राधावल्लभलहरी
(१)
राधावल्लभसंज्ञया किल जनैर्योऽसौ जनो ज्ञायते
कोऽसौ कीदृश इत्ययं क्वचिदपि प्रश्न: समुत्थाप्यते।
एते तं त्वधिकृत्य पण्डितजना कुर्वन्ति का: कल्पना:
कास्कास्तद्विषये तथा प्रचलिता सन्त्यत्र वा जल्पना:।।
(२)
केचिद्रौद्रमथाप्यतीव कुटिलं मार्गस्य तं कण्टकं
केचित् सौम्यमपि स्वभावसरलं प्राहुर्जनास्तं बुधा:।
केचिन्मूर्ख इति प्रगल्भ इति वा स्वल्पाक्षरं चापरे
चेत्थं स्वोचितकल्पनाकृतिमयं चित्रं लिखन्यस्य ते।।
(३)
केचित्तं त्वधिकृत्य कूणितदृश: प्रश्नानिमांश्चक्रिरे
किं प्रामाण्यमपि प्रभाव इह क: किं स्थानमस्यास्ति वा।
कुत्रत्य: क्व वसत्यसौ कथमयं चोच्चं पदं लब्धवान्
राधावल्लभ एष वास्य कियती मात्रेति चोचु: परे।।
(४)
यद्यप्यस्ति बहिस्तु भद्रपुरुषप्रख्यास्य चैवाकृति:
किन्त्वस्य प्रकृतिस्तथापि न पुनर्जानीमहे कीदृशी।
का वास्य प्रमिति: क्व वास्ति नियति: का वा तथा चायति:
का वा चास्य कृति: कथं च विकृति: किं सा वचोविस्तृति:।।
(५)
क्षुण्णोऽयं बहु साम्प्रतैर्हि जगतस्तर्कै: परं कर्कशै:
साहित्ये सुकुमारवस्तुनि यथा शास्त्रेऽपि शून्यस्तथा।
नुन्नो नीतिविचारनव्यनिकषैर्नर्मैर्न सन्तर्पितो
भ्रष्टश्चेत इतस्ततोऽप्यवितथं नष्टो वराक: पुन:।।
(६)
किं कामो विविधाभिराधिभिरुत व्याप्तश्च कुण्ठादिभी
रामोऽयं पुरुषोत्तमोऽथ समयव्याधेर्विराम: पर:।
यामोऽयं त्रुटितोऽस्ति वा निरवधे: कालस्य चैको नु किं
किं वायं नु नरोऽस्ति वानर उत स्यात् पादयामोऽथवा।।
(७)
एतावान् महिमाऽस्य वास्तु किमतो ज्यायानसौ वर्तते
यद्वा यादृश एष दृश्यत इह स्यात् तादृशो वान्यथा।
अन्धं वाऽथ तमो नुदन् स्वमहसा सोऽयं कुलाङ्गारक:
पर्यन्तं परितापयेत् किमथवा रम्यस्तथाऽऽपातत:?।।
(८)
नायं याति सुरालयं प्रतिदिनं पूजार्चनाया: कृते
नायं याति सुरालयं च चषकास्वादाय वादाय वा।
विद्यां नैव ररक्ष नापि बत सोऽविद्यां तथा तीर्णवान्
राधावल्लभ एष तिष्ठति क्वचिन्मध्ये त्रिशङ्कुर्यथा।।
(९)
अस्तव्यस्तसमस्तवस्तुनिवहे चास्यास्ति सा जीवने
सामग्री विविधा चिता रसवतीकक्षे विकीर्णा यथा।
पाकोऽस्या भविता कथं च रसतां नेयाऽथवा सेत्यसौ
स्वान्तश्चेतसि चुल्लिकोदरतले ज्वालां समाशंसते।।
(१०)
सोऽयं किन्नु निमज्जित: क्वचिदहो वाल्मीकिपाथोनिधौ
स्नात: किं कविकालिदासवचसां तैर्निर्झर्निर्मलै:।
किं वायं भवभूतिगाढकरुणासान्द्रै रसै: सिञ्चित:
किं बाणस्य च मर्मदारणपरैर्बाणैरुत च्छिद्रित:?।।
(११)
दूराद्दर्शन एव सैष मधुरो दूरान्नमस्योऽधमो
मायाच्छद्मपटुस्तथा बटुरयं क्रूर: कटुस्त्वन्तरे।
पर्यन्तं परितापयेदतितरामापातरम्योऽपि सन्
राधावल्लभ एष तेन रक्षतु सदा स्वात्मानमस्माज्जन:।।
(१२)
दोहं दोहमने मुग्धमतिना काव्यं तथा संस्कृतं
नीतं प्राकृततां कुरीतिरचनैर्भाषानुवादै: कृतै:।
यद् वेदेषु पुराणवाङ्मयचये श्रेष्ठेषु काव्येष्वयं
पश्यत्येव हि लोकजीवनमहो नीचाश्रितं पामर:।।
(१३)
छन्दोभि: कवयन्नपि क्वचिदयं स्वच्छन्दतां गाहते
प्रत्नं वा किमपि प्रबधमथवा चान्विष्य वा मुक्तकम्।
न ज्ञातं विदितैर्न मानितमपि ख्यातं न विद्वत्सु यत्
तत्रैवेष सिसाधयेध्धठजङ काव्यत्वमत्युत्तमम्।।
(१४)
वेदान्तेषु विमिश्रयन् पुनरयं मार्क्सस्य वादं मुधा
सोऽयं चोपनिषत्सु पश्यति मुधा चास्तित्ववादं वृथा।
स्वात्मन्येव रतो निजं हितमहो संसाधयन् केवलं
प्रायोऽयं मनुतेऽपरानिह परानन्तर्मुखो मुद्रित:।।
(१५)
पक्षोऽयं किल चास्य चायमपि वा मन्ये विपक्ष: पुन:
स्यादेषापि विपक्षत: किल तथा व्यावृत्तिरस्याथवा।
अस्मिंश्चास्ति यतस्त्विदं पटुतरं तस्मादयं वै तथा
श्लिष्येदस्य कृते यथायथमिदं पञ्चाङ्गवाक्यं कथम्?।।
(१६)
किं वायं कुरुतेऽनवं नवमिवाप्यास्वादहीनं तथा
हिन्द्या संस्कृतभाषयापि पृथुलं साहित्यनाम्ना वृथा।
वाण्या: श्लक्ष्णविचक्षणै: पदलवै: पर्यङ्किकागीतिकां
राधावल्लभ एष किं कवयते सम्मूर्च्छनामार्जितम्?।।
(१७)
ग्रन्थान्नैकविधान् स्वयं विरचयन् सम्पादयन् वाऽथवा
सङ्गोष्ठीर्विविधा विमर्शबहला नाट्यस्य वा प्रस्तुती:।
नानाशास्त्रविदां समाजमपि वा संयोजयन् कौशलाद्
राधावल्लभ एष किन्नु भविता धाराधरावल्लभ:।।
हिमालयलहरी
(१)
ज्वलन्तं भूगर्भे विकटकठिनं वह्निनिचयं
समावेष्ट्य च्छन्नं स्थिर इह य आस्तेऽविचलित:।
अभेद्यं सङ्घातं कवचमिव हैमं च कठिनं
दधान: शुभ्राङ्गो हिमगिरिरसौ वै विजयते।।
(२)
प्रभाते जम्बालं जटिलहिमजालं विदलयन्
करै: स्वीयैरस्य स्पृशति किल पादान् रविशिशु:।
क्रमात् क्रामन्नद्रिद्रुरमतटविभागान् हिमगिरे:
समारूढ: स्कन्धं जगदिदमसौ पश्यति मुदा।।
(३)
सहस्रैः शीर्षैः स्वैः स्पृशति स नभस्तुङ्शिखरैः
सहस्राक्षः पश्यत्याखिल भुवनं रत्ननयनैः।
सहस्रैः स्वैः पादैर्दिशि दिशि सुदूरं किल सृतैः।
सगामुन्मातुं वा तुलयितुमिव द्यां व्यवसितः।।
(४)
शिवस्यासौ भाले शिशुरिव विशाले नवविधु:
विधुन्वन्ज्योत्स्नाभिर्निशि च तमसां राशिमखिलम्।
हसन् शुभ्रैरच्छैश्छुरितहिमसन्तानततिभि-
र्गिरेरस्यैवाङ्के लुठति धवलैस्तैर्निजकरै:।।
(५)
चलन्ती चञ्चद्भिश्चलकिसलयै: कोमलपदै:
प्रनृत्यन्ती मेघानुपरि हरितानद्रिशिखरान्।
दरीदृष्टा स्रष्ट्रा प्रथमरचितायां वनभुवि
मृडानी मृद्वङ्गी ललितगतिभङ्गीभिरभित:।।
(५)
प्रकाशेऽर्कस्यायं गलति हिमराशिस्त्वतिजड:
तथा जाड्यं रूढं सरति मम चित्ताच्च कठिनम्।
हिमाद्रिं सङ्गत्य स्फटिकधवलं मानसमिव
गलत्कालुष्यं मे भवति नितरां मानसमिदम्।।
(६)
हसन् प्रीतिं व्यानग् हिमधवलदन्तैर्गिरिरयं
गृहीत्वा किं वाऽयं हिममयशलाकां तरुकरे।
छविं दर्शं दर्शं मम न किल तृप्तिं गतवतो-
रनक्तीमां शीताममृतमयवर्तिं नयनयो:।।
(७)
निकायो धातूनामयमपि यथाऽहं किल तथा
शिव: शक्तिर्दीप्ति: सहजरससौन्दर्यसहिता:।
यथाऽस्मिन् वर्तन्ते मनसि मम तिष्ठन्त्यपि तथा
हिमानी चित्ते मे कलयति पदं चास्य सुभगा।।
(८)
सरन्त्येतास्तावत् दरचपलचित्तस्य शतश:
प्रवाहा वृत्तीनां गिरिसृतनदीनामिव मुहु:।
मृगा अस्याङ्के ते शिशव इव खेलन्ति शतश:
असंख्या वै वृक्षा हिमगिरितनौ रोमसदृशा:।।
(९)
नभो नीलं नीला सघनवनसङ्कीर्णतरव:
जलं नीच्छायं विनिपतितपत्रैस्तरुरुहै:।
घना घोरा नीला च्छुरितमधुपर्णच्छविहरा:
घनप्रख्यं सख्यं विदधति मनो मे हिमगिरौ।।
(१०)
इमां शोभां कृत्स्नां कथमिह बिभर्मि स्वनयने
सहस्राक्षो वा स्यां नयनमयदेहो यदि पुन:।
उताहो मुक्त्वा तान् सकलकरणानां च विषयान्
तदाकाराकारं स्वयमिह करोमि स्वहृदयम्।।
(११)
क्वचित् चायं पायं सुमधुरकषायं च चषकात्
स्थित: सङ्कीर्णायां पथि विपणिवीथ्यां गिरितटे।
मुखान्नासारन्ध्रात् सरति नयनाद् वाष्पपटले
प्रवाते शीतार्द्रे ऽनिमिषमिह पश्यामि शिखरान्।।
(१२)
कलिम्पोङ्गे चास्मिन् कलिमलहरे पुङ्गवपुरे
मनीषा सेयं म मनसि तु समेत्येह भवति।
भविष्यत्कालेऽत्र क्वचिदपि पुना राहुल इव१
क्षपाम्यायु: स्वीयं निजमघविशेषं विदलयन्।।
(१३)
स्थितं शान्तं मौनं तरुगणमध: क्वापि निभृतं
भृतो विस्तारोऽयं मनसि गहनश्चैव कठिन:।
धृतं क्वापि प्राङ् मे नयनमधि यच्चापि नगरे
गिरेस्तत् प्राप्याहमजहमुपनेत्रं परिसरम्।।
(१४)
गते काष्ठां शैत्ये व्रजति जडतां स्थावरचरे
हिमाच्छन्ने कृत्स्ने गिरिपरिसरेऽम्लानवलये।
वसन्तोऽभ्रग्रामे सरलहृदया सस्मितमुखा
अमी प्रीतेरूष्मां जहति न कदाचित् किल जना:।।
(१५)
अमीषां शुभ्राच्छं स्फुरदधरकोणात् तरलितं
स्मितं राशीभूतं किमु हिममयं रूपमव्रणोत्।
कपोले चैतेषां लसति ललिता या च्छविरियं
बभौ भास्वद्भाभिश्छुरितगिरिरागे परिणता।।
(१६)
वितानादाकाशाद् शशिदिनकृतो: शङ्कुयुगला-
न्निलम्बे ये रज्जू विविधविधवृक्षैर्जटिलिते।
ततो बद्धा दोला प्रमुदितमहो दोलति पुन-
स्त्वसौ यस्यां ग्रामोऽनुभवति च तन्द्रामिव चिरात्।।
(१७)
मसूरी सूरीणां परमविमला वापि शिमला
पुरं नैनीतालं नटदिह सतालं गिरितटे।
इदं राज्ञीक्षेत्रं हृतनयनयुग्मं विजयते
हरद्वारं द्वारं सकलकरणमुक्तेरनुपमम्।।
(१८)
महायोगी रोगी भवतु स वियोगी च विकल:
सदा रक्तो भोगी रमयति मनो यश्च कलया।
स नृत्यैर्गीतैर्मदभरितपीतैरविरतं
लभन्ते ते सर्वे हिमगिरिमुपेत्यात्मलषितम्।।
(१९)
प्रतिष्ठां स प्राप्तो ध्रुव इव तथैवोत्तरदिशि
प्रधुन्वन् वृक्षाणां प्रसृतविटपैश्चैव धरणीम्।
समाकर्षन् मेघान् विविधनदधारा: प्रबलयन्
स्थितिं व्यक्तीकुर्वन् गतिमपि समं च प्रकटयन्।।
(२०)
प्रपातैस्तै: शीतैरमृतमधुधत्रराप्रवहितै-
र्द्रुमै: सत्पुष्पाढ्यै: सफलफलकल्पद्रुमसमै:।
वनै: सौन्दर्याढ्यैरुपहसिततन्नन्दनवनै-
रयं विश्वामित्र: किं सृजति च नवं स्वर्गमभित:।।
(२१)
महत्त्वाकाङ्क्षावत् कुटिलजनचित्तप्रकृतिव-
न्नितान्तं चोत्तुङ्गा असरलपथा भ्रान्तगतय:।
महादुर्गप्राया: प्रहरिसमसन्नद्धशिखरा
अगम्या गम्येरन् कथयकथमेते गिरितटा:।।
(२२)
नगै: शुभ्रैरभ्रं स्पृशति सितशीर्षैर्हिमततै-
र्मिमीते श्वभ्रैस्तैर्गहनमपि पातालपरिधिम्।
प्रशान्तैर्दुर्दान्तैर्युगपदपि कान्तै: शबलितै-
र्वनान्तैरानन्त्यं प्रकटयति चायं हिमगिरि:।।
(२३)
सितच्छत्रा: कामं गगनमवरोद्धुं व्यवसिता:
परां काष्ठां शैत्ये दधति शिखरास्ते मृदुखरा:।
यदेते कासन्ते धवलधवलाश्चार्ककिरणै-
रसौ सौमं चाग्रिं सममिह समावाप्य रमते।।
(२४)
समूहे सर्वत्र सघनवनकूहे न शिखरे
न पाषाणव्यूहे न स तरुसमूहे हिमगिरि:।
निकुञ्जे रम्ये वा न किसलयपुञ्जे निवसति
स भूमिं वृत्वैनामुपरि परितोऽस्या: प्रसरति।।
(२५)
समुत्थाप्य स्वीयानुपरि किमु खं द्यां च धरणी-
मसौ पादानास्ते ह्युपरिगगनं स्व: स्पृशति वा।
त्रिपादूर्ध्वं गच्छन् भवति स पृथिव्यां पुनरपि
विराड्रूपं धृत्वा हिमगिरिरयं वामनसम:।।
(२६)
मृदङ्गायन्ते ते प्रबलचलझञ्झाभिरभित:
समुत्पाट्य प्रस्था रयजनितसङ्घट्टघटिता:।
अपर्णासन्त्यक्ता विदधति च पर्णा: समलयं
प्रशुष्कास्ते भूमाविह निपतिता मर्मररवम्।।
(२७)
चलत्कान्तारं तत् पवनविधुतं दिक्षु सकलं
गुहाभि: साङ्गत्ये प्रतिरसिततालेन महितम्।
क्वणन्नादं रम्यं विहगगणरावध्वनियुतं
स शैवं प्रस्तुन्वन् शिवगणकृतं ताण्डवविधिम्।।
(२८)
अमीभिश्चोद्यानैरुपहसितवृन्दावनवनै-
वनै: सौन्दर्याढ्यैरुपवनतटै: काननधनै:।
घनै: प्रोत्तुङ्गैरमृतमधुवर्षै रसफलै-
रसो विश्वामित्र: सृजति च नवं स्वर्गमभित:।।
(२९)
इदं धैर्यं स्थैर्यं हिमगिरिसमं यध्धिमगिरे-
र्नदी तिस्ता चोग्रा भवति किल तिस्तासमगति:।
पिनष्टीयं हस्तै: नगशिखरजं प्रस्तरचयं
तरङ्गैर्दुर्वारा गिरिरपि सहिष्णुर्विषहते।।
(३०)
असौ वायुश्चीडैर्विहगकृतनीडैश्च कलमै-
स्तुषाराणां कृत्वा मसिमपि सितां पत्रगगने।
कविर्गायन् गीतं विटपकृतरासं विरचयन्
लिखन्नास्ते काव्यं किमपि जयदेवोपममिह।।
(३१)
इत: स्वर्गं यात: सुनयविदसौ धर्मतनयो
गतो भीमो भीमक्रमनिपुणदृप्तोऽपि स इत:।
स पार्थो गाण्डीवी गलित इह चास्मिन् हिमगिरौ
सदु:खं साकं तौ नकुलसहदेवौ च गलितौ।।
(३२)
न वार्ता धर्मोक्ता न खलु मतिरूपे यमजयो-
गदाया भीमस्य क्रमणमपि दृश्यं क्व नु भवेत्।
गतो गाण्डीवज्याध्वनिरपि परं गुञ्जति पुन:
स प्रश्नो द्रौपद्या मुहुरिह च चीत्कारतरल:।।
(युग्मकम्)
(३३)
न वै शक्यं द्रष्टुं वनमृगसमूहा न मुनय:
सुविश्रब्धं यान्तो न च गवययूथा अपि तथा।
विलीनाश्चैते वा क्व नु खलु गता किन्नु गिरिणा
ध्रियन्ते ते स्वान्ते क्लमशतकतान्ते निधिसमम्।।
(३४)
दलन्तो वक्षोऽस्य कटिमथ नितम्बानपि मुहु:
अमी यान्त: पश्चात् पुर इह च पादेष्वपि तथा
नयन्त: स्वार्थानां उपकरणपात्रं हिमगिरिं
विमुञ्चद्धूमौघं विविधविधयानेषु मनुजा:।।
(३५)
विभिन्ना रत्नानामिह च निचया भूषणसमा:
अमी भैषज्यानां विविधविधिगुल्मा पिप्लुसदृशा:।
प्ररूढाश्चीडानां विततवितताश्चास्य च जटा:
निधि: सोऽयं चौरैर्बलवदपि च यन्नीयत इत:।।
(३६)
अमी वृक्षं वृक्षं दृढमिह समालिङ्ग्य सुदृढा
जनास्तद्रक्षायै हिमगिरिसुतास्ते व्यवसिता:।
इमे सन्नद्धा स्वानहमहमिकाभि: परिकरान्
निबध्यारात् कृत्वा परिसर इह व्यूहरचनाम्।।
(३७)
नभो नीलं नीला: सघनवनसङ्कीर्णतरव:
जलं नीलच्छायं विनिपतितपर्णैस्तटरुहाम्।
घना घोरा नीला च्छुरितवनमालीच्छविहरा
घनश्यामप्रख्यं विदधति मनो मे हिमगिरौ।।
(३८)
यते यावत् सोऽहं भवितुमपि सङ्कल्पसहित:
क्षमाधैर्योदार्यैर्हिमगिरिसदृक्षो गुणगणै:।
सरन्त्येतास्तावत् दरचपलचित्तस्य शतश:
प्रवाहा वृत्तीनां गिरिसृतनदीनामिव मुहु:।।
१. राहुलसाङ्कृत्यायन: प्रख्यातो विद्वन्मनीषी हिमालयवर्तिनि कलिम्पोङ्नगरे सुचिरमुवास।
वाणीलहरी
(१)
असारे संसारे प्रसरति समीरेऽपरिचिते
समस्ते व्यापारे चलति करणैश्चापि विहिते।
सदैवान्विष्यन्ति प्रगतकृतय: क्लान्तमतय:
ममैते शब्दास्त्वामिरण इव दिग्भ्रान्तगतय:।।
(२)
विलीना लीना वा भवति भवती भारति शिवे
शिवे कस्मिन् लोके परिमुषितशोके गतभये।
महाहाहाकार: प्रसरति घनध्वान्ततुमुल:
क्व तच्छब्दज्योतिर्विशदयतु विश्वं च यदिदम्।।
(३)
युगे नानाव्याधिग्रथित इव नित्यं ज्वरजडे
समाजे साम्राज्ये क्षयकलुषिते चाप्युपचिते।
सरस्वत्या: सारे गतवति लयं क्वापि च मरा-
वमर्त्ये मर्त्यास्त्वां जहति गतिहीना हतधिय:।।
(४)
विशीर्णे जीर्णेऽस्मिन् परिणतिमिते विंशशतके
विदीर्णे वा कीर्णे विविधविधविश्वासशतके।
विकीर्णे चाशाया: कुसुमसदृशे गुच्छकचये
जना: स्वस्था निष्ठापरिगतसुखा: सन्ति बत के?
(५)
विभेदे राष्ट्राणां विषमिव विसर्पत्यविरतं
परिज्ञाता मार्गास्तिमिरगिलिता दृष्टिविगता:।
समग्रं विज्ञानं समजनि विनाशैककरणं
कला सञ्जातास्मिन् जगति च कथं सापि विकला।।
(६)
समस्ता: पन्थानो जहति निजगन्तव्यमखिलं
परिभ्रष्टो मार्ग: स्वयमिह च मृग्यं मृगयति।
घुणैर्लग्नो दारुप्रचय इव सृष्टि: क्षयमिता
क्व दृष्टिस्ते रम्या श्रुतियुगनिशम्यास्ति वचसाम्?
(७)
त्रिलोकी तामिस्रै: कवलितचरेयं नु भविता
न भासा ते सद्यो यदि खलु विभातं जगदिदम्।
अविद्याक्लेशाप्तैरिदमपि समाप्तिं च गमिता
जगत् कष्टैर्ज्योतिर्यदि तव न दीप्तिं वितनुताम्।।
(८)
समस्तेऽस्तव्यस्ते जगति जडबुद्ध्या परिगते
प्रकीर्णे प्रक्रान्ते प्रकृतविषये विस्मृतचरे।
युगे शङ्काऽऽतङ्काकुलित इव लङ्कासमगुणै-
रलङ्कारै: क्वास्तां तव जननि सज्जा गुणमयी।।
(९)
किमेतैर्मे प्राणै: किमु धनभरैर्वा स्मयकरै:
कलत्रैर्मित्रैर्वा जगति च विचित्रैरपि सुखै:।
प्रभापूते चित्ते परिहसितवित्ते यदि पुन:
पवित्रा नव्या वागुदयति भवत्या न मधुरा।।
(१०)
त्वदीया यावन्मां सघनघननद्धा तडिदिव
प्रभा साक्षाद्भास्या भवति वृणुते शब्दजनिता।
न तावत् कालुष्ये कलिमलतमस्तोमनिकरे
न पापे सन्तापे निविशति मनो मे प्रमुदितम्।।
(११)
सृजन्ती सौन्दर्यं सकलकलयाऽऽत्मकलितं
ललन्ती लालित्यं किमपि कमनीयं मधुमयम्।
त्वमुन्मेषै: स्वीयै: प्रतिनवलवेषैरवतर
प्रकृष्यन्ती क्लेशाकुलितमपि चेतो मम मुदा।।
(१२)
कटुक्वाणै रावै: श्रुतिकुहरदावै: प्रसृमरै:
विरावै: संरावैरुपचितविकारैर्हतलयै:।
अलं सर्वैरेभिर्भवतु किल पारिप्लुवमिदं
त्वदीयैराह्वानै: कलविशदगानैर्मम मन:।।
(१३)
समग्रे संसारे निखिलधनभारेऽप्यधिगते
प्रसक्तव्यापारे परिजननुते सेवकतते।
स्वयं प्राप्तायां वा वसुनिधिततायां वसुमतौ
विना त्वां कल्याणीं सकलमपि मे तत्त्वरहितम्।।
(१४)
इतो गार्हस्थ्येऽस्मिन् बत शतशतं विघ्रनिकर:
प्रपञ्चश्चारान्मे प्रभवति च कारासमगुरु:।
महाजाले बद्धं गृहबडिशसक्तं मम मन:
प्रसादं तं काङ्क्षत्यलमिह विषादं हरति य:।।
(१५)
निबद्धोऽहं तैस्तै: प्रखरमिह बन्धैर्दृढतया
वचोबाणं शाणं प्रहरति कृपाणं वा मयि जन:।
निकृन्तुं बन्धान्मे प्रखरतरधारां द्युतिमयीं
कृपाणीं कल्याणीं रचय वचनानां त्वमवलिम्।।
(१६)
कदाऽऽयातं बाल्यं विगतमपि नो वेद्मि च कदा
क्षरन्मृत्पात्रान्तर्निहितजलवद् याति च वय:।
जरा देहे सक्ता गमयति बलान्मृत्युसदनं
प्रतीक्षे त्वां सोत्कस्त्वममरवचनां रम्यरचनाम्।।
(१७)
कलङ्के शङ्केऽहं विलयमिव यामि प्रतिपलं
तथाऽतङ्के रङ्के भवति मम विश्वं विदलितम्।
गृहाण स्वाङ्के त्वं शशमिव शशाङ्केऽमृतमये
शरण्येऽरण्येऽस्मिन् रुदितमिव कुर्वाणमथ माम्।।
(१८)
समस्तेऽस्तव्यस्ते जगति मम वाचां शकलिते
परिध्वस्ते वाटेऽतिपिहितकपाटे तव गृहे।
प्रवेशं सम्प्राप्तुं बहिरिव वरण्डे स्थितमित:
प्रतीक्ष्ये त्वामीक्षे प्रतिपदमहं धैर्यसहितम्।।
(१९)
इदं कृत्स्नं स्यान्मे तिमिरगिलितं चैव भुवनं
विभेदो वस्तूनां परिचितचराणां विगलित:।
यदि त्वत्सम्पर्कादिरणयुगलस्येव घटनात्
प्रभादीप्तं ज्योतिर्न पुनरिदं दीपयतु माम्।।
(२०)
न पाण्डित्यं नित्यं विविधविधशास्त्रैककलितं
न मे प्रज्ञा प्रख्यानवनवसमुन्मेषमहिता।
न वा विद्या हृद्या श्रुतिगुणमयी च स्मृतियुता
तथापि त्वां ध्यायन् कलुषजडकाये स्थित इत:।।
(२१)
परिव्याप्तोऽगाधस्तव च महिमा मानससुते
समस्ते ब्रह्माण्डेऽपरिमितनक्षत्रनिचिते।
धरित्रीयं सिन्धोर्भवति लघुबिन्दोरिव कणो
मनुष्याणां मात्रा भवतु ननु तत्रापि कियती।।
(२२)
तवैकस्याप्येषा विलसति पदस्यैव जगती
विवर्तीभूतास्ते विविधविधरूपेष्वनुपमा।
समस्तोऽप्याकाशो ननु निरवकाशो हि भविता
कलास्ते सर्वा: स्युर्यदि भुवनभोगेऽत्र वितता:।।
(२३)
तनुर्भस्रेवेयं श्वसिति च मुहुर्धुक्षयति मे
प्रदग्ग्धानङ्गारान् मनसि निहितानग्निरहितान्।
तवैवायं वह्निर्लगति तव तत्रैव मधुर:
सुशीतोऽयं सोमोऽप्रतिहतगति: शीतलयति।।
(२४)
परिभ्रान्तं क्रान्तं विविधविधचिन्ताभिरनिशं
नितान्तं च क्लान्तं विधुरमपि संशीतिनिचितम्।
समायान्तं ध्वान्तं कथमिह मनश्छेदयतु न
स्त्वदीयं तेजोऽदो यदि खलु न शक्तिं, वितनुयात्।।
(२५)
परीणामों ऽशात्ते विविधविधरूपै: प्रकटित:
विधत्ते मत्तेऽस्मिन् जगति विकृतिं चाकृतिमिमाम्।
विकारैराकीर्णं प्रभवतु कथं वेत्तुमखिलं
स्वरूपं ते नित्यं तदिह कथमस्मादृशजन:।।
(२६)
असत्यं मत्कृत्यं मनसि वचसि प्रातरनिशं
तथा चित्तं नित्यं कलिकलहजुष्टं च विकलम्।
कथङ्कारं सारं सकलभुवनानां स्पृशतु वा
समग्रं पुण्यानां फलमिव च ते रूपमनघम्।।
(२७)
व्रणं शल्यैर्विद्धं मनसि च वहाम्येष सततं
तृणं मन्ये पूर्णस्तवकमपि पुष्पैकनिचितम्।
कणं काङ्क्षन् हित्वा सरसरसपाथोधिनिलयं
क्षणं विस्मृत्य स्वं कृपण इव कुर्वे निजपणम्।।
(२८)
न सेवां ते वाऽहं बत विहितवानस्मि सहजं
सुपुत्रो नाहं ते सुगुणनिलय: सौम्यजनक:।
वदाम्येतद् वाक्यं विकलमनसा केवलमिति
सुतं स्वीयं मातर्न जहिहि न तथैनं जहिहि नो।।
(२९)
कृतान्तोऽनतर्घातं कलयति च तापं च कुरुते
समन्तादन्तोऽस्मान् प्रभवति विकारं च कुरुते।
अनन्तादाह्वानं तव क इह तावन्नु शृणुते
मनुष्य: स्वात्मानं विधिमिव च भाग्यस्य मनुते।।
(३०)
परां को वा स्पृष्टुं प्रभवति पराम्बेऽमृतकलां
क्व पश्येत् पश्यन्तीं परममहितां मन्दधिषण:।
निमज्जन् मध्यायां क्वचिदिह च निध्याय मनुज:
तुरीयं ते रूपं नयति विकृतिं स्वीयकृतिभि:।।
(३१)
अनित्ये नित्यत्वं प्रतिपदमभिप्रेक्ष्य नितरा-
मनिर्वाणान् प्राणान् शमयितुमलं धीर्न भवति।
प्रपञ्चे व्यासक्ते सततमपि पञ्चेन्द्रियगणे
निवृत्तिं मे वृत्तिर्नयति नियतं नाशमयते।।
(३२)
अनिच्छा वेच्छा वा मम भवतु कामं बलवती
मनोद्वाराद् व्यक्तिं कृतकरणवातायनमिया:।
न काच: संरोद्धुं प्रभवति मलैर्लेपितचर:
स्फुरद्भासा दीप्तं द्रुततरसृतं त्वर्ककिरणम्।।
(३३)
धृते श्यामे नेत्रे नवल उपनेत्रे स्वकलिते
कथं श्यामे पश्येत् तव विमलरूपं नु मनुज:।
प्रकाशं वीक्षन्ते घनमपि च तम: कौशिकदृशा
जुगुप्सन्ते चैते स्फुटरुचिरभासस्तव रुचे:।।
(३४)
समस्त: संसारो विचलति तथास्तं व्रजति वा
समग्रं च ग्रस्तं भवति खलु विज्ञानजनितम्।
अभिज्ञाता मार्गास्तिमिरगिलिता नैव मिलिता
विहाय त्वां पूर्णा समजनि कला चैव विकला।।
(३५)
यदा किञ्चित् किञ्चिद् घनतिमिरनद्धा जवनिका
विधूता वात्याभिस्तव खलु कलाभि: सृतवती।
अभिव्यक्तं भग्नावरणचितिभास्यं स्थितिमयं
तदाऽऽलोके प्रेक्षे तव सुभगरूपं विलसितम्।।
(३६)
अगाधं सौन्दर्यं मम मन इदं मापयतु किं
प्रमाणातीतं तच्छ्रुरतिनिगमगीतं स्मृतिधृतम्।
यदेदं नि:स्पन्दं लसति किल चेतो मम तदा
त्वपूर्वा दूर्वावद् भवसि च मनोभूमिविधृता।।
(३७)
कुतोऽयं त्वाघात: स्वजनविहितो नैव कलित:
कुत: सङ्घातोऽयं विपद इव मे मूर्ध्नि पतित:।
कुतश्चान्तर्घातो विकृत इव केनापि विहित:
कुत:कारैर्विद्धं कथमपि वहामि स्वहहृदयम्।।
(३८)
ऋते त्वां मे व्यक्तिर्भवति न पुर:स्थेऽपि विषये
शये यस्मिन् कस्मिन्नहमिह मरौ संशयमये।
अयि वाणि प्राणिष्वह वससि सर्वेषु नियतं
जडीभूते चित्ते मम खलु कथं नो विलससि।।
(३९)
विवर्ते वर्तेऽहं परिणमति चायु: प्रतिपलं
परिच्छेदातीतं सकलवचनानामविषयाम्।
स्पृशत्वेतत् तन्मे भवतु तव नैवैद्यरचना
कथञ्चिज्जातेयं स्खलितवचनानां विरचना।।
(४०)
क्षणे लीना कोणे मनसि मम कस्मिन्नपि शिवे
शिवे धत्से दिव्यैस्तडिदिव च रूपैरुदयसे।
अकस्मात् कस्मात् त्वं द्रवसि च दयार्द्रा च दयसे
द्रवीभूतं कृत्वा हृदयमिदमश्मप्रभमपि।।
(४१)
अमुष्मादाकाशादतिभुवि परं व्योम महितं
महाकाशास्तस्मादपि खलु निगूढोऽतिविपुल:।
परिव्याप्तस्तस्मादुपरि वितत: सूक्ष्मगहन:
श्चिदाकाशस्तस्मिन् विलसतितरां ते च्छविरियम्।।
(४२)
शिशूनां हास्ये वा लघुदशनभास्ये विलुलिता
तथा लास्ये मुग्धे भ्रमिकृतविलास्ये चपलिता।
क्वचिच्चास्ये साधोर्मुनिहृदयवास्ये समुदिता
ह्युपास्ये दास्येऽस्मिन् मम कथमहो नैव दयसे?
(४३)
क्वचिद् वृष्ट्या दृष्टं छविविलसितं सीकरततौ
विमृष्टा सृष्ट्यां वा प्रतिकणमधिष्ठाय भुवनम्।
क्वचित् कृष्ट्यां वा त्वं हरितवनराजीषु कलिता
समष्ट्यां व्यष्ट्या वा विविधविधरूपैर्विलसिता।।
(४४)
निसर्गे वर्गेऽस्मिन् कविविहितसर्गेऽमृतमयी
विसर्गे भूतानां प्रतिमनुजसर्गे विधिकला।
तथा रक्ते रक्ते प्रतिनवजपापुष्पसदृशे
श्रमैर्जन्ये स्वेदे स्फटिकमणितुल्ये प्रकटिता।।
(४५)
नभ:स्थालीभूतं यजनपरिधिर्मे वसुमती
प्रदीपा नक्षत्रा रविशशियुता दीप्तिमहिता:।
मनोबुद्धिप्राणा: करणनिचयास्तूलसदृशा-
स्तवारार्तिक्येऽस्मिन् ज्वलतु खलु मे जीवनदशा।।
(४६)
विधाने सम्माने स्वजनविहिते वा विधिवशात्
तिरस्कारे पारे निखिलसुखहारेऽप्यविकल:।
सदाऽहं त्वां सेवे भवतु हृदि सङ्कल्प इति मे
किमन्यैरल्पैस्तैरिह विकल्पैर्लघुफलै:।।
(४७)
वचो मे प्रत्येकं भवतु किल ते स्पन्दजनितं
प्रतिश्वासे गन्धो विशतु तव चान्तर्हृदि मम।
भवानि स्पृष्टस्ते सुरभिपरिपूतैश्च पवनै:
समुत्प्रेक्षे रूपं तव निखिलसृष्टौ प्रतिपलम्।।
(४८)
हतं नित्यं शोकै: प्रहरणशतैर्लोकविहितै:
क्षतं विद्धं शल्यै: कुटिलनयकण्टच्छदततम्।
समस्ताकाङ्क्षाभिर्ग्रसितमिव चित्तं मम शुभे
गिरां लेप: सिञ्चत्वमृतमधुघारावलयित:।।
(४९)
समुत्तप्तो लोको धृतविविधशोको विचलितो
भृशं भीष्मे ग्रीष्मे ज्वलति गगने भास्करकरै:।
मरौ तृष्णा विग्ना मृगततिरिवातीवविकला
प्रधावन्ती सेयं सकलजनता शाम्यतु चिरम्।।
(५०)
सुरामत्ते लोके नवयुगकषायै: कवलिते
परिक्षीणे शोकै: नर इह तथा विस्मृतपथे।
सुपुष्टिं तुष्टिं तद् वितरतु परं सौख्यजनकं
बुभुक्षाक्षीणेऽस्मिन् जगति सुरगव्या: पय इदम्।।
काललहरी
(१)
लता रूढां सृष्टे: स कलयति वामेतरकरे
करे वामे चास्य प्रलयफलमस्या अपि धृतम्।
निखाता पाताले गहनगहने चास्य चरणा:
समुत्थाप्य स्वीयं शिर उपरि स व्योम नयते।।
(२)
कराभ्यां सूर्यं वा शशिनमपि वा कन्दुकसमं
समुत्थाप्य क्षिप्रं क्षिपति गगनान्तं प्रतिदिनम्।
त्रिलोकी सङ्केतैरविरतमहो नर्तयति य:
पिनह्यास्या: कण्ठे ग्रहमणिमयीं कामपि स्रजम्।।
(३)
विचित्रो जम्बालो किमयमतिविस्तीर्णपरिधि-
र्नभोगङ्गा यस्मिन् कति कति निबद्धाश्च विधृता:।
कराल: किं व्यालो विवृतवदने धारयति य:
समस्तं ब्रह्माण्डं गिलति स शनैरुद्गिलति वा।।
(४)
अयं कालो बालो रचयति बहून् नीडकगृहान्
ग्रहान् नक्षत्रांस्तान् विविधविधलोकाननुपमान्।
स दत्वा पादं समयसरित: सैकततटे
पदाघातादेकान्नयति च विनाशं हि सकलान्।।
(५)
स्वरैस्तालै: शब्दैर्जगदिदमथान्यद् विरचयन्
स एकाकी गायन् विविधयतिभङ्गैश्च भजनम्।
कुमारो गन्धर्वो भवति स तथा गायति च तां
स्वयं शृण्वन् गीतिं समयसरित: सैकततटे।।
(६)
अनन्ते ब्रह्माण्डे विततशतकाण्डद्रुमसमे
परिस्तीर्णे शाखार्बुदनिचितकीर्णे कणमयी।
प्रपर्णीभूतेयं ध्रियत इह शून्ये वसुमती
स आमूलस्तम्बं निखिलमभिव्याप्यव्यवसित:।।
(७)
सचक्षु: सश्रोत्रो नयनरहित: श्रोत्ररहित:
समालिङ्गन् सर्वं च भुवनमनालिङ्ग्य नियतम्।
स एकाकी तिष्ठन्नभिभवति च स्थावरचरं
प्रविष्ट: सर्वस्मिन्नुपरि किल सर्वं च विलसन्।।
(८)
क्वचित् क्षीणो दीनो लघुतनुरयं वामन इव
क्षणाद् विस्तारी च प्रलयभयकारी च गुरुक:।
अतिक्रामन् द्यां स प्रसरति तथाऽऽक्रम्य पृथिवीं
बलेर्मे मूर्ध्न्याराच्क्षिपति किल वामं निजपदम्।।
(९)
विलग्नोऽयं खादन् घुण इव च गोधूमनिचये
चये वृक्षाणां वा निपतति कुठाराग्रतुलित:।
निकृन्तन् काष्ठानां प्रचयमपि चारित्रसदृश:
खनित्रैर्निष्क्रोडन्नविरतमिमां जीवनभुवम्।।
(१०)
युगान्ते सञ्जाते प्रलयगिलिते सृष्टिविषये
समस्ते यातेऽस्मिंल्लयमनुपदं वस्तुनिचये।
स एकाकी शिष्ट: श्वसिति च विशिष्टो वृकसमो
गुहायां कस्याञ्चिन्निखिलभुवनं व्याप्य परित:।।
(११)
प्रधावन् पृष्ठान्मेऽनुसरति स भस्मासुरसम:
करालं हस्तं स्वं नयति मम मूर्धानमभित:।
विधूर्णन्नेत्रै: स्वै: पुरत इव मां पश्यति तथा
हरन् मे निद्राश्वं लघु लघु सहस्राक्षसदृश:।।
(१२)
अहं धावन् धावन्नभिभवितुमेन प्रचलितो
गृहीतोऽयं नूनं विजयमधुनास्म्येव गतवान्।
करोम्येवं चित्ते प्रकटयति स स्वं मम पुर:
प्रसार्याग्रे हस्तं झटिति मम गृहृणाति च गलम्।।
(१३)
प्रधावत्येष क्षिप्रं हय इव खुरैर्दारयति तै:
क्षणात् स्वीयै: सर्वं विततमपि चैतत् त्रिभुवनम्।
सहस्राक्षप्रख्यो भ्रमयति तथाक्षे जगदिदं
सहस्रं स्वै: पादैर्निखिलधरर्णां क्रामति पुन:।।
(१४)
समुत्तोल्य प्राणानयमिह लघूच्छालयति मे
क्षिपन् नीचैरग्रे ह्युपरि च समं कन्दुकसमम्।
प्रतिश्वासं शङ्कागिलितमिव चित्तं विदधति
हरन् विश्वासं च क्षपयति गतिं जीवनपथे।।
(१५)
विनष्टं विच्छिन्नं तदिह किमु शोच्यं व्यपगतं
विलूनं कालेन फलमपि च यज्जीवनगतम्।
यदुच्छिष्टं त्यक्तं किमपि विकटात् तस्य वदनात्
तदेवास्माकं स्यात् परमबहुमूल्यं हि विभवम्।।
(१६)
क्वचित् वन्ध्या भूताऽप्रतिमरचनाशक्तिरपि सा
त्वनिन्द्या सञ्जाता क्वचिदपि तथा क्षुद्ररचना।
क्वचित् सन्ध्या जाता प्रखरतरमाध्यन्दिनमहे
प्रकाश: सन्ध्यायां समजनि कठोरार्ककिरण:।।
(१७)
अयं काल: कल्पद्रुम इव समस्तं वितरति
प्रसिद्धिं सिद्धिं वा प्रविधिमथवा तामपि निधिम्।
महत्त्वं सत्त्वं वा परिलसिततत्त्वं प्रगुणितं
छिनत्ति प्रत्येकं विविधविधवस्तून्यथ पुन:।।
(१८)
न गुर्वी साऽऽकाङ्क्षा स्पृशति बहुशो या द्युपदवीं
न योग्यत्वं न्यूनादपि खलु च यन्न्यूनथवा।
न सान्निध्यं स्वल्पं स्फुरति तु पदानां सुमहतां
तमर्थैर्विच्छन्नं नयति च तथैवोच्चपदवीम्।।
(१९)
अहं भूयां नेता कुलपतिरहं स्यां च निगमे
क्वचिद्वाऽऽध्यक्ष्यं वा प्रचुरधनराशिं च चिनुयाम्।
तमित्थं वाञ्छानां परमपदवीं प्राप्य मुदिते
जनं काल: क्वापि क्षिपति घृणिते कच्चरचये।।
(२०)
प्रभातायां शर्वर्यां कटुतररवै: कागिति पदं
वदन् काक: कालं स्मरति किमसौ स्मारयति न:।
क्वणत्क्रैङ्कारैर्यद् रटति विकलं रात्रिसमये
स चक्राह्व: पक्षी कलयति गतिं कालकलिताम्।।
(२१)
रतान्ते तल्पान्ते निगिलति मुहुर्ग्लानिविहगी
मनोगण्डूं क्लान्तं ज्वर इव च कामे प्रशमिते।
शरीरेऽतिश्रान्ते जडयति विकारे करणजे
फटाटोपै: श्वसिति ससुखं काल उरग:।।
(२२)
अयं यस्याचार्यां भ्रमति च रविर्वा विधुरपि
ग्रहा नक्षत्रा वा प्रविदधति नीराजनविधिम्।
पयोदा दात्यूहा बलिपटहतां यान्ति च मिथ:
मनस्तस्यार्चायां मम भवति नैवेद्यसदृशम्।।
(२३)
हवि: प्राणा गात्रं भवति च समिन्मात्रमपि न:
पुरोडाश: क्लृप्तो हृदयगतसङ्कल्पनिचय:।
क्रतौ प्रक्रान्तेऽस्मिन्ननवरतयात्रे मनुसुतै-
रसौ कालो वेदिश्चलति हि नवा मन्त्ररचना।।
(२४)
हसन् मन्दं मन्दं कुसुमसमयेऽयं सुमभरै:
श्वसन् धीरं वीरो मलयपवनैर्दोलितवनै:।
लताकुञ्जे पुञ्जंसघनविटपानां विदलय-
न्नदृश्योऽप्याराद् वै भवति सहसा दृश्य इव न:।।
(२५)
अधिज्यं यत् प्राज्यं दिनकरकराग्रेण तुलितं
प्रकृष्टं मध्याह्नं भवति धनुरस्यैव विततम्।
ज्वलन्तश्चाङ्गारा दवदहनतुल्या: प्रचलिता
इमे यस्मात् तीक्ष्णा: प्रखरदहना आतपशरा:।।
(२६)
छदिध्वंसं त्रुट्यद्धृति दलितबन्धं हतजगद्
गलद्भित्ति प्राप्तं प्रलयसदृशं दृश्यमचिरात्।
इमे गेहा जाता धरणिनिचिता: पङ्कवलिता
इदं चक्रे कालो निखिलमपि चक्रेण रभसा।।
(२७)
प्रवातोऽस्थिच्छेदप्रवणपवन: कालसदृश-
स्तुषार: कासारं स्थगयति तथात्यन्तशिशिर:।
प्रविष्टो मज्जायां शिशिरसमयेऽयं विषमये
हिमानीभि: सार्धं क्षपयति तनुं च ग्लपयति।।
(२८)
अयप्रख्यो भार: शिरसि निहितोऽत्यन्तकठिन-
स्त्वसह्योऽयं यावान् भवति च गरीयानतितराम्।
दृढेऽखिन्ने प्रांशौ बलपरिवढेऽयं किल जने
लघुस्तावत् तूलप्रचयसदृशश्चापि भवति।।
(२९)
रिरक्षन् स्वात्मानं निलयमिव यो याति निलये
स्वकीये गूढ: सन् भयविगलित: कश्चन नर:।
समेत्यायं गूढं दशति च यथा पाण्डवनृपं
अनिर्ज्ञात: काल: क्वचिदपि पुनस्तक्षकसम:।।
(३०)
न सम्यङ् मिथ्या वा न भवति तथा संशयमयं
न सादृश्यैर्वा तुलयितुमहो शक्यमतथम्।
अनिर्वाच्यं रूपं यदपि खलु कालेन कलितं
स्वयं स्वं तद् वेत्तुं प्रभवति न वाऽसौ प्रभवति।।
(३१)
तम:पुञ्जा: पीता विवृतनयनाभ्यां भ्रुवलनै-
र्यदुन्निद्रं नीता व्यथितमनसास्ता अपि निशा:।
समन्तात् सर्वाङ्गं पुर उपरि नीचै: कषति यो
भर: कालस्येभिस्तुलित इह तै: पक्ष्मभिरसौ।।
(३२)
निकायो धातूनामयमपि च कायोऽतिमसृणो
य आसीत् पीनोऽसौ प्रतिनयनसङ्कर्षणचण:।
परिक्षीणो हीन: समजनि स दीन: श्रमभरा-
परिक्षीणो हीन: समजनि स दीन: श्रमभरा-
न्महाकालक्रीडासततनटनम्लानमहिमा।।
(३३)
क्व तध्धास्यं बाल्ये यदधरपुट आसीद् विलसितं
तथा चास्ये लास्यं तदतिमृदु कैशौर्यसुलभम्।
क्व चाङ्गानां भङ्गी सरसि च तरङ्गा इव चला
विलीनं तद् गर्तेऽतिदृढमिह कालेन पिहिते।।
(३४)
वलन्त्यो वल्लीनां गतिभिरिह या भ्रूयुगपुटी-
मिमा: प्राप्ता गण्डस्थलमधिकपोलं च वलय:।
प्रसर्पन्तीभिस्ताभिरुरगगतिभिर्मम तनौ
लिखन्नास्ते काल: किमु लिपिमहो स्वां सुनियताम्।।
(३५)
कृतं प्रात:सायं सवनमथ माध्यन्दिनमपि
वसन्ते चाज्येऽस्मिन् शरदि हविषि ग्रीष्मसमिधि।
क्षरत्यायुर्विन्दु: क्रमश इह मे जीवनघटा-
न्महाकालस्यारात् सततमभिषेकं प्रकुरुते।।
(३६)
अमुं पारावारं गगनसममाहु: सुकवय:
तथाऽऽकाशं प्राहु: तमपि विततं सागरसमम्।
परन्त्वोतप्रोत: स इह गगने चाब्धिगहने
त्वतिव्याप्योभे च स्वयमपि खलु स्वेन विधृत:।।
(३७)
अमी केशा: शेषा: पलितसितरेखाङ्किततटा
लिलेखासौ काल: स्वलिपिमिव किं मूर्ध्नि जटिलाम्।
वलीनामेषा चावलिरपि वलन्ती सृतवती
किमेतां निश्रेणीं शिरसि मम रोढुं स कृतवान्।।
(३८)
सहस्राब्दा याता कति कति शताब्दैर्वलयिता:
प्रवृत्ता: संवृत्ता: विविधघटनाश्चाप्यघटिता:।
प्रयाता आयाता अतिथिसदृशास्ताश्च तिथयो
न यातोऽयं कालो न च शकलितो नैव घटिता।।
(३९)
अमी सर्वे ग्रामा दधति नगराणामिह गतिं
महापौराकारं नगरमपि सर्वं परिणतम्।
निमग्ना: सीमानस्त इह सकला वा परिधय:
स किं बाल: कालो विरचयति विप्लावयति च।।
(४०)
निवृत्तोऽयं क्षिप्रं वलितवदनं पश्यति मुहु-
र्मधौ प्राप्तप्राये शिशिर इह तिष्ठन् विरमति।
गतोऽतीत: क्षिप्त: क्वचिदपि तथा विस्मृतिपथे
परावृत्त: सोऽयं पुनरपि च कालो हसति न:।।
(४१)
विलीना ये शब्दा मनसि न धृता: क्वापि गलिता
निलीना ये नादा: श्रुतिपथमथाव्याप्य नभसि।
प्रसुप्ता ये चार्था: न पुनरिह याता: स्मृतिपथं
महाकाशे काले त इह विधृताश्चैव सकला:।।
(४२)
कठोरीभूतास्ते परिणतिमितो यान्ति दिवसा:
प्रदोषा दोषाढ्या लयमुपगता रात्रिसमये।
क्षपा अक्षीणा या: क्षयमुपगतास्ताश्च सकला:
क्षयं नायं यातोऽक्षरपदमधिष्ठाय वितत:।।
(४३)
मदोन्मत्ता भ्रान्ता कति नृपतयो जीवनविधे:
समाप्तौ ज्ञायन्ते क्व नु खलु गता: कालगिलिता:।
नवीना नेतारो मद इह नवीनो नवयुगे
नवीनं तन्त्रं तल्लसति नवलीलावलयितम्।।
(४४)
परम्लाने गात्रे त्वनुभवति चित्ते मलिनतां
कषायै: सार्धं यत् कटुलवणतिक्तै: क्वचिदपि।
अतिक्लान्तै: श्रान्तै रतिरसकणोऽस्वादि मधुर-
स्तदासीन्निष्ठ्यूतं कथमपि च कालेन विहितम्।।
(४५)
नभ: स्थलीभूतं ग्रहणसमूहोऽक्षतकणा
रविश्चन्द्रो दीपौ तिलकरचना राग उषस:।
दिवा रात्रौ नित्यं नियतमपि वा सान्ध्यसमये
करोत्यारात्-त्रिक्यं विविधमिह कस्यैष विविधम्।।
(४६)
प्रतीक्षायां केचित् विधुरहृदयस्य प्रविगता-
स्तितिक्षायां चान्ये कृपणमनसो वा विफलिता:।
व्यतीता एवं ता: कथमपि तु कालस्य शकला:
व्यतीतो नैवायं सकल इह तिष्ठन्निरवधि:।।
(४७)
चिन्तासन्ततितन्तुजालनिविडस्यूतं नु पाञ्चालकं
बद्धं संसृतिरज्जुसंहतिचयै: कृष्टं तथा मृत्युना।
आशावातसमेरितं कथमपि प्राणान् दधानं जनं
कालोऽयं किल सूत्रधारसदृशस्तं नर्तयन् संस्थित:।।
(४८)
प्रक्षीणा: किल धातवो रसजलै: पूर्णश्च शुष्को ह्रदः
देहेऽस्मिन् पदमादधाति शनकैः सम्पीडयन्ती जरा।
चञ्चच्चनद्रमरीचिसन्ततशुभास्ताः शारदीया निशाः
यातास्तप्तनिदाघसैकततटं सञ्जायते जीवनम्।।
(४९)
अनन्ता यात्रेयं ह्यगतिरयमस्तीह पथिक:
पथि प्रत्यूहानां कति कति तताश्चैव गिरय:।
परं क्षीणै: क्षीणैरपि विधिविपाकै: प्रमथितै:
पुरोदृष्टिक्षेपं न तु गमनमग्रे न विहितम्।।