८. मृत्तिकालहरी
(१)
भ्रमत्कुलालचक्रके धृता जलेन मिश्रिता
करेण सा नरेण सन्निवेशितोच्चयं गता।
क्षणेन कामपि च्छविं मयूरपिच्छविच्छुरीम्
विचित्रकामनीयकां पुरस्करोति मृत्तिका।।
(२)
घटीभवत्यखण्डपात्ररूपतां प्रयाति सा
मनोहरीं तथाऽऽकृतिं कृतिं तनोति नूतनाम्।
नवीनकान्तिदीपिता प्रतिक्षणं प्रजायते
रसान्विता कलामयी च सौष्ठवै: समन्विता।।
(३)
क्वचिद् ध्वजायिता क्वचिद् गजायिता रथायिता।
विहङ्गमायिता क्वचित्तुरङ्गमायिता क्वचित्।।
करोति देवदानवं च मानवं नवं नवम्।
समक्षमक्षिणां द्रुतं सजीवभावमागतम्।।
(४)
अनलपशिल्पकल्पनाममन्दरूपसञ्चयम्।
चिनोतिमृत्तिकाचये नर: कलाविभाविते।।
समुच्छलत्प्रमोदितं तथाऽऽशु जानुयुग्मकै:।
इहैव रिङ्गितं चिरं सकौतुकं तु लीलया।।
(५)
प्रधावितं च शैशवेऽत्रमृत्तिकाचितेऽङ्गणे।
विनिर्मितानि गेहकानि तानि सैकतानि वा।।
अलक्ष्यदन्तकुङ्मला: कुटुम्बिभिर्गवेषिता:।
अभक्षयाम मृत्तिकां तदा निलीय कोणके।।
(६)
परोक्षतां गताऽपि साऽस्थिरक्तमांससंहतौ।
समस्तदेहपिञ्जरेऽस्ति मृत्तिका समाचिता।।
सदा समुच्छ्वसन्नरै: स्वयं तु गृह्यतेऽन्तरा।
विनि:श्वसन्नरैस्तथा बहिश्च सैव सार्यते।।
(७)
निलीय बर्हिणोऽण्डके समन्विताच्छटाद्भुता।
तथैव मृत्तिकालवे लयं गतं चराचरम्।।
नवाङ्कुरैरचेतनं सचेतनं प्रजायते।
अशून्यतां प्रयात्यहो जगत् सशून्यतां गतम्।।
(८)
असन्मयं च सन्मयं निरन्तरं प्रकुर्वती।
चमत्कृतिं तनोति सा विभाव्य रूपसञ्चयम्।।
यदेव बीजमुप्यतेऽत्र निम्नतोऽपि मृच्चये।
तदोर्ध्वगामि जायतेऽङ्कुरायते नवायते।।
(९)
क्वचित् स्फुरद्धरित्प्रभाप्ररोहशोभिदूर्वया।
अलङ् कृतेन्द्रगोपिकागणैर्विभाति मृत्तिका।।
त्विषां चयं प्रवालजं विहस्य सा सृजत्यलम्।
प्रसूनराशिसञ्चयं च रक्तपीतपाटलम्।।
(१०)
द्रुमं सुमप्रफुल्लितं तनोति कल्पवल्लरीम्।
अकिञ्चना न किञ्च किञ्च सम्पदं तनोत्यसौ।।
सुवर्णरूप्यकं निधिं च धातुजातसम्पदम्।
अमूल्यशेवधिं सदा ददात्यमूल्यसेवया।।
(११)
परिश्रमार्जवार्जितं पदं तथैव साऽमृतम्।
सुखास्पदं निरापदं च सन्तनोति सन्ततम्।।
स्तनन्धय: शिशुर्युवा नरो वयस्कतां गत:।
अनन्तरं प्रजायते तु वृद्ध एष चान्तत:।।
(१२)
समन्वितं दशाभिरस्ति पञ्चभिर्हि जीवनम्।
यथा च सन्धिपञ्चकैर्युतं प्रयुक्तरूपकम्।।
प्रयुज्यतेऽभिनीयते तथैव चावसीयते।
नरेण मृत्तिकाङ्क एव सुप्यते तथान्तत:।।
(१३)
प्रजायते प्रवर्धते प्रभिद्यते प्रलीयते।
समस्तवस्तुजातमत्र भङ्गुरे प्रपञ्चके।।
इयं न भिद्यते न वा प्रहीयते न लीयते।
विनाशमेति नैव वा समस्तवस्तुषु स्थिता।।
(१४)
सुरम्यसौधसन्तति: सुसज्जया समन्विता।
निवेश्य कोटि वैभवं कुरीत्यनार्जवार्जितम्।।
नभ:समागमाय या समुच्छ्रिता विजृम्भते।
प्रयाति मृत्तिकालयं च धूलिसाद् भववत्यरम्।।
(१५)
अनल्पकल्पनाततं तु राज्यमाशु निर्मितम्।
धनं तथैव सज्जितं परिग्रहेण सम्भृतम्।।
कृतं च कामनाञ्चितैर्भुवि स्मयाद् गतागतम्।
वृथा गतं तथाऽखिलं न नास्तमेष्यतीह तत्।।
(१६)
न शिष्यतेऽत्र कामना न वासना न भावना।
न केलिकौतुकान्विता न मानिनीषु राधना।।
न शिष्यते कथा वृथामदस्मरस्मयान्विता।
इयं परन्तु शिष्यते विशिष्यते च मृत्तिका।।
(१७)
इयं च रक्तकापिशा च बभ्रुपीतपिञ्जरा।
विभिन्नवर्णसौष्ठवा च धातुरागरञ्जिता।।
हिमाद्रिसानुकोटिभिश्च कोटिश: प्रधारिता।
तथैव विन्ध्यशृङ्खलाविराजमानविस्तरा।।
(१८)
सदैव बिभ्रती जनं विवाचसं विवर्णकम्।
अनेकधर्मसंश्रितं मतान्तरावलम्बिनम्।।
बिभिन्नवेषभूषया सुसजिजतं विसज्जितम्।
वनस्पतिं प्रफुल्लितं विपत्रनि:सुमं समम्।।
(१९)
विनिर्मितं महज्जगत्प्रपञ्चचित्रमद्भुतम्।
तदीयभित्तिरस्ति सा चराचरान्तरात्मिका।।
पटेषु तन्तुसन्ततिर्यथा समन्विता सदा।
समस्तवस्तुषु स्थिता तथैव मृत्तिकैव सा।।
(२०)
पुरातनी सनातनी सदैव सुस्थिराऽमृता।
नवायते विवर्तते विभिन्नभावमेति सा।।
गृहीत एष ते करो मया करे प्रकाम्यया।
करं करं तथाऽन्तरा विलीय मृत्तिका स्थिता।।
(२१)
सुविस्तृतं रसच्छदि प्रकृष्टवृत्तिभित्तिकम्।
सुमानुषं गृहं त्विहाधिमृत्तिकं विनिर्मितम्।।
न वैभवं च कामये पुनर्भवं तथान्वये।
द्विजन्मनां स्वजन्मनात्तपङ्क्तिपावनात्मनाम्।।
(२२)
सदार्थसार्थमन्वहं व्ययाय नापि कामये।
सदर्थराशिरव्ययो भवेत् स नव्य एव मे।।
न गौरवान्मृषाऽऽदराद् दरान्न चैव सम्भ्रमात्।
न लाभकाम्यया तथा न चाटुकारितेच्छया।।
(२३)
मदावलिप्तदुर्जनं पदप्रतिष्ठितं मया।
प्रधाव्यपादधूलिभि: प्रणम्य लाञ्छितं शिर:।।
अवापि नैव पण्डितै: कृतं तथाऽभिनन्दनम्।
न वन्दनं न सादरं जनस्य चाभिवादनम्।।
(२४)
यदीह नापि विद्यते धनं पदं च गौरवम्।
जयध्वनिष्च मेऽध्वनि ध्वनन् जुगुञ्च नोऽथवा।।
इयं परन्तु विद्यते मदीयपादयुग्मकम्।
अध:स्थिता सुसंस्थिता दृढा तथैव मृत्तिका।।
(२५)
स्पृशामि मृत्तिकामिमां च यावदन्वहं त्वहम्।
समुल्लसत्यहो रसान्वितं क्षणं क्षणे क्षणे।।
इयं तु धन्यभाग्यताऽस्य जीवनस्य विद्यते।
स्वदेशभूमिमृत्तिका धृता स्वमस्तके च यत्।।
९. अद्यापिलहरी
(१)
अद्यापि चित्तमिदमाकुलयन्ति भूय:।
कर्माणि नैव विहितानि कृतानि तानि।।
व्यालीव सर्पतितरा तरसा च शङ्का।
प्रश्नास्तथा चुलुकयन्ति भृशं मनो मे।।
(२)
स्पर्श: पुरा परिचितो नियतं य आसीत्।
सञ्जीवनश्च मनसश्च रसायनं यत्।
लुप्तोऽधुनाजटिलजीवनजीर्णमार्गेऽ-
द्यापीह गीर्भिरिह तं च गवेषयामि।।
(३)
कोलाहलेऽत्र विकटे विकला: प्रणष्टा:
शब्दा: पुरातनमनीषिजनै: सुसृष्टा:।
शब्देषु शब्दान् मिलितान् किलाद्या-
नन्वेषयामि तिमिरे नवदीपिकाभि:।।
(४)
अद्यापि सन्तत-गतागत-राजमार्गे
सङ्कीर्ण-लोकनिवहे प्रथितां पुराणीम्।
लुप्तां क्वचिन्नवपदैरधुना स्वकीयै-
स्तां पद्धतिं स्वयमहं ननु मार्गयामि।।
(५)
अद्यापि कुक्षिकुहरे परिक्षर्पतीयं
क्षुच्चक्षुगोलनविवर्तननाट्यदक्षा।
जिह्वा चमत्कृतिलयभ्रमिताललोल्या
लोलं प्रनृत्यति रसान्मुखरङ्गपीठे।।
(६)
अद्याप्यपूपघृतपायसमोदकेषु
स्वादो रसीयति च सोऽपि तथोदकेषु।
गन्धानुभावसुभगा परितपर्यन्ती
घ्राणं तथा रसवती भवति प्रकामम्।।
(७)
वार्धक्यनुन्नपरिसर्पिरुजाऽऽकुलानि
गात्राण्यमूनि शिथिलानि च निष्क्रियाणि।
कृष्टानि रज्जुततिभि: किल चित्तवृत्ते-
रद्यापि यान्ति विहरन्ति समुन्मुषन्ति।।
(८)
मानो निरन्तरमपि क्षतविग्रहोऽस्मि-
न्नास्कन्द्यमान इव चेश्वरपादघातै:।
अद्यापि चेतसि मनस्विजनस्य सोऽयं
जागर्ति कोऽपि हृदि मानमयो विकार:।।
(९)
गोष्ठ्यां मया स्वविषये प्रतिपाद्यमाने
वाचां प्रवाह इव मे सतृणं पिबन्ती।
नेत्रेण शब्दसरितामिव वाहयन्ती
सस्मेरसस्मितमुखी स्फुरिताधरोष्ठी।।
अद्यापि मे स्मृतिमुपैति यदा कदाचित्
काचित् क्वचित् कतिपयानि दिनानि दृष्टा।
क्षीणं ममायुरनिशं परिहीयमानं
वर्षैस्तथा द्विचतुरै: परिवर्धयन्ती।।
(११)
अद्यापि जीवनमहाब्धिविवर्तनानां
नि:सीमविस्तृतिमये विकटप्रसारे।
आवर्तबुद्बुदतरङ्गविकारयुक्ते
कारुण्यपूरपरिपूरमिवावशिष्टम्।।
(१२)
अद्यापि संस्खलितगद्गदवाक्प्रचारै-
र्निर्व्याजसस्मितकलैर्मिलिताट्टहासै:।
अम्बेति जानुगमनो गदतीह बालोऽ
व्यक्तं स्वदुग्धवदनात् स्फुटमुग्धरम्यम्।।
(१३)
अद्यापि गां न तु न पावयतीह गङ्गा
स्वैरं प्रदूषितजलै: परिपूर्यमाणा।
नो वा न रेवति निरन्तरमत्ररेवा
बन्धप्रतानविततं परिबध्यमाना।।
(१४)
विन्ध्याटवी न सघनैर्विततैर्निकुञ्जै-
र्व्याप्ता धवैर्न वकुलैर्न रसालपुञ्जै:।
प्रोच्चण्डसत्त्वरवगुञ्जितभूमिभागा
नो कम्पते धरणिरप्यनिशात्विदानीम्।।
(१५)
विन्ध्य: परन्तु करुणामयदृष्टिपातै-
राशान्वित: किमिह पश्यति दक्षिणाशाम्।
अद्यापि यत्र घटसम्भवपादचिह्नै-
रूदृङ्किता वसुमती प्रविभाति नूनम्।।
(१६)
अद्यापि चेतसि चमत्कृतिमातनोति
व्याप्तस्तथाऽस्य विततै: शिखरै: प्रदेश:।
उत्तुङ्गकूटविकटै: सततं ततोऽयं
गर्तैश्च गह्वरचयैश्च नदै: सरद्भि:।।
(१७)
हंसा गता क्व नु च ते तदिदं न जाने
नो सारसाश्च सरसा विहरन्ति ते वा।
अद्याप्युलूकमिथुन: क्वचिदत्र सायं
घूत्कारभैरवरव: प्रविभाति वृक्षे।।
(१८)
अद्यापि तन्मनसि सम्परिवर्तते मे
कक्षासु यद् गुरुजनैर्गमितोऽस्मि रुष्टै:।
आमृष्टकर्णमतिनिष्ठुरघृष्टशब्दै
र्मर्मोपघातिभिरकारणमेव दु:खम्।।
(१९)
अद्यापि मे स्मृतिपथं सहसा प्रयान्ति
गाढान्धकारघनजालतडित्प्रभाभा:।
तेऽध्यापका: प्रतिभया परितोष्यमाणा:
शिष्यात् पराजयमपि स्वजयं वदन्त:।।
(२०)
अद्यापि दण्डकवने ह्रियते च सीता
क्रूरेण दस्युचरितेन दशाननेन।
नायाति किन्तु बत कश्चिदहो जटायु-
स्त्रातुं विदेहतनयां करुणं लपन्तीम्।।
(२१)
कृष्णा च कृष्णचरितेन तथा सभायां
दु:शासनेन गतभीतिनयेन कृष्टा।
अद्यापि दीनवदनेन जनेन दृष्टा
कृष्णं समाह्वयति दीनगिरा भयार्द्रा।।
(२२)
दुष्यन्त एष मृगयारसक्तचेता
अद्यापि हिण्डत इहैव च कामविद्ध:।
व्यग्रा स्वकर्मणि परन्तु शकुन्तला तं
निर्भर्त्स्य याति समयं परिपालयन्ती।।
(२३)
अद्यापि गुञ्जति रव: किल भैरवोऽसौ
दुर्वाससो ज्वलितवह्निसमोऽतितीक्ष्ण:।
शापस्य च स्मृतिविनाशकर: समन्ता-
च्छ्रुत्वाऽपि तं विहसतीह च कण्वकन्या।।
(२४)
उत्सार्यतेऽतिकुटिलै: कुटिलस्य पुत्र:
कौटिल्य एष मदगर्वभरावलिप्तै:।
नन्दैर्महाभुजबलार्दितविश्वनन्दै:
सानन्ददर्शितघृणं प्रकटावहेलम्।।
(२५)
अद्यापि हन्त प्रभवन्ति दुरन्ततापा:
कर्णेजपा: खलधिय: किल चाटुकारा:।
येषां वचो मसृणकोमलनावनीते
तेऽपि प्रभावगुरव: प्रभव: स्खलन्ति।।
(२६)
अद्यापि तन्मनसि सादमिहादधाति
पङ्क्तौ मयि स्थितवतीह तथाग्रभागे।
पर्याय एव मम चापि समागते यत्
षिङ्गैर्बलाद् विगमित: किल पृष्ठभागम्।।
(२७)
उत्सारितोऽस्मि सबलैरपसारितो यद्
यद् विस्मृतोऽस्मि च सद:सु निराकृतो वा।
तन्नो दुनोति हृदयं स्वजनै: परं तै-
रद्याप्युपेक्षित इति व्यथते मनो मे।।
(२८)
म्लायन्ति तानि सुरभीणि सुमानि माल्ये
कण्ठस्थितानि खलनेतृजनस्य मञ्चे।
क्षिप्तानि दूरमपि पादतलेऽवमर्दै-
र्मूर्ध्नि स्थितिर्बहुमता सुधियां हि येषाम्।।
(२९)
अद्यापि तानि कुसुमानि च कुट्टिमेषु
क्षिप्तानि चैव मृदितानि नखाङ्कितानि।
कार्यक्रमे खलु समाप्तिमित: प्रयाते
यास्यज्जनस्य चरणैरवमर्दितानि।।
(३०)
अद्याप्यरुन्तुद उपक्रम एष कोऽयं
सत्रं तु यत् समुपकल्पितमप्रबन्धम्।
अश्वा न सन्ति न च दिग्विजयस्य वार्ता
किन्त्वश्वमेधमिह तत् क्रियते च यज्ञम्।।
(३१)
नाध्वर्यवो न तथर्त्विज आह्निकेऽस्मिन्
होतार एव न च ते समुपस्थिता वा।
भण्डै: प्रचण्डधनिकस्तु सहस्त्रचण्डी-
यज्ञं समाचरति डम्बरधर्मबन्धु:।।
(३२)
ताटस्थ्यमौनिषु च विज्ञजनेषु मौग्ध्यात्
पाखण्डदाम्भिकजनेषु गतेषु वृद्धिम्।
देवास्तु देवगृहत: किल ते प्रयाता
अद्यापि कीर्तनमिदं क्रियते च तेभ्य:।।
(३३)
अद्याप्यसावतितरां पुरुषो जुहोति
स्फीतो निपीत इव गर्वपरम्पराभि:।
आज्यं प्रसक्तबहलेषु हुताशनेषु
प्राज्यं स्वराज्यमधिगन्तुमयं प्रयत्नात्।।
(३४)
अद्यापि निर्धनगृहे शिशवस्तथाऽऽर्ता
अन्नस्य नैव कणिकामपि ये लभन्ते।
दीना मृता कति जनास्तु बुभुक्षयैव
स्वप्नेऽपि ये न ददृशुर्घृतदिग्धमन्नम्।।
(३५)
यन्मन्दिरं किल विहाय गत: स रामो
यन्मस्जिदेऽपि विरतोऽस्ति नमोध्वनि: स:।
एतद्द्वयं समधिकृत्य वृथाविवाद-
श्चाद्यापि खेदजनको न विराममेति.।।
(३६)
अद्यापि सङ्कुचित धर्मपथ: पुराण:
सन्तस्तथैव कथिता: कलहायमाना:।
सन्त्यत्र तेन किल भारतमातृचेत-
श्चेखिद्यतेऽतिकरुणं व्रणमर्मविद्धम्।।
(३७)
अद्यापि जीवनमिदं न गतं विरामं
शक्यं समुच्छ्वसितुमत्र तथापि कामम्।
आशा न रिच्यत इह प्रतिहन्यमाना
गङ्गेव सा हिमवतोऽविरतं सरन्ती।।
(३८)
एते भवन्ति पलिता अधिमस्तकं मे
केशास्तथापि विरता न जिजीविषेयम्।
अद्यापि दक्षिणकरस्य दृढो ग्रहो मे
यावल्लिखामि कलमेन च कम्पहीन:।।
(३९)
अद्याप्युदेति सविता त्वविता जनानां
प्राच्यां स नित्यमिह सन्तमसां निहन्ता।
यन्ता समस्त जगतो जडजङ्गमानां
गन्ता तथा गमयिता स्वकरप्रकाशै:।।
(४०)
अद्यापि मे हृदयमुन्मदयन्ति कान्ता-
प्रोक्तानि कान्तललितानि पदानि सद्य:।
सन्तर्पणं च हृदयं विकलं नयन्ति
म्लानं च जीवकुसुमं प्रविकासयन्ति।।
(४१)
लूने वसन्ततिलकाकुसुमप्रताने
विष्टम्भिते च सकलेऽपि लताप्ररोहे।
अद्यापि किन्तु लसतीह पुरातनी सा
नूनं वसन्ततिलका नववाक्कलाया:।।
(४२)
जङ्गम्यमानशतकोटिनरैस्ततायां
पूर्वै: पुरातनयुगे कृतसञ्चरायाम्।
अद्यापि मे चरणयुग्ममिदं धराया-
मायाति याति गतिमद् भवति प्रकामम्।।
(४३)
सोधैश्च यद्यपि ततां गगनं स्पृशद्भि-
स्तैस्तैर्महानगरराजपथैश्च कीर्णाम्।
अद्यापि तां क्षितिजपर्यवसायिपृथ्वीं
दूरं विलोकयितुमस्मि सुखं समर्थ:।।
(४४)
यत्राङ्कितं भवति मे चरणस्य चिह्नं
धूल्या मृदा मसृणया किल धार्यमाणम्।
अस्मिन्नलक्षितनतोन्नतभूविभागे
त्वद्यापि यामि विहरामि नयामि कालम्।।
(४५)
आतङ्किताऽस्ति वसुधा वसु धारयद्भि-
श्चाद्यापि यद्यपि खलै: कलहप्रसक्तै:।
वैदेशिकीं कुटिलनीतिमपि श्रयद्भी
राष्ट्रं च लोलुपधिया विभजद्भिरेनम्।।
(४६)
अद्यापि यान्ति वितते किल लौहमार्गे
यानानि पञ्चनददेशदिशासु दूरम्।
हृत्कम्पशब्दमिव तारतरं पथिव्या
आरात् तथापि सततं खलु गुञ्जयन्ति।।
(४७)
तानेव शब्दनिचयांस्तु नवार्थयुक्तां-
श्छन्दांसि तान्यवितथं च तथा प्रयोक्तुम्।
अद्यापि चास्मि लहरीं नवभावपूर्णां
सन्दर्भनूतनतया लिखितुं समर्थ:।।
(४८)
भूतं च भावि च भवच्च भवस्वरूपं
जानाति क: करतलामलकानुरूपम्।
अद्यापि किन्तु सतता किल लोकयात्रा
चाद्यापि नैव विरतो मनुजस्य कर्मा।।
(४९)
अद्याप्यसौ भ्रमति तां स्वधुरं वहन्ती
सूर्यं तथैव परित: किलभूतधात्री।
नक्षत्र-तारकविशाल-सुपर्णयुक्त-
ब्रह्माण्डपादपगता कलिकेव नूत्ना।।
(५०)
आहन्यमान इव विघ्नशतौपलैस्तै-
रुच्छिद्यमान इव दु:खकुठारधारै:।
रोहत्यसौ विकसति प्रचितै: स्वशाखै-
रूर्ध्वं प्रयाति खलु जीवनवृक्ष एष:।।
१०. प्रस्थानलहरी
(१)
प्रस्थानवेला समुपागतेयं
शौको न युक्तोऽस्ति तथापि तेऽयम्।
नेयं न दु:खान्नयनेऽश्रुधारं
सारं च सारं तर शोकषारम्।।
(२)
मा ते व्यथा स्यान्न करोतु काल-
व्याल: कराल: स्वफटावितानम्।
सौख्याङ्कुराढ्य: समयालवाल:
पुष्पै: सुपर्णै: रचयेद् वितानम्।।
(३)
प्रस्थानवेला समुपागतेयं
देयो विदाय: सहजं च मह्यम्।
हार्दं तु दु:खं कुरुतेऽनुतापं
चित्तं न धैर्यस्य जहात्तु वित्तम्।।
(४)
यज्जीवनं जीवनमेव तत् स्या-
न्नैतत् कदाचित् भवतु श्मशानम्।
सादस्तवात्मानमतो न भिन्द्या-
च्छिन्द्यान्न शान्तिं न च धैर्यमानम्।।
(५)
प्रस्थानवेला समुपागतेयं
हेला त्वदीये मनसीह केयम्?
खेदो वियोगात्र च नो दुनोतु
क्लेशस्य लेशं न करोतु जातु।।
(६)
कार्पण्यमेतन्ननु कीदृशं ते
छिनत्ति सौख्यं ह्यनिशं च शं ते।
स्थैर्यस्य सूत्रे सहसा च कृत्ते
रेखां विधत्ते मसृणां स्वचित्ते?।।
(७)
प्रस्थानकाले त्वसमञ्जसेन
व्यक्तीकृतं स्यान्न मनोगतं यत्।
उत्कायमानं मनसीह तन्नो
चेतो दुनोतु प्रसभं कदाचित्।।
(८)
ईतिश्च भीतिर्जगतश्च रीति-
स्त्वां खेदयन्नैव तथा कुरीति:।
जायेत सग्धिश्च तथा सपीति:
प्रीति: पुराणी च समृद्धिमीयात्।।
(९)
प्रस्थानगीति: किल गुञ्जतेयं
भीतिस्त्वदीये मनसीह केयम्।
आपृच्छमाने मयि गन्तुकामे
जोषं सतोषं खलु देह्यनुज्ञाम्।।
(१०)
साऽऽयातु मार्गे न कदापि माया
याऽऽपातरम्या परितापिनी स्यात्।
छायाऽनपायं विदधातु नित्यं
कादम्बिनीवत् सघने निदाघे।।
(११)
प्रस्थानकाले समुपागतेऽस्मि-
स्ते ग्रन्थिबन्धा ननु मोचनीया:।
ये विक्लवत्वं किल कुर्वतेऽदो
मे मानसे वा तव मानसे वा।।
(१२)
प्रस्थानवेला समुपागतेऽयं
जाड्यं च मान्द्यं हृदयाद् विनेयम्।
वेलां यथा लङ्घयितुं समर्थो
नो सागर: सोऽपि नरो न कोऽपि।।
(१३)
अग्रे पदं यावदित: प्रकुर्यां
कश्चित् पदं कर्षति मे तु पृष्ठात्।
सिन्धो: प्रवाहो गिरिणेव रुद्धो
नाग्रे प्रयातोऽस्मि न संस्थितोऽहम्।।
(१४)
प्रस्थानकाले मन एतदन्धं
गात्रं च विश्लेषितसन्धिबन्धम्।
चेतो विषादेन विघूर्णमानं
तरंस्तरङ्गेषु विहङ्गपोत:।।
(१५)
पाथेयमेतन्मधुरं कराभ्यां
बद्धे पुटे चैव समर्पितं मे।
भावाद् रसास्वाददशां प्रपन्नं
स्मृत्या तवेदं सहयातृ जातम्।।
(१६)
द्वारं त्वया प्राप्य गृहस्य बाह्यं
मे निर्गमायेदमपावृतं यत्।
उक्त्वा न किञ्चिद्धसितं मनाग् यत्
तन्मङ्गलं मेऽलमिदं तु मन्ये।।
(१७)
मन्दस्मितं यच्च मम प्रयाणे
राराज्यते ते हि शुभाननेऽस्मिन्।
तस्मिन् समग्रं हि मयाऽनुभूतं
प्रस्थानकाले स्वशुभं निमित्तम्।।
(१८)
यत् पूरितं मङ्गलकौतुकं मे
ते कौतुकं शान्तिमनेन गच्छेत्।
निर्वैदनिर्वाणसमाकुलेयं
संसारयात्राऽस्तु निरन्तरैव।।
(१९)
हास्यच्छटा लास्यमियं तनोति
ज्योत्स्नेव कामं वदने त्वदीये।
उत्सारितः किन्तु कपोलदेशा-
न्नेत्रे गवाक्षे समुदेति शोक:।।
(२०)
यात्रासु यात्रासु निरन्तरासु
प्रस्थाय भूयो भ्रमरानुवृत्या।
अस्तित्वमेतन्नितरां मदीयं
विस्थापितं पिष्टमथार्धशिष्टम्।।
(२१)
पूर्णं तु तूर्णं प्रकरोमि भूय:
स्वात्मानमेषोऽपि तथाऽर्धशेषम्।
प्रत्यागतो गेहमयं प्रवासात्
क्लेशात् प्रयातोऽस्मि पुनर्नवत्वम्।।
(२२)
प्रस्थानवेलाकुलितं मनस्ते
विच्छेदभीत्या न भवेद् विभिन्नम्।
छिन्नं प्रणष्टं यदिदं विलुप्तं
चावर्तमानं पुनरेति भूय:।।
(२३)
प्रस्थानमेतच्च निवर्तनार्थं
जायेत कल्याणकरं त्वदर्थम्।
आम्रोऽस्मि जात: सहकारवृक्ष-
श्छिन्नोऽपि भूय: प्रतिरोप्यमाण:।।
(२४)
अन्तं क्वचिन्मद्गमनेन सौख्यं
सौहार्दहृद्यं न तु यातु कान्ते।
स्वान्ते वसन्तं बहिरुल्लसन्तं
द्रष्टुं समीहेऽत्र पुनर्वसन्तम्।।
(२५)
स्थाने त्वयाऽनुष्ठित एव सर्व:
प्रस्थानकाले खलु मे प्रबन्ध:।
निर्बन्धमेतं किमु तत् करोषि
स्थित्वा दिनं यास्यसि चैकमेवम्।।
(२६)
प्रस्थानकाले किल वस्तुजातं
किं किं नु नेयं किमु चैव हेयम्।
एतत् तथैतच्च गृहाण सर्वं
चेत्याग्रहं मा कुरु चिन्तया त्वम्।।
(२७)
जीर्णं तु वासो नहि नेयमेतत्
वासेन ते यद्यपि वासितं स्यात्।
नूनं नवीनं परिकल्पनीयं
वासो निवासो वसताऽन्यदेशे।।
(२८)
यात्रासु यात्रासु सुरम्यदृश्यं
दृष्टौ समायाति यदा त्ववश्यम्।
साकं त्वयैवाहमिदं हि सर्वं
पश्यामि चेत्थं तु विभावयामि।।
(२९)
विश्रम्य विश्रम्य विभिन्नदेश-
प्रदेशभागेषु विहृत्य कामम्।
आगत्य चागत्य पुन: प्रयातो
यात्रावसानं प्रतिपालयामि।।
(३०)
आयामि पार्श्वे तव यामिनीनां
यामा यथैते पुनरापतन्ति।
चङ्क्रम्यमाणो न जहामि नेमिं
चक्रारपङ्क्तौ भ्रमितोऽपि भूय:।।
(३१)
एतौ मुहुश्चङ्क्रमणश्रमार्तौ
पादौ मदीयौ परिपीड्यमानौ।
कियच्चिरं श्राम्यसि भद्र चेत्थं
प्रश्नेन चोट्टङ्कयतो मनो मे।।
(३२)
पिण्डे यदेवास्ति तदेव सर्वं
ब्रह्माण्डभाण्डे प्रसृतं प्रभूतम्।
दृश्यं विशिष्टं किमु तत्र शिष्टं
प्रस्थानकष्टं बहु येन जुष्टम्।।
(३३)
सूत्रं गृहीतं तव हस्त एव
कामं डयेऽहं तु पतङ्गतुल्य:।
सूत्रं यदा कर्षसि सत्त्वरं त्वं
नायामि पार्श्वे न विकृष्यमाण:।।
(३४)
तातप्यमानं खलु दह्यमानं
स्यादायसं पिण्डयुगं सुयुक्तम्।
दु:खेन दु:खेन विभिद्यमाने
सन्धीयमाने मनसी तथैव।।
(३५)
प्रस्थानवेला परिहीयते मे
स्थातुं चिरं ते सविधे न शक्यम्।
ईहे विदायं ह्यकुतोभयं ते
दायं समस्तं विसृजामि चात्र।।
(३६)
एषा जरोपैति यमस्य दूती
केशं गृहीत्वा पलितं स्वहस्ते।
शब्दापयन्ती किल कर्णमूले
प्रस्थानवेला नु समागतेति।।
(३७)
हास्ये सखीनां कलिताट्टहास्ये
कालस्य लास्यं प्रविलोकयामि।
तूष्णीमकस्मात् प्रहसन्त एते
जायन्त एतेन भृशं बिभेमि।।
(३८)
केचित् पुन: प्रस्थितवन्त एव
प्रस्थानमन्ये प्रतिपालयन्ति।
स्थाने किलास्मिन् नियतां सदैव
देवो ददाति स्थितिमेष नैव।।
(३९)
जिघ्रामि मृत्युं पवनप्रकीर्णं
सोच्छ्वासमन्त:करणे विदीर्णम्।
प्रत्येकनि:श्वासविनि:सृतं तं
क्षणेऽत्र पश्यामि परित्यजन्तम्।।
(४०)
प्रस्थानकाले न पुरा प्रपूर्णा
सञ्चिन्त्यमाना विविधा विभिन्ना:।
सञ्चीयमानाश्च मनोरथा मां
राशीभवन्तोऽन्तसि वाहयन्ति।।
(४१)
सन्नाह एषोऽस्ति वृथैव सर्व:
निरर्थक: स्यात् मम सर्वगर्व:।
रिक्तो यथायं जन आगतोऽत्र
रिक्तेन गन्तव्यमितश्च तेन।।
(४२)
अत्रोज्झितास्ते परमाणुपुञ्जा:
स्नेहस्य देहस्य निकेतनस्य।
उच्छ्वासमात्रेण तु ये पुनस्तां
प्रेष्ठस्य कुर्वन्ति जनस्य सृष्टिम्।।
(४३)
शिष्टं विशिष्टं बहुकृत्यजातं
प्रस्थानकाले स्मृतिलोकयातम्।
तद् यातनां चां विततां करोति
प्रत्युप्तमन्तर्हृदि वज्रशङ्कु:।।
(४४)
अर्थप्रकृत्या परिपोष्यमाणं
सा बाधनिर्वाहितसन्धिबन्धम्।
प्रस्तावनातो भरतस्य वाक्यं
यावत्कृतं जीवननाट्यमेतत्।।
(४५)
आरम्भ्यत्नौ विनिधीयमानौ
प्राप्तेस्तथाऽऽशा नियता तथाऽऽप्ति:।
एता अवस्थास्तु मयाऽनुभूता:
फलागमं तत् सकलं प्रतीक्षे।।
(४६)
प्रस्थानवेलान्तमिदं प्रवृत्तं
यन्नाट्यसूत्रं सहसाद्य कृत्तम्।
कस्मै सुरक्ष्य: किल चात्र मान:
संसार एषोऽभिनयावसान:।।
(४७)
शौण्डापणद्वारमुपागत: सन्
कस्मादकस्माच्च निवर्तितोऽहम्।
गच्छामि हट्टेऽप्यविघट्टमान:
विक्रेयपुञ्जाद् विनिवृत्तचक्षु:।।
(४८)
प्रस्थानकालेऽकृतकृत्यताभि:
शोच्यो न शोकार्द्रमना न चाहम्।
वाष्पोद्गमं स्तम्भितकण्ठवृत्तिं
पक्ष्मान्तरालेन नयस्व शोषम्।।
(४९)
कालो निकृन्तन् किल मर्मतन्तून्
स्फोटं हृदन्तर्विदधात्यसह्यम्।
कालो दधात्येव तथैव लेपं
तत्रामृतस्यापि यदा कदाचित्।।
(५०)
कामं करालं जगदस्मदीयं
कामं तथाऽवस्करराशिजुष्टम्।
वासं तथाप्यत्र वरं तु मन्ये
स्वर्गाच्च संन्यासगतापवर्गात्।।
(५१)
देवालयात् भक्तिसुखात् प्रभोर्वा
सायुज्यलाभात् किल ब्रह्मभावात्।
मन्ये वरं ते सविधे निवासं
क्लेशाकुलेऽस्मिन् जगति प्रकामम्।।
(५२)
प्रस्थानाकाले किल सान्ध्यकाले
दीपप्रभां द्योतय चान्धकारे।
चिह्नं पदक्षेपकृतं स्वकीयं
पश्यामि तेनैव परागत: स्याम्।।
गृहलहरी
(१)
के गेहा? न बहिर्भवन्ति ननु ये, तत् कुत्र ते स्यु: पुन-
र्नूनं तेऽन्तरहो भवेयुरथ किं तद् वस्तु यत्र स्थिता:।
सा निश्चप्रचमेव स्याद्धि गृहिणी यस्यां गृहा: संस्थिता:
गेहेष्वेव न सा भवत्यविकला गेहा हि तस्यां स्थिता:।।
(२)
यावच्चन्द्रमरीचिकोमलमिदं तस्या मुखे च स्मितं
शय्यामास्तृणुते गृहे सुखकरीं कह्लारपङ्क्तिप्रभाम्।
तावत् पुष्पसुगन्धिसौरभमयास्तावच्च सौख्यप्रदा
गेहास्तावदिमे जनं सुमसृणं बध्नन्ति मुक्तिप्रदा:।।
(३)
नैते दारुभिरेव नैव च मृदा नैवेष्टकाभिर्गृहा
निर्मीयन्त इमे न चापि विधृतास्ते वज्रलेपैर्दृढै:।
सङ्कल्पस्य वृतिं च शीलकलितां भित्तिं तथास्थाच्छदिं
स्नेहस्य च वज्रलेपघटनं कृत्वा गृहा निर्मिता:।।
(४)
वज्रादस्ति कठोरमेव हृदयं पुष्पात् तथा कोमलं
कारुण्यामृतवर्षि दुष्टदमनं लोकोत्तराणां यथा।
यावन्त: क्षणभङ्गुरा गतधुर: सद्यो विशीर्णास्तथा
तावन्त: सुदृढा भवन्ति च गृहा एते चिरं स्थास्नव:।।
(५)
वास्तुब्रह्मणि मण्डनैर्विलसिते विन्यस्तरेखाञ्चिते
साकारत्वमुपागतेऽतिवितते विश्रान्तिमाप्ता: सुखम्।
कोट्यस्तास्त्र्यधिका इहैव लसितास्त्रिंशत्सुराणां शुभा
गेहा: सन्ति सजीवविग्रहमया देवा समस्ता इमे।।
(६)
शीतेनोद्धृषितस्य कम्पिततनोरश्वत्थपत्रप्रभं
गेहा आवरणं भवन्त्यतितरां सोष्णास्तथोर्णासमा:।
अङ्गारप्रखरान् विमुञ्चति करान् ग्रीष्मे यदा भास्कर-
श्छत्रीयन्त इमे तदातिमसृणच्छायाश्च विस्तारिता।।
(७)
याते क्वापि बहिर्गृहाद् गृहपतौ तिष्ठन्त्यनाथप्रभा:
चिन्तासन्ततितन्तुजालनिविडस्यूतास्त्वपत्ये गते।
हाहाकारसमाकुलास्तु नितरां यातेषु दारेषु ते
गेहास्तेषु समागतेषु च पुन: सोच्छ्वासमाप्ता सुखम्।।
(८)
किं गेहा ननु तेऽङ्गणैर्नहि रवा यत्र श्रुता: काकजा:
किं काका: किल ते रटन्ति नहि ये स्थित्वा तु गेहच्छदौ।
किं काकस्य ध्वनि: स यो गृहजनं नोत्कण्ठयेत् कौतुका-
दुत्कण्ठापि च किन्नु सा न खलु या सम्भावयेद्वाऽतिथिम्।।
(९)
गेहेभ्यो बहिरस्तु कापि हरिता सा शाकवाटी सदा
गन्धाढ्यां च वसुन्धरां विदधती कुस्तुम्बरीपादपै:।
यत्रारूढलताप्रताननिचयादारुह्य गेहच्छदिं
सामोदं परिपश्यतां परिजन: कूष्माण्ड्यलाबूस्तथा।।
(१०)
धौता: सर्व इमे गृहा: श्रमभरक्लेशाद् गृहिण्याऽद्य मे
प्रोञ्छन्त्या किल चञ्चलाश्चुलुकिता गर्ता बहिस्सारिता:।
एते ते शिशवो यथा निपतिता: पृष्ठे गृहस्याङ्गणे
बिम्बं स्वं किल तेषु पश्यत इमावाम्रश्च जम्बूस्तथा।।
(११)
विद्युन्नास्ति गृहे न पक्षतिरहो नो शीतयन्त्रं चलेत्
वाता वान्ति तथोष्णमर्मुरकिर: काले महोष्माकुले।
छायां यावदुपागतोऽह्नि परुषे ग्रीष्मेऽस्य जम्बूतरो-
र्मञ्जर्यो विनिपातिता: शिरसि मे त्वेतेन सामोदिना।।
(१२)
मूलै: स्वैर्भुविविप्रकृष्टनिहितैर्गूढं रसं कर्षत:
जम्बोरस्य लताप्रतानसदृश: स्वप्नो भवेत् कश्चन।
एते ते शिशव: स्वपाठ्यनिरता वा लेखने व्यापृता:
आगत्येह फलान्यमूनि चिनुतां स्कन्धेऽधिरुह्यात्र मे।।
(१३)
गेहेभ्यो मन उत्सुकं भवति मे यातुं बहि: सर्वथा
ग्रीष्मे शीतदिनेषु किन्तु गमनं नैभ्यस्तु सम्भाव्यते।
जाने तद् बहिरेष फुल्लकुसुमे यास्यामि चाप्ते मधौ
यद् वा प्रावृषि सीकरव्यतिकरे रोमाञ्चितायां भुवि।।
(१४)
गेहेभ्य: किल पृष्ठतो न सहजं गन्तुं बहि: शक्यते
मञ्जर्यो विनिवारयन्ति तु मधावाम्रस्य ता उद्गता:।
वर्षायां पतितानि पक्वसरसं जम्बूफलानि क्वचित्
किं भूमाविह तानि दद्युरपि मां गन्तुं पदाद् वा पदम्?।।
(१५)
यान्तं मामवलोक्य किं तरुरयं शाखाभुजैरङ्गणात्
सौप्रस्थानिकमाह वातचलितैराम्रो नु साम्रेडितम्।
यन्माता मम शैशवे कथयति स्माऽऽशी: किमात्थ त्वसौ-
‘‘गन्तव्यं किल चाक्षतेन कुशलं चायाहि चैवं तथा।।’’
(१६)
गेहान्मुक्तिमहं लभेय कथमप्येतद् विचार्य क्षणं
गेहद्वारमिदं विलङ्घ्य सहसा यातो बहिर्देहलीम्।
बन्धं तत्र विलोक्य चातिजटिलं जाता त्वियं मे मति-
‘‘र्मुक्तेर्द्वारमपावृत्तं किल मया त्यक्तं तु तत् पृष्ठतः।।’’
(१७)
हस्तै: स्वै: श्रमसन्नतैश्च कठिनैरुत्थाप्य भित्तीर्दृढा
ये निर्मान्ति गृहाणि ते स्वयमहो नैवाप्नुवन्ति च्छदिम्।
छायायै स्पहयन्ति सन्ततमिमे गेहस्य ते कस्यचित्
ये कुर्वन्ति च कर्म वास्तुविधये दैनिन्दिनैर्भाटकै:।।
(१८)
भूयो भ्राम्यति चङ्क्रमीति चकितोऽसौ सम्भ्रमाद् बम्भ्रमन्
क्लेशै: क्लाम्यति ताम्यति प्रचलितो जानाति नासौ सुखम्।
अब्धिं चापि तितीर्षतीव विधुरो नौकां विना दुस्तरं
गेहा यस्य न सन्ति सोऽत्र पुरुष: श्राम्यत्जस्रं भवे।।
(१९)
शेते कश्चन राजमार्गनिकषा कश्चित् तथा पद्धतौ
केचित् स्थानक एव शेरत इमे केचित् तु सेतोरध:।
अन्ये नि:शरणा रणे विनिहिता अज्ञायमाना यथा
योद्धार: स्वकलेवरं जहति ते नैव क्वचित् शोचिता:।।
(२०)
निर्द्वारं निरलिन्दमेव निभृतं निर्भित्ति निष्प्रस्तरं
गेहान् संरचयन्ति चापि सुदृढानीशा निरीहा अपि।
आकाशस्य छदिं दिशामतिदृढा भित्तीश्च वायो: पटं
कृत्वा कुट्टिममत्र चैव धरणे: केचित् सुखं शेरते।।