विषमसमस्या
शङ्कर: श्रमेण विद्यामधिजगे। मर्मानुशीलकोऽपि जात:। परीक्षासरितमुत्तीर्य वर्तमानयुगस्य शिक्षितानां परमपुरुषार्थोऽपि साधितस्तेन (अर्थाद् भृत्तिर्लब्धा)। किन्तु न प्रासीदद्भाग्यदेवता। अन्यदृष्ट्या प्रचुरेऽपि मासिकवेतने न निरुह्यते स्म तस्य गृहव्यय:। गृहिण्या दाक्षिण्येन गृहस्य व्यये कथञ्चिन्नर्वाहितेऽपि तस्य स्वव्ययो न पूर्यते स्म कथञ्चित्। अद्य पुस्तकान्यानायितानि तर्हि श्वो वस्त्रव्यापारिणे मूल्यं प्रहेतव्यम्। मित्राणां भोजगोष्ठीविरहितस्तु व्यत्यगात्कश्चिदेवामङ्गल: सप्ताह:। मित्राणामपि संख्या नाधिकं न्यूना येषु हि शिक्षितानारभ्य शिल्पि-गायक-मल्ल-कृषी-वलप्रभृतय: प्राय: समभूवन्सर्वश्रेणीया एव। गृहिण्यैव किम् द्रव्यसङ्कोचेनापि भूयो भूय: प्रबोधितोऽपि नायमासादयत्प्रकृतेरुपरि विजयम्। तत एव ऋण-पादप: शनैरुद्भूय पुष्पित: फलित: सन्नधिजगाम विचारणीयं रूपम्। किन्तु किं सिध्येत्केवलं विचारेण? लघुलघूनां देयानां परिशोधन एव वराकस्य मासिकवेतनस्य मेरुदण्डो भज्यते स्म। स्थायिन ऋणस्य कथयत कथं भवेन्मुखमुद्रणम्?
शङ्करश्छन्दानुवर्तिनी तस्य श्रीमती चेत्युभावेव साम्प्रतमगाहतां विचारसागरम्। मनस्वी शङ्करो नाभिरोचयते स्म यस्य कस्यचित्सविधे याचनालाघवमपि। क इदानीमुपाय ऋणपरिशोधस्य? सुखदु:खयो: सत्यभावेन सङ्गिनी गृहिणी वराकी दूयते स्म मनस्येव। शङ्करपत्न्या ज्येष्ठो भ्राता न्यवात्सीन्नागपुरे। आसीत्स हि तत्र सुप्रसिद्धो द्राक्तर:। द्रविणमपि तेन प्रभूतमुपार्जितमिति चिराच्छ्रूयते स्म। स ह्यस्निह्यत्स्वसारम्। शङ्करेणापि सहासीत्तस्य मैत्रीभाव:। अत एव विचारितमेकदा चेतसि शङ्करगृहिण्या-न चेल्लिखामि पत्रमेकं ज्येष्ठभ्रात्रे। कदाचन स एव सङ्कटे न: स्यात्सहायक:।
ज्येष्ठभ्रातुरासीत्स्वभावोऽतिसरल: स्नेहशीलश्च। स हि भगिन्या: सङ्कटसंवादमधिगत्य भूयस्तरामखिद्यत। वेतनोपजीविनामवस्था नासीत्तस्याऽविदिता। विशेषतश्च शङ्करस्योदारेण व्यवहारेणाप्यासीदसौ परिचित:। अत एव भगिन्या दु:खमनुमाय तत्सहाय्याय विद्रुतहृदयोऽभवदसौ। तस्मिन्नेव दिने औषधप्रेषणस्य समुद्गकमेकमादाय तस्मिन्दशस्वर्णमुद्रा वस्त्रविनिबद्धा विनिधाय मुद्रितमुखे तस्मिन् भगिन्या: स्थानसङ्केतादिकं विलिख्य प्रजिघाय पत्रप्रेषणया तत्समीपे।
यस्मिन् समये समवाप स समुद्गक: शङ्करसदने तदा दम्पत्योरुभयोरेव विस्मयेन सह प्रादुरभूत्प्रमोदोऽपि। किन्तु यथैव पत्रावरणमपसार्य ताभ्यां समुद्गकमुद्घाटितं न्यमज्जतां द्वावपि विस्मयसागरे। आसीदेतस्याभ्यन्तरे स्वल्पमेकमौषधनिधानपुटकम्, येन सह स्वयं द्राक्तरकरविलिखितमभूद् व्यवस्थापत्रम्-
रोग:-दारिद्र्यम्।
औषधि:-स्वर्णमुद्रावाटिका।
मात्रा-उपयुक्तो व्यवहार:।
अहह! औषधं त्ववश्यमिदममोघम्।
द्राक्तरमहोदयस्याद्भुतं रोगनिदानं ततस्तदुपयुक्तमौषधविधानं चालोक्य द्वावेवोन्मुक्तहृदयमहसतां पूर्वं बाढम्। किन्तु यथैवौषधिपुटकमुद्घाट्य ताभ्यां विलोकितम्, नाऽवाशिष्यत तयोराश्चर्यस्य परिसीमा। नाभूत्तयोश्चक्षुषोरेव विश्वास: पूर्वम्। दश दश स्वर्णमुद्रा:! नेदं सम्प्रति स्वल्पं धनम्। अकस्मात्समघटत किमेतादृक् सौभाग्यम्? आनन्देन प्रानृत्यद् द्वयोरेव मन:। शङ्करस्त्वरितमेव निरचैषीद् यदेवंविधस्य प्रमोदस्योपभोगो न नाम समुचितस्तावदेकाकिन:। अत एवाद्यैव रात्रौ भोजगोष्ठ्या निमन्त्रणं प्रेषयामास मित्राणां समीपे।
शिशिरर्तो: सा रात्रिरतीव शीतलासीत्। सायमारभ्यैव प्रावहच्छिशिर: पवन:। मेघावृताद् गगनात्प्रारभ्यत किञ्चित्किञ्चिद् वृष्टिरपि। निमन्त्रितानां लोकानामुपातिष्ठन्केवलं सप्तैव भोजगोष्ठ्याम्। परमासीत्तेषां परमो विस्मयो यदकस्मादेव शङ्करस्य कुतोऽयं द्रव्यलाभो येन सर्वेऽप्यनेनाऽतर्कितं निमन्त्रिता:। सामग्र्यपि निमन्त्रणस्य नासीत्साधारणी। किन्तु नाऽभवदधिको विलम्बो विस्मयस्यापगमने। अवसिते एव भोजनकार्ये सरलहृदय: शङ्करो द्राक्तरसम्बन्धिनं समग्रमेव वृत्तान्तं कौतुकप्रवृत्तये वर्णयामास मित्रेषु। प्रमाणस्वरूपे च प्रावरणवस्त्रादपसार्य व्यवस्थापत्रसहितं तं समुद्गकमुपनिन्ये समिते: पुरत:।
व्यवस्थापत्रमनुवाच्य सर्वेऽपि युगपत्तथा जहसुर्यथा प्रकोष्ठकमिदमट्टहासेन समभून्मुखरितम्। शङ्करवत्सर्वेऽपि दारिद्र्यरुजाग्रस्ता आसन् सर्वतोऽपि। प्रत्युत केचित्तु प्रत्यक्षमुदाहरणमासन् रोगविजयस्य, पुन: स्वर्णमुद्रावटिकाया: प्रशंसां किमिति ते न कुर्यु:? वर्तमानयुगे तदिदमौषधमेव तथा रामबाणायितं यथा तदग्रे रोगवराको न स्थातुं शक्नुयात्कथञ्चित्। सर्व एव चिकित्सकमहाभागस्य निदानबुद्धिविभवं चिकित्साचातुर्यं च प्रशशंसुर्भूरि भूरि। हासपरिहासाभ्यां प्रमुदितेष्वखिलेषु मन्दमुत्स्मयमानो जगाद शङ्कर:- यद्यनुमन्येध्वं तर्हि पुनरियं वटिका निषेवतां निजाधारगृहम्। मञ्जूषायां विनिधाय दीनारान्परिगणयञ् शङ्कर: सहसैवा-भूद्विचकित:। अहो दशानां स्थाने कथमिमे मवैव?
शङ्करस्य वार्तामभिनिशम्य सर्वेऽपि स्वस्वपरिधानीयान्यास्फोटयामासु:, दर्शनादिसमये मा कदाचिदियम (स्वर्णमुद्रा) स्मद्वस्त्रेषु भून्निगूढेति। परं न क्वाप्यलभ्यताऽनुसन्धानं दीनारस्यास्य। इदानीं सर्वेष्वपि प्रावर्तत मिथश्चर्चाअतीवाश्चर्यमिदम्। अहो क्व तिरोहिता सेयं स्वर्णमुद्रा?
शङ्करोऽपि वराको महानासीत् खिन्न:। किमियमनिष्टा घटना प्रावर्तिष्ट यया प्रत्येकपुरुषस्य मनसि प्रमोदस्थाने विषादस्योद्भव:। कथमिमानहं सान्त्वयेयम्। अस्यामेव किंकर्तव्यविमूढतायां प्रास्फुरत्तस्य मति:। ललाटे हस्तमाघ्नन्नवोचदयम्- 'अहो कथमहम-प्युन्मादेनाक्रान्त:। एको निष्को मयैव तु निषद्यायां व्ययीकृत:, कथमहमन्यथा श्रीमतामभ्यर्थंनामि-मामशक्ष्यं कर्तुम्। साम्प्रतं नवैव तु निष्का अवाशिष्यन्त मञ्जूषायाम्। हन्त दृश्यतां मे बुद्धि:।’ इत्यालपन्नवैतान्दीनारानसौ सरभसमवस्थाप्य समुद्गके प्राववार पूर्ववत्पत्रेण।
किन्तु यथा शङ्कर: शिष्टतामूर्तिरासीत्तथा तन्मित्राण्यपि नासन्नेकान्तमेव तद्गुणाच्छ्रून्या:। ननु 'समानशीलव्यसनेषु मैत्री’ इत्याभाणके भवेदंशतस्तु तथ्यांश:। नाभूदागन्तुकानां विश्वास: शङ्करस्य वार्तायामस्याम्। स्पष्टमिदमबुध्यत तैर्यत्प्रसङ्गमिममुपसंहर्तुं शिष्टतया प्रोक्तमिदं शङ्करेण। ते हि साग्रहमन्योऽन्यं जगदु:-सत्यं त्विदमेव, यन्निष्का: प्रत्यक्षं दशैवासन्। अवश्यमस्य सावधानमनुसन्धानं कर्तव्यं स्यात् सहसा क्व गच्छेदयमस्मन्मध्याद्दीनार:?
एतां वार्तामाकर्ण्यैव या व्यक्ति:१ शङ्करस्याव्यवहितं स्थितासीदुत्थाय सा स्वयमेकैकं निजवस्त्रमवतारयामास। एवमिव स पुरुष: केनाप्यनुक्त एव प्रददौ निजस्य नग्रगवेषणाम्। ततस्तत्समीपस्थो द्वितीय: पुरुषोऽप्युत्थाय पूर्ववदेकैकं वस्त्रमपसार्य दर्शयामास निजदेहशुद्धिम्।
किन्तु किमेतत्? द्वितीयपुरुषस्य नग्नगवेषणा नाद्युनापि परिसमाप्यत, तत: पूर्वमेव तत्समीपस्थस्य तृतीयपुरुषस्य मुखमभूद्रक्तवर्णम्। लज्जाभराच्छन्नोऽपि स वराक: किञ्चित्कालमतिष्ठन्निजासने, किन्तु कियत्कालमेवमवस्थायामवातिष्ठेत वराकोऽसौ? सहसैवोत्थितोऽयं करावूर्ध्वीकृत्य दु:खगद्गदया प्रोवाच वाचा-'प्रिया भ्रातर:! जीवनमिदं सुकठिना समस्येत्यद्य मे परिज्ञातम्। हानिलाभौ जीवनमरणे यशोऽपयशसी च विधिहस्तगे इति सत्यमभियुक्ता: प्रोचु:। किं भवेन्मम नग्नगवेषणया। अस्ति मत्समीपे एका स्वर्णमुद्रा। गृहात्प्रस्थानसमये सेयं समनीयत साकं स्वेन। अद्य निश्चितमारोपणीयो भून्मयि तस्करताकलङ्क: परमेश्वरस्य, अन्यथा निजेन सह निष्कोपहरणस्य कथमियमभून्मम मतिरतर्कितम्। अवश्यमयं मे प्राक्तनपातकानां परिणाम:। किन्तु किमिदानीं परिदेवनया। साम्प्रतं तु मे जीवनस्य तदिदमवसानमेव’ इति सविषादमुद्गदन्नसौ सज्जोऽभूदात्महननाय।
इदं दु:खकरमालोकयन्त: सर्वेऽपि सरभसमुत्थाय निवारयामासुस्तं परिसान्त्वयामासुश्चैकस्वरेण- हन्त भो:! किमिदमध्यवस्यसि। भवता तु सत्यं सत्यमुक्तं वृत्तं स्वकीयस्य दीनारस्य। किमिति भवानपहरेद्दीनारमिमम्? निश्चितं वयं सर्वेऽपि दीना:, इदमपि च तथ्यं यन्न वयं सर्वदा दीनारान्नयन्तो बहिर्भ्रमाम:। किन्तु निपुणमन्वेषणे कृते सर्वेषामेव गृहेष्वन्ततो नि:सरेदेवैकस्तु निष्क:।
मन्ये सेयं वार्ता तैरात्महत्याया भयानकं काण्डमवरोद्धुमेवोदीरिता स्यादथवा आत्माभिमानस्य कश्चिदावेश एव तेषामुदितो भवेत्तस्मिन्काले। यत: परस्मिन्नेव क्षणे, निजस्य प्रकृतिस्थतायां स्वत एव तेषां विदितमभूद्यदस्यां वार्तायां स्वयमस्माकमन्तरात्मैव न विश्वसिति। केचित्केचित्त्वेतदप्यभावयन् यत्स्वर्णमुद्राया: का कथा, गृहेऽस्माकं रजतमुद्रैव कष्टाल्लभ्येत।
व्यतियत्सु कियत्स्वेव क्षणेषु सा तृतीया व्यक्तिरवोचत्-मत्त: कलहायित्वा पृथङ् निवसन्ती ममान्धवृद्धा माता लोकान्तरोपयानसमये निजस्य कण्ठाभरणं प्रददौ मम भार्यायै इति तु विदितमेव सर्वेषां भवताम्। प्राचीनशैलीनिर्मितं जीर्णं च तदाभरणं नाभिरोचते किल वर्तमानकालिकमहिलानामत एव पत्न्या: परमाग्रहेण
द्वितीयं मे निर्मित्सितमभूत्। तस्यैव नवीकरणे तु मिश्रितधातुसंयोगाद् भूषणस्य निर्माणे वैरूप्यमित्याह रामधन: स्वर्णकार:। अत एव तत्सम्मत्या जीर्णभूषणं विक्रीय लब्धे धने किञ्चिदन्यत्संयोज्य नवीनभूषणनिर्माणस्यासीत्प्रसङ्ग:। तत एव रामधनद्वारा जीर्णभूषणमूल्येन सेयमक्रीयत स्वर्णमुद्रा। तदिदमखिलमावर्णयेज्जिज्ञासितो रामधन: किन्तु किमनेनोक्तेन सम्प्रति। मम सम्मानस्त्ववसित एव साम्प्रतम्। स्वर्णमुद्राऽऽनयनस्य आकस्मिकसंयोग एव मे प्राणवैरी जात:। अस्तु मरणमेव मे सम्प्रति शरणमिति किं वाधुना कथान्तरेण। किन्त्वेकोऽयमन्तिमोऽनुरोधो मेऽवश्यं श्रीमद्भिरवधातव्य:- यत्सत्यवकाशे रामधनोऽवश्यमिदं प्रष्टव्य इति।
निजकथनमपरिपूर्यैव निजपरिकरात्तेनाऽसिधेनुराकृष्यत यया स ह्यात्मानमवसादयेत्। छुरिका बहिरपि कोषान्न पूर्णं निष्क्रान्ताऽऽसीदेतस्मिन्नेवान्तराले एकोऽतिथिश्चीत्कृत्याऽवदत्-'अये! तिष्ठत तिष्ठत। प्राप्तेयं स्वर्णमुद्रा। दीपाधारस्य नीचै: किमियं तिष्ठति! अहह! दीपतलेऽन्धक्वार इति सत्येयं प्राक्किंवदन्ती’।
सर्वेऽपि प्रमोदस्य शीतलनि:श्वासमगृह्णन्। अहह संरक्षिता वकारस्य प्राणा:, अन्यथा क्षणमात्रविलम्बे सम्भावनाऽऽसीन्महाऽनर्थस्य। तत: प्रसन्ना: सर्वे प्रोचु: परस्परम्-अहह, विचार्यताम्। अद्याऽस्माकमनवधानस्य कीदृश: फलोन्मुखोऽभूद् दुष्परिणाम:। आत्मना प्रमादं कृत्वा भागधेये दोषाऽऽधानमिति सत्यसत्योऽयमद्याऽऽभाणक:। किन्तु सकलसहायकेन भगवता वयमवसरे संरक्षिता:। धन्योऽसौ चराचरनायक:। तत: परस्परस्मै धन्यवादान्वितरन्त: प्रमोदसङ्कथाभिरयापयन्कामपि कालकलाम्। प्रमोदपरिहासयोर्लहरि: परित: प्रसरन्त्येवासीदेतस्मिन्नेव क्षणे गृहाभ्यन्तराद्धावन्ती शङ्करपत्नी सरभसमाययौ सोच्चै: स्वरमवादीच्च-चित्रं पश्यत! वयं सर्वतोऽन्यत्रान्विष्याम:। स्वर्णमुद्रा तु सेयं मञ्जूषाया उपर्यावरणे संलग्रा!’
''अयि भो: किमेतत्! अतीवाश्चर्यमिदमालोकयाम:। अद्य हि चित्राच्चित्रतरमिदमनुभवामो नूनम्। श्रीमत: शङ्करमहोदयस्य धर्मपत्नी न नामोदीरयेन्मृषा। किन्तु तथा सति दशदीनाराणां स्थाने एकादशेमे सम्भवन्ति। प्रश्नः सोऽयमुपतिष्ठति यद्दीपाधारस्य तले या स्वर्णमुद्रा प्राप्यत, कुत आगमस्तस्या:? अवश्यं शिष्टेन केनचिदतिथिना भीषणकाण्डमिदमुपसंहर्तुं दीपस्याधस्तात्सा प्रक्षिप्ता। किन्तु केन सा निहिता?’’ परस्परमवालोकयदेकोऽन्यस्य मुखम्। 'अहह दरादीनाराणामेकादशाद्य सञ्जाता:। अहो शङ्करमहाभाग? सुप्रसन्नाद्य ते भाग्यदेवता’ इत्युक्त्वा पुन: सर्वेऽपि प्रमोदेनाट्टहासमकार्षु:।
किन्तु विचित्रघटनोद्भूतो विस्मयो नापयाति स्म नूनम्। अस्मिन्प्रमोदोत्सवे शङ्कराश्रितस्य विद्यालयस्य प्रबन्धकर्ताऽपि सममिलत्। स हि सर्वानभिमुखीकृत्याऽवोचत्- ''महाभागा:, श्रुतमेव भवद्भिर्यद्दश दीनारा: समभूवन्पूर्वम्, तेषामेकस्मिंस्तिरोहिते नवाऽशिष्यन्त, किन्तु स
३. निर्मातुमिष्टम्, माधातो: सन्।
दीनार: पुनरलभ्यत। अत एव ते पुन: पूर्ववद्दशैव समभवन्निति तु सर्वमिदं बुद्धिगम्यं नाम। किन्तु दशानां स्थाने एकादशानामुत्पत्तिर्न मयाऽद्यावधि श्रुतम् सत्यमिदमदृष्टाश्रुतचरम्। निश्चितमहमिदं जाने- यत् सङ्कटमिदमपनेतुं श्रीमत्स्वेव केनचित् सा स्वर्णमुद्रा दीपाधारतले प्राक्षेपि। भगवदनुकम्पया स शान्तोऽस्माकं प्रत्यूह:। अत एव येन महाभागेन दीनारोऽसौ निहित: ससानुग्रहमिममात्मीय प्रत्याहरतु। सर्वस्मिन् समीभूते नेदानीमवसर सङ्कोचस्य।’’
एवं किल प्रबन्धकमहोदयेन, तथा स्वयं शङ्करेणापि नितान्तमनुरोधे कृते, मुहुर्मुहुरनुनयविनययोरपि कृतयोर्यदा न कोऽपि स्वर्णमुद्रामिमां स्वीकर्तुमुद्यतोऽभूत्तदा तु सर्व एव नूनमसमञ्जसमिवान्वभवन्। एकस्मिन्नपगते सङ्कटे द्वितीयमिवोपस्थितमभावयन्सर्वेऽपि। सञ्जातो भूयान्विलम्ब:। एवमवस्थायां निषीदतां तेषां श्रम इव प्रतीयतेस्माऽखिलानाम्। परमतिरिक्तस्य तस्य दीनारस्य स्वामिनो नाभूदनुसन्धानं कथञ्चित्। सत्यकथनं न चेदपराधस्तर्हि वक्तव्यं स्याद्यद् व्यतिकरेणानेन शङ्करस्यानन्दगोष्ठ्या: सर्वोऽपि प्रमोद: समभूद्विषादशबल:। अन्ते प्रोक्तं व्यवस्थापकमहोदयेन- 'अहमेकां युक्तिमुद्भावयामि, परं सा यदि सकलानामभिमता स्यात्तदैवाहमावेदयेयम्!’
विलम्बेन खिन्ना: सर्व एव सममन्यन्त। तत: प्रोक्तं तेन महाभागेन- 'कुरुत तदिदं कार्यं यद्दीनारमिमं मञ्जूषायामस्यां निधाय ग्रहोपवनस्य प्राकारसमीपे य: कूपोऽस्ति तदन्तिकेऽवस्थापयत। भवन्तश्च सर्वेऽपि तेनैव मार्गेण प्रगच्छेयुरेकैकं निजगृहम्। प्रत्येकं जनो गमनसमये गृहस्यास्य द्वारमपिदध्यात्, तथोपवनस्यापि प्रतीहारं निबध्यात्। यावत्कालं च बहिर्द्वारस्य कपाटपिधानशब्दो न श्रूयेत् तावदस्मदभ्यन्तरात्कोऽपि जनो नास्मात्स्थानात्परिचलेत्। एतस्मिन्नवकाशे यस्य किल महाभागस्य सनिष्को भवेत्स नि:शङ्कमिमं स्वीकरोतु’।
समुद्गकेऽस्मिन्पिधाय स दीनारो न्यधीयत कूपस्यान्तिके। एकैकक्रमेण च सर्वेऽपि निजगृहान्प्रतिजग्मु:। गतेषु च सर्वेषु शङ्करस्तत्पत्नी च मञ्जूषामिमामाहर्तुमगमतां तस्मिन्स्थाने। नासीन्मञ्जूषायां स्वर्णमुद्रा।
अथ कथयत, सा स्वर्णमुद्रा कस्यासीत्? केन च स्वीया सा प्रत्याहृतेति नाद्यावधि जानीते कोऽपि। किन्तु सर्वेषामेव सोऽयं सुदृढो विश्वासो यद्यस्य सा स्वर्णमुद्रा, तेनैव सा स्वयमधिगता। यत: किल सा गोष्ठी विवेकशीलानामात्मविश्वासिनां चासीत्, अन्यथा एकाधिकवृद्धेरेव कथमुपेयादवसर:? आत्माभिमानी च जनो न प्रसारयति जातुचिदपि करं परकीयायेति किं वा विवेकिषु विवेचनीयम्?