५. जनतालहरी
(१)
पायाद् व: श्रमिकस्य भालनिचितं घर्माम्भसां जालकं
प्रोञ्छन्तीव रसात् प्रसारितकरा कारुण्यनि:ष्यन्दिनी।
क्षेत्रे कार्यरतांश्च पामरजनानाह्लादयन्ती शुभा
छाया साऽऽतपदुस्सहेऽत्र दिवसे कृष्णाम्बुदस्यायता।।
(२)
केचिद् भक्तिपरायणा भवभयादर्चन्ति देवांस्तवै:
केचिच्चाटुरता: खलांश्चलधियो नेतॄन् प्रभूञ्छ्रीमत:।
अस्माकं तु निसर्गत: स्थितिलयाविर्भावहेतु: परं
योगक्षेमविधायिनीह जनता राष्ट्रस्य सा स्तूयते।।
(३)
नो न्याये रमतेऽक्षपादकथिते मे शेमुषी सर्वतो
भावाच्छ्लिष्यति नो कणादकथितं वैशेषिकं दर्शनम्।
मीमांसामपि कर्मकाण्डजटिलां मीमांसते नो तथा
निर्वाणं किमु मर्षयेद्धतगुणं शून्यस्य दूरे कथा।।
(४)
शास्त्रस्याध्ययनं वृथाऽधिकतरं धर्मस्य चर्चा वृथा
वैफल्यं तु गता कथाऽपि सकला पौराणिकी शाश्वती।
नो ध्याता जनता जनस्य हृदये नारायण: संस्थितो
नो ज्ञातो यदि नो कृतोऽस्ति जनतोद्बोधाय यत्नोऽथवा।।
(५)
नो दानैर्न तपोभिरप्यतितरां नो चेज्यया विद्यया
नो काषायपटैरखण्डविभवै: स्यात् संस्कृतो मानव:।
हित्वा स्वार्थपराणैकधिषणां धृत्वा च सेवाव्रतं
लोकाराधननिष्ठयैव पुरुष: संस्कार्यते धार्यते।।
(६)
वेदान्तेषु यमाहुरेकपुरुषं तत्प्राप्तिलाभेन किं
ब्रह्मानन्दरसेऽपि किं ह्यधिगते संसारविच्छेदजे।
वैषम्याहितभीतिसङ्कुलमिदं चालोक्य लोकं मनो
नो कारुण्यसमाकुलं यदि न वा जातं व्यथान्दोलितम्।।
(७)
एकं सद् बहुधा वदन्ति यदिदं विप्रा: परं पारगं
यच्चैतन्यमखण्डमेकमखिलं ब्रह्माण्डभाण्डे स्थितम्।
तन्नानात्वविभक्तमप्रतिहतं संख्यैरसंख्यैः शिवै
रूपै रूपितसर्वनाम्नि जनताचिद्धाम्नि लीलायते।।
(८)
या सङ्घर्षरता विमर्शसहितं या मर्षयन्ती स्थिता
प्रत्युप्तान् हृदि वेदनाव्रणकरान् बाणान् बिषै: सम्प्लुतान्।
नित्यं हालहलं निपीय जनता या नीलकण्ठायते
वन्द्या साऽद्भुतसङ्गरैकनिपुणा संसारभूमौ दृढा।।
(९)
या विश्रम्य पुन: श्रमे श्रमजलक्लिन्नाऽपि संसज्जते
श्वासाध्मातशरीरनि:स्सहतया दीना मुहुर्मूर्च्छति।
यातायातसहस्रकोटिगमितैर्यान्ती च नो याप्यते
या सङ्कल्पविकल्पसंशयशतै रुग्णापि सुस्थायते।।
(१०)
नानावेषविशारदाऽपि नियतं चैकैव या शारदा
भाषाभिर्व्यवहारमेति बहुधा भिन्नाप्यभिन्नायते।
यस्यां संश्रितमेतदभ्रनिचितं विश्व कुटुम्बायते
याब्रह्माण्डवटस्थनीडनिलये स्थित्वा शकुन्तायते।।
(११)
कश्चित् स्तौतु विशेषणैर्बहुपदैर्नेतृब्रुवं वाक्छलै-
र्यो दिङ्नाग इवावलेपयति च स्थूलं स्वहस्तं तथा।
सर्वत्र प्रथते प्रभावगुरुभि: सम्पर्ककर्मान्वयै-
र्वागाडम्बरविभ्रमै कनिपुणो जातः कवी राष्ट्रियः।।
(१२)
नाहं स्तौमि वयामि नैव मसृणं चीनांशुकं स्वै: पदै:
शब्दैर्नो रचयामि कृत्रिमसुमैश्चित्रां विचित्रां स्रजम्।
एषा सा सहजं विभावितगुणा मे मानसे संस्थिता
व्यक्तिं स्वस्य करोति चैव जनता वाग्भिर्ममैषा ध्रुवम्।।
(१३)
एकोऽहं खलु चास्मि बुद्बुदनिभो यस्मिन् जनिं प्राप्तवान्
निस्सीमे गहनेऽप्रमेयजनतापाथोनिधौ भङ्गुर:।
शीर्ये वा स्फुटितो भवेयमिह वा लीये ततोऽत्रैव च
स्थास्याम्यत्र तथापि यस्य कुहरेऽनन्तस्य वारांनिधे:।।
(१४)
छाया मामनुधावतीह सततं ध्वान्ते प्रकाशेऽथवा
या जागर्ति विजृम्भते मम सदा स्वप्नेषु सुप्तेषु वा।
रम्ये दृष्टिमुपागते प्रकुरुते पर्युत्सुकं या मनो
गीते काव्यविधौ निरन्तरमितो या स्पन्दते स्यन्दते।।
(१५)
छायायां निमिषत्यजस्रतरला यस्यां स्मृतीनां तति:
यस्यां ता गमिता: कला विगलिता काष्ठा मुहूर्तास्तथा।
यस्यां नूतननूतनं प्रतिपलं मृत्वा पुनर्जीवित:
सीमान: स्वकृता विघाट्य विपुलाभोगा मयोघाटिता:।।
(१६)
आलोके निपतत्यतन्द्रतरुणे लोकप्रभाभास्वरे
सा च्छाया मयि जायते विवृणुते चारुह्य रूपायते।
यस्यां सङ्गतिमाप्य रूपबहुला रम्या: समुल्लासिता:
स्वप्नास्ते जनताधृता धृतबला भावा: समूहोद्भवा:।।
(१७)
एकाकी विचरामि यामि जनता सङ्घट्टसङ्घेऽथवा
स्वैकान्ते ह्यथवा भवाम्युत पुन: कान्तासहायो मुदा।
सर्वत्रैव समाजदत्तविभवैर्भावैरभावेष्वपि
जीवाम्येष तथैव जीवनरसं सङ्ग्रह्य सत्त्वं तथा।।
(१८)
यत्काव्यं कवयामि भावितरसं शब्दार्थविच्छित्तिजं
यद्गीतं स्फुटमांसलं लययुतं गायामि लीलान्वितम्।
यत् स्फूर्तं विदुषां सभासु विपुलं व्याख्यानसम्भाषणं
तत् सर्वं जनताजनार्दनमहादेवस्य सङ्कल्पजम्।।
(१९)
औदात्त्यं श्रमलग्नभग्नविभवेष्वेव श्रितं सर्वथा
धैर्यं तद्धि यदन्नवस्तुरहितैर्निस्साधनैर्धार्यते।
निम्ने यो नवसाम्ययोगनिरत: सम्प्राप्य वर्गे जनिं
धीरोदात्त इति प्रथां हि नियतं नव्ये युगे सोऽर्हति।।
(२०)
क्षेत्रे स्वे श्रमबिन्दुचित्रिततनुर्यो वै तपस्तप्यते
तं निर्वास्य दुराग्रहात् स्ववसतेराच्छिद्य भूमिं तत:।
आक्रम्यातिमदादगण्यमिव तं मत्वा जनं निर्भया
विक्रामन्ति च साट्टहासमधुना चञ्चामनुष्या सुखम्।।
(२१)
पाञ्चाल्या इव कृष्यते हतधिया दु:शासनेनानिशं
यस्या वस्त्रमपीह चैव वदनाद् ग्रासस्तथाच्छिद्यते।
आमूलं छलिताऽशुभैर्नृपशुभि: कौटिल्यनीत्या च या
सेवैयं जनता हता विदलिता कष्टां दशां प्रापिता।।
(२२)
वसनं परिधूसरं वसाना नितरां क्षाममुखी हृतस्वरूपा।
अतिनिष्करुणेन केन नीता जनतैषा कठिनां दशां विषण्णा।।
(२३)
को जानीते हृदयं को वैतस्या: कथां व्यथां शृणोति।
कुररीवद् कान्तारे जनता करुणं कथं विरौति।।
(२४)
सेयमवगुण्ठनवती निद्रलिताखिलशरीरलावण्या।
अत्याचारै: खिन्ना पतिगृहगामिता वधूरिवास्ति।।
(२५)
गच्छति पुरतो देश: पुनरिह पश्चात् प्रधृष्यते जनता।
कोऽयं समाजवाद: प्रगतिर्वा कीदृशी सेयम्।।
(२६)
एकत्राभ्रविचुम्बिभि: प्रसृमरै: सौधै: समुत्सार्यते
दुर्नीतिप्रचितै: परत्र विधमद्दावाग्निभिर्दह्यते।
अन्यत्र प्रतिगामिभूमिपतिभि: कुद्दालकैश्छिद्यते
दूर्वेव प्रतिरोहतीह जनता विन्ध्याद्रिभूमौ तता।।
(२७)
वत्सत्वेऽति बुभुक्षितां स्वजननीं दूरस्थितामीक्षते
याऽऽपीनं विनिपीड्य दोहनपरैर्दोदुह्यते यौवने।
वार्धक्ये बहुखेदिता च वधिकै: सूनागृहं नीयते
सैषा गौरिव भारतीयजनता व्याहन्यते निर्दयम्।।
(२८)
गृष्टिर्ग्लायति सीदति स्तनभरैर्वत्साय चोत्कायते
गोधेनु: प्रविताड्यते गतघृणं हम्बारवोद्गारिणी।
दीना यातु च कुत्र लुप्तविभवा शुष्कस्तनी गोवशा
सा गोबष्कयणी वणीकृततनुर्गेहात् समुत्सार्यते।।
(२९)
एके धूसरधर्मकञ्चुकवृता आच्छन्नकूपोपमा
अन्ये शास्त्रमुदाहरन्ति च सतीदाहप्रचाराय ये।
येऽमी मानुषराक्षसा: स्वयमहो नारीं दहन्त्यत्र वा
नैतेषां परमार्थतोऽपि भवति स्वल्पं किमप्यन्तरम्।।
(३०)
दग्धाऽसीत् खलु दक्षयज्ञदहनज्वालासु पूर्वं सती
दाहं नैव समर्थयञ् ज्वलितदृक् क्रुद्धो यथा धूर्जटि:।
अन्यायं प्रतिकर्तुमेव भगवान् दक्षक्रतुं नाशय-
नुग्रं ताण्डवमाचरन्नजनयच्छ्रीवीरभद्रं गणम्।।
(३१)
ये केचित् खलु धारयन्ति वितथां धर्मस्य कन्थां वृथा
मिथ्याचारपरायणाश्च च बहुधा प्राहुर्वच: पुष्पितम्।
सर्वांस्तान् कुपथाश्रितान् हतधियो दुर्दाम्भिकाञ्शासितुं
दुर्वृत्तस्य विनाशनाय जनता कुर्यात् तथा ताण्डवम्।।
(३२)
आदायाहितसारमाहितरसं सन्ताड्य मुष्ट्या मुहु:
संसारस्य शिलातलेऽतिगुरुके चोत्तोल्य सम्पातयन्
जीर्णं वस्त्रमिवातिनिर्दयतया निष्पीड्य विस्तारितं
कालो धावकवद् दरिद्रमनुजं मृद्नाति सङ्क्षालयन्।।
(३३)
ग्रीष्मेऽङ्गारखरैस्तपन्निह करैर्मित्रोऽप्यमित्रायते
वर्षन् भग्नकुटीरजर्जरवृतौ देवस्तु दैत्यायते।
क्षुत्क्षामस्य विषायते मधुरहो नो माधवस्त्रायते
सामन्तैर्बहुखेदितस्य निखिलं विश्वं विरुद्धायते।।
(३४)
अन्योन्यं क्षपयन्ति दुष्टमतयो निघ्नन्ति राष्ट्रं जनं
नेतारश्चं परस्परं प्रतिगता पक्षं विपक्षं श्रिता:।
व्यूहं वा रचयन्ति द्वन्द्वनिरता राज्यश्रिय: काम्यया
ते स्वं घ्नन्ति परं नयन्ति निधनं सुन्दोपसुन्दौ यथा।।
(३५)
आत्मानं तु निषेवते स जनतासेवाव्रतं धारय-
न्नुच्चै: प्राप्य पदं च पश्यति जनं न्यक्कारगर्भं भृशम्।
शुभ्र: खद्दरवस्त्रमण्डिततनुस्तृष्णां तु नो मुञ्चति
काषायं न जहाति चेतसि धृतं काषायकन्थो यथा।।
(३६)
नेताऽसौ नवयौवनो नवमदो नव्योदयो नव्यधी-
र्यो जानाति सविभ्रमांगवलनावक्रोक्तिसंसूचनम्।
उच्चै:कारमपि ब्रवीति बहुलं सन्त्यक्तलज्जो जड:
कालस्यैष गतिं न वेत्ति महतीं रीतिं तथा संस्कारिताम्।।
(३७)
संस्कारै रहिता प्रशासनरता मत्तास्तु ये पूरुषा
आनर्थक्यमिहो प्रयान्ति विकलाः शब्दा यथाऽसंस्कृता:।
आशेव प्रहताऽपवादकलुषा कीर्ति: कृशा श्रीर्यथा
राष्ट्रे स्वे जनताऽवमानविधुताऽधीतिर्यथा सीदति।।
(३८)
एकश्चूषति लोकशोणितमहो दुर्दाम्भिको धार्मिको
धर्माडम्बरदिग्भ्रमैकनिपुणश्चान्य: पटुर्मौलवी।
एतौ द्वावपि वञ्चनाहितमती धिक्कारपात्रं परं
शोच्यास्तावनुयान्ति ये जडधियो गड्डारिकावज्जना:।।
(३९)
ग्राहं ग्राहमियं कचेषु मुषिता मेषस्य मातेव या
क्रव्याद्भि: प्रविलुप्यमानवदनाद् गौर्गौरिति व्याहृता।
साहं साहमतीव दु:खनिचयं चाविर्भवत्तेजसा
कालं प्राप्य करोति सैव जनता शार्दूलविक्रीडितम्।।
(४०)
विन्ध्याद्रिं समतीत्य दक्षिणभुवं श्रीकुम्भयोनिर्मुनि-
यातस्तं प्रतिपालयन्निह गिरिर्नम्रो नत: संस्थित:।
दिल्लीं यात इतश्च स प्रतिनिधिर्निर्वाचितो यो जनै-
र्ग्रामे जानपदा प्रतीक्षणपरास्तिष्ठन्ति धैर्यान्विता:।।
(४१)
उत्सिक्ता विनयाच्च्युता नृपशवो भाग्यैश्चलैर्विस्मिता:
क्रूराचारपरायणाश्च धरणीं नेतृब्रुवा: शासति।
नीचैस्तैर्न धृता धरा च नितरां नीचैरियं नीयते
तामेतां तु समुद्धरेद्धि जनता स्वेनैव सत्त्वेन सा।।
(४२)
आयातेऽवसरेऽनुशासति सत्त्वरमिमान् दु:शासनान् दारुणान्
शक्ति: सा जनतागताऽतिमहतीदानीं तथाऽऽविर्भवेत्।
साम्यालोचनलोकनेन निखिलैर्लोकैरिदं लोकितं
स्वाराज्यं च जनेषु दत्तविभवं तद् भारते भ्राजताम्।।
(४३)
सक्ता खादतमोदतासु नितरां हर्म्येषु भव्येषु ये
स्वादुङ्कारमपीह षड्रसमयं भोज्यं सुखं भुञ्जते।
आयाहीत इतश्च याहि वद रे मौनं भजेथा अरे
चेत्येवं खलु ये निरन्तरमिह क्रीडन्ति प्राणैर्नृणाम्।।
(४४)
ऐश्वर्येऽपि तमोरतास्तृणलवप्राया समस्ता इमे
मन्यन्ते च तृणाय ये स्मयजुष: साधारणं मानवम्।
वात्येवातिदुरन्तवेगभरिता सङ्घात् समुत्पादिता
नाशं नेष्यति तांल्लघूनिव लवान् शक्तिर्जनानां द्रुतम्।।
(४५)
ये भूमिं निखनन्ति खर्वपरुषां कुद्दालमुत्तोल्य, ये
साम्बाकृत्य कृषन्ति शस्यजननीं कर्षन्ति ये वा हलम्।
ये स्कन्धेषु च रोपयन्ति विपुलं फालं तथा लाङ्गलं
धाराभि: परशोरुदग्रपरुषाश्छिन्दन्ति काष्ठानि ये।।
(४६)
ये लौहं द्रवयन्ति यन्त्रनिवहै: सीव्यन्ति वस्त्राणि ये
दर्वीर्वा त्वरितं नुदन्ति विपुलाभोगे कटाहे च ये।
उन्मातुं पृथिवीं दिशो विमथितुं संस्प्रष्टुमाहो नभ:
सन्त्येते किणचिह्निता व्रणयुतास्ते ते करा उत्थिता:।।
(४७)
वृष्ट्यापूरजलौघमग्नपुलिने वृन्दावने यामुने
कृष्ण: कालियमर्दनोऽप्यभयदो गोवर्धनं धारयन्।
देवेन्द्रस्य स सर्वमेव सहजं गर्वं च खर्वं हरन्
आगोपालकबालवृद्धजनताजीवातवेऽजायत।।
(४८)
तद्वत् कालियकर्मघोरनिपुणान् दुर्वारदु:खप्रदान्
दुर्नेतृन् जनताऽपि मर्दयतु तान् देशान्वये संहता।
एकच्छत्रमिव प्रसारितमयं राष्ट्रस्य गोवर्धनो
सञ्जायेत समस्तदेशजनतासौख्यस्य संवर्धन:।।
(लोकालोक इवाचलो वितनुतामालोकमाराच्छुभम्।।)
(४९)
आद्यावापृथिवि स्थितां करतलै: सन्ताडनीयामिमां
सम्भूयैव भिनत्ति रश्मिनिवहो भानोस्तमिस्राततिम्।
छिन्द्यादुद्यदुदग्रदुष्कृतिमयं तद्वज्जनानां गणो
ध्वान्तं लोकपथावतीर्णमखिलं नेत्रोत्सवालोकित:।।
(५०)
होतारो वयमृत्विजस्तु जनताशक्तेर्महासङ्गम:
सुप्रात: सुदिवा: सुसन्धिसमय: सुश्वा जनो जायताम्।
यज्ञेऽस्मिन् प्रविभज्यतां प्रतिजनं निर्वाचने शासनं
ह्यालोक: प्रसरीसरीतु सुभगश्चालोकतन्त्राध्वन:।।
६. रोटिकालहरी
(१)
रोटिका देवता दु:खदैन्यापहा
शुभ्रकान्त्यान्विताऽखण्डवृत्तान्विता।
एतु मे मन्दिरं सम्यगासेविता
चक्रवच्चालितेवान्नपूर्णारथै:।।
(२)
क्लिन्नगोधूमचूर्णस्य पिण्डै: समं
वेल्लिता चक्रपट्टे च विस्तारिता।
ऊष्मणा योजिता वाष्पपूरान्विता
वाष्पपूरं हरन्ती शिशोर्नेत्रजम्।।
(३)
क्षेपिता चुल्लके फुल्लिता तत्क्षणं
मोदयन्ती जनानां सदा सा गणम्।
त्रोटिता ग्रासकैर्दीयमानाऽऽनने
प्लावयन्ती च जिह्वामपूर्वै रसै:।।
(४)
फुल्लिता शङ्खशुभ्रा यदाऽऽध्मापिता
श्वेतपाण्डुच्छवी राजते रोटिका।
कीर्तिरेखाभिरेषा स्वयं निर्मिता
मानवीयश्रमश्लाघ्यमूर्तिर्यथा।।
(५)
रोटिका राजते पूर्णमुक्ताकृति:
स्वादिता चापि नित्यं नवास्वादिता।
मानवानामखण्डस्य पुण्यस्य सा
केवलं चैकमस्ति प्रकृष्टं फलम्।।
(६)
रम्यरामाननेऽकृत्रिमा राजते
भ्राजमाना कपोले च पिप्लुच्छवि:।
भक्तिबिन्दु: सुगौरे हनौ वा यथा
बभ्रवो बिन्दवो रोटिकायां तथा।।
(७)
भक्ष्यभोज्यान्विते चर्व्यचोष्यान्विते
पाकशालास्थले व्योम्नि सम्भ्राजिते।
भ्राजते चन्द्रवद् भाजने मण्डले
व्यञ्जनैस्तारकै: सा समन्ताद् वृता।।
(८)
जाठरं दीपितं तापमाशु स्वयं
शान्तिमानीय तं मध्यवेदि स्थितम्।
तर्पयन्ती मुदा सा हविर्भि: स्वयं
साधु वैश्वानरं वा नरे वानरे।।
(९)
सा महाश्वेतया मण्डिता चाभया
पुण्डरीकेण वा सङ्गता राजते।
तत्परीणामभूतं समस्तं जगत्
सा च सृष्टेर्महाशक्तिराद्या स्थिता।।
(१०)
व्यञ्जनानां समस्तोऽपि राशिर्वृथा
शाकसम्भारसंस्कारसज्जा वृथा।
स्थालिकामध्यगा नो भवेद् रोटिका
जीवनं केवलं स्याद् व्यथाया: कथा।।
(११)
फुल्लिता तावदास्ते जगद्वाटिका
शोभते सुन्दरीणां तनौ शाटिका।
दीयते लभ्यते गृह्यते भाटिका
यावदास्ते तथा सोदरे रोटिका।।
(१२)
किं सुवर्णस्य पात्रैस्तथा राजतै:
किं तथा मण्डितैरासनैर्विष्टरै:।
धुक्षिता तूदरे रे बुभुक्षा यदा
स्वाद्यते स्वे कराग्रे धृता रोटिका।।
(१३)
योऽनिशं दश्यते हन्त चाशीविषै:
संसृतेर्दु:खदैन्यश्रमक्लेशजै:।
रोटिकाच्छोटिकां किन्नु कृत्वा ददौ
जीवनस्यामृतं वै फलं तत्कृते।।
(१४)
यद् रसो वै च सेति श्रुतौ प्रोच्यते
ब्रह्मरूपं तथाऽन्नं च जेगीयते।
वर्तते सर्वमेतत् तु सर्वङ्कर्षं
गूहितं विस्मृतं रोटिकागौरवम्।।
(१५)
दर्शनं वर्णनं प्रख्ययोपाख्यया
भासितं ब्रह्मभूयस्त्वमानन्दजम्।
ह्लाद आत्मानुभूति: समाधे: स्थिति-
र्मूलमेतस्य सर्वस्य वै रोटिका।।
(१६)
चर्वणा रोटिकायाश्च सा चर्वणा
तत्कृते तत्कृता जायते वर्णना।
सा चमत्कारमुत्पादयन्ती कम-
प्यद्भुतं भ्राजते भाविता रोटिका।।
(१७)
सा विभावायते जीवनाप्ते रसे
मुक्तये मृत्युपाशाच्च साऽऽलम्बनम्।
घ्राणसन्तर्पणं कारयन्ती ध्रुवं
सा क्षुधाया: कृते किञ्चिदुद्दीपनम्।।
(१८)
मेलकेऽन्योन्यसङ्घट्टचण्डप्रभा
याऽपि सर्वात्मिका संविदाभासते।
रोटिका तत्र हेतुस्तु साधारणी-
भूतसत्त्वात्मिकायां प्रतीतौ ध्रुवम्।।
(१९)
कारयित्री च सा भावयित्री च सा
धारयित्री तथा साधयित्री च सा।
योजयित्री समस्ते जगद्रूपके
सन्धिसन्ध्यङ्गयत्नाद्यवस्थान्तरम्।।
(२०)
किं तया वैदुषीशेमुषीजातया
काव्यगोष्ठीकलावार्तया लब्धया।
नैव लब्धा सुखं कुक्षिपूरं समं
चेन्नरै रोटिका धर्मकामार्थदा।।
(२१)
निर्धनास्ते जना कामयन्ते सदा
तां तथा बालकाश्च क्षुधा पीडिता:।
आद्रियन्ते भृशं तत्र ते कर्षिता
कर्षका कर्मजीवा: श्रमैकव्रता:।।
(२२)
पण्डिता: खण्डिता: खर्वगर्वैस्तथा
यैर्मता रोटिकाया: प्रशस्तिर्वृथा।
तुन्दिले सा तदीयोदरे सम्भृता
चङ्क्रमीतीव चोत्पादयन्ती रुजम्।।
(२३)
कर्षिता भ्रामिता: के न यस्या: कृते
जीविता मानवा वा यया जातया।
सैव केन्द्रस्थिता काष्ठपुत्रान् यथा
नर्तयन्ती जनान् राजते रोटिका।।
(२४)
यन्नितम्बे प्रहारा: कठोरा धृता-
स्ते सटत्कारमारात् कशानां सृता:।
यन्मुखान्निर्गतो नैव चार्तो रवो
यन्निपीता सवाष्पं तथा वेदना।।
(२५)
यच्च शब्दस्य राशे: कृतो विक्रयो
यच्च निक्षेप आत्मा स्वयं वा कृत:।
यच्च हालाहलं वा निपीतं मुदा
जीवनस्यामृतं मन्यमानैर्नरै:।।
(२६)
यद् धगज्ज्वालमालाकुले वा सुखं
भ्राष्ट्रमध्ये प्रदत्तं स्वकीयं मुखम्।
आधरित्र्यास्तथा यन्नभो नामितं
यच्च सिन्धो: कृतं भूयसा मन्थनम्।।
(२७)
यच्च भूगोलमाकाशकक्ष्योपरि
स्थापितं वा समुत्तोल्य तूलप्रभम्।
यच्च नीचस्तुतौ क्वापि कीरायितं
रोटिकायास्तु सर्वं हि लीलायितुम्।।
(२८)
हालिको मालिको भालदर्शी तथा
कौलिको मौलवी जालजीवी तथा।
अस्तु वाऽध्यापको वाऽपि नेता तथा
रोटिकाया: कृते ते समे जीविता:।।
(२९)
किं न लालप्यते रोटिकाया: कृते
किं न तातप्यते रोटिकाया: कृते।
किं न सासह्यते किं न मोमुह्यते
किं शोश्रूयते किं न बोभूयते।।
(३०)
हासयन्ती क्वचिद् रोदयन्ती क्वचि-
न्मोदयन्ती क्वचिद् भ्रामयन्ती तथा।
नर्तयन्ती जनान् काष्ठपुत्रप्रभान्
सा जगन्नाटिकासूत्रधारीसमा।।
(३१)
केन कस्याननाद् रोटिकेयं बला-
च्छिद्यते विस्मयोत्सेकमूढेन वै?।
मानवानां तथा शोणितैराचिता
फुल्लगल्लैरभल्लं वृथा चर्व्यते।।
(३२)
अर्ज्यते रोटिका केनचित् स्वै: श्रमै:
स्वेदधराञ्चितैरुच्छ्वसद्बाहुभि:।
साद्यते नि:श्रमं तुन्दिलश्रेष्ठिभि-
र्गोर्गलीन् ह्रेपयद्भि: कुलाङ्गारकै:।।
(३३)
केनचित् प्राभृतै: प्राप्यते रोटिका
केन वोत्कोचमादाय सा प्राप्यते।
अग्रहस्तं पुर: सारयित्वा मुहु-
र्दीनदीनै: स्वरै: केनचिद् भिक्ष्यते।।
(३४)
राजमार्गस्य पार्श्वे तथा पद्धतौ
कुट्टिमे क्षेत्रभागैककोणे गृहे।
साध्यते सा कुकूलस्य राशौ तथा
गोमये चुल्लके वा हसन्त्यां मुदा।।
(३५)
रोटिकापोट्टलीं कुक्षिपार्श्वे वहन्
कर्षक: कार्मिको भृत्य एषोऽथवा।
याति तीर्वे: पदैस्तेन दोलायते
कम्पमाना मही तस्य सत्त्वाज्जिता।।
(३६)
स्वेदबिन्दोर्विचित्रां स्रजं धारयन्
य: श्रमे व्यापृतो विद्यते सन्ततम्।
एष भूमौ प्रसूनायमानां शुभां
निश्चयं वै चिनोति स्वयं रोटिकाम्।।
(३७)
फालकुद्दालभार: खनित्रं दधत्
सेवते योऽनिशं मानुषीं सन्ततिम्।
रोटिकोपैति तं मार्गमाणा स्वयं
तां नृशंसोऽर्थलुब्धोऽन्तरा व्यूहते।।
(३८)
कल्यवर्ते गृहीता तथा भोजने
चापि माध्यन्दिने चैव सायन्तने।
क्षीयते नैव सा पुण्यराशिप्रभा
कल्पवल्लीसमा रोटिकाऽस्मद्गृहे।।
(३९)
धीयते मानसे मानिनीवानिशं
चीयते तेजसा सप्तधा धातुभि:।
लीयमानाऽपि सृष्टेर्लये त्वालये
जायमाना पुन: सा कवोष्णा नवा।।
(४०)
निर्जराणां तथा मानवानां तथा
केवलं भेद एषोऽस्ति सार्वत्रिक:।
यज्ञभागेन वै देवता जीविता:
रोटिकां स्वै: श्रमै: प्राप्य सर्वे जना:।।
(४१)
रोटिका काव्यवर्ण्यं कथं शक्यते
कर्तुमित्येष यो भाषते दूषक:।
धिक्कृतिं रोटिकाया बलेनैव स
प्रेरयत्येव सत्यं तथा नेक्षते।।
(४२)
यत् प्रमां मन्वते साधु नैयायिका
अर्थवादं जगुर्यच्च मीमांसका:।
ब्रह्म वोपासते यच्च वेदान्तिन-
तस्य सर्वस्य मूलं त्वियं रोटिका।।
(४३)
यावती कोमला तन्विका रोटिका
तावती सत्त्वपूर्णा च सारान्विता।
धारयन्ती स्वयं वर्तुलामाकृतिं
किन्तु भूगोलमुद्बिभ्रतीवैकका।।
(४४)
सा हसन्ती हसन्तीमुखे क्षेपिता
वह्निगर्भे तथा यज्ञवेदीसमे।
पाचिता दह्यमानैस्तथाऽङ्गारकै-
र्जायते संस्कृता पावनी रोटिका।।
(४५)
चूर्णमन्नस्य सा गोधते गेहिनी
श्लेषयन्ती समं योजयन्ती तथा।
वृत्तरूपै: पुन: पिण्डकैराशु तां
निर्मिमीते मुदा रोटिकां सारदाम्।।
(४६)
भावराशिस्तथा चित्तभूमौ मया
श्लेष्यते योज्यते चाद्रतां नीयते।
वृत्तरूपैरसौ काव्यबन्धायते
सारदा शारदा तेन वै पूज्यते।।
(४७)
भुक्तिरेषा सुखं रोटिका स्वादिता
मुक्तिरेषा गृहीता स्वतन्त्रं तथा।
धाम केवल्यभावस्य चैकं त्विदं
रोटिका गृह्यते मानवै: सा समम्।।
(४८)
अर्धकुम्भात्मके मृण्मये वाऽऽयसे
वह्निना तापिते स्थापिता भाजने।
तप्यते स्त्यायते स्फायते रोटिका
पच्यमाना द्रुतं पूर्णकुम्भायते।।
(४९)
स्याच्च सिंहस्थपर्वार्ध कुम्भोत्सव:
कृत्यमेवास्तु वैवाहिकं मङ्गलम्।
ईदसम्मेलनं वा कलामेलकं
रोटिका योजयित्री समेषामियम्।।
(५०)
साधु काव्यं न कामं भवेन्मे त्विदं
रोटिका विद्यते किन्तु साधीयसी।
रोटिका तुल्यमेवास्तु काव्यं नवं
जायमानं पुनर्वर्धमानं दमे।।
(५१)
रोटिकाया: प्रशस्तौ शुभा गुम्फिता
शब्दपुष्पैरियं काव्यमाला मया।
तत्फलं प्राप्नुतां वै समस्तो जनो
तेन संरम्भ एष व्रजेद् धन्यताम्।।
(५२)
पाचितं दु:खवह्नौ व्रजत् पूर्णतां
वेदनाङ्गारकैर्दह्यमानं भृशम्।
जीवनं जायतां न: समेषां सदा
रोटिकातुल्यमेवोल्लसत् सन्ततम्।।
७. नर्मदा लहरी
प्रथमस्तरङ्ग:
(१)
ध्यायेन्नित्यं गिरिवरजटाजूटमालां मनोज्ञा-
मावर्तानां रूचिरवलितैरञ्जितभ्रूविलासाम्।
आपोमूर्तिं शफरनयनां प्रस्फुरद्बुद्बुदोष्ठीं
शुभ्रै: फेनै: स्मितशतझरीं सैकतोत्सङ्गसौख्याम्।।
(२)
नृत्योद्दामामविरलचलद्वीचिहस्तां प्रसन्ना-
मुच्छ्रायैस्तैर्लहरिजनितैराप्तवक्षोजशोभाम्।
आ विन्ध्यादा विततपुलिनश्रोणियुग्मां पयोधे-
ब्रह्माण्डस्य द्रवपरिणतिं नर्मदां नर्मदात्रीम्।। (सन्दानितकम्)
(३)
पात्रात् पूर्णाच्चुलुकलुलिता याऽऽम्रकूटाद् विधातु:
क्रोडीकर्तुं भुवनमखिलं या विराट् सम्प्रजाता।
गुप्ताऽऽकाशे भुवि च वितता गह्वराणि प्रविष्टा
सा त्वं देवि प्रकटमहिमा जाह्नवीव त्रिमार्गा।।
(४)
उत्तालचञ्चलमिलल्लहरीप्रवाहां
धाराञ्च यस्तरसि ते तरसा तरस्वी।
नूनं तरेत् स सहजं किल हेलयैव
संसारसागरतरङ्गकुलं त्वपारम्।।
(५)
वर्षासु या गिलसि दीनगृहान् कुटीरान्
ग्रामांश्च वृक्षनिचयान् बहुभूविभागान्।
तांस्तान् समुत्सृजसि नूत्नतया पुनस्त्वं
विश्वम्भरेव च बिभर्षि जनं प्रकामम्।।
(६)
सृष्टिं स्थितिं लयमपि क्रमशो दधाना
लोकस्य भारतगतस्य चराचरस्य।
कल्याणि कल्पशतकर्मनिराकुला त्वं
धातुर्विभुत्वमयि किं प्रकटीकरोषि।।
(७)
स्पृष्टस्त्वया चरणदेशगतैरमीभि-
श्चान्दोलितै: स्वलहरीविततै: कराग्रै:।
अद्यापि गर्वमतुलं वहतीह विन्ध्यो
सर्वान् हसन्निखिलविश्वगतानिवाद्रीन्।।
(८)
पाषाणराशिरभिपत्य तरङ्गहस्तै-
र्यस्तक्ष्यते मसृणितस्तवशिल्पदक्षै:।
सा नर्मदेश्वरवपु: पुरुरूपमेति
ते ब्रह्मणो विभवमप्यतिशय्य सृष्टि:।।
(९)
सूक्ष्मोऽपि बालशिशुशुभ्रकलाभिराम:
स्रोतोमुखाज्जननि सम्यगणोरणीयान्।
बिन्दु: स्रवन्नमरकण्टकपर्वतात् ते
सिन्धुर्भवत्यतितरां महतो महीयान्।।
(१०)
ज्येष्ठा त्वमेव भगिनि खलु चासि मात-
र्गङ्गाद्यशेषसरितां किल सर्वपूज्या।
प्रत्नाप्युषेव सतत प्रतिभासि नव्या
भव्यं समुल्लससि वाक् सुकवेर्यथाऽऽद्या।।
(११)
कुण्ठा अकुण्ठितजलप्रवहैस्तवदीयै:
कुण्ठीभवन्ति विगलन्ति च निस्सरन्ति।
आशा उदेत्य विकसन्ति समुल्लसन्त्यो
राशीभवन्ति च तवोर्मिशतप्रवृद्धा:।।
(१२)
त्वत्सैकतेरकलुषै: सरसै: रजोभि:
प्रक्षालितानि च रजांसि मनोगतानि।
त्वत्तीरकुञ्जनिवहस्य तमोभिरेभि-
र्दूरीकृता: किल तमोनिवहा नराणाम्।।
द्वितीयस्तरङ्ग:
(१३)
नो सद् बभूव किल नैव बभूव चासत्
सृष्टिर्यदा न च समुल्लसिता पुराऽऽसीत्।
निर्वात एव च समुच्छ्वसिति स्म चैक:
शून्यस्य गह्वरगतस्तव वारिराशि:।।
(१४)
आदौ ससर्ज पुरुष: प्रविभज्य मूर्तिं
स्वीयामपां प्रवहमुल्बणधारमारात्।
तस्मादिदम्प्रथमत: सहजं प्रसूता
ते नर्मदे जलमयी विमलाऽऽद्यसृष्टि:।।
(१५)
विन्ध्याचले शतपुटे परिवर्तमानं
चानन्त्यरूपमतुलं तव वारिराशिम्।
अभ्यर्थित: सभयशङ्कितदेववृन्दै
र्धाताऽपि नास विनिवारयितुं समर्थ:।।
(१६)
आद्योऽवतार इह मानवसभ्यताया-
स्तीरे तवैव किल सोऽपि बभूव मात:।
जीवाश्म-शैलनिचया: किल कच्छदेशे
यत्साक्षिणोऽत्र विलसन्ति पुरातनास्ते।।
(१७)
विन्ध्यावलिं स्वदयितामुपवेश्य पार्श्वे
राजा बलिर्यजति ते स्म तटान्तभूम्याम्।
शुक्रेण वक्रनयनेन निवारितोऽसौ
सत्यप्रियो व्रतमपूर्वमिहैव तेने।।
(१८)
माहिष्मती नृपसहस्रभुजार्जुनस्य
रम्या ललास नगरी च तवैव याऽङ्के।
वारिप्रवाहपरिधौतसहस्रसौधा
रोमाञ्चितेव ननु भाति समृद्धशोभा।।
(१९)
आगत्य ते तटमिहैव च रावणोऽपि
भक्त: शिवस्य च विपश्चिदपश्चिमोऽसौ।
मारीचमाह शुकसारणमन्त्रिमुख्या-
नाचम्य नार्मदपयोमधु नन्दतेति।।
(२०)
छद्मप्रवञ्जनदुरोदरविप्रलब्धा
निष्कासिता निजगृहान्निजराज्यदेशात्।
ते पाण्डवास्तव तटान्तमुपेत्य हृष्टा:
सम्मेनिरे बहुगुणं स्वमरण्यवासम्।।
(२१)
संन्यासमेत्य च नवे वयसि प्रगल्भो-
सौशङ्करोऽत्र समुपेत्य च केरलेभ्य:।
श्रीगौडपादपरिपूतसमृद्धबुद्धि-
श्चाद्वैततत्त्वमखिलं विशदीचकार।।
(२२)
यत् तत्कमण्डलुजलं बहुलीभवन्ती
पातुं स्वयं गिरिगुहां समुपागता त्वम्।
माहात्म्यवृद्धिकरणाय च तस्य सोऽयं
कोऽपि क्रमो भवति ते प्रकटीकृतस्तत्।।
(२३)
सौन्दर्यसारसमुदायमयीभिराभि-
श्चानन्दकन्दकलिताभिरहो तवैव।
संवेदित: कविरसौ लहरीभिराद्यं
वाचोवितानमतनोद् लहरीद्वयेन।।
(२४)
मन्त्रैर्गृहा: शुकमुखोच्चरितैर्जुगुञ्जु-
स्ते भारती-विलसिता लसिता यदीया:।
मिश्र: स मण्डन इहैव च भारतीयो
भाष्यं महेश्वरपुरेऽप्रतिमं ततान।।
तृतीयस्तरङ्ग:
(२५)
उल्लोलवेल्लितदृषत्परुषप्रहारै-
रुत्ताललोललहरीभिरमूभिराढ्यम्।
आलोडयस्यविरलं त्वमलं जलं स्वं
मध्यप्रदेशधरणीमभितो वहन्ती।।
(२६)
आगुर्जरान्मरुभुवो मरहट्टदेशाद्
यं स्मामनन्ति लसितं तव वीचिभङ्गै:।
आर्यं तु राष्ट्रमिह ते कल पूर्वजा न:
सीमास्त्वया विशदिता निखिलास्तदीया:।।
(२७)
आम्रै: पिशङ्गकपिशैर्वितताम्रकूटै
कम्राश्च वृक्षनिचया: प्रविभान्ति नम्रा:।
यत्र त्वयाऽप्यमरताममरैकदृश्यो
नीतो गिरिस्त्वमरकण्टकसंज्ञकोऽयम्।।
(२८)
वक्षोगतं जननि ते धवलं स्रवन्तं
पुण्यं पयश्च बहुधा बहुधारयुक्तम्।
तं निर्झरं कपिलसंज्ञकमेत्य केषां
चेतांसि दुग्धधवलानि न वा भवेयु:।।
(२९)
प्रस्थोच्चयं दुरधिरोहममुं त्वमेयं
मेयं करोषि लहरीगुरुमानदण्डै:।
आरुह्य चोर्ध्वमतुलप्रबलोर्मिभङ्गै-
राविष्करोषि विमलं प्राणवस्वरूपम्।।
(३०)
आवर्तबुद्बुदतरङ्गसहस्रनादै-
स्तीरप्रघट्टजनितै: किल कोणघातै:।
वंशीरवैश्च लहरीपवनप्रणुन्नै:
सन्ध्याबलिं प्रकुरुषे किल चन्द्रमौले:।।
(३१)
ग्रामास्त्वया कति च पावनतां न नीता-
स्तीर्थीकृता: कति सघोषमहो न घोषा:।
स्पृष्टं यदेव लहरीभिरहो तव स्यात्
स्थानं ह्यधिष्ठितमदो भवतीह देवै:।।
(३२)
या: सन्ति निर्मलजलोर्मिकलास्त्वदीया
अत्यन्तमेव मसृणा: सुकुमारकल्पा:।
जायन्त एव च खरा: किल टङ्किकास्ता-
श्छेत्तुं शिलाश्मनिचयान् गिरिशृङ्खलानाम्।।
(३३)
विन्ध्यो हिमाचलगिरेरपि चाग्रजोऽयं
वृद्धो गतश्च जडतां किल कोटिकल्पै:।
आमृष्टमात्र इह तै: सरसैरवन्ध्यै:
सद्य: प्रयाति नवयौवनतां जलैस्तै:।।
(३४)
विच्छिन्नमेखलविलम्बिनितम्बबिम्बं
प्राघट्टमानचरणं विनते गिरौ त्वम्।
स्वैरं निदर्शयसि चोर्ध्वमध: सरन्ती
क्रीडापरेव पुरुषायितसम्प्रयोगम्।।
(३५)
त्वामेव मेकलसुते कलयन्नसौ स्वं
देहं तथाऽवनमयन् स्पृहयन् जिघृक्षु:।
त्वं त्वेनमप्यविगणय्य लघु प्रयासि
तं स्फाटिकं गिरिमहो कमनीयकान्तिम्।।
(३६)
धूमोऽपि शङ्खधवल: प्रतिभाति योऽस्मि-
न्नुत्पीड एष किल चास्य जले चकास्ति।
वह्निं विनाऽपि सुभगो नयनाभिराम:
सर्वस्तवैव महिमास्त्यतुलप्रभाव:।।
(३७)
पुर्यां पुराणबहुमानपदां त्रिपुर्यां
सम्प्राप्य दुग्धधवलां नगशृङ्खलां ताम्।
सम्मार्ज्य वर्धयसि शुभ्रगुणं त्वमस्या:
श्रीकण्ठहास्यसुधयेव विलेपयन्ती।।
(३८)
निर्मासि पर्वतशिला: प्रविभिद्य सद्य:
पातालमूलगत-वानरकूर्दनीं ताम्।
विश्वप्रपञ्चचतुरं किल विश्वकर्म-
कर्माणमेव च विहस्य तिरस्करोषि।।
।। चतुर्थस्तरङ्ग:।।
(३९)
अस्मिन्नगस्त्यचरणानमितेऽमले ते
विन्ध्याचले ननु चले कथमस्तु वास:।
पाषाणपूरपरिपूरितदिङ्मुखे खे
पूरस्तवावतरणं नु कथं विदध्यात्।।
(४०)
यद् यासि वक्रलहरीभ्रमितं च हित्वा
दूरं प्रवञ्चितमिव प्रयतं गिरिं त्वम्।
तत् ते स्वभावसदृशं किल दुर्निवारं
को वै प्रतीपयतु तेऽविकलं प्रवाहम्।।
(४१)
स्पृष्टस्त्वयोच्छ्वसिति जीवनलाभमेष
प्राप्तो, गिरि: सकृदयं च मुमूर्षतीव।
त्वामेव चिन्तयति खेदविखण्डितै: स्वै:
पाषाणखण्डवदनैर्विमनायमान:।।
(४२)
भाग्येन चैनमभित: क्वचिदेकदेशे
शुष्के निवास इह चास्य जनस्य जात:।
लभ्या ततो न सहजं किल वारिधारा:
पुण्या: प्रसन्नमधुरास्तव देवि रम्या:।।
(४३)
व्यस्त: समस्त इह कृत्यभरे प्रसक्ते
पश्यन् व्रजन् बहु पठन् विहरन् तथाऽश्नन्।
त्वामेव देवि बहुधा किल कातरोऽहं
विद्यां प्रमादगलितामिव चिन्तयामि।।
(४४)
आस्था न लोलमनसो मन चास्ति पूर्णा
न श्लिष्तीह च मनोऽपि समग्रभावात्।
सामिप्रसक्तमनसा च समेरिता ये
शब्दा: प्रसादनपरा: किल तान् गृहाण।।
(४५)
सिप्रां शुतुद्रुमपि तां विततां वितस्तां
वेत्राढ्यतीरयुतवेत्रवतीं दशार्णाम्।
तां ब्रह्मपुत्रसरितं किल कामरूपां
कृष्णां समापितवतीं निखिलां च तृष्णाम्।।
(४६)
गोदावरीमघहरीममलां च वेणीं
चर्मण्वतीं रुचिमतीं च महानदीं च।
गङ्गां विहाय यमुनाममुनैव ते मे
भावेन संस्थितमिदं च मनोऽसमग्रम्।।
(सन्दानितकम्)
(४७)
वत्सा यथाऽऽकुलतरास्तरसा व्रजेभ्यो
गावं स्वकीयजननीमिह मार्गयन्ते।
एवं मदीयमनसो निखिला विकारा:
कारां विभिद्य शरणं तव यातुकामा:।।
(४८)
नानाऽऽधिभिर्बहुविधं च तथा ततोऽहं
सङ्केतहीनमिव पत्रमितस्ततोऽटन्।
सङ्केतमेव च तव प्रतिपालयामि
भ्राम्यन् भ्रमाकुलजगत्यतिखिन्न एष:।।
(४९)
व्यर्थप्रसक्तबहुपत्रभरे किलेदं
निष्पत्रवृक्ष इव याति च जीवितं मे।
कार्यालयान्तरगते विततेऽत्र कृत्ये
कृत्यावरोधजनके जननीं विना त्वाम्।।
(५०)
यस्मिन् दिने स्मृतिमुपैषि न देवि मे त्वं
तद् वै दिनं मम जीवनलेखलेख्यम्।
यस्मिन् क्षणे सुमनसा न मया गृहीतं
ते नाम स क्षण इहास्ति न मे क्षणो वा।।
(५१)
त्वत्तीर्थवारिसदृशं च मधु स्रवन्तं
वाग्धारमेष विमलं किल कामयेऽहम्।
ते जीवनप्रदजलप्रतिमं ममेदं
मात: समग्रमपि जीवनमस्तु काम्यम्।।
(५२)
त्वां बान्धवी विनलबधुरवारियुक्तां
बन्ध प्रबन्ध विषये हयनुवन्धवन्तः।
बद्धुं सयत्नमिह ते भिलषन्ति भूयः
स्वार्थैकसाधनपरा व्यवसायनिष्ठाः।।
(५३)
यन्नो सहस्रभुजएतदहो शशाक
बद्धुं त्वदीयपयसां किल विश्वरूपम्।
विन्ध्यस्तथा शतपुटः किल चाम्रकूट
स्ते पर्वता विदलिता इव यत्समक्षम्।।
(५४)
तं त चामृतात्मकमयुं त्वरैकवन्दयं
सञ्जीवनौषधिरसप्रभवं प्रवाहम्।
आनन्त्यदर्शिनमलभ्यतलं सुधारं
किंधारयेन्नु मनुजाधमपाप मातः।।
(सन्दानितकम्)
(५५)
यावद् रेवा वहति भुवने यावदास्ते च विन्ध्य-
स्तावद् वाणी सररुचिरा स्त्यायतां सत्कवीनाम्।
गुञ्जन्नस्मिन् मम च रुचिरे नर्मदाप्रान्तभागे
सिञ्चेन्नॄणां हृदयमखिलं छान्दस: सुप्रपात:।।