्लुण्ठमवादीत्- 'अन्योन्यकलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशम’ इति। मालविकादर्शनाय त्वरमाणमग्निमित्रमयं पुन: परिहसत्युपमया- 'दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि’ इति। मालविकासङ्गममहानन्दसागरे निमज्जति तस्मिन् सहसा समागतायामिरावत्यां च तदीयेयमुक्ति:- 'बन्धनभ्रष्टो गृहकपोतो विडालिकाया आलोके पतित’ इति। कविनिबद्धवक्तृप्रौढोक्तिषु कविना स्वयमुम्भितेष्वप्यर्थेषु च उपमानानि भौतिकजगद्गतान्येव दरीदृश्यन्ते मालविकाग्निमित्रे। तद्यथा- पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातु:। जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य।। (१.६) इत्यत्रापि यथा पात्रविशेषस्योपमेयस्य कृते शुक्ति: शिल्पस्य कृते जलम्, गुणान्तरस्य कृते च मुक्ताफलमित्युपमानानि भौतिकसत्यमेवोद्घाटयनित दृढयन्ति च प्रत्यक्षप्रमाणानुभूतं यथार्थम्। तथैव सलिलनिधिरिव प्रतिक्षणं मे भवति च नवो नवोऽयमक्ष्णो: (१.११) इत्यत्रापि समुद्रस्योपमानम्। गणदासश्च-
उपदेशं विदु: शुद्धं सन्तस्तमुपदेशिन:।
श्यामायते न युष्मासु य: काञ्चनमिवाग्निषु।। (२.९)
इति निगदन् पुनरपि भौतिकजगत उपमानजातमानयति।
मालविकाया आननमग्निमित्रेण- असमग्रलक्ष्यकेसरमुच्छ्वसदिव पङ्कजं दृष्टम् (२.१०)। नृत्तादस्या: स्थितमतितरां कान्तमृज्वायतार्धमिति (२.६) कथयन्नग्निमित्रो व्यतिरेकालङ्कारेण कलात्मिकीं रचनां विगणयन् भौतिकमेव संस्थानं बहु मन्यते। तथैव 'पत्रैच्छायासु हंसा मुकुलितनयना’ इत्यादिस्वभावोक्त्या तत्रैव बद्धादर: कविरपि। नायको मालविकां परभृतया वकुलावलिकां च भ्रमर्या तुलयति (४.२), स्वयं च सहकारतां गतो नायिकामतिमुक्तलताचरितं श्रयितुमुपदिशति (४.१३)। इत्थं च नानाकल्पनाविजल्पनाश्चास्मिन् रूपके भौतिकजीवने दत्तावधानं कविं प्रमाणयन्ति। अन्यत्रापि तरु-मेघ-दीपादीनामुपमानानि, तथैव- नव: संरोपणशिथिलस्तरुरिव सुकर: समुद्धर्तुम् (१.८), जीमूतस्तनितशङ्किभिर्मयूरैरुद्ग्रीवैरनुरसितस्य पुष्करस्य (१.२१), पङ्कच्छिद: फलस्येव निकषेणाविलं पय: (२.६), दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि (१.९) इति सन्ति बहूनि स्थलानि।
नात्र भवभूतिरिव सूक्ष्मानाम् अमूर्तानां वा भावानामुपमानानि कविनोपात्तानि। यत्राप्युपात्तानि तत्रापि भौतिकजीवनमेव तान्यङ्कुरयन्ति। यथा गणदास-हरदत्तयो: कृतेयुपमा-त्वां द्रष्टुमुद्यतौ साक्षाद् भावाविव शरीरिणौ (१.१०)। तथैव नायिकाया इयं छवि:-
अनतिलम्बिदुकूलनिलवासिनी बहुभिराभरणै: प्रतिभाति मे।
उडुगणैरुदयोन्मुखचन्द्रिका हतहितमैरिव चैत्रविभावरी।।
धारिणी चक्रवाकमिथुनस्य वियोगं साधयन्ती रजनीह कथिता। इत्थं मालविकाग्निमित्रे आधिभौतिकं जगत् प्रधानम्। विक्रमोर्वशीये त्वाधिदैविकम्। अत एव यथा मालविकाग्निमित्रे उपमा: प्रभवन्ति तथैवात्र उत्प्रेक्षा:। एतच्च उपमोत्प्रेक्षाविवेचनावसरे पुन: विशदं प्रतिपादयष्यिाम:। विक्रमोर्वशीये कलासृष्टिं बहु मन्यमान: कविर्नायकमुखेन वेगाकृष्टस्य रथस्य चामरं चित्रारम्भविनिश्चलं मनुते।
चित्रारम्भविनिश्चलं हरिशिरस्यायामवच्चामरं।
यन्मध्ये समवस्थितो ध्वजपट: प्रान्ते च वेगानिलात्।। (१.५)
केशिदानवापहृता उर्वशी राज्ञा रक्षिता मूर्च्छां शनै: शनैर्जहाति। कविस्तस्याश्छविमित्थमुत्प्रेक्षते-
आविर्भूते शशिनि तमसा मुच्मानेव रात्रि-
र्नैशस्यार्चिर्हुतभुज इव च्छिन्नभूयिष्ठधूमा।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा
गङ्गा रोध: पतनकलुषा गृह्णतीव प्रसादम्।। (१.९)
अन्यत्रापि कविना उर्वशीचित्रलेखे गङ्गायमुनाभ्यां तुलिते (२.१४)। रथसङ्क्षोभादुर्वश्या अङ्गेन स्पृष्टाङ्ग: पुरूरवा सरोमकण्टकमङ्कुरितं मनसिजमनुभवति (१.१३) अत्र मनसिजशब्दप्रयोगो मानसिकस्तरं काव्यस्य प्रगुणयति भौतिकजगदतिरिच्य। उर्वश्या नैसर्गिकं रूपं भौतिकीं प्रसाधनसामग्रीं प्रत्याचष्टे-
आभारणस्याभरणं प्रसाधनविधे: प्रसाधनविशेष:।
उपमानस्याऽपि सखे प्रत्युपमानं वपुस्तस्या:।। (२.३)
उर्वश्या: कृते न तन्मानसे शारीरिकमाकर्षणमेव केवलमपि तु मानसीं रुक् तं दृढतरं बाधते। अत एव स आह- नितान्तकठिनां रुजं मम न वेद सा मानसीम् (२.११)।
प्रेम्णि वस्तूनां विशिष्टं रूपं समुन्मीलति। अत एव राजा सङ्गमनीयं मणिं बहु मन्यते। नायं तस्य कृते मणिमात्रभूत:, प्रियासमागमहेतुत्वादमूल्यतां गत:। अन्ततश्च देवानां मनुष्याणां चान्त:सम्बन्धं निरूपयन् कवि: सर्वथाऽऽधिदैविकं रूपं स्वरचनाया: साधयति-
त्वकार्यं वासव: कुर्यात् त्वं च तस्येष्टमाचरे:।
सूर्य: समेधयत्यग्निमग्नि: सूर्यं स्वतेजसा।। (५.२०)
इति नारदमुखेन मनुष्यान् सन्दिशन् चरितार्थयँश्च तत् पुरूरवसश्चरित्रेण।
अभिज्ञानशाकुन्तले तु आधिदैविकमप्यतिक्रम्य आध्यात्मिकधरातलमारोहत्येव कालिदास:। अत एव तत्र अतिशयालङ्कार:। एतच्च अतिशयालङ्कारविवेचने पुन: प्रतिपादयिष्याम:। प्रस्तावनायामेव दयमानाभि: प्रमादाभि: शिरीषकुसुमावतंसे मनुष्यगतं कारुण्यम् आध्यात्मिकमेव। तदनन्तरम् आर्षदृष्टे: आर्षतेजस: आर्षकरुणायाश्च साम्राज्यमिह बोभूयते अनुभूयते च। युक्तमुक्तवान् दुष्यन्त:- शमप्रधानेषु तपोवनेषु गूढं हि दाहात्मकस्ति तेज: (२.७)इति।
शकुन्तलाया: कृते अनाघ्रातं पुष्पमित्यादिना (२.११) चत्वारि उपमानानि उपस्थापितानि। तानि चोपमानानि पुष्प-किसलय-रत्न-मधूनि क्रमश: गन्ध-स्पर्श-रूप-रस-तन्मात्रसम्बद्धानि इन्द्रियसन्तर्पकत्वं प्रकटयन्ति नायिकाया:। किन्तु अखण्डं पुण्यानां फलमिव च तद्रूपमनघमिति कथनेन अन्यैव कवे: दृष्टिरिह प्रतिफलति। अन्यत्राप्युपमया कालिदासो दुष्यन्तमुखेन नायिकाया: पावनतया प्रकटीकुरुते-
सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम्।
अर्कस्यापरि शिथिलं च्युतमिव नवमालिकाकुसुमम्।।
वस्तुत: शाकुन्तले कालिदासगिरा 'श्रद्धावित्तं विधिश्चैव त्रितयं चात्र सङ्गतम्’ इति वक्तुं सुशकुम्। तथापि कालिदासस्य दृष्टि: आधिभौतिकमतिक्रम्य आधिदैविके समाधिकतरं रमत इति तस्यालङ्कारप्रयोगा: प्रमाणयन्ति त्रिष्वपि रूपकेषु।
भवभूतिस्तु रूपकत्रितये आधिभौतिकाधिदैविकाध्यात्मिकजगन्ति समुन्मीलयति, तथापि तदीया कविचेतना आध्यात्मिकजगति समुन्मीलयति, तथापि तदीया कविचेतना आध्यात्मिकमेव विशिष्य समारोहतीति तदीया उपमाद्यमालङ्कारा अपि निदर्शयन्ति। महावीरचरितं राजनीतिगतं सङ्घर्षं महावीरस्य रामस्य च पराक्रमं प्रस्तौति। अत्र मुख्यत आधिभौतिकं जगद् विषयीभूतम्, तदनुरूपश्चोलङ्कारप्रयोग:। परन्तु कवि: स्थूलात् सूक्ष्मनुसरति। मालतीमाधवे माधवस्य मालत्याश्चा प्रणयकथा, मानसिकीव्यथा चाधिभौतिकजगत: धरातलेऽधिष्ठिते अपि आधिदैविकं मानवसम्बन्धं पुरस्कुर्वत:। उत्तररामचरिते तु सीता आधिदैविकजगद् अतिक्रम्य दिव्यां भूमिमारूढा। इत्थमलङ्कार: प्राधान्येन क्वचिदाधिभौतिकं क्वचिदाधिदैविकं क्वचिच्चाध्यात्मिकं विश्वं क्रोडीकुरुते, क्वचिद्द्वयोस्त्रयाणां वा युगपत् समुल्लासं प्रकटीकुरुते। परन्तु नैतेषु एकमेव विश्वमन्याभ्यां पृथग्भूतं स्वत:पूर्णं वा प्रकटीभवति। एतेषामन्योन्यसापेक्षतैवालङ्कार:। तेनालङ्कारेणैव पूर्णताऽऽधीयते काव्ये। तस्मिश्चान्तर्भवन्ति समग्रा काव्यकोटय:। भवतश्चात्र श्लोकौ-
रसश्चापि गुणाश्चापि रीतयो वृत्तयस्तथा।
सर्वे ध्वनिप्रभेदाश्च ये प्राचीनैरुदाहृता:।।
सन्धिसन्ध्यङ्गवृत्त्यङ्गलक्षणानि तथैव च।
अलङ्कारस्य परिधौ सर्वे चान्तर्भवन्ति ते।।
रीतिवृत्तिरसादीनामलङ्कारान्तर्वर्तित्वं च प्रतिपादयिष्यते अत्र अस्याधिकरणस्य द्वितीयेऽध्याये। यदुक्तमुद्भट्टेन-
प्रेयोरसवदूर्जस्वि पर्यायोक्तं समाहितम्।
द्विधोदात्तं तथा शिलष्टमलङ्कारान् परे विदु:।।
रत्यादिकानां भावानामनुभावादिसूचनै:।
यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम्।।
रसवद् दर्शितस्पृष्टशृङ्गारादिरसोदयम्।
स्वशब्दस्थायिसञ्चारिविभावाभिनयास्पदम्।।
शृङ्गारहास्यकरुणरौद्रवीरभयानका:।
बीभत्साद्भुतशान्ताश्च नव नाट्ये रसा: स्मृता:।।
चतुर्वर्गेतरौ प्राप्यपरिहार्यौ क्रमाद् यत:।
चैतन्यभेदादास्वाद्यत्वात् स रसस्तादृशो मत:।।
अनौचित्त्यप्रवृत्तानां कामक्रोधादिकारणात्।
भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते।।
रसभावतदाभासवृत्तै: प्रशमबन्धनम्।
अन्यानुभावनि:शून्यरूपं यत् तत् समाहितम्।। (काव्यालङ्कारसङ्ग्रहे - ४। ४६-५३)
तेन अलङ्कार एव काव्यमिति वक्तुं शक्यते। तं येऽलङ्कुर्वन्ति तेऽप्यलङ्कारा वक्ष्यमाणभेदा:।
।। इति श्री राधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
द्वितीयेऽधिकरणे अलङ्कारस्वरूपनिरूपणं नाम प्रथमोध्याय:।।
।। अथ कविव्यापारनिरूपणं नाम द्वितीयोऽध्याय:।।
अलम्भावमाधातुं कविना सम्पाद्यमाना प्रक्रिया कविव्यापार:।। २। २। १।। स चतुर्धा वृत्ति-रीति-मार्ग-रस-भेदात्।। २। २। २।। नियतवर्णगतो व्यापारो वृत्ति:।। २। २। ३।। पदविशेषगतो व्यापारो रीति:।। २। २। ४।। अर्थविषयको व्यापारो मार्ग:।। २। २। ५।। आस्वादविषयको व्यापारो रस:।। २। २। ६।।
वृत्तय: उपनागरिका-परुषा-कोमलेति प्राचीनै: प्रतिपादिता:। तासां विनियोगेन अनुप्रासस्य वक्ष्यमाणनादानुवृत्तेरलङ्कारस्य च सम्भव:। पदानां सन्निवेशस्य तु भवन्ति अनन्ता भेदा:। तद्यथोक्तं दण्डिना-
अस्त्यनेको गिरां मार्ग: सूक्ष्मभेद: परस्परम्। (काव्यादर्शे - १। ४०)
तथा च-
तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकवि स्थिता:।
तत्र प्राक्तनैराचार्यै: प्रतिपादिता: सन्ति वैदर्भी-पाञ्चाली-गौडीप्रमुखा: रीतय:। अन्ये तु लाटीयां चतुर्थीमपि तासु योजयन्ति। रीतिष्वन्तर्भवन्ति गुणा:। तेऽप्यस्मन्मतेनालङ्कारेष्वन्तर्भवन्ति। अन्तर्भावं चैषामलङ्कारेषु यथावसरं प्रतिपादयिष्याम:। शारदातनयस्तु प्राधान्येन चातुर्विध्यम्, अवान्तरभेदसंवलितत्वेन पञ्चोत्तरशतं देश-काल-व्यक्त्यादिभेदैर्विभिन्नत्वाच्च आनन्त्यमेषां मन्वान:-
प्रतिवचनं प्रतिपुरुषं तदवान्तरजातित: प्रतिप्रीति।
आनन्त्यात् संक्षिप्त प्रोक्ता कविभि: चतुर्विधेत्येषा।।
तासु पञ्चोत्तरशतं विधा: प्रोक्ता मनीषिभि:। इति भावप्रकाशन आह। अथ काश्चन नवीना रीतय इह गण्यन्ते।
विशिलष्य कथनं व्यासरीति:।। २। २। ७।। अनुकृत्याभासेन विडम्बनरीति:।। २। २। ८।। मनोवृत्तिनिरूपणेन चेतनाप्रवाहरीति:।। २। २। ९।। पाठकं प्रति सम्बोधनेन वार्तालापरीति:।। २। २। १०।।
व्यासरीतिं लक्षयतिविश्लिष्येति समासाभावो विशिलष्यकथनं चास्या रीतेर्लक्षणम्। अस्यां रीतौ यद् वस्तु संस्कृतवाक्यरचनायाम् एकेनैव वाकयेन प्रकटीकर्तुं शक्यते, तस्य कथनाय नैकानि वाक्यानि अवान्तरवाक्यानि वा उपादीयन्ते। यद्यपि पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा इत्यादिकथनै: पञ्चविधा या प्रौढि: वामनादिभि: प्रत्यपादि, तत्र प्रथमभेदेन तथैव व्याससमासौ इति हिन्दी-प्रभृतिष्वाधुनिकभारतीयभाषासु वाक्यरचनाया यद् विश्लेषणात्मकं रूपं प्रभविष्णु वर्तते, तदेवात्र सर्वङ्कषं गृह्यते। तत्र यत्तदोर्यथातथयोर्वा प्रयोगोऽत्र बाहुल्येन दृश्यते। अस्या: प्रयोगो गद्ये विशेषतो ललितनिबन्धयात्रावृत्त-कथादिष्वद्यतनसंस्कृतसाहित्ये भवति। परिष्कृतरचनाकर्तुरसामार्थ्यमपि क्वचिदियमभिव्यनक्ति। परन्तु सैवेयं व्यासरीति: समुल्लसन्ती विदग्धवचोविन्यासनिपुणानां रचनाकर्मनदीष्णानां कृतित्वे क्वचिदभिनवां विच्छित्तिं प्रकटीकुरुते। अत्र यत्तदादीनां मुहुर्मुहु: प्रयोग: क्रियमाण: क्वचिद् वैरस्याय उपजायमानोऽपि वर्ण्यविषयस्य विचारस्य वा सुस्पष्टतां साधयति। तथा हि कलानाथशास्त्रिण: 'आवाहनम्’ इति कथायाम्-
तदनु तेन तन्मन्दप्रकाशप्रसारको विद्युद्दीपो निर्वापितो य: प्रकोष्ठे प्रज्ज्वलति स्म। मध्यगायां त्रिपादिकायां परं पिशङ्गालोकावह: सुलघु: विद्युद्दीप उद्भावितो यस्तस्मिन् कर्गदफलके एव प्रकाशं व्यतनोत्, यदुपरि सा विचित्रा लेखनी निहिताऽभूत्, यामादाय स मृतानां जनानामात्मन आवाह्य तेषां सन्देशमुट्टङ्कयति स्म’। (दूर्वा - ३९, पृ. ८५)
अत्र सर्वे गुणा: सर्वे रसाश्च पदं लब्धुं शक्नुवन्ति। विशिष्य प्रसाद: समाधि: (आरोहावरोहरूप:), पदानां नृत्यत्प्रायत्वरूप: श्लेषश्च समधिकं दरीदृश्यन्ते।
विडम्बनरीतिं लक्षयति-अनुकृत्याभासेनेति। न तु वस्तुतोऽनुकृत्या। अनुकृतिरनुकरणं वा पूर्वं प्रतिपादितो व्यापार:, स च समस्तेषु शिल्पेषु काव्येषु वा मूलभूत:। यत्र कविर्नटो वा जानन्नपि अनुकृतेराभासमुत्पादयति, न त, वस्तुतोऽनुकरोति तत्र विडम्बनरीति:। आधुनिकसाहित्ये पैरोडीति पदेन व्यपदिश्यमाना सोत्प्रासं सोल्लुण्ठनं भङ्गीभणितिविशेषैरियं कमपि कौतुकं पुष्णाति। रीतिरियं नव्या विधा उद्भावयति। समेषां शब्दगुणानामत्र समावेश: कर्तुं सुशक:, अर्थगुणेषु च माधुर्योदारते विहायान्येषाम्। क्वचित् प्राचीनसाहित्ये विद्यमानं भावुकतातिशयं कल्पनाप्रवणतां च रीतिरियं परिहसति। यथा हरिभद्रसूरे: धूर्ताख्यानम्। आधुनिकरचनासु महामहोपाध्यायरामावतारशर्मणो मुद्गरदूतम् अस्या रीतेरनुत्तममुदाहरणम्। तथा हि-
तां जानीथा: प्रलपनपटुं मृत्युदेवीं द्वितीयां
दूरीभूते मयि सहचरे तत्र घूकीमिवैकाम्।
गाढामोदां तनुषु दिवसेष्वेषु गच्छत्सु वृद्धां
जातां मन्ये विटपतियुतामश्वभार्यामिवान्याम्।। (११३)
मूर्खत्वं स्याद् भरतवसुधावासिनां केन शश्वत्-
सिद्धेर्लोभै: कथमविरतं वञ्चितेभ्यश्च तेभ्य:।। (४४)
वेङ्कटराघवो विद्यानाथविडम्बननाम्नि रूपके विडम्बनशैल्या रुचिरं मौलिकं प्रयोगं विधाय नवीनां दिशमुनमीलयत्। एतेन विशिष्टा पदरचना रीतिरिति लक्षणं चरितार्थतां तु यात्येव, परन्तु विशिष्टकथ्यविन्यासविचक्षणा विशिष्टा पदरचना रीतिरिति लक्षणपरिष्कारो राघवन्महोदयस्य कृतिं समीक्ष्य कर्तुं शक्यते। यतो हि अत्र पदविन्यासवैशिष्ट्येन सह अर्थदृष्टिरपि नवीनैव। एतादृशि काव्ये विडम्बनम् अनुकरणजन्यं भवति। अनुकरणमप्यत्र त्रिविधम्- प्राचीनकाव्यादीनाम्, पारम्परिकाख्यानाख्यायिकादीनाम्, समकालिकानां कल्पितानां वा पात्राणाम्। रीतिपरिवर्तनं पात्रविशेषस्य कथनभङ्गीं विडम्बयता कविना विधीयते। कथनभङ्ग्याश्चानुकरणं तत्तत्पात्रस्य न केवलं वैशिष्ट्यं, हास्यास्पदत्वमपि तस्य प्रकटीकरोति। हास्यास्पदत्वं च कविप्रौढोक्त्या कविनिबद्धवक्तृपौढोक्त्या वा अभिव्यज्यते। कविनिबद्धवक्तृप्रौढोक्तावपि कविकल्पितं पात्रम् अन्येषां विडम्बनां करोति, आत्मानं विडम्बयति, कविना वा साङ्केतिकतया विडम्ब्यत इति त्रिविधा रीति:। निरालाकवे: हिन्दीभाषायां कुकुरमुत्तेति कविता एतत्त्रैविध्यं युगपदेव प्रकटीकरोति। दूर्वायां प्रकाशिता वसन्तर्त्यम्बकशेवडेकृता गर्दभाक्ष्यानम् इति कविता, ज्ञानोपाह्वस्य बच्चूलालावस्थिन: 'उलूकलपितम्, श्येन उवाच’ इत्यादीनि काव्यान्यपि तुलामेनामधिरोहन्ति। तथैव दीनानाथत्रिवेदीमधुपस्य गर्दभगर्वोक्तय इति काव्यं च। गर्दभाख्यानकाव्ये शेवडेवसन्तकविना कथं रासभा राजसभायां सत्कृता राजन्ते मोदन्ते इति सोल्लुण्ठं प्रतिपाद्य प्राचीनस्तुतिकाव्यानां माहात्म्यख्यापनस्यापि विडम्बनं प्रस्तुतम्-
सकृदपि मनोज्ञं गर्दभाख्यानमेतत्
परिपठति पुमान् य: सादरं वा शृणोति।
स भजति भगवत्या: शीतलाया: प्रसादाद्
गुणलवरहितोऽपि प्रोन्नतस्थनलाभम्।। (दूर्वा-५, पृ. ११)
नव्येषु लघुवंशे वीरभद्रमिश्र:, पदप्रज्ञोपनिषद्-अधिकारी-प्रभृति-रचनासु रहसविहारी चैनां साधु प्रयुक्तवन्तौ। मदीयकाव्येषु स्तुतिमालादिषु क्वचिदियं प्रयुक्ता। तद्यथा-
नमस्तुभ्यं नेतृवर्य यत्कण्ठ: पुष्करायते।
मदाभोगघनध्वाने राजनीतिकताण्डवे।।
निरुपादानसम्भारमभित्तावेव तन्वते।
भव्यमाश्वासनं चित्रं कलाशलाघ्याय ते नम:।।
विडम्बरीते: प्रयोगो नव्यभावबोधपुरस्सरं क्रियमाणे विश्वसाहित्ये सम्प्रति बहुश उपादीयमाने विसङ्गतिबोधे परिणमति। परिणतिरियमनुभूयते अभिराजराजेन्द्रमिश्रविरचितेषु चतुष्पथरूपकेषु मदीये च सद्य:प्रकाशिते विक्रमचरिताख्याने।
क्वचित् श्लेषेण द्व्यर्थकवचोवितानेन वा विडम्बनरीतेर्नवीनं रूपमाविष्क्रियते। तद्यथा-नरोत्तमशास्त्रिगाङ्गेयस्य लण्डनचरिते गौरण्डानां कृते अधिक्षेपं जुगुप्सां च प्रकटयता कविना पिशुनानामिव आङ्ग्लजातीयानां चरितं पिशुनितम्।
समस्यापूर्तिषु विडम्बनरीतिसमाश्रयेण रचनाकर्तुर्जीवनदर्शनाभिव्यक्त्या वा नवोन्मेष: अलोकसामान्यप्रतिभाविशेषस्य चाभिव्यक्ति: सञ्जायते। कविभारतीकुसुमाञ्जल्यां 'धन्या ममेयं धरे’ति शीर्षकेण समस्यापूर्तिषु क्रियमाणासु नैकै: काशीस्थै: पण्डितैर्भारतधराया: स्तुति: पुनरावर्तितै: शब्दैर्व्यधायि, कमलेशदत्तत्रिपाठी तु तत्र विडम्बनरीतिमाश्रित्यान्यथा रचयामास-
यत्र ध्वाड्क्षनिभा विरावपटवो नेतृत्वसंसाधका
उत्कोचैकपरा जनस्वहरणे पारङ्गता: साहिबा:।
'पूँजी’-स्वामिहितैकसाधनरता: कुम्भोदरा नायका
राजन्ते खलु राजनीतिभुजगा धन्या ममेयं धरा।।
(कविभारतीकुसुमाञ्जलि:-६, १९७३, पृ. ७५)
अत्र उपहासस्य उत्प्रासस्य वा प्रधानता। क्वचित्तु विडम्बनरीतिमाश्रित्य विधीयमानासु समस्यापूर्तिषु करुणरसोऽपि अङ्गत्वेन उद्रिच्येत। यथा उमाशङ्करशर्मत्रिपाठिनो चक्रिचूडामणिरिति काव्ये हास्यं करुणया संवलितम्। यथा वा मम अमरुककाव्यपङ्क्तिमादाय विहितायां समस्यायाम्-
कल्याणी कविकालिदासरचिते काव्यव्रजे झङ्कृता
नाट्ये या भवभूतिना विरचिते रङ्गे तरङ्गायिता।
पाञ्चालीव च बाणभट्टरचिते गद्ये बभौ भारती
सुप्ता किन्नु मृता नु किं मनसि मे लीना विलीना नु किम्?।। (सम्प्लव:, पृ. १२)
विडम्बनरीते: समाश्रयेण छाया-असङ्गति-प्रभृतीनामलङ्काराणां काव्ये निधानं सम्भवति।
चेतनाप्रवाहरीतिं लक्षयति-मनोवृत्तिनिरूपणे चेतनाप्रवाहरीतिरिति। पाश्चात्त्यसाहित्ये इयं रीति: 'Stream of consciousness’ इति कथ्यते। आङ्ग्लभाषाकथाकारेषु युलिसिस इत्युपन्याससय प्रणेता जेम्सज्वाइस:, कथाकर्त्री वर्जीनियावुल्फ् च अस्या रीते: प्रयोक्तृषु अग्रगण्यौ। अत्र पदानां नृत्यत्प्रायत्वेन जनित: श्लेष:, पृथक्पदत्वरूपं माधुर्यम्, आरोहावरोहक्रमरूप: समाधि: पदसौकुमार्यं चैते गुणा: सविशेषमुन्मिषन्ति। नात्र रसास्वादस्य पार्यन्तिकत्वम्, अपि तु भावसन्धिभावबलतादय: प्राधान्यं भजन्ते। साम्प्रतिकसंस्कृतसाहित्ये कथाकार: केशवचन्द्रदाश: प्रामुख्येणास्या: प्रयोक्ता। कनीयसीति कथाया: प्रणेता हरिरविन्दोऽपि क्वचिदिमां प्रयुनक्ति। दिङ्मात्रम् उदाहरणद्वयं प्रस्तूयते-
'दु:खमध्ययनम्। तत्र च अनुसन्धानं दुष्करम्। तस्मिन् आकलनं च खेदकम्। सत्यनिरूपणं च विवादाय एव। समीक्षा ईर्ष्याजर्जरा। फलं तु केवलम् अलङ्करणम्। उपयोग: पुन: द्विदिनजीविकानिमित्तम्। अत: अध्ययनम् उपाधि:। उपाधिश्च सामाजिकता। दाम्पत्यनिमित्तं मानदण्ड:। विवाहार्थं धनलाभस्य उपाय:। एतदर्थं मिली अध्ययनम् आरब्धवती’ । (अञ्जलि:, पृ. ३८)
केशवचन्द्रस्य निरूपणे मन:स्थितिभि: कथाया अग्रेषणं विधीयते। तथा हि-
'दहनं साधारणीकृत्य रात्रिर्व्यतीता। विषयो विमृष्ट:। विवादो विचारित:। समाधानम् अन्विष्टम्। आत्मा अवबुद्ध:। उपायश्चिन्तित:। परं कालधारे सर्वमद्य शिथिलम्। सर्वं च विफलम्। बहु अवसानम्। अनेकं च अवसन्नम्।’ (तत्रैव, पृ. ४६)
अत्र कथाकारो पात्राणां चिन्तासन्ततितन्तुजाले स्वकीयां चेतनां वयतीति प्रतीयते। पात्रस्य चिन्ताधारा केशवचन्द्रस्य लेखनीत: प्रवहति। मन:स्थितिविशेषा एव कथावस्तु निर्मान्ति, त एव घटनायन्ते प्रसङ्गायन्ते इति रीतेरस्या: पारम्परिककाव्येषु प्रयुक्ताभ्यो रीतिभ्यो विशेष:।
वार्तालापरीतिं लक्षयति-पाठकं प्रति सम्बोधनेन वार्तालापरीतिरिति। प्राचीनसाहित्ये कवि: पाठकं प्रत्यक्षं न सम्बोधयति। आधुनिकरचनासु 'प्रियपाठक!’ इत्येतादृशं सम्बोधनमुपादाय रचनाकार: परोक्षमपि पाठकं प्रत्यक्षमिव सम्मुखं परिकल्प्य तं सम्बोधयति। अनेन कश्चन गुणो रचनायामाविर्भवति। इयं रीति: ललितनिबन्धेषु सम्प्रति भृशमुपादीयमाना अभिराजराजेन्द्रमिश्रस्य कथासु च क्वचिद् लसन्ती दृश्यते।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे द्वितीयेऽधिकरणे कविव्यापारनिरूपणं नाम द्वितीयोऽध्याय:।।
।। अथ अलम्भावनिरूपणं नाम तृतीयोऽध्याय:।।
अलम्भावस्तु पूर्णता।। २।। ३।। १।।
अलमिति पूर्णता। तस्या भाव: सत्ता वा अलम्भाव:। तेन अलम्भाव: काव्य एव उन्मिषति। तत्प्रत्यय: प्रमातरि अपि स्यात्। ननु अलम्भावस्तु अनुभवरूप:, स च प्रमातरि एव प्राधान्येन भवेदिति इति चेत्, न, तद्यथा विमर्शिन्यां जयरथ आह- 'ननु अवभासमानत्वं प्रमातृधर्म इति कथं तदाश्रयो धर्म: काव्यालङ्कार इति चेत्, असदेतत्। अवभासमानस्य त्वाभास्यनिष्ठतया प्रतीतेरर्थधर्मत्वात्। तथा हि केषाञ्चन प्रतीतिवादिनाम्-
तथा हि वेद्यता नाम भावस्यैव निजं वपु:।
चैत्रेण वेद्यं वेद्मीति किं ह्यत्र प्रतिभासते।।
इत्याद्युक्तयुक्त्या कौमारिलवन्नीलताया इव वेद्यताया अप्यर्थधर्मतवमेवेष्टम्। इह च तदुपक्रम एवेति वस्तुवादसंस्पर्शो न्याय्य:’। इति (अलङ्कारसर्वस्वविमर्शिनी, तृतीयेसूत्रे)।
अस्य पूर्वोक्तस्य लोकानुकीर्तनरूपस्य काव्यस्य अलङ्काररूपतेत्यवोचाम। तस्यालङ्कारस्य योऽनुभवो योऽनुभूतिर्वा सोऽलम्भाव:। स चानुभव: कवि-नट-सामाजिकेषु समान:। आधिभौतिकाधिदैविकाध्यात्मिक्यस्तिस्रोऽवस्थाश्चेतनाया: पूर्वं कीर्तिता:। अलम्भावोऽयमवस्थात्रितये परिव्याप्त: अन्नमय-मनोमय-प्राणमय-विज्ञानमयानन्दमयेति पञ्चकोशान् परिपूरयति। भवतश्चात्र कारिके-
कवौ चैव कलाकारे तथा सामाजिके समम्।
उद्भिद्यते त्वलम्भावो विकासं याति चोल्लसन्।।
रसा भावा रसास्वाद: प्राचीनै: परिकीर्तिता:।
अलम्भावैकदेशस्था नूनं सर्वे भवन्ति ते।।
यद्यथाऽऽह श्रुति:- यो वै भूमा तत् सुखम्, नाल्पे सुखमस्तीति।
तद्यथाऽऽह तोतोऽपि- नायकस्य कवे: श्रोतु: समानोऽनुभवस्तत:। भाव: कवेरभिप्राय:। भावस्य साक्षात्कारोऽपि भावरूप एव।
अस्य चालम्भावस्याधिष्ठानं यथा कविप्रतिभा तथा काव्यं तथैव मनुष्यचैतन्यम्, अस्मिन् वा चैतन्यं प्रतिष्ठितमित्यपि वक्तुं युज्यते। अस्मिंश्चालम्भावे विविधाश्चित्तवृत्तयो भवन्ति सङ्गुम्फिता:। नद्या इव प्रवाहा बहुस्रोतसो भवन्ति नानामुखाश्च चित्तवृत्तय:। उक्तमेव भगवता पतञ्जलिना नानावृत्तिवीचिचयोपेताया: चेतनानद्या: स्वरूपम्।
दशरूपककारेण तु चतुर्विधरसाश्रितं चातुर्विध्यमेतासां चित्तवृत्तीनां प्रत्यपादि। तथा हि-
स्वाद: काव्यार्थसम्भेदादात्मानन्दसमुद्भव:।
विकासविस्तरक्षोभविक्षेपै: चतुर्विध:।।
शृङ्गारवीरबीभत्सरौद्रेषु मनस: क्रमात्।
हास्याद्भुतयोत्कर्षकरुणानां तथैव हि।।
अतस्तज्जन्यता तेषामत एवावधारणम्।। (दशरू. ४। ४३-४५)
शङ्कुकश्चाह-
प्रतिभाति न सन्देहो न तत्त्वं न विपर्यय:।
धीरसावयमेवेति नासावेवायमेति च।।
विरुद्धबुद्धिसम्भेददविवेचितसम्प्लव:।
युक्त्या पर्यनुयुज्येत स्फु रन्ननुभव: कया।।
चेतनाया व्यापकीभवनमपि अलम्भावे भवत्येव। लौकिकवस्तूनां साक्षात्कारेऽपि चेतना व्यापकीभवति। तद्यथाऽऽह भास्करकण्ठ:- 'ग्रहणसमये भावस्य मायया भावत्वेन भासितं निजं सहजशुद्धप्रकाशाख्यं स्वरूपमेव प्रमातारं प्रति स्फुटीभवति यत:, तदा प्रमाता तद्वस्तु प्रति दिदृक्षासमये व्यापकीभवति। यदुक्तम्-
दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते।
तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते।।
व्यापकीभवनञ्च तद्वस्तु स्वात्मसात् करोति तन्मयीभावासादनं च वस्तुत: शुद्धप्रकाशरूपत्वासादनमेव, प्रमातु: शुद्धप्रकाशमात्ररूपत्वात्’। इति।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
द्वितीयेऽधिकरणे अलम्भावनिरूपणं नाम तृतीयोऽध्याय:।।