विच्छित्तिवैपुल्यं, विविधा विधाश्चाभिव्यक्ते:
छन्दोनिबन्धकानां कवीनां रचनाशैली निबन्धनीयविषयानुसारं नानाविधान्मार्गानादायाऽग्रसरीभवति। कुत्रचित् स्वल्पमप्यर्थं विपुलं विस्तृत्य स वर्णयति, क्वचित्तु भूयांसमप्यर्थं प्रतिभाचातुर्येण भृशतरं लघूकृत्य समुपस्थापयति। एतावल्लाघवमाश्रयति यद् विस्तृतवाक्येन बोधनीयमर्थं केवलमेकमात्रेण पदेनोपनिबध्राति। पुरातनै: कविभिर्निर्जरचनासु भूय: परिशीलितोऽयं प्रकार: वामनादिभिर्विस्तारप्रकारोऽयं 'व्यास’नाम्ना, संक्षेपप्रकारश्च 'समास’नाम्ना सूचित:। प्राञ्च: कवय: प्रकारैरेभिर्भूयान्सं लाभं प्रायु: किन्तु मध्ययुगस्य साहित्यशास्त्रान् (अलङ्कारशास्त्रान्, रीतिग्रन्थेभ्य:) एवंविधा विषयास्तिरोहिता बभूवु:। तत्स्थानम् अन्यान्यशास्त्रै: सह विवादमया विषया अवरुरुधु:।
उपरिसूचितसाहित्यरचनार्थमुपयुक्ता भाषा अपेक्ष्यते। भाषाया: सम्पत्तिस्तु अर्थान् तादृशसम्पत्त्यर्थं साधकानि यथेष्टमर्थदातार: शब्दा धातवश्चेति को वा न जानाति? संस्कृतभाषाया नामानि (प्रातिपदिकानि) धातवश्च तथा कामधेनवो यथा एभिर्निबद्धा रचना अद्भुतं प्रभावमुत्पादयामास सहृदयानां हृदये। अपेक्ष्यते तु तत्र साहित्यनिबन्धकस्य कवे: प्रतिभाचातुर्यं नूनम्। 'कल’ कामधेनुरिति प्रसिद्धो वैयाकरणवर्गे। अर्थात् 'कलयति’ इति क्रियां करणरचनस्थापनविचारणादिनानार्थेषु प्रयुयुजु: प्राञ्च: कवय:। एवं किल यथेच्छ विस्ताराय सुखं स्वातत्र्यं लब्ध्वाऽपि यथामनोरथमर्थसम्पत्तये पुनरग्रे प्रासरन् प्राचीना: प्रतिभासम्पन्ना:। ते हि एकस्य धातो: प्रयोजनमन्येनाऽपि धातुना यथेष्टं सम्पादयामासु:। एतदर्थमेव दार्शनिकगोष्ठ्यां प्रपञ्चिता लक्षणाव्यञ्जनादीनां मार्गा: साहित्यसीमायामपि प्रविविशु:, यैर्हि नानाविधविचित्रार्थसम्पत्ति: कविभिरधिगता। एतस्या अर्थसम्पत्तेरधिगमाय साहित्यरीतिग्रन्थेषु लक्षणाव्यञ्जनादीनां भूयांसो भेदा: प्रकाराश्च प्रचलिता यैस्तावदलङ्कारग्रन्थानां भूयान् भागोऽवरुद्ध:। किन्तु तेषामुपयोगं यथावदजानतां साम्प्रतिकसाहित्याध्यायिनां कृते रीतिग्रन्थानां सोऽयं भाग: केवलं घोषणाय कण्ठशोषणायैव।
विवादमात्राय फक्किकाग्रन्थान् सञ्चिन्वन्तो नवीनवैयाकरणा अपि मार्गमिमं विस्मृतवन्त:। किन्तु यथार्थतो व्युत्पन्नै: प्राचीनवैयाकरणैर्निजनिबन्धेषु पद्धतेरेतस्या दिग्दर्शनं यथावद् विहितम्। समर्थै: कविभिश्च सोऽयं मार्ग: संस्कृतभाषाया व्यवहारप्रवाहे प्रचारितश्च पूर्वम्। वर्णिका ('बानगी’) प्रदर्शनार्थमेवंविधा धातव: केचिदधो निर्दिश्यन्ते। नानाविधानां छन्दसां गतेरनुसारं नानाभङ्गीनि वाक्यानि विरचयितुं विवशा:, अत एव हि रचनासमये स्वोपयुक्तान् शब्दान् धातूंश्च गवेषयन्तो रचनानिबन्धका: कवय एतेषामुपयोगमवसरे परिज्ञास्यन्ति। प्रयोक्तॄणां सौकर्याय नानावाक्यानि स्वयं विरचय्य धातूनाममीषां प्रयोगप्रक्रियां रचयमहं सूचयामि। दिग्दर्शनेनाऽनेन व्युत्पन्ना: कल्पयेरन्नन्यान्येषामपि धातूनां प्रयोगम्।
''पश्यति’’ इत्यभिव्यञ्जयितुं
१. नेत्रपर्यायै: शब्दै: सह अतिथि-गोचर-प्राघुणिक-विषय-प्रभृतीन् उपयुक्त शब्दान् संयोज्य ते यदि 'कर्म’ कारकाणि निर्मीयन्ते तर्हि करणार्था अपि धातवो दर्शनार्थकानां धातूनां कार्यं कुर्वन्ति।
२. नेत्रपर्याया: शब्दा: 'करण’ कारकाणि भूत्वा पानार्थकैर्धातुभि: सम्बध्यन्ते तर्हि पानार्थका अपि धातवो दर्शनार्थकानां धातूनां कार्यं कुर्वन्ति। यथा- नेत्रयोरतिथिं करोति। लोचनगोचरं विदधाति। लम्भयति लोचनातिथिताम्। प्रापयति प्रेक्षणप्राघुणिकताम्। उपनयति नयन विषयताम्। नयति नयनयोरतिथिताम्। निर्माति नेत्रविषयम्। नयति नयनसीमनि। विदधाति नयनयोरतिथिम्। आतनुते प्राघुणकं नेत्रयो:। लोचनयोर्गोचरमुपानयति। विदधाति विलोचनविषयम्। उपनयति नयनपथम्। प्रापयति प्रेक्षणपथम्। चक्षुषो: प्राघुणकमातनुते। गमयति गोचरं चक्षुषो:। नेत्रातिथिमुपकल्पयति। नयनयोरवतारयति। दृशोरुपनयति। दृशोरानयति गोचरम्। निर्माति नेत्रयोरतिथिम्। आनयति नयनयोर्गोचरम्। रचयति लोचनयोरतिथिम्। दयया दृशोरूपहरति। दृष्टिमुपनयति। वितनोति नेत्रयोरतिथिम्। दृशोर्गोचरमुपगमयति। नेत्रातिथिमारचयति। लम्भयति लोचनान्तिकम्। आनयति नयनयोरभिमुखम्। दृशोगोचरी करोति। दपया दृग्गोचरं तनुते। विरचयति नेत्रयोरतिथिम्। विदधाति वीक्षणविषयम्। आचरति गोचरं चक्षुषो:। निर्माति नयनयोर्विषयम्। गमयति गोचरमक्ष्णो:। अवतारयति दृशो:। उपहरति चक्षुषो:। नयति नयनविषयम्। अधिनमयति नयनाङ्गणम्। अतिथिमातनोति नयनयो:। प्राघुणकमारचयति चक्षुषो:। आपातयत्यन्तिकं चक्षुषो:। वीक्षणाङ्गणमुपस्थापयति। सङ्गमयति नयनाभ्याम्। उररीकरोति चक्षुर्भ्याम्। अधिगमयति प्रेक्षणपुटपरिसरम्। लम्भयति नेत्रप्राघुणकताम्। प्रापयति लोचनविषयताम्। ढौकयति नेत्रयो:। प्रणयति प्राघुणकं प्रेक्षणयो:।
दृग्भ्यामापिबति। लेढि लोचनाभ्याम्। रसयति नयनाभ्याम्। आचमति लोचनचषकेण। रसयति दृग्भ्याम्। आरसयति नयनपुटकेन। आचमति लोचनाभ्याम्। प्रेमत: प्रपिबति प्रेक्षणपुटकेन।
शृणोति
३. उपरि सूचितप्रकारेण नेत्रपर्यायाणां शब्दानां स्थाने श्रोत्रपर्याया: शब्दा यदि निवेश्यन्ते तर्हि करणार्था:, तथा अन्यान्ये च धातव: श्रवणार्थकधातो: कार्यं साधयन्ति। एवं श्रोत्रपर्यायाणां करणत्वे पानार्थका अपि श्रवणार्थका भवन्ति श्रोत्रयोरतिथीकरोति। कर्णगोचरमुपकल्पयति। आनयति श्रवसोरन्तिकम्। करोति कर्णयोर्गोचरम्। कल्पयति कर्णयो: प्राघुणकम्। आनयति कर्णयोरभ्यर्णम्। कुरुते कर्णातिथिम्। अन्तिकमानयति श्रवसो:। श्रवणपथातिथी करोति। श्रवसोरवतारयति। कलयति कर्णयोरुपकण्ठम्। श्रवणसमीपमुपनयति। प्रणयति प्राघुणकं श्रवसो:। आपिबति कर्णपुटकेन। श्रुतिमुपनयति। श्रवसोर्गोचरीकरोति। प्रापयति श्रवणप्राघुणकताम्। विदधाति श्रवणविषयम्। श्रवणातिथिमनुतिष्ठति। गमयति गोचरं श्रवसो:। आचमति श्रवणचषकेण। तनोत्यतिथिं श्रवसो:। विरचयति विषयं श्रवसो:। प्रापयति श्रवणपथम्। अवतारयति श्रवसो:। ढौकयति कर्णयो:। अभिमुखमानयति श्रवसो:। कलयति कर्णगोचरम्। श्रुत्यामत्यादरेण सन्नयति। प्रापयति कर्णाभ्याशम्। विदधाति विषयं श्रवणयो:। प्रापयति श्रवणपरिसरम्। श्रवसो: सन्नयति गोचरम्। उपनयति श्रवणाङ्गम्। रसयति श्रवणपुटकेन। कलयति श्रोत्रयोरतिथिम्।
जल्पति
४. उपरिनिर्दिष्टप्रकारेण नेत्रपर्यायाणां शब्दानां स्थाने वाक्पर्याया: शब्दा यदि निवेश्यन्ते तर्हि ग्रहणार्था अपि क्रिया (धातव:) जल्पनार्थानां क्रियाणां प्रयोजनं साधयन्ति।
५. प्राक्तनै: कविभि: क्षुण्णे संस्कृतवाण्या व्यवहारमार्गे आदान-गमन-आगमन-सेवन-प्राप्ति-धारण-प्रकाशनार्थका:, तथा चुम्बन-आलिङ्गनाद्यर्थकाश्च धातवो युक्त्या प्रयुज्यमाना ग्रहणार्थकधातुवद् व्यवह्रियन्ते(एतेषां प्रयोगस्योदाहरणान्यधस्ताद्विलोक्येरन्)-
गिरमादत्ते। वाक्यं विन्दति। गृह्णाति गिरम्। वच: प्रतिपद्यते। वाणीमुपादत्ते। भारतीं प्रकाशयति। गिरमूरीकरोति। विसृजति वाणीम्। वाचमुत्सृजति। वितरति वाणीम्। विसृजति सरस्वतीम्। भारतीमुपादत्ते। वचनमुरीकरोति। वाग्भङ्गीभङ्गी करोति। वाचमादत्ते। वाचं प्रतिपद्यते। विन्दति सरस्वतीम्। वचनमुरीकरोति। विश्राणयति वाणीम्। प्रकटीकरोति वाचम्। प्रकटयति वाणीम्। गिरं प्रकटीकरोति। गिरमुररीकुरुते। रचयति वचनानि। गिरं परिगृह्णाति। वितनोति भारतीम्।
हृष्यति
६. उपरिनिर्दिष्टप्रकारेण हर्षवाचका: शब्दा: आदान-गमन-आगमनाद्यर्थकानां धातूनां चेत् कर्मतां प्रतिपद्यन्ते तर्हि प्रमोदनार्थकानां धातूनामर्थ: स्पष्टं प्रतीयते-
मुदमधिगच्छति। मुदमधिरोहति। मुदमालिङ्गति। मुदमाचुम्बति। मुदमुपयाति। प्रमोदमधिगच्छति। बिभर्ति परितोषम्। परिशीलति परितोषम्। सम्मदमालिङ्गति। आमोदमधिगच्छति। प्रमदमुपयाति। प्रमोदमुपारोहति। सम्मदमुपैति। याति परितोषम्। सम्मदमधिगच्छति। हर्षमुपयाति। प्रमोदमुपैति। चुम्बति निर्वृतिम्। हर्षमधिश्रयति। मुदमूरीकरोति। प्रमदमालम्बते। प्रीतिमादत्ते। विन्दति सन्तोषम्। मुदमासेवते। मुदमधिविन्दति भजति मुदम्। धरति परितोषम्। बिभर्ति सम्मोदम्। परिचुम्बति परितोषम्। मोदमायाति। प्रीतिमधिगच्छति। प्रयाति परितोषम्। हर्षमश्रुते। आनन्दमधियाति। वहति हर्षम्। सम्मदमाविन्दति। प्रीतिमुररीकरोति। सम्मदमासादयति। प्रमोदमालिङ्गति। प्रीतिमुपवहति। प्रमदमधिगच्छति। मुदमवाप्नोति। दधात्यानन्दम्। प्रयाति प्रमदम्। मुदं दधत्ति। आनन्दमासादयति। दधाति सम्मदम्। प्रीतिमुपैति। आमोदमधिवहति। वहति प्रमदम्। हर्षमभिचुम्बति। मोदमुपवहति। अधिविन्दति सम्मोदम्। मुदमयते।
७. मुदित-हृष्ट-प्रभृतय: शब्दा यदि कर्तुर्विशेषणानि भवन्ति तर्हि सम्पत्त्यर्था अपि क्रिया मोदनार्थकक्रियाणां प्रयोजनं सम्पादयन्ति। यथा-
भवति प्रसन्न:। सम्पद्यते सन्तुष्ट:। जायते प्रीत:। जायते प्रमुदित:। सम्पद्यते प्रसन्न:। निष्पद्यते प्रमुदित:। भवति मुदित:। भवत्यानन्दित:। सञ्जायते मुदित:। प्रभवति सन्तुष्ट:। प्रभवति प्रीत:। सम्पद्यते प्रमदभाक्। जायते परितुष्ट:।
बिभेति
८. उपरिसूचितप्रकारेण भयवाचका: बिभेति शब्दा आदान-गमन-आगमनाद्यर्थकानां धातूनां चेत्कर्मतां लभन्ते तर्हि भयार्थकानां धातूनामर्थं प्रत्यायन्ति।
भयमधिगच्छति। भयमधिरोहति। भयमालिङ्गति। भयमाचुम्बति। भयमुपयाति। त्रासमुपैति। बिभर्ति भयम्। त्रासमासादयति। भीतमश्रुते। भयमुपैति। चुम्बति त्रासम्। साध्वसमासादयति। भीतिमुपैति। उपयाति साध्वसम्। परिचुम्बति साध्वसम्। भीतिमाचुम्बति। भीतिमधिगच्छति। साध्वसमालम्बते। साध्वसमाप्नोति। भीतिमासादयति। त्रासमुपयाति। भीतिमूरीकरोति। दधाति भीतिम्। सन्त्रासमालिङ्गति। भीतिमासेवते। भयमवाप्रोति। धरति दरम्। बिभर्ति भियम्। भियमभियाति। भजति भीतिम्। भियमुपैति। भयमाविन्दति। भियमधिरोहति। उपैति साध्वसम्। विन्दति सन्त्रासम्। भजति भियम्। भियमश्रुते। दधाति सन्त्रासम्। भियमालम्बते। भजति सन्त्रासम्। अधिगच्छति भीतिम्। भियमभिचुम्बति। त्रासमभिपद्यते। दरमाबिभर्ति। वहति भीतिम्। उपयाति भियम्। बिभर्ति सन्त्रासम्। भियमुररी कुरुते। भीतिमेति। साध्वसमुपवहति। दधाति भियम्। बिभर्ति भीतिम्। साध्वसमभिचुम्बति। भयमभिपद्यते। भयमयति। भयमनुभवति। अधिरोहति सन्त्रासम्। प्रतिपद्यते भीतिम्।
९. एवमेव भीतादय: शब्दा यदि कर्तुर्विशेषणानि भवन्ति तर्हि सम्पत्त्यर्था अपि क्रिया भयार्थकानां धातूनामर्थं प्रत्याययन्ति-
भवति भीत:। सम्पद्यते सन्त्रस्त:। भीत: सम्पद्यते। जायते त्रस्त:। भवति भयभाक्। भवति भीरु:। भवति भयभुग्न:। त्रस्तो भवति। सम्पद्यते भीतिभाक्। भीलुको भवति। सञ्जायते भीरुक:।
जिह्रेति
१०. पूर्वोक्तप्रकारेण ह्री-लज्जादय: शब्दा यदि आदान-गमन-आगमनाद्यर्थकानां धातूनां कर्मकारकतां प्रतिपद्यन्ते तर्हि लज्जार्थकानां धातूनामर्थं साधयन्ति।
लज्जामुपयाति। ह्रियमधिगच्छति। आलिङ्गति लज्जाम्। ह्रियमाचुम्बति। ह्रियमुपयाति। व्रीडामुपैति। बिभर्ति लज्जाम्। ह्रियमधिरोहति। त्रपामुपयाति। अपत्रपामुपैति। व्रीडामश्रुते। ह्रियमुररीकरोति। लज्जामासादयति। दधाति व्रीडाम्। चुम्बति मन्दाक्षम्। ह्रियमाप्रोति। अधिरोहति व्रीडाम्। उपयात्यपत्रपाम्। वहति लज्जाम्। दधाति ह्रीणताम्। धत्ते व्रीडाम्। मन्दाक्षमासादयति। व्रीडामभिपद्यते। भजति लज्जाम्। उपैति ह्रियम्। अश्रुते लज्जाम्। त्रपामुपागच्छति। ह्रियमायाति। व्रीडामूरीकरोति। ह्रियमाबिभर्ति। अश्रुते ह्रियम्। व्रीडामालम्बते। ह्रियमेति। त्रपां बिभर्ति। ह्रियमयते। ह्रियमासादयति। प्राप्रोति त्रपाम्। धत्ते ह्रीणताम्। अयते व्रीडाम्। अभिपद्यते लज्जाम्। प्रपद्यते व्रीडाम्। प्रयाति लज्जाम्। आलम्बते लज्जाम्। व्रजति व्रीडाम्। लज्जामयते। विन्दति व्रीडाम्। ह्रियमभिपद्यते। त्रपामुपारोहति। ह्रियमादत्ते। प्रतिपद्यतेऽपत्रपाम्। प्रयाति व्रीडाम्। धरति त्रपाम्। श्रयति लज्जाम्। भजति व्रीडाम्। लभते लज्जाम्। धत्ते त्रपाम्। उपैत्यपत्रपाम्।
११. एवमेव ह्रीण-लज्जितादय: शब्दा यदि कर्तुर्विशेषणानि भवन्ति तर्हि सत्तार्थका अपि धातवो लज्जार्थकानां धातूनां कार्यं सम्पादयन्ति। यथा-
जायते लज्जित:। भवति व्रीडित:। सम्पद्यते ह्रीण:। भवति लज्जालु:। निष्पद्यते व्रीडित:। सञ्जायते व्रीडाभाक्। भवति लज्जित:। जायते त्रपावनत:। लज्जित: सम्पद्यते।
विस्मयते
१२. उपरिनिर्दिष्टप्रकारेण विस्मयार्थका: शब्दा यदि-आदान-गमन-आगमनाद्यर्थकानां धातूनां कर्मतां लभन्ते तर्हि विस्मयावबोधकानां धातूनामर्थ: प्रतिपन्नो भवति।
विस्मयमायाति। आश्चर्यमुपैति। लभते विस्मयम्। प्रयात्याश्चर्यम्। विस्मयमुपैति। बिभर्ति विस्मयम्। आश्चर्यमधिगच्छति। विस्मयमवाप्रोति। चुम्बति विस्मयम्।
आश्चर्यमश्रुते। अवाप्रोति चित्रम्। अद्भुतमधिगच्छति। चुम्बत्याश्चर्यम्। अभिपद्यते विस्मयम्। विस्मयमूरीकरोति। चित्रमुपैति। दधाति विस्मयम्। विस्मयमालम्बते। आश्चर्यमासादयति। अयते चित्रम्। विस्मयमुपारोहति। चित्रमाबिभर्ति। भजति विस्मयम्। विस्मयमासादयति। अधिरोहति चित्रम्। विस्मयश्रुते। दधाति चित्रम्। विन्दति विस्मयम्। भजत्याश्चर्यम्। उपयात्यद्भुतम्। चित्रं बिभर्ति। अधिगच्छति विस्मयम्। आश्चर्यमालिङ्गति। शीलति विस्मयम्। प्रपद्यते चित्रम्। धरत्याश्चर्यम्। एति विस्मयम्। एवमेव कर्तुर्विशेषणीभूतैर्विस्मितादिशब्दै: जायते विस्मित:। भवत्याश्चर्यित:। सम्पद्यते विस्मयभाक्। भवति विस्मयभाक्। विस्मितो निष्पद्यते। सम्पद्यते चित्रित:। आश्चर्यभाग् भवति। सञ्जायते विस्मययुक्।
व्यथते
१३. पूर्वोक्तप्रकारेण व्यथा-पीडादय: व्यथते शब्दा आदान-गमन-आगमनाद्यर्थकानां धातूनां चेत्कर्मतां प्रतिपद्यन्ते तर्हि व्यथार्थकानां धातूनां प्रयोजनं सम्पादयन्ति।
व्यथामुपैति। पीडामुपयाति। दु:खमधिगच्छति। आलिङ्गति बाधाम्। वेदनामुपयाति। व्यथामाचुम्बति। बाधामुपैति। बिभर्ति वेदनाम्। पीडामालिङ्गति। व्यथामूरीकरोति। दु:खमधिरोहति। व्यथावाप्रोति। दु:खमश्रुते। दधाति बाधाम्। व्यथामायाति। अधिगच्छति वेदनाम्। कृच्छमधिगच्छति। अभिपद्यते कष्टम्। पीडामयते। अभियाति दु:खम्। उपैति कृच्छ्रम्। अश्रुते कष्टम्। भजति बाधाम्। धत्ते पीडाम्। क्लेशमालम्बते। दु:खमभिपद्यते। व्यथानुपारोहति। कष्टमेति। पीडामालम्बते। विन्दति वेदनाम्। व्रजति व्यथाम्। वहति व्यथाम्। क्लेशमासादयति। प्रपद्यते व्यथाम्। बाधामभिचुम्बति। क्लेशं लभते। कष्टमाप्रोति। प्रयाति पीडाम्। बिभर्ति बाधाम्। क्लेशमयते। लभते व्यथाम्। कष्टमुपयाति। धरति बाधाम्। श्रयति व्यथाम्। प्रपद्यते पीडाम्। क्लेशमश्रुते। धत्ते व्यथाम्। दु:खमेति। पीडामुपैति। कष्टं विन्दति। व्यथां लभते। क्लेशमभिपद्यते। व्यथामसादयति। बिभर्ति सङ्क्लेशम्। कृच्छ्रमुपयाति।
एवमेव व्यथितादिशब्देषु कर्तुर्विशेषणीभूतेषु सम्पत्त्यर्थकैर्धातुभि:- सम्पद्यते दु:खी। जायते क्लिष्ट:। भवति दु:खित:। सम्पद्यते क्लेशभाक्। पीडितो भवति। सञ्जायते क्लेशभुक्। भवति व्यथित:। जायते बाधायुक्। निष्पद्यते पीडित:।
प्रतीक्ष्यति
१४. हर्षवाचका: शब्दा यदि दान-उत्पादनार्थकानां धातूनां चेत्कर्मकारकतां भजन्ते तर्हि ते धातव: प्रीणनार्थकानां धातूनामर्थं बोधयन्ति।
मुदमुत्पादयति। हर्षं जनयति। प्रमदं विदधाति। मोदमादधाति। प्रसौति प्रमदम्। आमोदमुद्गमयति। प्रमदं प्रवर्तयति। प्रीतिमाविर्भावयति। प्रमोदं निर्माति। आनन्दमुद्भावयति। प्रसौति सम्मदम्। प्रकटयति प्रमदम्। प्रोद्भावयति प्रीतिम्। सूते सुखम्। शर्म निर्माति। प्रमदं ददाति। सुखं दिशति। प्रमोदमर्पयति। आनन्दं वितरति। प्रददाति पीडाम्। जनयति कृच्छ्रम्। दिशति दु:खम्। कष्टमुद्भावयति।
तुलयति
१८. औपम्य-उपमिति-तुला-तुलना-साम्य-उपमानादिशब्दसमूहे कर्मकारकतां गते सति पूर्वनिर्दिष्टै: आदान-गमन-आगमन-सेवा-प्राप्ति-धारणाद्यर्थकैरपि धातुभि: तुलनार्थकानां धातूनामर्थ: सम्यक्तया प्रतीयते-
साम्यं दधाति। सादृश्यमासादयति। उपमामुपयाति। तुलनां विन्दति। सादृश्यमधिरोहति। साम्यमायाति। तुलनां लभते। प्रतिमां प्रपद्यते। तुलां गच्छति। उपमामुपैति। तुलां धत्ते। दधाति सादृश्यम्। भजति साम्यम्। धरति तुलाम्। समेति समताम्। व्रजति सादृश्यम्। गच्छति साम्यम्। दधात्युपमाम्। श्रयति साम्यम्। प्रपद्यते तुलनाम्। बिभर्ति तुलाम्। चुम्बति समताम्। दधात्यौपम्यम्। अधिगच्छति समानताम्। वहति सादृश्यम्। उपमामश्रुते। विन्दति तुलाम्। कलयति तुलनाम्। साम्यमालम्बते। समतामयते। तुलनामुपैति। औपम्यमधियाति। उपमानमारोहति। तुलामादत्ते। बिभर्ति सदृशताम्। तुलनामूरीकरोति। साम्यमवाप्नोति। तुलामालिङ्गति। उपमामभिपद्यते। तुलामालम्बते। उपमितिमुपारोहति। उपमामुपगच्छति। भजते तुलाम्। साम्यमेति। प्रयाति प्रातिनिध्यम्। दधाति सदृशताम्। भजति समभावम्। तुलामधिरोहति। तुलां लभते। समतामधिगच्छति। अश्रुते तुलनाम्। लभते समभावम्। तुलामवाप्नोति। प्रतिपद्यते तुलनाम्। विन्दति समानताम्। तुलनां वहति। एति तुलाम्। सादृश्यमादत्ते। साम्यमासादयति। अयति तुलनाम्।
यथा-वाणी सुधासाम्यं दधाति। वाक् सुधासादृश्यमासादयति। वाणी पीयूषोपमामुपयाति। सुभाषितं सुधया तुलनां विन्दति। सूक्ति: सुधासादृश्यमधिरोहति। सतामुपदेश: सुधासाम्यमायाति इत्यादिकमुदाहरणं कोविदैरञ्जसा सम्पादयितुं शक्यम्।
१९. कवयो मैत्री-सौहृदादिशब्दैरपि तमिममर्थं निबध्रीयु:-
सौहार्दं दधाति। मैत्रीं कलयति। सौहृदं सम्पादयति। स्नेहमासादयति। सौहृदमाधत्ते। स्नेहमधिरोहति। प्रीतिमुपयाति। प्रणयं प्रतियाति। सख्यमाबध्नाति। स्नेहं घटयति। मैत्रीं निर्माति। सख्यमुपकल्पयति। प्रीतिं प्रयाति। सौहृदमूरीकरोति। प्रतिपद्यते प्रणयम्। दधाति सख्यम्। सौहार्दमधिगच्छति। मैत्रीमुपारोहति। विन्दति वयस्यताम्। दधाति सौहृदम्। व्रजति सख्यम्। समधिगच्छति सब्रह्मचारिताम्। समेति सौहार्दम्। उपैति प्रणयम्। बिभर्ति मैत्रीम्। दधाति सतीर्थ्यताम्। वयस्यतां व्रजति। स्नेहमश्रुते। प्रेम प्रतिपद्यते। वहति वयस्यभावम्। शीलयति सौहार्दम्। भजति प्रणयम्। प्रणयमयति। कलयति सौहृदम्। प्रणयमुपयाति। मैत्रीमधियाति। प्रेम सम्पादयति। स्नेहमयते। मैत्रीमश्रुते। बिभर्ति सब्रह्मचरिताम्। संयाति सौहार्दम्। प्रीतिमुपैति। प्रणयमादत्ते। प्रणयमुपारोहति। धरति वयस्यभावम्। सख्यमधिगच्छति। संयाति सतीर्थ्यताम्। स्नेहमाबिभर्ति। मैत्रीमङ्गीकरोति। सौहाद्र्रं कलयति। आचुम्बति स ब्रह्मचारिताम्। सौहृदं धत्ते। प्रणयमाबध्राति।
यथा- दधाति सुधया सौहार्दं वाणी। कलयति सुधया मैत्रीं भारती। सूक्ति: सुधाया: सौहार्दं्र सम्पादयति। वचनं पीयूषेण प्रणयं प्रतिपद्यते। भारती अमृतेन सख्यमाबध्राति। भारती बिभर्ति सुधासब्रह्मचारिताम्। सूक्तिरमृतेन सौहृदमाकलयति। सतामुपदेश: सुधया स्नेहमाबध्र्राति। सुभाषितानि समधिवहन्ति सुधाया: सतीर्थ्यताम्। कविसूक्ति: पीयूषेण प्रणयं प्रतिपद्यते। सूक्तिरमृतेन विन्दति बन्धुभावम्। कविवचो मधुना मैत्रीमाघटयति। वनमालिनो वदनं वहति विधुना वयस्यभावम्।
२०. प्रतिमल्लादिपदैरपि सोऽयमर्थ: समभिधीयते सहृदयै:-
सुधया प्रतिमल्लतामाबध्राति कविसुभाषितम्। प्रवहति पीयूषेण प्रतिद्वन्द्वितां सुभाषितमिदं साधूनाम्। दधाति शशलक्ष्मण: प्रतिपक्षतामिदमाननं ते। वदनमिदं प्रतिपद्यते पङ्केरुहस्य प्रतिपक्षताम्। परिचुम्बति पार्वणसुधाकरस्य प्रतिपन्थिनामाननमानतनयनाया:। प्रार्थिनां कामपूरणे पारिजातप्रतिमल्लतां प्रयाति ते कर:। प्रत्यर्थिपरिमर्द्दने पुरन्दरप्रतिभटतामुपैति भूपालोऽयम्। कांस्यपात्रे पारदप्रतियोगितामुपयान्ति समराङ्गणे ते तुरङ्गमा:। भुवो भारधारणे भगवत: शेषस्य प्रतिबध्नाति प्रतिद्वन्द्वितां बाहुदण्डोऽयम्।
२१. विभ्रम-विलासादिशब्दैरपि तुलनार्थमाबध्रन्ति कवय:-
विभ्रमं बिभर्ति। श्रियमधिगच्छति। शोभामालिङ्गति। श्रियमाचुम्बति। कान्तिमुपयाति। लक्ष्मीमालिङ्गति। श्रियमयते। कान्तिमुपैति। विलासमालिङ्गति। लक्ष्मीमालम्बते। रुचिमूरीकरोति। लावण्यमालिङ्गति। सुषमामासादयति। द्युतिमधिरोहति। शोभां लभते। विभ्रमं विन्दति। द्युतिमादत्ते। लावण्यं लभते। श्रियमभिपद्यते। बिभर्ति शोभाम्। विन्दति विलासम्। व्रजति विभ्रमम्। छविमभियाति। लभते लक्ष्मीम्। छविमभिपद्यते। लक्ष्मीमाकलयति। विभ्रममेति। श्रियमुपारोहति। आलिङ्गति शोभाम्। व्रजति रुचिम्। विलासमासादयति। कान्तिं बिभर्ति। सुषमामवाप्नोति। रुचिमाचुम्बति। भजति विभ्रमम्। श्रियमेति। कान्तिमाविन्दति। विलासमश्रुते। द्युतिमाप्रोति। प्रपद्यते सुषमाम्। भजति शोभाम्। दधाति कान्तिम्। प्रयाति लक्ष्मीम्। श्रियमङ्गीकरोति। विलासमालम्बते। शीलयति शोभाम्। द्युतिं दधाति। विभ्रमङ्गीकुरुते। श्रियमश्रुते। भजति विलासम्। रुचिमालिङ्गति। बिभर्ति श्रियम्। द्युतिं धरति। रुचिमयते। श्रियमधिरोहति। द्युतिमयते। लक्ष्मीमेति। विलासमभिपद्यते। सुषमामापूरयति। विच्छित्तिमभ्येति। कान्तिमाश्रयति।
यथा- कीर्तिर्विधुविभ्रमं बिभर्ति। यशश्चन्द्रश्रियमधिगच्छति। कीर्ति: शशिशोभामालिङ्गति। कीर्तिश्चन्द्रश्रियमाचुम्बति। कविकीर्ति: कलानिधिकान्तिमुपयाति। यशस्ते शशाङ्कलक्ष्मीमालिङ्गति। कीर्ती राकापतिकान्तिमुपैति। यशश्चन्द्रलक्ष्मीमालम्बते।
२२. गुण-सौभाग्य-महिमादिशब्दसाहाय्येनापि तुलनार्थमभिव्यञ्जयन्त: कवयो दृश्यन्ते-
यथा- सौभाग्यमभियाति। गुणमनुगच्छति। महिमानमुपारोहति। सौभाग्यं बिभर्ति। माहात्म्यमुपयाति। पदवीमुपैति। गुणं शीलयति। भजति सौभाग्यम्। दधाति माहात्म्यम्। गुणमालम्बते। सौभाग्यमाश्रयति। वहति महिमानम्। गुणमालिङ्गति। पदमाधत्ते। सौभाग्यं लभते। व्रजति महिमानम्। शीलयति सौभाग्यम्। महिमानमभिपद्यते। माहात्म्यमधिविन्दति। गुणमाकलयति। महिमानमश्रुते। माहात्म्यमाप्रोति। गुणमाचुम्बति। लीलामालिङ्गति। गुणमयते। पदमालम्बते। गुणमधिरोहति। माहात्म्यमङ्गीकरोति। सौभाग्यमभिपद्यते। गुणं लभते। महिमानमालम्बते। गुणं गृह्णाति। सौभाग्यमेति। महिमानमासादयति। सौभाग्यमभिभजते। गुणान् धरति। माहात्म्यमनुरुन्धे। शीलयति लीलाम्। महिमानमनुगच्छति। वैभवमभ्येति।
यथा-सूक्ति: सुधासौभाग्यमभियाति। वाणी पीयूषगुणमनुयाति। सुभाषितममृतमहिमानमुपारोहति। सतामुपदेश: सुधासौभगं बिभर्ति। अवसरे सुभाषितममृतमाहात्म्यमुपयाति। कविसूक्ति: सुधापदवीमुपैति। सुदृढमभ्यस्तां विमला कला रत्नरामणीयकमनुशीलयति। साधुवाणी सुधागुणं वहति। नीतिभाषितं भजति रसायनसौभाग्यम्। कविसूक्तिर्दधाति सुधासारस्यम्। साधुसङ्गति: कलयति पारिजातमहिमानम्।
निर्जयति
२३. न केवलं तुलनार्थमेव, निर्जयार्थमपि छेदन-विध्वंस-स्तेय-अपनयाद्यर्थकैर्धातुभिरभि-व्यञ्जयन्ति कवय:। अर्थगुम्फनलालित्याय अत्रापि विभ्रम-विलासादिशब्दा: कर्मकारकताम्, निर्जेतव्य: प्रतिद्वन्द्वी च सम्बन्धितां धारयति। यथा-
विभ्रममपनयति। विलासमुज्जासयति। शोभामवमृद्राति। श्रियमाचूर्णयति। कान्तिमाहन्ति। लक्ष्मीं लुम्पति। शोभां शकलयति। सुषमां समापयति। छविमाच्छिनत्ति। द्युतिमवदारयति। रुचिमवचूर्णयति। विभ्रमं भिनत्ति। लावण्यं लुनाति। कान्तिं कृणन्ति। द्युतिं दमयति। लक्ष्मीं लुनाति। रुचिमाचामति। कृन्तति कान्तिम्। श्रियमुष्णाति। लावण्यं लुण्ठति। द्युतिं दलयति। क्षुनत्ति लक्ष्मीम्। कान्तिमपनयति। निर्दलयति श्रियम्। विलासमुन्मूलयति। मथ्नाति लक्ष्मीम्। विध्वंसते विलासम्। रुचिं चोरयति। द्रुह्यति द्युतिम्। सुषमामवमृद्राति। अपहरति कान्तिम्। मुकुलयति लक्ष्मीम्। पोषयति लावण्यम्। विलासमुद्वासयति। मर्दयति विभ्रमम्। शमयति शोभाम्। निर्मूलयति लावण्यम्। हिनस्ति मनोरमताम्। शृणाति शोभाम्। विहन्ति विलासम्। रुचिमपनयति। संहरति कान्तिम्। विभ्रममवचूर्णयति। खण्डयति लावण्यम्। विध्वंसते कान्तिम्। निवर्तयति शोभाम्। विलासमुन्मर्द्दयति। धुनोति कान्तिम्। दलयति लक्ष्मीम्। अपनयति लावण्यम्। मुष्णाति रुचिम्। विहन्ति विभ्रमम्। अपकर्षति शोभाम्। विदारयति द्युतिम्। विलासमुच्छिनत्ति। मथ्नाति सुषमाम्। अपोहति सौन्दर्यम्। क्षपयति सौलक्षण्यम्। विडम्बयति सुन्दरताम्। धिक्करोति रुचिम्। भिनत्ति शोभाम्।
यथा- सुधाविभ्रममपनयति ते वाणी। सुधाविलासमुज्जासयति ते सुभाषितम्। कविसूक्ति: सुधाश्रियमाचूर्णयति। सतामुपदेश: शमयति शोभां सुधाया:। मुखं ते मृद्नाति लावण्यं मृणालानाम्। चरणस्ते लुण्ठति लक्ष्मीं कमलानाम्। हस्तस्ते शकलयति शोभां किसलयस्य। मुखं ते शमयति शोभां शशाङ्कस्य। साधुसुभाषितं सुधाविभ्रमं भिनत्ति। मुखलक्ष्मीस्ते कमलविलासमुन्मूलयति। मुखमाधुर्यं मे शकलयति शशाङ्कशोभाम्।
२४. कर्मीभूतानां गुण-सौभाग्य-महिमादिशब्दानां साहाय्येनापि तमितमर्थमाबध्न्ति सत्कवय:- सुधागुणानवमृद्नाति सुभाषितं कवीनाम्। सतां सूक्ति: समापयति सुषमां सुधाया:। समये समीरिता सूक्ति: संहरति सौभाग्यं सुधाया:। सुरभारतीयममृतमहिमानमामर्द्दयति। धीरता ते जलधिमाहात्म्यमुद्वासयति। मुखं ते मृगाङ्कमहिमानमुन्मूलयति। गाम्भीर्यं ते समुद्रमाहात्म्यमपनयति। मुखं ते मुष्णाति महिमानं मृगाङ्कस्य। सुकविसूक्ति: सम्मथ्नाति गुणानमृतस्य। हस्तस्ते लङ्घयति लीलां कल्पतरो:। वाणी ते पिनष्टि पीयूषगुणान्। सुभाषितं ते शमयति सौभाग्यममृतस्य। मुखं ते शकलयति सौभगं शशाङ्कस्य। पाणिस्ते व्यपोहति लीलां पल्लवस्य। दमयति महिमानमम्बुराशेस्तवाऽगाधगाम्भीर्यम्। मुद्रयति महिमानमम्बुनिधेस्ते गुरुगाम्भीर्यम्। लुण्ठति लीलां नीलाम्बुजयोस्ते नयनयुगलम्। तिरोदधाति सुधामाहात्म्यमिदं साधुजनसुभाषितम्। व्यपनयति वदान्यस्ते बाहुर्वैभवं देवतरो:।
२५. कर्मीभूतै: कीर्तिवाचकैर्दर्पपर्यायैश्चापि शब्दैस्तमेनमर्थमभिव्यञ्जयन्ति कविताकोविदा:-
दर्पमपहन्ति। गर्वं खर्वयति। अभिमानमपनयति। अहङ्कारमुन्मूलयति। मानमवमर्दयति। मदमुपमृद्नाति। गर्वमुच्छिनत्ति। दर्पं ध्वंसयति। मानं मुष्णाति। मदमपहरति। दर्पमाहन्ति। मदमवचूर्णयति। गर्वमवदारयति। हिनस्त्यहङ्कारम्। दलयति दर्पम्। कृणत्ति मानम्। संहरति दर्पम्। चूर्णयति चित्तोद्रेकम्। मर्दयति मदम्। मानमुत्सारयति। दर्पमुच्छिनत्ति। मानं मथ्नाति। अभिमानं शकलयति। गर्वं खण्डयति। अभिमानं विहन्ति। दर्पं दमयति। मदमवमर्दयति। अभिमानं हिनस्ति। निर्धुनोति दर्पम्। गर्वमुज्जासयति। मदमपोहति। अवलेपं लुम्पति। मानमवदारयति। गर्वमपनयति। दर्पमपसारयति। लुनात्यवलेपम्। हरत्यहङ्कारम्। शकलयत्यवलेपम्। अभिमानमपहरति। खण्डयति चितोद्रेकम्। दूरयति दर्पम्। अहङ्कारमुपमर्दयति। निबर्हयति गर्वम्। सूदयति दर्पम्। उन्मूलयत्यवलेपम्। भिनत्त्यभिमानम्। आहरत्यहङ्कारम्। शकलयति मानम्। अवमथ्नाति दर्पम्। मदमवसूदयति। गर्वमवलुण्ठति। अहङ्कारमुत्सारयति। कीर्तिं कृणत्ति। यशो लुम्पति। कीर्तिमुत्सारयति। यश: शमयति। कीर्तिं कृन्तति। यशो हिनस्ति। कीर्तिं मुष्णाति। यश: क्षिणोति। कीर्तिमपहरति। यश: संहरति। कीर्तिमाच्छिनत्ति। यशो लुम्पति। अवलेपमपनयति।
यथा- उदन्वतो दर्पमपहन्ति ते गाम्भीर्यम्। सुधागर्वं खर्वयति ते वचोमाधुर्यम्। वदान्यताभिमानमपनयसि कल्पतरो:। रतिपतेरहङ्कारमुन्मूलयसि सौन्दर्येण। मानमवमर्दयसि मृगाङ्कस्य मुखशोभया। सुधामदमुपमृद्नाति ते वचोमधुरिमा। गिरेरपि गर्वमुच्छिनत्ति ते गाम्भीर्यम्। सुधादर्पं ध्वंसयति सुभाषितम्। मृगाङ्कमानं मुष्णाति ते मुखमाधुर्यम्। मदनमदमपोहति ते सौन्दर्यम्। अवलेपं लुम्पसि जलधेर्धीरतया। सूदयति दर्पं सुधाया: साधुभाषितम्। सुरपतेरहङ्कारमुत्सारयसि निजानुभावेन।
२६. अतिक्रमण-प्रतिषेध-निमीलन-निन्दाद्यर्थकैरपि धातुभिर्निर्जयार्थं निबध्न्ति कविकोविदा:- कीर्तिरतिक्रामति कुमुदकान्तिम्। कीर्तिरतिशेते शशाङ्कशोभाम्। कीर्तिराक्षिपति शशाङ्कसुषमाम्। वाणी ते विलङ्घते पीयूषम्। कविसूक्तिराक्षिपति द्राक्षामाधुर्यम्। वाक् प्रवाहस्ते अत्येति सुरसरिद्धाराम्। यशस्ते विलङ्घयति कलानिधिम्। उपदेश: सतामतिशेते पीयूषम्। सुरभारतीयमत्येति सुधाधाराम्। यशस्ते शशधरशोभामतिशेते। कीर्तिरतियाति राकापतिम्। सुकविसूक्तिरत्येति सुधाम्। यशस्तव लङ्घयति कलानिधिम्। सुरसरस्वतीयमतिक्रामति पीयूषम्। सतां सङ्गतिरत्येति कल्पलताम्। सम्पदियमुलङ्घयति कुबेरविभवम्। सुतामुपदेश: प्रत्यादिशति पियूषम्। कीर्तिस्ते निरुणद्धि सुधाकरम्। वाणीयमपाकरोति पीयूषम्। यशस्ते निराकरोति निशानाथम्। सूक्तिस्ते प्रत्याख्याति पीयूषम्। कीर्तिरियं नियन्त्रयति निशाकरम्। साधुभाषितमपाकरोति क्षपाकरम्। कीर्तिस्ते निमीलयति निशाकरम्। दानकर: करस्ते सङ्कोचयति कल्पपादपम्। मुखं ते मुद्रयति मृणालम्। मधुरमिदमाननं ते मुकुलयति कमलम्। मुखं ते निन्दति निशानाथम्। सुकविसुभाषितमपवदति पीयूषम्। साधूसूक्तिर्जुगुप्सते सुधाम्। कीर्तिरियमाक्षिपति चन्द्रमसम्। मुखमिदमपवदति सुधाकरम्।
२७. कविमार्गे वर्जन-तर्जन-व्यर्थीकरण-हसन-लज्जितीकरणादीन्यपि विजयार्थेऽन्तर्भवन्ति। अतो वर्जनाद्यर्थकैर्धातुभिरपि निर्जयार्थं प्रकटयन्त: कवय: प्रेक्ष्यन्ते। एतत्प्रयोगस्य दिग्दर्शनं यथा-
वर्जयसि सुधां निजवचोमाधुर्येण। हसति ते कर: कल्पपादपम्। व्यर्थयसि पीयूषं निजसुभाषितेन। लज्जयति ते कीर्ती राकासुधानिधिम्। तर्जयति पूर्णिमाशशाङ्कं ते कीर्ति:। कीर्तिविभा ते तिरोदधाति शारदसुधाकरम्। लज्जयति कल्पपादपं भूपते ते कर:। हससि पयोनिधिं निजगाम्भीर्येण। व्यर्थयति सुधां साधुभाषितम्। तर्जयति दन्तद्युतिस्ते कुमुदकान्तिम्। भर्त्सयति भानुमन्तं ज्ञानविद्योत:। लघयति कलाधरं ते यश:। लज्जयति सुधामिमां कविसुभाषितम्। गलहस्तयति द्राक्षां ते वचोमाधुर्यम्। नमयसि निशाकरं निजयश:शोभया। अधरयति सुधामिदं ते साधुभाषितम्। ह्रेपयसि कर्णमपि निजवदान्यतया। भर्त्सयसि भीममपि पराक्रमेण। विफलयति दानशौण्डस्ते कर: कल्पपादपम्। वर्जयसि वीरतया विक्रमादित्यमपि। निम्नयसि निजचारित्र्येण नलभूपतिमपि। तृणीकरोषि कर्णमपि दातृतया। अवहेलयसि हिमालयमपि धीरतया। कदर्थयति कर्णमपि दानकरस्ते कर:। अवधीरयति धीरता ते हेमाचलमपि। निराकरोति करोऽयं ते कल्पपादपमपि। वदान्यतया नीचै: करोषि कर्णादीनपि। त्रपयसि वाचस्पतिमपि मतिवैभवेन। हसति हिमांशुमपि यशस्ते। न्यञ्चयति काञ्चनाऽचलमपि धैर्यं ते। तर्जयसि वीरसिंह नादस्ते जलधरध्वानमपि।
२८. कविवर्णनायां शमनार्थ: पानार्थकै: स्तेयार्थकैश्चापि धातुभिरभिद्योत्यमान: साहित्यसीमनि समवाप्यते। एतस्य दिग्दर्शनं यथा-
तरङ्गमारुतोऽयमाचामति मुखकमले ते स्वेदलवं सुन्दरि! प्रपिबति पवन: प्रस्वेदलवं लोलाक्षि! कालिन्दीमन्दमारुतोऽयमाचामति श्रमसलिलमिन्दीवरनयने!। मुष्णाति मधुमासोऽयमधुना धीरतां मम। मुष्णाति शत्रूणां शौर्योष्माणमियं ते क्रूरा कृपाणलता। लुण्ठति शत्रूणां धैर्यमयं चपलश्चन्द्रहास:। द्विषामुत्साहमापिबति परश्वधोऽयं मे। मुष्णाति मलयपवन: पथिकानां धैर्यमत्र मधौ। चोरयति चपलनयने चन्द्रमसो मनोरमतामिदमाननं ते। बलाल्लुण्ठति कङ्केलिपल्लवानां लालित्यमयं ते मनोहर: कर:।
२९. लोकसङ्केतप्रवाहमेवाऽनुवर्तमानानां वैयाकरणादिप्रमुखानामन्यान्यभाषावैज्ञानिकानामपेक्षया कवीनां भाषा काञ्चिदलङ्कारझाङ्कारिणीमेव सरणीमनुवर्तमाना निसर्गत: समवाप्यते। ते हि निवासार्थक धातूनां स्थलेऽपि अवसरमाहात्म्यात् नृत्य-विश्राम-क्रीडनाद्यर्थकैरपि धातुभिरुपनिबन्धन्ति निजवक्तव्यम्। यथा-
नृत्यति भगवती लक्ष्मीरङ्गणेषु चरित्रवताम्। विश्राम्यति कल्पलता दानरसवर्षिणि भवत्करे। क्रीडति कमलालया कवीनामावासेषु भवत्प्रभावात्। विलसति रसनाग्रे सरस्वती साम्प्रतम्। नृत्यति निकेतने कमलालया भवद्वरदानाम्। सुखं विश्राम्यति लक्ष्मीर्भवनेऽस्मिन् भवत:। इन्दिराऽसौ नृत्यति मन्दिराऽन्तर्व्यवसायिनाम्। विश्राम्यति भगवती भारती भवद्वदनान्त:। विहरति वणिजामावासे सेयमिन्दिरा सम्प्रति सुखेन खेलसि वणिजामङ्गणेषु मात: कमलालये। त्वदुरसि रसाद्विश्राम्यति भगवती सेयं सरस्वती। नृत्यति निलयेषु लक्ष्मीरियं पश्चिमदिग्देशे। नृत्यति भगवतो भक्तिर्भवतो हृदयाङ्गणे। मुखं विश्राम्यति राष्ट्रे तव भगवान्धर्म:। क्रीडति कलिर्वाक्कीलानां वाग्विलासे।१
३०. गुम्फनीयस्य निजविषयस्य परिष्कारार्थं, महनीयस्य कस्यचिद्वर्णनीयस्यादरदर्शनाय च अन्यार्थकधातूनां स्थाने अन्यार्थकधातूनां प्रयोग: प्राय: प्रसिध्यति कविगोष्ठयाम्।
यथा- आगमन विषये प्राय: प्रोच्यते प्रतिभावद्भि:- 'भाव! विभूषय मे भवनं क्षणं चरणार्पणेन। कृतार्थय कुटीरं मे कियतेचित् कालाय। सनाथीकुरु मे सदनं सम्प्रति। पवित्रय मे प्रकोष्ठकं पादार्पणेन। पुनीहि दीनगृहं देव। ममाऽऽवासमपि साम्प्रतं कृतार्थीकुरु। दासनिवासमिमं पावय प्रभो। नाथ सनाथय निवासमिमं दासस्य। मण्डप ममावासं सम्प्रति सुरपते। अलङ्कुरु कुटीरमिदं दासस्य। देव दीननिवासं सम्भूषय साम्प्रतम्।’
दिङ्मात्रमिदमुदाहृतमत्र मनीषिणां मार्गप्रसाधनाय।
***
मृत्यो! त्वमागतोऽसि
अरे साम्प्रतमेव? पूर्वतो न काचित् सूचना दत्ता? विनाऽऽह्वानम्? विनाऽपेक्षाम्? मा मैवम्। गच्छ, परावर्तस्व। नाहमधुना मर्तुं वाञ्छामि। अरे! एकान्तं शिरस्येव कथं समारोहसि? किञ्चित् पञ्चादपसृत्य तिष्ठे:। क्षणमपेक्षस्व, यावदहमेकं श्वासं गृह्णामि। अरे कण्ठमेव किमिति निर्दयमामर्दयसि?
अपि स त्वमेवाऽऽसी:? एकवारं देहि मे पूरितनयनं विलोकनस्याऽवकाशम्, कीदृक् ते रूपम्? पुरा कतिवारान् त्वमाहूतोऽसि। मनो मे मामबोधयद्यत्सर्वदु:खानामुत्क्रान्ति: शान्तिस्ते समीपेऽस्ति, सर्वकष्टानां त्वमुपराम:, सर्वरोगाणां त्वमौषधम्। किन्तु नाऽऽगतस्त्वं तस्मिन्समये। सम्प्रति सङ्कटान्यपगतानि। किमधुना ते कार्यम्? नैव नैव। नाधुनाऽहं त्वां वाञ्छामि। अपेहि, व्यपगतानि तानि दिनानि। हन्त, कियद्दीर्घो जीवनपथो मयाऽतिवाहित:। समग्रेऽप्यस्मिन् मार्गे ललसयाऽहमुत्तेजित, आशया समाकृष्ट:, सफलतया च चिरं वञ्चित:। सिद्धे: स्थाने सर्वदाऽर्द्धचन्द्रो मया लब्ध:। व्यचारयमहम्-यदा यात्रा मया प्रारब्धा तदा प्राप्यस्थानमवाप्यैव विरतो भविष्यामि। न मयाऽनृतमवलोकितं न चापि सत्यं समालोचितम्। न पापमवधारितं तर्हि न पुण्येऽपि दृष्टिर्दत्ता। केवलं सिद्धेराराधना विहिता। येन केनापि प्रकारेण धर्मस्य हत्या कृता, आत्मसम्मान: पादघातमाहत:, स्वास्थ्यं स्वहस्तेनैव चूर्णितम्, सुखं शान्तिश्चापि दुर्वचनपूर्वकमपसारिते। अन्ते सिद्धिर्मिलिता? मिलिता क्व? मिलितुं कवलं सा प्रासीदत्। हन्त, एतस्मिन्नेव लाभसमये त्वं कथयसि- ''चल, अविलम्बितं चल’’। नैव नैव, नाधुना गन्तुं कामये।
भोजनपत्रावली सम्प्रति सम्मुखे समागता, त्वं च गन्तुमाकर्षसि। हन्त! न तेऽपराध:। सम्पूर्णोऽपि समय: साधनायामेव व्यगमत्, सिद्धमेव भोजनं विलम्बेन, एतावद्विलम्बेन, यावता क्षुधैव सम्पूर्णा व्यरमत्। जठराग्निर्जठरमेव जरयित्वा निर्वाण:। मन: परिश्रान्तं सत् स्वयमस्वपत्! परं भोजनमिदं यदा सिद्धमेव तदा किमित नाहं भुञ्जीय? केवलं किञ्चिदास्वादयाम्येव। एतावत्साधनाभि: सिद्धं वस्तु हन्त परित्यज्यते कुहचित्? सम्प्रति कृपां कुरु कञ्चित्कालम्। गच्छ साम्प्रतम्। ममाऽऽवश्यकतायां पुनस्त्वामहमाकारयेयम्। पूर्वमपि तु त्वं मयाऽऽहूत:, बहुवारानाहूत:। शपथस्तुभ्यम्, विनाऽऽह्वानं न पुनरुपैष्यसि। व्यतिगतानि दु:खदिनानि। सम्प्रति कस्य मर्तुं वाञ्छा?
किमु न शक्रोषि परावर्तितुम्? न केनाऽप्युपायेन? हन्त ते सोऽयं महानत्याचार:। वद, अस्ति कश्चित्प्रतीकार:? हन्त, मया यात्रोपकरणमपि तु न किञ्चित्संघटितम्। यात्राऽपि कीदृशी? महायात्रा। यात्रायामेव व्यतीतमियज्जीवनम्, तदुपरि पुनरीदानीं महायात्रा? भगवन्! कीदृशोऽयं संसार:? शास्त्राणि कथयन्ति- 'चक्रमिदम्’। भवतु तदिदं तथा। यदि चक्रमिदं तर्हि कामं भ्रमतामिदम्, कस्याऽनेन हानि:? परमिदमन्यान् भ्रामयति किमर्थम्? केन प्रयोजनेन, केन वाऽधिकारेण? अयं तु नूनं बलात्कार:, महानत्याचार:। यावज्जीवामस्तावत् संसारयात्रा, जीवनयोग्यतायां च समाप्तायां सेयं परलोकयात्रा। दुर्भाग्यो जीव: किमु केवलं नित्ययात्री? यस्य विश्रामं कर्तुमधिकार एव न सृष्ट:। हन्त, यदि पूर्वमेव तदिदमज्ञास्यम्, तर्हि इमानि हर्म्याणि, एता: सुखसज्जा:, अमूनि राजोपकरणानि, इमान् मिथो मोहमैत्रीव्यवहारान् किमित्यहमवर्धयिष्यम्?
हन्त! हर्म्याणामेतेषां पृष्ठे कियतां दीनानां रक्तमन्तर्हितम्? एतेषां स्रस्तराणामधस्तात् कियज्जनानां भोजनमाच्छन्नम्? एतस्या: सुखशय्याया: पादतले कियतां लोकानां सर्वस्वमवचूर्णितम्? हन्त! यदि पूर्वमिदं पर्यज्ञास्यं तर्हि किमिति सर्वमिदमकरिष्यम्? तदा तु दीर्घदर्शितया विचारितं मयका-'यदेकस्य दिनस्य, स्वल्पस्य वा कालस्य वा तु नेदं कार्यं यद् यथाकथञ्चित् सुखं दु:खं वा व्यतिगमयामि। दीर्घमिदं जीवितव्यम्। स्वैरं म्रियन्तां मुमूर्षव:। गृहाऽऽगतां लक्ष्मीं किमहमपगमयेयम्?’ किन्तु सर्वमधुना विपर्यस्तम्। क्वाऽधुना दीनान् तानुपलभेय? हन्त, मुधैव दीनानामेषामभिशापो मयाऽर्जित:। मृत्यो! विलम्बस्व किञ्चित्। साम्प्रतमियं सम्पत्तिर्विफलैव। तिष्ठ! यावदिमां तेभ्यो विभजेयं येषां कण्ठमध्यादियमाच्छिन्ना। किन्तु तेषां मध्याज्जीवन्त्येव कियन्त:? कियन्त: क्षुत्पीडया विलोठन्त: प्राणान्विजहु:। कियन्तश्च कारागारे चक्रिकां चालयन्तश्चेलु: कृतान्तस्य सदनम्। तेषां योषाभिर्यौवन एव विधवाभिर्भूत्वा मह्यमुत्कटोऽभिशापो दत्त:। तदिदमङ्गीकरोमि यदासीत्तेषामुपरि मे महदृणम्। नासीत्तेषामुपरि साक्षादृणम्। सत्यं सत्यं नासीत्तेषामुपरि मे ऋणम्। किन्तु यद्यासीदपि, तथापि किं ते कारागारे निपातयितव्या:? कशाघातैस्ताडनीया:? भोज्यकवलं परिधानीयवस्त्रमपि तेषामपहरणीयमासीत्? सर्वसम्पन्नस्य मे काऽऽसीन्न्यूनता? हन्त, महदनुचितमकार्षम्। अब्रह्मण्यम्, अब्रह्मण्यम्!
हे ममाधमर्णा भ्रातर:! क्षमध्वम् क्षमध्वम्। सर्वामप्यर्थसम्पदं परित्यज्य पश्यत परियाम्यहमेकाकी। मृत्यो! मृत्यो! किमस्या: स्वल्पमप्यंशं नाहं सह नेतुं शक्नुयाम्? अहो यत्किञ्चिन्मात्रम्, तदपि केवलं मनस्तोषाय। अस्ति कश्चिदुपाय:? हा हन्त मृत्यो! ददाम्यहमर्द्धं सर्वसम्पद:, त्यज मामस्मिन् समये। अरे! सर्वस्वमपि मे गृहाण किन्तु परिमुञ्च नूनं माम्।
हन्त, पणं -पणं कष्टात् सञ्चित्य यो धनराशिर्मया प्राङ्गणस्य भूतले निखात: सोऽयमपि त्वपूर्ण:, अस्पृष्ट:, अभुक्त:, अपरिज्ञातस्तथैव तिष्ठति। किं मया एतदासीदवधारितं, यज्जन्मावधि सञ्चितं द्रव्यमस्पृष्टमेव कराद् गच्छेत्? नृशंस! पश्य नास्मान्मया कष्टसहस्रेऽप्येक: पणो निर्विष्ट:१ पुत्र: परिवारोऽनुजीविजनश्चापि मया प्रतारिता: परं नास्मान्मया काकिण्यपि नि:सारिता। बहुतरेष्ववसरेषु निरुपदेश२ मुदरस्थाऽक्रियत केवलं मया रोटिकैव परं नास्मात्किञ्चन व्ययितम्। किं तस्यांशांशमपि नोपयोक्तुमवसरं दास्यसि? पिण्डप्रदा: सुतास्तु न्यायादप्येतदधिकारिण:। हंहो निर्दय! सूचयाम्यमुं तेभ्यस्तु। वितर मे क्षणमवसरम्।
तिष्ठ निष्ठुर! यो निधिर्भवनभूतले मान्त्रिकेभ्योऽवगत: प्रत्यक्षमवलोकितश्चापि, केवलमेतस्यैवाऽनुसन्धानं दातुमनुमन्येथा: सुतेभ्य:! न चाधिकं याचामि ते समयम्। किमु कर्णेऽपि किञ्चित्कथयितुं न प्रसीदसि? हन्त नासि केवलं निर्दय:, स्पष्टं निर्विचारोऽपि त्वमसि!
इयं पुष्पवाटिका, एतन्मध्यगं मौक्तिकहर्म्यं तु साम्प्रतमेव मया निर्मितम्। किमेतयोरप्युरपभोगं न कर्तुं शक्नुयां कतिचिन्मासानपि? अये निष्ठुर! कस्ते विवेको न्यायश्च, येनोपार्जितं कष्टान्निर्मितं च तमेवोपभोगावसरे बलाद्वञ्चयसि? अपेहि, न त्वामहमभिरोचयामि क्षणमेकमात्रमपि।
हरे राम! न त्वं दयसे किञ्चिन्मात्रमपि। हन्त, कीदृग् वज्रनिष्ठुरोऽसि। मूर्तिमती नृशंसतैवाऽसि केवलम्। अरे! उपर्येव किं निपतसि। मा, मा मां स्प्राक्षी:। न स्पर्शय मे करमप्यङ्गेषु। तव स्पर्श एव परित्यजेयुर्मां प्राणा:। हा हन्त! सर्वमत्रैव निपतितमतिष्ठत्। प्रतिष्ठे सोऽहमेकाकी। हा हन्त! यदि पूर्वतो विदितमभविष्यत्तर्हि यात्राया: पर्यकल्पयिष्यं काञ्चित्सज्जामप। अकीर्तयिष्यं नामान्येव भगवत:। समाचरिष्यं पुण्यान्येव कानिचित्। हा हन्त, यै: किञ्चित्प्रोक्तमपि न तेषु मे विश्वास: समभूत्। न शास्त्रमहर्षीणां वचनेषु विश्रम्भमस्थापयम्। हन्त! प्रज्ञापराधादेव न किञ्चित्कर्तुमशकम्। विश्रामस्थलमवाप्य यावच्छ्वासमात्रमपि सन्तोषान्न गह्णामि तावदेव क्रूरेण मे कण्ठो निर्दयमामोडित:। हे भगवन्! हे विश्वम्भर! हे दीनबन्धो! हे स्वामिन्! हा नाथ! हे नाथ! त्वमेवासि-त्वमेवासि-त्वमेवा..........सि...............मे साम्प्रतम्............।
***
अपि नाम सेयमव्यावहारिकी?
सुस्थिरा साधुसाहित्यसमृद्धा सर्वसंस्तुता।
सरला सर्वतोभद्रा सेव्या सुरसरस्वती।।
सकलभाषामौलिमुकुटायमाना सेयं संस्कृतसरस्वती सर्वत: पुरातनीति सबहुमानमभिनन्दिता, सर्वत: प्रथमं ज्ञानालोकजननीति विनीतिपुरस्सरमभिवन्दिता, गौरवस्य सौष्ठवस्य माधुर्यस्य सौभाग्यस्य औदार्यस्य गाम्भीर्यस्य माङ्गल्यस्य नैर्मल्यस्य मार्दवस्य चाधिष्ठानभूमिरिति सादरमुपच्छन्दिता, शिक्षाप्रसङ्गे हृदयपरिष्करणाय चाऽप्रतिद्वन्द्वं सुप्रगल्भेति सत्यं सत्यमिन्दिता१ चेति न नाम विद्वत्सु विस्तरस्याऽऽवश्यकता। किन्तु शिक्षागौरववाहिन: केचिन्महाभागा: सङ्गिरन्ते यत् 'सेयं संस्कृतभाषा नासीत्कदाचिदपि लोकेषु व्यवहारप्रवृत्ता, केवलमियं साहित्यपरिगृहीता पुस्तकावस्था चेति।’ अवश्यमिदं विचारस्रोत: पश्चिमदिग्देशादुद्गतम्। नात्रत्यानां वराकाणां मस्तिष्कमहिमा सोऽयम्। परं भवतु वा यत: कुतोऽपि विचारोद्गम: सोऽयम् आलोचनमस्य कर्तुं प्रयतामहे। नवशिक्षितसमाजे सफलता त्वस्मिन्विषये कदाचिदेवाशास्या, वराकाणां तेषामस्वतन्त्रत्वात्, पाश्चात्त्यमुखनि: सृतवाक्सुधाप्रतीक्षित्वात्।
वेदेभ्य: पुरातनं न किञ्चिद् वाङ्मयमद्यापि भूमण्डलेनोपलब्धमिति गवेषकमूर्धन्यानां सम्मति:। वेदाश्च यस्यां भाषायामुद्भूता: सैव समयोपयोगिना संस्कारेण संस्कृता सती वर्तमानसंस्कृतभाषा सञ्जाता। ततश्च वेदा यदा आर्याणां साहित्यभाषाभूता: प्रत्यक्षमुपलब्धास्तदा व्यावहारिक्यपि तेषां भाषा किञ्चिदपरिष्कृता सैव (यस्यां हि वेदानां जन्म, सा गैर्वाणी) समुपगन्तव्या। न हि विजातीयभाषाभाषिणां विजातीयं साहित्यं भवितुं युक्तिसङ्गतम्। यदि तु ततोऽन्या काचिद्भाषाऽऽसीदिति भवन्त: साधयितुं प्रयतरन् तर्हि तद्भाषाया: सत्तासूचकं किञ्चित्प्रमाणमप्यावश्यकम्। विना प्रमाणं हि नाधुना किञ्चित्साधयितुं शक्यम्, न च तत्सम्मान्यं नवीनैर्नूनम्। ततश्च निराधारा कस्यचिद्भाषान्तरस्य सत्ता कथं नाम सिध्येत्?
संस्कृतभाषाया: प्राचीनं साहित्यं भूतले प्रचलितानां सर्वासामपि भाषाणामपेक्षया सुमहद् विस्तृतं सर्वाङ्गपूर्णं च। अस्या: साहित्ये धर्मदर्शनज्यौतिषायुर्वेदादीनामनन्तो ग्रन्थराशिरासीदिति तु जानन्त्येव सर्वेऽपि। किन्तु कलाशिल्पविज्ञानादीनामपि बहवोऽद्भुताद्भुता ग्रन्थास्तेषु प्रान्तेषु प्राप्यन्ते येषु वैदेशिकानामुपद्रवा भूयसा नाऽभवन्। शिल्पशास्त्रस्यैक: संस्कृतभाषानिबद्धो ग्रन्थो मद्रासप्रान्तादन्विष्य मुद्रापितो जयपुरीय-कलाविद्यालयस्य’ (स्कूल ऑफ् आर्ट्स एण्ड क्राफ्ट्स) अध्यक्षस्य श्रीमदसितकुमारहालदारस्य समीपे प्रसङ्गवशान्मया प्रत्यक्षमवलोकितोऽभूत्?। अद्यापि प्राचीनसाहित्यान्वेषणाधिकृतैर्बहवोऽप्यलभ्या ग्रन्था अन्विष्यन्ते लभ्यन्ते चापि। नेपालादधुनैव आयुर्वेदविषयिणी काश्यपसंहिता प्राप्ता, मुद्रिता च। व्याकरणादिविषये तु भूयानेव विस्तरोऽभूदत्र।
प्राचीनसाहित्यान्वेषणाधिकृतेन स्वगतमहामहोपाध्यायश्रीहरप्रसादशास्त्रि-महाभागेन अखिलभारतीयसंस्कृतसाहित्यसम्मेलनस्य सभापतिपदाद् या वक्तृता प्रादीयत तस्यां प्रोक्तमासीद् यत् शताधिकानि तु भिन्नभिन्नानि व्याकरणान्येवाधिगतानि, येषां मध्यात् पाणिनीयाद्यानां कतिपयानामेव लोके साम्प्रतं प्रचार:।
काव्यनाटकादिग्रन्थास्तु अद्यावध्यपि प्रतिवर्षं नवीननवीना अन्विष्य प्रकाश्यन्ते। आर्याणां बहवो ग्रन्था भारताद् बहिर्नीता:, बहवश्च देशे एवास्मिन् धर्मद्रोहभावनया क्षयमुपनीता:। बहवश्च भयभीतैर्ग्रन्थस्वामिभि: स्वबुद्ध्या गोपिता अपि वर्षावह्नयाद्युपद्रवै: स्वतो नष्टा:। हिन्दुधर्मद्वेषिणामवरङ्गजेबादीनां समये भूयांसो ग्रन्था वह्निसादक्रियन्त इत्यैतिहासिका जल्पन्ति। कतिपयमासपर्यन्तं पुरातनग्रन्थप्रज्वालेनैव वह्निसाध्यानि कार्याणि केषाञ्चिद् वैदेशिकराजानां समये समभवन्निति सर्वत: प्रसिद्धम्। एवमादिरूपेण न स्वल्पकालपर्यन्तम्, अपि तु सहस्रवर्षपर्यन्तं सर्वतो ग्रन्थकर्मनाशानद्यां प्रबलं प्रवाहितायामपि यस्या: साहित्यमद्यापि सर्वापेक्षया विस्तृतमाख्यायते, मध्योन्नतिसमये तु कियान् वा विस्तरोऽस्य स्यादिति निष्पक्षपातै: सुधीभि: स्वयमेव समालोच्यम्। विचार्यमिदानीम्, या भाषा भाषाव्यवहारेऽव्यवहृता स्यात्, अपि भवेत्तस्या: साहित्यमेतावद्विस्तृतम्? व्यवहारगतां काञ्चिदावश्यकतामनुभूयैव साहित्ये ग्रन्थस्य कस्यचिदवतारो भवति। या भाषा व्यवहारेऽनुपात्तैवाऽभूत् तस्या अपि साहित्यमेतादृक् सर्वाङ्गपूर्णं सम्भवेदित्यपि किं बुद्धौ समाविशेत्?
आवश्यकता हि प्रसवित्री तत्तत्पदार्थानाम्। यस्मिन् समये यस्य वस्तुन: समाजेऽपेक्षा तदेव लोके आविष्कृतं भवेत्। अनपेक्षितस्य वस्तुन: सङ्ग्रहस्य का कथा, स्मरणमपि कदाचित्तस्य न भवति। ततश्च विभिन्नविभिन्नवर्गे विभक्तस्य जनसमाजस्य यद् यदावश्यकम्, स्वीयलोके च यद् यत् प्रचारणीयं भवति तत्तदेव साहित्येऽपि परिगृहीतं भवति। संस्कृतभाषाया: साहित्ये च धनुर्वेदार्थशास्त्रशिल्पकलावैद्यकज्यौतिषकामशास्त्रसूदशास्त्रप्रभृतयस्तस्मिन् समये विभिन्नविभिन्नसमाजस्यापेक्षिता: सर्वविषयका एव निरमीयन्त ग्रन्था:। किं बहुना, पक्षिणां मिथ: सम्भाषाप्रभृतयोऽपि विषया नात्र परित्यक्ता:। एवं किल प्राचीनभारतस्य सर्वेष्वेव वर्गेषु संस्कृतभाषाया: सम्बन्धमवेक्ष्याऽपि कथमियमव्यवहार्या ज्ञायतां नूनम्? सर्ववर्गेषु प्रचारमवेक्ष्यैव प्राचीनै: पुरुषै: प्रोच्यते स्म-
एतद्देशप्रसूतस्य सकाशादग्रजन्मन:।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवा:।।इति।
तर्काभाससम्पर्का: केचिदेवमपि प्रजल्पन्त: श्रूयन्ते- ''संस्कृता सेयं भाषा कदापि व्यावहारिकी नाभूत्। तत्रभवत: पाणिनेरुत्तरकालमेवैतस्या भाषाया: संस्कृतमिति व्यपदेशोऽधिगम्यते, नेत: पूर्वम्। तथा च व्याकरणकृतसंस्कारकालादारभ्य सेयं भाषा स्वयं साहित्यसिंहासनमधिरोहन्ती व्यवहारक्षेत्रं प्राकृतापभ्रंशभाषादिभ्य: समर्पितवती। तत: कथङ्कारं वा व्यावहारिकी साधयितुं शक्या?’’ इति।
सम्यगिदमुपन्यस्तं श्रीमद्भि:। किन्तु यस्यां भाषायां तत्रभवत्पाणिन्यादिभि: संस्कारं सम्पाद्य संस्कतमिति व्यपदेश: प्रवर्तित: सा मूलभाषा संस्कृतात्पृथक्कर्तुं किं शक्येत श्रीमद्भि:? व्याकरणेन हि आदिकालादारभ्याद्यावधि वर्तमानायास्तस्या: परिष्कार एव कृतो नाविष्कार:। अन्यथा चेत्, वैयाकरणा अमी भाषाया: सृष्टिकर्तार: प्रोच्येरन्, न संस्कर्तार:। तथा च वेदाविर्भावादारभ्याद्यपर्यन्तं वर्तमाना सेयं गैर्वाणी एकैव भाषा सिध्यति, न भिन्ना भाषा। संस्कारसम्पत्त्या न किल वस्तुन: पूर्वसत्ता विनिवर्तते। यज्ञदत्तस्य पुत्र: शिक्षादिसंस्कारे जाते न किल न भवति, नाऽन्यो वा भवति। अपि तु शिक्षित: सन् स एव संस्कारवानिति लभते व्यपदेशमात्रम्। 'द्विज:’ 'पुनर्जन्म’ इत्यादयो व्यवहारास्तु संस्काराणां सामर्थ्यविशेषख्यापका आहार्या एव। यथा व्याध्यादिसङ्कटविशेषान्निर्मुक्त: 'पुनर्जन्म अस्याऽभवत्’ इति भाषणभाजनं भवति।
अस्तु, तथ्यमिदं नाभ्यधिकं समर्थनमर्हेत्। वर्तमाना राष्ट्रभाषा 'हिन्दी’ त्रयोदशतम(ख्रि.) शताब्दीतोऽपभ्रंशभाषासकाशाद् विभिद्य पृथग्रूपविकासं लेभे। आरम्भिकमस्या: स्वरूपं तथाविधमस्ति यस्य हि वर्तमानकालिकेन रूपेण न लेशत: संवाद: संस्तवश्च। तथापि त्रयोदशशताब्दीत आरभ्य वर्तमानकालिक-'हिन्दोस्थानी’ पर्यन्ता सा एकैव 'हिन्दी’ व्यवह्रियते, न भिन्ना। तथैव वैदिककालादनन्तरं व्यवहृतामार्यभाषामारभ्य वर्तमानकालपर्यन्तं सा देवभाषा एकैवास्तीति स्वीकारे कथङ्कारं वा भवेद् विप्रतिपत्ति:? 'सहस्रशीर्षा पुरुष:’ इति प्राचीनस्वरूपे वर्तमानसंस्कृतस्वरूपे च मौलिकधातुजन्य: को वा भेद इति किमनाग्रहिल: कश्चित् साधयितुं प्रभवेत्?
आङ्ग्लभाषा ह्याङ्ग्लानां राज्यकालाद् भारतेऽस्मिन् प्रवृत्ता। विस्तरस्त्वस्या एष्वेव परिगणितेषु वर्षेषु देशेऽस्मिन् जात इति सर्वविदितम्। इत: पूर्वं तत्तत्प्रान्तेषु स्वस्वप्रान्तीया भाषा: प्रचलिता आसन्। सार्वदैशिकं तु कार्यं संस्कृतभाषयैव समसिध्यत्। मध्यभारताद् रामेश्वरयात्रायां गतो मनुष्यो न मद्रासीयैर्जनै: स्वप्रान्तीयया भाषया व्यवहर्तुमशकत्। संस्कृतया भाषया तु तत्रापि व्यवहारसौकर्यं प्रत्यक्षमुपालभ्यत। बङ्गादिप्रान्तेष्वप्येवम्। अत एवाऽस्मद् भ्रातरो बहव: ('संस्कृतम्’, 'श्री:’, 'मधुरवाणी’ सम्पादका:) कथयन्ति यत् 'संस्कृतमेव राष्ट्रभाषा, प्रत्यक्षं सर्वेष्वेव प्रान्तेष्वेकरूपं प्रचलितत्वात्’। ततश्चानायासं बोद्धुं शक्यते-यदीयं भाषा भारतीयानामव्यवहार्याऽभविष्यत् तर्हि कथं देशस्य एककोणमारभ्यापरपर्यन्तं सर्वत्र व्याप्ताऽभविष्यत्। देशे सर्वत्र आत्मीयानां भावानां प्रकाशनाय सेयं यदा परिगृहीता तत: कथमियमव्यवहार्या नूनम्?
भाषावैज्ञानिकैस्तु यूरोपपारस्यादिभाषाशब्दानामपि मूलं गैर्वाणभाषाया मौलिकशब्दा एवाऽऽख्यायन्ते। किन्तु भारतीयभाषाशब्दानां तु संस्कृतभाषैवोपादानमिति हि सर्वेणापि शिक्षितसमाजेनाऽभ्युपगतम्। संस्कृतभाषैव स्वाभाविकविपरिवर्तननियमानुसारं शनै: शनै: प्राकृतादिभाषास्वरूपमधिगत्यान्ते तत्तत्प्रान्तीयभाषारूपे परिणता। एकस्या भाषाया अन्यभाषारूपे परिणमनं हि शनै: शनैर्व्यवहारप्रवाहेणैव कालक्रमाज्जायते। न हि कस्यचिदाज्ञावाक्येनाविष्कारेण वान्या भाषान्यभाषारूपे परिणमति। ततश्च न किमिदं बोद्धुं शक्येत यत् संस्कृता (अर्थाद् गैर्वाणी) भाषा पूर्वं सर्वत: प्राचरत्। तत: कालक्रमानुसारं शनै: शनै: सा प्रान्तीयभाषारूपमवापत्। इदानीं भाषाविपरिवर्तननियमं परिज्ञायापि किं साधयितुं शक्येत यत् संस्कृता भाषा सेयं देशेऽव्यवहार्याऽभवदिति।
सर्वेष्वेव भारतस्य प्रान्तेषु किं राज्ञां किं वा प्रजानां सर्वाण्यपि व्यवहारकार्याणि संस्कृतभाषायामेवाऽभवन्निति मर्मतो विचारे विचारशीलैर्बोद्धुं पार्येत। अतिप्राचीनानि राज्ञां शासनानि सर्वलोकेषु प्रचारार्थं शिलासु ताम्रपत्रेषु च लिखितानि गवेषणाविभागेनान्विष्य प्रकटीकृतानि क्रियन्ते च, यैरितिहासस्य भूयानंश: प्रमाणित: क्रियते। एतेषामुद्देश्यं सर्वत्र प्रसारो नाम। यदीयं भाषाऽव्यवहार्याऽभविष्यत्तर्हीयता परिश्रमेण राजानस्तामिमां पाषाणादिषूत्कीर्णां कर्तुं प्रायतिष्यन्त किम्? न हि लोकेष्वप्रचलितां भाषां सर्वलोकेषु प्रचुरप्रचारकामुक: कोऽपि समुपदद्यात्। गच्छतु प्राचीनकथा, राज्ञां पारस्परिकव्यवहार: संस्कृतभाषयैव मोगलशासनकालपर्यन्तमपि प्राचलत्। आम्बेराधिपतिमहाराजश्रीजयसिंह-देवादिभि: सहच्छत्रपतिशिवाजीप्रभृतीनां संस्कृतभाषयैव मिथ: पत्रव्यवहार: प्राप्यते। सन्त्येवंविधानि संस्कृतपत्राणि जयपुरराज्यस्य 'दीवानी हजूरी’-विभागे।
किं वाधिकेन। गच्छति काले प्रान्तीयभाषासु राजशासनानां लेखने सम्प्रवृत्तेऽपि राज्ञां स्वहस्तलेख: संस्कृतभाषायामेवाऽभवत्-'स्वहस्तोऽयं मम जयसिंहदेवस्य’ इत्यादि। जयपुरराजकीयव्यवहारपत्रेषु त्वद्यापि प्रारम्भे लिख्यते-'दीवानवचनात्’ इत्यादि। प्रजास्वपि परस्परमृणदानाऽऽदानादिपत्रेषु प्रारम्भिकलेख: 'लिखतंग’ 'लिखतम्’ इत्यादिनैवारभ्यते। सर्वकार्यनिश्चये सम्पन्ने 'लिखतं पढतं तक हो गई’ इत्याख्यायते। संस्कृतभाषाप्रवृत्ति: प्रजासु एतावत् प्राचरत् यदिदानीं पर्यन्तमपि 'लिथो’ मुद्रालयमुद्रितेषु साधारणपुस्तकेषु 'अथ हीरा राँझा को ख्याल लिख्यते’ 'अथ राजा रिसालू को ख्याल लिख्यते’ इत्यादि निर्विशङ्कं प्राचलत्। यदि व्यवहारकार्येषु संस्कृतभाषाया: प्रचारो नाभविष्यत्तर्हि तस्य ध्वंसावशेषा: कथमिमेऽधिगम्येरन्?
वापीकूपतडागादिसार्वजनिककार्याणां या: शिलालिपय: प्राप्यन्ते तास्वपि सेयं भाषा समुपलभ्यते। परस्सहस्रमुद्रा व्ययीकृत्य पुण्येन साकमात्मन: कीर्तिमपि विश्वस्मिन् प्रख्यापयितुमिच्छु: पुरुषस्तानेवोपायान् करोति, तयैव च भाषया लेखयति, येषां सर्वलोकेषु परिचयो भवेत्। यदीयं संस्कृतभाषाऽव्यवहार्या, लोकेष्वप्रचरिता वाऽभविष्यत्तर्हि किं प्राञ्चो धनिका: प्रमत्ता आसन् यमिमामव्यवहार्यां भाषां प्रयत्नपूर्वकं शिलास्वलेखयिष्यन्? क्षणमवधानपूर्वकं विचार्यताम्-आर्याणां विवाहादिषु मङ्गलकार्येषु, मरणादिष्वशुभकार्येषु च सर्वेष्वेवाधुनापि संस्कारपरम्परा संस्कृतभाषयैव सम्पाद्यते। संस्कृतमयकर्मकाण्डपद्धतेरद्यापि सम्बन्धो न विच्छिन्न:। एवं सत्यपि चित्रं चित्रमिदं सम्प्रधारयामि यन्न नाम वर्तमानकाले, अपितु प्राचीनेऽपि काले श्रीमद्भि: साधयितुमिष्यते- यत् संस्कृतभाषां सेयमव्यवहरणीया समभवदिति। आर्यजातौ स्त्रीणामपि ये आचारा:, धार्मिकव्रतानि, 'त्यौहार’ इति ख्याता उत्सवा:, विवाहादीनां गीतानि एवेमादिषु सर्वेष्वेव संस्कृतभाषाया: सम्बन्धो निरवच्छिन्नोऽनुवृत्तोऽनुमीयते (एतेषामुद्धरणानि विस्तरभयान्न दीयन्ते, सति सम्भवे लेखान्तरे दीयेरन्)। ग्राम्यजनेषु स्त्रीप्रभृतिषु च ये व्यवहारा: प्राप्येरन् ते हि पूर्वप्रवाहानुगता: स्वाभाविका एव भवन्तीति जानन्ति सर्वेऽपि। ततश्चारम्भादद्यावधि व्यवहारप्रवाहं प्रत्यक्षमुपलभ्यापि किं सेयमार्यभाषाऽव्यवहार्या कस्मिन्नपि कालेऽप्रचरिता च साधयितुं युज्यते?
'संस्कृतभाषा न कदाचिद् व्यवहार्याऽभवत्’ इति वैदेशिकमहाभागानां तत्पदाङ्कानुवर्तिमहोदयानां च वक्तव्यस्य तदैवाऽयमवसरोऽभवद् यदा ह्ययं देशो नानाविधाभिर्वैदेशिकजातिभिराक्रान्त: परवशस्थितिं प्रगतो विच्छिन्नैकताशक्तिरितस्ततो विशृङ्खल एवासीत्। स्वातन्त्र्यकाले तु भारताद्बहिरपि मानवमण्डलैर्मुकुटतटघटितशासनानां सार्वभौमभूपालानां समये शासनधर्मादीनां विषये नैसर्गिकसूक्ष्मभेदसत्तायामप्येकतासूत्रमेकं निभृतं तथा प्राचरद् येन सर्वेऽप्यात्मानं मिथ:सङ्घटितं विदन्ति स्म। तस्मिन् हि समये प्रान्तीयमवान्तरभेदं संस्पृशन्त्यपि देशेऽस्मिन् एकतासूत्रमपरिज्ञातं संघटयन्ती सर्वतोऽपि प्रचचार गैर्वाणी वाणी। अस्यैव हि समयस्य स्मरणमकारि परस्ताद् भाविभी राजशेखरादिभि:-
नातिस्पष्टो न चाश्लिष्टो न रूक्षो नातिकोमल:।
न मन्द्रो नातितारश्च पाठी गौडेषु वाडव:।।
रस: कोऽप्यस्तु काऽप्यस्तु रीति: कोऽप्यस्तु वा गुण:।
सगर्वं सर्वकर्णाटाष्टङ्कारोत्तरपाठिन:।।
गद्ये पद्येऽथवा मिश्रे काव्ये काव्यमना अपि।
गेयगर्भे स्थित: पाठे सर्वोऽपि द्रविड: कवि:।।
सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठवम्।
अपभ्रंशवदंशानि ते संस्कृतवचांस्यपि।।
शारदाया: प्रसादेन काश्मीर: सुकविर्जन:।
कर्णे गुडूचीगण्डूषस्तेषां पाठक्रम: किमु।।
तत: पुरस्तात्कवयो ये भवन्त्युत्तरापथे।
तेमहत्यपि संस्कारे सानुनासिकपाठिन:।।
मार्गानुगेन निनदेन निधिर्गुणानां
सम्पूर्णवर्णरचनो यतिभिर्विभक्त:।
पाञ्चालमण्डलभुवां सुभग: कवीनां
श्रोत्रे मधु क्षरति किञ्चन काव्यपाठ:।।इति।
(काव्यमीमांसा-अधि. १ अ. ७)
अद्येव न सर्वदासीदस्माकं विशृङ्खला सामाजिकी शक्ति:, भारतीयानां राज्ञां शासनकाले सुशृङ्खलतार्थं परित: प्रचरन्ती वर्णाश्रमव्यवस्था शिक्षादिविषयेषु सर्वतोऽपि सुव्यवस्थितं व्यापिनं चैव क्रमं प्रवर्तयामास येन शिक्षिता: सर्वेऽपि देशवासिन: स्वत एव एकतासूत्रे सङ्ग्रथिता इवासन्। पूर्वप्रघट्टकानुसारं प्राचीनकाले सर्वतोऽपि प्रचलिता सेयं संस्कृतैव भाषा शिक्षाया भाषासीदिति विचारेण पर्यवस्यति। त्यज्यतामयं विशृङ्खलप्राय: सर्वथाऽशान्तिमयो वर्तमानसमय:, परं भगवत्पाणिनिसमयपर्यन्तं तु गैर्वाणभाषैव सेयं व्यावहारिक्यभूदिति सुदृढं प्रमाणितं भवति। अत एव तत्रभवता पाणिनिना जनेषु सर्वतो व्यवह्रियमाणा सेयं भाषा सामान्यतो 'भाषा’ पदेन व्यपदिष्टा। यथा-'प्रथमायाश्च द्विवचने भाषायाम्’, 'भाषायां सदवसश्रुव:’ इत्यादि। प्रतिदिनव्यवहारतो दूरीभूताया वैदिकभाषाया: प्रातिद्वन्द्वे प्रतिदिनव्यवहृता सेयं गैर्वाण्येव सामन्यतो 'भाषा’-पदव्यपदेशनीयाऽभवत्। अस्मदादीनामेव किम्, पाश्चात्त्यविदुषामप्यन्वेषणानुसारं भगवत: पाणिने: समय: ख्रिष्टजन्मत: कतिचनशतकपूर्ववर्ती। ततश्च वैदेशिकप्रचारितयाऽशान्त्या विरहिते तस्मिन् समये संस्कृतमेव भारतेऽस्मिन् शिक्षाभाषासीदिति स्वीकार्यं स्यात्। अन्यथा कथमेवमविशेषितं प्रयुयोज तत्रभवान् पाणिनि: 'भाषा’ इति। किञ्च यस्या भाषाया वैदिकभाषातो विलक्षणं संस्कारमापाद्य सेयं 'समपाद्यत सापि तस्मिन्काले नेतोऽधिकं पृथग्भूतासीत्। अत एवैकेन व्याकरणेन द्वयोर्भाषयोर्बोधाय प्रायतत पाणिनि:, प्रवर्तयति च बहून्येव संस्कृतविभागीयानि सूत्राणि वैदिकभाषायामपि निजे व्याकरणे।
अयं समय: संस्कृतभाषाया: कृते कीदृगिति विचारशीलानां न मन्ये भवेत्परोक्षम्। उपरित: संस्कृतभाषाया भक्ति: प्रचुरं प्रकाश्यतां सामयिकमहाभागै, ''स्वतन्त्रे भारते भारतस्य भाषा संस्कृतं भवेत्’’ इति मुखत: समुद्घोष्यतां चाऽपि, किन्तु कार्यरूपे किं परिणमतीति क्षणं प्रत्यक्षमालोक्यताम्। शासनादिषु प्रवृत्तानां शिक्षितमहाभागानामाङ्ग्लभाषानुरागो नाद्यापि समाप्यते। अथवा 'टाइप राइटर’-द्वारा शासनादीनां प्रचारसौकर्यं नाद्यापि ते परित्यक्तुं सहन्ते। अत एव राजकीयव्यवहारस्य प्रबले प्रवाहे संस्कृतस्य का कथा, संस्कृतशब्दबहुला वराकी हिन्द्यपि स्थानं न लभते। तस्या: परिवर्ते 'हिन्दोस्थानी’-नाम्ना काचित्सङ्करभाषा तै: स्थापयितुमिष्यते। एवं दुर्धर्षयुगेऽपि प्रगत- (अर्थादित: पूर्वभव-) जनगणनायां (सेन्सस रिपोर्ट) मद्रासप्रान्ते पञ्चाशत्कुटुम्बानां मातृ- (व्यवहार) भाषा साम्प्रतमपि संस्कृतं लेखनीयाभवत्। तत: केन वा मुखेन साधयितुं प्रगल्भ्यते यत् 'संस्कृतं कदाचिदपि व्यवहारभाषा नासीत्’ इति।
आम्, एतत्त्ववश्यं विवेकतो निश्चेतव्यं यद् यादृशी संस्कृतभाषा वर्तमानकाले श्रीमद्भि: पुस्तकेष्वलोक्यते तादृश्येव भाषा सर्वदासीदिति तु न विचारशीलानामाग्रह:। यतो हि जानन्त्येव भाषावैज्ञानिका यद् व्यवहारपरिगृहीताया भाषाया: स्वल्पस्वल्पे एव समयान्तराले व्यवहारप्रवाहतो जायमानानि शैलीवस्तुनामादीनां परिवर्तनानि नूनमनिवार्याणि नाम। किन्तु न तेन सा भाषैव द्वितीया भवति। ततश्चैवं नानापरिवर्तनानि पश्यद्भिरपि किं कैश्चित्साधयितुं शक्येत यद् गीर्वाणभाषा सेयं कदाचिदपि व्यवहरणीया नाभवदिति?
भ्राजन्ती भूरिभूभागे भाग्यभोगविभासिता।
भवने भवने भूयो भारते भातु भारती।।इति शम्।