अथ तृतीयमधिकरणम्
।। काव्यविशेषविमर्श:।।
द्विविधं तत्-पाठ्यं दृश्यं च।।३।१।१।।
काव्यं तावन्मुख्यतो द्विविधम्-पाठ्यं च दृश्यं च। तत्र यदिह पाठ्यमिति व्यपदिष्टं तत् प्राचीनै: श्रव्यमिति प्रतिपादितम्। यस्मिन् काले कवय: सदसि समाजे वा स्वकाव्यं पाठं पाठं श्रवयन्ति, सहृदयाश्च श्रावं श्रावं काव्यार्थं भावयन्ति स्म, तस्मिन् काले श्रव्यकाव्यमिति नाम अन्वर्थमासीत्। सम्प्रति साहित्यस्य श्रवणं न तथा प्रचलितं, यथा मुद्रितै: पुस्तकैस्तस्य पाठ:। अत: पाठ्यमिति संज्ञैवोचिता। ननु गजलगीतानि नवगीतानि वा प्राय: कविगोष्ठीसु श्रावं श्रावमेव समधिकतरं भाव्यन्ते, अत: कुतो वा श्रव्यकाव्यमित्येव सर्वं तत् कथ्येत, इति न। गजलगीतानां नवगीतानां वाऽपि पाठेनैव कविकृतेन जायते भावना, पाठ एव न स्यात् तर्हि कुत: श्रवणं कुतश्च काव्यानुभूतिरिति पाठ्यमित्येव सर्वस्य काव्यस्य संज्ञा युज्यते। युक्तमुक्तवान् राजशेखर:-
करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा।
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती।।
यथा जन्मान्तराभ्यासात् कण्ठे कस्यापि रिक्तता।
तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितम्।।
यत्तु काव्यं रङ्गमञ्चे प्रदर्शनाय कविना विरच्यते, तत्रैव तस्य सौन्दर्यमुन्मीलति, तद् दृश्यम्। दृश्येऽपि भवत्येव पाठ्यांश:, तस्य पाठो वाचिकाभिनयद्वारेण नटो विदधाति, अप्रयुज्यमाने वा दृश्यकाव्ये कश्चन पाठकोऽपि एकाकी तस्य पाठं कुरुते। तथापि प्राधान्येन प्रदर्शनायैव विरचितत्वात् क्रियमाणे प्रचलितेऽपि वा तस्य पाठे दृश्यकाव्यमिति संज्ञैव तत्रोचिता।
भाषार्थचमत्कृति-कविदृष्टि-बन्ध-रीतीन्द्रियाणि आधृत्य काव्यविधाविभाजनम्।।३।१।२।।
भाषाया आधारेण संस्कृतमहाकाव्यम्, आङ्ग्लनाटकमिति संज्ञा भवन्ति। अर्थोपलब्धिदृशा उत्तमोत्तमम्, उत्तमं मध्यममिति भेदा उक्ता एव। कविदृष्ट्या काव्यं द्विविधम्-विषयप्रधानं विषयिप्रधानं च। तत्राद्ये बहिर्मुखत्वम्, अपरस्मिंश्चान्तर्मुखता। महाकाव्यम्, उपन्यास:, नाटकं चेत्याद्या विधा विषयप्रधाना:। मुक्तकं गजलगीतिश्चेत्याद्या: प्रायो विषयिप्रधाना:। बन्धदृष्ट्या उभयविधमपि काव्यं दृश्यश्रव्यात्मकं तावद् द्विविधम्-निबद्धमनिबद्धं च। निबद्धं प्रबन्धकाव्यं वा महाकाव्यं, खण्डकाव्यं नाटकादिकम्। अनिबद्धं मुक्तकम्, गीतम्, गजलगीतिर्वेत्यादिकम्। रीतिमाश्रित्य गद्यं पद्यं चम्पूश्चेति त्रयो भेदा श्रव्यकाव्यस्यैव। पद्यभेदा उक्ता ज्ञायन्ते च। गद्यभेदेषु निबन्ध:, आलोचना, कथा, उपन्यास:, संस्मरणम्, जीवनचरित्रम्, आत्मकथा, रेखाचित्रम्, यात्रावृत्तान्तम्, दैनन्दिनी, वार्ता, साक्षात्कारश्चेत्यादयो भेदा:। इन्द्रियद्वारेण दृश्यं श्रव्यं चेति द्वौ भेदौ।
पद्यात्मकं समग्रजीवननिरूपणपरं महाकाव्यम्। गीतैतिह्यपुराणलोककथाभेदादस्य नानात्वम्।।३।१।३।।
इदमेव क्वचिन्महाकाव्यायमानं कवित्वस्य परां काष्ठां प्रकटीकरोति। यथा-रामायणं महाभारतं वा। यथा वा कालिदासस्य रघुवंशम्। ग्रीकभाषायां होमरकवेरोडिसी इलियड् चेति महाकाव्यद्वयी वा। अत्र जीवनस्य समग्रं रूपं निरूपणीम्, तेनैव महावाक्यता सैव चालङ्कार:। जीवनं तु प्राग् लक्षितम्-एतेषां त्रयाणामपि आधिभौतिकाधिदैविकाध्यात्मिकलोकानां सकल: समुल्लासो जीवनमिति। महावाक्यं नाम प्रतिपादितमेव काव्यभेदनिरूपणावसरे प्रथमाधिकरणे चतुर्थाध्याये। उदात्तालङ्कारोऽत्र आद्यन्तं निर्वाह्य:। भवन्ति बहवो भेदा महाकाव्यस्य। अत उक्तम्-गीतपुराणलोककथाभेदादस्य नानात्वम् इति।
तत्र गीतामहाकाव्यं प्रथमम्। तल्लक्षणं यथा-
सङ्घर्षे तुमुले द्वन्द्वे युगीने समुपस्थिते।
देशजातिसमाजानामवस्थां निर्दिशत् क्रमात्।।
वर्णयत् तत्प्रसङ्गेन महापुरुषजीवनम्।
विश्वरूपं वैश्विकं वाऽपि दर्शनं कर्मणां गतिम्।।
कर्मयोगस्य तत्त्वं च सकलं समुदाहरत्।
गीता नाम महाकाव्यभेदो ज्ञेयो बुधैरसौ।।
सर्गा अष्टादशप्राया भवन्त्यध्यायसंज्ञका:।।
यथा श्रीमद्भगवद्गीता वेदव्यासकृता। यथा वा क्षमारावपण्डिताया: सत्याग्रहगीता, उत्तरसत्याग्रहगीता वा। यथा वा ममैव सत्यानन्दगीता। इतिहासकथाश्रितमैतिहासिकं महाकाव्यं यथा रघुवंश:, लेनिनामृतं वा। पौराणिकं वृत्तमाश्रित्य रचितं पौराणिकं यथा किरातार्जुनीयं शिशुपालवधं वा। लोककथाश्रितं यथा बृहत्कथा, कथासरित्सागरो वा।
जीवनस्यैकदेशनिरूपकं खण्डकाव्यम्।।३।१।४।।
तद्यथा-मेघदूतम्। तद्यथोक्तमभिराजेन राजेन्द्रेण-
कस्यचित् पुरुषार्थस्य वर्णनन्तु यदांशिकम्।
जीवनस्याथवा नेतु: खण्डकाव्यं तदुच्यते।।
भवन्ति चास्य सङ्घात-स्तोत्रकाव्य-लहरीकाव्य-सन्देश-काव्यान्यापदेशकाव्य-नीतिकाव्य-गीतिकाव्य-रागकाव्यादयो भेदा:। विषयविशेषमादाय विरचितं पद्यकदम्बकं सङ्घात:। यथा-ऋतुसंहार: कालिदासस्य षड्ऋतुवर्णनमादाय ग्रथित:। स्तोत्रकाव्यं इष्टदेवतास्तुत्यात्मकम्। यथा-शिवमहिम्न:स्तोत्रम् पुष्पदन्तस्य, मातृस्तव: ज्ञानकवेर्वा। लहरीलक्षणं यथा-
पारावारे चेतसि उद्गच्छति च मुहु: सङ्घट्टन्ति।
भावतरङ्गास्तेषां व्यक्तीकरणं भवेल्लहरी।।
सन्देशप्रेषणव्याजेन यत्र सृष्टिसौन्दर्यं कविदृष्टेश्चोन्मीलनं नायकस्य नायिकाया वा मनोभावनिवेदनमन्तर्बाह्यप्रकृत्यो: समवेतत्वं तत्र सन्देशकाव्यम्। यथा मेघदूतमुदाहृतमेव। अन्यापदेशेन प्रकृतप्रकाशनपरमन्यापदेशकाव्यम्। यथा शुकवृत्तम्, दस्युशुनकीयं वा ज्ञानकवे:। नीतिकाव्यं यथा भर्तृहरेर्नीतिशतकम्।
तदेवान्त्यानुप्रासधु्रवकान्वितं गीतम्।।३।१।६।।
यथा-गीतगोविन्दम्, यथा वा मम गीतधीवरम्।
मुक्तकम्-
अनिबद्धं तु मुक्तकम्।।३।१।७।।
कथाप्रसङ्ग-घटनेतिवृत्तविन्यासादिभिरबद्धमित्यर्थ:। तस्मिंश्च प्रत्येकं पद्यं स्वात्मपर्यवसायि। यदाहु: प्राचीना:-पूर्वापरनिरक्षेणापि येन रसचर्वणा क्रियते तन्मुक्तकमिति। यत्तु वामनेनोक्तम्-नानिबद्धं चकास्ति एकतेज: परमाणुवत्, तदसत्। एकस्यापि मुक्तकस्य क्वचिद् उत्तमोत्तमकाव्यत्वम्, महावाक्यता च। तद्यथा-
लिखन्नास्ते भूमिं बहिरवनत: प्राणदयितो
निराहार: सख्य: सततरुदितोच्छूननयना:।
परित्यक्तं सर्वं हसिकपठितं पञ्जरशुकै
स्तवावस्था चेयं विसृज कठिने मानमधुना।।
अत्र कियता कालेन भूमिं लिखन्नुपविष्ट: प्रिय: कक्षाद् बहि:, पुरा सख्य: समं त्वया अश्नन्ति स्म, त्वयि अनश्रन्त्यां ता अपि तथैव तिष्ठन्ति, पुरा पञ्जरशुका: कथं हसन्ति स्म पठन्ति स्म, इदानीं तु न तथा इति व्यञ्जनया अतीतगता: प्रसङ्गा उद्घाट्यन्ते, ततश्च वर्तमानकालिकस्य विपर्यासस्य भवति तीव्रा अनुभूति:, भविष्यदनेहसि किं स्यादिति विचिन्त्य च कम्पते हृदयम्। इत्थमतीतं, वर्तमानं, भविष्यच्च विषयीकुर्वत् जीवनस्य नानादशा विभावयत् पद्यमिदं महावाक्यायते। आधिभौतिकमाधिदैविकमाध्यात्मिकमपि पक्षत्रितयमत्र न समन्वितमिति दिक्।
अथ मुक्तच्छन्दं काव्यम्-
अन्त्यानुप्रासादिविहीनं परिमुक्तपैङ्गलं लयान्वितं काव्यं मुक्तच्छन्दः।।३।१।८।।
मुक्तच्छन्दे काव्ये न किमपि पूर्वनिर्धारितं छन्द उपादीयते। अन्त्यानुप्रासोऽप्यत्र न निर्वाह्यते। अर्थगतस्य लयस्यात्र प्राधान्यम्। छन्दोऽपि द्विविधम्-पिङ्गलशास्त्रप्रतिपादितनियमानुबद्धं, काव्येऽन्तर्निहितं च। मुक्तच्छन्दकाव्ये तावदन्तर्निहितं छन्दो भवति। तद्यथा पूर्वमवोचाम प्रथमेऽधिकरणे प्रथमाध्याये-नास्ति छन्दोहीनं काव्यम्, तस्माच्च काव्यं छन्द इति समाम्नातम्। तद्यथोक्तं तैत्तिरीयारण्यके (२। ५)-'छादयन्ति ह वा एवं छन्दांसि पापात्कर्मण:’ इति। अन्यच्च क्वचिद् आधिव्याधिप्रभृतिभौतिकतापेभ्य: क्षणं त्राणादपि आच्छादकत्वम्। तदुक्तं मम्मटेन-काव्यं शिवेतरक्षतय इति। वाचां परिस्पन्दो निवारयत्यमङ्गलम्। अतश्च यथात्मबोधाय तथात्मत्राणाय साहित्यं कल्प्यते। उक्तमेव तैत्तिरीयसंहितायाम्-अग्निरूपात् प्रजापतेरात्मानं त्रातुं देवाश्छन्दांसि श्रितवन्त इति-'प्रजापतिरग्रिमचिनुत, स क्षुरपविर्भूतवाऽतिष्ठत्, तं देवा बिभ्यतो नोपायन्त छन्दोभिरात्मानं छादयित्वोपायन्तच्छन्दसां छन्दस्त्वम् (तै.सं. ५।६।६।१)। छन्दस्तु सर्वत्रानुस्यूतं समेषां मानसे पिनद्धं किमपि तत्त्वम्। काव्येऽपि गद्ये वा पद्ये वाऽस्य व्याप्ति:, प्रतिशब्दं छन्दसो वर्तमानत्वात्। तद्यथोक्तं मुनिना भरतेन-छन्दोहीनो न शब्दोऽस्ति न च्छन्द: शब्दवर्जितम् इति। अस्य च छन्दसो द्वैविध्यम् आभ्यन्तरबाह्यभेदात्। यदस्याभ्यन्तरं रूपं तत्तु समग्रां सृष्टिमभिव्याप्रोति। विद्यमाने तस्मिन् प्रबन्धेषु आन्तरिकी सङ्गति: सम्भवति, तेन तेषु महावाक्यं निष्पद्यते। बाह्यं तु रूपं पिङ्गलादिशास्त्रेण निर्धार्यते। अविद्यमानेऽपि तस्मिन् क्वचिद् भवति छन्दसो निष्पत्तिरिति।
गजलगीति:-
द्विपादिकाभिर्निबद्धा गीतिर्गजलमुच्यते।।३।१।९।।
गजले प्रत्येकं पादयुगलं द्विपदिका शेर इत्यभिधीयते। प्रथमा द्विपदी प्रारम्भिकी मतलेति वा कथ्यते। द्विपद्या एकं चरणं च मिसरा इति कथ्यते। प्रतिगजलं पञ्च वा पञ्चाधिकानि वा पादयुगजानि स्यु:। प्रथमस्य पादयुगलस्य (शेरस्य) मतलेति संज्ञा भवति। प्रतिपादयुगलमुत्तरपादे एक: द्वौ त्रयो वा शब्दा आवर्त्यन्ते। इमे अवन्त्यश्रुति: ('रदीफ’) इत्यभिधीयन्ते। रदीफात् प्राक् उपान्त्यश्रुति: ('काफिया’) वितन्यते। प्रारम्भिक्यां द्विपदौ (मिसरायां) प्रतिपदमेव अन्त्योपान्त्यश्रुत्योरावृत्ति:। शिष्टासु द्विपदीषु तु केवलमुत्तरार्ध एव तयोरावृत्ति:। 'काफिया’ नाम तुल्यध्वनिसमन्वितानां पदानामावृत्ति:। आद्ये पादयुगले मतलेति संज्ञप्ते उभयोश्चरणयो: रदीफकाफि येत्युभयोर्निर्वाह:, शिष्टेषु पादयुगलेषु उत्तरचरण एव। अन्तिमं पादयुगलं 'मक्ता’ इति कथ्यते। मक्तायां कवि: प्राय आत्मनाम उपनाम वा कीर्तयति।
प्रत्येकं पादयुगलं विषयभेदाद् भिन्नम्, एक एव विषय: समस्तेषु पादयुगलेषु वर्तत इति विषयदृशा गजलगीतिर्द्विधा।
अथ समस्या-
प्रदत्तपदावल्या: पूर्तौ समस्या।।३।१।१०।।
समस्यापूर्तिरपीयं कथ्यते। गजलगीतिरिव साऽपि च द्विविधा। एकाभिप्रायान्विता विविधाभिप्रायान्विता च। प्रथमायां समस्तेषु पद्येषु एक एव विषय:। द्वितीयायां प्रतिपद्यं विषयो भिन्नो भवति। आद्याया उदाहरणम्-बच्चूलालावस्थीज्ञानकवे: 'क्व कालिदासस्य जगाम भारती’ति काव्यम्। तत्र कालिदासीयकाव्यवैशिष्ट्यनिरूपणपराणि सर्वाणि पद्यानि, प्रतिपद्यं च क्व कालिदासस्य जगाम भारतीति चतुर्थ: पाद:। द्वितीयाया उदाहरणं यथा ममैव 'किम्’ इति शीर्षकेण 'सुप्ता किन्नु मृता नु किं मनसि मे लीना विलीना नु किम्? इत्यमरुककवेरेकां पङ्क्तिमादाय रचिता बहव: शलेाका:। दिङ्मात्रमुदाह्रियते-
रेखां स्मितनिर्मितां सुरुचिरामोष्ठद्वये कुर्वती
याऽसौ केलिकलाकलापकलने दृष्टिं ददौ नूतनाम्।
याऽऽसीच्छैशवलालिता सहचरी वृत्तिस्तु सा कौतुकी
सुप्ता किन्नु मृता नु किं मनसि मे लीना विलीना नु किम्?।।
आयातोऽस्मि चिराद् गतेऽर्धशतके स्वस्यायुषो ग्रामकं
दृष्ट्वा मां समुपेक्षया प्रचलिता मार्गे जना: शङ्किता:।
नित्या मे सहजा शिवा परिचितिस्तै: साकमासीत्तु या
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्?।।
अथ गद्यभेदा:-
निबन्ध-कथोपन्यास-संस्मरणातमकथा-रेखाचित्र-जीवनचरित-यात्रावृत्तादयो गद्यभेदा:।
निबन्ध:-
विचारविशेषस्य भावविशेषस्य गद्येन बन्धो निबन्ध:।।३।१।११।।
विचाराणां भावानां च निबन्धनान्निबन्ध इति व्यपदिश्यते। विषयप्रधानो विषयिप्रधान इति द्विधा। विषयप्रधाने निबन्धे विचारस्य चिन्तनस्य भवति प्राधान्यम्। विवरणात्मक:, वर्णनातमक:, विचारात्मकश्चेति द्विविध:-भावात्मको ललितनिबन्धश्च। तत्र भावात्मको यथा मम 'दूर्वा न म्रियते’ इति निबन्ध:। ललितनिबन्धाश्च परमानन्दशास्त्रिण उदाहर्तव्या:।
कथा-
जीवनस्यैकदेशनिरूपणपरमाख्यानं कथा।।३।१।१२।।
अत्र साक्ष्यम्, द्वन्द्वं, तानवं चालङ्कारा विशिष्यापेक्ष्यन्ते। यथा भट्टमथुरानाथ-क्षमाराव-राजेन्द्रमिश्रादीनां कथा:।
उपन्यास:-
गद्यनिबद्ध उपन्यासो महाकाव्यमयी कथा।।३।१।१३।।
महाकाव्यमिव जीवनस्य सर्वाङ्गीणं रूपं निर्दिशति। उदात्तालङ्कारश्चात्र अवश्यं स्यात्। स्मृतिसतमुपोद्वलयति। प्रेमाह्लादविषादनविभीषिकादिभि: सविशेषं प्रभावशाली सञ्जायत उपन्यास:। यथा टॉल्सटायकृतो युद्धं शान्तिश्चेत्युपन्यास:, यथा वा बौरिसपास्तरनाककृत: 'डॉ. जिवागो’ इत्युपन्यास:।
उपन्यासे कथारम्भ:, सङ्घर्ष:, आरोह:, अवसानम्, समाप्तिर्वेति चत्वारोऽवस्था भवन्ति।
उपन्यासभेदा:-घटनाप्रधान:, सामाजिक:, राजनैतिक:, ऐतिहासिक:, मनोवैज्ञानिक:, आञ्चलिक:, जीवनचरितात्मकश्चेति।
संस्मरणम्-
यथावृत्तस्य स्मृत्या आख्यानं संस्मरणम् ।।३।१।१४।।
संस्मरणे तु प्राधान्यं स्मृते: स्यादलङ्कृते:।
घटनाश्च प्रसङ्गाश्च व्यक्तयो जातयस्तथा।।
यथा साक्षात्कृता: पूर्वं तथैव स्युर्निरूपिता:।।
साक्ष्यनामा ह्यलङ्कार: पूर्वं य: परिभाषित:।
संस्मरणाख्ये काव्येऽसौ सविशेषं स्मृतिसङ्गत:।।
अलङ्कारास्तथा चान्ये प्रेम, नर्म, विषादनम्।
अङ्गभावमिमे प्राप्ता व्यङ्ग्यं छायादयोऽपि वा।।
रेखाचित्रम्-
शब्दैर्घटनाया व्यक्तेश्चित्रमिव निर्मितं रेखाचित्रम्।।३।१।१५।।
अत्र स्वभावोक्तेर्जातेर्वा सर्वथा प्राधान्यम्। स्मृतिरलङ्कारोऽपि भवति समन्वित:। रेखाचित्रं विषयप्रधानं भवति, संस्मरणं तु विषयिप्रधानमित्यनयोर्विवेक:।
जीवनचरितम्-
कस्यचिन्महापुरुषस्य प्रेरणाप्रदं चरितनिरूपणं जीवनचरितम्।।३।१।१६।।
क्वचिदिदं पद्यात्मकमपि भवति यथा क्षमादेव्या: शङ्करजीवनाख्यानम्। तथापि गद्यात्मकत्व एवैतस्य सङ्गति:। तद्यथा अप्पाशास्त्रिचरितम्।
आत्मकथा-
जीवनचरितस्यैव प्रकारविशेष आत्मकथा।।३।१।१७।।
कवि: प्रणेता वा स्वस्य चरितं स्वयमेव वर्णयति। अत्र उत्तमपुरुषप्रयोग आद्यन्तं स्यात्। अहङ्कार: साक्ष्यालङ्कारश्चास्य सौन्दर्यं प्रगुणयत:। आङ्ग्लभाषायां बर्टे्रण्डरसलमहोदयस्य विंस्टनचर्चिलस्य नेहरूजवाहरलालस्य वात्मकथा:, तथैव महात्मनो गान्धिन आत्मकथा वा सन्त्युत्कृष्टान उदाहरणानि।
यात्रावृत्तम्-
यात्राया यथानुभूतं वर्णनं यात्रावृत्तम्।।३।१।१८।।
कविना स्वयं कृताया यात्राया यथानुभूतं यथादृष्टं वर्णनं यात्रावृत्तम्। यथानुभूतत्वेन प्रत्यक्षप्रमाणसाधिता यात्राऽत्र गृह्यते। तेन विश्वगुणादर्शचम्पूप्रभृतिपुरातनप्रबन्धा न यात्रावृत्तत्वेन ग्राह्या:। अत्र स्थलविशेषस्य ऐतिहासिकं, भौगोलिकं, सांस्कृतिकं च समग्रमपि वैशिष्ट्यं विशदं भासते। अत्रापि साक्ष्यालङ्कार: प्रधान:, सञ्चरति तेन सह कौतुकालङ्कृतिरपि। यथा यात्रावृत्तं नवलकिशोरकाङ्करस्य।
अथ दृश्यकाव्यम्-
दृश्यं तु रूपकम्।।३।१।१९।। तच्च द्विविधम्-एकाङ्कं नाटकं च।।३।१।२०।।
एकाङ्क एव प्रहसन-भाणादीनामन्तर्भाव:। नाटके च प्रकरणादीनाम्। तत्रैकाङ्क एक एव अङ्क: एकस्मिन् दृश्ये दृश्यान्तरैर्वा प्रस्तूयते, अत्र प्रसङ्गविशेष एका घटना वा निरूप्यते। नाटके तु एकाधिकेष्वङ्केषु समग्रं समुल्लसति जीवनम्। जीवनस्य प्रस्तुतिराधिभौतिकाधिदैविकाध्यात्मिकपक्षाणां समन्वितिश्च एकाङ्के मुक्तखण्डकाव्यादिवत्, नाटके च भवति महाकाव्योपन्यासादिवत्, केवलं सर्वमधिरङ्गमञ्चं प्रदर्शनाय विशिष्टो विन्यासो विधीयते तस्य सर्वस्येति दिङ्मात्रमिदं निरूपितम्।
।। इति श्रीराधावल्लभविरचिते अभिनवकाव्यालङ्कारसूत्रे
काव्यविशेषविमर्शो नाम तृतीयमधिकरणम्।।
।। समाप्तश्चायं ग्रन्थ:।।
प्राच्यपाश्चात्त्यसाहित्यशास्त्राणां क्षीरसागरम्।
निस्सारितं विनिर्मथ्य नवसिद्धान्तमौक्तिकम्।।
राधावल्लभ इत्याख्यो विदुषां स वशंवद:।
काव्यालङ्कारसूत्रं सोऽभिनवं व्यदधादिदम्।।
कारिकाभि: परिकरै: श्लोकैर्वृत्त्या तथाऽन्वितम्।
नवीनैर्लक्षणर्युक्तं नवोन्मेषनिदर्शकम्।।
प्राचीनानां नवीनानां कवीनां समुदाहृतै:।
पद्यै: सुललितैर्जुष्टं नव्यकाव्यं परामृशत्।।
भूयादिदं सरस्वत्या: कण्ठहारश्चिरं पुन:।
काव्यतत्त्वविदां चापि हृदयानि परामृशेत्।।
।।इति।।