'किन्तो:’ कुटिलता
कुटिलेनामुना 'किन्तु’ ना कियत्कालात्क्लेशितोऽस्मि। यत्र यत्राहं गच्छामि तत्र तत्रैवास्य शत्रुता सम्मुखस्थिता भवति। अस्य 'किन्तो:’ कारणात् कस्मिन्नपि कार्ये सफलता दुर्घटास्ति। बहून् वारान् दृष्टवानस्मि यत्कार्यं सर्वथा सज्जं सम्पद्यते, सर्वप्रकारै: सिद्धिर्हस्तगता भवति, यथैव सफलताया मूर्ति: सम्मुखमागच्छन्ती विलोक्यते तथैव क्रूरोऽयं किन्तुर्मध्ये प्रविश्य सर्वं कार्यं विनाशयति।
राज्यतो लब्धाया भूमेरभियोगो बहो: कालान्न्यायालये चलति स्म। मम पक्षात्सर्वाण्यपि आवश्यकानि प्रमाणानि यथायथं दत्तान्यभूवन्। राजसम्भावितानां प्रामाणिकव्यक्तीनां साक्ष्यमपि मत्पक्षे समभवत् यत् सेयं भूमिरभियोक्तुं : (मुद्दई) वंशजानामेवाधिकारेऽस्माभिरद्यावधि विलोकितास्ति। द्रव्यबलिप्रदानात्सन्तुष्टेन वाक्कीलदेवेनापि मह्यमभयदानं दत्तं 'यत्प्रमाणानां बलेन सेयं भूमिरवश्यं भवदधिकारभुक्ता भवेत्। न भवता कथञ्चिदपि भेतव्यम्’।
अस्मिन्नभियोगे अद्यैव भाग्यनिर्णयो भावी आसीत्। दृष्टं मया-प्राड्विवाकमहोदयो द्विरावृत्ते चक्षुषी (सोपनेत्रे) दधत् न्यायसिंहासनमलङ्करोतीति। देशीयसज्जन: सोऽयं शिक्षाविभागस्योच्चतमोपाधिनाऽलङ्कृत:। राजनियमनिष्णाततासूचकान्यपि कानिचिदक्षराणि नाम्ना सह सम्बद्धानि। उक्ताभियोगे निर्णयं श्रावयन्नयमवोचत्- 'वयं पश्यामो यदभियोक्तु: पक्षादावश्यकानि सर्वाण्येव प्रमाणान्युपस्थितानि सन्ति। राजतो लब्धाया भूमेर्दानपत्त्रमप्युपस्थापितमस्ति। न्यायालयेन परिज्ञातं यत् इयं भूमिरभियोक्तुरधिकारभुक्ताऽस्ति...........’
अहं निश्चिन्तताया एकं शान्तं निश्वासममुचम्। मया सर्वथा स्थिरीकृतं यत् भाग्यलक्ष्मीरनुपदमेव मे कन्धरायां विजयमाल्यं प्रददातीति। परं प्राड्विवाकमहोदय: पुनरग्रे प्रावोचत्- '........................ 'किन्तु’ राजस्वविभागस्य (रेवेन्यूवि) प्रधान: किलैकोऽधिकारी एतद्विरोधे एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं मन्यामहे’।
मम सर्वोऽप्युत्साह: पलायाञ्चक्रे। 'किन्तु’ कुन्तो ममान्त:करणं समन्तात्कृन्तति स्म। निजहृदयमवष्टभ्य न्यायं प्रशंसन् गृहमागमम्।
अद्य कालेजस्य भाग्यविधाता कालेजं निरीक्षितुमागमत्। सर्वेषामपि महाध्यापकानाम् (प्रोफेसर) अध्यापनकार्यं प्रेक्षाञ्चक्रे, सहैव च निजहस्तगतयोर्निग्रहाऽनुग्रहशक्त्योरपि स्थाने स्थाने परिचयं प्रादात्। मम श्रेण्यामागत्य विद्यार्थिनां परीक्षामकरोत्, गतवर्षाणां परीक्षापरिणाममवालोकयत्। नानाविधसंलापनिकषे ममापि च परीक्षामकरोत्। अन्ते ससन्तोषमवादीत्- 'भवत: कार्यं प्रशंसनीयमवलोकयामि। भवत्सदृशो विद्वान् अवश्यमभिनन्दनीय:...........’
अहं प्रसन्नताया अभिमुखं मुखं यावत्करोमि तावदेव 'किन्तु ’ कुठार: प्राचलत्। सोऽग्रे अवदत्-....... 'किन्तु’ विश्वविद्यालयस्य नियम: सञ्जातोऽस्मि यत् इत: परं प्रत्येकविषयस्याध्यापक: एम. ए पदकाङ्कित एव भवेत्’
मम हर्षसागर: शुष्को: भूत्वा मरुरूपे पर्यणमत्।
पश्याम्यहम्- एष कुटिल: 'किन्तु’ दूरदूरपर्यन्तमप्याक्रमणं करोति। ऋषिमहर्षीणामाश्रमानप्यवाप्य तेषां निभृतशास्त्रव्यासङ्गेऽपि हस्तक्षेपं विदधाति। महषिर्व्यासो भगवता गणपतिना स्वीयं महाभारतं लेखयन्नासीत्। सरस्वती कदाचिदन्यत्र 'अन्त:स्रोता:’ भवेत् परम् इह तु अनवरतं सरस्वतीप्रवाह: प्रवर्तमान आसीत्। एवंविधे प्रखरप्रवाहेऽपि 'किन्तु’ महोदयो वज्रकीलायितोऽभवत्। प्रवाहपूरे निमज्जनस्य का कथा सहस्रार्जुन इव स तं प्रवाहमेव निरुणद्धि स्म। महर्षिणा लेखितम्-
'सत्यं मनोरमा रामा: सत्यं रम्या विभूतय:।’
सत्यताया: पणबन्धपुरस्सरं कामिन्यै कनकाय चेत्युभाभ्यामेव स प्रशंसापत्रमर्पयाञ्चकार। परिलक्षिता: स्यु: काममेतयो: पर:शता दोषा परम् इह तु द्वयोरेव पूर्णप्रशस्तिप्रदानकार्यं परिसमाप्तमेवासीत्, एतस्मिन्नेवान्तराले 'किन्तु’ महाशय: समुपस्थितोऽभूत्-
''किन्तु’ मत्ताङ्गनापाङ्गभङ्गिलोलं हि जीवितम्।।’
प्रक्रान्त: स प्रवाह एव परिवर्तनं लेभे। जीवनस्यास्थिरतां सूचयन् 'किन्तु’ महोदय: कनककामिन्यो: सर्वां कमनीयतामेव निर्मूलयामास।
दृष्टं मया-यदेष 'किन्तु’ दया-धर्मादिष्वपि अनधिकारचेष्टातो न विरतो भवति। प्रात:कालस्यैव कथास्ति-धर्मव्यवस्थापकमहोदयस्य समीपे एको दीन: करुणक्रन्दनपुरस्सरं न्यवेदयत्- 'महाराज! नववार्षिकी मे कन्या । जातस्य तस्या विवाहस्य अद्य तृतीयो दिवस:। नाद्यापि चतुर्थीकर्म सम्पन्न येन विवाह: पूर्ण: परिगण्येत। तस्या पति: सहसाऽम्रियत। हा हन्त! तस्या अबोधबालिकाया अग्रे किं भावि? अस्यत्कर्मसंख्यावृद्धौ: किं ममोच्चकुलमपि सहायकं भविष्यति? आज्ञपयन्तु श्रीमन्त: किं मया साम्प्रतं कर्तव्यम्’
पण्डितमहोदयो गभीरतममुद्रयाऽवोचत्- 'अवश्यमेतत् दयास्थानम्। वर्तमानकाले समाजस्य भीषणपरिस्थिते: पर्यालोचने इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था दीयेत.............. 'किन्तु’ वयं मुखेन कथमेतत्कथयितुं’ शक्नुम: । प्राचीनमर्यादापि तु रक्षितव्या स्यात्।
कुत्रचित् सोऽयं 'किन्तु’र्नितान्तमनुतापं जनयति। अनेकवर्षाणां परिश्रमस्य फलस्वरूपं मन्निर्मितमेकं नवीनं संस्कृतपुस्तकमादाय साहित्यमर्मज्ञस्य एकस्य देशनेतु: समीपेऽगच्छम्। मया हि पुस्तकमिदं प्राचीननवीनसमययोर्विविधविभूतिभि: सुतरामलङ्कृतमासीत्। मुद्रणसौष्ठवे चित्रयोजने चापि पूर्णमवधानं दत्तमासीत्। 'नेतृ’ महोदय: पुस्तकस्य गुणान् सम्यग्परीक्ष्य प्रसन्न: सन्नवोचत्- 'पुस्तकं वास्तव एव अद्भुतं निर्मितमस्ति। बहुकालानन्तरं संस्कृते एवंविधा नवीनता दृष्टिगताऽभवत्। ....'किन्तु’ मत्संमत्यां तदिदं पुस्तकं भवान् संस्कृते न विलिख्य यदि हिन्दीभाषायामलेखिष्यत् तर्हि सम्यगभविष्यत्’।
गृहं प्रतिनिवर्तमानोऽहं 'किन्तु’ कृताया अस्या मर्मवेधकशिक्षाया उपरि समस्तेऽपि गृहमार्गे कर्णं मर्दयन्नागच्छम्। अनेन 'किन्तु’ ना मह्यं सा शिक्षा दत्तास्ति यद्यहं सत्पुरुष: स्यां तर्हि पुनरस्मिन्मार्गे पदनिक्षेपस्य नामापि न गृहणीयम्।
कदाचित् कदाचित्त्वयं क्रूर: किन्तु: मुखस्य कवलमप्याच्छिनत्ति। स्वल्पदिनानामेव वार्तास्ति- आयुर्वेदमार्तण्डस्य श्रीमत: स्वामिमहाभागस्य औषधिं निषेव्य अधुनैवाहं नीरोगोऽभवम्। अस्मिन्नेव समये मित्रगोष्ठ्या निमन्त्रणं प्राप्नवम्। भोजगोष्ठयां समवेतुं केवलं मित्राणामेवाग्रहोऽभवदिति कथङ्कारमहं वच्मि, ममापीच्छाशक्तौ प्राबल्यस्य प्रवाह: पूर्णमात्रायां प्रवर्द्धमान आसीत्। अहं स्वामिमहोदयमप्राक्षम्- 'किमहं तत्र गन्तुं शक्नोमि?’ उत्तरमलभ्यत- ''तादृशी हानिस्तु नास्ति 'किन्तु’ गरिष्ठवस्तुनो भोजने अवधानमावश्यकम्। अधुनापि दौर्बल्यमस्ति’’।
उत्साहस्य ज्वाला या पूर्वं प्रचण्डतमा आसीत् अर्द्धमात्रायां तु तत्रैव निर्वाणाऽभूत्। अस्तु, येन केनापि प्रकारेण भोजनगोष्ठ्या विशेषाधिवेशनेऽस्मिन् सम्मिलितस्त्वभवमेव। भोजनपीठे अधिकारं कुर्वन्नेवाहमपश्यं यत् सर्वाङ्गपूर्णा एका भोज्यव्यञ्जनानां प्रदर्शिनी सम्मुखे वर्तते इति। नानाप्रकारैभोज्यपदार्थै: पत्रावलि: पूर्णतया पूर्णासीत्। वे सवाराणां गन्धेन उद्ग्रीवतां गता रुचि: तां 'वर्णमालाम्’ नहि नहि तां 'व्यञ्जनमालाम्’ नि:शेषतां नेतुं लालायिताऽभवत्। धीरगम्भीरक्रमेणाहं भोजनकाण्डस्यारम्भमकरवम्। पर्यन्ततो दृष्टिं प्रसार्य दृष्टं मया यत् लोका: द्विबाहव: सन्तोऽपि सहस्रबाहुतामापन्ना भोजनोपरि भयङ्कररूपेणाक्रमणं कृतवन्त: सन्ति। सर्वतोऽपि तन्मयतया तदेतद् भोजनकाण्डं प्रचलितमासीत्। भोज्यपदार्थानां प्रशंसैव कदाचित् कदाचित् मौनभङ्गमकारयत्।
एक: सुहृदवोचत्- साधु साधु ! सन्तानिकामोदका: कीदृङ्मनोहरा: सन्ति।’ अहमपि मोदकस्यैकं ग्रासमगृह्णाम्। तस्य सरसताया: स्वादिष्ठतायाश्च विषये किं वा वक्तव्यमासीत्? कण्ठमारभ्य पाकाशयपर्यन्तं स्वादसौरभयोरेकोऽविच्छिन्न: प्रवाह: प्रवर्तमानोऽभवत्। स्वादसूत्रेण संदानितोऽहं यथैव द्वितीयं ग्रासमगृह्णाम् तथैव स्वामिमहोदयस्य 'किन्तु:' मम कण्ठनालिकामरुधत्। मुखस्य ग्रासो मुख एवाऽभ्राम्यत्। अग्रे गन्तुं नाशक्नोत्। 'किन्तो:’ भीषणविभीषिका प्रत्येकवस्तुनि गरिष्ठतां सम्पाद्य भोजनं तत्रैव समाप्तमकरोत्। इदानीम् 'आघ्राणे अर्द्धभोजनम्’ इति न्यायानुसारं भवन्तश्चेन्ममाश्वासनं विदध्युस्तर्हि कथैवान्यादृशी।
अयं 'किन्तु’ रङ्गेऽपि भङ्गसम्पादकमेकव्यर्थं शस्त्रम्। अद्य संस्कृतकालेजस्य नाट्यसंघो नागरिकनाट्यभवने प्रसिद्धमेकमभिनयं प्रदर्शयिष्यति। तत्प्रबन्धकर्तॄणां मन्मित्राणां महानाग्रहोऽभूत् यदहमस्मिन्नभिनयविलोकनेऽवश्यं सम्मिलितो भवेयम्। सायंकाले भोजनं परिसमाप्य मया गृहिणीं प्रति प्रोक्तम्- 'अहमद्य अभिनयं विलोकयितुं यास्यामि’।
गम्भीरताया: सुदृढं प्राचीरमुल्लङ्घ्य कष्टादुत्तरमलम्भत 'किन्तु’ शीघ्रं प्रतिनिवर्तनीयम्’।
नाट्यभवने वैत्रपीठमधितिष्ठन्नहं नेत्राभ्यामभिनयं व्यलोकयम्, परं हृदये 'किन्तु’ महोदयस्य उत्तालनृत्यं प्रवर्तमानमासीत्। बहून् वारान् निकटगतां घटिकादेवीं समयमपृच्छम्। अभिनयसमाप्त्युत्तरं यथैव प्रहसनमेकम् (नकल) प्रारभ्यत तथैवाहं प्रहसनमेतददृष्ट्वैव आसनादुदतिष्ठम्। 'किन्तु’ जनिता चिन्ता मां गृहाभिमुखमकरोत्।
अहं देशसेवां कर्तुं गृहाद् बहिरभवम्। मया निश्चितमासीत् 'एतावन्ति दिनानि स्वोदरसेवायै क्लिष्टोऽभवम्, इदानीं कियन्तं कालं देशसेवायामपि लक्ष्यं ददामि’। यथैवाहं मार्गेऽग्रसरो भवामि तथैव मम बाल्याध्यापकमहोदय: सम्मुखगोऽभवत्। मास्टरमहोदयेन प्रस्थानहेतौ पृष्टे सति सम्पूर्णसमाचारनिवेदनं ममाऽऽवश्यकमभूत्। अध्यापकमहोदय: प्रावोचत्- 'तात, सर्वमिदं सम्यक्। किन्तु स्वगृहाभिमुखमपि किञ्चिद्विलोकनीयं भवेत्। येषां भरणपोषणं भवत्येवायत्तम् तान् किं भवान् निराधारमेव निर्मुच्य स्वैरं गन्तुमर्हेत्?’
पुन: किमासीत्। अत्रैव परोपकारविचाराणाम् इतिश्रीरभूत्। 'किन्तु’ महोदयेन देशसेवाया: सर्वापि विचारपरम्परा परपारे परावर्त्यत। गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थलादेव परावर्तिषि।
सुभगतमानि प्रावृषो दिनान्यासन्। मया विचारितम्- 'माधवपुरस्थं 'रणस्तम्भवर’ (रणथम्भौर) दुर्गं दृष्ट्वा सम्प्रति मनो विनोदयामि। निरन्तरवर्षाभिर्दुर्गस्य समन्तात् समग्रापि सा पर्वतमाला हरितहरिता सम्पन्नासीत् स्थानस्थानत: प्रवर्तमानानां निर्झराणां नयनमनोरमं दृश्यं, श्रवणमनोहर: स्वरश्च अपूर्व एवासीत्। मार्गगताभिर्बकुल-कदम्बतरुश्रेणिभिस्तत्स्थानं केवलं सुगन्धितमेव नासीत्, अद्भुतं मनोहरमप्यभूत्। अहमेकस्मिन् राजकीये विद्यालये निवासमकल्पयम्।
मया हि तत्रत्यं प्रधानाध्यापकं प्रति पर्वतोपरि गमनस्य स्वीयेच्छा प्रकटीकृता। अध्यापकमहोदयोऽवदत्- 'यथेच्छं गम्यताम्। 'किन्तु’ अस्मिन्समये अत्र सिंहानां भयं किञ्चिदधिकं भवति। अत एव सावधानतया गन्तव्यं स्यात्।’
अहं हि पर्वतस्य शोभां सावधानाभ्यां नयनाभ्यामवश्यमपश्यं परं 'मास्टर’- निर्दिष्टस्य 'किन्तु’ महाशयस्य ध्यानं क्षणमपि हृदयान्न पृथगभूत्। वृक्षलतानां निबिडगुल्मेषु यत्र यत्रान्धकारो व्यलोक्यत तत्र तत्र सिंह: कदाचिदुपस्थितो न भवेत्परमयं क्रूर: 'किन्तु’ सिंहस्य रूपं धृत्वा प्रतिसमयं मां मिलितुमिवाग्रेसरोऽभवत्। अस्तु, यथाकथञ्चित् दुर्गमिदमालोक्य आवासस्थानं तमेतं विद्यालयं विमना: सन् परावृत्तोऽभवम्।
अद्यैव न, बाल्यकालादारभ्यैवायं 'किन्तु’ मामनुप्लवमान: क्लिश्राति। अहं यस्मिन्काले पाठशालायामपठम्, बहुधा वैदेशिका विद्वांस: पाठशालां द्रष्टुमागच्छन्। एकदा एक: संस्कृतज्ञो गौराङ्गसज्जनोऽस्माकं पाठशालां विलोकितुमाययौ। स ह्यस्मच्छ्रेणिस्थान् सर्वानेव विद्यार्थिनो यथाक्रमं प्रश्रानकरोत्। सर्वेषामेवोत्तरेषु यत्किञ्चिदशुद्धिरभवत्। दैवसंयोगान्ममोत्तराणि सर्वाण्येव समञ्जसान्यभूवन्। प्रश्नकर्ता प्रसन्नोऽभवत्। प्रतिवर्षं भाविनि पारितोषिकवितरणे मदर्थं विशेषपारितोषिकप्रबन्धोऽक्रियत। पारितोषिकवितरणस्य कार्यं यथानियमं प्रारभ्यत। मञ्चिका (मेज)स्थानि मत्पारितोषिकपुस्तकानि दर्शकेभ्यो दूरादेव सूचनामदुर्यत्तानि अन्यापेक्षया उत्तमान्यधिकानि च। पाटलवर्णेन कौशेयदोरकेण स्वस्तिबन्धे बद्धानि, स्वर्णाक्षरमण्डितानि पुष्ट-सुदृश्यान्येतानि पुस्तकानि दूरादप्यालोक्य अहमात्मन: प्रसन्नतामतिकष्टेन गोपयितुं प्राभवम्। इमानि पुस्तकानि नासन् मद्योग्यतासूचकान्येकैकं प्रमाणपत्राण्यभूवन्। मम सहाध्यायिष्वेव किम्, उच्चश्रेणिस्थेषु विद्यार्थिष्वपि मम योग्यताया: प्रसिद्धि: प्रभावश्च प्रासरत्।
पारितोषिकवितरणार्थं यथैव मम नामाऽघोष्यत तथैव अध्यक्षमहाभागै: पारितोषिकोपरि लिखितं मन्नामधेयमनुवाच्य पुस्तकान्येतानि हस्तेनोत्थापितानि। अध्यक्षमहोदयास्तद्दिनघटनाया उल्लेखं कुर्वन्त: प्रोत्साहनार्थं मम प्रशंसामप्यकुर्वन्-'बालकोऽयं बुद्धिमान् परिश्रमी च। यद्येवमेव नियमपूर्वकं पठेत्तर्हि एकस्मिन्दिने यशस्वी स्यात्’।
मम प्रसन्नताया नासीत्परिसीमा। मम गणिताध्यापकमहोदया: छात्रोपस्थितिपुस्तकस्य (क्लास रजिस्टर) उपरि त्राटकं निबन्धन्त: समीप एवाऽवस्थिता: आसन्। संयोगवशादेतेषु दिनेष्वेते ममोपरि नासन् प्रसन्ना:। अत एव तदुत्तरे एतेऽब्रुवन् -'प्रतीयते त्वेवमेव। 'किन्तु’ अस्मिन्वर्षे अस्य अनुपस्थितयोऽधिका: सन्ति।’
अध्यक्षमहोदया: पुस्तकानि यथापूर्वं पुनर्मञ्चिकायामेव व्यसृजन्, अवोचंश्च -'अग्रे नामान्युच्यन्ताम् यावदस्योपरि विचारं कुर्म:’।
कामं मम हितायैव भवेत्, परमहं 'किन्तु’ कृतमिमं मर्माघातकमाघातं नाऽपारयं सोढुम्। कस्मैचिदपि किञ्चिदनुक्त्वा विषण्णमना गृहमागच्छम्।
हन्त हन्त सोऽयं 'किन्तु’ हतको वेगेन धावन्त्यां वाष्पशकट्यामपि अनुधावनं न त्यजति। एकदा मोहमयीतो जयपुरं प्रति परावर्तमानोऽभूवम्। तेषु दिनेषु केवलं मोहमय्यामेव किं भारतस्य बहुषु प्रान्तेषु ग्रन्थिज्वरस्य (प्लेग) प्रकोपोऽभवत्। वाष्पशकट्या: स्थानस्थानेषु यात्रिणां शरीरपरीक्षाऽभवत्। एकस्मान्नगरादागतो रोगी अन्यस्मिन्नपि नगरे रोगं न सङ्क्रामयेदेतदर्थं बह्वो यत्नो अक्रियन्त। प्रधानस्थानेषु (जंक्शन) 'क्वारंटाइन’ स्य विशेषप्रबन्धोऽभवत्। द्राक्तरमहोदया वाष्पयानादवतीर्य यात्रिणां रोगपरीक्षामकुर्वन्। किञ्चिद् रुग्णमपि यात्रिणं यात्रातो न्यवारयन्। तं हि चिकित्सया नीरोगं कृत्वा तदनन्तरमग्रे गमनस्याऽनुमतिं प्रददु:।
स्वाभीष्टस्थानप्राप्ते: पूर्वं निराधारमेव मध्येमार्गं निरोध: प्रत्येकयात्रिणो दु:खाय भवति। विशेषतोऽस्मिन् भयङ्करे प्लेगावसरे। प्रधानस्थितिस्थाने (जंक्शने) यथैव बाष्पशकटिर्व्यश्राम्यत् तथैव तस्या द्वाराणि यन्त्रनिबद्धानि (चाबी ) अक्रियन्त। वाष्पयानीयदण्डपुरुषा: (रेलवे पुलिसमैन) सर्वानपि यात्रिण: पङ्क्तिबद्धान् कृ त्वा शकट्या: सुम्मुख एव अवास्थापयन्। डाक्टरमहोदय:, कदाचित् कदाचित् मैडममहोदयापि एकैकयात्रिणो नाडीपरीक्षामकरोत्। निर्निमेषया गृध्रदृष्ट्या च बाह्यपरीक्षां व्यदधात्। तत: परीक्षात: प्रतिनिवृत्तेषु यात्रिषु वाष्पयानारोहणस्यानुमतिरदीयत। यो यो यात्री परीक्षासरितमुदतरत् स स एव 'जीवन्नरो भद्रशतानि पश्येत्’ इतीव विचारयन् सवेगं धावमान: प्रसन्नेन चेतसा निजं स्थानमध्यतिष्ठत्। यस्योपरि डाक्टरमहोदयस्य यत्किञ्चिदपि रोगभ्रमोऽभवत् स एव पंक्तित: पृथगक्रियत। शकटीतस्तस्य वस्तुसम्भार: सरभसमवातार्यत। ततो वाष्पशकट्यां गतायां सर्वेऽपि रुग्णा: रुग्णाभासा वा चिकित्सार्थं नियतनिवासेऽनीयन्त। तत्र हि चिकित्सया नीरोगतायां जातायां स हि यात्री स्वगृहमगच्छत्, अन्यथा यमगृहं तु निश्चितमेव।
यस्मिन्समये डाक्टरमहोदयस्य कराङ्गुलयो यात्रिणो नाडीमस्पृशन् तस्मिन्न् समये बहूनामपि वीराणां हृदयानि धकधकायन्ते स्म। भयात् रक्तगतेर्निरोधेन शीतलता कामं विरलानां भवेत् परं हृदयरक्तस्य गतिवृद्ध्या ऊष्माधिक्यं बहूनामेवाऽभवत्। अभावेऽपि ज्वरस्य पूर्वरूपमिव प्रतीयते स्म।
अस्यैव परीक्षावक्रस्य तीक्ष्णधाराया उपरि ममापि परीक्षाऽभवत्। डाक्टरमहोदयो मम सम्मुखमागत्य एकवारं माम् आमूलचूडं तीक्ष्णदृष्ट्यापश्यत्। भाग्यवशादयं देशीयसज्जनोऽभवत्। मम यात्रापत्रम् (टिकिट) दृष्टवा अवदत्- 'किं मोहमयीत: समागच्छति भवान्?’ मम हृदयस्य गतिर्निरुद्धाऽभूत्। मोहमयी प्लेगरोगार्थं प्रसिद्धैव। अत एव सोऽयं प्रश्नो मन्निमित्तमवश्यं सांघातिकोऽस्तीति निश्चितं मया। पुनर्दृढतामधारयम्। 'नैवम्, ये ये यात्रिणो मयैव सह मोहमयीत: समागता: सन्ति तेभ्योऽपि डाक्टरमहोदयो गन्तुमनुमतिमधुनैव दत्तवानस्ति। किं मे भयम्’। अस्तु मम नाडीपरीक्षाऽक्रियत। परीक्षोत्तरं रुग्णपङ्कयामपि मे निवेशो नाभूत्, नीरोगतां वा निश्चित्य शकटिमारोढुमनुमतिरपि मे नाऽदीयत। त्रिशङ्कुरिव सन्देहशङ्कूपरि मध्यलम्बितोऽभूवम्।
सर्वेषां यात्रिणां परीक्षात: प्रतिनिवृत्ते डाक्टरमहोदये सन्देहसन्दंशपतितानां मत्सदृशानां विचार: पुनरारभ्यत। एतस्मिन् समयान्तराले मम हृदयदशा कीदृशी वा भवेदिति पाठकै: स्वयमनुमातव्यं स्यात्। अस्तु,
एवंविधसन्देहपतिता ममान्ये सहचरा अस्मिन्पुनर्विचारे क्रमक्रमेण अव्याहतिमलभन्त। क्रमानुसारं ममापि वार: समायात:। अहं हि अत्यावश्यककार्याणां हाने: पुटं प्रदाय स्वस्य शिक्षितताया गौरवमपि डाक्टरमहोदयस्य मस्तिष्के स्थापयितुं यत्नमकरवम्। डाक्टरमहोदयोऽपि भद्रोचितया भाषायां मां सान्त्वयन्नवोचत् 'न भेतव्यं भवत:। भवान् हि स्वस्थ:। न काऽपि हाने: सम्भावना............’
मम हृदयं प्रमोदाप्लुतमभवत्, परम् अस्मिन्नेव समये 'किन्तु’ क्रकच: सहसैव निष्पपात। डाक्टरोऽवदत् '........किन्तु’ केवलमद्यमात्रं तिष्ठतु भवान्। ज्वरपूर्वरूपस्य सन्देहरेखेव किञ्चिद् दृश्यते’।
साधु रे भाग्य साधु! इयन्मात्रान् यात्रिण: परित्यज्य सोऽयं सन्देहपर्वत: किं ममोपर्येव पतनायाऽभूत्?
मयाऽनुभूतमस्ति यदयं कुटिल: 'किन्तु:’ नानादेशेषु नानारूपाणि सन्धार्य गुप्तं विचरति। यथैव लोकानां कार्यसिद्धेरवसर: समुपतिष्ठते तथैवायं प्रकटीभूय लोकानां कार्याणि यथावस्थितमवरुणद्धि।
अहं हि तत्प्रान्तीयै: कतिभिश्चित्प्रतिष्ठितपुरुषै: सह 'तानसा’ जलबन्धं द्रष्टुमगमम्। इदं स्थानं मोहमयीनगरात् त्रिंशत्कोशानुमितं दूरमस्ति। वाष्पशकट्या मोटरयानैर्वा तत्र गच्छन्ति जना: । स्थानमिदमतिसुन्दरं स्वच्छतमं च। सम्पूर्णं मोहमयीनगरं पानीयमस्मादेव स्थानात्प्राप्नोति। अत एवास्य विस्तारोऽपि सहजतयैवानुमातुं शक्येत। मरुत्तरशकटिस्थिता वयं मार्गस्य मनोहरं दृश्यमवलोकयन्तो यावत् प्राप्रुमस्तावदेव भवान् सूर्योऽप्यस्ताचलमचुम्बत्। अतएव तत्स्थानीयवन्यदृश्यदर्शनस्य लालसा मनस्येव निगडनीयाऽभवत्। जलबन्धस्योपरि य: सुदृश्य: सेतुरासीत् तमारुह्यैव पर्यन्तवर्तिनां स्थानानां शोभा निरीक्षणीयेति सर्वसम्मत्या निश्चितमभूत्। वयं सेतोर्द्वारोपरि अगमाम, परं दृष्टं यत्तस्य द्वारं तालकेन पिनद्धम्। प्राहरिकैरुक्तम् 'एतस्य प्रबन्धकर्ता इदानीमेव मोहमयीं गतोऽस्ति। सायंकालोऽपि च सञ्जात:’।
अस्माकमतिखेदोऽभवत्। हन्त! एतावन्तं परिश्रमं कृत्वा इयद्दूरं प्राप्ता अपि, स्थानमपि च नावलोकितम्। अस्मान् विषण्णानवलोक्य एक: प्राहरिकोऽवदत् 'समीपे सर्वप्रधानस्य गौराङ्गाधिकारिणो निवासगृहमस्ति, स यदि वाञ्छेत्तर्हि भवन्तो द्रष्टुं शक्नुवन्ति’ । आशाया अस्पष्ट इवाऽऽभासोऽस्माकं नेत्रयोरनृत्यत्। निवासस्य द्वार एव सोऽयमधिकारि महाभागोऽप्यमिलत्। सङ्क्षेपत: सर्वमात्मनो वृत्तं तस्मै निवेद्य सेतूपरि गमनस्यानुमतिं तस्मादयाचामहि। एङ्गलेण्डात्साम्प्रतमेवोपगत: साहबमहोदय: सभ्यतामभिनयन् आङ्ग्लभाषायामवोचत्- 'नो मैटर, यू मे सी इट’ (न काचिद्वार्ता, भवन्त इदं द्रष्टुं शक्रुवन्ति।’
प्रम्लानमस्माकं हृत्कमलं प्रफुल्लभूत्। पूर्णतया हृत्कमलस्य विकासोऽपि न समाप्तोऽभूत्, एतावतैव साहबमहोदय: पुनरवोचत् 'बट दि मैनेजर इज नोट हियर।’ (किन्तु प्रबन्धकर्ता अत्र नास्ति’)
अस्माकं तदिदं कार्यमेकप्रकारेण पूर्णतया सम्पन्नमेवासीत् परं 'किन्तु’ना 'बट’ रूपं धारयित्वा सर्वं विनाशितम्। अधुना विकटतम 'बट’जटासु निरुद्धा वयं गृहं प्रति परावर्तनमन्तरा किं वाऽन्यत्कर्तुं शक्नुयाम?
इदानीमेतस्य 'किन्तो:’ द्वितीयरूपस्यापि परिचय: प्राप्यताम्। व्यतीत: कियाँश्चित्काल:- दिल्लीवास्तव्यो विद्योत्साही एको 'मुन्शी’महोदय: स्वधनेन संस्कृतस्य हिन्दीभाषायाश्चैकां ग्रन्थमालां प्रकाशयितुमैच्छत्। केषाञ्चिन्मित्राणामाग्रहेण कानिचित्प्राचीनपुस्तकानि स्वस्याऽपरिवर्तितप्राचीनरूपे ग्रन्थमालायां प्रकाशयितुं मयापि प्राहीयन्त। यतो हि तेन महाशयेन सूचितमासीत् यत् मूल पुस्तकं दृष्ट्वैव प्रकाशका: पुस्तकप्रकाशनं स्वीकरिष्यन्तीति। अस्तु, व्यतीतोऽभूद् भूयान् काल:। न ग्रन्थमाला प्रकाशिताभूत, नापि तस्यां पुस्तकान्येतान्यमुद्र्यन्त। अहं कतिवारान् मुंशिमहोदयाय पत्रमलिखम्- 'यदि ग्रन्थमालाप्रकाशनस्य विचार: स्थगितो भवेत् तर्हि तानि मे पुस्तकानि परावत्र्यन्ताम्। यत: पुस्तकानि मे प्राचीनानि सन्ति। तेषां प्रतिलिपिरपि नाद्यावधि कर्तुमपारि’।।
मत्पक्षात् यथा यथा पत्राणां सेतु: अबध्यत तथा तथैव प्रकाशकमहोदयस्य निद्रा-नदी विस्तारमभजत्। अत एव तामुल्लङ्घय नैकस्याप्युत्तरमलभ्यत। पर्यन्ते मया लिखितम्- 'यद्यधुनापि उत्तरं न दीयेत तर्हि स्वयमहमागमिष्यामि। अहं यातायातेन भवाँश्च मन्मार्गव्ययप्रदानेन निरर्थकमेव क्षतिग्रस्तो भवेत्।’
अस्मिन् वारे नागराक्षरावगुण्ठितायामुर्दूभाषायामुत्तरं लब्धम्- 'जनाब पण्डित साहब! गिरन्थमाला बहुत जल्द शाया होने वाली है। चन्दा देने वालों की फहरिस्त में क्या आपका नाम भी दर्ज कर लिया जाए? हां, किताबें पुरानी बहुत सी हैं 'मगर’ आपकी भेजी हुई कोई मालूम नहीं होती (ग्रन्थमाला शीघ्रमेव प्रकाशिता भवेत्। सहायता प्रदातॄणां नामावलौ किं भवतोऽपि नामनिवेश: क्रियेत? आम्, प्राचीनपुस्तकानि बहून्युपस्थितानि 'किन्तु’ भवत्प्रेषितं किमपि पुस्तकं न ज्ञायते)
अहं नैराश्यसागरे निमग्नोऽभूवम्। 'किन्तु’कराघातात् कदाचित् रक्षितोऽप्यभूवम्, परमस्मिन् वारे एतस्य 'मगर’स्य मुखात् पुस्तकानां रक्षा सुतरां कठिनेति निश्चितं मया।
अन्यत्परिचीयताम्। शेखावाटी-निवासिन एकस्य श्रेष्ठिमहोदयस्य समीपे कस्याश्चन सार्वजनिकसंस्थाया: कृते धनयाचनार्थं वयमगच्छाम। संस्थाया: लोकसेवा: संसूच्य धनार्थं प्रार्थनाऽक्रियत - यत् भवादृशा यदि सम्प्रति सहायतां न करिष्यन्ति तर्हि एतस्या: संस्थाया: परिचालनमितोऽग्रेऽसम्भवमिति।
सर्वमिदं श्रुत्वा श्रेष्ठिमहोदयेन निजप्रान्तीयभाषायामुक्तम्- 'म्हारे सायता देबा में के औंट है। 'पण’ दो च्यार बरस ई को काम देखर देबो ठीक है’ (सहायतां प्रदाने मम का विप्रतिपत्ति:, किन्तु द्विचतुर्वर्षाणि संस्थाया अस्या: कार्यं विलोक्य दानं सम्यक् स्यात्।)
अहो धन्येयं पातालस्पर्शिनी प्रतिभा!परिचालनं कठिनम्, अत एव तु सहायतां याचितुमागता: स्म:! श्रीमन्त: कथयन्ति द्विचतुर्वर्षाणि परिचलेत् तत: सहायतां दास्याम:’। निश्चितमस्माभिर्यत् अस्य पण’-बन्धस्याग्रे अस्माकं कापि शक्तिर्न प्रभवेत्।
एवंप्रकारैरयं 'किन्तु:’ भिन्नभिन्नदेशेषु भिन्नभिन्नरूपाणि निर्माय स्वस्य प्रकटपरिचयं प्रददत् परिलोक्यतेऽस्माभि:। सत्यं चेत्पृच्छथ तर्हि अहमेतस्य 'किन्तु’ कुठारस्य कठोरतया नितान्तमेव तान्तोऽस्मि। अहं वाञ्छामि यदेतस्याक्रमणात् सुरक्षितो भवेयम् परं नायं मां त्यक्तुमिच्छति। बहवो मार्मिका मामबोधयन् यत् 'त्वम् एतं सम्मुखा तं दृष्ट्वैव कथं वित्रस्यसि, कुतश्च एनमपसारयितुं प्रयतसे? किमेनं सर्वथा अहितकारिणमेव निश्चितवानसि? नेदं सम्यक्। पशुघातकस्य छुरिकापि पाशपतितस्य गलबन्धनं छित्त्वा समये प्राणरक्षां कुर्वती दृष्टा।’ अहमपि सत्यस्यैकान्ततोऽपलाप न करिष्यामि। एतस्य कथनस्य सत्यताया मयापि परिचय: कदाचित् कदाचित् प्राप्तोऽस्ति-
मोहमयीतो जयपुरं परावर्तमानोऽहं काठियावाडीयमेलशकट्या समागच्छम्। मत्प्रकोष्ठे (कंपार्टमैण्ट) मरुदेशीय एक: श्रेष्ठिमहाभागोऽपि मम यात्रा स हचरोऽभूत्। प्रथमप्रथमं तु अस्माभि: शयनोपवेशनादेरसुविधाऽनुभूता परं स्वल्प एव काले यत्र येन स्थानमुपलब्धम्, सर्वेऽपि यात्रिण इतस्तत: शयाना अभूवन्। एकस्मिन् पट्टे अहं श्रेष्ठिमहाशयश्चेत्युभौ उपविष्टावभूताम्। श्रेष्ठिमहोदयो निद्रादेव्या आवेशेन घूर्णमानमस्तकोऽभवत्। अहमपि तत्प्रभावान्निर्मुक्तो नासम्। श्रेष्ठी अवोचत्- शृङ्खलधारेण उपरि लम्बमानेऽस्मिन् पट्टे निरर्थकमेव द्वयो: क्लेश: स्यात्।
अहम् उपरि शयनमेव सुखकरं निरधारयम्। यतो हि दारोद्घाटने सति नीचै: पट्टोपर्येव यात्रिणां प्रथमाक्रमणं भवति। अस्तु, उपरि शयनीयं विरचयता मया दृष्टं यन्मम शिर: प्रान्ते बृहदेकं फलकरण्डकं निहितमस्ति, यद्धि हरितै रक्तैश्च मोहमयीकदलीफलै: पूरितम् यस्य चोपरि वस्त्रमेकमर्द्धावगुण्ठितं विद्यत इति। विमनस्कमिव दृष्ट्वा श्रेष्ठिसज्जनोऽब्रवीत्- 'यद्यसुविधा भवेत्तर्हि तु करण्डकमिदं नीचैरवतारयेयम्, अन्यथा कोणेऽस्मिन् तिष्ठत्वेतदपि। फलानि पक्वानि सन्ति। अतएव मर्द्दे कदाचिद्विकृत्तानि स्यु:’ । मया प्रोक्तम्- 'यथेच्छं तिष्ठतु। न मे काचिदापत्ति:। यस्मिन्काले जनसम्मर्दो भवति तदा पृष्ठपट्टकमात्रमुपधानीकृत्य निद्रादेवी सेवनीया भवति।’
परिणामे-उपरिपट्टे अहमस्वाप्सम्, नीचैर्निद्राण: श्रेष्ठिमहाभागो नासाध्वनिमारभत। प्रात:काले आसीदधुनापि विलम्ब:। परं तस्मिन्नेव समये श्रेष्ठिमहोदय: स्वकीयं वस्तुसम्भारं दृढतयाऽबन्धात्। शकटीतोऽवतरणस्य पूर्वरूपं सर्वेभ्य: प्रकाशयामास। खटखटात्कारे ममापि निद्राभङ्गोऽभवत्। अहं नीचैरवतरम्। शकटीतया अन्येऽपि यात्रिणा: चक्षुषी उन्मार्जयन्त: शनै: शनैर्निद्रात उदतिष्ठन्। यथैवाहं नीचै: पट्टके आगच्छं तथैव श्रेष्ठिवरोऽपि कदलीकरण्डकमुपरितोऽवतारयितुमियेष, येन शकटीतोऽवतरणसमये विलम्बो न भवेत्। यावदसौ करण्डमुपरितोऽवतारयति तथैव तस्य कोणात् कदलीफलस्य त्वग् (छोंत) नीचैर्निपपात। श्रेष्ठिनो विस्मयोऽभवत्। भूमौ निधाय यथैव वस्त्रमृद्घाटितं, दृष्टम्- करण्डके त्वच एव सर्वा: सम्भृता: सन्ति। ता अपि ईदक्प्रकारेण स्थापिता: यथा उपरित: करण्डकं कदलीफलपूरितं प्रतीयेत। परुफलानि एकान्ततो लुप्तान्यासन्।
'अरे! किमेतत्’ इति कृत्वा श्रेष्ठिवराक: पट्टके न्यषीदत्। समीपस्थिता: सर्वेऽपि यात्रिणश्चकिता अभूवन्। लज्जया सङ्कोचेन चाहं भूगर्ते प्राविशमिव। 'हन्त! किमेतज्जातम् । करण्डकं मत्सविधे स्थितमासीत्। सर्वेषां सन्देहो मदुपर्येव निश्चितं भवेत्। हा हन्त विसदृशं सङ्घटितम्।’ जातमपि तदेव। एको यात्री श्रेष्ठिनमपृच्छदेव- किं भो महोदय। उपरितनेऽस्मिन् स्रस्तरे क: अस्वाप्सीत्?’
अहं किञ्चिद्वदामि, एतस्मात्पूर्वमेव श्रेष्ठी प्रच्छकसम्मुखोऽभवत्, उत्तरं च अददात्। ममानन्त:करणं श्रेष्ठिन: एकैकाक्षरोपरि बलादाकृष्टमभूत्। मम मान-प्रतिष्ठयोर्निर्णय: श्रेष्ठिमहोदयस्य जिह्वाधीन एवासीत्। दृश्यताम्, भाग्यं किं दर्शयति?।
अङ्गुल्या मां निर्दिश्य श्रेष्ठिमहोदयोऽवदत्- 'करण्डिकाया: समीपे, एतस्मिन् शयनीये तु एते महोदया एव अशेरत। अन्य: कश्चित्तु रात्रौ जागृतोऽपि नाऽभूत्........’
एतान् शब्दान् श्रुत्वा मम हृदयमकम्पत। मया ज्ञातम् 'अमृतं निर्जरै: पीतं विषं पशुपति: पपौ’ इत्याभाणकमद्य मदुपरि संघटिष्यते। हन्त हन्त! घोरापमानजनिकाया एतस्या विपत्ते: सकाशाद् विमोक्ष: सम्प्रति कठिन:। परम् आश्चर्यमाश्चर्यम्। किमिदं पश्यामि। यत् एतस्या: कज्जलकोष्ठिकातो मुक्तिदातापि स एव पुरातनो घातुकोऽस्ति।
श्रेष्ठिमहोदयोऽग्रेऽवदत्- '......किन्तु’ एतैस्तु तदिदं करण्डकं स्पृष्टमपि नास्ति। एतेषामुपरि न सम्भवत: सन्देहस्य’।
अहं पुनर्जीवलोके परावृत्तोऽभवम्। अचिन्तयं चेतसि-'साधु साधु, अहो धन्योऽसि सखे 'किन्तो’। कीदृशे सूक्ष्मऽवसरे उपस्थाय मानरक्षां कृतवानसि!’ परं हृत्पटलात्सोऽयं सन्देहो नापययौ यत् 'कदलीफलानि तर्हि केन भक्षितानि। त्वग्भारमादायैव श्रेष्ठिमहोदयो मोहमयीत: प्रतस्थे इति तु सम्भूतमपि नास्ति’।
एको यात्री अपृच्छत्- 'श्रेष्ठिवर। तर्हि एतानि फलानि केन भक्षितानि?’ । श्रेष्ठी अवादीत्- 'ज्ञातं मया। सायंकाले एको यवनमहोदयो मम समीप एवास्यां शकट्यां स्थितोऽभूत्। रात्रौ जातायां स मामवोचत्- 'यदि भवतोऽनुमति: स्यात्तर्हि अहमुपरि संविशेयम्। भवानप्यत्र सुखेन शयितुं शक्नुयात्’। का हानि: इत्यहमपि तदेतदङ्गीकृतवान्। अस्तु, स हि करण्डकमिदं मुखसम्मुखं निधाय उपरिपट्टे सुष्वाप। इतोऽहमपि निद्राधीनोऽभवम्। एकद्विवारान् मया उपरि दृष्टिरपि प्रेषिता परं तं तथैव मह्यं पृष्ठं दत्त्वा फलाभिमुख शयानमद्राक्षम्। अहं निश्चिन्तोऽभवम्। अर्द्धरात्रस्य सन्निहितमेवासौ महाशय: शकटीतोऽवतीर्य यथागतमगच्छत्। गमनसमये स हि यवनशिष्टाचारानुसारं मामवोचदपि- 'श्रेष्ठिमहोदय। भवत्कृपया मया पूर्णं सुखमवाप्तम्’।
एकदाऽहं कार्यविधया निजगृहद्वार एव स्थितोऽभूवम्। एतस्मिन् समये काठियावाडप्रान्तीय: कृषीवल इवैक: यस्य हस्ते वस्त्राणां ग्रन्थिरासीत् मत्समीपमागत्य गुर्जरभाषायामतिदीनतयाऽवादीत्- 'श्रीमन्। नाहं याचितुमागतोऽस्मि, नाप्यहं याचक:। अत एव श्रीमान् मम वार्तां निर्विशङ्कं शृणोतु । अहं जात्या क्षत्रिय: । वयं हि द्वारकाप्रान्ते निवसाम:। इदानीं गयात: समागच्छाम:। मम सहयात्रिणोऽन्येऽपि बहवो मनुष्या: सन्ति ये वाष्पयानावमोचनस्थान एव सम्प्रति स्थिता: सन्ति। मार्गे धूमशकट्यां केनचिदस्माकमुपकरणं चोरितं येन गृहप्राप्त्युचितं द्रव्यमप्स्मत्सविधे नावशिष्टम्। इदानीं तडिद्वृत्तं प्रदाय निजग्रामाद्धनमाकारितमस्ति। तत्प्राप्तिसङ्केतस्तु अत्रत्यपत्रप्रेषणालयस्य (डाकघर) एवास्ति। श्व: पत्रप्रेषणालयोद्घाटनसमये तद्धनं प्राप्स्यते। अस्माभि: ह्योदिनादेतदवधि न किञ्चिद् भुक्तम्। श्व: पर्यन्तमपि वयं तु किञ्चिदभुक्त्वापि स्थातुं शक्ष्याम:। परम् अस्मत्सार्थे केचिद् बालका: एका च जरती वर्तते येषां मुखं नैक: कणोऽप्यद्यावधि पतित:। अत एव दयास्मान् परवशयति। इमानि मम वस्त्राणि निक्षेपरूपे संस्थाप्य केवलं प्रस्थमितं यवचूर्णं दापयतु भवान् येन अर्द्धपोलिका (रोटिका) वराकेभ्यस्तेभ्यो दीयेत। श्वोऽहं यदा पत्रप्रेषणालयमायास्यामि तदा भवत्पणान् दत्त्वा वस्त्राणि प्रतिनेष्यामि। क्षुत्क्षाममुखान् अमून् दीनान् शिशून् भूमौ लुठतो नाहं द्रष्टुं शक्ष्यामि।’
मम हृदयं दयाप्लुतमभूत्। उक्तं मया- 'भवदादयोऽन्ये जना अपि दिनद्वयपर्यन्तमभोजना: कथं तिष्ठेयु? सोऽवदत्-'श्रीमान्! किं वास्माभि: क्रियताम्। गेहे गावो महिष्य:, सर्वमपि कृषिसाधनमस्ति। भृत्या: कृषिकार्यं कुर्वन्ति। परम् अस्मिन् परदेशे कस्मै किं वा कथयाम:? भूम्यधिकारिणो भूत्वा भिक्षावृत्तिं तु वयं कर्तुं न शक्नुम:। एतदवश्यमस्ति। वयम् एतावन्तं परिश्रमं व्ययं च सोढ्वा दूरदूरवर्तितीर्थानां यात्रां कृत्वा आगच्छाम:। यदि कश्चिद्धर्मपरिज्ञाता स्यात्तर्हि तीर्थयात्रायास्तस्य पुण्यस्योपरि श्व: प्रात: कालपर्यन्तस्य कृते किञ्चिद्भोजनमात्रं याचाम:।
मम चेतसि महद् दु:खमभूत्। हन्त हन्त! परवशा दीना निजपुण्यमपि हारयन्ति। पृष्टं मया- 'किं वस्तु वाञ्छ्यते?’ । तेनोक्तम्- 'महोदय। सर्वत: समर्घमस्मिन् देशे यवानां चूर्णमस्ति। प्रात:कालपर्यन्तं प्राणरक्षायै अष्टादशमनुष्योपयुक्तं तदेव वाञ्छामि। उपदेशार्थं किञ्चित्सूपं नेष्यामि।’ उक्तं मया - 'अहमेतत् रूप्यकद्वयं भवते प्रददामि। भवानेव भोज्योपकरणं क्रीणातु।’
अहं रूप्यके तस्मै प्रददान एवासम्, एतावतैव मम मित्रं मे हस्तमगृह्णात्। उक्तावांश्च- ''रूप्यकद्वयेन गयाया: पुण्यं क्रीणासीति तु विदितं मया 'किन्तु’ पूर्वं चक्षुषी उन्मील्य किञ्चिद्विलोकयदिनद्वयमभुक्तस्य किं मुखाकृतिरेवंविधैव भवति? मम प्रतिवेशादपि सोऽयं किञ्चिद्भोजनोपकरणम् किञ्चिच्च धनमनेनैव प्रकारेण गृहीत्वा न्यस्तवानस्ति।’’
मित्रस्य वचनं श्रुत्वैवाहं तदभिमुखमपश्यम्। तस्याकृतिरवश्यं म्लाना विलक्षा चासीत् परं क्षुधायाश्चिह्नं नासीत्तत्र। अहं मुद्राद्वयमिदं पुनर्निजसम्पुटके न्यदधाम्। सोऽपि न पुनस्तत्रातिष्ठत्। 'हन्त! संसारे दु:खिन: को वा सहायकोऽस्ति’ इति वदन् दानप्रतीक्षामकृत्वैव तत: स्थानात्सहसा अदृश्योऽभवत्।
दृश्यताम् एतस्य 'किन्तो:’ एकस्यामेव भत्र्सनायां रूप्यकद्वयमिदं वञ्चकस्य समीपे न गत्वा मत्पार्श्वपुटकमेव यथापूर्वमध्यतिष्ठत्।
'शब्दै: प्रतीयते, यद् गृहे चौर: प्रविष्टोऽस्ति’ इति सभयमुपलपन्ती गृहिणी रात्रौ मामबोधयत्। अहं निजशौर्यं प्रकाशयन् महता वीरदर्पेण लगुडमात्रमादाय अन्धकार एव चौरनिग्रहाय प्रचलितोऽभवम्। गृहिणी कर्णसमीप आगत्य शनैरवदत् 'अन्धकारेऽस्मिन् यासि त्ववश्यम्, 'किन्तु’ दृश्यताम् सशस्त्रं न प्रहरेत्।’
पुन: किमासीत्। मम वीरदर्पस्य शौर्यस्य च प्रज्वलितं ज्योतिस्तत्रैव निर्वाणमभूत्। चौरनिग्रह: कीदृश: निजप्राणपरित्राणमेव मे अन्वेषणीयमभवत्। लगुडं प्रक्षिप्य कोष्ठके निलीनोऽभवम्। तत एव च कम्पितकण्ठेन चीत्कारमकरवम्- 'लोका:! आगच्छत, चौर: प्रविष्टोऽस्ति’।
एकेन अमुना 'किन्तु’ना चौरस्य चपेटाभ्योऽवमुच्य सौख्यस्य सुरक्षिते प्रकोष्ठकेऽहं प्रवेशित:। अनेन किन्तुना कस्मिन्नपि सङ्कटसमये कदाचित् किञ्चित्कार्यं कामं कृतं स्यात् परं भूयसा तु अस्माद् भयमेव भवति। अस्य हि सार्वदिक: स्वभाव एव यत् वार्ता काममुत्तमास्तु अधमा वा परमयं मध्ये प्रविश्य तस्या: कथाया विच्छेदमवश्यं करिष्यति। अतएव कस्मिन्नपि समये कार्यसाधकत्वेऽपि लोका अस्माद्वित्रस्यन्त्येव। वैरिणां भारावताराय कदाचित् हिताधरापि करवालधारा क्रूराकारा प्रखरप्रकारा एव प्रसिद्धा लोकेषु। विगुण: कार्षापण, कुत्सितश्च पुत्र: सङ्कटे कदाचिदुपयुक्तो भवेत् परं जनसमाजे द्वयोरुपर्येव नासाभू्रसङ्कोचो जातो जनिष्यते च । इदमेव कारणं यत् यस्यां वार्तायां 'किन्तु:’ उत्पद्यते तां वार्तां लोका विगुणां गणयन्ति।
मधुमङ्गलमिश्र: पूर्णप्रसादपाण्डेयस्य भवने सूपौदनमभुंक्तेति तज्जातिजनास्तं पङ्क्तिबाह्यं चक्रु:। मिश्रमहाशयस्य सम्बन्धिन: जातिप्रमुखानामनुनयविनयौ कृत्वा अतिकष्टेन मिश्रस्य शोधनव्यवस्थामकारयन्। जातेराज्ञया मिश्र उपोषितोऽभवत्, जातिदण्डोऽपि तस्मात् समगृह्यत। एवं किल प्रायश्चित्ते जातेऽपि जातेर्बहवो जना: सहभोजे विप्रतिपन्ना आसन्। मिश्रस्य मातुल: पञ्चायत्तसभायां प्रश्नमुपास्थापयत्- 'जातीयसज्जनैर्यद् यत् किञ्चिदाज्ञापितमासीत् तदनुसारं सर्वमक्रियत। ततोऽपि बहवो गृहा: सहभोजे नानामिषान्कुर्वन्त: आपत्तिं प्रकाशयन्ति। इदानीमपि किं कश्चित् 'किन्तु’ अस्ति?
'किन्तुप्रभो भूरि नमो नमस्ते’
कार्पण्यदोषोपहतस्वभाव: पृच्छामि त्वां धर्मसम्मूढचेता:।
यच्छे्रय: स्यान्निश्चितं ब्रूहि तन्मे, 'शिष्यस्तेहं शाधि मां त्वां प्रपन्नम्’।।
एषु दिनेषु योग्यमेकं भृत्यमुपलब्धवानस्मि। बालकस्यास्य नाऽधिकं वय:। दर्शने सुन्दर:, वस्त्रादिभि: प्राय: स्वच्छ: संवसति। मम मानसेऽप्यनेन शनै: शनै: समुचितं स्थानमधिकृतमस्ति। गृहस्थैर्जनै: संविभक्तस्नेह: सोऽयम् अतिममत्वेन गृहे निवसति। कार्येऽतीव तत्पर:। चक्रवदहर्निशं भ्राम्यति। कस्मिन्नपि कार्ये नाऽऽलस्यम्, न वा काचिदापत्ति: । हसन्मुख: सोऽयं प्रतिसमयं ममाज्ञानुसारं कार्यं कर्तुं सन्नद्धस्तिष्ठति । किन्त्वस्मिन् य: खलु महान् दोषस्तमपि पाठकमहाभागानामग्रे नाहं गोपयिष्यामि-
(१)
शिशिरर्तो: समय:। रात्रि: प्राय: समाप्ताऽस्ति, तथापि साम्प्रतं परितस्तमोलहरी विजृम्भते, अस्ति प्रत्यूष:। अन्यदिनाऽपेक्षया अद्य शीतमप्यधिकं प्रतीतं भवति। तूलभृतेन प्रावरणेन मुखमाच्छाद्य शय्यामधिशयानोऽस्मि। शिशिरर्तोर्दीर्घदीर्घतमया रजन्या निद्राया: सर्वोऽपि मनोरथ: सर्वाङ्गतया पूरितोऽस्ति किन्तु शरीरोष्मणा सुखोष्णीकृतं प्रावरणं त्यक्तुं नाऽधुनापि मनो भवति। शयनीयसंविष्टस्य मे मनसि नानाविधविचारा: सवेगमभ्राम्यन्। अहमुच्चै: स्वरेण बालकमाह्वयम्- ''हरिदास’’।
पाठकमहोदयैरनुमितमेव भवेद् यद् बालकस्यास्य भृत्यस्य नाम हरिदास इति। अहं तं जागरयितुं चेष्टामकरवम्। ममानुमानमासीद् यद् असौ बालक: साम्प्रतमपि निद्रा कदाचिन्न भग्ना भवेत्। पुन: प्रबलतमेनानेन शीतेन शय्यां त्यक्तुं नासौ कदाचित्पारयेदिति। किन्तु दृष्टं मया स मत्त: प्रथममेव जागरित्वा स्वकार्ये संलग्नोऽस्ति। यथैव ममाह्वानशब्दमशृणोत्तथैव स पाकगृहादुत्तरमददात्- 'आम्. श्रीमन्। आज्ञा दीयताम्।’
अहम्- किं पेया ('चाह’) प्रस्तुतास्ति?
हरि.- प्रभो। सज्जाऽस्ति सेयम्।
अहम्- आनयैनाम्।
हरि.- यथाऽज्ञा। अधुनैवोपस्थापयामि।
मुहूर्तमात्रे हरिदास: उष्णोष्णां प्रात:पेयामादाय मत्सम्मुखे समुपस्थितोऽभवत्। शीतेऽस्मिन् प्रावरणं त्यक्तुं न मनोऽभूत्। अत एव तदावृतशरीर एव स्थित्वा पानाय प्रवृत्तोऽभूवम्। यथैव तत्पात्रं हस्तेऽगृह्णां तथैव दृष्टं यत्पेया अतीव रक्तवर्णा जातास्ति। एतावत्पर्यन्तं किल यत् श्यामरङ्गस्यापि सूत्रपात: संजातोऽस्ति। किञ्चित्पानकं कण्ठादध: समवतीर्य, अनुभूतं मया यत् तदेतत् कटु सञ्जातं, न पानं कर्तुं शक्नुयाम्। अतिकष्टेन यथा कथञ्चित् द्वित्रान् चषकान् गृहीत्वा बालकमवादिषम्- ''त्वमतीव मूर्खोऽसि । 'चाह’ पत्राणि किमेतावत्कालपर्यन्तमग्नौ क्वथ्यन्ते? पश्य कटुरियं जाता। गच्छ, नाहं पास्यामि’।
विलक्षणवदनो हरिदासो मन्दमन्दमवादीत्- 'श्रीमान्। पाककर्त्रा 'महाराजेन’ 'चाह’ निर्माणमेवमेव मे शिक्षितमभूत्। क्षम्यतां ममापराध:’।
अहम्-शिक्षितं तव कपालम्। गच्छ शौचपात्रे जलं पूरय। जलमुष्णं स्यात्। बालक: अतीवोत्साहेन अधावत्। शौचालयं गतो यथैव शौचाय जलमादातुं प्रवृत्तस्तथैव पात्रस्य मुखसम्मुखे हस्तं प्रसारयतैव मया उष्णोष्णतमो वाष्प: समनुभूत:। चकित भीतोऽहं हस्तं पृथगकार्षम्। दृष्टं मया-वैद्योपदिष्ट:, अर्द्धावशिष्ट: क्काथ इव तदिदं जल क्वथ्यमानावस्थायामेव पात्रोदरे पूरितमस्ति। कस्यासीच्छक्तिर्यत् पात्रस्य गात्रे हस्तेनापि परामृशेत्, का कथा शौचस्य। तप्ततैलवृन्ताक इव मन: कटाहे भृशतरमदह्ये, परं तस्मिन् काले किमहं कर्तुं शक्नुयाम्। विवशोऽहं मुक्तकच्छावस्थायामेव शुकपञ्जरमिव धौतवस्त्रं हस्ताभ्यां वहन् शौचालयाद् बहिरागच्छम्।
स्नानात्पूर्व तैलावमर्द्दनं कर्तुं हरिदासमादिशम्। प्रतीयते यत् हरिदासस्य सप्तदशपुरुष-परम्परायामपि तैलाभ्यङ्गो न केनचिदनुभूत:। स ह्यतीव शनै: शनैर्मम गात्रे हस्तेन परामृशत्। मया प्रोक्तम्- 'हंहो तात! किञ्चित्तु बलं प्रदर्शय।’
पुन: किमासीत्। इदानीमेतावता प्रबलभावेन तैलमर्द्दनं प्रारब्धमभूत् यन्मम जङ्घयोर्लोमानि पट्पट्शब्दं कुर्वन्ति सवेगमत्रुट्यन्। वेदनया विकलो भूत्वा सचीत्कारमवदम् 'अलमलं भ्रातस्तिष्ठ! तृप्तोऽस्मि तैलमर्द्दनात्, बहुतरं जातम्। इदानीं कृपां विधाय स्नानाय जलमाहर।’
हरिदास: सरभसमधावत् । कतिभिरेव क्षणैर्जलपूरितो द्वौ कलशौ मत्सम्मुखमु-पस्थितावभूताम्। शौचालयपात्रस्य घटनां सम्प्रति मन्मनसि सहसा जागरुकाऽभवत्। तद्भयादेवाऽहमपृच्छम् 'कथय तात जलं तु उष्णं नास्ति?’
हरि.- नैव श्रीमन्। शीतलमस्ति।
स्नानस्य चतुष्किकायामुपविष्टोऽहं शिरसि जलं निपातयितुमाज्ञापयम्। हे भगवन्! जलं किमासीत् मन्ये हिमालयशिखरात् प्रद्रवन्ती साक्षात् हिमानीधराऽवतीर्णाऽऽसीत्। जलधारावरुद्धश्वासोऽहमतिकष्टेन निश्वसन् जलप्रक्षेपमवरोद्धुमिङ्गितमकरवम्। परं मम मुखनि:सृताया आज्ञावाण्या: अग्रे वराकस्य इङ्गितस्योपरि तस्य दृष्टिपात: कथं भवेदेव। मदभिमुखं तस्य लक्ष्यमेव नासीत्। स तु समानभावेन जलप्रक्षेपकर्मणि निलीनोऽभूत्। शीतेन संपिण्डितशरीर: कम्पमानोऽहं बलादुत्प्लुत्य उदतिष्ठम् । किन्तु शिरसि जलकलशोऽभूत् मम मस्तकस्य प्रबलमाघातं प्राप्य हस्तात्प्रच्युत: कलशो नीचैरपतत्। वेदनयेव करुणाक्रन्दनं कुर्वन्नसौ भूमावलोठत्। तस्य शरीरं चिपिटाकारमभवत् , ममापि च मस्तके गोलाकारस्यैकस्य जन्माऽभवत्।
(२)
भोजनं कु र्वन्नासम्। अभून्मम भोज्यपदार्थेषु लवणस्यावश्यकता। किन्तु पाकगृहे आनीतं लवणं नासीत्पर्याप्तम्। अहं हरिदासमाज्ञापयम्- 'भाण्डारगृहे गत्वा किञ्चिल्लवणमानय’।
महतोत्साहेन उच्च्छलन् स त्वरितमेव भाण्डागारे प्राप्नोत्। तस्मात् स्थानादुत्थित: पात्राणां परस्परसंघर्षस्य घोरघोरतर: शब्दो दूरदूरपर्यन्तस्य जनानुद्ग्रीवाँश्चक्रे। प्रतीतमभूद् यत् प्रलयकालस्य भयङ्करो भूकम्प: समुपस्थितोऽस्ति:। निश्चितं मया मनसि- 'अद्य पात्राणां कुशलं दैवाधीनमेव’। पश्यत्येव मयि लवणपूरितं मुष्टिं वहन् हरिदास: सम्मुखस्थोऽभवत्। अवादिषमहम् 'भोजनागारमर्यादातो बहि:स्थ एव भोज्यपात्रे किञ्चिदेतत् प्रक्षिप’। अह ह! अद्भुतमेकं दृश्यमक्ष्णो: समक्षमभिगतमभवत्। मन्ये पत्रावलेरुपरि होलिकाया अभ्रकक्षोदस्य (अबीर) घटा आच्छन्ना भवेत्। हन्त भोज्यानि सर्वाण्येव वस्तूनि लवणवर्षयाऽनया अखाद्याय वा, भोजनोत्साहं महानस एव विसृज्य आसनादुदतिष्ठम्।
वस्त्राणि परिधाय कार्यालयमुपस्थातुं प्रस्थितोऽभवम् किन्तु द्वारमागत्य दृष्टं यत् परिधानीयपुटके (जेब) 'स्वतन्त्रलेखी’ (फौन्टैन पैन) नास्ति। उत्कण्ठितनयनाभ्यां मदाज्ञां प्रतीक्षमाणो हरिदास: सम्मुख एवासीत्। प्रोक्तं मया- 'मत्प्रकोष्ठस्य समुखस्थे एव लघ्वालये मम लेखन्यस्ति। शीघ्रमानय ताम्। किञ्चित्त्वरितं गच्छ। विलम्ब: सञ्जातोऽस्ति।’
स हि एतावता वेगेनाधावत् यत् आगमनसमये अङ्गणपाषाणस्योद्घातमवाप्य अधोमुख: समपतत्। हस्तात्प्रच्युता लेखनी दूरे धराशायिनी समभूत्। तस्या आच्छादनं क्वचित् लेखनी सा क्वचिद्वयलषत्। मया उत्थाप्य दृष्टं यत्तस्या: कृष्णमुखात् दु:खोपचयाच्छ्यामीभूतं रक्तमिव मसीधारा अकाण्ड एव प्रवहन्त्यस्ति। लेखनीमकर्मण्यां दृष्ट्वा, तत्रैव तां विसृज्य कार्यालयमचलम्। लेखनी सेयं बहुमूल्यासीत्। मन्मनसि महद् दु:खं बालकस्योपरि च क्रोध: समभवत्। परं तस्यापि वराकस्य जानुनी संघृष्टे अभूताम्, अधरोष्ठोपरि दन्त: सन्दष्टोऽभूत् यस्माद् रुधिरं प्रावहत् अस्यां दशायां तं प्रति किमहं कथयेयम्, स्वाभाविकी मनुष्यता न मां प्रैरिरत्। क्रोधवशान्निजमनस्येव इन्धनीभवन्नहं कार्यालयाभिमुखं मुखमकरवम्।
कतिभिश्चिद्दिनैर्मम कासस्य विकास: सञ्जातोऽस्ति। वैद्यजगन्मार्तण्डेन श्रीस्वामिमहाभागेन मधुना सह 'चन्द्रामृता वटी’ सेवितुमादिष्टाऽस्ति। दिनं गलहस्तयित्वा सन्ध्या समुपस्थिता। लोका दीपसन्दीपनस्य सामग्रीं समघटयन्, अहमौषधसेवनस्य साधनानि समवलोकयम्। अयमेव निश्चित: समयोऽस्य मया निरधार्यत। एतदुत्तरं तु औषधसेवनस्य मङ्गला (अमङ्गला वा) स्मृतिर्मम मानसपटलात्प्रोञ्छिता भवति। स्मरणोदये सति विलम्बादौषधसेवने तु कृतापराधस्य कर्मचारिणो मासिकवेतनमिव मम भोजनमपि तावत्कालमवरुध्यमानमभूत्। यतो हि वैद्यराजमहाराजेन औषधसेवनाद् घण्टाद्वयोत्तरं भोजनसेवनमाज्ञप्तमासीत्। अस्तु मया हरिदासं प्रत्युक्तम्- गच्छ, मधुन: काचकूपिकां त्वानय’।
वाक्यसमाप्ते: समकालमेव स सवेगं प्रापलायत, काचकूपिकाया: कन्धरां च निष्करुणं करे कलयामास। मदभिमुखमार्गे आगच्छतैव तेन न जाने किं कृतं यत् सर्वं दृश्यमेव परिवृत्तमभूत्। चूर्णविचूर्णीभूता वराकी कूपिका भूतधात्र्यां विश्राममलभत। सम्मुखयुद्धे वीरलीलां गतस्य शूपसैनिकस्यैव पृथग्भूता तस्या: कन्धरा करुणाऽऽवेदनमिवाकरोत्।
सायं भोजनं कृतवतो मम व्यतीयाय कियांश्चन काल:। अहमैषिषं यद् दुग्धमप्यधुनैव पिबेयम्। यस्मिन्समयेऽहं पठने वा लेखने वा दत्तचित्तो भविष्यामि तस्मिन्समये दुग्धपानमिदमरुन्तुदं भवेत्। यस्मिन् समये ब्रह्मानन्ददायिन्या निद्रादेव्या मधुरमधुरमागमनं प्रारप्स्यते तस्मिन्सुसमये जागरित्वा तु तदिदं पय:पानं मधुरमपि घोरतरं कटु प्रतीतं भवेत्। अत एवाहं प्रोक्तवान् गच्छ हरिदास, पाकगृहात्पेयदुग्धपात्रं त्वानय!
हरिणीप्लुतै: पलायमान: स महानसे प्राप्नोत्। दुग्धपात्रं वहन् स मार्गमुल्लङ्घयन्नासीत्। लेखन्यानयनस्य प्रात:कालिकीघटना मम स्मृतौ सहसैवोदियाय। प्रोक्तं मया 'तात किञ्चित् नौचैरपि दृष्ट्वा चलितव्यं भवति। प्रातरिव न पुन: स्खलितो भवे:।’
पानपात्रमिदं मुखपर्यन्तं दुग्धपूर्णमासीत्। यथैव स नीचैर्दृष्टिमकरोत् तथैव हस्ततिर्यग्भावात्पात्रान्निष्पतद् दुग्धं हरिदासस्याङ्गुलीषु प्रावहत्। उष्णोष्णं दुग्धं यथैवाङ्गुलीरस्पृशत् तथैव उष्णस्पर्शाच्चकितस्तदङ्गुलय: पात्रग्रहणे एकवारं शिथिला भूत्वा यावत्पात्रं पुन: साधयन्ति तावत् पिच्छिले दुग्धप्रवाहे पात्रात्प्रस्खलिता: समभवन्। पात्रमेतत् 'छिन्नमूल इवद्रुम:’ अवाङ्मुखमपतत्। आस्थानभवनस्य महामूल्ये आस्तरणे क्षीरसागर: प्रवाहितोऽभवत्। दुग्धस्य दु:खं विस्मृत्य महामूल्यस्य नवास्तरणस्य स्वरूपरक्षायां संलग्रोऽभवम्। परमिदानीं किं भवेत्? प्रबलं प्रवहता पयसा सम्पूर्णोऽप्ययं संस्तर: पाण्डुरङ्गतामनीयत। क्रुद्धोऽप्यहमेतस्य ताडनतर्जनयोर्विचारं विसर्ज्य सर्वप्रथममास्तरणोत्थापनस्य प्रयत्नं स्वहस्ताभ्यामेव प्रारप्सि।
रात्रौ बहुकालपर्यन्तं पुस्तकपठनस्य ममाभ्यासो बहो: कालादेव विरुढ:। प्राय: पुस्तकं पठन्तमेव मां निद्रादेवी संस्पृशति। अस्तु, पल्यङ्कोपरि प्रसारितसमस्तगात्रोऽहं भासस्यैकं नाटकं पठन्नासम्। शिर:प्रान्ते च नात्युच्चायामेकस्यां चतुष्किकायां दीपाधारोपरि स्थितस्तिलतैलस्य दीपक: प्रकाशनकार्ये निस्तन्द्रं सावधानोऽभवत्। शयनात्पूर्वं पठनसमये प्राय: प्रत्यहममिमं स्वदेशिदीपकमेव प्रकाशनाधिकारे नियुनज्मि। रात्रि: सार्द्धद्विप्रहरपरिमिता व्यतीता स्यात्, निद्राणस्य मम निद्रा विद्राणाऽभवत्। निद्राया आक्रमणकाले वक्षस्थलोपरि अधोमुखमापतितं पुस्तकं सम्मुद्र्य, निद्रानिमीलितचक्षुषैव मया हरिदासं प्रत्याह्वानवाणी विसृष्टा। स तत्क्षणमेवोत्थितोऽभवत्, अददाच्चोत्तरं विनयेन- 'आज्ञा?’
आज्ञापयमहम्- दीपकं निर्वाप्य दूरे निधेहि।
सरभसं प्रसृतो हरिदासो दीपकमुत्थाप्य यथैवाऽनयत्। तथैव समस्तमपि तत्तैलं मम मस्तके उपधानोपरि चापतत्। मम निद्रा दूरतरं विद्राणाऽभवत्। अकाण्डकृतेन तैलाभिषेकेण नितान्तमुत्तेजितोऽहं पल्यङ्कास्याङ्कादवप्लुत्य सरभसमुत्थितोऽभवम्। सूचीभेद्येऽपि तस्मिन्नन्धकारे शब्दवेधिनं बाणमिव हरिदासगजस्य गण्डस्थले भीषणबलामेकां चपेटां व्यसृजम्। तस्य फलमिदमभूत् यत् हरिदासहस्तात्प्रच्युतो दीपाधारोऽपि शयनीयस्य सविध एव प्रापतत्। दीपाधारात्परित: प्रच्यवद्भिस्तैलविन्दुभि: शयनीयस्य गात्रमपि मसृणमभवत्। तैलेन मन शिरस्यभिषेकोऽभवत्। शयनीयस्य तु पुण्याहवाचने आम्रपल्लवैरिव बिन्द्वभिषेकसौभाग्यं समभूत्। किन्तु वराको मृत्तिकादीपकस्तु 'मृण्मात्रशेषोऽभवत्।’
मया विचारितं-नाधुना हरिदासाय गृहे स्थानं दास्यामि। हतभाग्यो यस्मिन्नेव कार्ये हस्तं प्रक्षिपति तस्मिन्नेव नूतननूतनं कञ्चिदेकमुपद्रवमुत्थापयति। परं पश्यामि-तस्यापि वराकस्य को वाऽपराध:? स हि निजसामर्थ्यमतिक्रम्य प्राणपणेनापि मत्सन्तोषस्य चेष्टां विदधाति। किन्तु सोऽनभिज्ञ:। सम्यगुपायं न जानाति। येन जनेन यथा शिक्षित:, तस्य बुद्धिसामर्थ्यं च यथा प्रभवति तथैव स परिचेष्टते। मम सन्तोष: स्यात्, अहं तस्योपरि प्रसन्नो भवेयम्, एतत्किल तस्याऽऽन्तरिकमुद्देश्यम्, अस्ति च तदुपरि पूर्णं लक्ष्यम्। किन्तु दुर्भाग्यवशात्स कदापि सफलो नाऽभवत्।
(४)
अहमपि कदाचित् सफलमनोरथो नाऽभवम्। हे प्रभो! हरिदास इवाहमपि भवन्तं प्रसादयितुं प्रत्येकस्मिन् कार्ये चेष्टां करोमि। एतद् ध्रुवं निश्चितमस्ति यन्मम महामहान्त: प्रमादा: पदे पदे सम्भवन्ति। किन्तु हे अन्तर्यामिन्! ममान्त:करणस्यान्तस्तलमुद्घाट्य कृपया किञ्चिद् विलोकय। भवान् मदुपरि प्रसन्नो भवेदेतदर्थं मम हृदये कियानुत्साहोऽस्ति। मम मानसे महत्युत्कण्ठाऽस्ति। यत्कदापि तु भवान् मदुपरि सन्तुष्ट: स्यात्। परं हे जगत्पते! अहमज्ञोऽस्मि, भवत्प्रसादनोपायान्न जानामि। हे चराचरनायक त्वमेव! कञ्चिन्मार्गमादिश। य: कश्चित्मां यादृशं मार्गमुपदिशति, अहं तेनैवाग्रेसरो भवामि। भवत: प्रसन्नताया आश्वासं दत्त्वा य: कश्चिज्जनो मह्यं यादृशीमपि शिक्षां ददाति अहं तदनुसारमेव भवत: प्रसादनस्याशायां महता उत्साहेन पलायमानोऽग्रे गच्छामि।
हे परात्पर! भवत्पर्यन्तं प्राप्तेर्मार्गा अनेकशाखा: महादीर्घाश्च। तेष्वतिधैर्येण गन्तव्यं भवति। अहं हि प्रामाणिकतया प्रसिद्धस्य कस्यचिदाप्तस्यादेशानुसारं यं कञ्चन मार्गं तु तावदवलम्बे परं यथा यथाग्रे गच्छामि तथा तथा दीर्घ: स मार्गो दुर्गमो विकट इव च प्रतीयते। अहं च सुगमताया: आशायां भ्रान्त: सन् पूर्वावलम्बितं मार्गमपहाय द्वितीयं मार्गमाश्रयामि। तमपि मार्गमुल्लङ्घयतो मम मनसि विचार: समुद्भवति- 'नायं मार्गो निष्कटक: सत्यश्च। अनेन हि नाहं प्राप्तव्यवस्थानं प्राप्स्यामि’ इति। हन्त! निजबुद्धिमत्तायाश्चक्रे पतितोऽहं तमपि मार्गं हित्वा पुनर्मार्गान्तरमनुसरामि। हे अन्तर्यामिन्! नाहमिदं निश्चेतुं प्रभवामि यत् यो मार्गो मया त्यक्त: स उत्तमोऽभूत् अथवा अस्मिन् समये यं मार्गमवलम्बितवानस्मि स श्रेष्ठोऽस्ति। हे मायामय! मार्गाणां चक्रभ्रमेऽस्मिन् पातयित्वा मम परीक्षणं सम्प्रति संहरणीयं स्यात्। हे दयार्णव! त्वमेव त्वदिष्ट कञ्चिन्मार्गमादिश, न मे शक्ति:।
हे दीनानाथ! ममाऽनभिज्ञता प्रत्येककार्ये मम बाधिका सञ्जातास्ति। अधैर्यविवशीकृतोऽहमेवंविधां चपलतां कदाचिदनुतिष्ठामि यया हि भवत्प्रसन्नता दूरे, तत्कार्यमेव सर्वं नश्यति। परं हे करुणासागर! मम मूर्खतोपरि दृष्टिं न देहि। भवान् दयामय:। भवतो दयालुतायां मम दृढो विश्वास:। अत एव भवान् निजविरुदं निरीक्ष्य ममापराधान्मनसि नानयेदिति दृढं विश्वसिमि। हे विश्वपते! भवत: प्रसन्नतासम्पादनं न तावत्सरलम्। महामहान्त: सिद्धा महर्षयश्चापि निजचातुर्यबलेन भवन्तं प्रसादयितुमिच्छन्ति, परं न तत्र प्रभवन्ति। यदि त्वमेव स्वेच्छया प्रसन्नो भवितुमिच्छसि तर्ह्येव कश्चित्त्वां प्रसादयितुं प्रभुर्भवति। एवमवस्थायां मम का शक्ति:? अहं हि स्वाभिमानस्य स्वाज्ञानस्य वा कारणेन, त्वत्प्रसादस्याशायां प्रत्येकपदे भवतो विरागभाजनं भवामि।
हे दयामय! ममेमामज्ञानतां तामसं मोहान्धकारं चापनीय ज्ञानप्रदीप: पुरत: प्रकाशनीय:। अहं धर्मम्, अर्थं, कामं, मोक्षं वा किमपि न वाञ्छामि। अहमिच्छामि केवलं भवन्तम्। मम बहो: कालस्योत्कण्ठा यद् भवान् प्रसीदेत्। मम निश्चयश्चायं जातो यन् मत्प्रयत्नेन किमपि न सेत्स्यति।यदि भवानेव मयि दयालु: स्यात्तह्र्येव मम नौका संसारार्णवस्य पारं गच्छेत्। हे अशरणशरण! मम बलं वा अवलम्बो वा सर्वस्वं भवानेव। केनोपायेन भवद्दर्शनं भवेदिति हे स्वामिन्! त्वमेव मामाज्ञापय।
भ्रमन्तं भूरि संसारे मुरारे! पाहि दीनं माम्।
पदाब्जे ते विलोठन्तं द्रुतं संयाहि दीनं माम्।।१।।
न भाग्यं तादृशं यत्ते विलोके रूपसौभाग्यम्।
धिनोति ध्यानसौख्यं मे सुधासंवाहि दीनं माम्।।२।।
अविश्रान्तं प्रतीक्षातो नितान्तं श्रान्तचित्तोऽहम्।
दयालो! दृक्सुधासारैर्नवं निर्माहि दीनं माम्।।
श्रुतीनां भूरिभूतीनां विकल्पैर्दिग्विमूढोऽहम्।
कथङ्कारं विलोके त्वां मनागाख्याहि दीनं माम्।।
कृपापीयूषलेशार्थं प्रयस्यन् दूयमानोऽहम्।
निलीनं द्वारदेशे ते न प्रत्याख्याहि दीनं माम्।।
दयामालम्ब्य ते भूमन्! सनाथो मञ्जुनाथोऽयम्।
इदानीं त्वद्वशोऽहम्, पाहि मा वा पाहि दीनं माम्।।६।।