मञ्जुला
(ध्वनिनाटिका)
काचित् स्त्री - सखि कमले! अद्य यमद्वितीयाया: पुण्यदिनेऽपि एतावद्विलम्बेन स्नानाय समागताऽसि। पश्य, अद्य महिलाघट्टेऽपि स्त्रीणां कियती सङ्कुलता। इयं विमला चरणयोर्न्यस्तम् अलक्तकमेव चिरकालान्निरीक्षते। (विमलां प्रति) सखि विमले! दीपावलीमहोत्सव: सुखेन सम्पन्न:। परं चरणयोर्न्यस्तो लाक्षाराग: किं नाद्यापि दृष्टिं परिहरति। अये इदं भगवत्या यमुनायास्तीरमस्ति। अत्र तु संयता तिष्ठ।
विमला -अस्मादृशीनामुपरि दृष्टिरेव कस्य निपतेत्। इयं सौन्दर्योज्जवला कमला निरीक्ष्यताम्। अस्या दृष्टिरेव न जाने कुत्र कुत्र भ्राम्यति? अपि दीपावली महोत्सवस्य मादकता साम्प्रतमपि विद्यमानाऽस्ति।
कमला -सखि विमले! आत्मवत् सर्वलोकान् पश्यसि। पश्य, तव नयनयो: कज्जलं किं साक्ष्यं न ददाति? हन्त! येषां वराकाणां गृहे उत्सवदिवसेऽपि कलहकोलाहलो न विश्राम्यति ते वराका: कथम् उत्सवं सम्मानयिष्यन्ति? हन्त! तस्मिन् दिनेऽपि नागिनी भीषणफु त्कारान् न परित्यक्तवती।
मनोरमा -अहो अतीताभि: कथाभि: किमर्थम् आत्मानं क्लेशयसि। इत: पश्य। देहि एतस्मै दक्षिणाम्।
(नेपथ्ये - जय यमुने! जय यमुने! पुण्यपर्वणि दीयतां विप्रायाऽपि)।
अन्या महिला - अयि विमले! मनोरमां किमर्थमुपालभसे। अस्या: सौन्दर्यपरिमुग्ध: स श्रेष्ठिपुत्र एव नित्यम् अस्या गृहस्य परिसरे भ्राम्यति। घट्टेऽपि तु स एनां त्यक्तुं नेच्छति। (जय यमुने, जय यमुने)
द्वितीया - किं घट्टेऽपि स: समायाति?
एका स्त्री - अये समायाति इति किं पृच्छसि। सम्मुखे किं न पश्यसि। पश्य? स समायात एव। सम्मुखे तस्या: नौकाया: पृष्ठत: श्वेतकञ्चुकधारी कोऽस्ति? अपि अस्ति स:।
द्वितीया - अये दृष्टम्। जय यमुने, यमुने।
मनोरमा - (क्रोधेन) माऽधिकं चापलं कुरु। अभागिनी मदुपरि कलङ्कं समारोपयति। सर्वमहं जानामि तव चरित्रम्। पूर्णिमाया रात्रौ त्वम्......।
द्वितीया - सखि! गच्छतु सर्वा कथा। सम्प्रति तूष्णीं भव। अन्यथा.....।
काचित् स्त्री - अरे इयं कलङ्किनि मञ्जुला अत्रापि समागता। अये भाग्यवति! इतस्तु दूरे गच्छ।
अन्या - अपेहि रे पापिनि! इहैव किं मरणस्याऽवकाश: प्राप्त:? दूरमपरसर। न किं विलोकयसे, अत्र वयं स्नाम:।
काचित् स्त्री - विमले! का खलु इयम्! किमियं कलङ्किनी? काचिद् वेश्या वा? मुखमुद्रया तु सेयं गभीरा काचित् सतीव लक्ष्यते।
द्वितीया - नहि नहि। वेश्या तु नाऽस्ति। गृहत्यागिनी इयं सा मञ्जुलाऽस्ति। यस्या वार्ता मनोरमागृहे श्रुताऽभूत्।
अपरा - अये दूरे गच्छ। अन्यस्मिन् घट्टे गत्वा स्नानपुण्यम् अर्जय।
मञ्जुला - (स्वगतम्) अहं नाम समाजस्य कलङ्करुपा! यत्पापं प्रक्षालितमपि नाऽपगच्छति तेनाऽहं परिवृता। पुन: किमित्यहं यमुना स्नानाय आगच्छामि यमुनाया: पावनपयसा किं वेश्याया: पातकमपोहितुं पार्यते! (मध्ये स्नानस्य घटादिपात्राणां च ध्वनि:) (स्वगतम्) सर्वे जना देवमन्दिरे जलमर्पयितुं व्रजन्ति। भगवतश्चरणयो: जलस्य अर्घ्यं समर्पयन्ति। बहुतरा: स्त्रियो मन्दिरे ताम्बूलगृहस्य पुष्पगुम्फ नगृहस्य वा सेवामारचयन्ति। कतिचित् स्त्रियो देवमन्दिरस्य भाण्डागारे तण्डुल-गोधूमादि-धन्यानां निस्तुषीकरणस्य शोधनस्य वा सेवां कुर्वन्ति। पुन: किमहं न कुर्याम्! मया आनीतं तोयं कि नाङ्गीकुर्यात् केशव:! यदि देवसेवायां जलं न स्वीक्रियेत् तर्हि देवमन्दिरस्य सोपानमेव अहं प्रक्षालयेयम्। हन्त! किं तस्याऽप्यधिकारो मम नास्ति! मम जलं नीचजातयोऽपि नाङ्गीकुर्वन्ति। मम जलस्पर्शेन तेऽपि अपवित्रा भवन्ति। तत: पुनरहं प्राङ्गणं सोपानं वा केन प्रकारेण प्रक्षालयितुं शक्नुयाम्? अस्तु ,अद्य भाग्यपरीक्षां करोमि। भगवान् मदनमोहनो मे सेवां स्वीकरोति न वा?
(मन्दिरस्य प्राङ्गणे जयतु भगवान्, जयतु स्वामी, जयतु मदनमोहन: इति ध्वनि: भवति)
अधिकारी -(परिचारकं प्रति) अरे मोहन! श्रेष्ठिनो रामदासस्य फलानां स करण्डको मन्दिरे प्रषितो वा? अरे अधुनाऽपि कठियावाडस्य श्रेष्ठी न समागत:। पश्य स हि आगतो न वा?
मोहन: -अरे अधिकारिमहोदय! करण्डकस्तु सायङ्काल एव प्रेषित: किन्तु श्रेष्ठी वृन्दावनदास: विलम्बेन समागमिष्यति। स हि ह्यो वृन्दावनं गत:।
अधिकारी - (एकं श्रेष्ठिनं प्रति) श्रेष्ठिन् ! जय श्रीकृष्ण! साम्प्रतं मन्दिरे तण्डुलानामावश्यकता। यदि भवान् वाञ्छति तर्हि वसुमति तण्डुलानां कृते अयमवकाश:। कथय, का इच्छा?
श्रेष्ठी - अहो! श्रीमतामतीव कृपा। श्व एव तण्डुलानां प्रबन्धं करिष्यामि। सखे नानदास! त्वं मन्दिरे केसरप्रेषणस्य वाञ्छां करोषि स्म। इदानीम् अधिकारिमहोदयं पृच्छ।
अधिकारी - निश्चितम्, निश्चितम्। नानदास! केसरो भण्डागारे अपेक्ष्यते। प्रेष्यतां नि:संशयम्। जय श्रीकृष्ण। अये श्रेष्ठिन् गोपालदास! गनि मलमल्लवस्त्राणि नाद्यापि भवता प्रेषितानि? (परिचारकं प्रति) अरे इमानि कूष्मण्डानि अत्रैव पतितानि सन्ति? आह्वय कञ्चिद् भारवाहकम्। स इमानि अभ्यन्तरे प्रापयेत्। जानकि! तव कार्यं सम्पन्नं न वा? तव कार्ये परिश्रम: कियान् कर्तव्योऽभूत्? (कोलाहलं श्रुत्वा) मोहन! शृणुरे! बहि: कोलाहल: इव श्रूयते।
मोहन: - पश्यामि, पश्यामि।
मेघिनी - (मन्दिरस्य सम्मार्जिका आभीरी क्रुद्धा भूत्वा कञ्चिदुच्चैर्वदति) अरे त्वं किं वाञ्छसि? अत्र किमिति अवस्थिताऽसि? दूरमपसर। यावत् सम्मार्जयामि देवाङ्गणम्।
मञ्जुला - (भयकम्पितस्वरेण) ममैतेन कलशजलेन........।
मेघिनी - नव कलशजलेन किं भविष्यति रे? किं देवं स्नापयितुमिच्छसि?
मञ्जुला - नैव।
मेघिनी - तर्हि?
मञ्जुला - सोपानं बहि: प्राङ्गणं च वाञ्छामि प्रक्षालयितुम्।
मोहन: - मेघिनी कयाचित् सह कलहायते।
अधिकारी - (प्राङ्गणाभिमुखमुपसृत्य गभीरतया पृच्छन्) अये मेघिनी! कं कोलाहलम् आरचयसि?
मेघिनी - कोलाहल: क: स्यात्? दृश्यताम्। लोकानामभिमान: साम्प्रतं भुवनेऽपि न भाति। इयं वेश्या सलिलमादाय समागताऽस्ति। कामयते च यद् देवमन्दिरं पयसा प्रक्षालयेयम् इति।
अधिकारी - काऽसि रे त्वम्? अपि मञ्जुला? पश्य, भवत्या स्पृष्टं जलं न कस्मिन्नपि कार्ये समागच्छेत्। प्राङ्गणं प्रक्षालनेऽपि नेदं परिगृह्येत्। यावत् प्राङ्गणं न परिशुष्येत् तावत् तदुपरि पादपतनस्य आशङ्का।
मञ्जुला - (स्वगतम्) अस्मिन् पुष्पोद्याने तु मम निवारक: कश्चिन्न दृश्यते। (सभयकम्पं परितो विलोक्य) भगवन् मदनमोहन दीनामिमां ते दासीं क्षमस्व। हन्त! तिष्ठामि तावद् अस्मिन्नेव भूतले। (भूतले मस्तकम् आघृष्य) अधमोद्धारक! दयालो! स्वीकुरु मे पूजाम्। इति कलशजलम् अर्घ्यमिव भूमौ निपातयति। ततो रिक्तं कलशं कक्ष्ये वहन्ती गृहं परावर्तते। मञ्जुला प्रतिदिनं मन्दिरोद्याने समागत्य एवमेव जलमर्पयति स्म किन्तु न भगवद्दर्शनं प्राप्तवती। वर्षानन्तरम् एकस्मिन् दिवसे-)
मञ्जुला - स्वामिन्! नेदानीं मम स्थातुं शक्ति:। प्रभो! एकवर्षस्य कठिनतपस्ययाऽपि किं कृपां न करिष्यसि? साम्प्रतम् एकक्षणार्थमपि ते मधुरं दर्शनं देहि।
प्रधान: - (स्वगतम्) इयं दीना काऽस्ति? बहो: कालादेषा समवस्थिता। (समीपे गत्वा) पुत्रि! किं वाञ्छसि? किं भगवत: सेवार्थं जलम् आनीतवती?
मञ्जुला - नैव।
प्रधान: - तर्हि किं वाञ्छसि?
मञ्जुला - मदनमोहनस्य एकबारं दर्शनम्।
प्रधान: - किं दर्शनं कर्तुमिच्छसि? एहि, तर्हि माम् अनुसर। साम्प्रतमेव मन्दिरस्य पटमुद्घाटयामि। समीपे स्थिता भूत्वा सम्यक्कारेण विधेहि भगवतो दर्शनम्। ......उपरि आगत्य कुरु भगवतो दर्शनम्।
मञ्जुला - (स्वगतम्) भगवन्! भवान् मदुपरि कृपां करोति किन्तु किमहं समीपे गच्छामि?
प्रधान: - उपरि आगत्य विलोक्य भगवन्तं स्थैर्येण।
मञ्जुला - (व्याकुलभावेन) अग्रे आगमनस्य न मेऽधिकार:।
प्रधान: - अधिकार: किमिति नास्ति वत्से! यस्य हि भगवद्दर्शनस्य प्रबला उत्कण्ठा तस्य सर्वोऽप्यधिकार:।
मञ्जुला - अहम्....... अहम्......।
प्रधान: - त्वं काऽसि?
मञ्जुला - अहं कलङ्किनी समाजाद् बहिष्कृता।
प्रधान: - नैवम्, नैवम्। नाऽसि त्वं कलङ्किनी। त्वं हि भगवद्भक्त:। सोपानमारुह्य नि:शङ्कम् अग्रे उपेहि।
अधिकारी - दुष्टस्य दृश्यतां लोभ:। एकसहस्रमुद्राप्रदानस्य आसीद् वार्ता। साम्प्रतं द्विशतमुद्रा एव दातुं वाञ्छति। हा हन्त! (अग्रे विलोक्य) अरे जगन्मोहनमारूढाऽसि? एतावती ते धृष्टता। दूरं गच्छ। सोपान्नीचैरवतर।
प्रधान: - (अधिकारिणं प्रति) एतस्या: स्त्रिया: किमिति करोषि तिरस्कारम्?
अधिकारी - श्रीमन्! दृश्यतां मन्दिरस्य समीपमेव इयमुपगता।
प्रधान: - तर्हि कोऽस्मिन्नपराध: संवृत्त:?
अधिकारी - इयं समाजस्य कलङ्किनी वेश्यावत् इति अधुनैव कथितवती।
प्रधान: - किं वेश्याया: कृते भगवद्दर्शनस्य निषेध:? द्वारस्य अवरोध:?
अधिकारी - दर्शनं यद्यपि न निषिद्धं किन्तु लोकानां समीपे समुपगत्य स्पर्शनमवश्यं निषिद्धम्।
प्रधान: - केन इदं भवते बोधितम्? महामहत्सु जगदीशादिपीठेषु किं भवति?
अधिकारी - महतां देवपीठानां कृते न कोऽपि नियम:।
प्रधान: - तर्हि कस्याऽपि देवमन्दिरस्य कृते न कश्चिन्नियम:। मम सुदृढो विश्वासो यद् घोरपातकिन: स्पर्शादपि भगवान् न कदाचिदपि अपवित्रो भवति।
अधिकारी - तर्हि पञ्चामृतस्नानादिना अङ्गशोधनस्य व्यवस्था किमिति प्रचलिता?
प्रधान: - सा हि अस्मदादीनां कृते, न भगवत: शोधनाय। भक्तजना: भगवत: शोधनस्य व्यवस्थां कृत्वा निजमनस: शोधनं कुर्वन्ति। य: किल भगवान् जडजङ्गमानां सर्वेषां स्वामी स कदाचिदपि अपवित्रो न जायते-
श्री अङ्गशोधनं कृत्वा स्वात्मानं शोधयन्ति ते।
पञ्चामृताऽभिषेकेण स्वं चात्मानं पुनन्ति ते।।
जड-जङ्गम-जन्तूनां दयालु: परम: पिता।
निजोत्पादितजीवानां स्पर्शेन न विदुष्यति।।
अस्तु भगवतस्तु स्पर्शमपि नैषा कृतवती। इयं तु केवलं प्राङ्गणादग्रे समागत्य जगन्मोहने स्थिता। किमेतावन्मात्रेण मन्दिरम् अपवित्रं संवृत्तम्?
अधिकारी - किमिति न संवृत्तम्?
प्रधान: - (किञ्चिदुच्चस्वरेण) अस्तु, तदिदं प्रत्यक्षदैवतस्य श्रीमदनमोहनस्य सम्मुखे समवस्थाय किं भवान् दृढतया वक्तुं शक्नुयाद् यद् भवान् वा अहं वा मन्दिरेऽस्मिन् सम्प्रविश्य मन्दिरस्याऽस्य अपवित्रतां नेात्पादयाव:? समाजो सेयं प्रत्यक्षरूपेण कामं कलङ्किनी किन्तु भवान् वा अहं वा अन्ये वा किं दुग्धधौता: विशुद्धा: सिद्धा: भविष्याम:? यौवनस्य घटना: संस्मृत्य शुद्धान्त: करणेन किञ्चिद् ब्रूहि।
अधिकारी - एवम्, एवम्? ......आम्.....। (मञ्जुलां प्रति) ये किं पुनरद्य भगवत्प्राङ्गणं प्रक्षालयितुम् उपागताऽसि? गच्छ, यावद् यस्मिन् स्थाने जलं निषिञ्चितवती तत्रैव नीरं निषिञ्चे:।
प्रधान: - नित्यं कस्मिन् स्थाने जलं निषिञ्चति?
अधिकारी - मन्दिरस्य पुष्पोद्याने।
प्रधान: - तर्हि आगच्छ, पश्याव:।
अधिकारी - (स्थानं निर्दिश्य) इयं मन्दभाग्या प्रत्यहम् अत्रैव जलं निषिञ्चति।
प्रधान: - जलं कुत: समाहरति?
अधिकारी - इदं स्पष्टतया विदितं नास्ति। किन्तु लोका: कथयन्ति यदियं प्रत्यहं यमुनास्नानाय गच्छति। तत एव समागत्य नित्यमस्मिन् स्थाने सलिलेन अर्घ्यं प्रयच्छति।
प्रधान: - तदिदं जलं भगवत: सलिलगृहो किमिति न प्रयच्छति?
अधिकारी - कलङ्किन्या आनीतेन जलेन किं देवसेवा भवितुमर्हति? एकवत्सरात् पूर्वम् अस्मिन्नेव दिवसे जगन्मोहनस्थलं प्रक्षालयितुं सा सलिलं समाहरत्। तदेव प्रक्षालयितुं नास्यै आज्ञा प्रादीयत। तर्हि तस्या जलं तु सेवायां कथमुपयुज्यते?
प्रधान: - महापुरुषस्य भवतो विचारेण नोपयुज्येत। अहमुपयोगे नेष्यामि। (अग्रे गत्वा स्वगतम्) इयं वराकी नीचै: कृतमस्तका निश्चलभावेन सोपानस्य समीपे एव स्थिता। (मञ्जुलां प्रतिप्रकाशम्) वत्से! त्वं जलकलशमिमं भगवतो जलगृहे समाहर।
मञ्जुला - (आश्चर्येण हीनतया च) आम्..... किम्....... किम्?
प्रधान: - जलमिदं जलगृहे समानय? (आशीर्वादमुद्रां नाटयन्) वत्से! त्वम् अद्यावधि यया भक्त्या भगवतो दर्शनं कृतवती सा भक्तिस्ते सर्वदा अक्षया भूयादिति तुभ्यम् आशीर्वादं ददामि। भक्तिप्लुतेन हृदयेन कामं कस्मिन्नपि स्थाने भगवन्तं लक्ष्यीकृत्य प्रदीयताम् अर्घ्यम्। भक्तवत्सलो भगवान् प्रेम्णा तत् स्वीकरोति। सर्वान्तर्यामी भगवान् अग्रत: पृष्ठतो वाऽपि न किञ्चित् प्रतीक्षते। ब्राह्मणो वा शूद्रो वा गङ्गाजले वा सामान्यसलिलं वा नैतयोर्भेददृष्टिं भावयति भगवान्। स हि अभिलषति हृदयम्। समर्पय तस्मै त्वम् आत्मनो हृदयं निजपापानां कृते रुदिहि निरन्तरम्। अपमृज्येरन् तव सर्वाण्यपि पातकानि।
मञ्जुला - रोदिष्यामि भगवन्! निरन्तरं रोदिष्यामि स्वपापानां कृते।
युवक: - मञ्जुले! मञ्जुले!
मञ्जुला - कोऽयमस्ति?
युवक: - अहमस्मि। अहमस्मि। कथं त्वमेवं रुदितवदना। लक्षणै: प्रतीयते यत् पुनस्त्वमद्य निभृतमरोदी:। मुधा रोदित्वा रोदित्वा किमिति देहं क्षपयसि मञ्जुले।
मञ्जुला - किं सुखं देहेनाऽनेन?
युवक: - सुखम् यावत् कालं लोकेऽस्मिन् स्थिति: स्यात् तावत् सुखमेव।
मञ्जुला - तावन्ति दिनानि दु:खमेव। पापानां स्मरणन्निरन्तरं यन्त्रणैव।
युवक: - किं कथयसि मञ्जुले! गृहं विमुच्य मया सह त्वमिहागता एतस्यैव किमेतावद् दु:खम्? अननैव निरन्तरं रोदिषि? पूर्वं तु नासीत् सेयं परिस्थिति:। वर्षादारभ्य तदिदं परिवर्तनम् अवलोकयामि त्वयि। मञ्जुले! अधर्मं सत्यम्। केनोपायेन त्वं पुनस्तादृशी स्या:।
मञ्जुला - पुनरहं तादृशी, भवेयमिति न केवलं कठिनमेव अपितु नितरामसम्भवम्। अहं यत् किञ्चित् परित्यज्य गृहादागता न तन्मे कश्चित् प्रतिदातुं शक्नोति।
युवक: - गच्छतु सर्वमिदम्। मम तावदिदमेव बोधय। किमिति एतावत् त्वं रोदिषि?
मञ्जुला - अहं किमिति रोदिमि इति पृच्छसि? हृदयं विदार्य दर्शनेन विना नेदं शब्दै: बोधयितुं शक्यम्।
युवक: - मञ्जुले! अहमेव ते सर्वदु:खानां मूलम्। वत्सलौ माता-पितरौ राज्ञामिव विपुलं धनं वैभवं सर्वमादाय सुखेन त्वं वर्तमाना आसी:। न जानेऽहं कस्मिन् कुमुहूर्त्ते तव रूपे गुणेषु च मुग्धो भूत्वा ते कामनामकार्षम्। यद्यहं प्रणयमेव केवलं कृत्वा निभृतं तिष्ठेयं तर्हि ते हृदये न सोऽयमग्नि: प्रज्वलेत्। किन्तु मया मे प्रणय: प्रकटितोऽपि त्वां प्रति। ततस्त्वया तत्प्रतिदानमपि मह्यं कृतम्। इदानीं कथय मे सत्यं मञ्जुले! कथय सत्यम्। केनोपायेन् ते सुखं स्यात्?
मञ्जुला - किं त्वं तत्कर्तुं शक्नुया:?
युवक: - अवश्यं शक्नुयाम्। प्राणप्रतिदानेऽपि यदि ते मुहुर्त्तं सुखं स्यात् तर्हि तदर्थमहं सन्नद्ध:।
मञ्जुला - तर्हि मां विमुच्य प्रतिनिवर्तस्व निजगेहम्।
युवक: - प्रतिनिवृत्ते सम्प्रति गृहे मम कोऽस्ति मञ्जुले?
मञ्जुला - गृहे तव स्त्री-पुत्र-धन-जनं सर्वं त्वेवास्ति।
युवक: - सर्वमस्ति। किन्तु मञ्जुला नास्ति।
मञ्जुला - मञ्जुला पातकम्, स्त्री पुण्यम्। एतावन्ति दिनानि पापमसेविष्ठा:, सम्प्रति परिशीलय पुण्यस्य परिचयम्।
युवक: - मञ्जुलायास्तुलनायां स्त्री परिगण्यते?
मञ्जुला - पत्न्या: पादतले कोटिशो मञ्जुला: परिलोठन्ति। एकवारं परावृत्य परीक्षस्व तत्।
युवक: - मञ्जुले! यस्मिन् मार्गे त्वं गन्तुमभिलषसि मामपि तत्सहगामिनं विधेहि। पटुतरं त्वां विहाय नाऽहं शक्नुयां कुत्राऽपि स्थातुम्।
मञ्जुला - यस्य सुखस्याऽशया मे संसर्गं वाञ्छसि न तत्सुखं सम्प्रति शक्नुया: प्राप्तुम्। तव सुखं पत्न्या: संसर्गे। मम सुखं स्वर्गतस्य स्वामिनश्चरणतले। मार्गौ नितान्तं भिन्नौ। अतएव मां विहाय परावर्तस्व गृहान्। नो चेत्......।
युवक: - नो चेत् किं करिष्यसि मञ्जुले?
मञ्जुला - नो चेद् अहमेव गृहमिदं विमुच्य गच्छेयम्।
युवक: - हन्त! मञ्जुले! एतावत: प्रणयस्य इदं पर्यवसानम्।
मञ्जुला - इदानीं मत्सम्मुखे नास्ति भवत्प्रणयस्य मूल्यम्।
युवक: - मञ्जुले! मञ्जुले! एतावत् कालानन्तरं तव मम विच्छेद। एवं भवेत्? किमिदं समञ्जसम्?...... मञ्जुले! मञ्जुले! कुतो गच्छसि? शृणु तावत्। मञ्जुले....?
(मञ्जुला नाग्रे किञ्चिदशृणोत्। न च तस्मिन् स्थाने स्थातुमशकत्। अव्रजत् सा द्वितीयस्यां दिशि मार्गस्य वातावरणम् )
मञ्जुला - स्वामिन्! समर्पितं मया तुभ्यं जीवनम्। किमिदानीं में गतिं वाञ्छसि? मन्दिरे तवैव दर्शनं कर्तुं विकलेन हृदयेन प्रयामि। पादौ जर्जरौ संवृत्तौ। त्वं मह्यं शक्तिं दास्यसि। त्वमेव च मह्यं मार्गं बोधयिष्यसि। त्वां विहाय न कञ्चन पश्यामि प्रभो!
(वृषकटस्य ध्वनि:)
प्रथमश्चालक:- अरे जगत्! का सेयं दुर्बलशरीरा। स्खलद्भ्यां पादाभ्यां प्रयाति अस्मिन् चित्रकूटमार्गे?
द्वितीयश्चालक:-न जाने का सेयमस्ति? अरे त्वं कुत्र प्रयासि?
मञ्जुला - भ्रात:! जगन्नाथपुरी स्थानाद् अस्मात् कियद् दूरे?
प्रथमश्चालक:- जगन्नाथपुरी? शतं कोशान् दूरे। अत्र त्वं जगन्नाथपुरीं पृच्छसि? तत्र किमेवमेव पादाभ्यां गन्तुमिच्छसि?
मञ्जुला - आम्।
द्वितीयश्चालक:-त्वं कुत: समागच्छसि?
मञ्जुला - एकं मासं यावत् निरन्तरं चलामि। अधुना तु चरणयो: शक्तिरपि विलुप्ता।
प्रथमश्चालक: -तर्हि भगिनि! त्वमेवं कुरु। दीनां त्वां विलोकयामि। जगन्नाथपुर्या मार्ग: पूर्वस्यां दिशि। वयं तु पश्चिमस्यां गच्छाम:। अधुना अग्रे भीषणमरण्यम् अस्ति। हिंस्रजन्तवोऽत्र रात्रौ विचरन्ति। सायंकालश्चायं सञ्जात:। अत्रैव त्वं विश्रामं कुरु। श्व: प्रात: काले तस्मिन् मार्गे पूर्वदिशामवलम्ब्य पुन: प्रयाहि।
मञ्जुला - नैव भ्रात:। जीवितमिदं मदीयं नास्ति। साम्प्रतं कस्य कृते जन्तुभ्यो विभेमि। .....अधुना चरणौ न प्रसरत:। अग्रे सम्मुखे स्थितस्य अस्य वटवृक्षस्य अधस्तादेव निपतामि। आ:.....(करुणो ध्वनि:)भगवन् का मे साम्प्रतं गति:। जानेऽहं जगदीशस्य दर्शनं न मे भाग्ये। य: सकृदपि तत्रोपगच्छति क्षीयन्ते तस्याऽशेषपातकानि। हे भगवन्! किं मे भवितव्यं भाग्ये? पापभारमिमं वोढुं न मे साम्प्रतं शक्ति:। शीर्यते शरीरम्। निद्रेव सामयाति। ..... किं भवानेव श्रीहरि:?
जगदीश: - आम्। मार्गखेदात् प्रसुप्तायास्तव दीनां दशां विलोक्य तव चेतसि उद्बुद्धोऽस्मि।
मञ्जुला - किं भवान् मह्यं दर्शनं दातुमुपगत:।
जगदीश: - नैव।
मञ्जुला - अहं भवतो दर्शनाय जगदीशपुरीं प्रयामि।
जगदीश: - अहं केवलं जगदीशपुर्यामेव न निवसामि मनुष्याणां हृदयेऽपि मम निवासोऽस्ति। यो माम् आह्वयति यश्च मां द्रष्टुं जानाति स एव मे दर्शनं लभते।
मञ्जुला - भगवन्! अहम् आह्वानं न जानामि। दयां विधाय शिक्षय माम् आह्वानम्। ... भगवन्! शिक्षय माम् आह्वानं भवत:। भगवन्! बोधय मामेकवारम्। केनोपायेन लभ्येत भवान्। हे दयामय! बोधय मामेकवारम्। केनोपायेन त्वामासादयेयम् (चीत्कार:)
हन्त! कीदृशोऽयं स्वपनो मया विलोकित:। अद्य महत् सौभाग्यं यद् भगवान् जगदीश: स्वप्ने प्रथमबारं दृष्ट:।
(भगवन्तं स्मरन्ती तत्रैव स्वपिति)
मञ्जुला - कथं प्रात: काल: सञ्जात:। किन्तु अग्रे किमिदं पश्यामि?? मम सम्मुखे इयं पर्णकुटी कीदृशी। इमे आम्रवृक्षा: परितो विलोक्यन्ते। हे प्रभो! मम चित्तम् अतीव व्याकुलम्। अग्रे मम का दशा भाविनी। किं करोमि। क्व गच्छामि।
नेपथ्ये - (पदध्वनि:, ॐ नमो भगवते वासुदेवाय इति स्वरश्च)
मञ्जुला - अहो कीदृशी प्रशान्ता मूर्त्तिः। दर्शनेनैव मे चित्तस्य विह्वलता विनष्टा। धैर्यमुत्पन्नम्। अहो महात्मनाम् अद्भुत: प्रभाव:। अस्मिन् कुटीरे मम चेतसि विलक्षणशान्तिरिव उत्पन्ना। भगवन्! संसारे विह्वलं भ्रमन्ती सेयमशरणा चरणारविन्दे प्रणामं निवेदयति। भगवन्! का मे अग्रे दशा भाविनी? श्रीजगदीशस्य दर्शनाय निर्गताया: साम्प्रतं किं मार्ग एव मे शरीरपातो भवेत्? भगवतो मदनमोहनस्य अन्तिमं दर्शनमपि मे मन्दभाग्याया न स्यात्?
सत्यबोध: - वत्से! मा विह्वलतां याहि। न त्वं मन्दभाग्या। सम्प्रति जाता त्वयि परमेश्वरस्य पूर्णा दया। नहि मन्दभाग्यस्य हृदये प्रभवति भगवतो भक्ति:। यो मार्गस्त्वयावलम्बित: स ह्यचिरादेव त्वां शान्तिमुपनयेत्।
मञ्जुला - अबोधाया मम पूर्वजीवने यत्पापं संवृत्तं तत्किं निवर्तेत?
सत्यबोध: - पापस्य पुण्यस्य वा उद्भूति: मनसि भवति। यदि हृदये तदर्थं सत्योऽनतापो जायेत तर्हि पापस्य अपमार्जनं भवति। पश्चात्तापेन रुदतो हृदयात् अश्रुभि: सह निर्गलन्ति पातकानि।
मञ्जुला - मन्दभाग्याऽहम् अविरतं रुदितवती अस्मि। नानाविधैस्तापैस्तप्तस्य हृदयस्य रोदनाद् अन्यत् किं वा शरणम्?
सत्यबोध: - अनुतप्तं हि हृदयं परिमुच्यते पातकात्। तप्तं सुवर्णं मलमुज्झित्वा सर्वथा विशुद्धं भवतीति को न जानाति?
मञ्जुला - परं भगवन्! श्रीजगदीशस्य दर्शनं विनैव किं मे प्राणातिपातो भवेत्?
सत्यबोध: - वत्से! जगदीशो न ते दूरे तिष्ठति। यो हि सम्पूर्णस्य जगत: स्वामी स किं जगति व्याप्तो नास्ति? जगदीशस्य निवासो भक्तानां हृदये विद्यते न केवलं मन्दिरे। स्वयं तेनैव प्रोक्तम्-
नाऽहं वसामि वैकुण्ठे योगिनां हृदये न च।
मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद।।
मञ्जुला - तर्हि किं करोमि प्रभो! मम चित्तेऽत्यन्तं व्याकुलता यस्य दर्शनाय निर्गता तस्य दर्शनमपि नोपलब्धम् इति।
सत्यबोध: - वत्से यस्य देवस्य दर्शनं त्वमद्यावधि पूर्णेनानुरागेण कृतवत्यसि स किं जगदीशात् पृथक्? सम्प्रति हृदये ते जगदीशो विराजते।
मञ्जुला - अहो! स्वयं जगदीशेनाऽपि स्वप्ने एतदेव अज्ञापितम्। हे दयालो! मे मदनमोहन! त्वद्दर्शनेनैव मया शान्तिरुपलब्धा। अहम् अतीव मन्दभाग्याऽस्मि यद् भवच्चरणौ विहाय इतस्ततो भ्रमामि। प्रभो! आशीर्वादो मे दीयतां येन श्रीमदनमोहनचरणे एव उपरमो मे भवेत्।
(योगिन: सत्यबोधस्योपदेशात् मञ्जुलाया भ्रमो दूरीभवति। सा मथुरायामागत्य भगवद्दर्शनं करोति।)
मञ्जुला -
भगवन्! दया दृगे वा मयि दीयतां दयालो!
अधुनाऽवहेलना मे न विधीयतां दयालो!
सुकृतीति को न पापात् पुरुषं सुरोऽमरोऽपि।
भृशमद्य पापिनीयं परिचीयतां दयालो।।
कति तारिता भवेयुर्भवताऽपराधिनोऽलम्।
अपि दीनदुष्कृतेयं न विहीयतां दयालो।।
विषयाटवीषु बाढं भ्रमिताऽति दु:खिताऽहम्।
अयि नाथ! वेदना मे व्यपनीयतां दयालो।।
भुवने भृशं भ्रमन्त्या अपि नाथ वीक्षितोऽसि।
अधुना तु मे समीपान्न निलीयतां दयालो।।
करितो न पीनकाया गिरितो गुरुर्न चाहम्।
दुरितोपरोधतो मे न विलीयतां दयालो।।
(पुन: स्वगतम्)
हा हन्त! किं मयानुष्ठितम्। अनर्थो विहित:। अबोधस्य मनसो वशीभूताऽहं मुधैव जगन्नाथपुरीमभ्यधावम्। भो:! मम मदनमोहन! क्षमस्व बोधविकलमिमां ते पुत्रीम्। भवतश्चरणौ एव मत्कृते जगदीशपुरी। भगवतश्चरणावेव मे सर्वाणि पुण्यतीर्थानि। भगवतश्चरणयो: प्रक्षालनजलं विसृज्यन्त्या एव मया निजपातकान्तं कृते रोदनं शिक्षितम्। पाषाणं निहाय सुवर्णं परिचितम्। त्वमेव मे वैकुण्ठपति: श्रीहरि:। हे मम दयामयदेव! क्षमस्व मामकीनमपराधम्।
(कोलाहल:)
विमला - कमले! कथं मन्दायसे। घट्टे तु शीघ्रं चल।
कमला - चलामि चलामि। अरे इयं का गच्छति?
मञ्जुला - भगिनि सूचय मामपि। सर्वा यूयं कुत्र गच्छथ?
विमला - अपेहि रे मन्दभाग्ये। किं न जानासि यदद्य यमद्वितीया।
(जले स्नानरव:)
मञ्जुला - अद्य पुनस्तदेव यमद्वितीयादिनम्। अस्मिन्नेव दिने मया व्रतमङ्गीकृतमासीत्। अस्मिन्नेव दिने व्रतस्य उद्यापनमपि करिष्यामि। हे! मातर्यमुने! मम पापान्यपाकुरु। अस्माद् देहाद् मां विमोचय दीनोद्धारिणि मात: मात: ....(जलस्य ध्वनि:, मन्दिराद् विविधवाद्यानां ध्वनिरायाति। ''जय दयालो दर्शनं देहि’’ इति ध्वनिरवोऽनुगुञ्जति।)
प्रधान: -अये वत्से मञ्जुले! अये त्वं बहुकालानन्तरं समागताऽसि। प्रणम पुत्रि! भगवन्तं मदनमोहनम्।
मञ्जुला -कं प्रणमामि? अपि भगवन्तम्? तस्य चरणयोरहं प्रत्यहं कोटि-कोटि-प्रणामान् अकुरवम्। तस्य चरणयोरहं प्रत्यहं लोठामि। एषाऽहं तस्यैव चरणयोर्मस्तकं निधाय निपतिताऽस्मि। इदानीं कुत्र मस्तकं निधाय कस्मै प्रणामं करवाणि?
प्रधान: - अये वत्से! चरणामृतं गृहीष्यसि वा?
मञ्जुला - चरणामृतम्? चरणामृतं कुत्र दास्यसि? मुखे स्थानं नास्ति। समस्तदेहस्योपरि भगवतो मदनमोहनस्यैव अधिकार:। क्व दास्यसि चरणामृतम्?
प्रधान: - वत्से मञ्जुले! धन्यासि। पराकाष्ठां भक्तेरुपगताऽसि। किं भगवत: प्रसादीभूतं पुष्पं गृहीष्यसि?
मञ्जुला - पुष्पम्? देहि तस्य चरणयो:।
प्रधान: - मञ्जुले! मञ्जुले! किं भाषसे? त्वं खलु मानवसीमानमतीताऽसि। धन्यासि वत्से। अरे, अरे! त्वं तु निर्निमेषं भगवन्तं पश्यन्ती...... अरे भूमौ निपतसि? (उच्चै:) वत्से! मञ्जुले।
(आश्चर्यमयसङ्गीतध्वनि:, मन्दिरात् मन्दं मन्दं वाद्ययन्त्राणां ध्वनि: प्रसरति। तत्सन्निविष्टाश्चेमे श्लोका: श्रूयन्ते-)
अपि चेत् सुदुराचारो न भजते मामनन्यभाक्।
साधुरेव स मन्तव्य: सम्यग् व्यवसितो हि स:।।
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं नियच्छति।
कौन्तेय प्रतिजानीहि न मे भक्त: प्रणश्यति।।