३. प्रावृड्लहरी
(१)
समायाता इमा वर्षा: श्यामाग्रै: स्वपयोधरै:।
पाययन्त्य: पयस्तूर्णं प्रजाभ्यो मातृवत्सला:।।
(२)
जगत्प्रपञ्चसंसक्तमीतिभीतिसमाकुलम्।
मेघालोकेऽन्यथावृत्ति चित्तमुच्छ्वसितं मनाक्।।
(३)
जननी द्यौ: सुखासीनमिमं विन्ध्यं शिशुं मुदा।
मेघहस्तैश्चुलुकितै: स्नपयत्यत्र मोदितम्।।
(४)
कूजद्भिश्चातकैर्नित्यं मयूरैश्च कुशीलवै:।
प्रावट्प्रवेशमालक्ष्य ध्रुवा प्रावेशिकी कृता।।
(५)
आकाशरङ्गपीठस्थै: समागत्य बलाहकै:।
पूर्वरङ्गप्रसङ्गेऽस्मिन् विहिता परिघट्टना।।
(६)
क्वचिद् दृष्टा क्वचिल्लुप्ता सूचितं वस्तु गूहते।
विद्युन्मालविका नाट्ये छलितं कुरूते नु किम्।।
(७)
झलज्झलारवश्चैष निनादयति झल्लरीम्।
झर्झरो झर्झरीकं स्वं कम्पयन्निव ताण्डवे।।
(८)
सृष्टेरस्मिन् महानाट्ये पर्जन्यस्तु बलाहकम्।
मृदङ्गमिव सन्ताड्य गम्भीरं गुञ्जयन् स्थित:।।
(९)
वंशिकामिव वंशेषु पलाशेष्वथ वल्लकीम्।
कस्तीरावृतनीध्रेषु वादयत्यथ झल्लरीम्।।
(१०)
रुद्रवीणामिवाश्वत्थे शततन्त्रीं महाह्रदे।
कुतपं कुरुते प्रावृट् पूगस्थूलै: पृषन्तिभि:।।
(११)
पणवस्य च शङ्खस्य घोषा आनकदुन्दुभे:।
कोणाघातेन गर्जद्भि: क्रियन्तेऽद्य बलाहकै:।।
(१२)
पवनं जवनं चाश्वमारुह्यैष महाबल:।
पर्जन्य: पृथिवीलोके विजिगीषुरिव द्रुत:।।
(१३)
जययात्रासमारम्भे सीकरस्पर्शनर्तिता:।
लाजाञ्जलीन् प्रच्छन्ति पुष्पब्याजेन वल्लय:।।
(१४)
विद्युल्लेखाकशाघातैर्बाणैरासारवर्षिभि:।
प्रकुट्टितो निदाघोऽयं कम्पते भययन्त्रित:।।
(१५)
तापयन् सततं लोकान् दु:शासनमिवाहित:।
घर्मोऽधर्मवशान्नूनं सङ्कुचन् विलयं गत:।।
(१६)
आकाशपत्रं पर्जन्यो विपर्यस्तमुखं व्यधात्।
प्लाविता जगती तेन प्रलयाब्धौ निमज्जति।।
(१७)
स्फूर्जथुर्जुम्भते तूर्णं पृथ्वी थरथरायते।
मघोनो वज्रनिर्घोषैर्विद्योतित इरम्मदे।।
(१८)
तारस्वरेण तरसा तडित् तडतडायिता।
दीर्यमाणा च घोषेण प्रचस्खालेव मेदिनी।।
(१९)
क्वचिद् गेहे सुखं सुप्त: स्वप्ने शुभ्रं स्मितं सृजन्।
प्रकम्पितो हतस्वप्नश्चक्रन्दासौ स्तनन्धय:।।
(२०)
रुदन्तं तं समागत्य चुचुत्कारैरसान्त्वयत्।
जननी तस्य सस्नेहमस्वापयच्च सा।।
(२१)
आह्वयत्युच्चरावेण धरित्रीं विरहाकुल:।
वृषायमाण आकाश नर्दति स्पन्दते मुहु:।।
(२२)
शनैरवतन्नेति मेघसोपानपङ्क्तिभि:।
उच्छिलीन्ध्रे धरादेहे रोमाञ्चैरञ्चिते नभ:।।
(२३)
वन्ध्या शोषितसर्वस्वा वार्धक्यं गमिता इव।
खिलीकृता निदाघेन याऽबलेव धराऽखिला।।
कायाकल्पमिवावाप्य श्यामा नववधूरिव।
जाता पर्जन्य संस्पृष्टा सरसा सा रसा रसै:।।
(२४)
आयाते प्रियपर्जन्ये कुसुमै: समलङ्कृता।
नीलशाद्वलशाट्या च धरा वासकसज्जिका।।
(२५)
जलौघमग्नभूगोलसमुद्धारप्रयोजनात्।
आलम्बयति पर्जन्यो धरारज्जू: समन्तत:।।
(२६)
प्रलयाब्धिविलुप्ताया भूमेरन्वेषणाय स:।
सूचीभेद्ये तमसतोमे धत्ते विद्युत्प्रदीपिकाम्।।
(२७)
मेघमेदुरसम्भेदपङ्कश्याममसीकृतै:।
भूतलं जातमाकाशमाकाशं भूतलायितम्।।
(२८)
प्रत्युद्गच्छति पर्जन्यमियमुल्लसतीव भू:।
समुच्छलज्जलोघैस्तैरतिप्रहर्षविह्वला।।
(२९)
निरस्तरोदसीदेशं धराकाशौ समीपगौ।
प्रावृण्मायामहाजालनिबद्धौ मिलितौ दृढम्।।
(३०)
अवतीर्णा इमा वर्षाश्छत्तीसगढजङ्गले।
सहतेऽविरतं धारासम्पातं वृक्षसन्तति:।।
(३१)
रुन्ध्यन्त्येते दु्रमास्तूष्णीं पूगस्थूलांस्तु विप्रुष:।
जनता सहते मूकं प्रहारानिव दुष्कृतान्।।
(३२)
वर्षाधारास्तथा बद्धा वागुरायां महावने।
यथा भागीरथी वेगात् सङ्कुला शिवमस्तके।।
(३३)
क्षणमेव स्थिता मूर्घ्नि स्कन्धे प्रस्खलिता मुहु:।
शाखासु स्यन्दमानाश्च पल्लवैरवरोधिता:।।
(३४)
धनै: शनैर्गता नीचैर्महावृक्षस्य मूलकम्।
धरामिह निषिञ्चन्ति वर्षाप्रथमबिन्दव:।।
(३५)
रोमाञ्चितोऽभवद् विन्ध्य उद्गच्छत्पल्लवैर्द्रुमै:।
कुर्वन् किलकिलारावं शाखामृगनिनादितम्।।
(३६)
छत्तीसगढभूम्यां च धान्यमारोप्यतेऽनिशम्।
कलत्रैर्यत्र वा तत्र व्यस्तहस्तैर्निरन्तरम्।।
(३७)
अवाङ्मुखै: श्रमात् खिन्नैस्तथोत्तानीकृतत्रिकै:।
जलौघमग्नकेदारे दारैर्वा पुरुषै: क्वचित्।।
(३८)
कलमानामिमा राज्य उत्खातप्रतिरोपिता:।
निर्वाचने जनै: सद्य: शासनेऽधिकृता यथा।।
(३९)
बुभुक्षितस्य लोकस्य पोषणाय वसुन्धरा।
विशालं पात्रमादाय धान्यपूर्णमुपस्थिता।।
(४०)
मनोरथा दरिद्राणां निदाघोत्थानपातिता:।
धारासारनिपातेन समं तेऽपि समुत्थिता:।।
(४१)
छपच्छपत् प्रकुर्वन्त इमे धावन्ति बालका:।
नूनं कुतकुतं तेन धरादेहे प्रजायते।।
(४२)
आग्रीष्मप्रखरे काले स्नाता ये न कदाप्यहो।
खेलया स्नपयत्येतान् प्रावण्नग्नान् हि डिम्भकान्।।
(४३)
गर्ताम्भस्यददुर्डिम्भा नौकां कार्गलनिर्मिताम्।
प्रजातन्त्रोदधौ मुग्धैर्जनैर्दत्तं मतं यथा।।
(४४)
सीकर: सुखदश्चैष श्रमिकस्य तनौ पतन्।
पुष्पासारैर्नभोगङ्गाजलार्द्रै: स्नपयत्यमुम्।।
(४५)
सद्य: सीरसमुत्कृष्टा सुरभिं भूरिशश्च भू:।
लावण्यामृतसम्पृक्ता ललनेव विमुञ्चति।।
(४६)
कृष्टपच्या धरा सैषा फालकुद्दाललाङ्गलै:।
रेखाङ्किताऽञ्चिता भाति भक्तिच्छेदैर्विभूषिता।।
(४७)
रोमाञ्चकण्टकैर्जुष्टा तुष्टा वन्या वसुन्धरा।
लब्ध्वा पर्जन्यसंश्पर्शं समुच्छ्वसिति कौरकैः।।
(४८)
छिद्यमानवना नित्यं लुप्यमानतनुस्तथा।
वृष्ट्या सृष्ट्या च कृष्ट्या च धरित्री किल जीवति।।
(४९)
उत्सारिते तथोच्छिन्ने पुन: कामं प्ररोहत:।
वृक्षराजिर्वने सैषा जनस्यैषा जिजीविषा।।
(५०)
पूरोत्पीडेषु सरसां परीवाहा विनिर्गता:।
अन्यायक्षुब्धमनसां मन्युनोदितभर्त्सना:।।
(५१)
पटं मेघस्य संहृत्य रवि: समयमीक्षते।
कर्षकस्योन्नतिकरं सामन्तस्य कृतेऽन्तकम्।।
४. धरित्रीदर्शनलहरी
प्रथम उन्मेषः
(१)
कश्चिद् यात्रापरिगतरुचिर्भारते पान्थ आसीद्
विश्वस्मिन् यो भ्रमणरसिको द्रष्टुमुत्को धरित्रीम्।
प्राच्याधीतौ कलितरुचितो दिष्टयोगं नियोगं
लेभे गन्तुं प्रथितसुभगं प्राच्यशर्मण्यदेशम्।।
(२)
दूराद् देशाद् बहु नवविधं क्रीडनार्हं सुरम्यं
क्रीत्वाऽस्मभ्यं निजनिलयकं तात सद्य समेया:।
इत्थं सोत्क: प्रणयनुदितो डिम्भकैरुत्सुकै: स्वै-
र्दारान् वाष्पाकुलितनयनान् सान्त्वयामास धीर:।।
(३)
देशाद् गन्तुं बहिरपि तथा पारपत्रं स लेभे
दूतावासात् सपदि वृतवान् सुप्रवेशाधिकारम्।
भार्यां बालान् सुहृद इतरान् मङ्गलं भाषमाणा-
नापृच्छ्यासौ नियतदिवसे प्रस्थित: स्वीयगेहात्।।
(४)
अन्ताराष्ट्रं तलमतुलितं देहलीस्थं यथाहं
भव्यं भूमौ विपुलभवनं प्राप वैमानिकं स:।
सद्यो दिव्यान् कुतुककलितो विस्मितस्तत्र दृष्ट्वा
भावांस्तांस्तान् लसितविभवान् व्यस्मरत् स्वानभावान्।।
(५)
कृत्वा पूर्णं विहितविधिना तं च यात्रोपचारं
शालामन्त: प्रचुरविशदां स प्रविष्टो विशालाम्।
आसीनोऽत्र स्थितमधितलं सम्मुखीनं विमानं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श।।
(६)
आरूढश्च प्रमुदितमना: प्रेर्यमाणो विमानं
स्थानं नीत: क्लमविगमं व्योमबालाप्रदिष्टम्।
यानाध्यक्षो गमनसमयं चाथ सङ्घोष्य यातृन्
प्रीत: प्रीतीप्रमुखवचनं स्वागतं व्याजहार।।
(७)
रिङ्गन् रिङ्गन् वलयपरिधौ भूमिभागे विमान:
स्थानात् तस्मादुपरि सहसैवोत्थितश्चान्तरिक्षे।
क्रान्त्वा भूमिं प्रगुणितरयो भूय एवोन्मुख: खे
श्याम: पादो बलिनियमनाभ्युद्यतस्येव विष्णो:।।
(८)
गत्वा चोर्ध्वं वियति विपुलेऽसौ विमानो ललम्बे
नि:स्तब्धत्वं गत इव यथा विस्मृतश्वास आसीत्।
नो संसर्पन् नियतगमन: पृष्ठतश्चाग्रतो वा
विश्वामित्रप्रतिहतरय: सम्पतन् वा त्रिशङ्कु:।।
(९)
उड्डीन: किं वियति सहसा पक्षिराजो गरुत्मान्
पार्श्वाभ्यां सोऽवितततती पक्षती सम्प्रसार्य।
भूगोले वा भ्रमति विपुले पूरुषश्चोर्ध्वमूर्ध्वं
वृत्वा भूमिं स्थित इव च तां सर्वत: क्रम्यमाणम्।।
(१०)
नीचैरासीत् तरलसलिलं गाहमाना धरित्री
पान्थो धीरस्तिमितनयनस्तां गवाक्षादपश्यत्।
तूर्णं चित्तं समभवदहो भाववैचित्र्यपूर्णं
तेनात्मानं मुदितमनसा स्वात्मनैवाबभाषे।।
(११)
यस्यां गीतं हसितमनिशं क्रीडितं नृत्तमासीत्
यस्यां ते ते मुदितहृदया उत्सवा योजिताश्च।
दूरे संस्था निकटमिह सा भासते भास्वतीव
स्वेष्टस्येवच्छविरुपनता साक्षिभास्यस्वरूपा।।
।। द्वितीय उन्मेष:।।
(१२)
शुभ्रा स्वच्छा हिमकणततिर्दृश्यते या विमानात्
कीर्णा नीचैरुपरि परितश्छाद्यमाना समन्तात्।
पश्याम्येनां रजतसदृशीं राजमानां मनोज्ञां
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे धरित्र्या:।।
(१३)
यद्वा दृष्टं वियति मनुजैर्वस्तु यद् विप्रकृष्टं
नीचै: संस्थं न खलु विततं वर्तते तादृशं तत्।
नाना रूपै: प्रकटयति न: सान्यथाकृत्य सृष्टिं
स्वोन्मेषैस्तै: कविकुलगुरोस्तस्य चैकस्य दृष्टि:।।
(१४)
एषा शेते ह्यलसलुलिता क्लिन्नगात्रीव शीते
प्रच्छाद्य स्वां शिथिलिततनुं तूललेशैर्धरित्री।
शैत्याधिक्यादतिहिमजडा ग्लप्यमानाऽतिदीना
जाता मन्ये शिशिरमथिता पद्मिनीवान्यरूपा।।
(१५)
निर्वाते किं वियति विपुले विश्वनीडो ललम्बे
नि:स्पन्दत्वं कथमिह गतश्चायमोको जनानाम्।
पश्याम्येनां निभृतनिभृतां म्लानगात्रीं धरित्रीं
साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम्।।
(१६)
शब्दाख्येयं यदपि किल तद् वस्तुजातं समग्रे
लोके, लोक्यं विविधकलया रोचनैर्लोचनैर्वा।
आयत्तं तत् कथमिह भवेन्नूतनै: स्वीयशब्दै-
र्मन्दाक्रान्ता कविकुलगुरो: सज्जते यत्तु चित्ते।।
(१७)
स्यूतं स्यूतं पुनरपि च यच्छीर्यते धार्यमाणं
गात्रे क्लृप्तं कथमपि तथाऽऽच्छादने नालमेव।
धृत्वा देहे हिममयमिदं श्वेतकार्पासवस्त्रं
पृथ्वी चास्ते विकलकरणा निर्धना गेहिनीव।।
(१८)
चक्र: किं वा भ्रमति वितत: कालकौलालनुन्नो
न्यस्त: पिण्डो लघुरिव मद: पर्वतो भाति मध्ये।
दृष्टा पृथ्वी भ्रमितविधुराऽलातचक्रप्रभैषा
सिन्धुर्बिन्दुर्भवति वितता दीर्घिका चाप्यदीर्घा।।
(१९)
अन्तं यात: शिशिरसमयो नो हिमानी व्यपेता
आर्ता जाता धरणिरिह किं कालवैकल्यभावात्।
सैवानन्या सहजसुलभा विद्यतेऽस्यास्तितिक्षा
सोऽपि स्नेह: शिशुजनगत: सैव चास्या: प्रतीक्षा।।
(२०)
औदार्यं तद् विकटपृथुला रम्यता सैव तद्वत्
सैवैषाऽऽस्ते धृतिगतिमती मातृरूपा धरित्री।
पश्यन्नेनां परित इव तां देवतां मन्दिरस्थां
ध्यायं ध्यायं मुदमनुपमां व्योमपान्थो जगाम।।
(२१)
सर्वं देव्या अतुलितकथं वन्द्यहृद्यस्वयरूपं
साक्षाद् दृष्ट्वा चकितमनसा चिन्तयामास पान्थ:।
किं नोऽजानां प्रतिशिशुजनं प्रेम विश्वम्भराया
अस्या अङ्के मृदुलपृथुले यापयन् दीर्घकालम्।।
(२२)
बीजं प्रेम्णो निहितमभवद् यद्धि चित्तेऽप्ररूढं
शुष्के क्षेत्रे सलिलपतनोद्भिन्नमासीत् तदानीम्।
चित्ते तस्य प्रभवति तदा भावना कापि भव्या
स्वेष्टे वस्तुन्युपचितरसा प्रेमराशीभवन्ती।।
।। तृतीय उन्मेष:।।
(२३)
आयातैषा ह्यविदितगतिर्यामिनी रुद्धयामा
नो वा तारा इह विकसिताश्चन्द्रमा नैव दृष्ट:।
अन्तर्धानं नभसि तु गते कज्जलै: कीर्यमाणे
ध्वान्तव्यूहं प्रविशति शनैर्दृष्टिहीनो विमान:।।
(२४)
दर्शं दर्शं परित इव तान् व्योमयातॄन् विमाने
नाना भाषाप्रकृतिसहितान् साम्यवैषम्ययुक्तान्।
स्वात्मानं, तन्नियतिनटनं मानवेच्छापरीतं
लोकं पश्यन् कुतुककलया कीलितोऽभूत् स पान्थ:।।
(२५)
अग्रे संस्थो नर इह मनाक् कूणितस्कन्धदेश:
पेयं गृह्णंश्चषकलुलितं व्योमबालाऽग्रहस्तात्।
स्वादुङ्कारं कटुरससुरां स्काच-नाम्रीं तथान्यां
शैम्पैनाख्यां मधुरमदिरां मोदते स्वप्नमूढ:।।
(२६)
स्वप्ने पश्यन् भ्रमिषु वलितं श्रोणियुग्मं स्वकीर्ते-
स्तृप्तो दृप्तो विनयविरहात् स्वाधिकारप्रमत्त:।
कर्ता दाता निखिलजगतश्चैक एवास्मि धीमा-
नित्थं चेत: स्मयमदमयं सैष मूढ: करोति।।
(२७)
पृष्ठे संस्थो जन इह तथा मेदुरश्यामवर्ण:
केशाग्रै: स्वै: परमकुटिलो नो मनाङ् मानसेऽसौ।
'नामीबीयां’ पर-कर-धृतां धर्षितां राष्ट्रलक्ष्मीं
ध्यायन् स्वीयां व्यपगतरतिर्विक्लवत्वं प्रयाति।।
(२८)
कस्मिन् देशे सकलविभवे लब्धजन्माऽसि भद्र
पृष्टश्चेत्थं निगदति यदा देशनाम त्वरार्त्त:।
वाष्पस्तब्ध: कलुषनयनो जोषमास्थाय तोषं
स्तोकं चैव प्रणयविधुरो नाश्नुते पारतन्त्र्यात्।।
(२९)
स्नायुष्वस्य प्रवहति परं शोणितं शोणमारा-
दस्याप्येतद् हृदयमनिशं विद्यते स्पन्दमानम्।
भाले साऽस्य लिपिरिह तु याऽलेखि धात्रा प्रशस्ते
धिक्कृत्यैनां प्रभवति स तथोद्धर्तुमात्मानमेष:।।
(३०)
कालज्ज्वालामुखमुखरिता ये व्रणाङ्कास्त्वदीया
हृन्मर्मान्तस्तरलहृदये सादयन्त: सदा त्वाम्।
स्फोटस्तेषां भवति नु कदा भूतधात्रि त्वदीयं
यो वै तापं शमयति गिलन् किल्विषं भारभूतम्।।
(३१)
यद्वा सर्वं सहस इति ते नाम सर्वंसहेति
पापाचारा: कति कतिविधा: किं भवत्या न सोढा:।
क्षान्ति: क्ष्मे ते क्षणमपि मनाक् प्राप्नुते नैव लोपं
माता वा स्यात् कुतनयजने: किं कदाचित् कुमाता?।।
(३२)
स्वार्थान्धैस्तै: क्षपितकरुणैर्नीयमानाभ्रगर्तं
कैश्चित् सद्भिर्धियत इह वा धार्यमाणा धरैषा।
इत्थं चिन्ताततिभिरधिकं घूर्णमानस्य तस्य
स्थित्वा यानेऽनिमिषमनिषं रात्रिरेव व्यरंसीत्।।
(३३)
सायङ्काले स्वयमुगतं गूढमङ्के धराया
आश्लिष्यैनां क्वचिदपि निशामाशयानं प्रगल्भम्।
प्राचीतीरे दिनमणिमसौ रश्मिभिः सन्निबद्धं
काष्ठाभिस्तं घटमिव शनैः कष्यमाणंर्ददर्श।।
।।चतुर्थ उन्मेष:।।
(३४)
संसर्पन्ती सलिलतरला शुभ्रवर्णाभ्रमाला
सीम्रां रेखां विरचितवती स्वर्भुवोर्मध्यदेशे।
सूर्यालोके गगनसरणी स्कन्दमाने विमाने
तस्याधरस्तात् सपदि वसुधां तूलकल्पा न्यरुन्ध।।
(३५)
आस्तीर्णैषा परिवहपथे मेघमालाऽवदाता
सञ्छाद्यैनां धरणिमिह किं पाण्डुशुभ्रैर्दुकूलै:।
उड्डीयन्ते पवनचपला: किन्नु पट्टांशुकानां
श्वेतस्निग्धा दिशि दिशि सृतास्तोरणालोलमाला:।।
(३६)
पारावार: स्वयमुपगत: प्लावयित्वा द्युलोकं
पूरे क्वास्ते त्रुटितपुलिना लीयमाना धरित्री।
मेघालीं तां प्रविशति शनै: पारयिष्णुर्विमानो
गामुन्नेतुं विशति वदनं किं वराहस्य विष्णो:।।
(३७)
किं सञ्जात: सघनतिमिरे पूर्णिमाया: प्रकाश:
स्फीतं किं वा प्रवहति तथा दुग्धकुल्यासहस्रम्।
नीचैरेषा धवलधवला लक्ष्यते मेघमाला
राशीभूत: प्रसृत इव किं त्र्यम्बकस्याट्टहास:।।
(३८)
किं क्षीरोब्धेरुपरि च शनै: स्यन्दमानेव नौका
राशेराहो ह्युपरि यशसां धूयमाना पताका।
मेघानां स क्षितिजपुलिनादास्तृणानां विमानो
मध्ये गच्छन् रवविरहितो लक्ष्यते कृष्यमाण:।।
(३९)
आकाश: किं पवनशकलैर्मथ्यते दिग्वधूभि-
र्मेघा नैते दधिमथनत: कृष्टगव्यंसुनव्यं।
क्षीराब्धेर्वा मथनसमये फेनपुञ्ज: समुत्थो
द्यावाभूम्यो: प्रसरति बहु क्षिप्यमाण: समन्तात्।।
(४०)
बाल: कूर्दन्नटति मुदिर: प्राङ्गणे वारणास्य-
स्तिष्ठत्यग्रे क्वचिदिह च वा मेघपङ्क्तौ विडौजा:।
लीन: क्रूरोऽतिसघनघनाडम्बरे शम्बर: किं
चेतस्यासीदिति सुविततं मेघमालोक्य तस्य।।
(४१)
पत्राण्येतान्यमितविततान्यालये ब्रह्मणो वा
नित्यं येषामुपरि कवितां किं पुराण: कवि: स:।
या नो जीर्येल्लिखति नवलामक्षतां दिव्यवाचा
पत्रे पत्रे कनकखचितं तद्धि देवस्य काव्यम्।।
(४२)
अभ्रं छिन्नं क्षणमिह पुनर्भूतधात्री तथाऽसा-
वालोके मे निपतति शनैर्निम्नगेव स्खलन्ती।
यद् वा भूमि: सिचयपटलं सन्निरस्य क्षणं सा
भृङ्गप्रायं प्रहसितवती वीक्षमाणा विमानम्।।
(४३)
छिन्नादभ्रात् किमिह खलु तद् दृश्यते गर्तरूपं
गर्तो नासौ तरलसलिलं सागरस्यैव नूनम्।
नीले तस्मिंस्तरति सलिले मत्स्यरूपं नु किञ्चि-
न्नौका नूनं भवति ननु सा मन्थरं स्यन्दमाना।।
(४४)
नीचैरेषा प्रगुणितगतिर्याति नौका विशाला
याति स्वैरं नभसि वितते चोर्ध्वमस्मद्विमान:।
मन्ये चाब्धे: पयसि वसुधाचेतसीव प्रसन्ने
छायात्मास्य प्रकृतिसुभगो विन्दते द्राक् प्रवेशम्।।
।। पञ्चम उन्मेष:।।
(४५)
साक्षात्कृत्य प्रणयमुदितो भूतधात्र्या दविष्ठं
बैभ्राजं तद् विततमखिलं दृश्यमालेख्यकल्पम्।
नीत्वा बिम्बं हृदयपरिधिं प्रत्यभिज्ञाप्रतीतं
संसारं तन्निहितमखिलं विश्वरूपे ददर्श।।
(४६)
एते प्राप्ता ननु वसुमतीं सावधाना भवन्त:
सन्तिष्ठेरन्, भवतु भवतां मङ्गला चैव यात्रा।
यानाध्यक्षो मुदितमनसा घोषयामास चेत्थं
प्रह्वीकुर्वन् सपदि वसुधां नीयमानं विमानम्।।
(४७)
सूर्येणाभाकलितमधुरं रश्मिभी रञ्जिताया
नीचैर्यास्यन् नमितवदनो मेघसोपानपङ्क्ते:।
आविद्धोऽसौ भवति सघनैरभ्रखण्डैरदभ्रं
भूमीदेव्या हृदयकरुणासान्द्रनि:श्वासकल्पै:।।
(४८)
आविर्भूते शशिनि तमसा शर्वरीव व्यपेता
नैशस्यार्चिर्हुतभुज इवापेतधूमाग्रपुञ्जा।
दूराद् दृष्टा निकटनिकटं भूतधात्री समेता
धेनु: प्राप्ता व्रजमिव यथा वत्समाकारयन्ती।।
(४९)
पृथ्वीपत्रे निपतितमसेर्विन्दुरेको य आसीत्
सञ्जातोऽसौ सघनवितता वृक्षपङ्क्तिर्वनान्या:।
भूम्या हस्ते चुलुकविधृतं यज्जलं दृश्यते स्म
पश्चाद् दृष्ट: सृत इव पट:, सागरस्तद् बभूव।।
(५०)
आयाता सा हजलधिरशना भूतधात्री समीपं
माता स्नेहप्रचितहृदया चार्बुदानां जनानाम्।
अक्षय्यान्तर्हितनिधिततिस्तप्तहेमप्रभाभ्यां
वक्षोजाभ्यां समधुरपय: पाययन्ती तनूजान्।।
(५१)
भास्वद्भानो: प्रविततनभोमण्डलैस्तै: कराग्रै-
रामृष्टेव प्रतिदिनमसौ बुध्यते त्यक्तनिद्रा।
अद्याप्येषा भ्रमति भवने भूर्भवन्ती सुभव्या
नूत्नैवास्ते पुनरपि पुनर्जायमाना पुराणी।।
(५२)
एषा शुभ्रां तनुमिह शुभां संविदाना विभाता
स्नाता चोर्ध्वं सरसि रमणी दृष्टये ज्योतिषाऽगात्।
मुञ्चत्यस्या अलकनिचयश्चूर्णितां बिन्दुधारां
शष्पश्यामाच्छिखरनिकरात् स्यन्दमानै: प्रपातै:।।
(५३)
धम्मिल्लं स्वं घनवनगतं सस्मितं धुन्वती सा
स्कन्धे धृत्वा हरितहरितं शाद्वलानां दुकूलम्।
प्रात:काले जलधिजपयश्चुल्लुके स्वे प्रगृह्य
माताऽऽयाता तनयवदनक्षालनार्थं समीपम्।।
(५४)
यस्यां पूर्वे प्रथितयसश्चक्रिरे विक्रमांस्ता-
नर्वाचीना विदधति कलाकौशलं ज्ञानसत्रम्।
सा न: क्षेमं वितरतु धराऽऽराधिता रत्नगर्भा
माता भूमिर्विनततनय: सोऽस्मि चास्या धरित्र्या:।।
(५५)
इत्थं भूमिं स्वहृदयतले भावयत्येव तस्मिन्
यानं गत्वा धरणिमभितस्तां परिक्रम्य तस्थौ।
प्रह्वो हृष्टो मनसि बहुशस्तां सुमूर्तिं विचिन्वन्
धीराश्वास: शिरसि पथिको धूलिमस्या दधार।।