।। अथ बाह्यालङ्कारनिरूपणं नाम षष्ठोध्याय:।।
बाह्या अलङ्काराश्चतुर्विधा:, साकल्येन ते अष्टादश।।२।६।१।।
बाह्यम अलङ्काराश्चतुर्विधा:- सङ्घटनाश्रिता:, विरोधमूलका:, औपम्यमूलका:, वृत्तिमूलकाश्च। साकल्येन ते अष्टादशसंख्यका: सन्ति। तद्यथा—
अन्यथाकरणं छाया जातिश्चातिशयस्था।
इमे चत्वार एव स्युराद्या: सङ्घटनाश्रिता:।।
अपह्नुतिर्विरोधश्चासङ्गतिर्विषमं तथा।
द्वन्द्वं च तानवं च स्युर्वर्गे विरोधमूलके।।
उपमा रूपकं चैव चोत्प्रेक्षा दीपकं तथा।
इमे चत्वार एव स्युर्वर्गे चौपम्यमूलके।।
नादानुवृत्तिर्यमकं श्लेषश्चापि लयस्तथा।
एते सन्ति च चत्वारोऽलङ्कारा वृत्तिमूलका:।।
अन्यथाकरणं छाया स्वभोवोऽतिशयश्च इमे चत्वार आद्या: सङ्घटनाश्रिता अलङ्कारा:। आद्यत्वमेषां सर्वविधकाव्ये अपेक्षितत्वात्। तेन प्रथमिमे लक्ष्यन्ते। विरोधमूलका: षट्। औपम्यमूलकास्तथैव वृत्तिमूलकाश्चत्वार:।
अन्यथाकरणम् -
वस्तुनो रूपान्तरप्रतिपत्तिरन्यथाकरणम्।।२।६।२।।
कविरिह यथादृष्टं वस्तु न काव्ये निरूपयति, अपि तु विन्यासविशेषै: कल्पनया नवीनतां तत्र अपाद्य अन्यथात्वं गमयित्वा तत्तद् वस्तु स काव्ये आपादयचति। वस्तुतोऽन्यथाकरणं नाम समस्तकलासु अनिवार्यैव प्रक्रिया। तद्यथा कालिदासेन दुष्यन्तस्य शकुन्तलाचित्रनिर्मित-प्रसङ्गे उक्तम्-
यद्यत् साधु न चित्रे स्यात् क्रियते तत्तदन्यथा।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम्।।
अन्यथाकरणपूर्वमेव लावण्यमन्वीयत इत्यस्ति कवेरभिप्राय:।
अस्मिन् प्रस्तुतस्य अन्यत्वप्रतिपादनपरा अतिशयोक्ति:, आरोप्यमाणस्य प्रकृतोपयोगित्वनिरूपणपर: परिणामश्चान्तर्भवत:। तेन कविना स्वकृतौ तेषां स्वरूपस्य ततो वैशिष्टयोद्घाटनायान्यथात्वप्रतिपादनम् इति एक: प्रकार:। वस्तुष्वेव रूपान्तरप्रतिपत्ते: परिवर्तनस्य वा चित्रणे द्वितीय: प्रकार:। एष द्वितीय: प्रकार आधुनिककथासाहित्ये चरित्रविकासनिरूपणे विशिष्य विलसति। कथासु पात्राणां चरित्रं परिवर्तते विकसति वा। तत्र सर्वत्र अन्यथाकरणालङ्कार:।
प्रस्तुतस्य अप्रस्तुतायमानत्वम्, अप्रस्तुतस्य वा प्रस्तुतायमानत्वं परिणाम:। आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम:। तन्निरूपणं यदा काव्येऽलम्भावमापादयति तदा अन्यथाकरणं परिणामो वा अलङ्कारो वाच्य:। परिवर्तमुपमेयस्योपमानतया उपमानस्य वा उपमेयतया स्यात्, कस्य परिवर्तनं भवतीत्यकिञ्चित्करम्। तथा हि-
वनेचराणां वनितासखानां दरीगृहोत्सक्तनिषङ्गभास:।
भवन्ति यत्रौषधयो रजन्यामतैलपूरा: सुरतप्रदीपा:।।
अत्र हिमगिरिगता औषधय: सुरतप्रदीपेषु परिणमन्त इति कथन एव स्वारस्यम्, तत्र औषध-सूरतप्रतीपयो: उपमेयं किम, उपमानं च किमितित्वकिञ्चित्करम् अस्मिंश्च अन्यथाकरणे मम्मटादिभिर्वर्णिता वादिधर्मलुप्तोपमा क्वचिदन्तर्भवति। तथा हि-
इयं व्याधायते बाला भ्रूररस्या: कार्मुकायते।
नेत्रे अस्या: शरायेते मनो मे हरिणायते।।
अभूततद्भवे च्विरिति नियमादत्र अव्याधस्य व्याधभावापन्नत्वं कविना प्रत्यपादि।
सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्य:।
यामिनयन्ति दिनानि सुखदु:खवशीकृते मनसि।।
इति मम्मटेन द्विलुप्तोपमाया उदाहरणं प्रादायि। वस्तुतोऽत्र अन्यथाकरणमेव।
तच्च अन्यथाकरणं द्विविधम्- सुपरिणतिरूपं दुष्परिणतिरूपञ्च। दुष्परिणतिरूपो यथा मम जनतालहर्याम्-
ग्रीष्मेऽङ्गारकरैस्तपन्निह करैर्मिमोऽप्यमित्रायते,
वर्षन् भग्नकुटीरजर्जरवृत्तौ देवस्तु दैत्यायते।
क्षुत्क्षामस्य विषायते मधुरहो नो माधवस्त्रायते,
सामन्तैर्बहुखेदितस्य निखिलं विश्वं विरूद्धायते।।
इयं च दुष्परीणतिः कविना क्वचित् वृहत्तरमूल्यानां रक्षायै निरूप्यते तद्यथा मम मृत्तिकालहर्याम् –
सुरम्यसौधसन्तति: सुज्जया समन्विता।
निवेश्य कोटिवैभवं कुरीत्यनार्जवार्जितम्।।
नभ: समागमाय या समुच्छ्रिता विजृम्भते।
प्रयाति मृत्तिकालयं च धूलिसाद् भवत्यरम्।।
तच्च परिवर्तनमाधिभौतिकदृशा दुग्धस्य दधिरूपमिव भवति तदा आधिभौतिकमन्यथाकरणम्, कविकल्पनायां भवति तदा आधिदैविकमाध्यात्मिकं वा। तत्र आधिदैविकं कालिदासस्योपरि उदाहृतं पद्यम् - वनेचराणामित्यादि। अन्यथाकरणे वस्तुनि भौतिकदृष्टया तात्त्विकं रूपान्तरं परिणामो वा न सर्वत्र अपेक्ष्यते, रूपान्तरं परिणामों वा न सर्वत्र अपेक्ष्यते, रूपान्तरमिदं कवेर्मानसिकी सृष्टि: स्यात्, तथापि भौतिकपिण्डात्मकसत्यात् समधिकतरमस्य मूल्यम्। वस्तुन आन्तरिकं रूपं क्वचिदनेनाभासितं भवति। क्वचित् तु मानसिक्या: सृष्टे: पुनर्भौतिकरूपेणावस्थानं सचमत्कारणपूर्णं कवयो वर्णयन्ति, अन्यथाकरणस्यान्यथैव रूपमाविष्कुर्वन्ति। तद्यथा मम धरित्रीदर्शनलहर्यां विमानावतरणवर्णने-
पृथ्वीपत्रे मसिरिव यथा रेखया निर्मिता या
सञ्जाता सा सघनवितता वक्षपङ्क्तिर्वनान्या:।
भूम्या हस्ते चुलुकविधृतं यज्जलं दृश्यते स्म
पश्चाद् दृष्ट: सृत इव पट:, सागरस्तद बभूव।।५।।
भौतिकवस्तूनां मानसिकी प्रतीतिरन्यथा भवति। साऽपि न मिथ्या। तद्यथा भट्टलक्ष्मीधरस्यैव द्वारकावर्णने आपर्णवीथ्यो रधुवंश-शिशुपालवध कादम्बरी-महाभारतादीनां काव्यागतानि वाक्यानीव जायन्ते-
रसै: स्फुटैरर्थसमैर्वचोभिरर्थैरपूर्वै: सदलङ्क्रियाभि:।
ददर्श तस्यां रघुमाघबाणव्यासायमाना व्यवहारवीथी:।।(८.६०)
यदा प्रस्तुतस्याप्रस्तुतस्य वा विकासो वा ह्रासो वा निरूप्यते तदा अन्यथाकरणं परिणामो वा भवत्यलङ्कारस्य निदर्शनभूतम्। नानाभावोपसम्पन्नं नानावस्थान्तरात्मकं जीवनं सदैव विकासपरम्। यतो हि यथा ममाद्यापिलहर्याम्-
आहन्यमान इव विघ्नशतोपलैस्तै-
रुच्छिद्यमान इव दु:खकुठारधारै:।
रोहत्यसौ विकसति प्रचितै: स्वशाखै-
रूर्ध्वं प्रयाति खलु जीवनवृक्ष एष:।।
इदमन्यथाकरणं वाक्यगतं प्रकरणगतं प्रबन्धगतं च काव्यसंरचनादृशा त्रिविधम्। वाक्यगतस्य उदाहरणानि उपरि दत्तान्येव। प्रकरणगतं प्रबन्धगतं च यथा अभिज्ञानशाकुन्तले महाकवेर्भवभूतेर्मालतीमाधवे वा। मालतीमाधवे प्रथमद्वितीयाङ्कयोर्नायकौ किशोरभावनाभि: सम्भृतौ। कामन्दक्या: प्रबोधेन शनै: शनैश्चोभयोर्विकासो विलोक्यते।
न केवलं वस्तुन: परिणामेऽपि तु परिणामाशंसायामपि अलङ्कारोऽयं ग्राह्य:। यथा मम रोटिकालहर्याम्-
पाचितं दु:खवह्नौ व्रजत् पूर्णतां
वेदनाङ्गारकैर्द्रह्यमानं भृशम्।
जीवनं जायतां न: समेषां सदा
रोटिकातुल्यमेवोल्लसत् सन्ततम्।।
अथ छाया-
जीवनगतसौन्दर्यस्य प्रतिबिम्बीकरणं सङ्ग्रह: तदन्यथाकरणं च च्छाया।।२।६।३।।
जीवनस्य उपरि निरूपितस्य आधिभौतिकाधिकदैविकाध्यात्मिकजगतां सकलसमुल्लासभूतस्य प्रतिबिम्बकल्प: सङ्ग्रहस्तदनु अन्यथाकरण मन्यरूपोपपादनं छाया। यथा कुशलश्छायाचित्रग्राहक: छायाचित्रयन्त्रेण न केवलं रमणीयदृश्यानां छविं सङ्गृह्णाति परन्तु स्वप्नतिभया छविसङ्ग्रहे पुनर्विन्यासमपि विधत्ते। अत एव छायाचित्रयन्त्रेण दृश्यविशेषनिरूपणमपि न भवति अनन्यथाकृतम्, तत्रापि अन्यथाकरणस्य वैशिष्ट्यं तु विजृम्भत एव। का कथा पुन: काव्यस्य यत्र कविप्रतिभा यथादृष्टस्य जगतश्छवि निरूपयन्ती तत्र कल्पनायास्तूलिका नवीनवर्णैस्तच्चित्रमुन्मीलयति। यदवोचाम प्रथमाधिकरणस्य प्रथमाध्याये-
साहित्ये जीवनं सर्वं सर्वाङ्गीणं नवं नवम्।
प्रतिबिम्बत्वमायाति समुल्लसति वर्धते।
अद्भूत: प्रतिबिम्बोऽयं बिम्बमेव विभावयन्।
संस्कुर्वन् जीवनं तस्मिन् समवेतो नवायते।
अयं च छायालङ्कार: प्राचीनै: क्वचित् संवाद इति निरूपित:। तद्यथा आनन्दवर्धनोऽभ्यधात्- संवादो ह्यन्यसादृश्यम्। स च त्रिधा- प्रतिबिम्बवत्, आलेख्याकारवत् तुल्यदेहिवदिति भेदै:। प्रतिबिम्बकल्प: संवाद: प्राणरहित:। आलेख्याकारवत् तुल्यदेहिवदिति भेदै:। प्रतिबिम्बकल्प: संवाद: प्राणरहित:। आलेख्यवदनुकृतेरपि आनन्दवर्धनस्तुच्छात्मत्वमेव मेने। तुल्यदेहिवदनुकार एव तदनुसारेण स्पृहणीय:। समानरूपयोर्यमलयोर्वा पुरुषयोर्यथाऽऽकृतिसाम्येऽपि भवति भेद: प्रकृतौ, तथैव समानेऽपि रूपबन्धे द्वयो: काव्योर्विशेषा: स्यु: स्वकीया:। एवमेव सुकवय: गृह्णन्ति पूर्वकाव्येभ्य: पदावलीम्, भावविशेषं वा परन्तु नैतेन परिवर्तिन: कवेर्निकृष्टता न वाऽयमनुकार इति वक्तुं शक्यते।
राजशेखरस्तु अन्ययोनि-निह्नुतयोनि-योनीति त्रिधा विभक्तवान् काव्यार्थम्। तत्रान्ययोनिर्द्विधा- प्रतिबिम्कल्प आलेख्यप्रख्यश्च। निह्नुतयोनिरपि तत्रान्योनिर्द्विधा-प्रतिबिम्बकल्प आलेख्यप्रख्यश्च। निह्नुतयोनिरपि द्विविध:- तुल्यदेहितुल्य: परपुरप्रवेशसदृशस्यार्थस्य चतुर्थो भेदो योजित:। यथाऽन्यस्मिन् नगरे प्रविशन् कश्चन नरस्तस्मिन् नगरे नानादृश्यानि निरूपयति, यथा वा कश्चन योगी स्वकीयं जीवात्मानमकस्माद् देहान्निस्सार्य अन्यस्मिन् देहे सङ्क्रामयति, स्वयं चाविकृतस्तिष्ठति, एवमेव महाकवि: पूर्ववर्तिकाव्येषु प्रविशति आदत्ते च तेभ्य: सामग्रीम्, परन्तु न तत्प्रभावेण विकृतिमापद्यते। एतदेवादानमन्यच्छायेति कथितं पूर्णसरस्वतिना मेघदूतस्य विद्युल्लताटीकायाम्।
कस्यचिन्महाकवे रचनां पाठं पाठं न केवलं वयं तस्यैव कृत्तिं पठाम:, अपि तु ता अपि कृतय: पठामो यासां छायास्तदीयायां कृतौ सङ्क्रान्ता इत्यभिप्रैति महाकविरिलियट:। तेन पूर्ववर्तिकाव्यानि पुनराटीकितानि जायन्ते, तेषां व्याख्या नवायते नवीनकविना विहितयाऽन्यच्छायया। एतेन जायते साहित्यपरम्पराया अतिप्राचीनाया सातत्यम्। महाकवि: पूर्ववर्तिनामभिव्यक्तीर्नवीनानुसन्धानैरन्यदेव रूपं गमयति।
इत्थं छायालङ्कारे आदानमन्यथाकरणं चेति भवति पक्षद्वयम। एतच्च पक्षद्वयं परस्परेण संसक्तम्, एकस्यैव नाणकस्य पाश्र्वयोरिव। यथा उपनिषत्प्रोक्ते परापरे विद्ये युगपद् भवत:, तथैव काव्यरचनाप्रक्रियायामपि आदाने अन्यथाकरणे च कवे: प्रतिभा सततं व्याप्रियते। अतो नेदं शब्दार्थंहरणम् उपादानं सङ्ग्रहो वा।
वयं तु ब्रूम: - नेदमादानमन्यथाकरणं वा नवीनकठिना पूर्वकाव्येभ्य एव क्रियते, अपि तु जीवनात्। जीवनं च त्रयाणामप्याधिभौतिकाधिदैविकाध्यात्मिकलोकानां सततसमुल्लासभूतम्। जीवनस्यैव छाया वस्तुतश्छायालङ्कार:। अत एव आनन्दवर्धनराजशेखरयोर्विवेचने तु अस्याश्छायाया आपतितम्।
भोजराजेन छायालङ्कार: स्वीकृत:, परन्तु तेन अन्यस्य उक्ते: प्रतिबिम्बग्रहण एव छायालङ्कार: सङ्कोचं गमित: लोकोक्तिच्छाया, अर्भकोक्तिया, उन्मत्तोक्तिच्छाया, पोटोक्तिच्छाया तथा मत्तोक्तिच्छायेति च षड् भेदा अस्य छायालङ्कारस्य निरूपिता:। तदयुक्तम्। कथं केवलमुक्तीनामेवादानं छायात्वेन स्वीक्रियते, न कथावस्तुन:, वर्ण्यविषयाणां वा? अन्यच्च यदि उक्तिविशेषादानमेव छायालङ्कारस्तर्हि कथमयं केवलं षड्भेदात्मक:, महापुरुषोक्तिच्छाया-प्रियोक्तिच्छायारिपूक्तिच्छायेत्यादिभेदैरस्य स्यादानन्त्यम्।
वस्तुत: समग्रमेव वाङ्मयं छायैव। नैयं छाया उक्तिवैचिर्त्यानुहरणमात्रपर्यवसायिनी, अपि तु जीवनमर्मानुसन्धानपरा। ते तावदर्था: कविना स्वत उम्भिता इति मन्यन्ते, तेऽपि वस्तुतश्छायारूपा एव, तेषां प्रतिभापरिस्पन्दनिष्यन्दत्वात्, प्रतिभायाश्च देशकालसमानाधिगतसंस्कारप्राणत्वात्। कविप्रतिभया देशकालसमाजाधिगतानां संस्काराणां भावानां वा सञ्चय इति छायाया एकं रूपम्, तस्य च सञ्चयस्य प्रतिभयैव अन्यथाकरणमिति द्वितीयम्। उभे अपि एते रूपे परस्परानुषक्ते, काव्ये अनयोरेकतरस्य पृथगसम्भवात्। अनयोरपि चातुर्विध्यम्- वास्तवमूलक-साहित्यमूलकैतिह्यमूलकशास्त्रमूलकत्वात्।
यत्र आधिभौतिकजगति दृश्यमानानां पदार्थानां प्रत्यक्षदृष्टमिव रूपं काव्ये प्रगुणीभवति तत्र वास्तमूला छाया। इयमपि द्विविधा- इन्द्रिय-गोचरजगदुपजीविता लोकवार्तोपजीविता च। तत्र प्रथमाया उदाहरणानि सन्ति पण्डिताक्षमाराव-राजेन्द्रमिश्र-वनमालिविश्वलादीनां कथा:। अभिराजराजेन्द्रमिश्रस्य शतपर्विकायां लौकिकजगतो वास्तविकता निर्वसनं साक्षात्कृता: परन्तु निर्वहणे ज्येष्ठायास्तनयाया निष्कलुषसेवया कन्यापितुर्हृदयं यथा भवति परिवर्तितम्, तत्र कथाकारस्य प्रतिभा यथार्थस्याऽन्यथाकरणे प्रगल्भते। यथार्थजगत्यपि न भवन्ति एतादृश्यानि हृदयपरिवर्तनानि परन्तु विकृतिमये जगति वास्तविकताया भयावहं रूपमेव सामान्या जना प्रायशोऽवलोकयन्ति, कविस्तु तत्रानुस्यूतान् आश्वस्तिकरान् बिन्दून् सञ्जित्य सङ्ग्रह्य यद् विन्यासं विधत्ते तदेवान्यथाकरणम्। इदमन्यथाकरणं वास्तविकताया भूमावेव स्थित्वा कथाकारेण साधु व्यधायि। प्रकटितश्च तत्र रसावेशवैशद्यनिधानभूतोऽलङ्कार:। अत एव कथेयं अन्याश्च काश्चन कथा राजेन्द्रमिश्रस्य वास्तवमूलाया उत्तमान्यच्छायाया: सन्ति निदर्शनानि। यथा वा ममैव जनतालहरीरोटिकाकालहरीप्रभृतिकाव्यानि। दिङ्मात्रमुदाह्रियते-
किलन्नगोधूमचूर्णस्य पिण्डै: समं
वेल्लिता चक्रपट्टे च विस्तारिता।
ऊष्मणा योजिता वाष्पपूरान्विता
वाष्पपूरं हरन्ती शिशोर्नेत्रजम्।।
क्षेपिता चुल्लके फुल्लिता तत्क्षणं
मोदयन्ती जनानां सदा सा गणम्।
त्रौटिता ग्रासकैर्दीयमाना मुखे
प्लावयत्येव जिह्वामपूर्वै रसै:।।३।।
अत्र रोटिकाया भौतिकं रूपं वास्तवमूलकमेव; परन्तु तदीया या मनोहारिण्य: परिणतयस्तासु अन्यथाकरणरीत्या कविकल्पनासाम्राज्यं निर्मितमपि न जहाति वास्तवमूलकताम्।
लोककथा- लोकगीताऽऽभाणकादिमूला रचना द्वितीयवास्तवमूलायाश्छायाया उदाहरणानि सन्ति। यत्र पूर्ववर्तिकाव्येभ्य: पदपदार्थादिसामग्रीमादाय तस्य नवीनं विन्यासं विधाय अभिनवकवितासाम्राज्यं रचयन्ति सुकवयस्तत्र साहित्यमूला छाया। प्राचीनं वृत्तम् इतिहासं पुराकथां वा समादाय कवि: स्वप्नतिभया यत्र अन्यदेव रूपं रचयति तत्र ऐतिह्यमूला छाया। शास्त्रमूलायां शास्त्रानुशीलनाधिगता अर्थाकविप्रतिभया अन्यथात्वं गमिता: काव्यमुद्योतयन्ति।
चतुर्विधा अपीमाश्छाया: कविगतसंविदुन्मीलितै: लौकिकस्त्रोतोगृहीतैर्वा स्वस्वरूपै: सङ्करसंसृष्टिभ्यां काव्ये अनन्तरूपैरुद्योतन्ते। तत्रापि यत्र प्रतिभासंरम्भगोचरस्य रूपस्य प्राधान्ये सति उपमा, प्रतिभासंरम्भगोचरस्य प्रकृतस्त्रोतोविद्यमानस्य च रूपस्य समप्राधान्ये मध्यमा, प्रकृतस्त्रोतोविद्यमानस्य रूपस्य च प्राधान्ये अवरेति त्रैविध्यम्। इत्थं चतुर्विशतिविधोऽयं छायालङ्कार:। अवरायां प्रतिबिम्बवत़्, मध्यमायामालेख्याकारवत्, उत्तमायां च तुल्यदेहितुल्या परपुरप्रवेशतुल्या वा छाया आभासत इति विवेक:।
उत्तमा च छाया महाकवे: परिस्फुरन्तं प्रतिभाविशेषं व्यनक्ति। इयं च कवेर्मौलिकताया अपि निकषभूता। कवे: प्रतिभा रचनोन्मेषकाले आधिभौतिकाधिदैविकाध्यात्मिकानां जगतां तानि तानि वैशिष्ट्यानि आत्मसात्कुर्वती अनवरतं रचयति तानि अन्यथा अन्यथा रूपै:, यावाँश्च प्रसरति प्रतिभा एतादृश आत्मसात्करणे, यावती च गहनाऽन्यथाकरणप्रक्रिया तावदेव उत्तमोत्तमं कवित्वम्। तद्यथा महाकवेस्तुलसीदासस्य रामचरितमानसम्। तत्र नानापुराणनिगमसम्मता अर्था: कविप्रतिभयाऽऽत्मसात्कृता अति काव्यजगति नूतनालोकसमन्विता परिस्फुरन्ति। तथैव महामहोपाध्याय गङ्गाधरशास्त्रिणोऽलिविलासिसंलापकाव्यम्। तत्रापि नानाशास्त्राणां निष्यन्दो नवायते।
प्रणवोपाह्वस्य इच्छारामद्विवेदिनो 'निरीक्षणम्’ नाम कथा अद्यतन्या: संस्कृतपाठशालाया वास्तविकतां सविडम्बनं प्रस्तौति। अत्र विडम्बनमययथार्थस्थितीनां कथाकारस्य प्रतिभाविहितानामन्यथकरणानां च समं चमत्कार: समुल्लसतीति वास्तवमूलाया मध्यमाया अन्यच्छायाया उदाहरणभूतेयं कथा। अथ च विडम्बनरीत्यैव प्राचीनगद्यबन्धानामद्यतनपरिस्थितिविशेषचित्रणे अपूर्व: कश्चन विनियोगो व्यधायि कथाकत्रेंह, तेन साहित्यमूलान्यच्छायाऽप्यत्र संसृष्टा। केवलं नामोल्लेखै: सूचीनिबन्धनैर्वा वास्तविकतां निदर्शयन्ति अस्फुटप्रातिभोन्मेषानि काव्यानि वास्तवमूलाया अवरायाश्छायाया उदाहरणानि।
साहित्यमूला छाया साम्प्रतिककाले विरचितेशु मेघदूतोपजीवितेषु पर:शतं सन्देशकाव्येषु समुल्लसति। एतेषु वर्तमानकालिकी भौगोलिकी ऐतिहासिकी सामाजिकी वा यत्र यत्र स्थितिर्भूतार्थकथनैर्निरूपिता तत्र तत्र वास्तवमूला छाया सङ्क्रान्ता। सहस्रबुद्धेविरचितं काकदूतम्, कृष्णमूर्तिकृतं श्वानदूतम्, रामावतारशर्मणो वा मुद्गरदूतमित्यादीनि सन्ति भूयांसि निदर्शनानि। धरित्रीदर्शनलहर्यां विमानादवतरता पान्थेन धरिर्त्या रूपं यथा उम्भितं तत्र क्वचिद् वैदिकी क्वच्चि कालिदासीया वा पदावली आनीतापि नावीन्यं न पुष्णाति। तथापि तत्र प्रायोऽवरैव साहित्यमूला छाया। तद्यथा-
आविर्भूते शशिनि तमसा शर्वरीव व्यपेता
नैशस्यार्चिर्हुतभुज इवापेतधूमाग्रपुञ्जा।
दूराद् दृष्टा निकटनिकटं भूतधात्रीसमेता
धेनु: प्राप्ता व्रजमिव यथा वत्समाकारयन्ती।।
अत्र विमानावतरणसमये साक्षात्कृताया धरिर्त्या वर्णनाय कालिदास-कृतात् शनै: शनैर्मोहात् संज्ञां प्राप्नुवन्त्या उर्वश्या वर्णनात् पदावली गृहीता प्रायशो यथावदारोपिता। तेन आधुनिककवे: प्रतिभायाश्चमत्कार: स्वल्प एव, यश्चमत्कार: स कालिदासीयप्रतिभाया इह संवलनस्यैव। उत्तरार्धे चात्र योपमा उपात्ता साऽपि पुरातनसाहित् यादेव गृहीता। पुरातनसाहित्यात् पदावल्या: कल्पनाया अलङ्कारस्य वा आदानात् तद्विन्यासाच्चेह साहित्यमूला छाया, तत्रापि य: कश्चन चमत्कारस्स पूर्ववतिकाव्यस्यैव। अत एवात्र साहित्यमूलायाश्छायाया अवरत्वम्।
यत्र तु नानादिक्कालानां विस्तीर्ण आयामश्छायासंवलनैराभासेत तत्र महावाक्यायमानतवे सति उत्तमा साहित्यमूला छाया। बच्चूलालावस्थिनो नेतृसंस्तव इति काव्ये-
दिल्लीवल्लभपाणिपल्लवतले विश्रम्य पाटच्चरा-
श्चीरणि प्रसभं हरन्ति वनितावर्गस्य दु:शासना:।।
अत्र 'दिल्लीवल्लभपाणिपल्लवतले’ इति पदं पण्डितराजस्य सुभाषिताद् गृहीतम्; परन्तु तत्प्रयोगोऽद्यतनदिक्कालं तदानीन्तनं च दिक्कालं युगपदुन्मेषयन् नानादिक्कालसमवायं विदधाति। एतेन पण्डितराजोऽपि दिल्लीवल्लभपाणिपल्लवतले वयो यापितवान्, अद्यतना अपि यापयन्ति वय:, परन्तु महदन्तरमुभयोरिति प्राचीननवीनकाव्यगतदिक्कालविशेषोऽपि भावकबुद्धौ झटित्यवभासते।
एवमेव समग्रेऽपि प्रबन्धे भवितुमर्हति साहित्यमूला छाया। तद्यथा रामायणोपजीविते रघुवंशे उत्तमा छाया। ऐतिह्यमूलायाश्छायाया अन्यानि उदाहरणानि सन्ति-श्रीश्वरविद्यालङ्कारस्य दिल्लीमहोत्सवमहाकाव्यम्, लक्ष्मणसूरिणो वा दिल्लीसाम्राज्यनाटकम्, क्षमारावपण्डिताया: सत्याग्रहगीतादिकाव्यानि, मम वा सत्यानन्दगीता।
शास्त्रमूला अन्यच्छाया यथा मम धरित्रीदर्शनलहर्यां विमानादवलोकिताया: धरिर्त्या बिम्बस्योद्भासनम् -
दूरे संस्था निकटमिह सा भास्वतीव
स्वेष्टस्येव च्छविरुपनता साक्षिभास्यस्वरूपा।।
सोऽयं छायालङ्कार: कवेरशक्तिं शक्तिमुभयमपि प्रकटीकुरुते। प्रतिभया प्रयुज्मान: शक्तिम्, प्रतिभादरिद्रै: प्रयुज्यमानो दुष्परिणतिं धत्ते अनुवाद एव वा पर्यवस्यति। तत्रापि सौन्दर्यं क्वचिन्मूलस्य भासते। यथा मम धरित्रीदर्शनलहर्याम्-
यस्यां पूर्वे प्रथितयशसश्चक्रिरे विक्रमांस्ता
नर्वाचीना विदधति कलाकौशलं ज्ञानसत्रम्।
सा न: क्षेमं वितरतु धराऽऽराधिता रत्नगर्भा
माता भूमिर्विनततनय: सोऽस्मि चास्या धरिर्त्या:।।
अत्र माता भूमि: पुत्रोऽहं पृथिव्या इति अथर्ववेदगतभूमिसूक्तस्य मन्त्र उपात्त:।
ननु छायालङ्करे वस्तुन: स्वरूपं पूर्ववर्तिकाव्यवर्णितं साक्षाद् दृष्टं वा परिवर्त्य प्रकटीक्रियते, तेन अन्यथाकरण एवास्य अन्तर्भाव इति न। अन्यथाकरणे छाया, छायायां चान्यथाकरणं सदैव भवति।
उभयोर्नान्तरीयकत्वम्। परन्तु अन्यथाकरणालङ्कृतो वस्तुस्वरूपे कविकल्पनाया आपाद्यमाना विकृति: (विशिष्टा कृति:) साक्षादिव भासते। छायालङ्कारे तु अनुकृति: स्पष्टमुन्मिषति। न चेह अनुकृति: सदृशकरणमनुगामित्वं वा। अनुकृतिस्तावत् समस्तानां काव्यप्रकाराणां कलानां वा मूलो धर्म: काव्ये नाट्ये वा चेदमनुकीर्तनमिति व्यपदिश्यते। मुनिनाऽप्युक्तम्- त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनमिति। एतच्च काव्यलक्षणविमर्शे प्रतिपादितमेव सर्वस्य नाट्यं भावानुकीर्तनमिति। एतच्च काव्यलक्षणविमर्शे प्रतिपादितमेव प्रथमाधिकरणप्रथमाध्याये।
तद्यथोक्तमैतरेयमहीदासेन- शिल्पानि वै शंसन्ति देवशिल्पान्येतेषां वै शिल्पानामनुकृतीह शिल्पमधिगम्यते हस्तीकं वासो हिरण्यमश्वतरी रथ: शिल्पम्। शिल्पं ह्यस्मिन्नधिगम्यते य एवं वेद देवशिल्पानीति (ऐ.ब्रा. ६।५।१) भवतश्चात्र आर्ये-
छायालङ्कारेऽस्मिन् मूलं तत्त्वं कलासर्जनाया:।
अनुकृतिरिति यत् प्रोक्तं समुल्लसति तद् विशिष्य चारु।।
अन्तर्हितमपि नियतं भवति तथात्रान्यथाकरणं चैव।
छायायां सम्भिन्नाश्छाया जीवनगता नाना।
अथ जाति: -
यथादृष्टस्य चित्रोपमनिरूपणं जाति:।।२।६।४।।
स्वभावोक्तिस्या एव नामान्तरम्। वस्तुनो यथादृष्टं रूपं वास्तवमूलायां छायायामपि छायालङ्कारेऽपि वा निरूप्यते: परन्तु तत्र न तथा मूर्तीकरणं चित्रापमत्वं यथा जातौ।
जातौ वस्तुस्वरूपं साक्षादिव नयनयोरग्रत: परिस्फुरति। तेन इयं सदैव भवति साक्ष्यालङ्कारग्रथिता। यत्र वस्तुस्वरूपनिरूपणमात्रं तत्र जाति:, यत्र वस्तुसंवादस्तत्र साक्ष्यमिति उभयोर्विवेक:। किन्तु उभयो: सहवर्तित्त्वमपि। एतेन सहवर्तित्वेन बिम्बविधानमिति पाश्चात्त्यैर्निरूपितं तत्त्वं काव्ये समुल्लसति। जातौ यथा बिम्बग्रहणस्य नान्तरीयकत्वम्, तथैव बिम्बविधानेऽपि जातिपेक्ष्यते। नाट्यशास्त्रे तावदियं जातिलोकधर्मीति व्यपदिष्टा। अनया समस्तो भौतिक: संसार: काव्ये नाट्ये वा विभावायते तद्यथाऽऽहाभिनवगुप्त:- 'काव्ये च लोकनाट्यधर्मिस्थानीयेन स्वभावोक्तिवक्रोक्तिप्रकारद्वयेन अलौकिकप्रसन्नमधुरोजस्विशब्दसामर्थ्यसमर्प्यमाणविभावादियोगादियमेव वार्ता’ (ध्वन्यालोकलोचने-२।४)। अत्र भामह आह-
स्वभावोक्तिलङ्कार इति केचित् प्रचक्षते।
अर्थस्य तदवस्थत्वं स्वभावोऽभिहितो यथा।।
आक्रोशयन्नाह्वयन्नन्यान्यानाधावन् मण्डले रुदन्।
गां वारयति दण्डेन डिम्भ: सस्यावतारणी:।। (काव्यालङ्कारे - २।९३-९४)
रुद्रटप्रोक्तो वास्तवालङ्कारवर्ग: समस्तोऽस्यां विश्रान्त:। वास्तवालङ्कारस्य रुद्रटकृतं लक्षणं यथा-
वास्तवमिति तज्ज्ञेयं क्रियते वस्तुस्वरूपकथनं यत्।
पुष्टार्थमविपरीतं निरुपममनतिशयमश्लेषम्।
उपमादिविहीनम् अतिशयरहितं श्लेषेणापि तथा चाशिलष्टं वस्तुनो विशदं कथनं वास्तवालङ्कार:। रुद्रटप्रतिपादिते वास्तवालङ्कारस्य भेदेषु तेन गणिता: सहोक्ति-समुच्चय-जाति-यथासंख्य-भाव-पर्याय-विषम-अनुमान-दीपक-परिकर-परिवृत्ति-परिसंख्या-हेतु-कारणमाला-व्यतिरेक-अन्योन्योत्तर-सार-सूक्ष्म-लेश-अवसर-मीलितैकावलीति त्रयोविंशतिलङ्कारा: परिगणिता:। सेयं जातिर्वाक्य-प्रकरण-प्रबन्धगतत्वेन त्रिविधा। सुभाषितसाहित्यं नीतिश्लोका वा यदा भूतार्थकथनं प्रस्तुन्वन्ति तदा जातेरुदाहरणं भवन्ति।
वाक्यगता यथा लङ्गदत्तस्य-
सक्तून् शोचति सम्प्लुतान् प्रतिकरोत्याक्रन्दतो बालकान्,
प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति।
दत्वा मूर्धनि शीर्णशूर्पशकलं जीर्णे गृहे व्याकुला
किं तद्यन्न करोति दु:स्थगृहिणी देवे भृशं वर्षति।
प्रकरणगता जातिर्यथा नैषधीयचरिते दमयन्तीविवाहप्रसङ्गे वैवाहिकलोकाचाराणां निरुपणे। ननु तत्र लोकच्छाया कथं न मन्तव्येति न, यत्र वस्तुवृतस्य चित्रात्मकं निरुपणं प्राधान्यं भजते तत्र न च्छायाऽपि तु जातिरेव। प्रबन्धगता जातिर्यथा हिन्दीभाषायां प्रेमचन्दस्य गोदानाद्युपन्यासेषु, हरिदाससिद्धान्तवागीशस्य सरलेत्युपन्यासे वा।
अर्वाक्तनैरयमेव कथ्यते यथार्थवाद इति। अस्मिन् अग्रे प्रतिपाद्यमानोऽतिशय: सर्वथा न भवतीति न। तद्यथा माघस्य -
प्रहरकमपनीय स्वं निदिद्रासतोच्चै:
प्रतिपदमुपहूत: केनचिज्जाग्रहीति।
मुहुरविशदवर्णां निद्रया शून्यशून्यां
दददपि गिरमन्तर्बुध्यते नो मनुष्य:।।
अत्र प्रबोध्यमानोऽपि निद्रां न जहातीति मनाक् अस्फुटितोऽतिशय आभासते, तथापि चमत्कारस्तु स्वभावोक्तेरेव।
वस्तुतोऽतिशयश्च जातिश्च एकस्यैव नाणकस्य पक्षद्वयम्। जात्यामतिशय: पृष्ठवर्ती, अतिशये च जाति: पृष्ठवर्तिनी।
इयं जाति: स्वाभावोक्तिर्वा तेषां तेषामलङ्काराणां संसर्गेण समधिकतरां चारुतां पुष्णाति। विशेषत इह प्रेमा, उदात्तं जिजीविषा चावश्यं स्युरन्यथेयं जात्याभासे परिणता स्यात्। तथा हि-
इयं जाति: स्वभावोक्तिर्वा तेषां तेषामलङ्काराणां संसर्गेण समधिकतरां चारुतां पुष्णाति। विशेषत इह प्रेमा, उदात्तं जिजीविषा चावश्यं स्युरन्यथेयं जात्याभासे परिणता स्यात्। तथा हि-
जलाघाताट्टहासोदग्रां फेननिर्मलहासिनीम्।
क्वचिदेणीकृतजलां क्वचिदावर्तशोभिताम्।।
क्वचित् स्तिमितगम्भीरां क्वचिद् भैरवनि:स्वनाम्।।
इति वाल्मीकिरामायणे भागीरथीवर्णने। अत्र भागीरथ्या: सौन्दर्यसमाशंसायां तां प्रति आदरभावना निहिता वर्तते, तेन गूढ: प्रेमालङ्कार:, तस्या: पावनताया अनुभव उदात्तं भावयति, तस्या अजस्रता च जिजीविषाम्। क्वचिदियं जातिर्विषादनालङ्कारसंविद्धा भासते। तत्रापि जिजीविषा अन्तरनुस्यूता स्यात्, यद्वा प्रकरणवशाद् विषादनं तत्र व्याप्तम्, न विषादोपहतत्वे कवे: स्वारस्यम्। तथा हि-
अद्याशनं शिशुजनस्य बलेन जातं
श्वो वा कथं नु भवितेति विचिन्तयन्ती।
इत्यश्रुपातमलिनीकृतगण्डदेशा
नेच्छेद् दरिद्रगृहिणी रजनीविरामम्।।
स्वभावो नाम भूतार्थकथनम्। सत्यस्य उन्मीलनमिति यावत्। अत: समेषां सुभषितानां प्राणाधारभूता जातिरेव। जातिभाज: सुकवे: कल्पनायामलङ्कारान्तराणि अहमहमिकया परापतन्ति।
यदुक्तं महाकविना बाणेन-
नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्ट: स्फुटो रस:।
विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम्।। (हर्षचरिते-१।८)
यथादृष्टस्य विवरणमात्रं तथ्यानां सङ्कलनमात्रं न जाति:, अपि तु जात्याभासो वार्तामात्रं वा तत्। जात्याभासं परिकल्पयन्तो बुक्कन्त: कुक्कुरा इव भवन्ति, यथोक्तं बाणनैव --
सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे।
उत्पादका न बहव: कवय: शरभा इव।।
यस्य जातिर्न सिद्धा, स जात्या बहिष्कृत इव कथं प्रवेशमाप्नुयात् काव्यसंसारे? दण्डी तु जातिमेव आद्यामलङ्कृतिं मनुते (काव्यादर्शे-२।८)। शास्त्रेषु भूतार्थकथनस्य प्राधान्यात् जातेरेव तत्र साम्राज्यम्। काव्येऽपीयमाधारभूता। अतश्च तेनैवोक्तम्-
शास्त्रेष्वस्यैव साम्राज्यं काव्येऽप्यतदपीप्सितम्।। (तत्रैव 9 २।१३)
जातौ भूतार्थकथनं यथार्थदृष्टिश्च सङ्गच्छेतेतराम्। यत्र जातेरलङ्कारस्य प्राधान्यं तत्र आधुनिकसाहित्यदृशा यथार्थवादश्चरितार्थतां याति। अस्य च जातिकाव्यस्य यथार्थवादिसाहित्यस्य रचना न सर्वथा सहजा, इदं तावत् क्षुरस्य धारायां गमनमिव। कल्पनायां विहगान् स्वैरमुत्पातयन्ति कवय:, त एव यथार्थस्य कठोरकर्कशधरित्र्यां गमने स्खलन्तो दरीदृश्यन्ते। कल्पानाया उद्गारे तु कीर इव अन्यकविप्रोक्तं वस्तु पुनर्निष्पिष्य वक्तुं शक्यते, न तथा जातिकाव्ये। दृश्यन्ते चाद्यापि वसन्ते भ्रमरान् घटयन्त: मलयानिलं वाहयन्त: पाटलादीनि पुष्पाणि विकासयन्त: कवय:। इदं परकीयस्योद्वमनम्। जातौ तु स्वस्यैव बोध:, स्वस्यैवानुभूति: स्वस्य च पर्यवेक्षणमपेक्ष्यते।
सुभाषितेषु जीवनस्य सत्यं उद्घाटयति कविरतस्तत्र स्वभावोक्तेर्जातेर्वा चमत्कारो महीयते, अन्ये चालङ्कारा अपि कामं तस्मिन् सञ्चरन्ति। तद्यथा भासस्य-
दु:खं त्यक्तुं बद्धमूलोऽराग:
स्मृत्वा स्मृत्वा याति दु:खं नवत्वम्।
यात्रा त्वेषा यद् विमुच्येह वाष्पं
प्राप्तानृण्या याति बुद्धि: प्रसादम्।।
अथवा -
क: कं शक्तो रक्षितुं मृत्युकाले
रज्जुच्छेदे के घटं धारयन्ति।
एवं लोकस्तुल्यर्ध्मो वनानां
काल काले छिद्यते रुह्यते च।।
भवन्ति चात्र श्लोका: -
विरच्य चतुर: पञ्च श्लोकाञ्जातिसम्भवान्।
विरमन्तीह कवयोऽलङ्कारभासमोहिता:।।
रक्षन्त: प्रेम चोदात्तमक्षतं च जिजीविषाम्।
प्रबन्धे एनामाद्यन्तं निर्वोढुं विरला: क्षमा:।।
उपन्यासे कथायां च साहित्ये समकालिके।
यथार्थवादसङ्गत्या जातिरेव महीयते।
अतिशयो विशेषनिरूपणजनिता असाधारणता।।२।६। ५।।
अथातिशयः
काव्यगतो यो धर्म: पदवाप-पदार्थग्रहण-वाक्यविन्यासार्थ-व्यक्तिवस्तुयोजनादिदृशा इतरलौकिकपदार्थेभ्योऽस्य विशेषं स्थापयति स अतिशय:। काव्ये स वस्तुरूपयोर्विशिष्टविन्यासाद् वस्तूनां विशेषधर्मनिरूपणाच्च जन्यते।
लोके यत् किमपि दृश्यते, तस्य सामान्यं विशेषश्चेति द्विविधं रूपम्। सामान्यं तु प्रायो विज्ञायते, विशेषं कविरेव पश्यति निरूपयति च। विशेषस्य निरूपण एव अतिशय आभासते। अतिशयोस्योन्मीलनाय लक्षणा व्यञ्जना वा वृत्तिरतितरामुपयुज्येते।
उच्चते वस्तुनस्तावद् द्वैविध्यमिह विद्यते।
विशिष्टमस्य यद्रूपं तत् प्रत्यक्षस्य गोचरम्।।
स एव सत्वविगिरां गोचर: प्रतिभावताम्।। (व्यक्तिविवेके-२।१६)
काव्यमतिशयेन अतिशयाधानेन वा नवायते, पूर्णायते च। कविराधिभौतिकजगति विद्यमानेषु पदार्थेषु अतिशयमाविष्करोति। अयमतिशयो वस्तुन आधिभौतिकस्वरूपे क्वचिदनवभासमानस्तस्य आधिदैविके आध्यात्मिके वा रूपे प्रतिष्ठितो भाति। अतिशयस्तत्तद्वस्तुनोऽतिशयमय्य: सम्भावना आविष्करोति। तेन वस्तुनोऽज्ञाता पक्षा उद्घाट्यन्ते। बाणेन हर्षचरिते यादृशो हर्षश्चित्रितो न स ऐतिहासिकदृशा तथाभूत:। कविना अतिशयाधानेन पदार्था यन्नवं रूपं प्राप्नुवन्ति तेन संसारो नवायते, परिवर्तते। कापुरुषा अपि काव्यं पाठं पाठं भवन्ति शूरा:। निरक्षरा भवन्ति साक्षरा:, क्षुद्रा संस्काररहिताश्च जायन्ते सुसंस्कृता:। अत एव च लोकयात्रा कविवचनायत्तेति यायावरीय आह। कुन्तकश्च कथयति न 'न वर्ण्यमानस्वरूपा: पदार्था: कविभिरभूता (अविद्यमाना:) सन्त: क्रियन्ते। केवलं सत्तामात्रेण परिस्फुरत: पदार्थस्य कोऽप्यलौकिकशोभातिशयविधायी विच्छित्तिशिेषोऽभिधीयते येन नूतनच्छायामनोहारिणा वास्तवस्थितितिरोधानप्रवणेन निजावभासोद्भासित तत्स्वरूपेण तत्कालोल्लिखित इव वर्णनीयपदार्थपरिस्पन्दमहिमा प्रतिभासते, येन विधातृव्यपदेशपात्रतां प्रतिपद्यन्ते कवय:’। इति (व.जी.३।२ वृत्तौ)।
अतिशयोऽयमलङ्कारान्तरप्रतिभोत्पत्तिहेतुरलङ्कारान्तरसंसर्ग एव शोभते। यत्र सामान्य: पक्ष: पृष्ठभूमौ तिष्ठति, विशेषश्च सम्मुखमायाति तत्रातिशय:। अतिशयोऽयं काव्यं जीवातुभूत:। तद्यथा प्राचीना अप्याहु:-सर्वेष्वलङ्कारेष्वतिशयोक्तिरेव प्राणत्वेनावतिष्ठत इति। पदपदार्थ-वाक्य-प्रकरण-प्रबन्धगतात्वेनास्य पञ्चविधत्वम्। तत्र पदगतो यथा-
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रय:।
सूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्।।
अत्र सुवर्णपुष्पा पृथिवी इति विशेषणं पृथिव्या अतिशयं प्रकटीकुरुते, चिन्तन्ति इति पुरुषाणाम्। वाक्यगतो यथा-
राजानमपि सेवन्ते विषमप्युभुञ्जते।
रमन्ते च सह स्त्रीभि: कुशला: खलु मानवा:।
अत्र राजसेवा-विषभक्षण-स्त्रीरमणानामुपमेयोपमानभावो यद्यपि व्यक्तस्तथापि कवे: स्वारस्यं मानवानां यत् कौशलं तस्य प्रकटीकरण एव विद्यते। अतश्च ध्वन्यमानाप्युपमा अतिशयमेव पोषयति। वाक्यगतोऽतिशयो व्यञ्जनया कामपि काष्ठामधिरोहति। यथा कालिदासस्य तपोनिरताया भगवत्या: पार्वत्या वर्णने-
स्थिता: क्षणं पक्ष्मसु ताडिताधरा:
पयोधरोत्सेधनिपातचूर्णिता:।
वलीषु तस्या: स्खलिता: प्रपेदिरे
चिरेण नाभिं प्रथमोदबिन्दव:।।
अत्र प्रथमोबिन्दूनां गतिनिरूपणे व्यञ्जनागर्भोऽतिशय: प्रतिफलति।
प्रकरणगतोऽतिशयो यथा शाकुन्तले पञ्चमाङ्के शकुन्तलाया तेजस्विरूपनिरूपणे - अनार्य अत्तनो हिअअआनुमाणेन इति कथने। यथा वा उत्तररामचरिते तृतीयाङ्के सीतायाश्चरित्राङ्कने। प्रबन्धगतोऽतिशयो यथा- महिषशतके महिषस्यैव उज्ज्वलोदारमूर्तिनिरूपणे समग्रस्यापि काव्यस्य पर्यवसिति:।
प्रबन्धगतो यथा शाकुन्तल एव। शाकुन्तलेऽतिशयमाविष्कुर्वन् आधिदैविकमप्यतिक्रम्य आध्यात्मिकधरातलमारोहत्येव कालिदास:। प्रस्तावनायामेव भ्रमरा शिरीषकुसुमानि ईषदीषच्चुम्बन्तश्चित्रिता:। चुम्बनं तु सामान्यम्, ईषच्चुम्बने कोऽप्यतिशय:। प्रमदा: शिरीषपुष्पाणि चिन्वन्ति इति सामान्य घटना; परन्तु दयमानास्ता अवतंसयन्ति तानीति विशेष:। दयमानाभि: प्रमदाभि: शिरीषकुसुमावतंसे मनुष्यगतं कारुण्यमाध्यात्मिकमेव। तदनन्तरम् आर्षदृष्टे: आर्षतेजस: आर्षकरुणायाश्च साम्राज्यमिह बोभूयते अनुभूयते च। अत एव अतिशयालङ्कार: कविना सविशेषं प्रायोजि।
प्रथमाङ्के हरिणस्य प्राणान् पणीकृत्य धावनमतिशययुक्तम्, अश्वानां चानुधावनमप्यतिशयान्वितमेव। तथा-
आत्मोद्धतैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्या:।।
रथस्य द्रुतं गमनेन यत् सूक्ष्मं तत् सहसा विपुलीभवति, यदर्धे विच्छिन्नं तत् कृतसन्धानमिव जायते। यत् प्रकृत्यैव वक्रं तत् समरेखं भाति। सर्वोऽयं यात्राया अतिशयमयो विशेष:।
बाणपातवर्तिन: कृष्णशारस्यान्तरे तपस्विन उपस्थिता इति तपस्विनां विशेष:। ते कृष्णशारस्य प्राणानां रक्षायै स्वीयान् प्राणान् जुहूषन्ति। सर्वमपि आश्रमस्य जीवनं यत्र 'विश्वासोपगमादभिन्नगतय: शब्दं सहन्ते मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किता:’ (१।१४) यत्र 'वनलताभिर्गुणैरुद्यानलता दूरीकृता:’ यत्र च अनलङ्कृता तन्वी वल्कलेनापि मनोज्ञा भाति नागरजीवनाभ्यस्तस्य राज्ञ: कृते कमपि अतिशयमेव पुष्णाति। कविदृशा तु अयमतिशय: सर्वङ्कष उद्घाट्यते यदा दुष्यन्तसैनिकैरुपरुन्ध्यमाने तपोवने उत्कटमाह्वानं कश्चित् तपस्वी कुरुते नेपथ्यात्- 'भो मृगयाविहारी राजा दुष्यन्त’ इति।
शकुन्तला नाधिभौतिकजगति जाता प्रतीयते, यतो हि मानुषीसु कथं वा स्यादस्य रूपस्य सम्भव:? (१।१३)। एतादृशीं तां ललनाललामभूतां तापसकन्यां दृष्ट्वा राजा स्वधनु: मृगेषु नमयितुमशक्तो जात:। राज्ञि इदं परिवर्तनं रूपके अतिशयमेव प्रगुणयति। सेनापतिस्तदनु च ब्रह्मचारिण एतं राजानं पश्यन्ति। तेषां दर्शने वर्तते कश्चिद् विशेष:। ब्रह्मचारिण एतं राजानं इव नाग: प्राणसारं गात्रं बिभर्ति। ब्रह्मचारी तं मुनिं मनुते 'पुण्य: शब्दो मुनिरति मुहु: केवलं राजपूर्व:’ (२/११)। एवमेव राज्ञो दृष्टौ तपोवने गूढं दाहात्मकं तेजो वरीवर्त्यते।
शकुन्तला अपरैव स्त्रीरत्नसृष्टि:। तस्या: कृते अनाघ्रातं पुष्पमित्यादिना (२/११) चत्वारि उपमानानि उपस्थापितानि। तानि चोपमानानि पुष्प-किसलय-रत्न-मधूनि क्रमश: गन्ध स्पर्श-रूप-रस-तन्मात्रसम्बद्धानि इन्द्रियसन्तर्पकत्वं प्रकटयन्ति नायिकाया:। किन्तु अखण्डं पुण्यानां फलमिव च तद्रूपमनघमिति कथनेन अन्यैव कवे: दृष्टिरिह प्रतिफलति। अन्यत्राप्युपमया कालिदासो दुष्यन्तमुखेन नायिकाया पावनतां प्रकटीकुरुते--
सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम्।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम्।
चतुर्थाङ्के सैव शकुन्तला अग्निगर्भा शमीव प्रकटीभवति। तस्या: प्रस्थानकाले अरण्यौकस: कण्वस्य स्नेहाद् वैक्लव्यमसाधारणम्, शकुन्तलताया पशुपक्षिषु स्नेहोऽपि तथा। पञ्चामाङ्के शार्ङ्गरवो हस्तिनापुरस्य राजप्रसादं हुतवहपरीतं गृहमिव पश्यति, शारद्वतश्च तत्रत्यं सुखसङ्गिनं जनमभ्यक्तमिव स्नात:, शुचिरशुचिरिव प्रबुद्ध इव सुप्तं जानाति। दुष्यन्त इह तपोधनानां पाण्डुपत्राणां मध्ये किसलयाकृतिं शकुन्तलां पश्यति। सैव हृदयानुमानेन पश्यसि, क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणच्दन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यत इति कथयन्वितं तथैव बालकेन भरतेन कृतम् अर्धपीतस्तनस्य सिंहशिशोर्बलात् मातुरङ्कात् कर्षणम्। अत एवाह दुष्यन्त:-
महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे।
स्फुल्लिङ्गावस्थया वह्निरेधोऽपेक्ष इव स्थित:।।(१।१५)
अत्रोपमातिशयालङ्कारेणैव प्रगुणिताऽऽस्ते। दक्षमरीचिसम्भवस्य दम्पतियुगलस्य दर्शनमपि तथैवातिशयं प्रगुणीकुरुते नाटके। अन्तत: शाकुन्तले कालिदासगिरा- 'श्रद्धावित्तं विधिश्चैव त्रितयं चात्र सङ्गतम्’
अतिशयोऽयमतिशेते, विविधैरलङ्कारै: प्रगुणित:, विविधाँश्चालङ्कारान् स्वयं प्रगुणयन्। तद्यथा जूलियाया: पद्येस्मिन्-
एकं वस्तु द्विधा कर्तुं बहव: सन्ति धन्विन:।
पुष्पधन्वा विजयते द्वयोरैक्यं करोति य:।।
अत्र पुष्पधन्वा मकरकेतु: सामान्येभ्यो धनुर्धारिभ्य: प्रकृष्टतर इति विजयत इति कथनात् व्यतिरेक:, पुष्पाणां धनुर्धारिभ्य: प्रकृष्टतर इति विजयत इति कथनात् व्यतिरेक:, पुष्पाणां धनुर्धारयति तथापि विजयत इति विरोध इति द्वावपीमावलङ्कारौ अतिशयं प्रगुणयत:, अतिशयश्च इमौ प्रगुणेयति। अत्र प्राधान्यं तु अतिशयस्यैव। क्वचित्तु अलङ्कारान्तरप्राधन्येऽतिशयस्तत्प्रकर्षाय उपादीयते। तथा हि कालिदासस्य पार्वतीवर्णने-
पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्।
ततोऽनुकुर्याद् विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुच: स्मितस्य।।
मम्मटादीनां मतेनेह यद्यर्थातिशयोक्ति:, अस्मन्मतेनोपमाया एवायं प्रकार:। सा चोपमा अतिशयेन कमप्यतिशयमेव धत्ते। भवति चात्र श्लोक:-
अतिशय एक: सततं काव्ये प्राणप्रदो धर्मो भाति।
उच्छ्वास: कविताया: स्तम्भ: साहित्यसौधस्य।
युक्तमुक्तवान् दण्डी-
अलङ्कारान्तराणामप्येकमाहु: परायणम्।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम्।। (काव्यादर्शे -२।२२०)
अतिशये प्राचीनै: कविभिरप्रस्तुतविधानत्वेन प्रयुज्यमानानां पदार्थानां प्रस्तुतीकरणम्, प्रस्तुतानां चा प्रस्तुतीकरणम्। तेन च-
भावानचेतनानपि चेतनवत् चेतनानचेतनवत्।
व्यवहारयति कवि: काव्ये यथेच्छं स्वतन्त्रतया।।
इति आनन्दवर्धनस्योक्तिमेतादृशा अतिशयप्रयोगाश्चरितार्थयन्ति।
अतिशयालङ्कारोऽयं पाश्चात्त्यानां मतं बिम्बविधानं क्रोडीकरोति। वर्ण्यविषयस्य यदा सूक्ष्मोऽपि विशद: कान्तिमाँश्च बोधो भवति तदा काव्यबिम्बं तदिति कथ्यते। ते च काव्यबिम्बा:। जातिमूलकानां बिम्बानामुदाहरणानि उपरि जात्यलङ्कारनिरूपणे दत्तान्येव। अतिशयमूलका बिम्बा इह विचार्यन्ते। यत्र प्रस्तुतानामप्रस्तुतत्वमन्यथा वा अथवा अचेतनानां चेतनत्वं तत्र अतिशयमूलको बिम्ब:। सोऽपि द्विविध:- गतिमूलक: स्थितिमूलकश्च। आद्यो यथा खिस्तेबटुकनाथशास्त्रिणां मधुबन्धुरिति काव्ये वसन्तवर्णने-
अपसरति शैशिरी श्री: श्वश्रूरिव कर्मतो गहनात्।
सुषमा नवा वधूरि भाति तदीय: प्रियश्च मधुबन्ध:।।
(कविभारतीकुसुमाञ्जलौ, पञ्चमभागे, पृ. १९)
प्राचीनकाव्ये नवा वधू: वासन्तिकसुषमया उपमीयते। इह तावत् माधवी शोभैव नववध्वोपमिता। मधुबन्धुर्वसन्तश्च तस्या: प्रिय उक्त:। विशिष्ट इह कविप्रतिभाया: समुल्लासो जात: शैशिर्या: श्रियोऽपसरणचित्रणे। शिशिरेऽपि भवन्ति श्रीरिति कविरूरि कुरुते, परन्तु सम्प्राप्ते वसन्ते परावर्तते शिशिरगता सा श्रीरिति परावर्तनक्रियाया बिम्ब इह यश्चित्रितस्तत्कृते गहनकर्मविरताया: श्वश्र्वा अपसरणस्य उपमा प्रादायि। इदमत्राकूतम्- गृहे सुरुपां लक्ष्म्यामिव नवध्वां समागतायां यथा श्वश्रूस्तस्यां सकलं गहनं गृहभरं न्यस्य निवर्तते, तथैव वसन्तसुषमायां समागतायां शैशिरी श्रीर्निवर्तते। एतेन भारतीयपरिवारस्य वासन्तिक्यां सुषमायां समुल्लसन्त्यां शिशिरस्यापसरणं समुचितम्, तथैव सुयोग्यायां नववध्वां श्वश्र्वास्तस्यां सकलं गृहकृत्यभरं गार्हस्थ्यशकटदायित्वं वा न्यस्य निश्चिन्तसंन्यस्तजीवननिर्वहणमेव समुचितमिति विचारोऽपि अत्र सम्यग् व्यज्यते। अत्र वासन्किसुषमासमागम: शैशिर्या: श्रियोऽपसरणमिति गतिद्वयी विशिष्य चमत्कारमयं बिम्बविधानं तनुते। तेन बिम्बानां गतिमयताऽत्र मनोहारिणी। स्थितिमूलको बिम्बो यथा कालिदासस्य-
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्।
तथा समस्तं तिमिरांशकुं तया पुरोऽपि रागाद् गलितं न लक्षितम्।।
अत्र नायकयोर्वृत्तान्तं निशाशशियुगलेऽध्यवसितमिति अतिशय:। तत्रापि प्रेम्णस्तन्मयतायामुभौ निश्चलौ जाताविति स्थितिमूलकत्वं बिम्बस्य। वस्तुतस्तु समग्रोऽपि कावयार्थो भवति आकृतिमान्। 'व्यक्त्याकृतिजातयस्तु पदार्था’ इति न्यायसूत्रोक्ते: (२।२।६९) कथनात्। जातिव्यक्त्योरविनाभावसम्बन्धात् सर्वोऽपि पदार्थस्तथैव काव्यार्थोऽपि मूर्तिमानेव भवतश्चात्र श्लोकौ-
भावोरागश्च लालित्यमङ्गप्रत्यङ्गसौष्ठवम्।
लावण्यं कान्तिमत्ता च बिम्बस्येमे गुणा: स्मृता:।।
सुसमाहितसंस्थानं सन्निवेशस्य चारुता।
स्फुटत्वं सूक्ष्मता चैव अन्यूनानतिरिक्तता।।
इति सङ्घटनाश्रिता अलङ्काराश्चत्वार:। अथ विरोधमूलका आरभ्यन्ते। तत्र प्रथमो विरोध:-
एकस्मिन् धर्मिणि विरुद्धधर्मप्रतीतिर्विरोध:।।२।६।६।।
अयमेव विरोधाभास इत्यपि कथित: कैश्चित्। तत्र आभास: सहृदयप्रतीतिदृष्ट्या उच्यते। विरुद्धा धर्मा वस्तुनि वस्तुतो भवन्त्येव। कविरेव वस्तुनि विरुद्धधर्माधिष्ठानं जानाति निदर्शयति च।
ननु यदि विरोधालङ्कारे वस्तुनि विद्यमानयोर्धर्मयो: परस्परं विप्रतिषेधो विरोधो परिहार: कथं स्यात्? न च न भवतु नाम विरोधपरिहार:, न तेन कवित्वस्य काऽपि क्षतिरिति वक्तुं शक्यते, तादृशस्य परिहारस्य सहृदयैरनुभवात्। अत्र ब्रूम:- वस्तुनस्तावद् द्विविधं रूपं स्वीकृतं महिमभट्टादिभि:- सामान्यं विशेषश्च। तत्र क्वचिद् सामान्यरूपे विरोध:, विशेषरूपे च विरोधपरिहार:। अस्मिन्मते तु वस्तुनस्त्रिविधं स्वरूपम्- आधिभौतिकाधिदैविकाध्यात्मिकभेदेन। तत्र क्वचिदाधिदैविकरूपे एकस्य वस्तुनि अधिष्ठितं धर्मद्वयं परस्परेण विरुणद्भि, तदेव आधिदैविक आध्यात्मिके वाऽस्य रूपे विरोधं जहाति। तथा हि भवभूतिराह राममधिकृत्य-
वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को नु विज्ञातुमर्हति।।
अत्र कठोरत्वं मृदुत्वं च परस्परं विरुद्धम्, एकस्मिन्नेव वस्तुनि लोकोत्तरचित्ते अधिष्ठितम्। आधिभौतिकजगति लोकोत्तरचित्तं कर्तव्यं पालयत् कठोरम्, आधिदैविकजगति लोकोत्तरचितं कर्तव्यं पालयत् कठोरम्, आधिदैविकजगति तदेव भावनाभि: सम्भृतं कुसुमकोमलं भवति, आध्यामिकदृशा तु यदवे वज्रकठोरं तदेव परमकोमलं भवति। य एवाऽरणीयः सख महतो महीयान् भवति। अत एव आधिभौतिकजगति दृश्यमानं वा आधिभौतिकरूपेण निरूपितं वा वस्तु विरुद्धधर्माधिष्ठतं भाति, आधिदैविक आध्यात्मिके वा जगति स्थापितम्। यद्वा आधिदैविकेन आध्यात्मिकेन स्वीयेन रूपेण विलोक्यमानं तदेव भवति निवृत्तविरोधम्। यथा ऋग्वेदे कितवसूक्त उक्तम्-
नीचा वर्तन्ते उपरि स्फुरन्ति अहस्तासो हस्तवन्तं सहन्ते।
दिव्या अङ्गारा इरिणे नियुप्ता शीता: सन्तो हृदयं निर्दहन्ति।।
अत्र यद्वस्तु नीचैर्याति तदेव उपरि कथं याति, यद्धस्तविहीनं तत् कथमन्यस्य हस्तं गृह्णातीति विरोध:। विरोधपरिहारस्तु व्यङ्ग्यार्थबोधेन भवति। कितवसूक्तं समग्रमेव विरोधालङ्कारसङ्ग्रथितम्। कितव: अद्य द्यूताय न गमिष्यामीति चिन्तयति, किन्तु पुनर्गच्छति।
क्वचित्तु आधिभौतिकदृशा वस्तुनि न विरुद्धधर्माध्यास: कविदृशा तत् स्थाप्यते। अत एव मम्मट आह - विरोध: सोऽविरोधेऽपि विरुद्धत्वेन यद् वच:। (काव्यप्रकाशे-१०, सूत्रं - १६६)
वस्तुवृत्तेनाविरोधेऽपि विरुद्धत्वेन यदभिधानं वस्तुवृत्ते विद्यमानस्य विरोधस्य प्रकाश: अविरोधे च पर्यवसिति:।
इत्थं विरोधालङ्कारो द्विविध:- (१) आपाततो विरोधप्रतीतौ अविरोधे पर्यवसानम् (२) आपाततो अविरोधप्रतीतौ विरोधस्थापनम्। अत एव सर्वत्र विरोधस्य समाधानं न भवति विरोधालङ्कारे। अयं च विरोधो वा अविरोधो वा एकस्मिन् वस्तुनि भवति। वस्तु च जाति-गुण-क्रिया-द्रव्यभेदेन चतुर्धा। जातेर्जात्यादिचतुष्टयेन विरोधे चत्वार:, गुणस्य जातिवर्जं त्रिभ्यां विरोधेन त्रय:, क्रियाया एवमेव द्वाभ्यां विरोधेन द्वौ, यदृच्छासन्निवेशितस्य च तेनैव विरोध एको भेद:, इत्थं साकल्येन दशभेदा मम्मटेन विरोधालङ्कारस्य निरूपिता:। वस्तुतो जगद्गत: समस्तो विरोध एतेषु दशषु विश्रान्त:। जीवनं जगदेव आपाततो विरोधेन द्वन्द्वात्मकतया वा विरचितम्। कविवरेनं विरोधं परिचिनोति, परिचाययति च।
विरोधस्य इमे भेदा मम्मटेन संसारगतं विरोधं परिलक्ष्य प्रकीर्तिता:। काव्ये नाट्ये अन्यासु वा कलासु तु विरोधालङ्कारस्तद्गतशिल्पे संरचनाया वा अन्तरनुस्यूतो भवति। तद्दृशा च विरोधालङ्कार: पदार्थगतश्चरित्रगत: पात्रस्याचरणगतो वा वाक्यगत: प्रकरणगत: प्रबन्धव्यापी च भवितुमर्हति।
तत्र पदार्थगतो विरोधस्तु कितवसूक्तोत्तरचितयोरुपर्युद्धतपद्यद्वयेन वेदितव्य:। चरित्रगत आचरणगतो वा विरोधो यथा उत्तरचरिते या वासन्ती रामस्य प्रशंसायां 'लोकात्तराणां चेतांसि को नु विज्ञातुमर्हती’ त्याह सैव वासन्ती राममभियुनक्ति कठोरं च निर्भर्त्सयन्ती कथयति-
अयि कठोर यश: किल ते प्रियं
किमयशो ननु घोरमत: परम्।
किमभवद् विपिने हरिणीदृश:
कथय नाथ कथं बत मन्यसे।।
अत्र यस्य यश: सर्वथा प्रिय: स एव अयशस्करं वैदेहीपरित्यागमाचचारेति चरित्रगतो विरोध: प्रतिपाद्यते। अन्यच्च या वासन्ती रामस्य शलाघायां वचोवितानं प्रथयन्ती बभूव सैव क्षणानन्तरं तं प्रत्यक्षमेव दूषयति। अयं वासन्त्या विरोध:। अयं प्रकरणाश्रितो विरोधो वा। मनुष्यजीवनं मनुष्यचरित्रं च विरोधानामन्तर्विरोधानां वा महत्वपुञ्जम्। तस्य च निदर्शनं भवति विरोधालङ्कारप्रयोगेण। वासन्त्या मनसि रामं प्रति आस्था अनास्था च युगपज्जागर्ति। मनस्तावदचिन्त्यहेतुकं विकल्पयति। रामं प्रति स्नेहवशात् कठोरै: शब्दैस्तं वासन्ती तुदतीति समाधानं यदि दीयेत, तदा यस्मिन्नेव स्नेहातिरेक: स एव परुषैर्वचोऽङ्गारकै: पीड्यत इति पुनर्विरोध:। इत्थं जगद्गतस्य विरोधस्य न भवति सर्वदा सर्वथा समाधानम्।
अथ प्रकरणगतो विरोधो विचार्यते। तत्र क्वचिद् अतिसामान्ये वस्तुन्यपि विरोधस्तथा तिष्ठति यथा न भवति विरोधपरिहार:। एतादृशा विरोधा आङ्गलभाषायां भवन्ति पैराडॉक्स पदवाच्या:। तथा हि महाकवी रत्नाकर आह 'हरविजय’ महाकाव्ये-
स्पृष्टा न या दिनकरांशुभिरह्नि वह्नि-
गर्भैरपि क्वचन मम्लमुरम्बुजिन्य:।
मम्लुस्तरां शशिकरैपरि ता: सुधाद्र्रै-
रक्षुण्सावामचरिता बत पद्मनेत्रा:।।(२०।७०)
सूर्यस्य अङ्गारप्रखर आतपे समधिकतरं विकसति कोमला कमललता। सैव चन्द्रकिरणै: स्पृष्टा म्लायतेतराम्। एष अनिर्वचनीय समाधानो विरोध: 'पैराडॉक्स’ - रूप:। कमलनयनास्तादृशा एव भवन्ति वामचरिता इति कविरत्र कामं समादधातु। परन्तु कमलनयना: किमर्थमक्षुण्णवामनयना इत्यत्र को हेतुरिति प्रश्ने किं समाधानं स्यात्? अत एव विरोधे समाधानमनिर्वाच्यं भवति क्वचित्। तदुक्तं कालिदासेन-
स्वयं विधाता तपसा फलानां केनापि कामेन तपश्चचार।
अत्र य एव तपस: फलानां विधाता, स एव तपस्यति तदपि फलस्य वाञ्छया इति विरोध:, कस्य फलस्य वाञ्छयायं विधाता तपस्यतीति अनिर्वाच्यं तिष्ठति।
अथ प्रबन्धगतो विरोधो विचार्यते। प्रायशो विरोधमूलका विरोधगर्भाविरोधावसानाश्च भवन्ति उत्तमोत्तमा: प्रबन्धा:, इह उत्तमोत्तमकाव्यतया व्यपदिष्टा:। समग्रस्य शाकुन्तलस्य संरचनायां विरोधालङ्कार आद्यन्तमनुस्यूत:, स च साधयति नाटकस्यास्य प्रकर्षम्। 'कुतो धर्मक्रियाविघ्न: सतां रक्षितरि त्वयि’ इति मुनिकुमारप्रशंसितो वर्णाश्रमाणां गोप्ता एव धर्मक्रियासु विघ्नमाचरति। तस्य शकुन्तलां प्रति प्रेमा एव मूर्तो विघ्नस्तपस इव जायते। य एव अमरेषु विनयाधायक: स एव पौरव रक्ष विनयमिति स्वस्मिन् विनयाधानाय प्रार्थ्यते। यत् पुष्पभाजनं शकुन्तलाया: सौभाग्यदेवताया अर्चनार्थं नीयते, तदेव विलुठ्य तस्या असौभाग्यसूचकममङ्गलोदर्कं च भवति। य: शाप: स वर:, यश्च वर: स शापं सूचयति दुर्वासस: कण्वस्य चोक्त्यो:, किन्त्वभिज्ञानाभरणदर्शनात् शापो निवर्त्स्यत इति निवर्तनस्य ध्रुवत्वप्रतिपादनात् (अन्यथा यदि दर्श्येत तर्हि निवर्तेत इति कथ्येत), ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भवेति कथनाच्च शर्मिष्ठेव आदौ मह्द्दु:खमनुभवितासि अनन्तरं सुखिमिति सङ्केतात़। अन्ततश्चापि-
यथा गजो नेति समक्षरूपे
तस्मिन्नपक्रामति संशय: स्यात्।
पदानि दृष्ट्वा तु भवेत् प्रतीति-स्तथाविधो मे मनसो विकार:।।
इत्यत्र विरोधगता भावा विन्यस्ता:। इति प्रकरणगता: प्रबन्धगताश्च विरोधालङ्कारा: शाकुन्तलीयां संरचनां समुन्नयन्ति। भवभूतिरिपि भूम्ना विरोधालङ्काराणां गहने प्रयोगे विचक्षण:।
उत्सिक्तस्य तप: पराक्रमनिधेरभ्यागमादेकत:
सत्सङ्गप्रियता च वीररभसो: फालश्च मां कर्षत:।
वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलय
न्नानन्दी हरिचन्दनेन्दुशिशिर: स्निग्धो रुणद्ध्यन्त:।।
एवमेव रामं वीक्ष्य परशुरामस्य, चन्द्रकेतुं वीक्ष्य लवस्य, लवं च दृष्ट्वा चन्द्रकेतोर्मनोदशा विरोधपिहिता वरीवर्त्यते। भावसन्धेरुदाहरणानीमानि इति तु ध्वनिवादिनां मतम्। अस्मन्मतेन तु एकस्मिन् जने परस्परं विरुद्धविचाराणां मनोभावानां वा विद्यमानत्वे विरोधालङ्कार एवं अयं च विरोधो उपमाश्लेषादिभि: संसृष्टो काव्ये समधिकतरं महिमानं पुष्णाति। विरोधानुप्राणितोपमा कलयति किमपि कामनीयकम्। तद्यथा-
सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्य:।
यामिनयन्ति दिनानि सुखदु:खवशीकृते मनसि।।
इति मम्मटोदाहृते पद्ये। अत्र सवितुर्विधुत्वे, विधो: सवितृत्वे, दिनस्य यामिनीत्वे, यामिनीनां च दिनत्वे एकस्मिन् धर्मिणि विरुद्धधर्मदर्शनाद् विरोधआभासते, स च परिणामालङ्कारं पोषयति। यथा वा ममैव जनतालहर्याम् -
ग्रीष्मेऽङ्गारकरैस्तपन्निह करैर्मित्रोऽप्यमित्रायते
वर्षन् भग्रकुटीरजर्जवृत्तौ देवस्तु दैत्यायते।
क्षुत्क्षामस्य विषायते मधुरहो नो माधवस्त्रायते
सामन्तैर्बहुखेदितस्य निखिलं विश्वं विरुद्धायते।।
अत्रोपमा श्लेषश्चोभावपि विरोधेनानुप्राणितौ। कर-मित्र-देव-मधु-माधव-शब्दा अत्र शिलष्टा:।
इत्थं न केवलमलङ्कारान्तरे अपि तु लघुप्रबन्धे महाकाव्यादावपि प्राणपदो भवति विरोध:।
यावान् गहनो विरोधो प्रबन्धे वा खण्डकाव्ये लघुनि काव्ये वा अन्तरनुस्यूतस्तावानेव महिमा तत्तत् काव्यस्य, तावती च गहना प्रतिफलति तस्मिन् महाकवेर्दृष्टि:। विरोधे सर्वत्र समाधानं न भवति, समाधानाय धीर्जागर्ति। अयमेव महाकवीनां कर्तृत्वं यत् सकलविरोधानुभूतौ सत्यां तत्समाधानधियो जागरयिषा।
अथ असङ्गति:।।२।६।७।।
सङ्गतेरभावोऽसंङ्गति:।।२।६।७।।
सङ्गतेरभावोऽसङ्गतेरभावोऽसङ्गति:। असंश्लेष इति यावत्। यस्मिन् धर्मिणि येन धर्मेण भाव्यं, स तत्राविद्यमान:, अन्यत्र च विद्यमान: सन्नसङ्गतिमवतारयति। सा चेयं देश-काल-प्रकरण-पात्र-प्रबन्धगतत्वेन पञ्चधा। कार्यकारणयोर्भिन्नदेशतायामसङ्गतिरिति साहित्यदर्पणकार:। जीवने जगति आपाततो बहुधा विरोध इव असङ्गतिमपि च निर्दिशति।
शोभाकरमित्रस्तु असङ्गतिं दिक्कालपरिव्यापिनीं निदर्शयन् अष्टौ प्रकारानस्या निरूपयामास। एतेषु अष्टसु प्रकारेषु निखिलो जगत्प्रपञ्च: समाविष्ट:। दिक्कालगतं कार्य-कारणयोरन्यथात्वमसङ्गतिरिति लक्षणं शोभाकरोऽसङ्गतेराह। सा च कार्यस्य स्वस्थानात् च्युतस्यानयस्थान आविर्भावे, भिन्नस्थानयोर्भाव्यस्य तस्य एकस्मिन् स्थान आविर्भावे, पूर्वं सम्भाव्यस्य पश्चाद्भावे, पश्चात् सम्भाव्यस्य पूर्वभावे वा कारणसहभाव्यस्य पश्चाद्भावे अभावे वा ऐहिकस्य कार्यस्य आमुष्मिकत्वो, आमुष्मिकस्य चैहिकत्वे इत्यष्टौ भेदा:।
गीतिकाव्येषु प्रायोऽसङ्गतिरलङ्कार: कवे: त्रिविधाऽप्यसङ्गतिरत्यन्तं मनोहारिणीं सङ्गतिं धत्ते भगवदज्जुके प्रहसने। भगवत: संन्यासिन: शिष्य: शाण्डिल्योऽध्ययनाय मुहुर्मुहु: प्रेरितो भोजनं भैक्ष्यमेव केवलं चिन्तयति, योगस्य वार्तां भोगवार्तायां परिणमितुं यतते। मृतायां गणिकायां वसन्तसेनायां स तस्या मृतशरीरमाश्रित्यापि लिप्सां प्रकटीकुरुत इति ब्रह्मचारिणि शाण्डिल्ये सर्वमिदमस्थाने विजृम्भणं दुर्विपाकं पात्रगताया असङ्गतेरुदाहरणम्।
शाण्डिल्यं प्रबोधयितुं भगवान् स्वकीयं जीवं मृताया गणिकाया देहे सङ्क्रामयति। असङ्गतेरद्भूत एव चमत्कारलोकस्तदानीं स्फुरति। गणिका संन्यासीव आचरति, पश्चाच्च यमदूतेन विनिवेशिते संन्यासिनो देहे गणिकाया जीवे संयासी गणिकावत् समाचरति। इत्थं प्रभवति भगवति गणिकाभावो, गणिकायां च विन्यस्यते संन्यास:। तद्यथाऽऽह शाण्डिल्य:-
नैव भगवान, नैव गणिका। भगवदज्जुकं संवृत्तम्।
वामनस्तु असङ्गतिं निरुपयन्
पीतं पानमिदं त्वयाऽद्य दयिते मत्तं ममेदं मन:
पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि।
त्वं तुङ्गस्तनभारमन्थरगतिर्गात्रेषु मे वेपथु: गति:। त्वन्मध्ये तनुता ममाधृतिरहो मारस्य चित्रा।
तथा च--
सा बाला वयमप्रगल्भमनस: सा स्त्री वयं कातरा:
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम्।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दौषेरन्यजनाश्रयैरपटवो जाता: स्म इत्यद्भुतम्।।
इति काव्यालङ्कारसूत्रस्य वृत्तौ (४।३।१२) विरोधालङ्कारस्य उदाहरणद्वयमुदाजहार। तदयुक्तम्। एतयोरसङ्गत्यलङ्कार एव।
अथ अपह्नुति: -
अपह्नुतिर्निषेधेन स्थापना वस्तुतत्त्वस्य।।२।६।८।।
अवास्तविकस्य कविदृशा निषेधार्हस्य वा निषेधपुरस्सरं परमार्थतत्त्वस्य स्थापना अपह्नुति:। तथा हि-
पुराणामित्येव न साधु सर्वं
न चापि काव्यं नवमित्यवद्यम्।
सन्त: परीक्ष्यान्यतरद् भजन्ते
मूढ: परप्रत्ययनेयबुद्धि:।।
अत्र पुराणमात्रे साधुत्वबुद्धिं निषिध्य परीक्षया यत् साधु सिध्येत तस्य स्थापना विहिता। यथा वा भर्तृहरे:-
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्जवला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजा:।
वाण्यूका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्त खलु भूषणानि सततं वाग्भूषणं भूषणम्।।
यथा वा मदीयजनतालहर्याम् -
नो दानैर्न तपोभिरप्यतितरां नो चेज्यया विद्यया
नो काषायपटैरखण्डविभवै: स्यात् संस्कृतो मानव:।
हित्वा स्वार्थपरायणैकधिषणां धृत्वा च सेवाव्रतं
लोकाराधननिष्ठयैव पुरुष: संस्कार्यते धार्यते।।५।।
प्रकृतं यन्निषिध्यान्यत् स्थाप्यते सा त्वपह्नुतिरिति पुरातना आचार्या:। मम्मटादीनां मतेनात्र प्रकृतं नाम उपमेयम। अपह्नुतिरेतेषां मतेन साधर्म्यमूलक एवालङ्कार:। कुन्तक-भोजराजादयस्तु औपम्यमूलकतामतिरिच्यतेऽपह्नुतिरिति मन्वते। कुन्तकस्तु-
अन्यदर्पयितुं रूपं वर्णनीयस्य वस्तुन:।
स्वरूपापह्नवो यस्यामपह्नुतिरसौ मता। (व.जी.३।४९)
इति लक्षणं विधाय स्वरूपाह्नव: स्वरूपापलाप इति व्याख्यानं चकार, उदाजहार च 'तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं दृश्यते मद्विधेष्वि’त्यादि कालिदासीयं पद्यं धर्ममात्रापह्नुत्युदाहरणत्वेन।
वामनस्तु समेन वस्तुनाऽन्यापलापोऽपह्नुतिरिति (का.लं.सू. ४।३।५) लक्षणं विधत्ते।
वस्तुत: परमार्थसत्ताया: स्थापनार्थं प्रकृतस्य परिदृश्यमानजगतो निषेध एव अपह्नुति:, न तत्र सादृश्येऽनुबन्ध:। सादृश्यमूलाऽपि कामं भवत्वपह्नुति:। वाच्यव्यङ्ग्यभेदेनेयं द्विविधा। व्यङ्ग्यायामपि क्वचित् सादृश्ये परिणति: क्वचिन्न। तथा हि--
अङ्गारप्रखरै: करै: कवलयन्नेतन्महीमण्डलम्।
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृत:।
अत्र सूर्यचन्द्रमसोर्न किमपि सादृश्यम्। चन्द्रं निषिध्य विरहिदृशा सूर्य: स्थाप्यते।
क्वचित्तु केवलं निषेध एव अपह्नुति:, अन्यस्य स्थापनं भवेन्मा वा भवेत्। तथा हि-
निर्दयं विरौम्यहं न कोऽपि शृणोति माम्।
मामके हि भारते कीदृशी स्वतन्त्रता।।
इति अभिराजकवेरुक्तौ प्रकृताया: स्वतन्त्रताया निषेधो न शाब्द: अपि तु प्रत्याय्य:। नेयं वास्तविकी स्वतन्त्रतेति प्रतीते: पर्यवसायित्वे अपह्नुतिरेव।
चन्द्रालोककारस्तु - अतथ्यमारोपयितुं तथ्यापास्तिरपह्नुतिरिति लक्षणं विवृण्वन् तथ्यस्य निराकरणेऽपह्नुतिं मनुते। बौद्धाचार्य: सङ्घरक्षित: अपह्नुतेर्नामैव विपरिवर्त्य वञ्चनामिति नाम प्रयुङ्क्ते। तर्हि असदुपदेशपरकं तावत् काव्यं वर्जनीयं स्यात्, रण्डागीतानि काव्यानि इति मिथ्याधर्मशास्त्राचार्याणामुक्तिश्च सत्यत्वमीयात, तथैव काव्यालापाँश्च वर्जयेद् इत्यपि स्मृतिकाराणां निर्देश: सर्वत्र पालनीय: स्यात्। नैतत्। वस्तुतो जयदेवस्य लक्षणे परस्परविरोध:। तथा हि अपह्नुते: पञ्चसु भेदेषु भ्रान्तापह्नुतिरिति एको भेदस्तेन कीर्तित:। भ्रान्तापह्नुतेर्जयदेवस्यैव लक्षणमिदम्- तथ्यस्य स्थापनं भ्रान्तापह्नुतिरिति। वस्तुत: काव्यं न अतथ्यं स्थापयति, अतथ्यस्य निरासमेव करोति। आपाततो वास्तविकीं प्रतीयमानामवास्तविकतां निरस्य परमार्थतया वा वास्तविकता तस्य स्थापनेऽपह्नुतिरिति वक्तव्यम्। तथा हि-
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
अत्र आपाततो यत् प्रतीयमानं गृहमिति, तन्न वस्तुतो गृहं, गृहिण्या अवस्थानादेव परमार्थतो गृहं भवतीति प्रतिपादितम्।
अपह्नुतावापाततो मिथ्याप्रतीयमानस्य स्थापना क्वचिद् भवति, तदपि सत्यस्यैव स्थापनार्थम्। यदुक्तं भर्तृहरिणा- असत्ये वर्त्मनि स्थित्वा तत: सत्यं समीहते।
इत्थमपह्नुतिर्निषेधेन भवति, अपह्नवेनापीति द्विधा- निषेधमूला अपह्नवमूला च। उभयत्रापि निषेधो वा अपह्नवो वा वाच्यमुखेन व्यङ्ग्यमुखेनेति चत्वारो भेदा:। एतेषां चतुर्णामपि वाक्यगतत्वेन, प्रकरणगतत्वेन, प्रबन्धगतत्वेनेति मुख्यतस्त्रैविध्याद् द्वादशविधा अपह्नुति:।
अपह्नुतिरियं क्वचिद् रूपकावसाना भवति, क्वचिच्च रूपकनिषेधमूला-
नेदं नभोमण्डलमम्बुराशि
र्नैताश्च तारा नवफेनभङ्गा:।
नायं शशि: कुण्डलित: फणीन्द्रो
नासौ कलङ्क: शयितो मुरारि:।।
अत्र नभोमण्डलं, तारा:, शशि:, कलङ्कश्चेति चत्वार: पदार्था: प्रकृतभूता:। तान्निषिध्य क्षीरसागर-तत्फेन-फणीन्द्र-मुरारय आरोपिता:। अतो रूपकं गर्भीकृत्यावसानमिहापह्नुते:।
अप्पयदीक्षितस्तु षड् भेदानपह्नुतेराह कुवलयानन्दे। तेषु छेकापह्नुतिरपि परिगणिता। छेकापह्नुतौ द्व्यर्थकेन वचोविन्यासेन एकस्मिन् वस्तुनि उपयुज्माना भणितिरप्रत्याशित्वाद् अन्यस्मिन् वस्तुनि साध्यते।
यदि तु समग्रेऽपि प्रबन्धे प्रकृतस्य निषेधोऽप्रकृतस्य काम्यस्य वाञ्छनीयस्य च स्थापना तदा अपह्नुतिरलङ्कार: प्रबन्धगत: स्यात्। तद्यथा मालविकाग्निमित्रे 'पुराणामित्येव न साधु सर्वम्’ (१।२) इत्यत आरभ्य अपह्नुतेरपह्नवस्य वा य उपक्रम: कविनाऽकारि स आद्यन्तं निर्व्यूढ:। स च आरम्भत एव दृश्यते मालविकाग्निमित्रे। देवी धारिणी मालविकां निह्नुते अग्निमित्रात्। अनन्तरं सा नानुमन्यते गणदासहरदततयोर्मिथ: प्रसक्ते कलहे उभयो: शिष्यावतरणम्। अग्निमित्रस्य कामतन्त्रनैपुणीमसौ निषिध्य राजकार्यनैपुणीं तस्मिन्नाशंसते- यदि राजकार्येषु ईदृशी उपायनिपुणता आर्यपुत्रस्य तत: शोभनं भवेदिति प्रथमाङ्क एव। राजाऽपि 'अलमन्यथा गृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम्’(१।२०) इति समग्रोऽप्यङ्कस्तस्या गोपने प्रकटीकरणे च प्रवर्तते। मालविकाया निषेधे प्रकटीकरणे चापह्नुतेरद्वितीय एव प्रकार आविष्कृतो महाकविना। अथ च--
उचित: प्रणयो वरं विहन्तुं
बहव: खण्डनहेतवो हि दृष्टा:।
उपचारविधिर्मनस्विनीनां
न तु पूर्वाभ्यधिकोऽपि भावशून्य:।।(३।३)
इत्यत्राप्यग्निमित्रो धारिण्या: प्रणयं निषिध्य मालविकां प्रति प्रवर्तते। मालविका स्वप्रेमाणं नानुमन्यते, राज्ञ आकर्षणमपि न गणयति। मालविकायाश्छलिकं नाट्यं निखिलमप्यपह्नुतिरेव। आह च बकुलावलिकाम्- 'अलीकं मन्त्रयसे। एतदेव मयि नास्ति’। बकुलावलिका च निषेधं निराकृत्य स्थापयति राज्ञस्तस्मिन् बहुमानम्- 'सत्यं त्वयि नास्ति। भर्तु: कृशेषु सुन्दरपाण्डुरेषु दृश्यते अङ्गेषु’ इति। पुनराह सा- 'नहि, भर्तु: खल्वेतानि प्रणयमृदुलान्यक्षराणि वक्त्रान्तरितानि’। मालविकाया मोचनाय विदूषकोऽपरं छलिकनाट्यं रचयति। तत्र यज्ञोपवीतं पादाङ्गुष्ठे निबद्धं भवति। राजा गूढमभिसरति प्रमदवनम्। यदा मालविका भट्टिन्या भयं प्रकटीकुरुते अग्निमित्रश्च मामाश्वासयति- 'अयि, न भेतव्यम्’ इति तदा साऽऽह- 'यो न बिभेति स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता’। अत्र न त्वं शूरोऽपि तु का पुरुषइति व्यङ्ग्यम्। यादृशश्चित्रगतो ननु तादृशं एवान्यसङ्क्रान्तहृदय आर्यपुत्र:- इति कथयन्ती इरावती स्वभर्तुरात्मनि स्नेहस्य निषेधं विधत्ते। यदा इरावतीं दृष्ट्वा सर्वे सम्भ्रान्तास्तदा विदूषको जङ्घाबलावलम्बनमेव श्रेयस्करं मनुते। इदमप्यपह्नुतेरेव प्रकार:। वस्तुतो कालिदासीयो विदूषक: स्वयमेवापह्नुतिरेव।
केवलं मालविका, परिव्राजिकाऽपि अपह्नुत्या अन्त:पुरे वसति। अग्निमित्रस्य चरित्रं यथा कविना प्रस्तुतं तन्निषिध्य यादृशं वाञ्छनीयं तत् कवि: स्थापयति। इत्थं समग्रे प्रबन्धे क्वचित् कैतवं कलयति कलाम् अन्यत्र विलसति वञ्चना। तेन चापह्नुतेरयं प्रबन्धगतो विलास:। कविस्तु वञ्चनाया निदर्शनं करोति, निराकरोति च ताम्। भरतवाक्यमप्यपह्नुतिरेव। 'आशास्यमीतिविगम: प्रभृति प्रजानां सम्पत्स्यते न खलु गोप्तरि नाग्निमित्रे’- इति कथने नकारद्वयमग्निमित्रेण प्रायोजि। इत्थमपह्नुति: समस्तमपि जगद् विषयीकृत्य तत्रत्यां मायां मिथ्याप्रपञ्चं वा निरस्यति। भवतश्चात्र श्लोकौ-
अपह्नुतिप्रपञ्चोऽयं प्रबन्धे सम्यगञ्चित:।
मिथ्याप्रपञ्चं जगत: सर्वमेव निरस्यति।।
जीवने च यथा व्याप्तिर्विज्ञायते विचक्षणै:।
अपह्नुतेस्तथा काव्ये चास्या व्याप्ति: समीड्यते।।
अथ विषयम् -
असमान: संयोगो विरूपकार्योत्पत्तिर्विषमम्।।२।६।९।।
विषमालङ्कारद्वारेण जगति विद्यमानामसमतां साक्षात्मकारयन् तां निराकरोति कवि:। असमानसंयोगनिरूपको विरूपकार्योत्पत्तिनिदर्शक इति द्विधा विषम:। पूर्ववद् वाक्य-प्रकरण-प्रबन्धगतत्वमस्य ज्ञेयम्।
वाक्यगत: प्रथमो यथा--
क्व सूर्यप्रभावो वंश: क्व चाल्पविषया मति:।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्।।
वाक्यगतो द्वितीयो यथा-
आजन्मन: शाठ्यमशिक्षितो य
स्तस्याप्रमाणं वचनं जनस्य।
परातिसन्धानमधीयते यै-
र्विद्येति ते सन्तु किलाप्तवाच:।।
यस्य प्रामाणिकता स्वीकार्या तस्य न स्वीक्रियते, यस्मिश्च न प्रामाणिकता तस्य पुन: स्वीक्रियत इति विरूपकार्योत्पत्ति:, दुष्यन्तेन विहिते शकुन्तलाया: प्रत्याख्याने शार्ङ्गरववचसा उद्घाट्यते।
प्रकरणगतो यथा शाकुन्तल एव मृगयासक्तेन राज्ञा आश्रमपालितस्य हरिणस्यानुधावनम्, हरिणवधाय च शस्त्रसन्धानम्। ये रक्षकास्त एव भक्षका जाता इत्यत्र विरूपकार्योत्पत्ति:, तेन च विषमोऽलङ्कार:। अत एव निवार्यते स राजा तपस्विभि:-
तत् साधुकृतसन्धानं प्रतिसंहर सायकम्।
आर्तत्राणाय व: शस्त्रं न प्रहर्तुमनागसि।।
रक्षिते आश्रमहरिणे हरिणीव शकुन्तला राज्ञो मृग्यतां याता। शकुन्तलां प्रति तस्याभिलाषोऽपि विषयस्यैवोदाहरणम्। क्वायं चक्रवर्ती राजा क्व च आश्रमपालिता निसर्गमुग्धा शकुन्तला! राजा एव तां प्रलोभयति।
न पुनर्विषम इव समोऽपि अलङ्कार इति मन्तव्यम्। यथा असङ्गतिस्तथैव वैषम्यं जगति अनुविद्धम्। असङ्गतेर्वैषम्यस्य निराकरणाय तन्निदर्शनं कविना यदा विधीयते तदा अलङ्कार:। न तु तद्वत् सङ्गते: साम्यस्य वा निराकरणं काम्यम्।
एकस्मिन् धर्मिणि विरुद्धधर्मनिरूपणं वैषम्यम्। रुय्यकादिभिस्तु विरूपकार्योत्पत्तिरनर्थप्राप्तिरतयन्ताननुरूपसंघटना चेति त्रय: प्रकारा अस्योरीकृता:। विरोधे समाधानं शक्यसम्भवम्, न विषम इति उभयोर्विशेष:।
न नटा न विटा न गायका न च सभ्येतरवादचञ्चव:।
नृपतीमीक्षितुमत्र केवलं स्तनभारानमिता न योषित:।।
अत्र आत्मानमुद्दिश्य निषेधमुखेन प्रवर्तमाना भूतार्थवादिन: कवेर्भारती केवलं नटा विटा रमण्य एव नृपावलोकने इदानीं प्रभवन्तीति असङ्गतिर्विरूपकार्योत्पत्तिं सूचयति। तेन विषमे परिणति:।
जयदेवस्तु अनेकेषां वस्तूनां परस्परम् अनौचित्यप्रवृत्ते संसर्गे विषमं मनुते। तद्यथा-क्वातितीव्रविषा: सर्पा: क्वासौ चन्दनभूरुह:।
असङ्गतौ येषां संसर्ग: काम्यस्तेषां संसर्गो न भवति, विषमे तु येषां संसर्गोऽवाञ्छनीयस्तेषां संसर्गो भवतीति विवेक:। ननु इष्यमाणविरुद्धार्थस्य प्राप्त्या विषाद एव मुख्यतया व्यज्यते, विषमे तु प्रत्यादेशपरुषता। विषादनं व्यञ्जनया समधिकतरं विशिष्यते, विषमो मुख्यतया वाच्यत्वेन शोभते। मम्मटेन तु-
क्वचिद् यदतिवैधर्म्यान्न श्लेषो घटनामियात्।
कर्तु: क्रियाफलावाप्तिर्नैवानर्थश्च यद् भवेत्।।
गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये।
क्रमेण च विरुद्धे यत् स एष विषमो मत:।। (का. प्र. १०। १२३-१२७)
द्वयोरत्यन्तविलक्षणतया यद् अनुपपद्यमानतयैव योग: प्रतीयते, यच्च किञ्चिदारभमाण: कर्ता क्रियाया: प्रणाशान्न केवलमभीष्टं यद् यत् फलं न लभेत्, यावदप्रार्थितमप्यनर्थं विषयमासादयेत्, तथा सत्यपि कार्यस्य कारणरूपानुकारे यत्तु तयोर्गुणौ क्रिये च परस्परविरुद्धतां व्रजत:, स समविपर्ययात्मा चतूरूपो विषम:। इति विषमो व्याख्यात:। तत्र द्वितीय: प्रकार: कर्तु: क्रियाफलमनवाप्य अनर्थावाप्तिरिति यदुक्त: स न अस्मत्सम्मत:, इष्यमाणविरुद्धाप्तिरूपे विषादनेऽस्यान्तर्भावात्। अन्यच्च विद्यमानेऽपि वैधर्म्ये द्वयो: पदार्थयो: संसर्गे विषमो भवति। तथैवानेकेषां पदार्थानां संसर्गेऽपि भवितुमर्हतीत्यपि तत्र योज्यम्।
अथ द्वन्द्वम्-
अन्यायनिवारणाय युद्धप्रक्रिया द्वन्द्वम्।। २।६।१०।।
एतच्च द्वन्द्वं मनोगतं, समाजगतं, राष्ट्रगतं, विश्वगतं वेति वस्तुत: सर्वत्र व्याप्तमेव। सरतीति संसार:। कविस्तद्विभावयति। संसारे तावत् सरणं द्वन्द्वात्मकतयैव। तद्यथाहोपनिषद्-स आत्मानं द्वेधाऽपातयदिति। द्वन्द्वाय द्वैधीभाव आवश्यक:। स यथा कामजनितजगत: स्रष्टु: प्रजापतेस्तथैव तु कवयितुर्मानसेऽपि भवति। इदं द्वन्द्वमेव रचनाया अपि मूलम्। आत्मानमेवात्मना पृथक्कृत्य रचना विधीयते। एतच्च द्वन्द्वं पदगतं पदार्थगतं वाक्यार्थगतं प्रकरणगतं वा यदा युगपद् भासते। यथा मम हिमालयलहर्याम्-
अमी वृक्षं वृक्षं दृढमिह समालिङ्ग्य सुदृढा
जनास्तद्रक्षायै हिमगिरिसुतास्ते व्यवसिता:।
इमे सन्नद्धा स्वानहमहमिकाभि: परिकरान्
निबध्यारात् कृत्वा परिसर इह व्यूहरचनाम्।।
अद्ध वृक्षं वृक्षमित्यावृत्त्या, दृढं सुदृढा इति च क्रियाविशेषणविशेषणाभ्याम्, हिमालयगतवनस्पतिनिधे: रक्षायै प्रवर्तमानं चिपकोसंज्ञप्तं जनान्दोलनं कविना सूचितम्।
प्रकरणगतं द्वन्द्वं यथा शाकुन्तले शार्ङ्गरवस्य-
कृताभिमर्शामनुमन्यमान: सुतां त्वया नाम मुनिर्विमान्य:।
मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन।।
इत्यादिकथनै:। असमानात् संयोगाद् विरूपकार्योत्पत्तेर्भवति विषम:, न द्वन्द्वे असमानयोरेव युद्धाय सन्नाह:, न च विरूपकार्योत्पत्ति:। न पुनर्विषमे द्वन्द्व इव युयुत्सा इत्यनयोर्विवेक:।
तानवम्-
वैयक्तिके सामूहिके वा चित्ते द्वन्द्वोत्थं कर्षणं तानवम्।। २।६।११।।
द्वन्द्वेन चेतनायां वैकल्पं जायते। इदमेव वैकल्पं सङ्घर्षाय पौरुषाय वा प्रेरयत् कर्षणमिव चित्ते विदधाति। तदेव तानवम्। आङ्ग्लभाषायां टेंशन इति हिन्द्यां च तनाव इति अभिधीयमानमिदं तानवम् आधुनिकसाहित्ये महीयते, परन्तु पुरातने साहित्ये विशदं महाकविभिरिदं निरूपितम्। यथा उत्तरचरिते-
हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्ध:
शून्यं मन्ये जगदविरतज्ज्वलामन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
विष्वङ् मोह: स्थगयति कथं मन्दभाग्य: करोमि।।
जिजीविषालङ्कार: प्रच्छन्नमिह सर्वदैव सञ्चरति। अत्रापि 'कथं मन्दभाग्य: करोमि’ इति कथनादितिकर्तव्यताया निर्धारणे धी: पर्यवस्यति, न तु नैराश्योपहतत्वे। 'न च रामो न जीवति’ इति स्वयं रामस्योक्ते: जिजीविषाया: प्रतयख्यानं न। अथ च-
दलति हृदयं शोकोद्वेगाद् द्विधा तु न भज्यते
वहति विकल: कायो मोहं न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाह: करोति न भस्मसात्
प्रहरति विधिर्मर्मच्छेदी न निकृन्तति जीवनम्।।
इत्यत्र तानवं नैराश्योपहतं प्रतिभाति परन्तु प्रकरणविशेषमात्रपर्वसायित्वात् नास्य प्रबन्धव्यापिता। इत्थं वाक्यगतं प्रकरणगतमिव प्रबन्धगतमपि तानवमूह्यम्। तथा हि-उत्तररामचरितस्य प्रथमाङ्के तानवबीजमुप्तम्, आद्वितीयाद् आपञ्चमाङ्कात् तानवं सुदूरं प्रसृतं तत्र। एवमेव शाकुन्तले प्रथमाङ्के तानवबीजमुप्तम्, शकुन्तलाया: 'किं नु खलु जनमिमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता’ इति कथनात्। द्वितीयतृतीयचतुर्थाङ्केषु इदं प्ररूढम्, पञ्चमाङ्के अङ्कुरितं भवति। तानवेऽङ्कुरायमाणे आशङ्का अनुताप: ग्लानि: असूया चेत्यादयो भावा बोभूयन्ते, तत्पर्यवसाने तु सर्वदा प्रत्याशया भाव्यम्। तथा हि उभयोरनयो रूपकयोरन्तिमाङ्के तानवावसानकाले प्रत्याशा सीतारामयो: शकुन्तलादुष्यन्तयोश्च पुनर्मिलनप्रत्याशा जागर्ति।
इति विरोधमूलका: षट्। अथ औपम्यमूलका:-
साम्यपरिकल्पनोपमा।।२।६।१२।।
साधर्म्यमूलकेष्वलङ्कारेषु उपमा इदम्प्रथमतयोदाह्रियते। साधर्म्यमूलेषु सर्वेषु अलङ्कारेषु उपमेयमुपमानं च निरूपणीयमेव। तत्र उपमेयमाधिभौतिकमाधिदैविकमाध्यात्मिकं वा, तथैव उपमानमाधिभौतिकमादैविकमाध्यात्मिकं वा इति नव भेदा:। यत्तु समानेन समानस्य साधर्म्यनिरूपणमुपमेति तन्न। वस्तुतस्त्वसदृशयो: सादृश्यस्थापनायामुपमा। तद्यथोक्तवान् यास्केन निरुक्ते उद्धृतो गार्ग्याचार्य:-उपमा अतत् तत्सदृशमिति। उपमाया भेदा अपि गार्ग्याचार्येणेत्थं कीर्तिता:-'तदासां कर्म ज्यायसा वा गुणेन प्रख्याततमेन वा कनीयांसं वाऽप्रख्यातं वा उपमिमीते अथापि कनीयसा ज्यायांसम्’।
उपमायां सादृश्यमुद्भावितं भवति। श्रीमद्भगवद्गीतायां स्थितप्रज्ञमुपमेयीकृत्योक्तम्-
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वश:।
अत्र कूर्मस्तु ज्ञात:, स्थितप्रज्ञस्य विषयेभ्य इन्द्रियसङ्कोच: कीदृश इति तु रहस्यम्। तज्ज्ञापनाय ज्ञातपूर्वोऽपि कूर्म उपमानत्वेन उपात्त:। स्थितप्रज्ञस्य चित्तवृत्तीनां कूर्मस्याङ्गसङ्कोचेन साम्यं न लोकविदितमित्यत्र उद्भावितत्वम्। तथैव भट्टलक्ष्मीधरस्य-
कम्पन्ते कपयो भृशं जडकृशं गोजाविकं ग्लायति
श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति।
शीतार्तिव्यसनातुर: पुनरयं दीनो जन: कूर्मवत्
स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति।।
अत्र शीतार्तिव्यसनातुरो जन: कथं स्वान्यङ्गानि स्वीये शरीर एव निवेश्य तिष्ठतीति उपमेयोपमानयो: सादृश्यमुद्भावितम्।
उपमायां हृद्यता च कान्तिमत्ता च स्यादिति अप्पयदीक्षित:। गीतागता कूर्मोपमा हृदयावर्जनं न करोति, न च कान्तिमती तथा प्रतीयते। क्व खलु स्थितप्रज्ञ: क्व च दीनो हीन: कूर्म:। अत: केवलमुदाहरणायैव कूर्मस्य तत्र उपमानम् आनीतम् परन्तु लक्ष्मीधरेण सैवोपमा यथा प्रायोजि, तत्र वरीवर्ति हृद्यता कान्तिमत्ता च। कूर्मोऽप्यात्मरक्षायै स्वान्यङ्गानि स्वीये शरीरे सङ्कोचय्य प्रवेशयति, दीनो निर्धनो जनोऽपि आत्मत्राणाय तथा करोतीति यद्यपि पद्येऽस्मिन् स्वभावोक्तेर्जातेर्वा साम्राज्यम् परन्तु उपमया तत्र वैशिष्ट्यमाविष्कृतम्।
इत्थं पूर्वप्रचलितोपमानानां प्रयोगोऽपि यदा प्रकरणविशेषान्नवीनतां धारयति तदैव काव्ये उपमालङ्कार:, अन्यथा लौकिकं शास्त्रीयं वा उदाहरणं तत् स्यात्। इत्थं लौकिका अपि पदार्था उपमानत्वेन कविप्रतिभया विषयीकृता: सन्दर्भनूतनतया प्रकरणवक्रतया कल्पनाया अनल्पपाटवेन वा कान्तिमत्तां भजन्ते। क्वचित्तु लौकिकोपमानां निषेधपूर्वकमुपमानीयते। तद्यथा भट्टलक्ष्मीधर एव स्वकीये चक्रपाणिविजयमहाकाव्ये बाणासुरमुखात् शिवं स्तुवन्नाह-
उपमा यत्र नास्त्येव यत्र जातिर्न विद्यते।
निर्गुणो निरलङ्कारस्त्वमिव त्वयि मे स्तव:।।
अत्र मदीया त्वां प्रति स्तुतिस्तथैव निर्गुणा निरलङ्कारा च यथा त्वं स्वयमिति ईशं प्रत्युक्तौ उपमां जातिं च निराकृत्य पुनरुपमा उपात्ता।
आधिभौतिकेन आधिदैविकमाध्यात्मिकं वा क्वचिच्च आध्यात्मिकेनाधिदैविकमाधिभौतिकं वा तुलयत्यत्र कवि:। उपमेयं शब्दव्यापारदृशा द्विविधा-वाच्या व्यङ्ग्या च। वाच्या तूदाहृतैव उपरिष्टात्। व्यङ्ग्या यथा-
वाहि वात यत: कान्ता स्पृष्ट्वा तां मामपि स्पृश।
त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागम:।।
इति रामायणे सेतुबन्धमनु उदधितरणानन्तरं त्रिकूटपर्वतस्थितां लङ्कां पश्यतो रामस्येयमुक्ति:। अत्र लङ्कायां क्वचित् स्थितां सम्प्रति सर्वथाऽदृश्यां कान्तां सीतां स्पृष्ट्वा वात: समायातु स्पशतु चानन्तरं माम्, तेन स्पृष्टे मदीये गात्रे चन्द्रे दृष्टिसमागम इव सुखं स्यान्मे इति यदुक्तं तेन सीता चन्द्रसमा, गगनस्थश्चन्द्रश्च यथा न प्राप्य: केवलं तदीया रश्मय: स्प्रष्टुं शक्या:, एवमेव ये वाता: कदाचित् सीतां स्पृष्ट्वा आयान्ति त एव स्प्रष्टुं शक्या इति चन्द्र इव दुर्लभा सीतेत्यपि उपमया साकं द्योत्यते।
मालोपमा, उपमेयोपमा, अमूर्तोपमा इत्यादयो भेदा अस्या:। अस्मन्मतेनेमे अलङ्कारा दीपकेऽन्तर्भवन्ति।
अथ रूपकम्-
आरोपणाद् अध्यवसानाद् अन्यापदेशाद्वा वा रूपकम्।।२।६।१३।।
आधिभौतिके आधिदैविके आध्यात्मिके वा रूपे अन्यस्य रूपस्य आरोपणाद् तस्मिन् वा अन्यस्य अध्यवसायाद् व्यपदिश्य अन्यस्य वा कथनाद् रूपकम्। निगीर्याध्यवसानमूलाया अतिशयोक्तेरन्योक्तेरप्रस्तुतप्रशंसाया वाऽस्मिन्नन्तन्तर्भाव:। क्वचिद् वस्तुनो आध्यात्मिकं रूपमाविष्कर्तुमारोपो विधीयते। तथा हि-
पश्य देवस्य काव्यं न ममार न जीर्यति।
इति श्रुतौ। अत्र इदं विश्वमीश्वरेण रचितं काव्यमिति आरोप:, ईश्वरस्य काव्यमेवैतद् वेति अध्यवसाय: कविकृत: अस्याधिभौतिकजगत आध्यात्मिकं रूपं साक्षात्कारयति। क्वचित्तु आधिभौतिके वस्तुनि अन्यस्याधिभौतिकवस्तुन आरोपोऽध्यवसानं वा तस्य वास्तविकतां परिचाययितुं विधीयते। तद्यथा मम जनतालहर्याम्-
क्षेत्रे स्वे श्रमबिन्दुचिह्निततनुर्यो वै तपस्तप्यते
तं निर्वास्य दुराग्रहात् स्ववसतेराच्छिद्य भूमिं तत:।
आक्रम्यातिमदादगण्यमिव तं मत्वा जनं निर्भया
विक्रामन्ति च साट्टहासमधुना चञ्चामनुष्या सुखम्।। २०।।
अस्मिंश्च पाश्चात्यै: प्रतिपादितस्य प्रतीकतत्त्वस्यान्तर्भाव:। प्रतीकलक्षणं यथा-
प्रख्यातवैशिष्ट्येनाप्रस्तुतेन प्रस्तुतस्य प्रातिनिध्यं प्रतीकम्।। २।६।१४।।
प्रस्तुतस्य प्रातिनिध्यं कुर्वदिव यत्र निरूप्यते प्रसिद्धमप्रस्तुतं तत्र प्रतीकं भवति। प्राचीनैरिदमेव क्वचिदन्योक्ति:, क्वचिदन्यापदेश इति कथितम्।
प्रतीकमूलकं रूपकं वाक्यगतं, प्रकरणगतं, प्रबन्धगतं च द्योतते। पञ्चतन्त्रस्य नैका: कथा: प्रतीकपर्यवसिता:। काकोलूकीये उलूक: प्रच्छन्नघातरतस्य क्रूरस्य नरस्य प्रतिनिधि:। एवमेव करटकदमनकौ राजनीतिप्रवणयो: धूर्तयोरमात्ययो: प्रतिनिधिभूतौ।
अयं चालङ्कारो विषादनेन संसृष्ट: प्राय: परां प्रभविष्णुतां प्राप्नोति। यथा पण्डितराजस्य-
येनामन्दमरन्दे दलदरविन्दे दिनान्यनायिषत।
कुटजे खलु तेनेहा तेने हा मधुकरेण कथम्।।
मधुकरो रसिकस्य प्रतीकतया अध्यवसित:।
पाश्चात्त्यकाव्यविचारे प्रथितं बिम्बविधानमिह जात्यलङ्कार इव सर्वथा अपेक्षितम्। बिम्बेन क्वचिज्जातिर्निर्मीयते, क्वचिदतिशय आधीयते, क्वचिदुपमायां क्वचिदन्योक्तौ रूपकादिषु वा बिम्ब: पर्यवस्यति, क्वचित्तु बिम्बविधानं प्रतीकायते। यथा दीपशिखाशलभयोर्वृत्तं पारसीककवितायाम् उर्दूगजलकाव्ये वा प्रेम्ण: पराकाष्ठाया: प्रतीकतां भजते। संस्कृतकाव्येषु शलभ: पतङ्गो वा न तथा प्रायशो निरूपित:। अत एव अप्पाशास्त्री दीपशिखां च पतङ्गं चाधिकृत्य अन्योक्तिं प्रयुञ्जानो नवीनबिम्बविन्यासमेव विरचयति-
एषा दीपशिखैव हन्तकलिकामुत्प्रेक्ष्य यां सम्भ्रमा
दाधातुं परितो भ्रमस्यविरतं भ्रात: पतङ्ग स्वयम्।
स्नेहार्द्रामियमग्रतोऽपि सुदृढं श्लिष्यत्यलं वर्तिकां
भस्मत्वं नयतीति चिन्तय तत: का ते भवित्री गति:।।
एवमेव कङ्कतिका (हिन्दीभाषायां कंघीति व्यपदिश्यमाना) संस्कृतकविताया: कृते किमपि अपरामृष्टं नवीनमेव वस्तु। अप्पाशास्त्रिणा इयं तावदुद्बोधिता-
अयि कङ्कतिके वृथा श्रमं कुत एव प्रविधातुमीहसे।
कुटिलो यदयं निसर्गत: सरल: स्यान्न कच: प्रसाधनै:।।
अत्र कापि साध्वी पतिव्रता कुटिलं स्वं पतिं प्रबोधयतीत्यर्थो भवितुमर्हति।
क्वचित्तु पुराणमपि वस्तु नीवनवृत्तसंयोजनेन समाधिगुणं सृजति काव्ये। संस्कृतशास्त्रेषु काव्येषु च घटो बहुधा चर्च्यते। दर्शनप्रस्थाने क्वचिदयं घटो जीवस्य गच्छति। भासेन-
'क: कं शक्तो रक्षितुं मृत्युकाले,
रज्जुच्छेदे के घटं धारयन्ति’।।
इति सूक्त्या घटो जीवनस्य नश्वरताया द्योतनाय साधु टीकित:। अप्पाशास्त्री तु घटम् उदकुम्भं वा नवीनेनैव गौरवेण मण्डयति-
उदकुम्भ धन्य एक: क्षितौ त्वमेवेति मामिका बुद्धि:।
यत्पाशितनिजकण्ठो जीवनदानेन तोषयस्यन्यान्।।
अस्यां चान्योक्तौ अप्पाशास्त्री भगतसिंह-राजगुरु-चन्द्रशेखराजादसदृक्षं देशभक्तं मातृभुवे बलिदानरतं समुद्दिश्य समर्पयति घटव्याजेन श्रद्धाञ्जलिम्। यतो हि पाशितनिजकण्ठ इति कथनाद् वैदेशिकशासनप्रदत्तप्राणदण्ड: कश्चन एतादृश एव मातृभूमिसेवक: सङ्केत्यते। अत एव बिम्बविधानमिह समकालिकप्रसङ्गेन संवलितं सन्न केवलं नवायते, व्यङ्ग्यगर्भत्वाच्च कारुण्यसृष्टिमपि विदधाति। इमान्युदाहरणानि वाक्यगतप्रतीकस्य बिम्बविधानस्य च समं भवन्ति।
प्रकरणगतं प्रतीकं सविशेषां विच्छित्तिं प्रबन्ध आदधाति। तद्यथा शाकुन्तले-प्रथमाङ्के हरिणस्तपोवनगतसत्त्वस्य मौग्ध्यस्य सुकुमारताया:, वस्तुतश्च आश्रमसंस्कृतेरेव प्रतीकभूत:। तं हन्तुमिच्छन् मृगयालोलुपो दुष्यन्तो हिंसाया: पुरुषस्य कामनाया नागरसंस्कृतेश्च प्रतीकतां धत्ते। प्रथमाङ्कावसाने आश्रमं सरभसं विशन् गजस्तु कविना स्वयमेव तपोविघ्नस्य प्रतीकभूतत्वेन वर्णित:।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो।
धर्मारण्यं प्रविशति गज: स्यन्दनालोकभीत:।।
अस्मिन् वाक्ये उत्प्रेक्षा समग्रेऽपि प्रकरणे तु प्रतीकम्। एवमेव दुर्वासस: शापस्य आश्रममर्यादाया प्रतीकतवम्। अङ्गुलीयकं तु पारस्परिकविश्वासस्य।
उत्प्रेक्षा-
सम्भावनात्मिका कविकल्पनैवोत्प्रेक्षा।।२।६।१५।।
कवे: कल्पना आधिदैविकी सृष्टि:। तस्या अवतरणं यदाऽऽधिभौतिक्यां सृष्टावुत्प्रेक्ष्यते, आधिभौतिक्या: सृष्टेर्वा आधिदैविकतया सम्भावनं विधीयते, तदा उत्प्रेक्षा। अत एव उत्प्रेक्षया कविराधिभौतिकजगत आधिदैविके आरोहणम् आधिदैविकस्य वा तस्मिन्नवतरणं प्रस्तौति।
उपमा मूलत आधिभौतिक एवालङ्कार:, उत्प्रेक्षा चाधिदैविक इति उभयोर्विवेक:। उत्प्रेक्षाया: सम्भावनापरत्वमस्या आधिदैविकमेव स्तरं द्योतयति। तद्यथोक्तं चक्रवर्तिना-
यदायमुपमानांशो लोकत: सिद्धिमृच्छति।
तदोपमैव येनेवशब्द: सादृश्यवाचक:।।
यदा पुनरयं लोकादप्रसिद्ध: कविकल्पित:।
तदोत्प्रेक्षैव येनेवशब्द: सम्भावनापर:।।
उपमानस्य लोकात् सिद्धिमपेक्षमाणत्वमुपमाया आधिभौतिकत्वं सूचयति, लोकेऽप्रसिद्धस्य कविकल्पितस्य चोपमानस्य ग्रहणं पुनरुत्प्रेक्षाया आधिदैविकत्वम्। उत्प्रेक्षायामुदुपसर्ग एवास्या आधिभौतिकादुत्थानं द्योतयति।
मम्मटादिभिस्तु प्रकृतस्य उपमेयस्य वा उपमेयेन सम्भावने उत्प्रेक्षा कथिता। सम्भावनं चोत्कटिककोटिक: सन्देह:। उत्प्रेक्षायां न सर्वत्र प्रकृताप्रकृतयोश्चर्या कण्ठतो भवति। तथा हि-'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभ:’ इत्यत्र किं नाम प्रकृतम्, किं वा अप्रकृतम्। व्यापनादि लेपनतया सम्भावितम्। ननु व्यापनमेव प्रकृतं, लेपनं चाप्रकृतिमिति चेत्, तन्न। अनयो: क्रियारूपत्वात्। व्यापन-लेपनयो: कतमा क्रिया प्रस्तुता कतमा चाप्रस्तुता इति कीदृशा वक्तुमशक्यम्।
अस्यामुत्प्रेक्षायां ससन्देहभ्रान्तिमतोऽन्तर्भाव:।
मन्ये शङ्के ध्रुवं प्रायो नूनं वा निश्चयं तथा।।
निश्चप्रचं तथा भाति प्रतिभाति प्रतीयते।
जाने जानामि कलये कल्पयामि वा।।
इत्येवमन्ये तथा शब्दा इवशब्दश्च तादृश:।
सन्देहार्था भ्रमार्थाश्च तथैवात्र प्रयोजिता:।।
पाश्चात्त्यैरियमेव कल्पनेति कथिता। वाक्यगता, प्रकरणगता, प्रबन्धगता चेयं त्रिविधा। शब्दव्यापारदृशा वाच्या व्यङ्ग्येति द्विविधा। वाक्यगता यथा मम-
सद्य: सीरसमाकृष्टा सुरभिं भूरिशश्च भू:।
लावण्यामृतसम्पृक्ता ललनेव विमुञ्चति।।
प्रकरणगता प्रबन्धगता च यथा विक्रमोर्वशीये। विक्रमोर्वशीये आधिभौतिकं जगद् अतिक्रम्य आधिदैविकं गवेषितम्। अत एव तत्र आधिभौतिकजगद् अतिक्रम्य कल्पनाया: सृष्टौ बहुमान: कवे:। तस्माच्च उत्प्रेक्षाया: प्रयोगो भूयसाऽत्र विहित:। प्रस्तावनायामेव अप्सरसां गण: करुणं क्रन्दति आह्वयति च कमपि परित्राणाय सुरपक्षपातिनम्। नायक: पुरूरवा तमाह्वानं 'मत्तानां कुसुमरसेन षट्पदानां, शब्दोऽयं, परभृतनाद एष’ इति कल्पयति। अनन्तरं रम्भा तस्मै यथावृत्तं निवेदयन्ती उर्वशीं वर्णयति- 'या तपोविशेषशङ्कितस्य सुकुमारं प्रहरणं महेन्द्रस्य, प्रत्यादेशो रूपगर्विताया: श्रिय:, श्रीर्गौर्या:, अलङ्कार: सर्गस्य सा न: प्रियसखी’ति। राजा केशिनो दानवस्य अनुसरणं करोति। अत्र कलासृष्टिं बहु मन्यमान: कविर्नायकमुखेन वेगाकृष्टस्य रथस्य चामरं चित्रारम्भविनिश्चलं मनुते।
अग्रे यान्ति रथस्य रेणुपदवीं चूर्णीभवन्तो घना
श्चक्रभ्रान्तिररान्तरेषु वितनोत्यन्यामिवारावलीम्।
चित्रारम्भविनिश्चलं हरिशिरस्यायामवच्चामरं
यन्मध्ये समवस्थितो ध्वजपट: प्रान्ते च वेगानिलात्।। (१.५)
चक्रस्य भ्रान्तिरन्याया अरावल्या भ्रममुत्पादयतीत्यपि उत्प्रेक्षैव। पुनश्च ध्वजपटश्चित्रारम्भविनिश्चलं भातीति नायकस्य तन्मुखेन कवेश्चोत्प्रेक्षा। रथो भौतिकपदार्थ:। तस्य कृते उपमानं गवेषितं कलारचनाया:। केशिदानवापहृता उर्वशी राज्ञा रक्षिता मूर्च्छां शनै: शनैर्जहाति। कविस्तस्याश्छविमित्थमुत्प्रेक्षते-
आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि
र्नैशस्यार्चिर्हुतभुज इव च्छिन्नभूयिष्ठधूमा।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा
गङ्गारोध: पतनकलुषा गृह्णतीव प्रसादम्।। (१.९)
अत्र उत्प्रेक्षते नायक:, तन्मुखेनोत्प्रेक्षते कविश्च। उत्प्रेक्षासु कविकल्पनायाश्चमत्कारो लसति। उपमानानि आधिभौतिकजगत: सीमानमतिक्रामन्ति, आरोहन्ति आधिदैविकं जगत्। इत्थं समग्रेऽपि विक्रमोर्वशीये उत्प्रेक्षायाश्छटा भाति, सकलमेव रूपकं वस्तुत उत्प्रेक्षा कवे:। मालविकाग्निमित्रे उपमानानि आधिभौतिकजगत: सीम्नि बद्धानि। अत्र तान्येव अतिक्रामन्ति आधिभौतिकीं सत्ताम्। अत एव नायिका हुतभुजोऽर्चिरिव निर्मला जाह्नवीव वा जायते। केशिनं निर्जित्य राजा उर्वशीमाश्वासयति-'तदेतदुन्मीलय चक्षुरायतं, निशावसाने नलिनीव पङ्कजम्’ इति। अनन्तरं च तस्या रूपच्छटां दर्शं दर्शं राजा विकल्पयति-
अस्या: सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रद:
शृङ्गारैकरस: स्वयं नु मदनो मासो नु पुष्पाकर:।
वेदाभ्यासजड: कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेनमनोहरमिदं रूपं पुराणो मुनि:।। (१.१०)
उर्वशी 'समदु:खगतं प्रणयिजनं लोचनाभ्यां पिबति’। रथसंक्षोभान्नायकस्य यदङ्गं उर्वश्या अङ्गेन स्पृष्टं तत् 'सरोमकण्टकमङ्कुरितं मनसिजेनेव’ प्रतिभाति। उर्वश्या: सखीभिर्मिलनं लताभिर्वासन्तिक्या: श्रिय: समागमं मनुते नायक: (१।१४)। चित्ररथस्य आगमनं तडित्वतस्तोयदस्य गगनादवतरणं (१।१५) प्रतीयते। सूतो नायकसयास्त्रसंहारं वर्णयति- 'प्रक्षिप्य दैत्यान् लवणाम्बुराशौ, वायव्यमस्त्रं शरधिं पुनस्ते महोरग: श्वभ्रमिव प्रविष्टम्’।
दक्षिणानिलो 'माधवीं लक्ष्मीं निषिञ्चन्, कौन्दीं च लतां लासयन् स्नेहदाक्षिण्ययोर्योगात् कामीव प्रतिभाति’ (२।४)। उद्याने गमनं स्रोतसेवोह्यमानस्य प्रतीपतरणं भवति। उद्याने च 'ईषद्बद्धरज:कणाग्रकपिशाम् आम्रमञ्जरीं मुग्धत्वस्य यौवनस्य च मध्ये स्थितां मधुश्रियं मनुते राजा। उर्वश्यास्तुल्यानुरागपिशुनं ललितार्थबन्धं मनोऽभिप्रायं पत्रे निवेशितं 'तस्या: समागतमिवाननमाननेन’ जायते।
अन्यत्रापि कविना उर्वशीचित्रलेखे गङ्गायमुनाभ्यां तुलिते (२।१४)। रथसङ्क्षोभादुर्वश्या अङ्गेन स्पृष्टाङ्ग: पुरूरवा सरोमकण्टकमङ्कुरितं मनसिजमनुभवति (१।१३)।
अत्र मनसिजशब्दप्रयोगो मानसिकस्तरं काव्यस्य प्रगुणयति भौतिकजगदतिरिच्य। उर्वश्या नैसर्गिकं रूपं भौतिकीं प्रसाधनसामग्रीं प्रत्याचष्ट-
आभरणस्याभरणं प्रसाधनविधे: प्रसाधनविशेष:।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्या:।। (२.३)
उर्वश्या: कृते न तन्मानसे शारीरिकमाकर्षणमेव केवलमपि तु मानसीं रुक् तं दृढतरं बाधते। अत एव स आह-
नितान्तकठिनां रुजं मम न वेद सा मानसीम्। (२.११)
मालविकाग्निमित्रे अपह्नुत्या आधिभौतिकं जगत् परामृष्टं निषिद्धमपि। विक्रमोर्वशीयेऽपि मध्ये मध्ये अपह्नुतिर्विजृम्भते। देवी काशिराजकन्या आधिभौतिकमेव जगत् प्रतिनिधीकृत्य इह पात्रीयति। राजा तस्या: प्रणिपातलङ्घनात् तुष्टस्तां निषिद्ध्य उर्वशीमनुसरति।
प्रियवचनकृतोऽपि योषितां दयितजनानुनयो रसादृते।
प्रविशति हृदयं न तद्विदां मणिरिव कृत्रिमरागयोजित:।। (२।२१)
तृतीयाङ्क: सम्प्राप्ते सान्ध्यकाले प्रारभ्यते। निशानिद्रालसा बर्हिणो वासयष्टिसूत्कीर्णा इव भान्ति। जालविनि:सृतैर्धूपैर्वलभय: सन्दिग्धपारावता भवन्ति (३।२)। उदयगूढशशाङ्कमरीचिभिस्तमसि दूरतरं प्रतिसारिते पूर्वदिशो मुखमलकसंयमनादिव लोचनहारि जायते। ततश्च तनुते प्रसारं नायकस्य मनोराज्यम्-
गूढा नूपुरशब्दमात्रमपि मे कान्तं श्रुतौ पातयेत्
पश्चादेत्य शनै: कराम्बुजवृते कुर्वीत वा लोचने।
हर्म्येऽस्मिन्नवतीर्य साध्वसवशान्मन्दायमाना बलाद्
आनीयेत पदात् पदं चतुरया सख्या ममोपान्तिकम्।। (३।१५)
प्रेम्णि वस्तूनां विशिष्टं रूपं समुन्मीलति। अत एव राजा सङ्गमनीयं मणिं बहु मन्यते। नायं तस्य कृते मणिमात्रभूत:, प्रियासमागमहेतुत्वादमूल्यतां गत:। पञ्चमाङ्के नारदस्यावतरणं पुनरपि आधिदैविकस्य संसारस्य आधिभौतिकेऽवतरणम्।
हैमप्ररोह इव जङ्गमकल्पवृक्ष:। (५।१९)
अन्ततश्च देवानां मनुष्याणां चान्त:सम्बन्धं निरूपयन् कवि: सर्वथाऽऽधिदैविकं रूपं स्वरचनाया: साधयति-
त्वत्कार्यं वासव: कुर्यात् त्वं च तस्येष्टमाचरे:।
सूर्य: समेधयत्यग्निमग्नि: सूर्यं स्वतेजसा।। (५.२०)
इति नारदमुखेन मनुष्यान् सन्दिशन् चरितार्थयँश्च तत् पुरूरवसश्चरित्रेण। उर्वशी अत्र दिव्याङ्गना। तस्या अधिधरित्रीमवतरणमाधिदैविकसृष्टे: सङ्गम आधिभौतिकजगता। दिव्याङ्गनाऽपि मनुष्येण सङ्गमे मनुजसन्ततेर्मातृत्वे आत्मानं धन्यां मनुते। भरतवाक्यमपि आशंसामूलकमुत्प्रेक्षैव-
परस्परविरोधिन्योरेकसंश्रयदुर्लभम्।
सङ्गतं श्रीसरस्वत्योर्भूतयेऽस्तु सदा सताम्।।
अथ दीपकम्-
दीपनाद् दीपकम्।। २।६।१६।।
दीपनं चात्र क्रियते युगपन्नानाऽभिप्रायाणामर्थानां शब्दानां च। तद्यथोक्तं भरतमुनिना नाट्यशास्त्रे-
नानाधिकरणार्थानां शब्दानां सम्प्रदीपकम्।
एकवाक्येन संयुक्तं तद्दीपकमुच्यते।। (ना.शा., १६। ५३)
न चेदं दीपकं सर्वत्र उपमागर्भितमिति नियम: कर्तुं शक्यते। यथा मम-
विचलति वेल्लति भवति च मन: सहसा किमु सोत्कम्।
रेखामात्रमपि क्षुण्णं नो जायते किमर्थं मे।।
अत्र मनस: कृते आख्यातत्रयं प्रायोजि, न तत्राप्रस्तुतं किमपि सूचितम्। मम्मटेनापि (का.प्र. १०। १७) बहूनां प्रकृतानामप्रकृतानामेव वा धर्मस्य सकृद् वृत्तौ सत्याम्, एकस्य कारकस्य बह्वीषु क्रियासु वा अन्वितौ सत्याम् इति द्विविधं दीपकं यदुदाहृतं, न तत्र औपम्यमूलकताया नान्तरीयकता। अत एव दीपके क्वचित् स्यादुपमाया: प्रतीतिर्नापि वा स्यात्, तथा हि मम्मटेनैव दीपकस्य भेदयोरुदाहरणतया इमे पद्ये उद्धृते-
किवणाणं धणं णाआणं फणमणी केशराइँ सीहाणं।
कुलवाणिआणं थणआ कुत्तो छिप्पन्ति अमुआणम्।।
स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक्।
अन्तर्नदति चुम्बितुमिच्छति नवपरिणता वधू: शयने।।
अत्र प्रथमपद्ये कृपणधन-फणमणि-सिंहकेसर-कुलबालिकास्तनानां जीवत्सु तद्धारकेषु अस्पृश्यता सामान्यो धर्म उक्त:, तेन चोपमा व्यङ्ग्या। द्वितीये पद्ये तु नवपरिणताया वध्वा: कृते बह्वीषु क्रियासु उक्तास्वपि नोपमानं किमपि सूचितम्। अतो नोपमाया लेशोऽपीह।
अत्र शब्दानां सम्प्रदीपकमिति कथनात् काव्यगताभिप्रायस्यापि सम्प्रदीपकत्वमन्ववसितम्। एकवाक्येनेति कथनाद् एकवाक्यता ज्ञाप्यते, नानाधिकरणार्थामिति मुनिना तत्रैव कथनात्। न तु सर्वदा एकमेव वाक्यं दीपके स्यादिति नियम:। तेन समग्रमपि प्रबन्धं प्रकरणविशेषं वा वाक्योच्चयेन दीपयति दीपकालङ्कार इति ज्ञेयम्।
एकस्य उपमेयस्य कृते उनेकेषामुपमानानामुपमेयोपमानयोर्विपर्यासेऽपि वा दीपकमेव। तद्यथा-
तस्य सन्दिदहे बुद्धिस्तथा सीतां निरीक्ष्य च।
आम्नायानामयोगेन विद्यां प्रशिथिलामिव।।
दु:खेन बुबुधे सीतां हनूमाननलङ्कृताम्।
संस्कारेण यथा हीनां वाचमर्थान्तरं गताम्।।
दीपनं च प्रकाशधर्म:। तेनाज्ञातज्ञापकत्वमप्यत्र ऊह्यम्। दीपनं प्रतिभाया धर्म:। प्रतिभा स्वप्नकाशकत्वाद् बहूनां पदार्थानामेकं व्यापारं पश्यति, बहूनां व्यापाराणां वा एकस्मिन् पदार्थे अन्वितिं निर्दिशति। भवति चात्र श्लोक:-
सन्धानं च विमर्शं च दीपनं प्रज्ञया तथा।
आलोकेनानुभवतो दीपके कविभावकौ।।
काव्यमेकस्य कारकस्य कृते बह्वीनां क्रियाणाम्, एकस्या: क्रियाया: कृते बहूनां कारकाणाम्, एकस्य विशेष्यस्य कृते साभिप्रायानां बहूनां विशेषणानाम्, एकस्य उपमानस्य कृते बहूनां वोपमानानां प्रयोगेण यदा दीप्तिं याति तदा दीपकम्। अस्मिन्नेव अन्तर्भवन्ति प्रचीनैरुदाहृता मालोपमा-रशनोपमा-मालारूपक-परिकर-प्रभृतयोऽलङ्कारा:। दीप्ते: सामान्यलक्षणे सति-
शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृते:।
प्रभुर्धनपरायण: सततदुर्गत: सज्जनो
नृपाङ्गणगत: खलो मनसि सप्तशल्यानि मे।।
एवमेवानन्दवर्धनेन ध्वन्यालोके (३। ४० इत्यत्र वृत्तौ) प्रदत्ते गुणीभूतव्यङ्ग्यस्यास्मिन्नुदाहरणेऽपि अतिशयानुप्राणितो दीपक एव-
राजानमपि सेवन्ते विषमप्युपभञ्जते।
रमन्ते च सह स्त्रीभि: कुशला: खलु मानवा:।।
क्वचित्तु बहूनि पदानि सम्भूय विशेषणधर्मेण विशेष्यं दीपयन्ति। यथा भर्तृहरे:-
अभिमतमहामानग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका।
विपुलविलसल्लज्जावल्लीविदारकुठारिका
जठरपिटरी दुष्पूरेयं करोति विडम्बनाम्।।
अन्विते: सन्धानं दीपके भवति। तेन एकवाक्यताया आविष्काराद् दीपकप्रयोगेण एकमेव पद्यं महावाक्यायते।
क्षुत्क्षामस्तनयो वधू: परगृहप्रेष्यावसन्न: सुहृद्
दुग्धागौरशनाद्यभावविवशा हम्बारवोद्गारिणी।
निष्पथ्यो पितरावदूरमरणौ स्वामीद्विषन्निर्जितो
दृष्टा येन परं न तस्य निरये प्राप्तव्यमस्त्यप्रितम्।।
अत्र प्रत्येकं वस्तु जीवनस्य नाना अवस्था उपस्थापयति। तेन मनुष्यजीवनस्य जगतश्च विविधदिक्कालावच्छिन्ना भावा एकस्मिन् फलके आनीता:। इति औपम्यमूलका अलङ्कारा:।
वृत्तिमूलकालङ्कारनिरूपणम्-
वृत्तिमूलका अलङ्कारा: प्राधान्येन वृत्तिं पदविन्यासं वर्णविन्यासं च श्रयन्ते। ते च षट्। तेषु प्रथमं नादानुवृत्ति:-
वर्ण्यानुरूपो नादविन्यासो नादानुवृत:।। २।६।१७।।
छन्दोभिर्लयेन शब्दानां नादेन च वर्ण्यविषयस्य अनुवृत्ति: अनुरूपा पदरचना वर्णसङ्घटना च नादानुवृत्ति:।
शब्दस्पर्शरूपरसगन्धाश्चेति पञ्चमहाभूतानां तन्मात्रा:। एतासु समस्तमाधिभौतिकजगद् विश्रान्तम्। काव्यस्य पाठे वर्ण्यविषयस्य य: शब्दो ध्वनिर्वा तदनुरूपो यदि नादोऽनुभूयेत, तर्हि प्रथमो भेद:। एवमेव स्पर्शानुरूपे द्वितीय:, रूपानुरूपे तृतीय:, रसानुरूपे चतुर्थ:, गन्धानुरूपे च पञ्चम:। तत्र प्रथमो यथा माघस्य-
मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृतानिभृताक्षरमुज्जगे।।
द्वितीयो यथा भवभूते:
-
विनिश्चेतुं शक्यो न सुखमिति वा दु:खमिति वा
प्रमोहो निद्रा वा किमु विषविसर्प: किमु मद:।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकार: कोऽप्यन्तर्जडयति च तापं च कुरुते।।
अत्र रामेण क्रियमाणां सीताया: स्पर्शानुभूतिं शब्दानां विन्यासविशेषेण कवि: साक्षात्कारयति। अत्र किमु विषविसर्प: किमु मद:, तव स्पर्शे स्पर्शे इति वर्णविन्यासविशेषो विषस्य प्रसारं स्पर्शविशेषानुभूतिं च भावयति। यथा वा विश्वनाथेनोदाहृते-'मरुन्मन्दं किरति मकरन्दं दिशि दिशि’ इत्यत्र समीरस्य सरणं तत्स्पर्शश्च काव्यपाठेनापि साक्षादिव अनुभूयते।
क्वचित्तु शब्दस्य नादोऽभिधयाऽनुक्तमपि स्पर्शविशेषं व्यनक्ति। यथा 'मुखमंसविवर्ति पक्ष्मलाक्ष्या: कथमप्यनुन्नमितं न चुम्बितं तु’ इति अभिज्ञानशाकुन्तले दुष्यन्तस्य कथने 'चुम्बितं तु’ इत्यत्र चुम्बितपदस्य तु इति निपातस्य च ध्वनिर्नादो वा जिह्वाग्रेण वर्त्स्यमूलस्पर्शोत्थम् अनुतापव्यञ्जकं ध्वनिं नादं वा व्यनक्ति।
रूपानुभवो यथा-इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोरित्यादिकथनेषु उत्तरचरितगतेषु। तत्र प्राधान्येन प्रेमालङ्कार:, अमृतवर्तिर्नयनयोरित्यादिकथनेन सीताया अनुपमकमनीयताया शब्दानां लयै: प्रत्ययो जायत इति रूपनादानुवृत्तिरपि। रसस्य नादानुवृत्तिर्यथा-
प्लावयन्ती च जिह्वामपूर्वै रसै:।
पञ्चमो गन्धनादानुवृत्तिर्यथा मम प्रावृड्लर्याम्
सद्य: सीरसमुत्कृष्टा सुरभिं भूरिशश्च भू:।
लावण्यामृतसम्पृक्ता ललनेव विमुञ्चति।।
अत्र सकारस्य लकारस्य चावृत्त्या जनितो नाद: सीरसमुत्कृष्टाया धराया उद्गतं लवणमयसौरभमनुहरति।
नास्यालङ्कारस्यानुप्रासेऽन्तर्भाव इति मन्तव्यम्, अनुप्रासस्यैव प्रत्युतास्मिन्नन्तर्भाव:।
क्वचित्तु वर्ण्यविषयस्य शब्दस्पर्शरूपरसान् समन्वितं नादेनानुहरति काव्यम्। यथा मम प्रावृड्लहर्याम्-
स्फूर्जथुर्जृम्भते तूर्णं पृथ्वी थरथरायते।
मघोनो वज्रनिर्घोषैर्विद्योतित इरम्मदे।।
तारस्वरेण तरसा तडित् तडतडायिता।
दीर्यमाणा च घोषेण प्रचस्खालेव मेदिनी।।
क्वचिद् गेहे सुखं सुप्त: स्वप्ने शुभ्रं स्मितं किरन्।
प्रकम्पितो हतस्वप्नश्चक्रन्दासौ स्तनन्धय:।।
रुदन्तं तं समागत्य चुचुत्कारैरसान्त्वयत्।
जननी तस्य सस्नेहमस्वापयच्च तं पुन:।।
अत्र जृम्भते, थरथरायते, तडित् तडतडायिता, प्रचस्खाल, चुचुत्कारैरित्यादिपदानां प्रयोगेन वर्षर्तोर्विविधान् शब्दान्, स्पर्शान् रूपाणि, रसान्, गन्धाँश्च काव्यगतनिनादोऽनुहरति।
क्वचिच्चौज्ज्वल्यं मालिन्यं च युगपत् पदशैया प्रकटयति तत्रापि नादानुवृत्तेरानुगुण्यम्। यथा खिस्तेबटुकनाथशास्त्रिणो गङ्गास्तुतौ-
सिताऽपि हसितास्पदं भवति नीरसं क्षीर
मप्युदैति जनसाक्षिकं हृतगुणं पुनर्माक्षिकम्।
सुधारसमुधाकृतिक्षममहो त्वदीयं पय:
प्रदूषितमिति प्रथा व्यथयतीव न: साम्प्रतम्।।
अत्र रूपस्य उज्ज्वलता, रसस्य माधुर्यञ्च यथा सकाररकारानुवृत्त्या प्रकटीकृतम्, तथैव दकारषकारानुवृत्त्या दूषितत्वम्।
इयं च नादानुवृत्तिर्यावदर्थं पोषयति तावत्येव ग्राह्या। स्वात्ममात्रपर्यवसायिनी तु हन्ति काव्यस्यालङ्कारं सौन्दर्यं वा। यथा ममैव प्रावृड्लहर्याम्-
वृष्ट्या सृष्ट्या च कृष्ट्या च धरित्री किल जीवति।
अत्र केवलं षकारटकारयोरावृत्ति: धरित्रीजीवनोचितं लयं वा नादानुवृत्तिं वा न निर्मिमीते। यथा वा पुनर्ममैव स्तवमालेति कवितायाम्-
जटाधीश हठाधीश मठाधीश नमोऽस्तु ते।
उभयत्र निरर्थकां चमत्कृतिमाधातुमनुप्रासाडम्बर: सयत्नं साधित:।
नादानुवृत्त्या नादमूलका बिम्बा आविष्क्रियन्ते काव्ये। क्वचित् शब्दा वर्णविन्यासस्य नादमनुहरन्ति। तेन नादात्मकानां बिम्बानां निर्माणं जायते। नादात्मकमस्ति जगत्। नादेन सृष्टिर्भवति। नृत्तावसाने नटराजराजो ढक्कां ननाद, तेन निखिलं व्याकरणशास्त्रं समुद्भूतम्। कविर्बटुकनाथशास्त्री खिस्ते मुजीबमुक्तिवाहिनीं बाङ्गलादेशस्वाधीनतासङ्ग्रामं च साधु वर्णयामास। तत्रासावाह-
उद्वेल्लत्सिन्धुवेला तरलकरतलोन्मुक्तमुक्तासहस्र
प्रत्यग्राभ्यर्चनाभिर्विगलितचरणे चेतने चेतयाशु।
बाहुस्तम्भावलम्बात् तव वसतु पुनर्बाङ्गलाशौर्यलक्ष्मी
र्ढक्कानादेन ढक्कानगरविरचितोत्तुङ्गसौधानेषु।। (कविभारतीकुसुमाञ्जलौ, पञ्चमे भागे, पृ.२८)
क्वचित् शिवताण्डवावसाने ढक्का निनाद्यते, क्वचिद् आततायिनां संहाराय विहितस्य सङ्ग्रामस्यावसाने। अत्र ढक्काया नादात्मको बिम्ब: शब्दैरनुरणनं विधाय कविना कर्णगोचरतां नीत:।
अथ यमकम्-
एकस्य पदस्य अर्थभेदेन असकृत् प्रयोगो यमकम्।। २।६।१८।।
तच्च अलङ्कारान्तरसंसृष्टमलङ्कारान्तरेण साङ्कर्यं वा प्राप्तं पुष्णाति काव्ये शोभाम्, अन्यथा तु गात्रे श्वित्रमिवाशोभनं भवेत्। उदाहरणं यथा मम नर्मदालहर्याम्-
नानाऽऽधिभिर्बहुविधं च तथा ततोऽहं
सङ्केतहीनमिव पत्रमितस्ततोऽटन्।
सङ्केतमेव च तव प्रतिपालयामि
भ्राम्यन् भ्रमाकुलजगत्यतिखिन्न एष:।।
व्यर्थप्रसक्तबहुपत्रभरे किलेदं
निष्पत्रवृक्ष इव याति च जीवितं मे।
कार्यालयान्तरगते विततेऽत्र कृत्ये
कृत्यावरोधजनके जननीं विना त्वाम्।। ४९।।
अत्र सङ्केतशब्दस्य भिन्नयोरर्थयोर्द्वि: प्रयोगस्तेनाविष्कृतं यमकम् उपमाया सौन्दर्यवर्धकं जायते। एवमेव च द्वितीये पद्येऽपि पत्रकृत्ययोरित्थं प्रयोग:।
एकस्य पदस्य अनेकेष्वर्थेषु ग्रहणं श्लेष:।। २।६।१९।।
स च सर्वदैव अलङ्कारान्तरपरसंसृष्टोऽलङ्कारानतरप्रतिभोत्पत्तिहेतुर्वा स्यात्। केवलं श्लेषप्रदर्शनार्थं श्लेषस्योपादानं तु काव्यत्वक्षतिकारकम्। यत्तूक्तमुद्भटेन-अर्थभेदेन शब्दा भिद्यन्त इति (काव्यालङ्कारसारलघुवृत्तौ, पृ. ६३) तन्न। य: गो-शब्द: पशुविशेषवाचक:, स एव किरणवाचक:, स एव वाणीवाचक:। गोत्वजातिविशिष्ट: पशुरेव ऋषिभि: क्वचिद् आधिदैविकलोके किरणरूपेण अन्यत्र वाण्या रूपेण वा साक्षात्कृत:। य एव करशब्द: हस्तवाचक: स एव किरणवाचक:, यौ हस्तौ तावेव नरस्य कृते प्रकाशकौ किरणौ। उदाहरणं यथा वाल्मीके:-
चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम्।।
अत्र कर-तारका-रागाम्बरेषु श्लेष:। प्रेमा आह्लादालङ्कारश्चापि विलसत:। यथा वा मम-
आतपस्य स्वर्णराशिं सहस्रै: स्वै: करै रवि:।
वितरत्यादिनान्तं स च्छत्तीसगढजङ्गले।।
शाखाबाहून् समुत्थाप्य तं च गृह्णन्ति पादपा:।
अहम्पूर्विकया चैते प्रलुब्धा इव याचका:।।
पल्लवाङ्गुलिविस्रस्तं पतितं तं क्वचित् क्वचित्।
धरा बध्नाति साऽत्यल्पं सुवर्णकणमञ्चले।।
अत्र करशब्दस्य द्व्यर्थकप्रयोगेण श्लेष:। आतपच्छेदेषु हिरण्यारोपाद् रूपकम्। सूर्ये दानशीलस्य नायकस्य व्यवहारसमारोपात् समासोक्तिरपि। द्वितीये तृतीये च पद्ये शाखासु बाहूनाम्, पल्लवेष्वङ्गुलीनां चारोपेण रूपकम्, वृक्षेषु याचकैरुपमितेषु उपमा च। छत्तीसगढस्य गहनवनेषु वृक्षाणां सघनत्वात् स्वल्प एवातपो धरायां पतति तेन वृक्षाणां सघनता द्योतत इति अर्थशक्त्युत्थे अलङ्कारेण वस्तुव्यञ्जना। धरा अत्यल्पं सुवर्णकणं वस्त्राञ्चले बध्नन्ती कृपणा स्त्रीवेति वस्तुव्यङ्ग्योपमाऽपि।
अथ लय:-
वर्ण्यविषयानुरूपो गति-यति-पद-वाक्यादिविन्यासो लय:।। २।६।२०।।
विश्रान्तिर्लीनत्वं वा लय:।
गति-यति-विन्यासेन छन्दो निर्मीयते पद्ये वा गद्ये वा। छन्द:सु कानिचिन्निर्धारितवर्णानुक्रमाणि, तद्यथा-युद्धोद्योगे इन्द्रवज्रा, शृङ्गारे कोमलभावेषु शिखरिणी, प्रावट्-प्रवासव्यसने मन्दाक्रान्ता, वसन्तादिवर्णने वसन्ततिलका, ओजोयुक्तेषु भावेषु शार्दूलविक्रीडितम्। प्रत्येकं छन्दो भवति विशिष्टलयान्वितम्।
क्वचित्तु अर्थापेक्षया पदविन्यासेन वाक्यविन्यासेनापि लयो निर्मीयते। तद्यथा सुभाषितरत्नाकर उद्धृते राजशेखरस्यास्मिन् पद्ये-
अध्वश्रमाय चरणौ विरहाय दारा अभ्यर्थनाय वचनं च वपुर्जरायै।
एतानि मे विदधतस्तव सर्वदैव धातस्त्रपा न यदि किं न परिश्रमोऽपि।।
अत्र प्रथमार्धे अर्थापेक्षया चतुर्थ्यां विभक्तौ सर्वाणि पदानि न्यस्तानि। उत्तरार्धे तु धातारमुपालभते दीनो हीनो वृद्धो जीवनगतक्लेशानसहमान:। अत: प्रथमार्ध एव अर्थापेक्षया पदविन्यासजन्यो लय: काम्य:।
वाक्यविन्यासजन्यो लयो यथा-
'क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव पुष्पेण, पुष्प इव भ्रमरेण, भ्रमर इव मदेन, नवयौवनेन पदम्।’
अत्र सप्तम्यन्तैस्तृतीयान्तैश्च पदै: पदविन्यासजन्योऽपि लयविशेषो यद्यपि विनिर्मित: कुश्लेन कविना, तथापि स वाक्यविशेषविन्यासान्तर्वर्ती शोभते।
लयस्तु पद्ये तथैव गद्येऽपि सामान्यम्। वामनेन गद्यं द्विविधं प्रोक्तम्-वृत्तगन्धि, चूर्णमुत्कलिकाप्रायञ्च। (काव्यालङ्कारसूत्रे - १।३।२२)। वृत्तगन्धि तावत् पद्यभागवद् भवति। चूर्णे पदानि विभज्य कणश इव कृतानि विन्यस्यन्ते। उत्कलकाप्रायमधिकृत्याह रत्नदर्पणकार:- उत्कलिका कल्लोलस्तत्प्रायत्वम्, उच्चावचमिव भासमानम्। सर्वत्र गतियत्योरनुरूप: प्रयोग:। गतयस्तु द्रुता, विलम्बिता, मध्या, द्रुतविलम्बिता, द्रुतमध्या, मध्यविलम्बिता च। औत्सुक्ये कौतुकालङ्कारे आह्लादेऽपि द्रुता उपयुज्यते। तद्यथा-अवनमति च विनयनमितवपुषि भयचकितमनसि चलनशिथिलमणिकनकमुकुट.-इत्यादिहर्षचरितगते गद्यबन्धे द्रुता। विस्तारे साक्ष्यालङ्कारे वा विलम्बिता। तद्यथा- मेघालम्बितमौलिनीलशिखरा: क्षोणीभृतो दक्षिणा इति भवभूतिकृते दण्डकवर्णने दीर्घवर्णप्रयोगेण साधु साधिता विलम्बिता गति:। मध्या यथा तत्रैव-एते ते कुहरेषु गद्गदनददगोदावरीवारय इत्यादि। द्रुतविलम्बिता यथा शाकुन्तले प्रत्याख्यातां शकुन्तलां प्रति शार्ङ्गरवस्योक्तौ-
यदि यथा वदति क्षितिपस्तथा
त्वमसि किं पितुरुत्कुलया त्वया।
अथ तु वेत्सि शुचिव्रतमात्मन:
पतिकुले तव दास्यमपि क्षमम्।।
इत्यत्र एकत्र शकुन्तलां विहाय गमनाय त्वरा, शकुन्तलाया प्रबोधाय च स्थिरत्वमिति द्रुतविलम्बितप्रयोग: साधीयान्।
द्रुतमध्या च यथा-
ते हिमालयमामन्त्र्य पुन: प्रेक्ष्य च शूलिनम्।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टा: खमुद्ययु:।।
मध्यविलम्बिता यथा-
तं सन्त: श्रोतुमर्हन्ति सद्सद्व्यक्तिहेतव:।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धि: श्यामिकाऽपि वा।।
अनुष्टुप् सर्वासु गतिषु युज्यते। शार्दूलविक्रीडिते पञ्चचामरे च द्रुता गति:। मन्दाक्रान्तायां द्रुतविलम्बिते च द्रुतविलम्बिता, शिखरिण्यां विलम्बितैव। यतिस्तु विराम:।
लयेन पाठगुणा: प्रादुर्भवन्ति काव्ये। ते च राजशेखरेणेत्थं कीर्तिता:-
गम्भीरत्वमनैश्वर्यं निर्व्यूढिस्तारमन्द्रयो:।
संयुक्तवर्णलावण्यमिति पाठगुणा: स्मृता:।। (काव्यमीमांसा, सप्तमेऽध्याये)
अस्मिंश्च लयालङ्कारे वामनप्रतिपादिता: शब्दगुणा अन्तर्भवन्ति। लयविशेषप्रयोगादेव गाढबन्धत्वम् (ओज:), शैथिल्यम् (प्रसाद:), मसृणत्वम् (माधुर्यम्), अजरठत्वम् (सौकुमार्यम्), बन्धस्य औज्ज्वल्यम् (कान्ति:) इति गुणा आविर्भवन्ति। श्लोकौ चात्र भवत:-
अलङ्कारव्यतिकरे विमर्दे विविधाश्रये।
काव्यं याति परां काष्ठां सम्भेदे सम्प्लवे तथा।।
अलङ्कारा यदा याता अन्योन्यस्पृहणीयताम्।
काव्ये तस्मिन्नलङ्कारो यात्यसौ चरितार्थताम्।।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
द्वितीयेऽधिकरणे बाह्यालङ्कारनिरूपणं नाम षष्ठोऽध्याय:।।