वसन्तलहरी
(१)
शब्दा यथा स्मृतिमुपेत्य पुनर्विलीना
सीदन्ति चित्तजगति क्वचिदेककोणे।
उद्भिद्यतेऽथ च विनाशमुपैति सद्य:
काव्याङ्कुर: कविमन:सु तथा वसन्त:।।
(२)
उक्तावुभौ च मधुमाधवमुख्यमासौ
वासन्तिकीं श्रियमहो तनुत: सुरम्याम्।
वासो मधु: स इह नैव मधु व्यनक्ति
व्यत्येति शून्य इव माधवमास एवम्।।
(३)
वासन्तिकर्तुमनुबध्य बधान काव्यम्
बन्धो इति प्रकुरुते बहुधाऽनुबन्धम्।
दूर्वाविकासनपर: किल भास्करोऽयं
पत्रेरितां करततिं कवये प्रहिण्वन्।।
(४)
अन्वेषणं तु विदधे बहुश: समन्ता
न्नेतुं वसन्तसमयं नयनायनं स्वम्।
व्यस्त: समस्तजगति प्रविभक्तरूपो
गूढं क्वचित् स निलये विलयं प्रयाति।।
(५)
आयाति नैव सुमुखी तु रसालकुञ्जे
पुञ्जे गृहेषु बहुकृत्यभरे विलीना।
छिन्ना भवन्त्यतितरां मनसोऽभिलाषा:
शाखा इवाम्रविटपस्य खरै: कुठारै:।।
(६)
विस्थाप्य पूर्वलसितं सहकारकुञ्जं
स्वैरं प्रसर्पतितरां गुरुसौधपुञ्ज:।
अन्तर्निगीर्य स परः प्रकृतं समस्तं
स्वैरं विजृम्भत इवातिशयोक्तिकाव्ये।।
(७)
अर्वाक्तने क्वचन कुज्झटिकाप्रणष्टं
तं मार्गये स्वसमये सततं वसन्तम्।
आ प्रातरानिशमहं बहुकृत्यसक्तो
जिघ्रामि गन्धमिव चास्य यदा कदाचित्।।
(८)
सायं त्ववाप्य समयं भ्रमणाय यातो
गच्छामि निर्जनपथे नतमस्तकोऽहम्।
द्वित्रान् स्थितान् निभृतमत्र विलोकयामि
वृक्षान् विषण्णहृदयामिव सज्जनांस्तान्।।
(९)
कन्थां विमुच्य यदमी किल जीर्णपर्णां
प्लुष्टा: स्थिता: समयदावतनूनपाता।
अस्ताचलस्थ रवि-रक्त-कर-प्रवाहे
स्नाता जलेऽतिलुलिते मुनयो व्रतस्था:।।
(१०)
सङ्क्षिप्यमाण-रविरश्मिसमूहजाले
जालं स्वकीयमपि सङ्क्षिपतीह काले।
सान्ध्ये स धीवरजनो बडिशप्रसक्तं
मत्स्यं प्रगृह्य च तटान्तिकमेति नक्तम्।।
(११)
जाले निबद्ध इह स स्फुरतीह वेल्लन्
पाशेन पीडिततनुश्च वसन्तमत्स्य:।
उच्छ्वासनि:श्वसितयोरिह चान्तराले
मध्ये त्रिशङ्कुरिव चैव विलम्बमान:।।
(१२)
वासन्तिकी दहति यत्र समस्त शोभा
भूमण्डले ज्वलति सङ्गरतीक्ष्णवह्नौ।
छायाश्चरन्ति कुसृता: पिशिताशनानां
तैलेन सागरजलं परिदूषयन्त्य:।।
(१३)
वाता निवात इव तेऽपि शनै: सरन्ति
फुल्लन्ति पुष्पनिकराण्यपि सूचिभेदै:।
तूणार्धकृष्टमपि पुष्पशरं मुमुक्षु:
शङ्के च संहरति तं मदन: सशङ्क:।।
(१४)
दूराददृश्य इव पश्यति विश्वयुद्धं
सम्भावितं भयकरं बत भीतभीत:।
सोऽयं वसन्तसमय: समयातिपातात्
क्षीणो विनि:श्वसिति किञ्च शनैरुपैति।।
(१५)
एवं वसन्तसमयं विगतं विलीनं
चास्मिन् वसन्तसमये प्रविलोक्य भूय:।
खिन्ना भृशं विनिपतन्ति धरातलेऽमी
जीर्णाश्च पर्णनिचया द्रुमसन्ततीनाम्।।
(१६)
वृद्धोऽस्थिशेष इव कूटचयैर्वृतोऽयं
जीर्ण: शिशुं तमिह वृक्षततेस्तथाङ्के।
विन्ध्य: पितामह इव प्रयतो वसन्तं
पौत्रं च लालयति रुग्णतरं कृशं स्वम्।।
(१७)
यानागमव्यतिकराकुलिताश्च मार्गा:
पित्रोलगन्धपरिपूरितदिङ्मुखास्ते।
धूम: प्रसर्पति च राजपथे पुरेऽस्मिन्
धूलिं बिभर्ति वसुधाऽसितडामराङ्का।।
(१८)
धूमावृतानि वदनानि तथाध्वगानां
वायुं प्रदूषणयुतं निगिरन्ति भूय:।
धूल्याकुलानि विविधानि च वाहनानि
निष्पिष्य गाढमिह यान्ति वसन्तशोभाम्।।
(१९)
सिन्धोरपारनवनागरसभ्यताया
उद्भूतमत्र मथनादमृतं विषं च।
तच्चोभयं गिलति सैष वसन्तकाल:
पीताम्बरोऽपि ननु भाति च नीलकण्ठ:।।
(२०)
ऐश्वर्यनाशविनिवृत्तसमस्तभोग्याद्
भृत्या भवन्ति विमुखाश्च यथा प्रभोस्ते।
व्यग्रा ऋतोर्विविधकृत्यभरे प्रसक्ता
वासन्तिकादपि जना: शिथिलीभवन्ति।।
(२१)
पक्षौ विधूय किल तित्तिलिका निकामं
पौष्पं मधु भ्रमति साऽपि गवेषमाणा।
प्राप्नोतु सा मधु कथं कुसुमप्रसूतौ
विष्टम्भिते सकल एव लताप्ररोहे।।
(२२)
स्तम्भेन विद्युत इहाततलौहतन्ता-
वुत्तानपादमवनम्य शिर: स्वकीयम्।
व्यालम्बते मलिन चर्मचरो विहङ्गो
व्यत्यासमेव बत सृष्टिगतं विवृण्वन्।।
(२३)
कण्ठ: कषायविकृत: शिशिरेण जात:
पुंस्कोकिलस्य यदयं स्खलितं चुकूज।
भृङ्गा उपेत्य वसतिं सहसास्मदीयां
भित्तौ विघट्य विलुठन्ति च कुट्टिमे ते।।
(२४)
मुग्ध: स्वनीडरचनाकुलितश्च पक्षी
श्रान्तस्तृणस्य निचयं सततं विचिन्वन्।
घट्टस्य पट्टयुगमध्यगतं वसन्तं
गोधूमधान्यमिव पश्यति पिष्यमाणम्।।
(२५)
भूतं च भव्यमनिशं भवितव्यतां तां
मध्ये निलम्बितमिदं किल वर्तमानम्।
विस्मृत्य सर्वमपि साधयति स्वमर्थं
सर्वस्वमेव गिलतीह च राजनीति:।।
(२६)
साम्राज्यवादशिशिर: कुणपोऽन्तरासा-
वातङ्कवादखलता च बहिर्निदाघ:।
उत्कायमान उभयोरिह चान्तराले
व्यक्तिं प्रयातु कथमेष वसन्तकाल:।।
(२७)
शब्देषु तेषु बहुलेषु सुपुष्पितेषु
प्रोल्लासि-वाग्विपुलपल्लविते विताने।
रूढाङ्कुरेषु नगरे नवसंस्कृतीना-
माभास एव किमु शिष्यत एष चास्य?।।
(२८)
ताङ्गाख्य वाहनगताश्च हया व्यथन्ते
रामस्य दुर्बलतराश्च रहीमबन्धो:।
धर्मस्य राजनयकञ्चुकसम्वृतां यद्
राष्ट्रे रथा: प्रविचरन्ति लसत्पताका:।।
(२९)
उत्सारितो विगतलक्ष्मरसालकुञ्जा-
च्छून्याभ-नष्टमधुनो विरलद्विरेफात्।
सोऽयं सरत्यहह भिक्षुकवच्च तूष्णीं
घण्टापथे नगरमध्यगते वसन्त:।।
(३०)
राधा तदीयदयितोज्झितगोकुलेभ्यो
गोपीविहीन-यमुनापुलिनात् पुनश्च।
लालित्यमण्डितलवङ्गलताविहीनाद्
दूरं प्रयाति च विषण्ण इवेह सोऽयम्।।
(३१)
द्वन्द्वेऽत्र साम्प्रतिकनूतनसभ्यताया
रीत्या पुरा प्रचलितैर्व्यवहारजातै:।
विस्थापितश्च शरणार्थिसमो वसन्तो
गेहं परत्र विवशस्त्वनुसन्दधाति।।
(३२)
प्राप्ता विकारमिह सम्प्रति सर्व एव
सौन्दर्यसारसमुदायमया: पदार्था:।
द्रष्टुं न शक्यमपि तद् किल सोपनेत्रै:
कैश्चिद् वसन्तलसितं सितवस्त्रयुक्तै:।।
(३३)
त्यक्त्वा स्वकीयमखिलं च निसर्गभावं
प्रत्यक्षमत्र खलु नापि विभाव्यमान:।
चित्ते विपर्ययततिं विकृतिं विवृण्वन्
क्रीडत्यहो च्छलनया तु वसन्तकाल:।।
(३४)
स्वैरं प्रलोभनपरा लसतीह भव्या
चित्रच्छविर्बहलवर्णविशेषरम्या।
गेहेषु कृत्रिमविभाकृतचाकचिक्या
सा दूरदूर्शनगताऽनुकृतिस्तदीया।।
(३५)
छात्राश्च भित्तिषु लिखन्ति निरर्गलानि
वाक्यानि शिष्टजनवक्रदृशेक्षितानि।
तापं तदक्षरगतं किल भावयन्त्य:
किञ्चिद् भवन्ति चपलाश्चटुलाश्चिरण्ट्य:।।
(३६)
जीर्णे जराप्रशिथिले विकलेऽपि गात्रे
सद्यो वसन्तचुलुकं विदधात्यवश्यम्।
क्षिप्तो मुखे करतलेन विषस्वरूप:
संस्कारितोऽपि सुधया सुधियां तमाखु:।।
(३७)
उत्कोचराशिमधिगत्य सुखेन कश्चित्
पीत्वा प्रमादमदिरामधिकारमत्त:।
वासन्तिके विहरतीव सदाऽधिकारी
कार्यालयेऽप्यकृतकृत्यकुकृत्यसक्त:।।
(३८)
यावत् त्वसौ स्फुरति नृत्यति रिङ्गतीव
स्फारप्रफुल्लसमदप्रमदासमूहे।
होलोत्सवप्रखरपिञ्जरदिङ्मुखेभ्य:
सोल्लासमत्र नगरे स ऋतुर्वसन्त:।।
(३९)
तावन्मलीमसजुगुप्सितकर्दमानां
क्षेपा: शठैश्च विहिता घृणितप्रचारै:।
मर्दैर्विमर्दविकृतै: कृतडम्बरैस्तै:
सम्मूर्च्छिता विषरसेन वसन्तशोभा।।
(सन्दानितकम्)
(४०)
क्षेत्रेषु भान्ति ततयो वितता: स्फुरन्त्यो
गोधूमधान्यपरिलम्बितसस्यराशे:।
आराद् भुवि प्रकटितं विलसत्सुवर्णं
स्वर्णं विकीर्णमिह याभिरिदं समस्तम्।।
(४१)
माङ्गल्यमेव निखिलं नववत्सरेऽस्मिन्
दैवादियं खलु कृषि: फलिता प्रपूर्णम्।
इत्थं मनोरथशतैरिव वाहितास्ते
यावत् कृषीवलजना: सफलश्रमा: स्यु:।।
(४२)
तावद् ववर्ष तुमुलं करकैस्तु देवो
गोधूमशस्यनिवह: शयितो धरण्याम्।
ध्वस्तो मनोरथनवाङ्कुरपुण्यराशि:
क्रोशन्ति भाग्यसरणिं कृषका दरिद्रा:।। (विशेषकम्)
(४३)
लुप्तोऽपि नाम विकृतिं च तथा गतो वा
द्रष्टुं न शक्य इति नास्ति वसन्तकालः।
आविष्करोमि सहसा क्वचिदेनमत्र
पङ्के प्रफुल्लमिव तत् सहजं प्रसूनम्।।
(४४)
आयामि गेहमिह दीर्घ-बहिः प्रवासाद्
धास्यच्छटां निजसुतावदने निरीक्षे।
तस्यां वसन्तसदृशं कमनीयरूपं
पश्यन् विषादजलधेरिव चोद्धृतोऽहम्।।
(४५)
रम्या ललामललनापरिरम्भलीला
आलिङ्गनानि सुरतानि तथोपगूढम्।
पुन्नागकेसरविकासिलताप्रसूनै:
संरोचितां प्रमदवन्यभुव: श्रियं ताम्।।
(४६)
मोट्टायितं मधुरकुट्टमितं भ्रुवां तद्
वक्रत्वमङ्गवलनं सुकुमारभावम्।
सीत्कारभिन्नमधरत्रुटिताक्षराणां
विच्छित्तिवक्रमुपचारवच:प्रपञ्चम्।।
(४७)
काव्याङ्गणं समवतारयितुं समीहे
सर्वं पुरातनमिदं नहि वर्ण्यजातम्।
त्यक्त्वा चमत्कृतिततिं प्रतिबिम्बकल्पां
वासन्तिकं विशदयन्तु गिरो मदीया:।। (विशेषकम्)
(४८)
पश्यामि नूतनतनौ प्रकटीभवन्तं
नव्यां तथेह वसतिं परिकल्पयन्तम्।
सङ्घर्षयुक्तजनजीवनचक्रवाते
तं चोल्लसन्तमनिशं बहलं वसन्तम्।।
(४९)
चुल्लीं पुरो निजकुटुम्बजनाय साध्वीं
साध्व्या गृहे रसवतीं किल साधयन्त्या:।
वाञ्छत्यसौ निवसितुं वसने हरिद्रा-
कुस्तुम्बरीतिलकिते रुचिरे गृहिण्या:।।
(५०)
भूमिं खनित्रचलितै: खनतां स्वशक्त्या
दूर्वाङ्कुराढ्यधरणीं क्षुरतां क्षुरप्रै:।
स्वेदाम्बुपूरविगलन्मधुगण्डपाली:
सोऽयं वसन्तसमय: श्रयते जनानाम्।।
(५१)
सुस्पष्टसुन्दरसुवाच्यलिपिप्रकृष्टं
यन्त्रेण टङ्कणकरेण च कर्गदेषु।
यट्टङ्कितं निखिलमेवं मनोगतं मे
पश्यामि तत्र सकलं च वसन्तलेखम्।।
(५२)
यावल्लिखामि विचरामि वदामि यावद्
यावत् समुच्छ्वसिमि निर्भय एव तावत्।
वागर्थसख्यमिव मेऽधिगतं वसन्तं
नोच्छेत्तुमस्ति विभवोऽपि च देवतानाम्।।
(५३)
सैषा वसन्तलहरी प्रभवेत् प्रमार्ष्टुं
क्लेशस्य लेशमपि दीनजनस्य जातु।
साफल्यमस्य निजवाङ्निचयस्य मन्ये
तस्मै जनाय रचनां च समर्पये स्वाम्।।
२. निदाघलहरी
(१)
दाहं दाहमयं लोकानीतिभीती: प्रसारयन्।
आतङ्कवादिखलवन्निदाघो दाघमश्नुते।।
(२)
अभिसन्धिविदीर्णा भू: शोषिता स्नेहवर्जिता।
शोषितानां जनानां सा मनोभूर्विक्लवा यथा।।
(३)
ग्लपयन् रसवर्जं स शोषयन् निखिला: प्रजा:।
निदाद्यो निर्दयं शास्ति क्रूरो भूमिपतिर्यथा।।
(४)
उच्छ्वसन् नि:श्वसन् वह्निं दीपयन् सर्वतोमुखम्।
लौहकारस्य भस्त्रेव लोक: प्रध्माप्यतेऽनिशम्।।
(५)
निष्कृपं स्वकरांस्तीक्ष्णान् प्रक्षिपन्नेष भास्कर:।
अक्षैर्दीव्यत्यहो प्राणैर्जनताया: पणीकृतै:।।
(६)
जना अन्नजलाभावाद् भ्रामं भ्रामं दिवङ्गता:।
इरणे तृषिता: क्षीणा भ्राम्यन्त: पशवो यथा।।
(७)
राजस्थाने मृता बाला पिपासाकुलिता नव।
तथा गुर्जरदेशेऽपि मृता गावो बुसं बिना।।
(८)
गोमाता म्रियते लोका बुसं देयं तृणादिकम्।
इत्याह्वयति धर्मात्मा नेता चैवानुभाववान्।।
(९)
तृणानां पे्रषयन् राशीर्गोभ्यो यानेन सत्त्वरम्।
म्रियन्तेऽत्र नरा: क्षुद्भ्य इति किं नैव पश्यति।।
(१०)
बुभुक्षित: करोत्येव पापानीति वचो वृथा।
उदरम्भरय: किं किं पापमत्र न कुर्वते।।
(११)
यथा तथैव सायासं रक्ष्यते गृहवाटिका।
गहिण्यालाबुकूष्माण्ड्यौ फलिष्यत इतीप्सया।।
(१२)
कुत्र कस्मिन् प्रदेयं स्याज्जलं स्वल्पं तु पादये।
रक्षणीयं गृहे वा स्यात् स्नानाय क्षालनाय वा।।
(१३)
इति चिन्तातुरा म्लाना गृहिणी वाटिकास्थिता।
सेचनं कुरुते प्रातर्जलैश्चुलुकमात्रकै:।।
(१४)
पिपासाकुलित: पक्षी पयोधानेन सिञ्चतीम्।
निर्वर्णयति तामुकस्तत्क्षणोज्झितपादपाम्।।
(१५)
प्रदत्तमञ्जलिप्रायं जलं तूर्णं प्रशुष्यति।
आलवालमथ प्राप्य पक्षी पश्यति कर्दमम्।।
(१६)
अवस्थानेषु हट्टेषु पिपासापीडिता नरा:।
वम्भ्रामति जलं पातुमन्विष्यन्त: प्रणालकम्।।
(१७)
जलमादातुमुत्कानां प्रतीक्षाकुलितात्मनाम्।
लोकप्रणालके पङ्क्ति: स्त्रीणां दीर्घा प्रजायते।।
(१८)
सद्यो जलव्यवस्था स्यादित्याश्वासयति प्रजाम्।
'मारुतिं’ च समारुह्य महापौर: समागत:।।
(१९)
सहठं स्वघटं चाग्रे स्थापयन्तीं तु पृष्ठत:।
कटूक्त्या वारयत्येषा हस्ताहस्तिकयाऽथवा।।
(२०)
पिपासाकुलित: पान्थोऽधरोष्ठं जिह्वया लिहन्।
अनादाय जलं याति कलहं वीक्ष्य चानयो:।।
(२१)
दाववह्नि: प्रकुरुते खाण्डवे ताण्डवं यथा।
अर्जुनेनार्जुना दग्धा: शरविद्धा यथाऽखिला:।।
(२२)
करदर्वी: खराश्चैताश्चालयत्यथ भास्कर:।
धरामहाकटाहेऽस्मिन् भर्जिता मानवाभ्रशम्।।
(२३)
ऐषमो ग्रीष्म एतानि नीध्राणिच्छादितान्यहो।
आभीरप्ल्ल्यां गोपालै: श्रमिकै: स्वगृहेषु वा।।
(२४)
बभञ्जैतानि झञ्झाभि: प्रबलोऽयं प्रभञ्जन:।
अद्रिशृङ्गाणि हरते यथा वीरोऽञ्जनासुतः।।
(२५)
ज्वलत्यथ धरा शुष्का जीवनं प्रज्ज्वलत्यहो।
प्रदीप्ते वह्निना गेहे कूपं खनति शासनम्।।
(२६)
श्वसुरालयसम्प्राप्ता पीड्यमाना वधूरिव।
छायां छायाऽप्यहो कोणे मार्गमाणा लयं गता।।
(२७)
शीतयन्त्रगलत्तापक्षपितातपसद्मसु।
शेरते विपुलामोदं धनिका अधिकारिण:।।
(२८)
धगद्धगज्ज्वलज्ज्वालाजिह्वास्वग्नेर्निरन्तरम्।
तृषा लपलपं दीप्तमुच्छलन्त्या महाध्वरे।।
(२९)
ब्रह्माण्डस्य महावेद्यां भूगोलं याजको रवि:।
आदीप्ताखिलमध्याह्ने जुहोत्याहुतिभि: समम्।।
(३०)
ताप्ताय:पिण्डवद्दीप्ते शून्ये घण्टापथे मुहु:।
हिमगोलकविक्रेतुराह्वानं विचरत्यहो:।।
(३१)
एतद्घर्मपरिक्लिष्टं सन्ध्यायां तारकाञ्चितम्।
नभ: संलक्ष्यते तापात् स्वेदबिन्दुविचित्रितम्।।
(३२)
ऊष्मा ग्रीष्मसमुत्तप्त: पिपसाकुलितो भृशम्।
लेढि स्वेदद्रद्रवस्रावं नराणां चर्मणोऽनिशम्।।
(३३)
धूलिं नेत्रे विनिक्षिप्य झञ्झेयं सान्द्रमर्मरा।
विहसन्ती विनिर्याता चेत्वरा नर्मकौतुकात्।।
(३४)
तालपत्रं करे धृत्वा शयानोऽयं गृहाद् बहि:।
खट्वास्थ: स्थविरो वायुं नैव वातीति शप्तवान्।।
(३५)
अप्रकम्पतृणे काले निर्वातेऽखिलभूतले।
केवलं पत्रमेकं तत् कम्पतेऽश्वत्थपादपे।।
(३६)
अनिशं हृतवन्यश्रीर्नष्टसत्त्वो भयार्दित:।
खिन्नस्तिष्ठति विन्ध्योऽयं खल्वाट: स्थविरो यथा।।
(३७)
वृक्षा ऋक्षा वराहा: क्व सिंहा व्याघ्रा मृगा गता:।
इत्यगस्त्यगतामाशां सोत्कण्ठश्च निरीक्षते।।
(३८)
आतपस्य स्वर्णराशिं सहस्रै: स्वै: करै रवि:।
वितरत्यादिनान्तं स च्छत्तीसगढजङ्गले।।
(३९)
शाखाबाहून् समुत्त्थाप्य तं च गृह्णन्ति पादपा:।
अहम्पूर्विकया चैते प्रलुब्धा इव लोभिता:।।
(४०)
पल्लवाङ्गुलिविस्रस्तं पतितं तं क्वचित् क्वचित्।
धरा गृह्णाति साऽत्यल्पं सुवर्णकणमञ्चले।।
(४१)
समारूढनभोमञ्चो गर्जन् मेघो न वर्षति।
भाषमाणोऽक्रियो नेता जनतायाः पुरो यथा।।
(४२)
द्यामुत्तीर्य विलीयन्ते मेघाश्छलसमन्विता:।
शुष्को म्लायति केदार: क्षेत्रेषु ग्रामसीमनि।।
(४३)
काष्ठलोलुपवित्तेशैरवनी चावनीकृता।
नग्ना दीना न रमते दरिद्रा जनता यथा।।
(४४)
दु:शासनेन पाञ्चाली कृष्यमाणाञ्चला यथा।
धरित्री दूयमानास्ते वन्यवृक्षनिकृन्तनै:।।
(४५)
मध्याह्ने श्रमिकान् कृत्ये योजयन् कर्षयन् प्रजा:।
भीष्मो ग्रीष्म: स्थित: क्रूर: पणकृत् कृपणो यथा।।
(४६)
मूर्च्छन्ती सर्जनाधारा पाषाणैर्घट्टते जडै:।
व्यथते विधुरा चित्ते रचनावचनावली।।
(४७)
चोरयन्नाननं स्वीयं नि:शब्दो निर्गतो द्रुतम्।
सन्देशप्रापणं मेघो प्रत्यादिशति धाष्टर्यत:।।
(४८)
कथं सम्भाव्यते वाऽद्य मेघदूतप्रकल्पनम्।
शुष्के मरुस्थले वाणी शीर्णा जर्जरतां गता।।
(४९)
यक्ष: प्रतीक्षते कामी कदा मेघ: समेष्यति।
वन्ध्येयं वसुधा कृत्स्ना शापमुक्तिं च काङ्क्षति।।
(५०)
कुतो यक्ष: कुतो मेघ: सन्देशप्रापणं कुत:।
विच्छिन्नाभ्रविलायं तल्लयं याति मनोजगत्।।
(५१)
विवर्धमानतापस्य परिणामविनिश्चयात्।
जनश्चैव कविश्चैव प्रतीक्षायामुभौ स्थितौ।।