हीरक:
लोकातिशयिगुणशालिभिरप्यकस्मा-
दासाद्यते न कुहचिद् गुणतत्त्ववेदी।।
कश्चन लोकोत्तरगुणशाली विद्वानात्मनोऽसाधारणगुणानां तत्त्वत: समादरकारकं गुणग्राहिणं विगुणदैववशादलभमान: स्वजीवनवृत्तं वैराग्यात् 'हीरक’ कथामिषेण वर्णयति-
अहं हीरक:। 'वज्रमणि’रिति नाम्ना महानादरो मे रत्नसमुदाये। अहं न केवलो मणिरेव, अपि त्वन्येषामपि मणीनां वास्तवमणित्वसम्पादनं प्रायो मदायत्तम्। रत्नत्वाभिमानिनां तेषां कर्णवेधनमेव किम् लोकोत्तरं हृदयवेधनसंस्कारमहमेव सम्पाद्य अन्यान्यरत्नै: सह एकसूत्रतासुविधां विदधामि, येन ते गुणग्राहकाणां सम्राजामपि हृदये खेलन्ति। कथयति महाकवि: कालिदास:- 'मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गति:’ इति। किन्तु ये मम महिमानं विदन्ति तेषामेव कृतेऽहं हीरक:। त एव मे मूल्यं जानन्ति। ये तु वराका मां न शक्नुवन्ति परीक्षितुं तेषां सम्मुखे किं मे मूल्यं भवेत्? तेषां हि कृतेऽहं पाषाणमात्र:। इयं मे कान्ति: इयमसाधारणी चमत्कृतिस्तेषां समक्षेऽन्धस्य कृते दर्पण इव सुतरां व्यर्था।
कीदृशं घोरं तप: समनुष्ठाय मया सेयमुज्ज्वलता समधिगतेति मे हृदयमेव वेद। कियतीर्वा यातना: सहित्वा तदिदमुज्ज्वलं रूपं मया समवाप्तमिति कथमन्यो जानीयात्। पृथिव्या गर्भे स्थित्वा पर:सहस्राणि वर्षाणि प्रचण्डज्वालायामात्मानं दग्ध्वा तदिदं दृश्यमानं सौन्दर्यमुपलब्धं मया। किं यूयं 'किबर्ली’ स्थानं कदाचिदुपगतवन्त:? मन्ये, बहुभि: पण्डितमहोदयै: तन्नामापि न श्रुतं स्यात्। दक्षिणाऽऽफ्रिकादेशे 'किबर्ली’ नामकं प्रसिद्धं नगरम्। तत्रैवाहं निजजन्मभूमितो बहिरभवम्। पाताल इव पृथिव्या अतिगभीरेऽन्तस्तलेऽहमासं समाधिनिमग्न:। किन्तु निजपरिस्थितौ ममाऽऽसीत् पूर्ण: सन्तोष:। अहं सम्यगजानां यत् 'येषां मे गुणपरिचय: ते एकस्मिन् दिनेऽवश्यं मां समाधिस्थानात् बहिर्नि:सारयेयु:’ इति।
यद्यद्य मे जन्मस्थानं गत्वा भवन्त: पश्येयु: तर्हि अवश्यं वो विस्मय: समुदयेत्। तत्र हि महतीनां शिलानां विपुलानां गण्डशैलानां च राशय: परितो निबद्धा:। पर:सहस्रा: खननकर्तारो भृत्यास्तत्र प्रत्यहं कार्यं कुर्वन्ति। एषामुपरि तेषां कार्यनिरीक्षका अपि पर:शता:। अस्तु, किमनया कथया। भूगर्भाद् बहिर्नि:सृतमात्र एवाहमेकस्य व्यवसायिनो हस्तगतोऽभूवम्। स हि परमसमादरेण मामनयन्निजसमीपम्। एकतो गुणानुरागिणस्तस्य हृदये प्रतिपदं शङ्काऽभवत्। यन्मां कश्चिदपहरेदिति। पर्यन्ते धनलाभलुब्ध: सोऽपरस्य व्यवसायिनो हस्ते मां वक्रैष्ट। एष हि मां भारतवर्षं दर्शयामास। परन्त्वत्रागतमात्रमेव मां चतुर एकश्चौरवर: तं व्यापारिणं वञ्चयित्वा बलादपाहरत्। साधुवेषाच्छन्न: स हि गङ्गातटे निवासमकल्पयत्। आसीदमुष्येच्छा यत् कतिपयवर्षानन्तरं चौर्यकथां विस्मृतवत्सु जनेषु कस्यचिद्धनिनो व्यासायिनो हस्ते मां विक्रीणीयेति। एष मां पुनर्भूतलसमाधिमकारयत्। किन्त्वेकदा गङ्गाया: पूरोपप्लवेऽहं तत: स्थानात् प्रवाहितोऽभूवम्। प्रशान्ते च जलोपप्लवे मृद्गर्भनिमग्न: तटसमीपेऽहं निपतितोऽभवम्।
गङ्गासमीपे पतितस्य मे व्यत्यगु: कतिपयवर्षाणि। पर:सहस्रा: यात्रिण: समागता निर्गताश्च। न ममोपरि कस्यचित् दृष्टिरपतत्। पर: शतै: पुरुषैरहं पद्भ्यामवमर्दित: तिरस्कृतश्च। किन्तु सर्वमवमानं मुद्रितमुखोऽहमसहिषि। अगमयमहमेवमवस्थ एव बहूनि वर्षाणि।
एकदैक: सन्यासी तेन मार्गेण गच्छन् सहसा मामपश्यत्। स हि साधारणं चमत्कृतपाषाणमात्रं बुद्ध्वा मां निजझोलके न्यपातयत्, अभावयच्च यदनेन कञ्चन बालकं प्रसादयिष्यामीति। अस्तु, वत्सरं यावदहमवात्सं संन्यासिन: कलिलकन्थायाम्।
स चैकदा कस्यचिन्निजसेवकस्य गृहमयासीत्। आसीत् स कृषीवल:। एष निर्गते गुरौ सोऽयं गुरुदेवस्य प्रसाद: स्मारकचिह्नं चेति मत्वा स कृषीवल: सबहुमानं मां निजगृहेऽतिष्ठिपत्। परन्तु अज्ञानाद् बालका: कदाचित् प्रक्षिपेयुरिति भयेन स मां निजलाङ्गलस्य मुष्टिकायामयोजयत्। दुर्भाग्यादहं द्वे वर्षे क्षेत्रात् क्षेत्रमभ्रमं विषण्णतम:।
दैववशादेको वैकटिकस्तं ग्राममागच्छत्। लाङ्गलमुष्टिनिविष्टं माम् अकस्मादवेक्ष्य स समभूत् विस्मित:। अपृच्छदसौ कर्षकम्- 'भद्र! क्वायमासादितस्त्वया पाषाण:’ इति। गुरुदेवेनायं प्रसादीकृत:। स च गङ्गाजनन्या: क्रोडादिमं समाहरत्।’ इति स प्रत्यभाषत। रत्नपरीक्षको मां तत: क्रेतुमैच्छत्। किन्तु गुरो: स्मारक: प्रसाद: सोऽयमिति मत्वा नेदमन्वमंस्त कृषीवल:। किन्तु दीन: कृषीवलो धनसम्प्रहारसम्मुखे कियद्वा तिष्ठेद्वराक: शतस्य मुद्राणां झणत्कारमाकर्ण्यैव स मां वैकटिकहस्ते प्राक्षिपत्। हलमुष्टितोऽवतार्य रत्नवणिजा रौप्यसमुद्गकस्याऽभ्यन्तरेऽहं निवेशित:। किन्त्वपमानेन मे हन्त हृदयं व्यदीर्यत। रत्नानां परीक्षकेणाप्यनेन मम मूल्यमेतावन्न्यूनीकृतमिति दु:खं मे सुतरामसह्यमभवत्।
गृहमुपगतेन तेन सप्रमोदं समुद्गकमुद्घाट्य यदाऽवलोकितं तदा मामिमामवस्थापन्नं समभिवीक्ष्य स शिरोवघातमरोदीत्। अवादीच्च 'सखे, हीरक, एतावन्तं कालं पादेषु लुण्ठस्त्वं न हुङ्कारमात्रमप्यकरो:। गङ्गायास्तटे पादघातं तिरस्कृत:। यतिकन्थायां सावज्ञं निपातित: ततो मूर्खेण कृषकेण हलमुष्टौ प्रतिष्ठापित:। सर्वमिदं भवानसोढ मुद्रितमुख:। किन्तु महान्तमादरं लम्भितो मया भवान्। परं तस्य मे समादरस्य किमिदमेव प्रतिफलम्?
क्षीणे स्वरे-एतावत् क्षीणे स्वरे-यत्सोऽयं स्वरस्तेन वैकटिकेन श्रुतोऽपि न वा इति ममापि सन्देह एव मया प्रत्युक्तम्, 'मया जीवने समादरोऽपि प्राप्तोऽवमानोऽपि। धनिकै: शिरसाऽहं सम्मानित:। चौरेण, निजप्राणान् सङ्कटे निपात्याहमात्मसात्कृत:। ये मां पर्यचैषुस्ते मदुचितं मूल्यमप्यदुरिति स्पष्टोऽयं मे सम्मान:। अवमानस्तु तेभ्यो लब्धो ये मां वराका न प्रत्यभिजानते स्म, किन्तु रत्नपरीक्षकेणापि सता भवता मम मूल्यं शतमुद्रामात्रं निश्चितमिति दु:खेन मे वक्षो विदीर्णम्। ममैभिर्विप्रकीर्णै: कणैरपि भवान् परस्सहस्रा: समुपार्जयेन्मुद्रा:। परमेतावन्तमवमानं सोढ्वा मम जीवितयापनं कीदृशाय वा सौख्याय!’
मकार-महामेलकम्
मन्यामहे मान्यमनीषिणां मानसमुदन्तेनामुना महान्तं मोदमासादयेद्यन् मालवमण्डलान्तर्मन्दसौरमेदिन्यां माघमासस्यामायां मङ्गलवारे मकाराणां महामेलकमेकमघटत। मेकलकन्यकाया मार्गे मध्यदेशी-'मित्रमण्डलेन’ मनोरमो महान् मण्डपोऽमण्ड्यत। महोत्साहिभिर्मानवैर्मार्गमासस्य मध्ये मण्डनमिदमारभ्यत। मण्डलेश्वरमीमांसनाय माघमासस्य मुखे मान्य-मान्यमकाराणां मण्डलं मथुरायाममिलत्। मण्डलेऽमुष्मिन् मण्डलेश्वरमन्त्रणामादाय मनस्विनामपि मिथो मनोमालिन्यमजनि।
मध्यदेशीयमकाराणां मतमासीत्, 'महनीयो महाराजमकारो मण्डलेश्वरतामावहत्विति’। मरुदेशीयमकाराणां मतमभूत्, 'महोपकारकतया मेघमालाया मकारो मण्डलेश्वरतामधितिष्ठतु। मद्रमण्डलस्य मन्त्रणया माधुर्यमकारो महामोदमाविष्कुर्वन् मार्तण्डमकाराय मण्डलेश्वरतामत-मदात् 'मेघमालायामप्ययमेव मूलमिति।’ मार्मिकम्मन्यैर्मागधमकारैर्मौलिमुत्थाप्य मन्त्रणमदीयत्- 'मारको मार्तण्डमकारो मानमिममासादयितुमनर्ह:।’ मुखरो मुरलीयमकारो मुखमुदघाटयत्- 'मतमिदं मार्तण्डमहिमनि मात्सर्यमात्रमिति।’ मानी मरुकच्छीयमकारो मुखमरुणीकृत्य मदोत्कटमवदत् 'मेलनार्थमागतानां मात्सर्यमयमवहेलनमनुचितं मन्यामहे।’ महामन्युर्मौसल-मण्डलीयमकारो मुद्गरमुत्तोल्य मंक्षु मञ्चमारुरोह- 'मिथ्यामानिनां मदमयमहमाहरेयमिति’’।
मनस्वी महाराष्ट्रमकारो मिथो मन्युमुद्भवन्तमालोक्य मतमीमांसायामस्यामन्यं मार्गमुद्भा-वयन् मण्डलमध्यमागत्य मन्देतरमूचे- महोदया:! मृषा मन्तुमिमं मुञ्चन्तु। महाशयानामवधानं मान्याऽमराणामभिमुखमाकर्ष्टुमीहे। मान्यमूर्द्धन्यो महेश्वरमकारो मानमेनमधिगच्छत्विति।
मण्डलमभितो मनाङ् मौनमलक्ष्यत। मुहूर्तमात्रमतिवाह्य मार्मिको मालवमकारो मन्द्रमावेदयत्- महेश्वरीयमकारं मूलतो महतो मकारमेव मन्यामहे। मन्ये, मर्मेदमन्येऽपि मन्येरन्।
मूकमासीन्मण्डलम्। मित्रमानी मलयमकारो मनोगतमाविश्चक्रे - 'मुरारिमकारमहमु-पस्थापयामि’’।
मञ्चमास्फाल्य मरुदेशीयमकारो मनोभावमुदैरयत्- 'मुरारिमकारमपि मर्मतो मुरमकारमेव मानयाम:।
महोदय! मोहमिमं मार्जय। मनुजमर्दकं मुरमपेक्ष्य मन्ये महनीयो महान्’।
महत्या मन्त्रणया माधवमकारस्य मण्डलेश्वरत्वमङ्गीकृतमभूत्। मौनमालम्बमाने मण्डले मधुरमार्मिको मत्स्यदेशीयमकारो मञ्जीरमिवामुञ्चन्मन्दमगुञ्जत्- 'माधवमकारोऽपि माया-मकार:।
मार्मिकीमुक्तिमिमामवगम्य मोदमलभन्त मार्मिकमकारा:। मिथे मन्दमहसन्मित्राणि।
मास्तु मुधा मांसलता। मार्मिकमीमांसायामवसितायामन्ते मुकुन्दमकारस्य मण्डलेश्वरत्वमवधारितमखिलै:।
मेलकमिमं मण्डयितुं मङ्गलमुहूर्ते मन्दिरान्मन्दसौरमचलन्मण्डलेश्वर:। मार्गे मित्राणामर्हणामङ्गीकुर्वन्, महतामाशिषमायच्छन् मरुत्तरेण मेलकमहीमाप्तवान्मण्डलेश:। मरुत्तरमवरुह्य माननार्थमभिमुखमुपस्थितानां मालवमण्डलीयमहाजनानामभ्यर्हणामूरीकृतवान्। मन्दसौरीय-महाशया महता मोदेन मण्डलेश्वरस्य मङ्गलागमनमभ्यनन्दन्। मुक्तामणिमण्डितं मातङ्गमधिष्ठितो महामूल्यमश्वमारूढानामनुगामिनां महन् मण्डलमनुकर्षन्मण्डलेशो महाद्युतिमुपपयौ। मार्गे मार्गे मठे मठे मन्दिरे मन्दिरे मुदितैर्मानवैर्मञ्जुलमालाभिर्मुण्डितो मध्यान्हे महामण्डपमिममाससाद।
मण्डपमेदिनीमायात्येव मण्डलेश्वरे मड्डु-मृदङ्ग-मर्दलादयो मङ्गलमधुरमनदन्। मुख्यमासनमलङ्कुर्वति मण्डलेशे माणवका मन्त्रैर्मङ्गलमाचरन्। मरकतमुक्तामाणिक्यादिमण्डिता मान्यमहिला माङ्गल्यं मनोरममगायन्। महामना मालवीयमहोदयो मण्डलेश्वरमुरसि मालतीमालया मण्डयामास, मौलिमुकुटे मल्लिकामुकुलमयोजयत्। मन्दं मन्दमुत्स्मयमानो मण्डलेश्वरो मञ्चमध्यधिष्ठाय महत्त्वमयमिदानीमभाषणमात्मनो मन्द्रमनोज्ञमारेभे।
माधुर्यमाञ्जुल्यमार्दवादिमहिम्रा मोहितमनस्विमानसा मङ्गलमनोज्ञमूर्तयो मनीषिमानितमाहात्म्या मामका मकारमहाभागा:! मालव-मलय-महाराष्ट्र-मद्र-मरु-मुरल-मत्स्य-मान्दार-मेरुमुखानि मेदुरमहीमण्डलानि मण्डयतामत्रभवताममितमिमं महिमानमुन्मीलयितुं महितमेधसो मुनयोऽपि मौनमालम्बन्ते, मन्दमनीषस्य मादृशस्य मुखमिदमावर्णने महत्त्वमधिगच्छेत्? मान-मेधा-मन्त्र-मति-महिम-मैत्री-महैश्वर्याणां मूलमिमं मकारं मेदिनीमण्डलमिदमखिलमवैति। मान्यमूर्द्धन्यानामार्याणां मन्त्र-मख-मूर्तयो मकारमाश्रयन्ते। मारुति-मघव मनोज-मधु-मुख्या महावीरा मनु-मरीचि-मान्धातृमुख्या महौजसोऽपि मकारायत्ता:। मार्तण्डमृगाङ्कौ मुखमस्याऽवेक्षेते। मेरुर्मही च मकारमेवालम्बते। मस्यैव महिम्ना मनुजो मनुज:। मकारमन्तरा मतमनुजत्वमेतस्य। मस्यैव माहत्म्येन महीश्वरो महितो मानवानाम्, मकारमृते मार्ग्यतामहीश्वरत्वमस्य। मकारस्यैव मायया मन्त्रावली महनीया। मकारमपहाय मलिनामन्त्रावलीमीक्षामहे।
मन्थरमीक्ष्यतां मार्मिकै:-मकारमक्षरमैत्र्यामपि मधुरमुदीरयन्ति महाकवय:। मार्ग्यतामन्यत्- मुनिमते मकारमिमं मङ्गलामाचक्षते। मण्डितमूर्द्धानमिममङ्कनेऽपि मधुरमूर्तिमक्षरमालायामखिलायामस्यामालोकन्ते मानवा:। मकारममिश्रमक्षराणां मूर्द्धानमधिरोहयन्ति मार्यादिका:। मातृकायामुभयमधिष्ठानमुपदिष्टमस्यैव। मानिनां मानमूलं, मुखे मुख्यतममङ्गमामृष्टमनेनैव मनुजानाम्। माहात्म्यमिदमुपलब्धमन्येन?
'मणिमुकुटमञ्जीरमेखलामुद्रिकादि-महार्हमण्डनमञ्जूषायामस्यैव मुद्रा। मातृमातामह-मातुल-मातृष्वसेय-मित्रादीनां मानमर्यादायां मकारमादिममीक्षन्ते महामतय:। माधव-मुनीन्द्र-मृत-मन्मथादयो मकारमर्ग्यमादायैव मानवानामभ्यर्हणामर्हन्ति। महेश्वर-महेन्द्र-महासेन-महाशयानामेव मा मन्यध्वम्, महत्त्वमात्रमधीनमेतस्य। मौलिकमहत्त्वमिदमालोचयन्तु मनाक्, मङ्गलमिव मरणमपि मुष्टिगतमेतस्य मकारस्य। मधुरमन्वीक्ष्यतामिदम् - मूर्च्छन्मधुरमहिममनोहरेषु मिलन्मरन्दमाकन्द-मन्दार-मधूक-मालूर-मातुलुङ्ग-मुचुकुन्दादिमहितमहीरुहेषु, मलयमरुन्मनोज-माधविकामण्डपेषु, मधुरामोदमांसलेषु माघीयमालतीमरुबकमदनमृणालेषु, मुदितमरालमल्लिकाक्ष-मिथुनमञ्जुलेषु मेदुरमृगाङ्कमरीचिमाद्यन्मन्दाकिनी-मधुरमण्डलेषु, मोदते मकारस्यैव महिमा।’
मेलकमालोकयितुमागतानामीक्षकाणामेको मन्दमुपहस्य मध्ये मन्द्रमवोचत्- ''मर्कटमकरादिषु मूर्खता-मिथ्यादिषु, मद्य-मांसादिषु मलिनेष्वपि मकारमहोदयो मूर्तिमात्मीयामाविष्करोत्येव।
मनसि मुदमावहतामेषामट्टहासमेघमाला मण्डपमाच्छादयामास।
मकारमहाशयानां मण्डलमक्षुभ्यत्। मार्मिकाणां मानसमुत्तरमर्पयितुमुदकण्ठत, मानिनामान्तरे मालिन्यमुदैत्।मत्सरिणाममर्षमीलितमभून्मन:। मनस्विमकारो मन्दमन्दमधरमदशत्। मल्लमकारो मुद्गरमस्पृशत्। मुसलिमकारो मुसलमलोकयत्। मुखरमकारो मुष्टिमबध्नात्। महारुद्रमकारो मौलिमान्दोल्य मन्युमदर्शयत्।
मण्डपे मन्युमेघावलीमिमामुत्थितामालोक्य मण्डलेश्वरो मञ्चमध्यमागत्य मण्डपमभितो मुखमभ्रमयत्। मण्डलमात्मीयमधुना मौनमालम्बितुमादिशत्। मेलकागतानामुट्टङ्कनामिमामुत्तरयितुमेवमारेभे-
''मलिनमिदमुत्तममिदमिति मिथ्यामानवतां मानवानामेव मन्थरा मति:। मनुजानामात्मनि, मानं, मर्कटादीनामवमानममूलकं मन्यन्ते मार्मिका:। मौलिकमीमांसायामखिलमिदमेकम्। मार्मिकमनीषिणामन्वेषणा मर्कटमेवेमं मानवस्य मूलमाख्याति। मर्कटममेध्यमाचक्षाणा मन्ये मारुतिमूर्तिमिमामर्हयन्त्येव। मद्यमांसादिमकारमण्डलमपि मातृमण्डलमर्हयतां मार्गे मेध्यमाम्नातम्। मलमवमानेन मिषदभिर्मलाधिष्ठानमिदमङ्गमिति मनीषिणामुदीरितमश्रुतं मन्ये। माऽस्तु मोघा मीमांसा। मुनीनामभ्यर्हणीयमखिलेशमिव मकारमिममुत्तमे मध्यमेऽधमेऽपि मिलितमालोकयध्वमध्यक्षम्।
मीलनमुपयाति मार्तण्डे मेलकमिदमवसितमभूत्। मेलकार्थमागतानामभिनन्दनेन, मित्राणामुरसि माल्यावमोचनेन, माणवकेभ्यो मोदकानामर्पणेन मङ्गलमावसानिकमन्वष्ठीयत।
महामण्डपमिममभितो मेलकमुपलक्ष्य मिलितानामनेकमण्डलानामनेके मण्डपा महोत्साहिभिर्मधुरममण्ड्यन्त। मण्डलमुख्यमेलकमिदानीमवसितमवगम्य मण्डलीयमहोत्सव’ मकल्पयन्मण्डपेषु। मद्रमण्डलीया मल्लमेलनमाह्वयन्। मालवीया 'मित्रमण्डल’ मध्यवेशयन्। मत्स्यमण्डलीया महाकविमहोत्सवमघटयन। मानमहीपमुपस्तुवतामेषामियमुक्तिर्मण्डप-मिममुपगतानमोदयत्-
''मत्तारातिकुलस्य मानहरणो मित्रार्तिचिन्ताहरो
मीलन्मानिजनेषु मुक्तविभवो मूर्द्धाभिषिक्ताग्रणी:।
मेधावन्मनुजेषु मैत्रमधुरो मोघेतरश्रीसखो
मौर्वीभृन्महिपेषु मञ्जुमहिमोन्म: स्यात्स मानप्रभु:।।’’
रूप्यकरामस्यात्मकथा
मम नाम रूप्यकशर्मा। अभिजनो भारतवर्षम्। निवासस्थानमिदन्तयाऽनिर्देश्यम्। यतोऽहं सर्वत्र सञ्चरामि। यद्यपि केचित्कृपणमतयो मां निगडयित्वाऽन्धकूपे स्थापयन्ति, परमहं शीघ्रमेव तस्मादपि स्थानात्स्वैरं बहिर्न्नि:सरामि। मम गतिं न केचिदपि रोद्धुं प्रभवन्ति। विष्णुरिवाहं सर्वग: सर्वभर्ता च। मम मत्कुटुम्बिनां चादिम उद्भवो रजतखनिरस्ति। अहं हि तस्यां खनावनन्तकालान्निमग्रोऽभवम्। मम हि समन्तात् 'आसीदिदं तमोभूतम्’। संसारे कुत्र किमासीदिति नासीन्मे विदितम्। अहमिदानीं सर्वत्रगामी, सर्वज्ञानसम्पन्नश्चास्मि, परं तस्मिन्काले पङ्गूकृतपराक्रम इव मूढमवस्थितोऽभूवम्। शनैर्मम मन:स्फुरणमभूत्- 'एषोऽहं बहि: स्याम्’ इति। परमहं तस्मादन्धकूपादात्मना बहिर्नि:सर्तुं न किञ्चिदपि प्राभवम्। नासीन्मे साम्प्रतमिव तदा ह्येतादृक् समुज्ज्वलं रूपम्। तदाहमव्यक्तलक्षण इव रजतराशिरूपे गूढमवस्थितोऽभवम्। तस्मिन्सन्तमसे निमग्रस्य मम यादृशं दु:खमासीत्तन्मे मानसमेव वेत्ति। अस्तु-प्रकृति: किल लीलामयी प्रख्यायते। एषा हि प्रतिक्षणं नवनवानि परिवर्तनानि दर्शयति। कस्यचिदपि दिनानि नैकसमानानि यान्ति। सुखान्तरं दु:खं दु:खोत्तरं च सुखमिति सर्वदैव सर्वैरेवानुभूयते। प्रकृतिप्रवाहप्रतितस्य तस्य ममापि दशापरिवर्तनमभूत्। संसारे यथा मम जन्माऽभवत्, सा कथैव सम्प्रति प्रस्तूयते।
एकदा एको मलिनवस्त्रवाही कर्मकरस्तस्मादाकरात्खनित्वा रजताकारे गूढमवस्थितं मां तस्मादन्धकारमयात्स्थानाद्बहिरानयत्। खण्डखण्डानि मृत्तिकामलिनानि ममाङ्गानि एकस्यां बलीवर्दशकट्यामस्थाप्यन्त। सा शकटि: शीघ्रमेव दिल्लीराजधानीं प्रति प्रस्थिताऽभवत्।
दिल्लीराजधान्यां तस्मिन्समये यवनसम्राज औरङ्गजेबस्य शासनमासीत्। स हि सम्राड् मादृशेषु क्रूरतर: समाख्यायते। शीघ्रमेवाहमग्नौ पातितोऽभवम्। अग्नौ पतितस्य मम सर्वाण्यप्यङ्गानि छिन्नभिन्नान्यभवन्। हन्त! हन्त! य: सम्राट् निजभ्रातॄनपि निपोथयन् न दयाञ्चक्रे तस्य शासने मम सेयं दशा भवेदत्र किमाश्चर्यम्? परं मदर्थे कृत: सोऽयमपकारोऽपि मत्पक्षे हितावहोऽभवत्। मम शरीरे विलग्नं समग्रमप्यवकरजातमग्रिविशोघनात्पृथगभूत्। शतसहस्रवर्षेभ्य: सञ्चितममात्मनो मूलं स हि तनूनपाद् भस्मीचकार। वेदभगवता सत्यं सत्यमुक्तमस्ति- 'नाऽतप्ततनूर्भद्रमश्रुते’ इति। तप्ततनोर्ममापि रूपं दिव्यमभूत्। मत्कान्तिरन्धकारमयमपि तद्गृहमुज्ज्वलीचकार। तादृक् तेजोमयमात्मनो रूपं दृष्ट्वा मम नितान्तं हर्षोऽभवत्। किन्तु दुर्जनसङ्गस्य यत्फलं सर्वैरवाप्यते ममापि भाग्ये तद्दुष्परिहरमसिध्यत्। मम पृष्ठे तप्ततप्ता राजमुद्रा उदकीर्यत, यस्यां हि पिपीलिकापदसदृशानि कस्याश्चन लिपेरक्षराणि संलग्रान्यासन्। अस्तु भाग्येन यद्दु:खं दर्शनीयं तत्किल मया सोढमेव किन्तु सर्वातिशायी विषादो मम तदाऽभूत् यदा हि तप्ततनोरपि मम मूल्यनिर्धारणमभूत्। हन्त हन्त मम ललाटे षोडशाणकमात्रं मूल्यं तप्तमुद्राङ्कितमक्रियत। पृष्ठे च मम जन्मसम्वत्सरो राज्यशासनसङ्केतश्च चिह्नितो ऽभवत्।
यत्किञ्चिदस्तु सर्वविधं दु:खं सोढ्वापि मम मनसि य: प्रमोदोऽभूत्तस्मिन् स्वजातिविजयस्य राजपताकान्तर्हिताऽस्ति। यवनसम्राडौरङ्गजेबो हिन्दुसंस्कृते: परमो विरोधी। स हि हिन्दुभ्यो जजियानामकं धार्मिककरं गृह्णाति। आर्याणां धर्ममर्यादा: सावहेलं मथ्नाति। परं मया सोऽपि विजित:। यावनधर्माग्रहमयेऽपि तस्य शासनसमये संस्कारविलोपस्य का कथा, मध्येराजप्रासादं दुन्दुभिघोषपूर्वकं मम द्विजातिसंस्कारोऽभवत्। एकवारं मम खनेर्जन्म, अग्रौ विलापनेन संस्कारोत्तरं द्वितीयं जन्म। मम द्विजातिभावे किमु कोप्यक्षरमुखो विप्रतिपद्येत? ब्राह्मणादय: किल मातुर्गर्भादेकवारमेव वास्तवं जन्म लभन्ते। द्वितीयं जन्म तु मन्त्ररूपाणि कियन्तिचिदक्षराणि मुखादुच्चार्यैव, नाममात्रार्थं भवति। यत्राग्निर्वराक: केवलं साक्षिभूत एव भवति। वर्तमानसमये तु अक्षरोच्चारणरूपोऽपि स द्विजत्वसंस्कारो वास्तव एव नाटकरूपेऽभिनीयते, वदत, कीदृशं तेषां द्वितीयं जन्म? एवं सत्यपि ते भूयसाऽभिमानेन आत्मनो द्विजत्वं सर्वत: प्रख्यापयन्तो दृश्यन्ते। अपि मम द्विजत्वसंस्कारस्य विरोधं कर्तुं तेषां मुखमुन्मुद्रितं भवेत्? मम हि प्रत्यक्षं द्विवारं शरीरस्यैव जन्म भवति। ममेव ब्राह्मणादिद्विजातीनामपि यदि शरीरमग्रौ निक्षिप्येत तर्हि द्विजत्वसंस्कारस्य का कथा, और्ध्वदैहिकसंस्कारोऽपि तदैव भवेत्। अस्तु, मम द्विजत्वसाक्षिणो नैको वा द्वौ वा। मत्समकालमेव कृतसंस्कारा: सन्ति मम पर:सहस्रा भ्रातरस्तत्साक्षिण:। द्विजत्वसंस्कारस्य प्रत्यक्षप्रभावोऽस्माकं शरीरेषु स्पष्टमद्यापि प्रतिभासते। यतो हि कृतसंस्कारा वयं सर्वेपि भ्रातरो रङ्गे रूपे आकारे गौरवे मूल्ये सर्वतोऽपि समाना:। किमेवमन्येषु द्विजातिषु सोऽयं प्रत्यक्षप्रभावो विलोक्येत?
अस्तु कृतसंस्कारा वयं सर्वेपि भ्रातरो राजभवनमनीयामहि। तत्र च सुदृढेषु दोरकजालमयेषु वस्त्रगृहेषु पूरिता अक्रियामहि। अन्धकारमये खनिगृहे न जानीमो वयं कियत्कालादारभ्य निगडिता अभूम, परं तस्मिन्समये अज्ञातवासस्य तावद्दु:खं नाभवत्, यावदस्मिन् समये स्वल्पकालस्यापि निगडनदु:खं सहनीयमभूत्। एकस्मिन् दिने, अस्माकमधिकारिणाऽऽगत्य अस्मत्समक्षमेव सेनाध्यक्षाय प्रोक्तम्- 'बीजापुरे घोरयुद्धं प्रचलितमस्ति। तत्सहायतार्थं सम्राडाज्ञया विंशतिसहस्ररूप्यका इतो दक्षिणापथं गमिष्यन्ति। रक्षकमश्वसैन्यं सह नीत्वा भवानेताँस्तत्र प्रापयतु। यात्रासम्भारमद्य रात्रावेव कल्पयित्वा प्रातरेव इत: प्रस्थितो भव’। एनं सम्वादमाकर्ण्य सर्वेषामेवास्माकं हृदयमकम्पत। नवीनस्थानदर्शनस्य यदौत्कण्ठ्यमासीत्सर्वं तद्विलीनमभूत्। तत्र युद्धस्य नाम श्रुत्वा सत्यं सत्यमेव वयं सन्त्रस्ता अभूम।
प्रातरेव वयं त्वरितगामिनीर्घोटकशकटीरारुह्य दक्षिणयात्रामकुर्म। सुदृढघोटकारूढा द्विशतमश्ववारा नग्रखड्गान् स्कन्धे वहन्तोऽस्माकं रक्षणसेवायां परितोऽचलन्। तदधिपति: सावधानमस्मासु दृष्टिं निक्षिपन् सर्वेषामग्रतोऽचलत्। यथैव वयं दक्षिणसीमायां पदं निक्षिपामस्तथैवास्माकमुपरि सहसा विपदा पदमक्रियत। एकदा सायंसमयात्पूर्वमेव सभयं कम्पमानेन रक्षकसेनापतिना स्वाधिकृतेभ्य: प्रोक्तम्- 'भो पश्य, पार्श्ववर्तिन: पर्वतात्खड्गहस्ता: कतिचिदश्वारोहा इत एवाभिपतन्ति! अरे! इमे तु महाराष्ट्रा: सन्ति!! भो: सावधाना: सन्नद्धखड्गाभवत। एतेषां सङ्काशात् रूप्यकरक्षा सुतरामावश्यकी’। यावदयं सेनापतिर्वाक्यं परिसमापयति तत: पूर्वमेव तेऽश्ववारा: परितोऽस्मान् पर्यवेष्टयन्। यवनसेनापतिर्निजसैन्येन सहैतान् पर्यवेष्टयत्। पुन: किमासीत्। घोरतरं युद्धमभूत्। उभयतो रक्तनदी प्रावहत्। शस्त्रझणत्कारेण शून्य: स वनोद्देशो मुखरितोऽभवत्।
सुदृढपट्टबोरकनिलीना वयं तन्तुजालच्छिद्रेभ्यस्तदेतद्भयानकं दृश्यमपश्याम। हन्त हन्त अस्माकं कृते इयतां जीवानामेवमकारणं हत्या भवति! बहवोऽस्माकं भ्रातरो बोरकनिष्पीडिता अपि मनुष्याणाममीषामज्ञानं दृष्ट्वा निजहास्यमवरोद्धुं नाशकन्।
महाराष्ट्रसैन्यप्रमुखो यवनरक्षकान्पराजित्याऽस्मत्सम्मुखोऽभवत्। अवदच्च स्वसहचरमेकं युवकम्- 'विजयसिंह! पश्य एषु बोरकेषु किमस्ति!’। युवको निष्कोषस्य खड्गस्य कोट्या बोरकमेकमविध्यत्। हन्त हन्त खड्गकोट्या मम कतिपयानां भ्रातॄणां गात्रं विदीर्णमभूत्। करुणरवं मुञ्चन्तस्ते विपाटिताद् बोरकमुखान्नीचैर्भूमितलेऽलोठन्। अस्मान् निपततो दृष्ट्वा सेनापति: सुप्रसन्नोऽभवत्। 'अहो ज्ञातम्! इमे रूप्यका बीजापुरं प्रति गच्छन्ति। अस्तु त्वमिदानीमिमान् नीत्वा एभिर्वीरै: सह छत्रपते: सकाशं गच्छ। अहं वनान्तपर्यन्तं भ्रमित्वा यवनसैन्यसम्वादं च विदित्वा त्वरितं परावर्ते’।
हन्त वयमेकस्य हस्ताद्रक्षां प्राप्य द्वितीयस्य हस्ते न्यपताम। परं यवनस्य संसर्गादार्यसंसर्गोऽस्माकं दु:खाकरो नाभवत्। विजयसिंहोऽस्मान्नीत्वा वनगुल्मेषु निलीनोऽभवत्।
एवं मया मोगलसम्राजां समये बहूनि परिवर्तनान्यवलोकितानि। बहुतराणां राज्यानामुत्थानपतनानि मत्समक्ष एवाऽभवन्। सर्वत्रैव मम प्रभाव: प्रासरत्। दुर्दमनीयां मम शक्तिं निरोद्धुं न काऽप्यन्या शक्ति: प्राभवत्। मम प्रभाववशीकृता राजपुत्रदेशा मोगलसाम्राज्यस्य सेवायामात्मनो गौरवं मर्यादां, किं बहुना साम्प्रदायिकीं पद्धतिमपि विसर्जयामासु:। परं धार्मिकी बर्बरतैव यवनानां शासनं धूलिसाच्चकार। औरङ्गजेबस्योत्तरमेव मोगलसाम्राज्यमिदं विच्छिन्नमभूत्। एतस्मिन्नुत्क्रान्तिसमये मम शक्ति: पूर्वतोऽधिकं प्रावर्धत। असम्भावनीयान्यपि कर्माणि मद्बलेन सुसम्भाव्यान्यभूवन्। किन्तु तेषु असत्कर्मणामेव संख्या वृद्धिं प्राप। एकस्य राज्यस्य मन्त्रिणोऽपरराज्यस्य सेनापतये प्रभूतान् मद्भ्रातॄन् समर्प्य तद्राज्यमात्मसाच्चक्रु:। मद्भ्रातॄणां लोभवशगा: स्वकीयं राजानमेव अन्ये जघ्रु:। सर्वस्मिन्देशे मत्कृते लुण्ठनं मारणं च प्रासरत्। बलिनो जना मल्लाभलोभेन दस्युवृत्तिमधारयन्।
लोका मां मद्भ्रातॄंश्च नानायत्नैरगोपयन्। केचन जीवन्तमेव मां भूमौ न्यखनन्। यवनपद्धत्यां मरणोत्तरभाविना भूमिसमाधिसंस्कारेण मां जीवद्दशायामेव समस्कुर्वन्। केचन असंस्कृतेषु अवकरस्थानेषु मद्भ्रातॄन्निपात्य तदुपरि गोमयादिराशीन्निपातयामासुर्येन दस्यवोऽस्माकं सत्तां न जानीयु:। केचिज्जीर्णवस्त्रेषु कन्थासु चास्मानसीव्यन् येन न कश्चिदस्मद्विद्यमानतां विद्यात्। यदि कश्चिदस्मानगणयत्तर्हि अतिनिभृतं प्रकोष्ठे स्थित्वा नि:शब्दमेव अस्माकं संख्यामकरोत्। यदि कश्चिदस्मद्भ्राता हस्ताद् भूमौ निपत्य आघातजनितया पीडया करुणाक्रन्दनमप्यकरोत्तदापि सोऽस्माकमकरुण: स्वामी हस्तेन तं भूमौ निष्पीडयामास येन तन्मुखाच्छब्दो न नि:सरेत्। अन्यत्किम्-परस्परसमागमेन प्रसीदन्तो वयं यदि परस्परं किञ्चिदपि शब्दमकुर्म तर्हि वज्रकर्कश: सोऽस्माकं रक्षकोऽस्माकं मुखमुद्रणमकरोत्। हन्त हन्त एवंविधं घोरनिगडनं न पूर्वं कदाचिदप्यस्माभिरनुभूतम्।
यत्र शब्दे कृतेऽपि कण्ठमालिका निष्पीडयते तत्र का कथा बाहर्नि:सारणस्य? उन्मुक्तस्थानेषु बहिर्निर्गत्य निर्मलवायुसेवनमस्माकं भाग्ये अतिदुर्लभमभूत्। अन्धकारमयेषु स्थानेषु निष्करुणं निपीडितानामस्माकं श्वासो निरुद्धोऽभवत्। केचिद् बर्बरा मां चुल्लिकायास्तले निखन्य प्रतिदिनं मम शिरसि दहनमदीपयन् परं हन्त अहमपि वज्रमयजीवनोऽस्मि। भूमौ निखातस्यापि मे जीवनशक्तिर्नापजगाम। प्रत्युत यदाहं भूमिगर्ताद् बहिर्भवामि तदाहं द्विगुणितोत्साहेन मत्स्वामिनां कार्यं साधयामि। अस्ति किमेषा शक्तिरन्येषामपि जनानाम्? पण्डिता: केवलं मुखेनैवोद्घोषयन्ति परमहं सत्यं सत्यमेव 'अजरामररवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्’ इत्यस्य प्रत्यक्षमुदाहरणमस्मि।
अजरामरवत् यद्यप्यस्माभि: स उत्क्रान्तिसमयोऽतिवाहित: परं भूमिगर्ते निखातानां बहूनामेव मद्भ्रातॄणां नीलिकारोग: समभवत्। हन्त हन्त तद्रोगकारणेन ते विवर्णवदना अप्यभवन्। परम्, अतिमन्दमतीनां केषाञ्चिद् केषाञ्चिन्मत्स्वामिनां मौढ्यवृत्तान्तं स्मृत्वा साम्प्रतमपि दु:खं च क्रोधश्च हास्यं चागच्छति। अस्मिन् युगे शिक्षितानां तु का कथा, निरक्षरभट्टाचार्या अपि अस्माकं गौरवं प्रभावं च सुतरामवगच्छन्ति। मम सेवां तथा कुर्वन्ति यथा यद्यहं मलस्थानेऽपि निपतितो भवेयं तर्हि पुरीषमलिनाङ्गमपि मां सावधानमुत्थाप्य सादरं निजवक्ष:स्थले (अङ्गवस्त्रसम्पुटके इत्यर्थ:) स्थानं दद्यु:। मम रोगाणामपि ते सम्यक्प्रकारेण मार्मिका भवन्ति। अतएव मम नीलिकारोगं न किञ्चिद् गणयन्ति। स्वल्पेनैवोपचारेण मम तं दोषमपाकृत्य पुनर्मां मनोहराङ्गं सम्पादयन्ति। परं प्राक्तनानां मुग्धतां शृणुत-
वैष्णवसम्प्रदायस्यैके गोस्वामिमहाभागा आसन् येषां कोषोपनामके अस्मत्सजातीयानां कारागारभवने बहवो मे भ्रातरश्चिरान्निरुद्धा अभूवन्। गोस्वामिमहाभागस्याधिकारी बहिर्वल्लभसम्प्रदायसेवकोऽपि तत्त्वतोऽस्माकं सम्प्रदायपूजकोऽभूत्। स ह्यस्माकं रसज्ञ आसीत्। कोषभवनेऽस्मान् राशीभूतानवलोक्य लोलुपस्य तस्य लालापातोऽभवत्। स ह्यस्मान् येन केनापि प्रकारेण स्वसमीपे नेतुमुद्योगं चक्रे। अहं तु वदिष्यामि स ह्यतीव दयालुरभूद् यतो हि प्रकाशपवनादिशून्यादन्धकारमयादस्मात्स्थानाद् बहिर्नि:सारयितुमुपायमाविश्चक्रे। तथा ह्येकदा गोस्वामिमहाभाग: केनापि प्रसङ्गेन स्वकोषागारं प्राविशत्। अन्धकारमये कोणे भूमिपतितानस्मान् मलिनाङ्गानवलोक्य स ह्यधिकारिणमपृच्छत्- 'अयि भो: इमे रूप्यका एवमवस्था: कथं सञ्जाता:? नैषां वराकाणां पूर्वमिव सा कान्ति:?’। अधिकार्यवदत्- 'जय! कृपानाथ! एषामयं विकार: समभवद्येनेयं विवर्णता जाता। सर्वतोऽधिकं दु:खमिदमेवास्ति यदेषां संसर्गेण अन्येषामपि तद्रोगसंक्रान्तेर्भूरि भयम्। भवन्ति प्रायश: सङ्क्रामका व्याधयो नूनम्।’ पुन: किमासीत्, शीघ्रमेव वयं बृहत्सु वंशकरण्डकेषु संस्थिता: सूर्यातपसेवनार्थं सौधपृष्ठे आनीता अभवाम। अस्मासु ये नीलाङ्गास्ते पृथगक्रियन्त। चमत्कृतवदनास्तु मन्ये पुनर्नीलताऽऽपादनार्थं द्विचतुरेव दिनै: पुनस्तमेव कारागारमनीयन्त। मन्ये, कथनस्यावश्यकता न भवेत् यत् नीलवदनभट्टाचार्या बहवो मे भ्रातरोऽधिकारिमहाशयस्य गृहसीमानमपश्यन्। अस्मासु इतस्ततो विपर्यस्ता: केचिद्भ्रातरस्तु अन्यान्येषामपि भृत्यानां जीर्णशीर्णानि भवनान्यध्यवात्सु:।
एवमेवाऽस्माकं गुणग्राही कश्चिच्चतुरमति: कञ्चन धनिकं ग्रामीणमवदत्- 'पट्टकिल! किं न पश्यसि, गृहकोणे त्वया भूमिगर्ते निखाता इमे वराका रूप्यका घुणैर्नि:सारीकृताङ्गा अभूवन्। चातुर्मास्योत्तरं घुणैर्विद्धस्य धान्यस्येव विवर्णतां किं नावलोकयसि प्रत्यक्षम्? अस्तु सम्प्रति एतान् शूर्पे स्थापयित्वा- उच्चतमे स्थाने स्थित:, प्रत्युत कूपस्य गोणिका (गूनी) शीर्षे स्थितस्त्वमेतान् वर्षय। ये किल नि:सारतया लघूकृताङ्गा भविष्यन्ति ते वायुवेगेनोड्डीय पृथग् भविष्यन्ति। ये सम्प्रति कार्यक्षमास्ते त्वेकस्मिन्नध:स्थाने राशीकृता भविष्यन्ति।’ एकं किल सरलमतिं तं धूर्ततया वञ्चयित्वा स ह्यस्मानर्द्धतोऽधिकानहरत्। एवं किल स्थाने स्थाने रुद्धा वयं नीलिकारोगाक्रान्ता अभूम, किन्तु तस्मिन्समये सावधानं गोपनेऽपि वयं स्थानस्थानतो लुण्ठकानां यवनदस्यूनां च भुजपञ्जरपतिता अभूमैव।
अहं तस्मिन् समये यावत्सु यादृशेषु च स्थानेषु अभ्राम्यम् तावत्सु तादृशेषु च स्थानेषु गमनस्य न वायोर्नापि भगवत: सूर्यस्यापि शक्ति:। इमौ हि जगत्प्राणो जगत्साक्षीति च लोकेषु विश्रुतौ, परं यत्रानयो: सञ्चारोऽपि निरुध्यते तत्राप्यहं निरर्गलं प्राविशम्। निरुद्धधनसञ्चारेऽस्मिन् सङ्कटसमये अहमेव जगत्प्राण: समभवम्। साक्षिरूपेण मया जगति यावद्भ्रान्तं न तावदन्य: कश्चिद् भ्रमेत्, तर्हि वदत कथमहं जगत्साक्षी नास्मि? अहं हि असूर्यम्पश्यानां यवनसम्राण्महिषीणां राजसौधानि कतिधा प्राविशम्। लोकेष्वद्वितीयसुन्दरीं सम्राट्प्रियतमामसम्वृतावस्थायां साक्षात्सम्राडपि न सर्वदा पश्यति परमहं तासामपि संनिधिमकण्टकमगच्छम्। बन्दीकृत्वाऽऽनीये अवरोधगृहेषु स्थापिता राजमहिला अपि मां निभृतमात्मन: समीपे न्यवासयन्। सम्भ्रान्ता अन्त:पुराधिकारिण्य: कौशेयवस्त्रावृतं मां कञ्चुकीष्वस्थापयन्। कथयत किमवशिष्यते?
दुर्दान्तस्य यस्य यवनसम्राज: समीपे गमनं महामहतां भूमिपालानामपि भाग्ये नाभवत् तस्यैव भारतचक्रवर्तिन: करकुलिशे न तु करकमले कृषीवलोपायनीकृतोऽहं बहुधा प्रायासिषम् कस्य वा दौवारिकस्य दर्पो भवेत् यो मां निरुध्यात्? प्रत्युत यदि कञ्चिदन्यमपि कश्चिन्मम मुखमदर्शयत्, मन्मुखं दृष्ट्वैव ससम्भ्रमं स (दौवारिक:) दूरमपासरत्, सादरं च तं जनं प्रावेशयत्।
महामहाप्रतापिनं सम्राजमारभ्य, दीनहीनस्य जीर्णशीर्णकुटीपर्यन्तमपि नि:शङ्कमहमभ्राम्यम्। अहं यद्यात्मनो भ्रमणस्य पूर्णां कथामुल्लिखेयं तर्हि शकटिवाह्य एको ग्रन्थ: सम्पद्येत। महाभारतं किल पञ्चानां पाण्डवानां चरित्रतया प्रख्यातम्, परं मद्भ्रमणकथायां प्रक्रान्तायां तु केवलं ममैवैकस्य चरित्रेण द्वितीयं महा महाभारतं प्रस्तूयेत। विवेकिनो ह्येतावत्कालव्यापिनो मद्भ्रमणस्य विस्तारं स्वयमनुमिनुयु:, अत एव परित्यजामि तमेनं विस्तरम्। किन्तु मम प्रभाव: सर्वत्र व्याप्तोऽभूदिति सर्वै: सारतया सन्धार्येत नूनम्।
यद्यपि ममातङ्कस्तस्मिन्काले सर्वेषु प्रासरत्, सर्वत्र च मम समादर: समभवत्, परं बर्बरा: सत्यं बर्बरा एव। आधुनिकशिक्षितास्तानेतान् यवनानशिक्षितानादुस्तदिदं प्राय: सम्यगेव। मयाप्येतदनुभूतम्। एतेषां समये मम पर्याप्तरूपेण सम्मान: समभवत्परं सर्वदा मम प्राणसंशयोऽप्यवर्तत। आवश्यकतायां सत्यामेते अविचारितमेष मामग्रौ न्यपातयन्! मम शरीरं शुद्धधातुविधृतमिति कृत्वा तदेतद्वह्नौ विलाप्य नानाविधभूषणानि निरमान्, मनसि महामहोत्सवं चाऽन्वभवन्। मुनिना दधीचिना वज्रनिर्माणार्थमेकवारमेवात्मशरीरं देवेभ्यो दत्तं स्यात् यत्परिवर्ते तेनाक्षया कीर्तिरप्युपार्जिता, परं मया बहून् वारानात्मशरीरं मनुष्येभ्यो दत्तम्। परं घोरमकृतज्ञता मनुष्यजाते:! यत्कीर्तिर्दूरे, प्रत्यहमकीर्तिकालिम्रा मम चरित्रमेभिर्दूषितम्। एते हि मां 'श्वेतडाकिनी’ति व्यपदिशन्तो लोकेषु घोरं कलङ्कयन्ति। मम निन्दायां बहूनि काव्यान्येव निर्मितान्येभि:।
न केवलमयं प्राणसङ्कट एव, आसीन्न्यूनताप्यस्मज्जाते:। अस्मिन्कालेऽस्माकं यथा संख्यावृद्धिर्जाता नासीत्तथा पूर्वम्। एकोऽपि मम भ्राता यस्य सविधे बभूव, स एव 'मन’ द्वयतोऽप्यधिकमन्नं लेभे, यद्धि एक: पुरुषो वोढुमपि नालं बभूव। लोकास्तामिमामुन्नतिं व्यपदिशन्ति, परमहं तु स्पष्टं पश्यामि, यदेतेन अस्मज्जातेर्न्यूनताऽभवत्। अस्मद्भातॄणां संख्यावृद्धेस्तादृशोऽवसर एव नाभवत्। इदानीं मम परिवर्ते तावदेव अन्नं लभ्यते यावदसौ सुखेन कक्षे कृत्वा भ्रमितुं प्रभवेत्। परमेतेन मम जातिवृद्धि: कियदभवदिति परितो दृश्यताम्। देशे सर्वतो मज्जातिरेव भ्राम्यन्ती विलोक्यते। किमासीदेतत्पूर्वम्?
***
श्रीहनूमत: आदर्शचरितम्
भगवान् वाल्मीकिरादिकवि: प्रख्यात:। एतन्निर्मितं श्रीरामायणमादिकाव्यमिति निखिलेऽपि भूमण्डले महद् गौरवमावहति। अस्मिन् पवित्रतमे पुस्तके प्रत्येकपात्रस्य चरित्रमादर्शभूतम्। इदमेव कारणमस्ति यद् रामायणकथाया: समस्तेऽपि भूमण्डले सर्वतोऽधिक: समादर:। केवलं भारतीयभाषास्वेव न, विश्वस्य यावन्मात्रसभ्यभाषासु रामकथा अनुवादरूपेण सर्वत: प्रचरति इति हि लोकसाहित्यस्य मर्मज्ञा वैदेशिका अपि कथयन्ति। रामायणेऽस्मिन् भगवान् हनूमान् प्रधानतमं पात्रम्। रामायणरूपस्य शरीरस्य मेरुदण्डस्वरूपं श्रीहनुमतश्चरित्रमिति नातिशयोक्ति:। कथानायकस्य श्रीरामस्य यत्र यत्र कठिनं सङ्कटं समागच्छति तत्र तत्रैव श्रीहनुमान् सहायकरूपेण समुपतिष्ठति। युद्धादिषु वीरताकार्येषु हनूमान् विश्वमात्रेऽपि सुप्रसिद्ध:। अत एव हि हनूमान् वज्राङ्ग: (बजरङ्ग) इति नाम्रा प्रसिद्धो जात:। अपि पुरातनेषु इतिहासेषु अन्यस्यापि कस्यचित् प्राप्यते एवंविधा वीरता? चरित्ररक्षायाम्, इन्द्रियवशीकरणे हनूमान् विश्वविख्यात:। किं बहुना, 'हनूमान् जती’ (यति:) इति हि साधारणजनोऽपि जल्पति। सत्यवादिता, दया, धैर्यम्, चतुरता, नीति:, अवसरज्ञता, इत्यादय: सर्वेऽपि सद्गुणा: श्रीहनूमतश्चरित्रे स्थाने स्थाने प्राप्यन्ते। स्वामिभक्तिस्तु विश्वमात्रेऽपि विख्याता। श्रीरामचन्द्रस्य कार्यार्थं निजस्य प्राणानपि न परिगणयति भगवानयम्। अद्भुताया एतस्यास्तपश्चर्याया एव तदेतत्फलं यत् सेवकोऽपि भगवान् हनूमान् अद्य जगन्मण्डले सर्वेषां सेवनीय:, प्रत्यक्षफलदायको देव: सञ्जात:। कथानायकस्य भगवत: श्रीरामचन्द्रस्य पिता, पुत्र:, अन्यत् किं, लक्ष्मणसदृशो भ्रातापि तादृश: पूज्यो न जातो यादृशो भगवान् पवनतनय:। एतस्योपासना भूमण्डले सर्वत्रापि प्रचलति। अपि प्राचीनेषु इतिहासनिबन्धेषु दृश्यते एवंविधमुदाहरणम् अन्यदपि?
सर्वाऽपेक्षयाऽपि आश्चर्यभूतो गुण:- बुद्धिमत्ता, नीतिचतुरता, विवेक: इत्यादिक:। यो हि मल्लकार्यं करोति तस्य मस्तिष्कं बुद्धिकार्यस्य कृते अतिप्रशंसनीयं न भवतीति शरीरपरीक्षका: प्राहु:। यावज्जीवं सङ्ग्रामे शस्त्रपरिचालको योद्धा अतिमार्मिको बुद्धिमान् नीतिकुशलोऽपि भवेत् इति हि दुर्लभं नूनम्। किन्तु भगवान् हनूमान् बुद्धिकार्येषु अपि सर्वाधिक:। रामकथाया: स्थले स्थले अयं श्रीरामचन्द्रस्य मन्त्री इति प्रत्यक्षं प्राप्यते। लोकभाषायां तु 'रामदीवान’ इति हि साधारणेषु अपि प्रसिद्ध:। अतीव विस्तारसापेक्ष: सोऽयं विषय:, किन्तु निबन्धेऽस्मिन् एकेनैव उदाहरणेन तदिदं दर्शयितुं प्रयत्नं करोमि।
हनुमतश्चातुर्येण रामसुग्रीवयोर्मित्रता जाता। ऋक्षाणां वानराणां च अपारं सैन्यमादाय भगवान् श्रीरामचन्द्र: सागरस्य तटे समागच्छत्। अधुना समुद्रस्योल्लङ्घनं कथं भवेत्, वानरसेना परपारे कथं गच्छेत्, लङ्काया विजय: कथं भवेत् इत्येव विचार: प्रचलति। सेनापतीनां मन्त्रिणां च विचारसभा सन्निविष्टा। सेनापति: सुग्रीव:, जाम्बवान्, अङ्गद:, नल:, नील:, मैन्द:, शरभ:, श्रीहनूमान् अन्याये च प्रधानप्रधानवानरा: सङ्गता:। मध्ये च लक्ष्मणेन सहित: श्रीरामचन्द्रस्तिष्ठति। अतीव मार्मिको गुप्तश्च विचार: प्रचलति। विचारसभायामस्यां कस्यापि न साम्प्रतमवसर: प्रवेशस्य। सेनापते: साङ्ग्रामिकेण आदेशेन महावीरा: सेनाध्यक्षा: साम्प्रतं विचारसभायां द्वारदेशे समवस्थिता। कस्य वा सामथ्र्यं भवेद् यत् सभायामस्यां बलात् प्रवेशस्य साहसं कुर्यात्?
अस्मिन्नेव समये द्वारोपरि धीर:, प्रशान्त:, करुण:, किन्तु बलव्यञ्जक: स्वर: अश्रूयत-
'निवेदयत मां क्षिप्रं राघवाय महात्मने।
सर्वलोकशरणाय विभीषणमुपस्थितम्।।’
विभीषण: क:? सीताऽपहारकस्य रावणस्य भ्राता? यस्य शत्रो: पराजयाय समुद्रोल्लङ्घनादय: कठिन-कठिना उपाया विचार्यन्ते, तस्यैव शत्रो: भ्राता अयम्? सोऽपि अस्माकं गुप्तमन्त्रणां ज्ञातुम्, रावणाय तत्संवादं दातुं च अस्यां सभायामेव समागत:? अहह, वीराणां शस्त्राणि शत्रोर्दमनाय उत्थितान्यभूवन्। रावणसदृशस्य दुष्टस्य भ्राता रामसेनायां स्वीकृतो भवेत्, विचारसभायां मन्त्रणादाता च भवेत् इति को वा सम्मतिं दद्यात्? सुग्रीव: साम्प्रतं न केवलं सेनापतिरेव, स हि अग्रिं साक्षीकृत्य भगवता रामचन्द्रेण प्रियतम: सुहृत् कृत:। तेन सुग्रीवेण अतिसंरम्भपूर्वकं विभीषणस्य घोरो विरोध: कृत:। अस्मिन् अतिसतर्कतावसरे शत्रो: सहोदरो भ्राता सहसैव स्वीकृतो भवेदिति किं काचिन्नीति:? साङ्ग्रामिकी आज्ञा जाता-
'रावणेन प्रणीतं हि तमवेहि विभीषणम्।
वध्यतामेष तीव्रेण दण्डेन सचिवै: सह।।’
भगवता रामेण अङ्गद-मैन्द-शरभप्रभृतीनां सर्वेषामेव सम्मतिर्गृहीता। किन्तु एकमुखेन सर्वैरेव विभीषणस्वीकारस्य घोरो विरोध: कृत:। अन्यत्किम्, प्रौढवयस्को जाम्बवानपि महान्तं विरोधमेव कृतवान्। यस्य जाम्बवत: कृते वाल्मीकिना प्रोक्तम्- 'जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्धया विचक्षण:।’ अयं शास्त्रविचक्षणोऽपि नि:संशयां सम्मतिं ददौ-
''अदेशकाले सम्प्राप्त: सर्वथा शङ्क्यतामयम्।’’
श्रीहनूमान् आसीत्तूष्णीमवस्थित:। स हि सर्वमिदमशृणोत्। विचारसभायामस्यां नानाविधै: सचिवैर्या: या: सम्मतयो दत्ता: श्रुत्वा विचारशीलस्य हनूमत: खेदोऽभवत्। किन्तु 'अनवसरोऽयम्’ इति विचार्य मारुतिस्तूष्णीमभूत्। अन्ते-'स्वामिन: कार्यावसरे तूष्णीभाव: कार्यविनाशक’ इति विचार्य श्रीमान् पवनतनयो निजसम्मतिं ददौ। श्रीहनूमत: सम्मतेर्विषये वाल्मीकेरक्षराणि।
'अथ संस्कारसम्पन्नो हनूमान् सचिवो राम:।
उवाच वचनं शलक्ष्णमर्थवान् मधुरं लघु।। शुद्ध.१७/५०’
अर्थात् नीतिशास्त्रस्यानुसारम् अन्यान्यसचिवानां बुद्धौ या वार्ता: समायाता: सर्वा: तै: अविकलं कथिता। किन्तु श्री हनुमता तस्या नीतेरपि निजविवेकस्याऽऽधारेण संस्कार: (परिष्कार) कृत:। अर्थात् नानाविधनीतीनां मध्ये संस्कृता उदारा परिष्कृता च या नीतिरासीत्तस्या आधारेणैव श्रीमारुतिना निजसम्मतिर्दत्ता। अत एव भगवता वाल्मीकिना विशेषणं दत्तम्- 'संस्कारसम्पन्न:’। द्वितीयं विशेषणमस्ति- 'सचिवोत्तम:’। अर्थात् विचारसभायाम् अस्यां निजनिजमतेरनुसारं सर्वेऽपि मन्त्रणादातार: सन्त्येव। किन्तु श्रीहनूमान् तेषु सर्वेषु उत्तम:। यतो हि केवलं 'नीति:, नीति:’ इति आडम्बरमात्रेण नाऽयं भ्रमितो भवति। अपि तु हनूमान् स्वबुद्ध्या स्वयं विवेकं करोति- यदयं समागतो विभीषणो व्यक्तिगतरूपेण दोषी अस्ति, निर्दोषो वा? पुरुषपरीक्षायाश्चातुर्यं स्पष्टं तेन सूचितं यत्-
न त्वस्य बु्रवतो जातु लक्ष्यते दुष्टभावना।
प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशय:।।’
अस्य मुखे प्रसन्नभाव: स्पष्टं प्रतिभासते यो हि कपटकारिणो मुखे न कदाचित् दृश्यते। अयं नि:शङ्क: सन् स्वस्थभावेन अस्माकमभिमुखे समागच्छति। अस्य वाणीमध्येऽपि भयकपटचिह्नानि न सन्ति। यस्तु हृदयमध्ये कपटभावं नीत्वा समायाति स हि सशङ्क: सन् उद्भ्रान्तचित्त इव समागच्छति। तस्मान् मम तु विभीषणं प्रति संशयो नास्ति। वाल्मीकेरक्षराणि सन्ति-
'अशङ्कितमति: स्वस्थो न शठ: परिसर्पति।
न चास्य दुष्टा वागस्ति तस्मान्मे नास्ति संशय:।।’ १८/६३
राजचर्चाचतुरेण अङ्गदेन प्रोक्तमासीत्- 'गुणदोषयो: परीक्षां कृत्वा विभीषणस्य स्वीकार: कर्तव्य:’ इति। किन्तु सचिवोत्तमो हनूमान् कस्यचिन्नामनिर्देशमकृत्वा तन्मतं खण्डयति यत्- विभीषणस्य स्वीकारार्थे गुणदोषपरीक्षाया अवकाश एव नास्ति। यतो हि यावत्कालं कस्मिंश्चित्कार्ये कस्यचित्पुरुषस्य नियुक्तिर्न क्रियते तावत्कालं तस्य पुरुषस्य सामर्थ्यस्य, तद्गतगुणदोषादीनां च परीक्षा कथं सम्भवेत्? नवाऽऽगतस्य कस्मिंश्चित्कार्ये सहसा नियुक्तिरपि नोचिता। अत एव गुणदोषयो: परीक्षां कृत्वा स्वीकार: कर्तव्य इति कथनं सर्वथा नोचितम्।
(अङ्गदस्य मतमासीत्-गुणदोषयो: परीक्षां कृत्वा विभीषणस्य स्वीकार: कर्तव्य इति। मारुतिस्तस्य खण्डनं करोति यत् अस्मिन्मते अन्योन्याश्रयनामको दोषोऽस्ति। यतो हि यावत्कालं गुणदोषयो: परीक्षा न क्रियते तावत्कालमस्य स्वीकारो न सम्भवति, न चायं कस्मिन्नपि कार्ये नियोक्तुमेव शक्यते। यावत्कालं च अस्य नियुक्ति: कस्मिन्नपि कार्ये न भवेत् तावत् अस्य गुणदोषयो: परीक्षैव कथं सिध्येत्? अत एव परस्पराश्रयमेतत्।)
इदानीं प्रौढवयस्कस्य जाम्बवतोऽपि मतस्य समालोचनमेव किम्, सम्यक्समालुञ्चनं क्रियते। किन्तु विनयवशान्नामनिर्देशं न करोति। मारुति: कथयति- ''अयम् अदेशकाले प्राप्त:। अत एव अस्य विश्वासो न कर्तव्य:’’ इत्यपि न युक्तम्। यतो हि अनेन विभीषणेन रावणे बहवो दोषा एव दृष्टा:। श्रीरामचन्द्रस्य गुणा: पराक्रमादयस्तु बालिसदृशवीराणां दमनेन जगत्प्रसिद्धा जाता:। अत एव दोषिण: निजतिरस्कारिणश्च त्यागं कृत्वा जगत्प्रसिद्धपराक्रमस्य भवत: समीपे आगमनं किम् अनवसरोऽस्ति?
दूतं प्रेषयित्वा 'कस्त्वम्, कथमागतोऽसि’ इत्यादि प्रश्न: पूर्वं क्रियताम्’ इति मैन्दस्य मतमपि नामनिर्देशमकृत्वा विनयेन खण्डयति यत्-नवीनागत: पुरुषो यदि वास्तवे मित्रमेव भवेत्तर्हि आगमनमात्रे एव तं प्रति 'त्वं कथमागत:’ इति प्रश्न: सर्वथा रुक्ष:। यतो हि स्नेहपूर्वकं समागमस्य स्थाने 'त्वं कथमागत:’ इति प्रश्नेन मित्रस्य हृदये दु:खमुत्पद्यते। गमनमात्रेणैव तु दूत: परीक्ष्य हृद्गतं भावं कथं जानीयात्। अत एवंविधे अवसरे सचिवानां मार्मिकी बुद्धिरेव सहायिका भवति।
अहं तु विभीषणस्याऽऽगमनं देशकालोपपन्नं मन्ये। यदा हि विभीषणेन श्रुतं यद् बालिसदृशं पराक्रमिणं वीरम् अनायासमेव हत्वा तत्स्थाने रामेण सुग्रीव: स्थापित:, तेन सह दृढा मैत्री च कृता, तदा निरन्तरं दोषयुक्तं जगन्मात्रस्य प्रपीडकं च रावणं त्यक्त्वा हृदयस्थितया कयाचित् आशया अयमत्र आगतो भवेदिति किं न सम्भवति? अत एव मम तु सम्मतिरस्य स्वीकारपक्षे एवास्ति। अग्रे श्रीचरणा: प्रमाणम्। श्रीमदपेक्षया अधिको नीतिज्ञो कोऽन्योऽस्ति?
एतदनन्तरं सुग्रीवेण त्रीन् वारान् विरोध: कृत:, परं प्रशान्तचित्तेन श्रीरामेण त्रिषु वारेष्वेव विरोधस्य समाधानं कृत्वा। विभीषणस्य स्वीकारे एव निजसम्मतिर्दत्ता। एतस्य इतिहासलेखस्य अन्ते इदमेव तात्पर्यं यत् सर्वेषां महामान्यानामपि सचिवानां विरोधकरणेऽपि श्रीहनूमता तादृशी सम्मतिर्दत्ता या कथमपि उल्लङ्घनीया नाऽभवत्। यतोहि पवनतनय: श्रीरामस्य दयालुत्वभावम्, युद्धसमये रावणस्य गृहपरिस्थिते: परिज्ञानस्याऽऽवश्यकतादि च सर्वं विचार्य तादृशीं मन्त्रणां ददौ, यया हि श्रीरामस्य विजय:, सीताया: समागम:, विभीषणोपरि च चिरकालार्थमुपकार:, श्रीरामस्य दयालुताया: प्रसारश्च सर्वदार्थमभवत्।
श्रीहनूमतश्चरित्रमारम्भादन्तपर्यन्तं लोकानां शिक्षाप्रदं, भारतीयानामनुकरणीयं चास्ति। विवेकिन:, पुरुषा: किमस्मात् लाभं न गृह्णीयु:?
***
हंसवाहना सरस्वती मयूरवाहना कथं जाता?
ज्ञानाधिदेवता भगवती सरस्वती वाचामधिष्ठात्रीति सुप्रसिद्धं संस्कृतवाङ्मयेऽस्मिन्। अत एव हि वाग्विलासमयेऽस्मिन् काव्यजगति शैववैष्णवसम्प्रदायनिर्विशेषं सर्व एव कवयो भगवतीमिमामादितोऽभिवादयते। बालपाठ्यं पुस्तकं यथा 'नत्वा सरस्वतीं देवी’ (लघुकौमुदी।) प्रारभ्यते तथा वाङ्मयाचार्याणामपि। 'सरस्वत्येवैषा घटयति यथेष्टं भगवती’। सेयं सितसरोरुहासना शुभ्रवस्त्रा शारदेन्दुसुन्दरकान्ति:, हस्तेऽस्या: कच्छपीवीणेत्यादि सुप्रसिद्धमेतस्या वर्णनं साहित्यसेविसमाजेऽस्मिन्। नैतस्मिन् प्राग् वर्णने भगवत्या: सरस्वत्या वाहनस्य विशेषतश्चर्चा समुपलभ्यते। अत एव हि प्राचीनकाव्यनाटकादित: सङ्गृहीते सुभाषितरत्नभाण्डागारे दत्तानि सरस्वत्यास्त्रयोदशपद्यानि मङ्गलप्रसङ्गे किन्तु नैतेषामेकस्मिन्नपि सरस्वतीवाहनस्य चर्चा नूनम्। राजशेखरस्य काव्यमीमांसायां भगवती सरस्वती काव्यतनयस्यान्वेषणाय दूरदूरं प्रस्थितापि न क्वचिद्वाहनमपेक्षते। किन्तु प्राचीनकविवर्णनायां यत्र यत्र सरस्वत्या वाहनस्य चर्चा प्राप्यते तत्र तत्र सर्वत्रापि सोऽयं हंस एव समुपलभ्यते इति तु निश्चप्रचम्।
न केवलं कविवर्णनायामेव, अपि तु पूजापद्धतौ यत्र यत्र सरस्वत्या ध्यानमासाद्यते तत्र वाहनप्रसङ्गे भगवती सरस्वती सेयं हंसवाहनैव। अत एव 'शब्दार्थचिन्तामणि’कोषेऽपि सरस्वत्या ध्यानात्मकमिदमवाप्यते पद्यम्-
'वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्दप्रभां
चन्द्रार्द्धाङ्कितमस्तकां निजकरै: संबिभ्रतीमादरात्।
वीणामक्षगुणं सुधाढ्यकलशं विद्याञ्च तुङ्गस्तनीं
दिव्यैराभरणैर्विभूषिततनुं हंसाधिरूढां भजे।।’
न केवलमत्रैव, 'दक्षिणामूर्तिसंहिता’ यामपि सरस्वत्या हंस एव वाहनमवालोकि-
'हंसारूढा हरहसित-हारेन्दुकुन्दावदाता
वाणीमन्दस्मिततरमुखी मौलिबद्धेन्दुरेखा।
विद्यावीणामृतमयघटाक्षस्रजदीप्तहस्ता
शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात्।।’
न च केवलं वर्णनस्यैव कथा, प्रत्यक्षं प्राचीनतमचित्रेष्वपि सरस्वती हंसमेव वाहनमधिरूढा। कलाभवनेषु दृष्टानि प्राचीनतमदाक्षिणात्यचित्राणि, वङ्गदेशीयचित्राणि येषु सरस्वत्या हंस एव वाहनमालिखित: एतस्य प्रमाणान्यग्रेऽहमुद्धरिष्याम्येव। किन्तु वर्तमानसमये सर्वमिदं प्राचीनकालस्येव सामग्री जायमानास्ति। संस्कृतसाहित्यसेवका मुखतो यत्किञ्चिद्वदन्तु किन्तु किम् उत्तरभारते किं वा दक्षिणभारते सर्वत्राप्यधुना भगवती सरस्वती प्रत्यक्षं मयूरवाहना समपद्यत। यतो हि सरस्वतीपूजोत्सवेषु यत्र यत्र सरस्वत्याश्चित्रमवलोक्यते तत्र तत्र हंसमुड्डाय्य बहिर्दर्शनीय: सोऽयं बर्हिण एव बलादधिकृतोऽभूत्। महाराष्ट्रमण्डले वसन्तपूजायामहमभूवमेकदा निमन्त्रित:। आसीत्तत्र रविवर्मचित्रितं भगवत्या: सरस्वत्याश्चित्रं प्रधानपीठे विराजितं यत्र हि प्रवहत्सलिलाया: सरितस्तटे वीणां झङ्कारयन्ती सरस्वती प्रसन्नमुखमासीदवस्थिता, समीपे च लम्बायमानपिच्छो मयूर: समवाऽस्थित। अहह, तदैव विद्यार्थिभि: स्तुतिरगीयत-
''वाणीं पूर्णनिशाकरोज्ज्वलमुखीं.... हंसाधिरूढां भजे।।’’ इति प्रत्यक्षं मयूरे सम्मुखावस्थितेऽपि सरस्वती सेयमस्तूयत- 'हंसाधिरूढाम्’इति!
मुद्रणालयेषु यान्ति ब्लाकचित्राणि तेष्वपि भगवत्याऽनया सरस्वत्या सोऽयं मयूर एव वाहनत्वेनानुगृहीत:, हंसस्तु मन्ये पुराण इति कृत्वा विश्रमार्थं दूरतो विसर्जित इव। मुद्रणालयेषु च सर्वत्र सेयं सरस्वती सम्प्रति मयूरवाहनैव संवृत्ता। दृश्यतां विचारविधया साम्प्रतम्। सर्वदेशीयेष्वपि मुद्रणालयेषु (तत्रत्यब्लाकचित्रेषु) कुत्रचित्प्रसारितकलापं बर्हिणमारूढा भारती, कुत्रचित्तु कवरपुच्छ: सोऽयं मयूर: समीप एवावस्थित: वराको हंसस्तु ऐतिहासिकसामग्री समपद्यत।
मयूरो वाहनं कस्या अपि देव्या नास्तीति न मे तात्पर्यम्। अस्ति हि मयूरोऽपि वाहनं देव्या:, किन्तु न सा सरस्वती, अपि तु कौमारी शक्ति: ('कौमारी शक्तिहस्ता च मयूरवरवाहना’ 'माहेश्वरी वृषारूढा कौमारी शिखिवाहना’)। सरस्वती हि संस्कृतसाहित्ये भगवतो विरिञ्चे: पत्नी परिगण्यते। यथा-
'सिद्धान्तं सर्वविद्यानां शुद्धान्तं परमेष्टिम:।
शोणाधरमह: किञ्चिद्वीणाधरमुपास्महे।।’
आशासु राशीभवदङ्गवल्ली-
भासैव दासीकृतदुग्धसिन्धुम्।
मन्दस्मितैर्निन्दितशारदेन्दुं
वन्देऽरविन्दासनसुन्दरि त्वाम्।।
अस्ति हि भागवतादिपुराणेषु ब्रह्मण:
'वाचं दुहितरं तन्वीं स्वयंभूर्हरतीं मन:।
पुत्रीत्वेनापि वाग्देव्या वर्णनं यथा-
अकामां चकमे दत्त: सकाम इति न: श्रुतम्।।’
किन्त्वेतद्वैज्ञानिकं रहस्यं नेतिहास इति जानन्त्येव मार्मिका:। ब्रह्मवैवर्तपुराणस्य प्रकृतिखण्डे पञ्चमाध्याये सरस्वती नारायणस्य पत्नी, गङ्गालक्ष्मीश्च तत्सपत्न्यौ। तत्र सरस्वती गङ्गायामधिकं पत्यु: प्रेम विशङ्क्य ईर्ष्यया तां शशाप, कलहे मध्यस्थां पद्मामपि च। गङ्गापि तां प्रतिशशाप। ततो नारायण: सर्वासामपि कलहदोषात्क्रुद्धस्ता: शापेनादण्डयत्। सरस्वतीं प्रति शापो यथा-
'गङ्गाशापेन कलया भारतं गच्छ भारति।
कलहस्य फलं भुङ्क्ष्व सपत्नीभ्यां सहाच्युते।।
स्वयं च ब्रह्मसदनं ब्रह्मण: कामिनी भव।
गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु।।’
सरस्वती अनुतप्ता वल्लभं नारायणमुवाच: विदायं देहि मे नाथ दुष्टाया जन्मशोधनम्। ''सत्स्वामिना परित्यक्ता: कुतो जीवन्ति का: स्त्रिय:। देहत्यागं करिष्यामि योगेन भारतेऽद्भुतम्।।’’ तत: पद्मा मध्यस्था भूत्वा नारायणं शापविमोकं प्रार्थयामासे। नारायणोऽपि मृदुर्भूत्वा प्रोवाच- 'भारती यातु कलया सरिद्रूपा च भारतम्। अर्द्धांशा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे।’
एवं च विरिञ्चिपत्नीत्वेन भगवत्या: सरस्वत्या हंसवाहनत्वमेवोपपद्यते, मयूरस्य वाहनस्य तु न कश्चित्प्रसङ्ग इति संस्कृतसाहित्यशीलकानां नाऽपरोक्षम्। एवं सत्यपि प्रबलतमेन मयूरेणानेन हंसायार्द्धचन्द्रं प्रदाय सरस्वत्या वाहनत्वे कथमात्मनोऽधिकार: सम्पादित इत्यवश्यं कौतुकाय भवेद्यदि ते विचाराभिमुखं मन: कुर्यु:। किन्तु संस्कृतभारत्या नाधुना तादृग् भागधेयं येन संस्कृतानुशीलका एवंविधविषयेष्वग्रगामिनो भवेयु:। अत्राप्यन्ये मार्गमादर्शयन्ति। पूनास्थ 'भण्डारकरीयप्राच्यगवेषणाधिकृत:’ (क्यू रेवराञ्चाक् भण्डारकर ओरिएण्टल् रिसर्च इन्स्टिट्यूट) श्रीमान् पी.के. गोडे महोदय: पाठकानां नाऽपरिचित: स्यात्, तस्य नासाभूषणसम्बन्धिनी गवेषणा प्रकाशिता पुरा रत्नाकरे। श्रीअवनीन्द्रनाथटागोरपरिचालित- 'ओरिएण्टल इण्डियन आर्ट सोसाइटी’ पत्रे प्रकाशितमेतेनैतद्विषयकमन्वेषणमवदधतु किञ्चित्पाठकमहाभागा:।
संस्कृतसाहित्ये हंसस्य सरस्वत्याश्चानेके प्रसङ्गा: समुपलभ्यन्ते। हरिदासभट्टाचार्य: 'विद्यादेवीसरस्वती’(Sarswati The Godess of learning) नामके निबन्धे सहस्राधिकवर्षाणामितिहासमवतार्य सरस्वत्या सह हंस-कमल-सिंहादीनां चर्चां प्रस्तावीत्। सरस्वती स्वयं श्वेतसर्परूपे हंसरूपे वा परिपूज्यते इत्यपि तत्र प्रसङ्गोऽवाप्यते। एलिसगेटी 'उत्तरीयबुद्धधर्मस्य देवता’ नामके पुस्तके सरस्वतीं स्वयं मयूरवाहनामाह, किन्तु सा बौद्धानां देवता।
१५८३ तमख्रिष्टीयवत्सरे हस्तलिखिते 'द्रव्यावलीनिघण्टौ’ सरस्वत्या एकं चित्रमुपलब्धं यत्र सा हंसवाहनैव चित्रिता शिल्पिना। 'सरस्वतीं तां सितपद्मकीरौ वीणां च पुस्तं च करे दधानाम्’ इत्यादि पद्यं तु चित्राद्विसंवाद्येव केनचित्प्रक्षिप्तम्। १६१३ तमे ख्रिष्टवत्सरे मुस्लिमेतिहासलेखक: सिकन्दरबिनमोहम्मदो गुर्जरदेशस्येतिहासं लिखन् सुलतानस्य प्रियनर्तकीचम्पाबाईद्वारा सरस्वत्या अभिनयस्यापि प्रसङ्गमलिखद् यत्र सरस्वत्या वाहनं हंसमेवाऽयमाह, न मयूरम्।
नेमिदत्तनामको जैनलेखक: १५३० तमख्रिष्टवत्सरविरचिते 'आराधनाकथाकोषे’ निम्रलिखितशलोकेन सरस्वतीं मयूरवाहनामवर्णयद्-
'श्रीमच्चारुमयूरवाहनपरा पद्मासना निर्मला
मिथ्याध्वान्तभरप्रणाशविलसद्भास्वत्प्रभाभासुरा।
भव्याम्भोदवनप्रमोदजननी सन्मार्गसंदर्शिनी
देवेन्द्रादिसमर्चिता जिनपते जीयात्सतां भारती।।’
जैनलेखकेनानेन १५२८ तमे ख्रिष्ट संवत्सरे 'श्रीपालचरितं’ निरमायि। ततश्च हंसवाहनाया: सरस्वत्या: प्रसङ्ग: सर्वत: प्रथमं १५३० तमे संवत्सरे श्रुतिगोचरो भवतीति निश्चीयते। एम.आर.मजुमदार: पञ्चदश्यां शताब्द्यां हस्तलिखिते गीतगोविन्दपुस्तके सरस्वत्याश्चित्रमेकं वर्णयति यत्र सरस्वत्याश्चरणसन्निधौ हंस एवाङ्कित:। एवमेव प्रो. ब्राउन: निजलिखिते 'कालकाकथा’ नामके पुस्तके सरस्वत्याश्चित्रमेकं वर्णयति सरस्वत्या: समीपे हंस एवास्ति न मयूर:। इदमपि चित्रं पञ्चदशशताब्दीलिखितम्।
ब्राउनोऽस्मिन् ग्रन्थे तालपत्रोपरि एकादशशताब्द्यां लिखिते पुस्तकेऽपि सरस्वत्याश्चित्रमेकं सूचयति यस्मिन् सरस्वत्या ऊर्ध्वयोर्हस्तयो: कमलम्, अधरयोश्च स्फटिकमाला-पुस्तके स्त:, सम्मुखे चाऽस्या हंसो विलोक्यते। कश्चिदैतिहासिकश्चित्रमिदं महावीरस्य शासनदेव्या: स्वीकरोति, कश्चिच्च चक्रेश्वर्या:, या हि प्रथमतीर्थंकरस्य शासनदेवी।
कह्लणो राजतरङ्गिण्या: प्रथमभागे ३५ पृष्ठे (ए.डी. ११४८) स्वयं सरस्वतीमेव श्वेतहंसरूपामाह-
'देवी भेडगिरे: शृङ्ग गङ्गोद्भेदशुचौ स्वयम्।
सरोऽन्तर्दृश्यते यत्र हंसरूपा सरस्वती।।’
कह्लणकृतं हंसरूपे सरस्वत्याश्चित्रणमिदं सरस्वत्या सह हंसस्य सरसश्च निकटसम्बन्धं सूचयति येन हि तया 'सरस्-वती’ इति पदवी लब्धा। ततश्च सरस्वत्या हंसवाहनता पुरातनेतिहाससम्बद्धेति शक्यते निश्चेतुम्।
जितेन्द्रनाथबनर्जीमहोदय: सरस्वत्या हंसवाहनत्वे प्राचीनमुद्राप्रमाणमप्याह। तथा हि कलिकत्तास्थविचित्रवस्त्वगारस्य (म्यूजियम) गुप्तकालिकस्वर्णमुद्राया उपरि एलन साहिबो लक्ष्मीदेव्याश्चित्रमेकं सूचितवान्, किन्तु बनर्जीमहोदयश्चित्रे हंसं दृष्ट्वा 'सरस्वत्याश्चित्रमिदम्’ इति समर्थयते। ततश्च यदि बनर्जीमहोदयस्य कथनं सत्यं भवेत्तर्हि सरस्वत्या हंसवाहनत्वे षष्ठशताब्दीस्थमप्येकं प्रमाणमुपलब्धं यद्धि उपरिसूचितद्वादशशताब्दीचित्रै: परिपुष्टं भवति।
चतुर्दशशताब्द्यां विद्यारण्य: शृङ्गिगिरौ विद्यामन्दिरमास्थापयद् यत्र हि तेन शारदाया अपि प्रतिमावस्थापिता, किन्तु न तस्यां किञ्चिदपि वाहनं दृश्यते। बी.सी. भट्टाचार्यो 'जैनमूर्तिविद्या’ नामके निबन्धे जैनानां श्रुतदेवीं सरस्वतीदेवीं वा वर्णयति- ''इयं देवी श्वेताम्बराणामनुसारं हंसोपरि तिष्ठति, चतुर्भिर्हस्तै: कमलवरपुस्तकमालाश्चावहति। दिगम्बराणां ग्रन्थेषु च सेयं मयूरवाहना। दिगम्बरै हंसस्य स्थाने मयूर: स्थापित:। दिगम्बराणां विचारानुसारं महामानसी यक्षिणी, विद्यादेवी वा मायूर-हंसमालादीनि चिह्नानि संवहति’’इत्यादि।
कालक्रमानुसारमुद्धृतैरुपरिलिखितप्रमाणै: सुस्पष्टं भवति यद् ब्राह्मणादिग्रन्थेषु भगवती सरस्वती हंसवाहनैव सर्वत्राऽऽलक्षिता। सर्वत: प्रथमं जैनै: विशेषतश्च दिगम्बरजैनैरेव सेयं मयूरवाहना समवर्णि। भारतवर्षेऽस्मिन्नासीत्सोऽपि समयो यत्र दिगम्बरजैनानां सर्वतोऽप्यपरिभवनीय: प्रभावो देशमात्रं व्याप्नोत्। दक्षिणदेशे गुर्जरदेशे च तादृश: सुदृढ: प्रभाव: समन्तात्प्रासरद् यत् शतशतवत्सरेषु व्यतिगतेष्वपि, लोकेषु वैदेशिकशिक्षाप्रभावितेष्वपि सोऽयं साम्प्रतमपि तत्रान्यान्यधर्मापेक्षया भूयस्तरामुपचितो विलोक्यते, जयपुरराज्यमेवेदमालोक्यताम्, अत्र हि न केवलं नगर एव अपि तु राज्यस्य तेषु तेषु प्रान्तेषु जैनमन्दिराणि जैनानामुपाश्रयाश्च निजभग्रावस्थायामपि महान्तं प्रभावमावेदयान्त्यात्मन: कस्मिन्नपि काले। ततश्च स्पष्टमेव परिज्ञातुं शक्यते यन् मयूरवाहना सेयं सरस्वती ब्राह्मणकालिकमूर्तिनिर्माणकलाया उपरि जैनकालिकमूर्तिकलाया: सर्वाङ्गीणविजयस्यैव परिणाम:। दक्षिणादिदेशेषु मूर्तिचित्रणकला सेयं जैनकलाया तथा प्रभाविताभवद् यथा प्रसिद्धश्चित्रशिल्पी श्रीमान् राजा रविवर्माऽपि भगवतीं सरस्वतीं मयूरवाहनामेवाङ्कयामास। रविवर्मचित्राणामेकस्मिन् काले सर्वत्रापि देशेऽक्षुण्ण: प्रभावो व्याप्नोदिति को वा न जानाति? अत एव मुद्रणालयेष्वपि स एव प्रवेशमवापत्। मुद्रणालयमुद्रितचित्राणां च देशमात्रे प्रचारात्सर्वस्यापि भारतस्य कोणे कोणे भगवत्या सरस्वत्या सह मधुरदर्शनस्य मयूरस्यास्य नवीन: सम्बन्ध: स्थापितोऽभवत्। बङ्गादिदेशेषु (यत्र दाक्षिणात्यचित्रकलाया न तादृक्प्रसार:) कुत्रकुत्रचिद्वराकस्य हंसस्यास्य सरस्वतीसेवायामुपस्थितेरवकाश: प्राप्यते।
मयूरवाहनाया: सरस्वत्या: स्थाने स्थाने प्राप्यन्ते प्रमाणानि जैनग्रन्थेषु-शोभनद्वारा दशमशताब्द्यामारचिते 'स्तुतिचतुर्विंशतिका’ नामके ग्रन्थे-
'भारति द्राग् जिनेन्द्राणां नवनौरक्षतारिके।
संसाराम्भोनिधावस्मान्, अवनौ रक्षितारिके।।५९।।’
इति सरस्वत्या: स्तुतिरवाप्यते। सूरतनगरात् कापडियाद्वारा सम्पादिते 'शोभन’ ग्रन्थे वर्णचित्रितमेकमालेख्यमप्यस्ति यत्र सरस्वती (प्रज्ञप्ति:) पादलिप्तसूरिद्वारारचित 'निर्वाणकलिका’ या निम्रलिखितलेखेन सह मयूरासनैव चित्रितास्ति-
'प्रज्ञप्तिं श्वेतवर्णां मयूरवाहनां चतुर्भुजां
वरदशक्तियुक्तदक्षिणकरां, मातुलिङ्गशक्तियुक्तवामहस्तां, चेति’ (पृष्ठ १८४)
शोभनोऽयं देवीं प्रज्ञप्तिं स्पष्टमेव मयूरवाहनां स्तौति, यथा-
'केकिस्था व: क्रियाच्छक्ति-करा लाभानयाचिता।
प्रज्ञप्तिर्नूतनाम्भोज करालाभानयाचिता।।६०।।’
शोभनस्य भ्राता धनपाल: (ए.डी. ६७२) लेखमिमं व्याख्यातवान्- 'केकिस्था मयूरस्था व: युष्माकम्’ इत्यादि। कापडियामहोदयो जैनानां मयूरवाहनसरस्वतीसम्बन्धे अन्यदप्युद्धृतवान्-
शक्तिसरोरुहहस्ता मयूरकृतयानलीलया कलिता।
प्रज्ञप्तिर्विज्ञप्तिं शृणोतु न: कमलपत्राऽऽभा।।
निबन्धेऽस्मिन् भगवत्या: सरस्वत्या विषये साहित्यकथैव सेयमवतारिता, किन्तु भारताद् बाह्येषु देशेषु सरस्वत्या मूर्तिनिर्माणे परस्परं विलक्षणा ये ये शिल्पस्य नानाप्रकारा: प्राप्यन्ते शिल्पकलामार्मिकतया तेषां सुसूक्ष्मविचारे कृते भारतीयमूर्तिनिर्माणविद्याया उपर्यपि तत्तद्देशीयमूर्तिनिर्माणकलानां प्रभावो भूयस्तरामनुमातुं शक्यते। अस्तु, संस्कृतपण्डितानां तान्त्रिकाणां च समक्षमुपस्थापिता सेयं मे विचारणा। सुदृढं विश्वसिमि यदत्र भवेत्तेषामवधानपूर्वकं लेखन्या अवतरणं, येन स्यादलङ्करणं रत्नाकरस्यास्येत्यलम्।
***