भारतीयं भोजनशास्त्रं शष्कुली 'जलेबी’ च
संस्कृतभाषेयं भारतीयानां व्यवहाराद् यत:प्रभृति दूरीभूता तत आरभ्यैव व्यावहारिकशब्दानां स्थानं रिक्तीभूतम्। रेल-तार-ग्रामोफोन-रेडियोप्रभृतीनि यानि वस्तूनि साम्प्रतमेवाऽऽविष्कृतानि तान्यवश्यम् इदंप्रथमतया संस्कृते प्रवेश्येरन्। किन्तु येषां वस्तूनां व्यवहार: शतसहस्रवत्सरेभ्य: प्रचलितस्तेषामपि नामसु संस्कृतपण्डिता: शून्यदर्शिन:। कालिदासादिभिर्वसन्ते वर्ण्यमानं किं किल 'कुरबकम्’? को वा कारण्डव:? मक्का, जुवार, बाजरा प्रभृतीनि केन नाम्ना व्यपदेश्यानीति नाद्यापि निश्चिनुम:। भोजगोष्ठीषु 'फेनी’ घेवर, मोहनभोगप्रभृतीनि सशिर:कम्पं प्रशंसन्तश्चिरादाकण्ठमकुण्ठं भुञ्ज्महे किन्तु किमेषां संस्कृते नामधेयम्, कुत: प्रभृत्येषामाविष्कार इति जिज्ञासैव मनसि नोदेति। अहो अस्माकमध्यापकानामौदार्यं, पाठ्यक्रमस्य च महत्त्वं यत् 'वृक्षविशेष: पक्षिविशेष:’ इति कृत्वैव शिक्षार्थिनां जिज्ञासान्धकारमिमे समाच्छादयन्ति।
आसीदस्मत्सुहृतत्पण्डितमण्डल्यां भोजगोष्ठी। सप्रमोदमभिभुञ्जानां प्राचलत्संलापप्रसङ्गो यद् 'जलेबी’ भोज्यं कियत्प्राचीनं किं चास्य नामधेयम्? गोष्ठ्या एतस्या: प्रमुख: आयुर्वेदमार्तण्ड: श्रीमान् लक्ष्मीरामस्वामिमहाभागो दिवमारूढ:, अन्येऽप्येकद्वा: परलोकपथिका: संवृत्ता:। ये सन्ति तेऽपि कदाचिदेव मन्ये संस्मरेयुर्वृत्तान्तमिमम्। किन्तु मया प्रोक्तमासीत् 'प्राचीनसाहित्यस्य मर्मतो विमर्शनेन सेयं 'जलेबी’ शष्कुलीपदव्यपदेश्या। साहित्ये यत्र यत्राप्यस्य शब्दस्य प्रयोगस्तत्र मार्मिकविचारे कृते 'जलेबी’ पक्वान्नस्यैव सम्बन्ध: सन्धीयते।’ किन्तु पण्डितमालाया: सर्वेऽपि रत्नालङ्कारा: समभूवन्विरुद्धा: सचिक्कण’पण्डितेषु यथा प्रसिद्धं तथा भारते परित: प्रसिद्धा अमी विद्वांसोऽपि प्रतिध्वनिमकुर्वन् यत् 'शष्कुली’ तु 'पूरी’ पदवाच्या भवति। नेयं 'जलेबी’, इत्यादि।
अद्याऽस्य शब्दस्यान्वेषणाय समवाप्त: प्रसङ्गोऽप्यनुकूल:। भाण्डारकरीयप्राच्यगवेषणाध्यक्षम् (क्यूरेटर भण्डारकरओरिएण्टलरिसर्च इन्स्टिट्यूट, पूना) श्रीमन्तं पी.के.गोडे, एम.ए. महोदयं परिचिन्वन्ति रत्नाकरपाठकमहाभागा:, यस्य हि पर:शतानां गवेषणानामनुक्रमिणका प्राकाशि स्थानान्तरेऽस्यां सञ्चिकायाम्। महाभागेनानेन 'न्यूइण्डिया एण्टिकेरी’ पत्रिकायां नवम्बरमासे (स. १९४३) जलेबीभोज्यस्यास्येतिहासो रुचिरमभूद् गवेषित:। तत्प्रेषितस्याङ्गलभाषामयगवेषणापत्रस्य संस्कृते समपेक्षितं सारं समुद्धृत्य, तत: परस्तादहं साहित्ये स्वसन्दृष्टं जलेबी भोज्यस्य समुल्लेखं यथाशक्ति संदर्शयिष्यामि।
पी.के. गोडेमहोदयस्य गवेषणा
भारतीयभोजनशास्त्रस्येतिहासे बहुतरा वार्ता: साम्प्रतमज्ञाता:। विषयोऽयं पाकशास्त्रसम्बन्धिपुस्तकेभ्यो भैषज्यग्रन्थेभ्यो ब्राह्मण-जैन-बौद्धानां ग्रन्थद्वारतश्च सङ्ग्राह्य: स्यात्। पारसीप्रभृतीनां प्रान्तीयभाषाणां च यावान् सम्पर्को भारतीयभाषयाऽद्यावधि संवृत्तस्तस्याऽऽलोचनया तु साहाय्यं प्राप्येतैव, किन्तु वैदेशिकसंस्कृते: सम्पर्कादस्माकं भोजनसामग्रयां या या वृद्धि: समभवत्तस्या अपि क्रमिक इतिहास: शक्येतानेन संलब्धुम्। अस्तु, सम्पूर्णाया: पक्वान्नसामग्रया गवेषणा भूयान् विस्तृतो विषय:। अत एव प्रत्येकविषयस्यै-तिहासिकीं गवेषणां निदर्शयितुमुदाहरणरूपेण 'जलेबी’ भोज्यस्य विषयमुपस्थापयामि-
इदं मिष्ठान्नं महाराष्ट्रेषु विशेषतया पूनानगरे भूयस्तथा प्रचलितं लोकानामभिरुचितं व मोल्सवर्थ महोदयो निजनिर्मिते मराठी- अंग्रेजीकोषे भोज्यस्यास्य विषये 'एकप्रकारकं मिष्ठान्नम्’ इत्येव लिलेख। 'यूल, वर्नैल कृते 'हाब्सन् जाव्सन्’ सङ्ग्रहे(पृ. ४५८) जलेबीशब्द: 'ज़्लाबिया’इति आरव्यशब्दस्य 'जलीबिला’ पारस्यशब्दस्य चापभ्रंश:स्थिरीकृत:। आकृतिरस्य वलयायिताप्युल्लिखिता। 'चिवर्स’कृत'राजनियमविज्ञाने’(पृ. १७८) 'जलेबी’नामके मिष्ठान्ने विषसम्मिश्रणस्य कथोल्लिखिता।
उक्तप्रमाणैर्यदि हिन्दी-मराठी-'जलेब’शब्दस्योद्गमो ज़्लाबिया’ आरव्यशब्दात् स्वीक्रियते तर्हि एतस्या: प्रथमाधिकार: आरव्यभाषाविदुषामेवाधिकं विज्ञात: स्यात्। इह तु भारतीयभोजनसामग्र्यां कदाऽस्या: समावेशोऽभवदित्येव विचारयितुं प्रयत्येत।
(२)
प्राचीने मध्ये च युगे भोज्यस्यास्य व्यवहार: शब्दप्रयोगश्च कुत्र कुत्र कदा कदा चाभवदिति भाषावैज्ञानिका: शब्दानामैतिहासिकाश्च विवेचयेयु:, किन्तु निबन्धेऽस्मिन् एतदेव समर्थयितुं यतिष्ये यद् भोज्यमिदं भारतवर्षे ५०० वर्षेभ्य: प्रचलितम्।
महाराष्ट्रशब्दकोष: साम्प्रतम् (१९३४) अपूर्यत। एतस्य ३ भागे १९०९-१० पृष्ठे 'जलेबी’शब्दे लिखितम्- 'जिल (ली)बी स्त्री, गोधूमसूक्ष्मचूर्ण (मैदा) निम्बुरस-घृत-दधि-शर्कराभिर्निर्मितमेकं मिष्टान्नम्। इयं वलयाकृति:। हिन्दुस्थानी 'जलेबी, जिलेबी’।
सावित्रीबाईजोशीकृते गृहिणीशिक्षके पक्वान्नमिदं द्विविधं लिखितम्- 'जिलबी, केला-जिलबी (एतस्यां गोधूमसूक्ष्मचूर्णेन सह पक्वं कदलीफलमपि मिश्रयते) रावजीश्रीधरगोंडलेकृते सूपशास्त्रे(पृ. ३३, ३४)प्यस्या उल्लेख:। तथैव राजकीये हस्तलिखितपुस्तकागारेऽपि हिन्दीभाषानिर्मितं हस्तलिखितं पाकशास्त्रं (यस्य हि लिपि: २०० वर्षपुरातनी) अस्ती तस्य पृ. १६, १७ द्विविधा जलेबी उल्लिखिता। सम्प्रति तदिदमन्वेषणीयमस्ति यत् महाराष्ट्राणां सामाजिककार्येषु धार्मिकोत्सवेषु च प्रयुज्यमानस्यास्य पक्वान्नस्येतिहास: कियत्प्राचीन इति।
गोडेमहोदयेन स्थानेऽस्मिन् कतिचित्पत्राणामुल्लेख: कृत:। तेषु प्रथमं पत्रं काश्मीरवासिन: प्रो. सिद्धेश्वरवर्मणोऽस्ति। महोदयेनानेन लिखितम्-उत्तरभारते 'जलेबी’ भोज्यं बहु प्रचलितम्। इदं सूक्ष्मगोधूमचूर्णेन (मैदा) शर्करया च निर्मीयते, घृते च परिपच्यते। एतद्देशीया: पण्डिता: प्राचीनस्य 'कर्णशष्कुली’ शब्दस्यानुवादं 'कर्ण-जलेबी’ति कुर्वन्ति। शष्कुलीपदस्यार्थं जलेबीति वदन्ति। यतो ह्यस्याकृति: कर्णेन बहुतरं संवदते। भारतीये मध्यकालिकसाहित्ये, आरव्यपारस्यसाहित्ययोश्च'जलेबी’ भोज्यस्य प्रकरणं तेन दृष्टं स्यादिति नासौ स्मरति।
द्वितीयं पत्रं डा.डी.सी. सरकार, एम.ए., पी.एच.डी. महोदयस्यास्ति। एतेन हि जलेबीशब्दस्योद्गमो 'जलाबिया’ इत्यारव्य शब्दादेषु समुचितो मेने। मिष्टान्नमिदं भारतस्य सर्वेष्वेव भागेषु प्रचलितम्, प्रान्तानुसारं जिलेबी, जिलिपी, जिलापी, जलापीनामभि: परिचितम्। वङ्गप्रचलित: 'जिलापोर पाक’ इत्याभाणक: (कहनावत) भोज्यस्यास्य वलयाकारं संस्थानमाधारीकृत्य कस्यचिद्वक्रतायामवतरति। इदं चूर्णकदलीफल-सूपपिष्टकैर्निर्मीयते, नारिकेलकपाले निक्षिप्य घृतेन पच्यते, तत: सितालेहे (चाशनी) सन्तर्प्यते। वङ्गसाहित्ये भूयस्तरां प्रयुक्तमिदम्।
तृतीयं पत्रं कार्णाटक- डा.ए.पी. कर्मार्कर एम.ए., एल.एल.बी., पी.एच.डी. महोदयस्य। एष लिखति- कर्णाटकस्य सर्वेष्वेव प्रान्तेषु जलेबी प्रचलिता। सा हि जिलाविलु जिलेबी, तथा जिलेब्बु इति प्रसिध्यति। मद्रासविश्वविद्यालयात् प्रकाशिते तामिलशब्दकोषे लिखितम्- 'तमिलदेशे सेयं जिलेपीति प्रोच्यते। अयं शब्दो हिन्दी जलाबिया अथवा जलाबी इत्यस्मादपभ्रष्ट:।’
विवरणैरमीभि: स्पष्टीभवति यद् भोज्यमिदं भारतस्य कोणे कोणे प्रसिद्धम्।
डा.एस.बी. केतकरकृत 'मराठी’ शब्दकोषे न किञ्चिल्लिखितं जलेबीभोज्यविषये, यद्यपि हाब्सन-जाब्सनमध्ये तदिदमुल्लिखितम्। महाराष्ट्रेतिहासस्य 'पेशवा-कालं वर्णने धर्मशास्त्रानुसारं ब्राह्मणेषु कथं व्यवहर्तव्यमिति पदे पदे निदर्शितम्। ततश्च १७०० ई. आरभ्य १८१८ ईसवीपर्यन्तं पेशवानां समये ब्राह्मणभोजनस्य दक्षिणादेश्चोल्लेखपत्रै: जलेबीभोज्यानुसन्धानस्य भूयसी सम्भावना। महाराष्ट्रविद्वद्भय: प्रार्थना यत्ते १७००तमात्ख्रिष्टवत्सरात्पूर्वस्य प्रमाणस्य चेदन्वेषणं कुर्युस्तां तत्समधिकमुपयुज्येत।’
एतदासन्ने एव समये (१६७६-७७ख्रि.) रघुनाथपन्तहनुमत्कृते राज्यव्यवहारकोषे भोज्यवर्गे जलेबीभोज्यस्य न कोऽप्युल्लेख: (कोषो छत्रपते: शिवाजिन: कृते निरमीयत्। अस्मिन् तत्कालप्रचलितानां महाराष्ट्रशब्दानां सङ्ग्रह:, यो हि दशवर्गेषु विभक्त:- राजकार्यस्थान-भोज्यशास्त्र-चतुरङ्ग-सामन्त-दुर्ग-लेखन-जनपदपण्येति। मुगलशासनकाले देशीयभाषास्वपि यवनभाषाया आक्रमणस्य दृश्यतां स्पष्टं निदर्शनां पण्डितानां मनोविनोदाय भोज्यवर्गस्य दीयते काचिद्वर्णिका-
'अथ पाकालयं मुद्बख्खानेति परिभाषितम्।
मुब्दखी पाककार: स्याच् चासणीकार नाम तु।।८०।।
रुचिग्राही, पाककर्मी तु स्याद् दवादवी।
रसोयी स्यात्तु सिद्धान्नं कन्दोरी त्वन्नमुच्यते।।८१।।
पानकादिरसस्थानं शर्बतखाना प्रकीर्तित:।
फलजाते तु मेवा स्यात् खुष्तरं खाद्यवस्तुनि।।८६।।
पण्यवर्गे-
अरालिको भटारी स्यात् भर्जकस्तु फुटाणगार।
आपूपिक: शिरीन्गारो भुसारी धान्यविक्रयी।।७६।।’
किन्तु राज्यव्यवहारकोषे नासीदित्यनेन देशे तस्मिन्समये 'जलेबी’- भोज्यस्य प्रचार एव नासीदिति न शक्यते विज्ञातुम्। 'भाण्डारकर ओरिएण्टल-रिसर्च-इन्स्टिट्यूट, हस्तलिखितपुस्तकालये पाकशास्त्रस्यैकं तादृशं दुर्लभं पुस्तकमुपलब्धं यस्य लिपि: १६७८ तमे विक्रमाब्दे (१७३४ ई.) संवृत्ता। मूलपुस्तकं तु कदाचित् चतुर्दशपञ्चदशशतकादपि पुरातनी कृति:। ग्रन्थेऽस्मिन् 'जलेबी’ भोज्यस्य न केवलं नाम निर्देश एव, अपि तु मिष्टान्नस्यास्य निर्माणप्रकारोऽपि विस्तरेण वर्णित:-
(हस्तलिखितप्रतिसंख्या ६४१-१८८७-९१। पत्रसंख्या १४)
अथ जलेबी कुण्डल संस्कृते
द्विप्रस्था शुद्धशमिता चतुर्गोधूमगालिता।
मिमर्घयपसा(पयसा) स्थाप्या यावदम्लत्वमाप्रुयात्।।
सच्छिद्रे नारिकेरस्य पात्रे तप्तकमाहरेत्।
परिभ्राम्य घृते तप्ते पचेत्तन्मन्दवह्निना।।
सुपक्वां कङ्कणाकारां सितालेहे निपातयेत्(विनिक्षिपेत्)।
सा तु कुण्डलिका१ नाम्रा क्वचिच्च जलवल्लिका।
जलवल्ली सरा वृष्या बृंहणी हृष्टिपुष्टिदा।
धातुस्तन्यकरी हृद्या विशेषा बलतुष्टिदा।’’
उपरिलिखितानि गुण्यगुणबोधिन्या:’ पद्यानि महत्त्वपूर्णानि, ततो ह्यस्मात् प्राचीनं पाकशास्त्रविषयकं पुस्तकं न मयोपलब्धम्। भारतीयभोज्यशास्त्रस्य विद्वांस: कदाचित् १००० तमात् ख्रिष्टीयवत्सरादुत्तरं निर्मितस्य ग्रन्थस्य कुर्युरनुसन्धानम्। 'गुण्यगुणबोधिनी’ १६०० ख्रिष्टवत्सरात्पूर्वभवा कृति:। साम्प्रतमित: पूर्वो 'जलेबी’ भोज्यस्येतिहासो गवेषणीयो नूनम्।
जिनसूरिरचित: 'प्रियङ्करनृपकथा’ नामको जैनग्रन्थ: षोडशशतकात्पूर्वं निर्मित:। एतस्मिन् श्रेष्ठिनैकेन दत्तो महाभोजो विस्तृत्य वर्णित:। अस्मिन् पक्वान्नैरन्यै; सह 'जलेबी’ भोज्यस्याप्युल्लेख:-
(प्रौफेसरकापडियाद्वारा सम्पादितम् संस्करणम् पृ. २८-२९)
१. जलवल्लिका-जलवल्ली इत तु 'जलाबिया’इत्यारव्यशब्दादपभ्रंश्य संस्कृते विनिर्मितम्।'कुण्डलिका’ आकारानुरूपं नाम, कदाचिदिदमेव प्राचीनकाले व्यवहृतं भवेदिति (गोडेमहोदयटिप्पणी
''तत: श्रेष्ठी भोजनावसरे सर्वस्वजनानां स्थालीवर्तुलिकादि मण्डयित्वा शर्करापानीयं पूर्वं परिवेषयामास। तत: कुङ्कण-कदलीफल-केहिलापाक-खारिक खजुर-खांड-गुंदवडा-घेवर-चारवी-चारोली-जलेबी-टुप्पर-करमीरु? द्राख नीलीद्राख-दाडिमकुली-पनीस? फीणी-पोउआवसोला वायम-पिस्तां अषोड-सेलडी-शृङ्गाटक-प्रमुखफलावली परिवेषिता।....’’
प्रोफेसर एच.आर. कापडियाद्वारा सम्पादितमिदं संस्करणम्। श्रेष्ठिदेवचन्दलालभाई। जे.पी-धनराशि (फण्ड)पुस्तकमालाया: ८० तमो ग्रन्थ: (सूरतनगरात्प्रकाशित: १९३२) चायम्। अस्य प्राक्कथने (पृ. १०) प्रो. कापडिया लिखति- 'जिनसूरिर्बीसलराजसूरे: शिष्य:। आसन् बीसलराजस्य बहव: शिष्या:। तेषामेकतम: १५१२ विक्रमाब्दे (१४५६ ख्रि.) वीतरागस्तोत्रोपरिपञ्जिकामलिखत्। ततश्च जिनसूरे: समय: १५१२ वि. (१४५६ ख्रि.) त आरभ्य १६०० वि. (१५४४ ई.) पर्यन्तो भवेत्। यदि जिनसूरिविषये प्रो. कापडियामहोदयस्यानुमानं सम्यक् तर्हि प्रियङ्करनृपकथाया निर्माणकाल: १४०० ई त: १५०० ई. पर्यन्त:। एतस्मिन्नुलिखितं जलेबीवर्णनं १५०० ई. त:सुतरां प्राचीनम्।
सप्तदशशताब्द्यां लिखिते पाकशास्त्रग्रन्थे 'भोजनकुतूहले’ 'जलेबी’ निर्माणप्रकार एवं वर्णित:- (पत्रं २०)
'नूतनो(?) घटमादाय तस्यान्त: कुशलो जन:।
प्रस्थार्धे परिमाणेन दध्नाम्लेण प्रलेपयेत्।।
द्विप्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम्।
घृतमर्धशरावं च घोलयित्वा घटे क्षिपेत्।।
आतपे स्थापयेत्तावत् यावद्याति तदम्लताम्।
ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रे भाजनेन तत्।।१
१. पाकशास्त्रविषयकं संस्कृतपुस्तकमिदमतिप्राचीनम्। लिखितपुस्तकालये उपलब्धस्यास्य साधारणलेखकलिखिताया लिपे: प्रारम्भोपसंहारौ एवं तावदविकलौ। 'श्रीगणेशाय नम:। अथ भक्तादिप्रकरणम्।’ 'जले चतुर्दशगुणे क्वथिते सखे वरान्। तन्दुलानम्भसा धौतान् द्विस्त्रिर्वा मौक्तिकाकृतीन्। पृथौ शरावे शाल्यास्यस्थिते सविवरे दृढे। परितो वस्त्रखण्डेन विसंधिपरिवेष्टिते। इत्यादि। समाप्तिस्तु- 'इति भोजनप्रकरणम्। श्री: श्री: संवत् १७३४ वर्षे चैत्रासितनवमी कर्मवाट्यां लिखितेयं पुस्तकम्?।’
मार्मिकाणां प्रमोदाय पुस्तकस्य प्रकरणानि सूच्यन्ते- अथ नानाभक्तगुणा: (१-२) अथ मण्ड: (२) अथ जूषा: (३) सूपा: (३-४) पापरगुणा: (४-५) यायसगुणा: (५) पोलिकागुणा: (५) मण्डिका (५) यमलरोटिका: (६) पूरिका: (६) कचवल्ली (६) वटक: (६) पक्ववटी (७) पानकम् (८) रागखाण्डवम् (८) शिखरणी (८) वासवती (८) सन्धानगुणा: (८) फेणिका (९) लड्डुका: (१०) बिन्दुमोदका: (११) दुग्धकरञ्जिका: (१२) पय:शृङ्गारका: (१२) क्षीरशाकम् (१२) लापसी (१२) चन्द्रहासी (लपसिका) (१३) घेवर: (१३) अपूपक: (१३) दधिवटिका (१३) जलेबी (१४) माठ: (१४) इन्दुरसा (१४) कसार (१४) शक्तु: (१५) कुलमाषा: (१५) कोहरी (घुंघुटी इति लोके) (१५) धाना: (१५) बहुरी (१५) उम्बिका (१५) चणकहोलक: (१५) लारी (१५) मांसरन्धनप्रकारगुणा: (१६) भृष्टादिलक्षणम् (१६) सर्वमांसप्रक्षालनप्रकार: (१७) वेसवार: (१७) इति गुण्यगुणबोधिन्यां भक्तादिप्रकरणम्। एवं किल १७ पत्रेषु प्रकरणमिदं समाप्तम्।
पाकशास्त्रविषयकम्. इत्यादिका सेयं टिप्पणी गतसञ्चिकाया: पृ. ३१३ 'गुण्यगुणबोधिनी’ विषयिकास्ति। एषा तत्रैव पाठकैर्बोध्या (सम्पादक:)
परिभ्राम्य परिभ्राम्य तत्सन्तप्तघृते क्षिपेत्।
पुन: पुनस्तदावृत्य विदध्यात् मण्डलाकृति:(?)।।
तां सुपक्वां घृतान्नीत्वा सितापाके तनुद्रवे।
कर्पूरादिसुगन्धं च श्रपइयित्वोद्धरेत्तत:।।
एषा कुण्डलिनानाम्ना पुष्टिकान्तिबलप्रदा।
धातुवृद्धिकरी वृष्या रुच्या चेन्द्रियतर्पणी।। (इति जलेबी)’
भोजनकुतूहलस्य तिथि: शक संवत् १७२५ (१८०३ ई.) 'शके १७२५ रुधिरोद्गारी नाम संवत्सरे चैत्रकृष्णचतुर्दश्यां सौम्यवासरे इदं ग्रन्थ: समाप्तिमगमत्।’ (हस्तलिखितपुस्तकम्, यत्र ५९) भोजनकुतूहलनिर्मातुर्नाम अनन्त देवादयपुत्रो रघुनाथ:। क्चह्वह्म्ठ्ठद्गद्यद्य बर्नैलेन (पृ. ७३) लिखितम्- 'एतस्यानावश्यकपुस्तकस्य मिथ्याभिमानी सङ्कलयिता दक्षिणभारतस्य निवासी। एतस्य समय: सप्तदशशताब्द्या: (ई) अन्त:, अष्टादश्या आदिर्वा भवेत्। तञ्जोरस्य हस्तलिखितपुस्तकानां सूचीपत्रेऽपि (भाग: १६, १९३६ ई.) भोजनकुतूहलस्य प्रतिलिपिर्वर्तते (क्रमसंख्या ११२३८ त: ११२४३। ११२३८ तमा प्रति: १७५० ई. लिखिता)’
भोजनकुतूहलस्य प्रोक्तानि पद्यानि भावप्रकाशेऽपि प्राप्यन्ते। एतेषामाधारेणैव 'मुल्कराज आनन्दनाम्रा निजपुस्तके जलेबीनिर्माणप्रकारो लिखत:। पद्यानीमानि पाकशास्त्रस्य लिप्याम् (१६७८ ई.) अपि प्राप्यन्ते। भूयस्तरां सम्भवो यद् भोजनकुतूहलकर्ता रघुनाथ: पाकशास्त्रपद्यान्येव दृष्टौ दृढीकृतवान्। यदीदं तथ्यं तर्हि भोजनकुतूहलमवश्यमेव १७०० ई. आसन्नकाले निर्मितम्। पाकशास्त्रस्य विषये लिखितं पुरा यत्पुस्तकमिदं १६८० ई. त: पूर्वमलेखि। एतस्य निर्माता सन्तरामदासस्य दृढं मित्रम्। समयोऽस्य १६४० ई. त: १७१२ ई. मध्यगत:। रघुनाथेन साधारणतया तान्येव नामानि पक्वान्नानां दत्तानि यानि साम्प्रतं महाराष्ट्रयां प्रयुक्तानि। एतेषां सूची अतिदीर्घा यस्या उद्धरणमिह कठिनमनावश्यकं च।’
एतदग्रे गोडेमहोदयेन महाराष्ट्रेषु प्रचलिताया भोजनसामग्र्या दीर्घैका सूची दत्ता। सेयं नागपुरस्थ एच्.एन. नेनेसम्पादित- 'लीलाचरित्र’ (१९३६ ई.) स्याधारेण। चरित्रमिदं त्रयोदशशताब्द्या:। यद्यप्यस्मिन्- 'जलेबी’ भोज्यस्य न दृश्यते नाम, तथापि समयेऽस्मिन् देशे कियन्ति भोज्यपक्वान्नानि प्राचलन्निति सम्यग् विज्ञायते। सूच्या एतस्या दर्शनादिदमपि ज्ञायेत यत् त्रयोदशशताब्दीमारभ्याद्यावधि महाराष्ट्रे भोजनसामग्रीषु नाधिकं परिवर्तनम्। उपरि सूचितमस्ति यत् षोडशशताब्द्यां गुर्जरदेशे जलेबीभोज्यमिदं प्राचलत्। सम्प्रति गवेषकैरन्वेष्यं यत् जलेबिभोज्यमिदं कस्मात् (देशात्) कस्मिन् समये चास्माभिरात्मीयीकृतम्।
शष्कुली
जलेबीभोज्यस्येतिवृत्तमेतदवधि समधिगतं गवेषणामार्गेण पाठकमहाभागै:। साधनसम्पन्नानामनुभविनां 'गवेषकाणां’ सम्मुखे नि:साधना: केवलं यत्किञ्चित्साहित्यधना: किं वा प्रगल्भेरन्? किन्तु साहित्ये पक्वान्नस्यास्य कुत्र कुत्र वर्णनसम्बन्ध: समुपलब्ध इति स्वयं गोडेमहाभागोऽपि जिज्ञासते किञ्चित् साहित्यज्ञेभ्य:। अत एव प्रारम्भे किञ्चित् प्रस्तुतं प्रसङ्गादिह निवेदयितुमिच्छामि। मम दृष्टौ पक्वान्नमिदं संस्कृतसाहित्यस्य प्रचारमध्ययुगे भारतीयजनताया: सुपरिचितं पण्डितानां प्रयोगभुक्तं चासीत्। यद्यपि प्रान्तीयभाषाणामुज्जृम्भणसमये हिन्दी- (व्रज) भाषाया: साहित्यक्षेत्रव्यापनकाले च विनोदप्रियपण्डितमण्डले 'कुण्डलिका-जलवलि-जलवल्ली’त्यादय: शब्दा अपि प्रावर्तन्त किन्तु ते 'जलेबी’ति भाषाप्रसिद्धशब्दानुकरणेनैव। यथा सुप्रसिद्धकवीन्द्राणां जयपुरराजवैद्य-श्रीश्रीकृष्णरामभट्टानां 'सिद्धभेषजमणिमालायाम्’ ''जलवलिवलयानि प्रौढपित्तक्षयानि’’ इत्यादि। किन्तु संस्कृतसाहित्ये पुरा प्रायुज्यत 'शष्कुली’ इत्येव शब्दो जलेबीत्येतदर्थम्। 'कर्णशष्कुली’ति साहित्ये सन्दर्भणं बहो: कालात्प्रचलितम्। प्रायोजि बाणादिभिरपि तदिदम्। वेणीप्रभृतिनाटकेषु तु प्राय: पदे पदे समुपलभ्यते। सेयमौपम्योक्ति: कर्णस्य जलेबीभोज्यस्य चाऽऽकारसाम्येन प्राचलदिति न केवलं मादृशा एव, अपि तु गवेषकप्रवर-प्रो. सिद्धेश्वरवर्मणापि पूर्वमुल्लिखितम्।
काश्मीर: शारदादेश इति प्रोचुर्बिह्लणादय:। सत्यं तत्र (काश्मीरेषु) गवेषणे कृते 'संस्कृतगिर: प्रयोगप्रवाहो निभृतं निगूढ इव प्राप्यते। अद्यापि तत्र संस्कृतज्ञमण्डले जलेबीभोज्यार्थं 'शष्कुली’ प्रयोग: प्रसिध्यति। शुद्धपण्डिताश्च 'कर्णशष्कुली’त्यस्य 'कर्णजलेबी’त्यनुवादं विदधति। परम्पराप्रचलित: प्रयोगप्रवाहोऽयं न किं प्रमाणयति प्राचीनकालेऽपि भोज्यस्यास्य सत्ताम्?
''शष्कुलीशब्दमात्रेण किं दूरं योजनत्रयम्’’ इति हि साधारणकक्ष्यायां प्रचलितो भोजनभट्टानां परिहासोऽप्यास्वादविशेषेणाऽऽकर्षकतया 'जलेबी’ भोज्यमेवोपस्थापयति व्यवहारप्रवाहे। 'शष्कुली’पदस्य 'पूरी’त्यर्थस्तु 'सचिक्कण’ पण्डितार्ह एव। साहित्ये न केवलं 'कर्णशष्कुली’त्येव प्रयोग:, प्रेक्षित:, प्राप्यते प्रातिस्विकरूपेण पक्वान्नस्यास्य कृते 'शष्कुली’पदप्रयोगोऽपि नि:शङ्कम्। साहित्यपदसंघटनायां मूर्द्धन्यं स्थानमधिष्ठिताया वैदर्भरीतेज्र्वलदुदाहरणभूता अनन्तकविनिर्मिता ''भारतचम्पू:’’ संस्कृतसाहित्यस्य मौलिमण्डनभूता। हन्त एतद्देशीया: केचन जनतामान्या अपि महापण्डितास्तामिमामप्रसिद्धां जानन्ति। हन्त नैते वराकास्तादृशे देशे वातावरणे च प्रालिता:। दक्षिण-गुर्जरादिप्रान्तेषु व्युत्पत्तये प्रधानपाठ्येयं चम्पू:। अस्ति च काश्यादिषु परीक्षायामपि नियता। अत्र अर्जुनद्वारा खाण्डववनदाहे रुचिरतममुक्तमनन्तकविना। बहो: कालात्पूर्वं पठितमपि मम हृदयपटलेऽद्यावध्यपि चित्रितमिव। जलेबीभोज्ये उपरित: किञ्चित्कर्करता ('कुरकुरापन’) अन्तश्च रसनिर्भरता प्रशस्यते। अनन्तकविराह-
'ज्वालतापभरकुण्डलिताङ्गी: क्ष्वेडसारघृतसेचनमृद्वी:। सर्पपुङ्गवततीरतिहृष्ट: शष्कुलीरिव चचर्व कृशानु:।।’
महाराष्ट्रष्टीकाकारो व्याख्याति- 'कोडबली इति जिलीबी इति च प्रसिद्धपदार्थानिव’।
तापात् कुण्डलाकारेण स्थितानां सर्पाणां राशिर्हन्त जलेबीभोज्याकारेण प्रेक्ष्यतां कियत्संवदते? अहह स्वल्पचर्मावृते सर्पशरीरे अभ्यन्तरं रक्तवसापूर्णता 'जलेबी’ भोज्यं कियदनुहरते?
जलेबीत्येतद्बोधनाय न केवलं 'शष्कुली’शब्दप्रयोग एव प्राप्यते संस्कृतसाहित्ये, कर्णस्याकारसाम्येन चित्रं 'कर्णशष्कुली’त्यपि व्यपदेशो दृष्ट: साहित्ये। अध्यात्मरामायणं को वा भूमण्डले न वेत्ति संस्कृतस्य। एतस्य 'बालकाण्डे’ भगवतो रामचन्द्रस्य वर्षवृद्ध्यादिमहोत्सवेषु मङ्गलार्थमभ्युदयार्थं च जननी कौसल्या यत्र वायनानि ददाति तेषु कर्णशष्कुल्या: प्रेक्ष्येत प्रयोग: प्रेक्षावद्भि:। अत्र 'कचोरी’त्यस्यापि प्राप्यते व्यवहारो यथा-
''कौसल्या जननी तस्य मासि मासि प्रकुर्वती।
वायनानि विचित्राणि समलङ्कृत्य राघवम्।।५०।।
अपूपान् मोदकान् कृत्वा कर्णशष्कुलिकास्तथा।
कर्णपूरांश्च विविधान् वर्षवृद्धौ च वायनम्।।५१।।’’
विवादशीलमहोदयानां नात्र विवादस्याऽप्यवसर:। 'गीताप्रेस, गोरखपुर:’ त: अध्यात्मरामायणस्य यत्संस्करणं साम्प्रतमेव प्रकाशितं तत्र भाषान्तरकर्त्रा मुनिलालमहोदयेन 'कर्णशष्कुली’त्यस्य 'जलेबी’ कर्णपूरपदस्य च 'कचौडी’त्यनुवादो विहित:।
न चायं प्रयोगप्रवाह: प्रावहत्केवलं साहित्यसौरभोद्याने एव। अनुवर्तते सोऽयं गहनजटिले शास्त्रार्थप्रान्तरेऽपि। न्यायव्याकरणपण्डितेष्वपि 'शष्कुली’ पदं जलेबीभोज्यस्यैव कृते समवातरत्। न्यायमुक्तावल्यां द्रव्यनिरूपणप्रकरणे मनसोऽणुत्वसाधने- ''न च दीर्घशष्कुलीभक्षणादौ नानावधानभाजां च कथमेकदा-नानेन्द्रियज्ञानम्’’ इति जलेबीभोज्यस्यार्थे स्पष्टं प्रायोजि शष्कुलीशब्द:। हन्त, संस्मरामि खेदेन, यदेकेन न्यायाचार्येण शष्कुलीपदस्य 'कचोरी’त्यर्थोऽकारि। शष्कुली 'पूरी’, दीर्घशष्कुली च 'कचौरी’ति मन्ये महाभागस्य हृदयम्। किन्तु तदिदं नैयायिकानां परम्पराप्रचलितं व्युत्पन्नत्वं सूचयितुमेवाऽलम्। कदाचिदत्र तर्ककर्कशमतय: केचिच्छास्त्रार्थायाऽपि सन्नह्येरन्, किन्तु विद्याकेन्द्रभूतायां काश्यां समधीतन्यायादिदर्शनशास्त्रेण निर्मल पं.स्वामिगोविन्दसिंहसाधुना मुक्तावल्यां या हिन्दीटीका निर्मिता, या च १९७२ विक्रमाब्दे वेङ्कटेश्वरमुद्रायन्त्रालये मुद्रिता तस्यां 'शष्कुली’ शब्दस्य जलेबीत्येवाऽर्थोऽकारि। एष हि महाभाग: काशीस्थपण्डितमण्डल्यां प्रासिध्यत्तस्मिन् समये। टीकायामेतस्यां भारतप्रसिद्धं काशीस्थपण्डितप्रवरराममिश्रमहाभागानां सम्मतिरप्यासीदिति संस्मरामि।
अस्तु, नाधिकविस्तरेण प्रयोजनम्। किन्तु व्यावहारिकशब्दानां विषये वर्तमानसंस्कृतज्ञा: किंकर्तव्यविमूढा इव। केचिदविकृतान् भाषान्तरशब्दानेव संस्कृते प्रवेशयितुं यतन्ते। अपरे संस्कृतशैल्या तान्परिष्कृत्य जिघृक्षन्ति। किन्तु सन्ति संस्कृतसाहित्ये व्यवहृता: प्राचीना एव व्यावहारिकशब्दा भूयांसो ये ह्यनुशीलनाभावादस्मत्तो दूरीभूता:। तेषामन्वेषणाय संस्कृतसेविभि: किञ्चित्परिश्रमितव्यं स्यादित्यलं विस्तरेण।
***