।। अथ अलङ्कारविभागनिरूपणं नाम चतुर्थोऽध्याय:।।
अलङ्कारा द्विविधा:-आभ्यन्तराश्च बाह्याश्च।। २। ४। १।। पर्याप्ति-वारण-भूषण-प्रक्रियाभि: आध्यात्मिकाधिदैविकाधिभौतिकभेदेन इमे पुनस्त्रिविधा:।। २। ४। २।। पुनश्च पदपदार्थवाक्य-प्रकरण-प्रबन्ध-गतत्वेन पञ्चविधा:।। २। ४। ३।। त्रिविधाश्च शब्द-व्यापारदृशा।। २। ४। ४।।
प्रथमं तावद् अलङ्कारो द्विविध:-आभ्यन्तरवर्ग-बाह्यवर्गगतत्वेन। येषु सत्सु काव्यं प्रजायते, यान् विना काव्यं न प्रसरेत् तेऽलङ्कारा आभ्यन्तरा:। इमे क्वचित् काव्यसंरचनायाम् अप्रकटीभूता अव्यक्तास्तिष्ठन्ति, क्वचित्तु प्रकटिता:। परन्तु सर्वत्र काव्यरचनायां कवेर्मानसे अन्तस्तिमिता भवन्ति, काव्येऽपि चान्तर्व्याप्तास्तिष्ठन्ति।
बाह्य इति कथनेन आभ्यन्तरवर्गापेक्षयैव बाह्यत्वम्, न तिलतण्डुलवत् काव्ये पृथक्करणीयता। तेन बाह्यलङ्काराणामपि काव्ये समवेतत्वमेव। आभ्यन्तरास्तु यथा अग्नौ उष्णता तथा काव्ये समवेता:। बाह्या अपि समवेता एव काव्ये, परन्तु सर्वत्र स्फुटा न भवन्ति, अग्नेरेव कान्तिमत्ता-ज्वालावच्छिन्नतादिवत्। तेन सर्वषामेवालङ्काराणमविभाज्यत्वम्, अपृथग्वर्तित्वं च। भवति चात्र श्लोक:-
पट इव चोतं प्रोतं सूत्रं सूत्रे यथा च वर्णास्ते।
एवं काव्ये चेमेऽलङ्कारा आन्तरा बाह्यश्च।।
अन्यथा विभाजनं निरूपयति-पर्याप्ति-वारण-भूषण-प्रक्रियाभिरिति। पर्याप्ताधायकत्वं वारणात्मकत्वं भूषणात्मकत्वं चालङ्कारत्वमिति प्राक् प्रतिपादितमेवञ तेन पर्याप्त्यामकत्वं भूषणात्मकत्वं चालङ्कारत्वमिति भूषणाधायकत्वाच्च त्रैविध्यमलङ्कारस्य। त्रिविधस्याप्यस्य आध्यात्मिकाधिदैविकाधिभौतिकभेदेन त्रैविध्यम्। आत्मनि इति अध्यात्मम्, तत्र भवा आध्यात्मिका:। इदमत्राकूतम्। कवे: संविदि अन्तरनुस्यूता: परिप्लुता वा अलङ्कारा आध्यात्मिका:। प्राय: सर्वेऽपि आभ्यन्तरा अलङ्कारा आध्यात्मिका एव। सङ्ग्रहश्चैतेषां परस्ताद् वक्ष्यते। काव्यसंरचनायां अनुभूयमाना अलङ्कारा आधिदैविका आधिभौतिका वा। तत्र पर्याप्त्याधायका अलङ्कारा प्राय आध्यात्मिका एव, वारणाजन्या आधिदैविका:, भूषणजनिताश्च आधिभौतिका:।
पदपदार्थदिगतत्वेन पुन: पञ्चविधत्वमाह-पद-पदार्थ-वाक्य-प्रकरण-प्रबन्धगतत्वेन पञ्चविधा इति। एतेषु आभ्यन्तरबाह्यलङ्कारेषु आध्यात्मिकाधिदैविकाधिभौतिकेषु वा केचन पद-पदार्थ-प्रकरण-प्रबन्धेषु यथायोगं समुल्लसन्त: पञ्चविधा:, केचन चतुर्विधास्त्रिविधा द्विविधा वा ज्ञेया:। विभागश्चैषां तत्तदलङ्कारप्रतिपादनावासरे प्रतिपादयिष्यते।
एवं च शब्दवृत्तिदृशा केचन अलङ्कारा वाच्यगता:, केचन लक्षणामूला:, केचन व्यञ्जनामूलाश्चेति त्रैविध्यम्।
रुद्रटेन तु वास्तवौपम्यातिशयश्लेषेति चतुर्षु वर्गेष्वलङ्कारा विभाजिता:। रुय्यकश्चालङ्कारसर्वस्वे सादृश्य-विशेषण-गम्यार्थता-विरोध-शृङ्खला-न्याय-गूढार्थ-विच्छितीति मूलानि अलङ्कारविभागस्य ऊरीकुरुते। सर्वमिदमकिञ्चित्करम्।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे द्वितीयेऽधिकरणे अलङ्कारविभागनिरूपणं नाम चतुर्थोऽध्याय:।।
।। अथ आभ्यन्तरालङ्कारनिरूपणं नाम पञ्चमोऽध्याय:।।
आभ्यन्तरा एकादश।। २। ५। १।।
आभ्यन्तरा अलङ्कारा एकादश सन्ति तद्यथा-
आभ्यन्तरा अलङ्कारा प्रेमाऽऽह्लादो विषादनम्।
विभीषिका तथा व्यङ्ग्यं कौतुकं च जिजीविषा।।
अहङ्कार: स्मृति साक्ष्यमुदात्तमिति ते स्मृता:।।
एते आभ्यन्तरा अलङ्कारा: समस्तेषु काव्येषु परिव्याप्ता:। एतेष्वेव रसानामन्तर्भाव:।
भोजराजस्तु सरस्वतीकण्ठाभरणे द्वादशरसानाह-
शृङ्गारवीरकरुणरौद्राद्भुतभयानका:।
बीभत्सहास्यप्रेयांस: शान्तोदात्तोद्धता रसा:।।
तत्र वक्ष्यमाणे प्रेमालङ्कारे शृङ्गारस्य प्रेयसश्च, विरोधे चोद्धतस्यान्तर्भाव:। उदात्तस्तु अस्माभिरूरीकृत एव। अन्येषामपि रसानामुक्तेष्वलङ्कारेष्वन्तर्भावो यथावसरं विचारयिष्ये।
प्राणिषु परस्परमहैतुकी संवेदना प्रेमा।। २। ५। २।।
प्राणिनो यत् परस्परमाकृष्टा भवन्ति, स्निह्यन्ते, रागात्मकेन सूत्रेण परस्परमनुस्यूता जायन्ते, परस्परस्य साहाय्यं विदधति तस्य सर्वस्य नापातत: कोऽपि हेतु:। न चैतस्य सर्वस्याकर्षणस्य स्नेहस्य अनुबन्धानां साहाय्यानां वा ते किमपि प्रतिदानं वाञ्छन्ति। पारस्परिको अयमेव भाव: प्रेमा। अयमेव चेश्वर:। अयं सर्वेषां जन्तूनां हृदि तिष्ठति। यदुक्तं गीतायाम्-
ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।।
अस्य च प्रेम्णोऽनिर्वाच्यत्वान्न न किमपि कारणं तर्काश्रितं वक्तुं शक्यते। तद्यथोक्तं भवभूतिना-
अहेतु: पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति।। इति।
यथा कवि: काव्यरचनया आपाततो न किमपि भौतिकं फलं वाञ्छति, न च भौतिकलाभाय कवयति, तथैव काव्याङ्कुराणामिव प्रेम्णोऽङ्कुराणामप्युद्गति:। इयमात्मविस्तृतेरात्माविष्कारस्यैव सहजा प्रक्रिया यत् परस्परेण प्रेमप्रवृत्तिर्नाम। यथा परमपुरुषविषये श्रुतय आहु:- सोऽकामयदेकोऽहं बहु स्याम, प्रजायेयेति, तद्वदियं प्रेमवृत्ति: एकस्य बहुलीभवनम्, आनन्त्यानुभवार्थं च भवति। इदं च प्रेम सर्वेषु जन्तुषु परिव्याप्तम्। काव्ये कलासु च रति-स्नेह-वात्सल्य-कृपाऽनुग्रह-श्रद्धा-भक्ति-मङ्गलाशंसा-सौहार्द्रादि-नानारूपेषु अस्य समुल्लासो भवति। वेदान्ते यद् ब्रह्म तदेव काव्ये कलासु च प्रेम। भवन्ति चात्र श्लोका:-
यानि सर्वाणि काव्यानि कला या विविधा: स्मृता:।
जगत: सर्वकार्याणि प्रेम्णि तानि श्रितानि वै।।
विकाराञ्छ्रयते नानाविधान् किलायमेव तान्।
स्थायिव्यभिचारित्वात् प्राचीनैरिह कीर्तितान्।।
कवि: प्रेमपरिस्पन्दप्रेरितो हि प्रवर्तते।
रचनायां तथैवासावास्वादे चैव भावक:।।
यदुक्तं भट्टनायकेन-यावत् पूर्णो न चैतेन तावन्नैव वमत्यमुम्। अयमेव प्रेमा काव्ये नानाविकारान् भावाँश्च श्रयते। विश्वेश्वर आह अलङ्कारकौस्तुभे-
उन्मज्जन्ति निमज्जन्ति प्रेम्ण्यखण्डरसत्वत:।
सर्वे रसाश्च भावाश्च तरङ्गा इव वारिधौ।। (अ.कौ., पृ. १४८)
न च केवलं कान्ताविषयकरतिस्थायी, शृङ्गाररस एवास्य प्रकर्ष इति शक्यते वक्तुम्। न च प्रेम्णो नानारूपेषु तारतम्यमिति वक्तुं युज्यते। न च प्रेम्ण इदं रूपं केवलं कान्ताविषयिणी रति:, इदं केवलं वात्सल्यम्, इदं केवलं सौहार्द्रमिति पृथक् पृथग् विभागोऽपि पारमार्थिक:। तद्यथाऽऽह कालिदासीयो नायक:-गृहिणी सचिव: सखी मिथ: प्रियशिष्या ललिते कलाविधाविति। यदि भेदोऽयं न पारमार्थिकस्तर्हि तदाधारेण व्यवस्थापितं तारतम्यमेकस्मिन् रूपे रसत्वं प्राप्ते महारस इति, अन्यस्य च केवलं भाव इति संज्ञाकरणमपि न परमार्थतयोचितम्। न च सर्वत्र संज्ञाकरणं व्यवहार्यं वा। तथा हि अथर्ववेदे पृथिवीसूक्ते उक्तम्-
यत् ते भूमे निखनामि क्षिप्रं तदपि रोहतु।
मा ते मर्म विमृग्वरि मा ते हृदयमर्पितम्।।
अत्र भूमे मातर्यदहं त्वयि खनामि तेन ते मर्मपीडा हृदयव्यथा न स्यादिति यो भाव: प्रकटीकृत:, स मातरं प्रति स्नेहो वा, चिन्ता सञ्चारीभावो वा धरिर्त्या: कणे कणे चैतन्यदर्शनं वा आत्मतत्त्वस्य अणुपरमाणौ अवलोकनं वेति इदमित्थन्तया परिभाषाभिर्बद्धुं न शक्यते। एतच्च प्रेम क्वचिदभिधया वाक्यमात्रेण प्रतिपाद्यमानमप्यलङ्कारतां याति। यथा भवभूते:-
अद्वैतं सुखदु:खयोरनुगुणं सर्वास्ववस्थासु यद्
विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रस:।
कालेनावरणात्ययात् परिणते यत्प्रेम सारे स्थितं
भद्रं प्रेम सुमानुषस्य कथमप्येकं हि तत् प्राप्यते।।
अलङ्कारान्तरसंसर्गै: प्रकर्षं याति प्रेमालङ्कार:। वक्ष्यमाणेष्वलङ्कारेषु क्वचिद्विषादनं, क्वचित् तानवं, क्वचिच्च द्वन्द्वं तस्य तीव्रतां समुत्तेजयन्ति। तथा हि गोवर्धनस्य आर्यायाम्-
द्वारे गुरव: कोणे शुक: सकाशे शिशुर्गृहे सख्य:।
कालासह क्षमस्व प्रिय प्रसीद प्रयातमह:।।
अत्र एकत: प्रियस्य सङ्केतेन कर्षिता अन्यत्र गुरुजनपुत्रशुकादीनामुपस्थित्या सङ्कोचं गमिता वधूस्तत्प्रियश्च द्वन्द्वं तानवं चानुभवत:, तेन प्रेम पुष्यते द्वन्द्वतानवाभ्याम्। न केवलं विप्रयोगे संयोगेऽपि प्रेमा भवति क्वचिद् विषादानुविद्धम्। यथा पुनस्तस्यैव-
दुर्गतगृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी।
मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति।।
अत्र प्रेम्णा विषादोऽनुविद्ध:।
अयं च प्रेमा बन्धदृशा त्रिविध:-वाक्यगत: प्रकरणगत: प्रबन्धगत: वाच्यो व्यङ्ग्यश्च। तत्र वाच्यस्तु पूर्वं भवभूतेरुक्तिषूदाहृत:। वाक्य-गतोऽप्युपरिष्टाद् गोवर्धनोक्त्यो:। प्रकरणगतो यथा अभिराजराजेन्द्रस्य शतपर्विकाकथायाम् पितुर्दुहितरं प्रति प्रेमोद्रेक:। प्रबन्धगतो यथा उत्तररामचरिते शाकुन्तलादौ वा। अस्मिन्नेव प्रेमालङ्कारेऽलङ्कारान्तरसंयोगो यथा-
अथ आह्लाद:-
आह्लादस्तु आनन्त्यानुभूति:।। २। ५। ३।।
अलम्भावाधानेन काव्ये आनन्तयस्य य: समुल्लास: कवेर्भावकस्य वा संविदि आनन्त्यानुभवं जनयति स आह्लादालङ्कार:। नेयमनुभूति: केवलं सुखात्मिका:, अपि तु सुखदु:खसम्भेदात् समुद्भवति। आनन्द-समुद्भवस्य आनन्ददायकस्य हास्यरसस्यास्मिन्नेव आह्लादेऽन्तर्भाव:। यथा-
विनिश्चेतुं शक्यो न सुखमिति वा दु:खमिति वा
प्रमोहो निद्रा वा किमु विषविसर्प: किमु मद:।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकार: कोऽप्यन्तर्जडयति च तापं च कुरुते।।
पूर्ववदस्यापि वाक्यप्रकरणप्रबन्धगतत्वमूह्यम्। प्रेमालङ्कारे ये ये अलङ्कारा: समन्विता भवन्ति तेऽत्रापि स्यु:।
इष्यमाणार्थानामसिद्धौ विरुद्धानां च सम्प्राप्तौ विषादनम्।। २। ५। ४।।
यथा वाल्मीकेर्निषादविद्धाण्डजविलोकनजो विषाद: काव्यपरिणतिमधत्त। जयदेवस्तु चन्द्रालोके-'इष्यमाणविरुद्धार्थसम्प्राप्ति’रित्येव लक्षणं विषादनस्याह। तदेव समर्थयन्ति जयदेवव्यतिरिक्तास्तत्परवर्तिन: अप्पयदीक्षित-पण्डितराज-चिरञ्जीव-भट्टदेवशङ्कर-विश्वेश्वर-श्रीकृ्रष्ण-ब्रह्म-तन्त्रा:। इमे षडेव आचार्या विषादनमलङ्कारं प्रतिपादयाम्बभूवु:। तत्पूर्ववर्तिषु न कोऽप्यस्यालङ्कारस्य नाम जग्राह। सर्वेऽपीमे सप्त आचार्या विषादनस्य इष्यमाणविरुद्धार्थसम्प्राप्तिरिति लक्षणं स्वीचक्रु:। इष्यमाणासिद्धिजनितो विरुद्धार्थप्राप्तिरिति स द्विविध:।
अस्य च पद-पदार्थ-वाक्य-प्रकरण-प्रबन्धगतत्वेन पञ्चविधत्वम्। तत्र क्वचिदेकेन पदेन विषादस्य विशिष्य प्रकाशनात् पदगतो विषादनालङ्कार:। तद्यथा मम 'शुष्कं सर’ इति काव्ये-
गतं शैवालं तत् परिहसितदर्भाङ्कुरचयं
अतन्द्रा चन्द्राभा तदनु विहता सा कुमुदिनी।
कथञ्चित् तिष्ठन् यो घृणितमलपङ्काकुलजले
परं दीनो मीन: क्व नु खलु सरेत् पक्षरहित:।।
एतच्च स्वनगरगतशुष्कसरोवरस्य वर्णने कविना उक्तम्, पक्षरहित इत्यत्र श्लेष:, अत एव यस्य सज्जनस्य पक्षपातवर्ती नास्ति कश्चन, स कुत्र यात्वित्यर्थेऽपि योजना शक्यसम्भवा, तेन च मनाक् स्फु टितायामप्यन्योक्तौ, प्राधान्यं वस्तुवर्णनस्यैवेति विषादनमेव। अत्र पक्षरहित इति पदं मीनस्य दुरवस्थां सविशेषमनुभावयति। पक्षशब्दस्य परिवृत्त्यसहत्वाद् विषादालङ्कारप्रकाशने प्राधान्यं पदस्यैव। वाक्यगतो यथा-
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पङ्कजश्री:।
इत्थं विचिन्तयति कोषगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार।।
इयं तावद् विडम्बनैव यद् भ्रमर: कमलान्तर्निरुद्धो न ततो बहिरायातुं समर्थ:। वास्तविके जगति न भवति भ्रमरस्तथाऽक्षमो यत्कमलपत्रसम्पुटाद् विनिर्गन्तुं न शक्नुयात्। अत एव समर्थस्यापि तस्य नियतिनिर्मितकाराया भेदने अक्षमता इति विडम्बना, अस्यामेव कवेर्विषाद:। कविर्हि लोके समापतितमिष्यमाणाप्राप्तिजनितं विरुद्धार्थनिष्पत्तिप्रसूतं वा विषादं पश्यति निरूपयति च काव्ये। अत एव लोकगतो विषादो यदा कवे: साक्षात्कारसिद्धो जायते तदा विषादनालङ्कार:। यथा अभिराजराजेन्द्रमिश्रस्य गजलकाव्येऽस्मिन्-
शृणोति कोऽपि न मे वाचिकं ददे कस्मै?
वृणोति कोऽपि न मे वाचिकं ददे कस्मै?
प्रकरणगतो यथा अजविलाप-रतिविलापादिप्रसङ्गेषु कालिदासकृतेषु। प्रबन्धव्यापी विषादो यथा रामायण एव। यदुक्तमानन्दवर्धनेन रामायणे हि करुणो रस: स्वयमादिकविना सूत्रित: 'शोक: श्लोकत्वमागत:’ इत्येवंवादिना। निर्व्यूढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव स्वप्नबन्मुपरचयते’ति चतुर्थोद्योते। यथा वा बोरिसपास्तरनाककृते डा. जिवागो इत्युपन्यासे।
एष विषादनं नामालङ्कार: शब्दवृत्तिगतत्वेन द्विविध:-वाच्यो व्यङ्ग्यश्च। तत्र वाच्यो यथा-
हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्ध:
शून्यं मन्ये जगदविरतज्ज्वालमन्तज्र्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
विष्वङ्मोह: स्थगति कथं मन्दभाग्य: करोमि।।
अत्र कविना रामस्य विषादोऽभिधया निवेदित इति वाच्यगतत्वम्। व्यङ्ग्यो यथा-
अयं स रशनोत्कर्षीं पीनस्तनविमर्दन:।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसन: कर:।।
अत्र प्रत्यभिज्ञा वाच्यगता विषादनं च व्यङ्ग्यम्।
अस्य च विषादनस्य भवन्ति तिस्रोऽवस्था सङ्गम-सम्प्लव-विषादोत्तरणाख्या:। तद्यथा-
सुखे विषादधाराया: सङ्गम: सम्प्लवस्तत:।
विषादोत्तरणं चैव तिस्रोऽवस्था विषादने।।
सुखावस्थायां विषादस्य मनागुद्भेद:, तदनन्तरं वारांनिधेरिव तदीयधाराया: पूरोत्पीड:, तस्याश्च अन्तत: उत्तरणमिति तिस्रोऽवस्था विषादनालङ्कारस्य भवन्ति। रघुवंशमहाकाव्ये एतासां सम्यक् प्रतिफलनाद् रघुकाव्यं तावद् विषादनालङ्कारस्यानुत्तममुदाहरणम्। प्रथमसर्ग एव दिलीपस्यानपत्यतादु:खनिरूपणे विषादस्य उद्भेदो भवति। ततश्च अजविलापे दशरथस्य दु:खाघातनिधने रामनिर्वासने सीतापरित्यागे च तस्य सम्प्लव:, अन्ततश्च अग्निवर्णस्य अवसाने पूरोत्पीत्पीड इवानुभूयते। राज्ञी राज्यं विधिवदशिषद् भर्तुरव्याहताज्ञा इति अन्तिमा पङ्क्तिरस्य महाकाव्यस्य। तयैव विषादोत्तरणम्। बाणभट्टस्य हर्षचरिते सरस्वत्या: शुभ्रहास्यच्छटा दुर्वाससो दारुणशापेन विषाददिग्धेति प्रथमावस्था। अनन्तरं बाणस्य अनाथ इव आहिण्डने, प्रभाकरवर्धनस्य असमयनिधनेन राज्यवर्धनस्य च घातेन विषादस्य विविधा धारा सङ्गत्य निर्मान्ति महदुत्पीडम्।
प्रबन्धे प्रकरणगतं विषादनं जिजीविषान्वितं यदि न भवति, तर्हि विषोपमं निरर्थकप्रलापमात्रं जायते तत्। यदि तु क्वचित् जिजीविषारहितमपि विषादनं भवति निरूपणीयं तदपि संक्षिप्तं प्रसङ्गान्तरैर्वा जिजीविषासहितं कृत्वा प्रबन्धे अवतारणीयम्। अतथात्वे दोष:। स च यथा-नागानन्दे मृतं जीमूतवाहनं मत्वा तत्पित्रोरतिकारुणिकोऽपि विलापो न चेतसि शिलष्यति, नैराश्योपहतत्वात्। तथैव वेणीसंहारे षष्ठाङ्के विपद्ग्रस्तौ भीमार्जुनौ मत्वा द्रौपदीयुधिष्ठिरयोश्चिताप्रवेशचेष्टा विलापाश्च अतितरामुद्वेजका एव। कुमारसम्भवेऽपि रतिविलापप्रसङ्गे पुन: पुनर्दीप्तिरिति रसदोषो मम्मटेनोद्घाटित:। भवति चात्र श्लोक:-
दैन्ये वाथ विलापे वा न काव्यमवसायेत्।
साहित्ये चैव मरणं न कदापीह काङ्क्षितम्।।
विषादने त्ववश्यं स्यादलङ्कारो जिजीविषा।
विभीषिका स्मृति: साक्ष्यमित्येतेऽपि च काङ्क्षिता:।।
अथ विभीषिका-
जुगुप्सान्वितं तदेव विभीषिका स्यात्।। २। ५। ५।।
तदेव विषादनं जुगुप्सयाऽन्वितं सद् विभीषिकालङ्कारं जनयति। अमाङ्गलिकस्य अशुचेर्वा परिजीर्षा अत्र व्यज्यते। बीभत्सभयानकरसावस्मिन्नन्तर्भवत:। भवन्ति चास्या विभाषिकाया मानसगता समाजगता युगगता चेत्यादयो बहवो भेदा:। कवेरेकस्या व्यक्तेर्वा मानसगता विभषिका यथा मम-
एते बुक्कन्ति सन्ध्यानां रत्याश्वानो हि सङ्गता:।
निर्मक्षिके निशीथेऽथ कुर्वते फेरवा रवान्।।
परात्यन्त्येव पापानि विहितानि पुरा क्वचित्।
समुत्कानि भवन्त्येव सङ्कुलानि तथान्तरा।।
दिनं पुरा व्यतीतं यच्छ्मशाने भूमिसात्कृतम्।
उत्तिष्ठति तथाऽकस्मात् स्वप्नच्छेदान्नरो यथा।।
अपावृत्य गवाक्षं मे मनसो झाङ्करोत्यथ।
उच्चै:कारं ब्रुवँश्चायमहं भो: समागत:।।
क्वचित्तु कवेरन्तर्जगति विद्यामानो विभीषिकाभावो बहिर्जगति जायमानेन अनर्थेन तुलामधिरोहति। तथा हि हर्षदेवमाधवस्य भूकम्पमिति काव्ये-
तत: पश्चात्/मम हृदयेऽपि/विवराणि सञ्जातानि/मम धैर्यशृङ्गाण्यपि/मृत्तिकागर्भे निमग्नानि/मम मनोऽपि/खण्डशो भूत्वा नष्टम्/मम संवेदनानदी/पातालं गता/मनोरथा ध्वंसावशेषतां प्राप्ता:/मम प्रणयोऽपि/अधुनातननिर्जीवमानवताभारततले/सञ्चलनरहितो जात:/पृथ्वी/स्वकम्पं प्रकटयितुं शक्तास्ति/किन्तु/मदस्तित्वतले यद् यद् भवति/तत् तत् कथम्....?
सा च विभीषिका द्विविधा-अशुचिदर्शनाज्जायमाना व्यक्तिगतानां समाजगतानां वा दुष्प्रवृत्तीनां दर्शनाज्जायमाना च। आद्याया उदाहरणं यथा-अभ्यक्तमिव स्नात: शुचिरशुचिमिवेत्यादि-कथनं शाकुन्तले शारद्वतस्य। द्वितीयाया उदाहरणं यथा-जनाकीर्णं मन्ये हुतवहपरीतं गृहमिवेत्यादि-कथनं शार्ङ्गरवस्य तत्रैव। अशुचिदर्शनाज्जायमाना जुगुप्सा पर्यावरणविनाशं प्रदूषणं वा विशिष्य विषयीकरोति। तद्यथा मम-
यानागमव्यतिकराकुलिताश्च मार्गा:
पित्रोलगन्धपरिपूरितदिङ्मुखास्ते।
धूम: प्रसर्पति च राजपथे पुरेऽस्मिन्
धूलिं बिभर्ति वसुधाऽसितडामराङ्का।। १७।।
धूमावृतानि वदनानि तथाध्वगानां
वायुं प्रदूषणयुतं निगिरन्ति भूय:।
धूल्याकुलानि विविधानि च वाहनानि
निष्पिष्य गाढमिह यान्ति वसन्तशोभाम्।। १८।।
रसध्वनिवादिनां मतेनेह बीभत्सो रस:। अत्र विषादनेन वक्ष्यमाण-विडम्बना-स्मृति-साक्ष्याद्यलङ्कारैश्च सम्भिन्ना प्रभविष्णुतां याति काव्ये। जिजीविषालङ्कारस्तु अत्र अवश्यमन्तर्गर्भ: स्यात्। रूपकान्तर्वर्त्यन्यापदेशमिश्रितेयं सविशेषं चमत्करोति। तद्यथा वेङ्कटरामराघवमहोदयानाम्-
कश्चिद्धंस इतीर्यते शुचिरुचिर्नालैकवृत्तिर्द्विजो
माकन्दाङ्कुरजातपञ्चमकल: पक्षी पिकाख्योऽपर:।
तादृक् कोऽपि न वीक्ष्यते खगवर: किन्त्वद्य सर्वं जगत्
प्रेतक्रव्यपतद्रटत्करटकैराप्लाव्यते केवलम्।।
इयं च विभीषिका समस्तं युगं समाजगतं जीवनं च विषयीकुर्वती व्याप्नोति समग्रं प्रबन्धकाव्यम्। समाजगता विभीषिका यथा उमाशङ्करशर्मत्रिपाठिन: 'अस्पृश्यान्तर्निवेदितम्’ इति काव्ये। तथा हि-
द्वारि क्षेत्रे विषमविपथे सक्षम: कर्मसक्तो
द्रागुद्दिष्टो निकृतिपरम: सेवमान: सवर्णान्।
स्मारं स्मारं स्वनियतिफलं व्यस्तकल्याणवर्त्मा
यद्यस्पृश्यो मरणमधिकं काङ्क्षते कोऽत्र दोष:?
युगगता विभीषिका यथा परमानन्दशास्त्रिणो जनविजयमहाकाव्ये आपातकालस्यातङ्कनिरूपणे। तथा हि-
सर्वत्र भीतहृदया मनुजा मनाङ् नो
उत्सेहिरे कथयितुं क्वचिदेकशब्दम्।
इष्टेषु मित्रसुजनेष्वपि संशयाना-
श्चारा यत: प्रतिपदं व्यचरन् हि तस्या:।।
देशो निलम्बितसमस्तजनाधिकार:
किं न प्रतीयत इव स्म विशालकारा।
कारा निलम्बितसमस्तजनाधिकारा
देशस्य किं नहि मता विहितानुकारा।।
अयं च विभीषिकालङ्कारस्तत्त्वदर्शने साक्ष्यालङ्कारे च परिणमति। विषादन-व्यङ्ग्यातिशयच्छायाश्चात्र अन्तर्निहिता भवन्त्येव। विषादनालङ्कार इव अलङ्कारान्तरसंयोग इह काम्य:।
विरूपणीकरणं व्यङ्ग्यम्। विडम्बना वा।। २। ५। ६।
व्यङ्ग्यं विकलाङ्गत्वं वा, आधिभौकिाधिदैविकाध्यात्मिकलोकेषु यद्यद् वैकल्पं तत्तदनेन निरूप्यते। विडम्बना अस्यैव व्यङ्गयालङ्कारस्य नामान्तरम्। भाण-प्रहसन-शिल्पकादिरूपकोपरूपकेषु व्यङ्ग्यालङ्कारोऽयं काष्ठामधिरोहति। यदा हास्यं विरूपीकरणाय प्रसक्तं, तदा हास्यरसोऽस्मिन्नेव व्यङ्ग्यालङ्कारेऽन्तर्भवति। तच्च द्विविधम्-आत्मस्थं परस्थं च। यदा स्वात्मना आत्मानमेव विडम्बयति तदा प्रथमम्, यदा तु परं विडम्बयति तदा द्वितीयम्। विदूषको नाटकेषु उभयविधमपि व्यङ्ग्यं प्रयुङ्क्ते।
अस्य च व्यङ्ग्यस्य शिल्पकनाम्नि उपरूपके प्रयोगो भरतमुने: शिष्यैरिदम्प्रथमतया विहित:। स च प्रयोग इत्थं भरतमुनिना वर्णित:-
कस्यचित्त्वथ कालस्य शिल्पकं ग्राम्यधर्मकम्।
ऋषीणां व्यङ्ग्यकरणं कुर्वद्भिर्गणसंश्रयम्।।
निष्ठुरं चाप्रस्तुतं च काव्यं संसदि योजितम्।।
अभिनवगुप्तस्तु विडम्बकम् इति पाठान्तरमत्र स्वीकुरुते, विडम्बकं गण्डसंश्रयमिति व्याचष्टे च। इत्थं विडम्बना व्यङ्ग्यमिह एकस्यैवालङ्कारस्य नामनी।
इयं च विडम्बना क्वचिच्छब्दोपात्ता, क्वचिच्च अर्थावसेया। तथैव वाक्यगता, प्रकरणगता, प्रबन्धगताऽपि। तत्र शब्दोपात्ता यथा भर्तृहरे:-
अभिमतमहामानग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फु टोज्ज्वलचन्द्रिका।
विपुलविलसल्लज्जाववल्लीविदारकुठारिका
जठरपि टरीदुष्पूरेयं करोति विडम्बनाम्।।
(शतकत्रयादिसुभाषित-सं. २०७, महासुभाषित-सं., भाग-२, २३०२)
इयं च विडम्बना व्यङ्ग्यगर्भा अन्यापदेशेन पुष्णाति कामपि कान्तिं काव्ये। तद्यथा जगन्नाथपाठकस्य-
जलमध्यगता महोर्मयो मम नावं तटभूमिमानयन्।
तटभूमिगता लघूर्मयो मम नावं शनकैर्न्यमज्जयन्।।
यथा वा अभिराजराजेन्द्रमिश्रस्य-
गृहदीप एव गृहं दहेद् भगवन् किमत्र विधीयताम्।
ननु मित्रमेव रिपुर्भवेद् भगवन् किमत्र विधीयताम्।।
अत्र ये दूरस्थास्तेभ्य: साहाय्यं, ये च नेदीयांसो विश्वस्तां वा तेभ्य एव प्रतारणा विश्वासघातश्चेति विडम्बना व्यज्यते।
इदं च व्यङ्ग्यं (विडम्बना वा) क्वचिदेकेनैव वाक्येन समस्तयुगगतां कालगतां वा विसदृशतामननुरूपतां वा विषयीकुर्वत् महावाक्यायते। यथा बच्चूलालावस्थिवर्याणाम्-
खरास्तारं विरेभन्ते न जाने कस्य लीलेयम्।
हया आकर्ण्य लज्जन्ते न जाने कस्य लीलेयम्।।
उत्प्रास: क्षोभ ईर्ष्या चेमे भावा अत्र सङ्गच्छन्ते। तथा हि शङ्करदेवावतारे इत्यस्य कवे:-
यस्यास्ते लोकनिन्दा प्रथितचरितता गुर्ववज्ञागुरुत्वं
धर्माख्यानोपहासो हृदयविपुलता स्वैरिता स्वाभिमान:।
औद्धत्यं वीरकृत्यं नियमगतिविधित्रोटनं नव्यदृष्टि:
आतङ्कश्चाधिकारो जगति विजयते सोऽधुना क्रान्तिकारी।।
सत्यान्वेषणं चास्य व्यङ्ग्यप्रयोजनम्। तद्यथाह अभिराजराजेन्द्रमिश्र:-
धृतं नेत्रयोर्हन्त कृष्णोपनेत्रम्।
दिनं दूष्यते तन्निरर्थं कथम्भो:।।
प्रकरणगता विडम्बना यथा वसन्तर्त्यम्बकशेवडेकविकृतं गर्दभाख्यानं लघुकाव्यम्। प्रबन्धगतव्यङ्ग्यस्योदाहरणानि सन्ति हरिभद्रसूरेर्धूर्तोपाख्यानं प्राकृतभाषायां विरचितम्, मम वा विक्रमचरितम् आख्यानम्।
अथ कौतुकम्-
कुतूहलं तु कौतुकम्।। २।५।७।।
रचनाप्रक्रियायां जगतो नाना भावान् कविरपि कौतुकान्वित: पश्यति, तदनु निरूपयति च तान्। अतश्च कौतुकं काव्ये प्रतिफलति अलङ्कारोति च काव्यम्। अद्भुतस्य रसस्य चास्मिन्नन्तर्भाव:। पूर्ववत् पद-पदार्थ-वाक्य-प्रकरण-प्रबन्धगतत्वेनास्यापि पञ्चविधत्वम्। तथैव वाच्यगतत्वेन व्यङ्ग्यगतत्वेन च द्वैविध्यम्। तत्र वाक्यस्थं वाच्यगतं व्यङ्ग्यं च यथा-
तनुते न विस्मयं किं राष्ट्रस्य राजधानी।
कुरुते न दुर्नयं किं राष्ट्रस्य राजधानी।
का वा कथा तिलानां सिकताचयादपीयम्
चुच्यति निकामतैलं राष्ट्रस्य राजधानी।।
अत्र पूवार्धे विस्मय-दुर्नयादीनां कण्ठत उक्तेर्वाच्यत्वम्, सिकताचयादपि तैलच्यावनशक्यतया असम्भवमपि कार्यं सम्पादयतीति व्यङ्ग्यत्वादुत्तरार्धे व्यङ्ग्यं कौतुकम्।
प्रकरणगतं यथा मम आल्प्सपर्वते मेघदूतमिति काव्ये-
एकश्चाल्प्स: स्थगयति मन: शृङ्गभङ्गै: स्वकीयै-
रुच्छ्रायैर्वोच्छ्वसितमपि यद् दृष्टमात्रो रुणद्धि।
वक्तव्यं तत् किमु यदि गिरावद्भुत: श्यामकम्र:
संवर्तोऽयं समजनि पुनर्मेघवृक्षाभ्रयोगात्।।
यथा दण्डिनो दशकुमारचरिते उपहारवर्मापहारवर्मार्थपालप्रभृतिकुमाराणां राजहंसेन समागमस्य तत्तद्वृत्तान्तेषु, राजवाहनेन किरातवेषधारिणे विप्रस्य दर्शने वृत्तान्ते च। यद्वा महाभारते लाक्षागृहप्रवेशादिविविधवृत्तेषु। प्रबन्धगतं च समग्रेऽपि दशकुमारचरिते एवमेव कथासरित्सागरे च व्यवस्थितमेव। समग्रस्य कथासाहित्यस्य प्राणभूतोऽयमलङ्कार:, यं विना न कापि कथा प्रसरति, प्रसृता वा अनवधेया अश्राव्या अपाठ्या वा भवति। एतस्मादेव कारणाद् विश्वनाथपितामहो नारायणोऽद्भुतमेव रसं यहारसमिति प्रतिष्ठापयति स्म। प्रेमाह्लादजिजीविषाभि: स्मृतिभिर्व्यतिकरितं कौतुकं सविशेषं रमयति काव्ये।
अथ जिजीविषा-
जीवनेच्छा जिजीविषा।। २।५।८।।
जीवनं तु प्राक् कीर्तितम्, एतेषां त्रयाणामाधिभौतिकाधिदैविकाध्यात्मिकलोकानां सकल: समुल्लास इति। एतत्समुल्लासमाधातुं या इच्छा सैव जिजीविषा। आशा चास्था च विश्वास इमे सह तरङ्गिता:। कवेरेव जिजीविषा स्वत: स्फूर्ता विविधभावभङ्गिमानं गाहते। प्राचीनै: प्रतिपादितस्य वीररसस्यास्मिन्नलङ्कार एवान्तर्भाव:। एषा जिजीविषा तेषु तेषु प्रसङ्गेषु यथा जीवने व्यक्ता भवति तथैव काव्ये। अस्याश्च पद-पदार्थ-वाक्य-प्रकरण-प्रबन्धगतत्वेन पञ्चविधत्वम्। पदगता यथा-अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकानित्यादि वनं यियासुं रामं प्रति सीताया: कथने मृद्रनन्तीत्याख्यातप्रयोगेण सविशेषं जिजीविषा द्योत्यते। वाक्यगता वाच्या यथा-
विनाशे बहवो दोषा जीवन् पश्यामि भद्रकम्।
कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम्।।
एति जीवन्तमानन्दो नरं वर्षशतादपि।।
इति रामायण एव हनूमत उक्तौ। अत्र आह्लादालङ्कारस्य पोषकत्वे सद्भाव:।
प्रकरणगता यथा-रामरावणयोर्युद्धे रामस्य निखिलं पराक्रमान्वितं चरितं जिजीविषां पुष्णाति यथा वा-रघुवंशादौ रघो: इन्द्रं प्रति गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवानित्यादि-कथनै: समं निरूपिते इन्द्रविहितयज्ञीयाश्वप्रत्यावर्तनाय विहितस्य च तदीयोद्यमस्य वर्णने।
समाजस्य राष्ट्रस्यापि भवति जीवनम्। अत्रैव विश्राम्यति स्वातन्त्र्यभावना देशस्य समाजस्य च मुक्तिकामनाऽपि। तस्य जीवनस्य धारणेच्छा काव्ये यदा उल्लसति तदा भवति जिजीविषालङ्कारस्य कश्चन शलाघ्य: समुन्मेष: काव्ये। यथा बटुकनाथखिस्तेवर्यस्य बाङ्ग्लादेशमुक्तिवाहिनीमुद्दिश्य-
स्वतन्त्रतानुरागरक्तमानसोच्छलद् रसै:
स्वर्णबङ्गभूमिमानरक्षणे दृढव्रतै:।
वसुव्ययैरसुव्ययैरपि प्रमत्तयौवनै-
र्नवाभिमन्युसैनिकै रराज मुक्तिवाहिनी।।
प्रबन्धगता जिजीविषा यथा किरातार्जुनीये सर्वत्र विजिगीषारूपेण अर्जुनस्य जिजीविषा प्रतिष्ठिता।
'अत: प्रकर्षाय विधिर्विधेय: प्रकर्षतन्त्रा हि रणे जयश्री:’ इति यद् भगवता व्यासेन सूत्रितं तदेव स्वचरित्रेऽवतारयति नायक:। तदेव च पुन: पुनर्विस्तारितम्-
मदसिक्तमुखैर्मृगाधिप: करिभिर्वर्तयते स्वयं हतै:।
लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यत:।।
ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मसां जन:।
अभिभूतिभयादसूनत: सुखमुज्झन्ति न धाम मानिन:।।
इत्यादिसंवादै:।
शब्दवृत्तिदशा द्विविधोऽयमलङ्कार:-वाच्यो व्यङ्ग्यश्च। तत्र वाक्यगता वाच्या यथा ममाद्यापितलहर्याम्-
एते भवन्ति पलिता अधिमस्तकं मे
केशास्तथापि विरता न जिजीविषेयम्।
अद्यापि दक्षिणकरस्य दृढो ग्रहो मे
यावल्लिखामि कलमेन च कम्पहीन:।।
व्यङ्ग्या यथा किरातार्जुनीये-
उन्मज्जनमकर इवामरापगायामावेगेन प्रतिमुखमेत्य बाणनद्या:।
गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमलोचनस्य वक्ष:।। (१७। ६३)
अत्र नि:शस्त्र किरातवेषधारिणा शिवेन युध्यन् सर्वथा श्रान्तोऽप्यर्जुनोऽपराहत एवेति जिजीविषाया पराकाष्ठा व्यज्यते।
अथ अहङ्कारालङ्कार:-
आत्मनोऽनुभवस्त्वहङ्कार:।। २।५।९।।
आत्मा वै ज्ञातव्य: श्रोतव्यो मन्तव्य इति समामनन्ति श्रुतय:। आत्मस्थ एव योगी समाधो तत्त्वं पश्यति। आत्मस्थ एव रचनाकार: कवयति। या वाक् रचनाया मूलं साऽपि आत्मनि स्थिता इत्थं विभावयति आत्मनो रूपम्-
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभि:।
यं कामये तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्।।
आत्मनि स्थित: कवि: प्रजापतिरिव भवति। स च उदात्तोद्धतप्रौढविनेतेति चतुर्धा। सर्वेषामेव अहङ्कारोऽभिव्यक्तिमुपयाति काव्ये क्वचिद् वाच्यत्वेन, क्वचिद् व्यङ्ग्यत्वेन, क्वचित् प्रत्यक्ष:, क्वचिच्च परोक्ष:। य: खलु परोक्षोऽहङ्कार: स तु समग्र एव प्रबन्धे महाकाव्यादौ भवति निगूढ:, ऋते तं न काव्यं प्रसरेत्। कविरेव नानापात्रेषु आत्मानं सङ्क्रामयति। अयमेव परोक्षोऽहङ्कार:। स एव काम्य:। क्वचिद् वाच्य: प्रत्यक्षोऽपि वा शोभते। स च उदात्तस्य कवेर्यथा-
प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तु पुरुषबहुमानात्।
शृणुत मनोभिरवाहितैः क्रियामिमां कालिदासस्य।।
उद्धतस्य यथा पण्डितराजस्य-
गिरां देवी वीणा गुणरणनहीनादरकरा
यदीयानां वाचमम़ृतमयमाचामति रसम्।
वचस्तस्याकर्ण्य श्रवणसुभग: पण्डितपते
रधुन्वानो मूर्धानं नृपशुरथवाऽयं पशुपति:।।
प्रौढस्य यथा-
मन्द: कवियश: प्रार्थी गमिष्याम्युपहास्यताम्।
प्रांशुलभ्ये फ ले लोभादुद्बाहुरिव वामन:।।
अत्र न वस्तुत: कालिदास आत्मानं वामनं मनुते, न वा स्वस्य कृते वामनमुपमानं मानयति। यद्यहं मन्द: स्याम्, तदा तु उपहासास्पदमेव स्यामिति विमर्शस्तस्यात्र अभिव्यक्तिं गत:। अत: प्रौढस्य कवेरयमहङ्कार:। आत्मानुभूतिरेव काव्यमिति पाश्चात्त्या:। यद् यद् आत्मानुभूतिरिति ते उदाहरन्ति तत्तद् वस्तुतोऽहम्भावस्याभिव्यक्ति:। रौद्ररसस्यास्मिन्नन्तर्भाव:। अहम्भावोऽपि द्विविध:-आत्मस्थ: परस्थश्च। परस्थो नायकादौ। आत्मस्थस्तु कविगत:। स यथा-
वयांसि मम सप्ततेरुपरि नैव भोगे स्पृहा।
न किञ्चिदहमर्थये शिवपदं दिदृक्षे परम्।।
इत्यप्पयदीक्षितपादा: सिद्धान्तलेशसङ्ग्रह आहुरिति चित्रमीमांसाया हिन्दीभाषानुवादकस्य तथैव वृत्तिवार्तिकोपोद्घाते वायुनन्दनपाण्डेयस्य च मतम्। नायकगत: परस्थो यथा-
अहो अहो नमो मह्यं यदहं वीक्षितोऽनया।
मुग्धया मत्तसारङ्गचपलायतनेत्रया।।
अत्र नायिकादर्शनेन नायकस्य अहम्पूर्विका प्रतीति:।
अहङ्कारलङ्कारश्चायं प्रायो वक्ष्यमाणसाक्ष्यालङ्कारसङ्करेण काव्ये समायाति। यदा कवे: स्वयं तेनोम्भितं पात्रं वा आत्मना आत्मानमेव अवेक्षमाण: स्वगतोक्तिं विधत्ते, तदा तु साक्ष्यालङ्कार एव। तथा हि-
दृष्ट: स जगन्नाथो मध्ये प्रवाहपतितानाम्।
स्यात् स्वयमेव गतोऽपि स्यादथवा केनचिन्नीत:।।
अत्र कविर्जगन्नाथपाठक: आत्मानमात्मना अपोद्धृत्य एवं जना मां प्रति व्यवहरन्तीति पश्यति। तथैव भर्तृहरेरुक्तौ-
त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नता:
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति न:।
इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो नि:स्पृहा:।। (वै. श. २४)
न वा एकाकितामयं पुष्णाति। स्वीयेऽहङ्कारे एकाकी सन्नपि विराड्विश्वेन आत्मानं योजयति कवि:। तथा हि-
भ्रमत्कु लालचक्रेऽपि स्वैरं याति पिपीलिका।
तथा समाजयात्रायां सङ्गतोऽसि पृथक् चलन्।।
अयमलङ्कारो वाच्य एव शोभते। व्यङ्ग्योऽपि यथा- मालविकाग्निमित्रे पुराणमित्येव न साधु सर्वमिति कथयता कालिदासेन गुप्ताहङ्कारभणित्यौदात्त्येन प्रकटीकृत: स्वमहिमा। सत्यामप्यतिशयोक्तौ आत्मन एव आकलनमात्मपरीक्षणं च विशिष्य अस्मिन्नलङ्कारे कविना कविनिबद्धेन वा पात्रेण विधीयते। तेन उदात्तोक्ति:, दर्पोक्ति:, विनयोक्तिरित्यादयो भेदा ऊह्या:। दिङ्मात्रमुदाह्रियते-
दसोऽस्मि वाण्या: सुरवाग्विकासो
भासोऽस्मि नाट्ये च कलाविलास:।
काव्येऽस्मि रम्ये किल कालिदासो
व्यासोऽस्मि नव्यश्च नव: समास:।।
धन्योऽस्मि सृष्टे: किल सर्वनिष्ठं
प्रेष्ठं वरिष्ठं च वहामि तत्त्वम्।
यद्यप्यतीवास्मि लघिष्ठ एव
प्रेष्ठो जनानां भवितुं समीहे।।
प्रबन्धगतोऽहङ्कारालङ्कार आत्मकथासु उत्कर्षं लभते, उदाहरणानि यथा विंस्टनचर्चिलस्य जवाहरलालनेहरोर्वाऽऽत्मकथे अथ आङ्ग्लभाषायाम्। एतच्च आत्मकथाविमर्शे पुनर्निरूपयिष्याम:। साक्ष्यालङ्कारे क्वचिदुदात्तालङ्कारे चायमहङ्कार: परिणमति।
अथ स्मरणालङ्कार:-
पूर्वानुभूतस्य पुनरुन्मीलनं स्मृति:।। २।५।१०।।
पुनरुन्मीलनान्नवत्वम्। तच्च प्रत्यक्षमेवानुभूतं स्यादिति नावश्यकम्। यत् शास्त्रेषु इतिहासे अन्यत्र पठितं यच्च आप्तेभ्य: श्रुतं तस्य स्मृतिर्यदा काव्येऽभिव्यक्तिमुपगच्छति तदापि स्मृतिरलङ्कार:। तद्यथा शाकुन्तले-
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्
पर्यत्सुकीभवति यत् सुखितोऽपि जन्तु:।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि।।
घटनाविशेषस्मृति:, इतिहासस्मृति:, युगस्मृतिरिति भवन्ति अस्यालङ्कारस्य नानाभेदा:। तथैव पद-वाक्य-प्रकरण-प्रबन्धगता अपि भेदा:। पदगता यथा-
अयं स रशनोत्कर्षो पीनस्तनविमर्दन:।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसन: कर:।।
अत्र अयं स इति सर्वनामभ्यां प्रत्यभिज्ञाप्रत्ययेन सविशेषमुद्घाट्यते स्मृतिरिति पदगतत्वमिह तस्या मुख्यत:। अत्र शृङ्गारो रस इति मम्मटमतं वितथमेव, स्मृतिसहचरितस्य प्रत्यभिज्ञालङ्कारस्यैवात्र प्राधान्यात्। वाक्यगता यथा अभिराजराजेन्द्रमिश्रस्य-
पल्वलविहारलीलानिरता नु सा विहङ्गी।
सा त्वं गृहाङ्गणे मे कथमद्य विस्मरेयम्?
स्वकुलायलीनवयसां चुङ्कृतिरहो स्फु टा सा।
वार्तारसो मिथोऽसौ कथमद्य विस्मरेयम्?
प्रकरणगता यथा मम-
गोष्ठ्यां मया स्वविषये प्रतिपाद्यमाने
वाचां प्रवाह इव मे सतृणं पिबन्ती।
नेत्रेण शब्दसरितं खलु वाहयन्ती
सस्मेरसस्मितमुखी स्फुरिताधरोष्ठी।।
अद्यापि मे स्मृतिमुपैति यदा कदाचित्
काचित् क्वचित् कतिपयानि दिनानि दृष्टा।
क्षीणं ममायुरनिशं परिहीयमानं
वर्षैस्तथा द्विचतुरै: परिवर्धयन्ती।।
प्रबन्धगता यथा शाकुन्तले। तत्र कतम: प्रयोगो भवत्विति विस्मृतवन्तं सूत्रधारं शाकुन्तलमभिनेयमिति नटी स्मारयति। अप्येनं विस्मृतासीति पृच्छन्तीं प्रियंवदां शकुन्तला वदति-तदात्मानमपि विस्मरिष्यामीति। दुष्यन्तस्य स्मरन्ती शकुन्तला वदति-तदात्मानमपि विस्मरिष्यामीति। दुष्यन्तस्य स्मरन्ती शकुन्तला अतिथिसत्कारं विस्मरति। विस्मरति च तां दुष्यन्त:, स्मारयति च सा तं पुन: पुन:। प्रत्यागतायां शकुन्तलास्मृतौ समग्रमपि षष्ठाङ्कं नायिकास्मृतिभिर्व्याप्तम्। यथा वा उत्तरचरिते आप्रथामाङ्कादाचरमाङ्काच्च स्मृत्यलङ्कार: किमपि वैशिष्ट्यं नाट्यसंरचनायामादधाति। प्रथमाङ्क एव चित्रदर्शनप्रसङ्गेन स्मृतीनां वातायनानि बहूनि उद्घाट्यन्ते। स्वकीयस्य पाणिग्रहण चित्रं दर्शं दर्शं मुदितो रामो ब्रवीति-समय: स वर्तत इव यदा गोतमार्पित: आगृहीतकमनीयकङ्कणस्तव मूर्तिमान् महोत्सव इव करो मां समनन्दयदिति। स्मरति वा तस्य समयस्यार्यपुत्र इति सीतया पृष्ट: पुनरसावादीत्-स्मरामि, हन्त स्मरामि, जीवत्सु तातपादेषु नूतने दारसङ्ग्रहे, मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गता इति।
इयमपि तदा जानकीत्युपोद्घातेन इयं वर्तमाना तदानीं कीदृशी आस इति स्मृतिततय उद्घाट्यन्ते। स्मरसि वा तं प्रदेशमार्यपुत्र इति पृष्ट: पुनरसौ-अयि कथं विस्मर्यते, परिमृदितमृणालीम्लानमङ्गानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्तेति। पुनश्च यत्र रात्रिरेवमेवं व्यरंसीदिति, दिष्ट्या सोऽयं महाबाहुरञ्जनासूनुरिति परापतन्ति भूयस्य: स्मृतय:। द्वितीयाङ्के आत्रेयी कुशलवयो: स्मृतिभि: सम्प्लुतमानसा यथा, तथैव वनदेवता वासन्ती सीताया: सहनिवासस्मृतिभि:। अथ रामे समायाते तत्रैव शम्बूकस्तस्मै तत्तत्प्रदेशान् दर्शयन् पुनरुद्घाटयति सुप्ता: स्मृतितती:। तृतीयाङ्केऽपि पञ्चवट्या दण्डकारण्यस्य तांस्तान् प्रदेशान् दर्शं दर्शं रामो सीतां स्मरति। स्मरति गिरिमयूर एष देव्या:, सुतमिव मनसा त्वां वत्सलेन स्मरामि इत्यादिकथनै: पशुपक्षिणामपि तत्र स्मृतिसंवलितत्वं प्रजायते। चतुर्थाङ्के जनक: शिशो: सीताया: स्मरति वदनकमलकं शिशो: स्मरामि कतिपयकोमलदन्तकुड्मलाग्रमिति निगदन्। षष्ठाङ्के राम: कुशलवौ दृष्ट्वा स्वजवीनगतविपर्यासं स्मरति।
पुनश्च-
प्रियागुणसहस्राणामेकोन्मीलनपेशल:।
य एव दुस्सह: कालस्तमेव स्मारिता वयम्।।
पद-वाक्य-प्रकरणगता: स्मृतय इह सहैव सञ्चरन्ति। एवमेव हर्षचरिते कादम्बर्यां बोरिसपास्तरनाकविरचित उपन्यासे डा. जिवागो इति संज्ञप्ते सर्वेषु महत्सु प्रबन्धेषु स्मृतिलङ्कारत्वेन विरचयति पूरोत्पीडं भावनानाम्।
इत्थं च काव्येषु स्मृत्यलङ्कार: प्रत्यक्षं परोक्षं वाऽनुविद्धो समस्तानामनुभवानां जनयिता जायते। तत्र क्वचित् तन्मयीभवनं चेतनाया व्यापकीभवनं च भवति। यथा मालतीमाधवे नायकस्य मालत्या: स्मरणम्-
मम हि सम्प्रति सातिशयो प्राक्तनोपालम्भसम्भावितात्मजन्मन: संस्कारस्यानवरतप्रबोधात् प्रतायमानस्तद्विसदृशप्रत्ययान्तरैरतिरस्कृतप्रवाह: प्रियतमास्मृतिप्रत्ययोत्पत्तिसन्तानस्तन्मयमिव करोत्यान्तर्वृत्तिसारूप्यतश्चैतन्यम्।।
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च
प्रसुप्तेव च वर्जलेपघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुव: पञ्चभि
श्चिन्तासन्ततितन्तुजालनिविडस्यूतेव लग्ना प्रिया।।
वक्ष्यमाण: साक्ष्यालङ्कारो स्मृतौ भवत: सर्वदैव पिनद्ध:, सर्वस्या: स्मृते: साक्ष्यरूपत्वात्। साक्ष्यमिव जिजीविषया उदात्तेनापि स्मृत्यलङ्करणेन सहावश्यं भाव्यम्। प्रेमा, आह्लादो, विषादनं, विभीषिका, कौतुकमहङ्कारश्चेमं स्मृतिमलङ्कारं सविशेषं पुष्णन्ति। इयं उपमाद्यलङ्कारसंसृष्टा विस्मृतिनिषेधप्रवर्तिता वा समधिकं पुष्णात्यभिख्यां काव्ये। एतेन 'सादृश्यं विना तु स्मृतिर्नायमलङ्कार:’ इति यदुक्तं रुय्यकेन तदपास्तम्। यत्र यत्र अलम्भावमापादयति स्मृतिर्नाम भावस्तत्र तत्रासावलङ्कार:। काव्येऽलङ्कारत्वेनाधिभौतिकम् आधिदैविकम् आध्यात्मिकं च त्रिविधं जगत् परामृशति। भवन्ति चात्र
श्लोका:-
अलङ्कार: प्रकृष्ट: स्यात् प्रबन्धव्यापिनी स्मृति:।
न काव्यरचना नापि काव्यास्वाद: स्मृतिं विना।।
स्मृतिहीना विनश्यन्ते देशा जनपदास्तथा।
पतन्त्यनुद्धृता गर्ते स्मृतिहीनाश्च जातय:।।
नटीव तनुते लास्यं मनसो रङ्गमञ्चके।
लासयन्ती च पात्राणि नाट्ये काव्ये तथा स्मृति:।।
अथ साक्ष्यम्-
जीवनस्य दर्शनं साक्ष्यम्।। २।५।११।।
जीवनं प्राङ् निरूपितमेतेषां त्रयाणामाधिभौतिकाधिदैविकाध्यात्मिकलोकानां समं समुल्लासो जीवनमिति। तस्य दर्शनं साक्ष्यम्। तेन कवे: ऋषित्वम्। यथोक्तं तौतेन-'नानृषि: कविरित्युक्त ऋषिश्च किल दर्शनात्’। इदं च दर्शनं सर्वविधकाव्येषु सामान्यमेव। परन्तु यत्र साक्षात्कारप्रक्रिया प्राधान्यं भजते, तत्र साक्ष्यमलङ्कार:। पुरातनैरयमलङ्कारो भाविकनाम्ना वर्णित:। भावश्च साक्षात्कार एव। तन्निष्पत्ते: साक्ष्यं भाविकमिति वा कथ्यते।
भामहमतेन भाविकं नाम प्रबन्धविषयो गुण:। वर्णनीयस्यार्थस्य चित्रता, उदात्तता, विस्मयावहता, कथाया नाट्यायमानता, शब्दानामनाकुलता चेति त्रयोऽस्य भाविकस्य हेतव:।
भाविकमिति प्राहु: प्रबन्धविषयं गुणम्।
प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविन:।।
चित्रोदात्ताद्भुतार्थत्वं कथाया: स्वभिनीतता।
शब्दानाकुलता चेति तस्य हेतुं प्रचक्षते।। (काव्यालङ्कारे - ३। ५३-५४)
तद् भाविकमिति प्राहु: प्रबन्धविषयं गुणम्।
भाव: कवेरभिप्राय: काव्येष्वासिद्धिसंस्थित:।।
परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम्।
विशेषणानां व्यर्थानामक्रिया स्थानवर्णना।।
व्यक्तिरुक्तिक्रमबलाद् गम्भीरस्यापि वस्तुन:।
भावायत्तमिदं सर्वमिति तद् भाविकं विदु:।। (काव्यादर्शे - २। ३६४-६५)
रुय्यकस्तु- न केवलं कवेरपि तु सहृदयस्यापि अतीताऽनागतानां प्रसङ्गानां हस्तामलकवत् साक्षात्कारं भाविके अपेक्षितं मनुते। युक्तमुक्तवान् कुवलयानन्दव्याख्यायाम् आशाधरभट्ट:-भावाय साक्षात्काराय प्रभवतीति भाविकम्। भाविकालङ्काररचनायां कविरीश्वरभावेऽवस्थितो रचयतीति युक्तमुक्तवान् विमर्शिन्यां जयरथ:।
रुय्यकेन द्विविध उक्त: संवाद:-वस्तुसंवादो हृदयसंवादश्च। साक्ष्यालङ्कारे वस्तुसंवाद: स्यात्, न हृदयसंवाद:। वक्ष्यमाणजात्यलङ्कारेण स्वभावोक्त्या वा अस्यालङ्कारस्याऽयमेव विशेष:। जात्यलङ्कारे वस्तुनिरूपणं भवति, न वस्तुसंवाद:। प्रत्यक्षायमाणत्वमुभयो: साधारणम्। स्वभावोक्तौ जातौ वा लोकप्रसिद्धस्य लोकानुभूतस्य च वस्तुन: स्फु टत्वम्, अतश्च आधिभौतिकजगत: प्राधान्यम्, एककालिकता च। साक्ष्यालङ्कारे तु अननुभूतानाम्, अतीतानामनागतानामपि भावानां प्रत्यक्षायमाणता, तेन चास्य त्रैकालिकता।
पाश्चात्त्यैर्यद् बिम्बविधानमित्युच्यते, तस्याऽतिशयेन जात्या वा व्यतिकरिते अस्मिन् साक्ष्यालङ्कारेऽन्तर्भाव:। एतच्च अतिशयालङ्कारविचारे विस्तरेण प्रतिपादयिष्याम:।
भाविकालङ्कारे अतीतानामनागतानां पदार्थानां भावा: प्रत्यक्षवद् बिम्बिता भवन्तीति युक्तमाह श्रीविद्याचक्रवर्ती (अलङ्कारसर्वस्वनिष्कृष्टार्थकारिका, ११७)।
प्रेमाद्यलङ्कारेषु, आन्दवर्धनाभिनवगुप्तादिप्रोक्ते रसध्वनौ वा तन्मयीभवनं, हृदयसंवादश्च जायते। भाविकालङ्कारे साक्ष्यालङ्कारे वा कविगता अभिप्राया: सहृदयसंविदि विश्राम्यन्तोऽपि ताटस्थ्येन विलोक्यन्ते इत्यनयोर्विशेष:।
साक्ष्यालङ्कारोऽयं वाक्यगत: प्रकरणगत: प्रबन्धगतश्च सविशेषं भासते। प्राय: सर्वत्र स्मृत्यलङ्कारस्तत्र पिनद्धो भवतीति प्राक् प्रतिपादितमेव। तत्र वाक्यगतो यथा भासस्य स्वप्नवासवदत्ते-
बहुशोऽप्युपदेशेषु यया मामीक्षमाणया।
हस्तेन स्रस्तकोणेन कृतमाकाशवादितम्।।
अत्र नायक उदयनो नायिकायाश्छविं प्रत्यक्षमिव समक्षं पश्यन् तत्कृतस्य आकाशवादितस्य साक्ष्यं प्रस्तौति। प्रकरणगतो यथा क्षमारावराजेन्द्रमिश्रादीनां कथासु। प्रबन्धगतस्तु रामायण-महाभारत-रघुवंशादिषु सर्वत्र अनुस्यूत:, साक्ष्यालङ्कारादेव महीयन्त एतादृशा: प्रबन्धा:। भवताश्चात्र श्लोकौ-
साक्ष्यालङ्कृतिना वस्तु कवे: सहृदयस्य च।
मानसे प्रस्फु रद् रूपं प्रत्यक्षं च विभाव्यते।।
विश्रान्तिर्वस्तुसंवादे भवत्यस्यामलङ्कृतौ।
तन्मयीभवनं चैव स्वत एव निवार्यते।।
अथोदात्तम्-
जीवनस्य भव्यताया गरिम्ण उल्लास उदात्तम्।। २ । ५।। १२।
आधिभौतिकाधिदैविकाध्यात्मिकलोकानां सकलसमुल्लासभूतस्य जीवनस्य भव्यताया गरिम्णो याऽभिव्यक्ति: सैवोदात्तम्। तेन सामान्यतया प्रतीयमानेषु पदार्थेषु व्यक्तिषु अपि कविरुदात्तत्वं साक्षात्करोति। यथा ममैव-
निर्द्वारं निरलिन्दमेव निभृतं निर्भित्ति निष्प्रस्तरं
गेहान् संरचयन्ति चापि सुदृढानीशा निरीहा अपि।
आकाशस्य छदिं दिशामतिदृढा भित्तीश्च वायो: पटं।
कृत्वा कुट्टिममत्र चैव धरणे: केचित् सुखं शेरते।।
जडपदार्थानामपि औदात्त्यं यद्वर्ण्यते तत्तु मानवीयस्य श्रमस्य महिमानं स्थापयितुमेव, तत्राप्युदात्तमलङ्कार:। यथा पुनर्ममैव 'माण्डवम्’ इति काव्ये-
द्यामन्नुं स्थित इव बभौ प्रोन्नतस्तस्य कीर्तिं
राजर्षेस्ताममलधवलां मुञ्जराजानुपूर्व्या।
सौधोच्छ्रायै: स्फ टिकधवलैर्भ्राजमान: समन्तात्
प्रत्यादेश: परबलततेर्माण्डवीयस्तु दुर्ग:।।
वाक्यगतो यथा अभिराजराजेन्द्रमिश्रस्य-
निपीयाम्बु सद्यस्तृषा मेऽपयाता।
सुरापायिनस्ते निपाता निपाता:।।
घनीभूय तारापथेऽस्मि प्ररूढ:।
अधोगामिनस्ते प्रपाता: प्रपाता:।।
मम स्थैर्यभावेषु निष्कम्पदीपा:।
तवोत्कम्पनेषु प्रवाता: प्रवाता:।।
यथा ममैव-
सृष्टेरत्र महायज्ञ आत्माध्वर्यु: प्रकल्पित:।
काव्यं तत्र हविर्भूतं तेन वै जीवनं हुतम्।।
उदात्तालङ्कारोऽयं प्रकरणे प्रबन्धे च सविशेषं भ्राजते। तत्र चरित्रविशेषगत: प्रकरणविशेषगतो वेति द्वौ विशेषौ। चरित्रविशेषगतो यथा-रामोऽसौ भुवनेषु विक्रमगुणै: प्राप्त: प्रसिद्धिं परामित्यादिकथनेषु। यथा वा शूद्रकस्य मृच्छकटिके दर्दुरकस्य गरिमामयचरित्रनिरूपणे-
दुर्वर्णोऽसि विनष्टोऽसि दशस्वर्णस्य कारणात्।
पञ्चेन्द्रियसमायुक्तो नरो व्यापद्यते त्वया।। (२। १३५)
प्रकरणगतो यथा रघुवंशे दिलीपस्य गोसेवादिप्रसङ्गे। यथा वा वसन्तसेनाया: शर्विलकं प्रत्यनुरक्तां स्वदासीं विज्ञाय दास्यान्मोचयित्वा तत्प्रियाय समर्पणे। प्रबन्धगतमुदात्तं तु सर्वेष्वेव महावाक्यायमानेषु प्रबन्धेषु उल्लसति। तद्यथा वाल्मीकिरामायणे, तत्र वाक्योपन्यासचरित्र-प्रकरणादिभिराद्यन्तमुदात्तस्य निर्वाह: कृत:।
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति।
लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा।।
न वनं गन्तुकामस्य त्यजतश्च वसुन्धाराम्।
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया।।
इत्यादिभि: कथनै:।
वस्तुतो महात्मनां चरितस्य प्रस्तुति: स्वत एवोदात्तं साधयति। यदुक्तमुद्भटेन-
उदात्तमृद्धिमद्वस्तु चरितं च महात्मनाम्।
उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम्।। (काव्यालङ्कारसङ्ग्रहे - ४। ५४)
जीवनचरितेषु महतां महापुरुषाणां वा यच्चरित्रं तदुदात्तस्यैव निदर्शनम्। तच्चारिर्त्यनिरूपणे समग्रमपि प्रबन्धं परिव्याप्नोत्युदात्तम्। एतादृशप्रबन्धपरिव्यापिन उदात्तस्य उदाहरणं यथा क्षमादेव्या: सत्याग्रहगीता। प्राचीनप्रबन्धेषु रघुवंश: किरातार्जुनीयं शिशुपालवधं वा। शिशुपालवधे माघेन उदात्तनायकस्य चरितं शब्दशो यदुक्तम्-
आरम्भन्तेऽल्पमेवाज्ञा: कामं व्यग्रा भवन्ति च।
महारम्भा: कृतधियस्तिष्ठन्ति च निराकुला:।।
इति, तद् भगवत: श्रीकृष्णस्य उदात्तचरितं चित्रीकुर्वता निदर्शितमेव। प्रत्युदाहरणं यथा हर्षस्य नैषधचरितम्। तत्र नायक: प्रथमाङ्क एव चाञ्चल्योपहतो हंसं जिघृक्षति, विहाय देवदौत्यं न किमपि शलाघ्यं महनीयं महात्मचरितानुरूपं वा आचरति।
उदात्तालङ्कारोऽयं जात्युपमाद्यलङ्कारसम्भिन्न: समधिकतरं प्रकर्षं प्रापयति कविताम्। तथा हि कालिदासविहिते समाधिस्थस्य शङ्करस्य एतस्मिन् चित्रणे-
पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं सन्नमितोभयांसम्।
उत्तानपाणिद्वयसन्निवेशात् प्रफु ल्लराजीवमिवाङ्कमध्ये।।
अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम्।
अन्तश्चराणां मरुतां निरोधान्निवातनिष्कम्पमिव प्रदीपम्।।
अत्र महायोगिनो सहजं स्वाभाविकं यत् स्वरूपं तन्निरूपितं तेन च जाति:। 'प्रफु ल्लराजीवमिवाङ्कमध्य’ इत्युपमया सा जाति: परिपोषं याति, ततश्च जात्युपमे उभे मिलित्वा उदात्तम् उत्कर्षयत:, उदात्तं च उभे प्रगुणयति। द्वितीये पद्येऽपि मालोपमा एवमेव उदात्तस्य पोषयित्री, उदात्तेन चानुप्राणिता। लोञ्जाइनसप्रतिपादितमुदात्ततत्त्वमस्मिन्नन्त-र्भवति, तथैव धीरोदात्तनायकसम्बद्धो धर्म-दान-दया-युद्धैति चतुर्धा विभाजितो वीरो रसोऽपि। भवति चात्र आर्या-
ऋषिरिव कविर्मनीषी प्रकटीकुरुते तप:पूतं स्वकम्।
संविद उल्लासं यत् तेनोदात्तं च काव्यजगत्।।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
द्वितीयेऽधिकरणे आभ्यन्तरालङ्कारनिरूपणं नाम पञ्चमोऽध्याय:।।