मोगलसाम्राज्यसूत्रधारो महाराजो मानसिंह:
(१)
सम्राडकबरेण परिचय:
वैरिनिरोधादिना साहाय्यमादधानं बैरमखानं संरक्षकपदेन सन्तोष्य त्रयोदशवर्षीयोऽकबर: स्वयमारुरोह दिल्लीसिंहासनम्। शिक्षादीक्षाशून्योऽप्यासीत्स हि स्वाभाविकप्रतिभाशाली। अतएव स हि सर्वमपि राज्यप्रबन्धं संरक्षकादात्महस्ते निनाय युक्त्या। किन्तु तस्याधिकारे किमासीद्विस्तृतं साम्राज्यं तदा? नैव, राज्यशक्तिरासीत्केवलं दिल्ली-आगरासमीपवर्तिन: कतिपये ग्रामा एव। प्रबलोत्साहसम्पन्नस्य तद्हृदयस्य सम्मुखे समभूत्कठिना समस्या यत्कैरुपायै: स हि सम्पद्यते भारतस्य सम्राट्। स हि राजनैतिकदृष्ट्या व्यचारयच्चेतसि, - व्यत्यगु: कतिपयशताब्द्यो भारते यवनानां, किन्तु नाद्यापि तेषां सुदृढा संस्थिति:। अवश्यमत्र किञ्चित्कारणं मूले, तदपि न नाम साधारणम्।
बहुतरं सम्मन्त्र्य स हि निश्चिकाय यन्मुसलमानशासका नाद्यावधि प्राभूवन् शासितानां भारतीयानां हृदयं परिचेतुम्। ते हि तान् पशुबलेन केवलं दमयामासु:, न तै: कदाचिदपि मानवचरित्रस्य सुन्दरं चित्रमास्थापितं भारतभूवासिनां समक्षे। सङ्कुचितेन दृष्टिकोणेन ते सर्वदा मुसलमानानेव निजप्रजा: प्रजज्ञु:, तेषामेव च संरक्षायै समुन्नत्यै गौरवाय च ते परमं प्रायतन्त। निरैक्षन्त सर्वदा घृणादृष्ट्या सत्यबन्धूनिमान् हिन्दून्। अतएव भारतीयास्तदिमे नेमान् यवनानात्मनो हृदयेन निजशासकान् स्वीचक्रु:। प्रत्युत यदा यदावसर: प्राप्तो हिन्दुभिर्विशेषतश्च राजपुत्रैस्तदा तदा स्थिरीकृतापि तेषां राजशक्ति: सर्वदार्थं निर्मूलिता तैर्नूनम्।
आन्तरिकं कारणमन्यदपि। भारतीया संस्कृतिर्मोसलिमसंस्कृतितो भूयस्तरामुन्नता। भारतीयान् शासितुमपेक्ष्यते तावच्छासकानां मानसो विकास:, आध्यात्मिकबलं च नूनम्। किन्तु यवनैरात्मनो निर्दयताया बलेन, धर्मान्धताया आग्रहेणैव भारतीयास्तदिमेऽद्यावध्यधीनीकृता:। परं यत्रैव तेषां पशुबलं न्यूनीभूतं तत्रैव हिन्दूनां सम्मुखतस्तेषामयोग्यता प्रत्यक्षमीक्षिताऽभूत्। परिणामोऽस्य यो भवितुमुचित: सोऽनुभूत एव सर्वैरपि शासकै:। किञ्च यवना: केवलं विजयप्रणयिनो न शासनप्रणयिन:। तेषां शासनव्यवस्था एकपक्षीया, अतएव न केवलमपूर्णा नाम, अपि तु दोषपूर्णा चापि। भारतवर्षमिदं चन्द्रगुप्त-अशोकादीनामादर्शराज्य-व्यवस्थां पुरा परिचिकाय, कथमनया दोषपूर्णया शासनशैल्या भवेत्तस्य परितोषो नाम?
निजशासनव्यवस्थां स हि सर्वत: समीक्ष्य निर्भरं निर्धारयामासमहाराजो भारमल्लस्तस्य पितु: (हुँमायो:) सुहृत्। यदि तस्य सुदृढा मैत्री समवाप्येत तर्हि भारतीयराजपुत्राणां प्रबलैका शक्तिस्तस्य सहायिका सम्पद्येत। राजपुत्रा: कामं परस्परं युध्यमाना:, किन्तु यदि ते केनचित् प्रणेन प्रतिबद्धा: स्युस्तर्हि विदेशिनामपि निजमित्राणां साहाय्ये न कदाचिदपि पृष्ठं दर्शयेयु:। यदि तु मित्राणां तेषां पक्षात्कश्चिदुपकारोऽपि कृत: स्यात्तर्हि तु राजन्या भवन्ति वशगम्मन्या एव, काममत्र निजसम्बन्धिनां रक्तपात एव तेषां कुतो न सम्मुखग: स्यात्। अवश्यमियमेका अकबरस्य कूटनीति:।
स हि भारमल्लतनयमाकारयामास भगवन्तदासम्। महता समादरेण तन्मैत्रीं सम्प्रार्थ्य सर्वदा निश्छलभावेन तत्समुन्नतिं मैत्रीं चानुरोद्धुं चक्रे प्रतिज्ञाम्। राजनीतिकुशलो महाराज: सर्वामपि परिस्थितिं परिचिकाय पूर्वत एव। जानाति स्म स मर्मतस्तथ्यसंवादं भारतमुपगतानां यवनानामेषाम्। अत एवाऽकबरस्य हार्दं परिज्ञाय स हि समवोचत्-
"श्रीमत: पिता ममासीत्पितुर्मित्रम्। अतएव भवन्मैत्रीमवलम्बितुं न मे कश्चित्सङ्कोच:। श्रीमानहं च शासनसूत्रमादाय सुस्फुटमेकश्रेणिं भुक्तौ। देशस्य संरक्षणम्, खण्डखण्डभावाद् भविष्यन्तीं तस्य दुर्बलतां दूरीकृत्य विशालसाम्राज्ये परिणमनं च नूनं देशस्य सेवैव सेयम्। भारतीया: क्षत्रिया: परस्परं विगृह्य निजनाशेन सह देशस्याऽप्यहितं साधयन्तीति सुस्पष्टमालोच्यताम्। यदि सर्वे ऐक्यमवलम्बेरँस्तर्हि भारतस्य श्रियं शक्तिञ्च सुदृढामापादयेयुरिति समयप्राप्तं कर्तव्यं तेषाम्। अतएव देशस्यैकसूत्रतासम्पादने मम च भवतश्चैकमुद्देश्यमिति स्वत: प्राप्ता मैत्री सेयम्। किन्तु राजपुत्राणां या मानमर्यादा, यच्च तेषां धार्मिकं दृढव्रतं विदेशागामिन: शासकास्तयोरपरिचयात्प्रायस्तत्रैव हस्तं क्षिप्त्वा भवन्ति भाजनं विरागस्य भूपालानामिति भूयस्तरां भूतार्थ:।
अकबर: (प्रसन्नो भूत्वा) - अहह यदि भवादृशविचारैरन्येऽपि भूपाश्चेदभविष्यन्नुदारास्तर्हि कियद् भद्रमभविष्यत्? परस्परवैमनस्यं निरस्य सर्वाभि: शासकशक्तिभिरेकं विशालं साम्राज्यं सम्पादयिष्यन्नहं हैन्दव-यवनानामेकचित्ततां वाञ्छामि तत्रैव च भवत: साहाय्यमप्यर्थयामि, मन्ये नेदं भवेद् भवद्विचारविपरीतं नूनम्? अवशिष्यते हिन्दूनां मानमर्यादासंरक्षणम्। तत्राहं सुदृढं प्रणं करवाणि यन्मत्साम्राज्ये हिन्दवो मुसलमानाश्च समीक्ष्येरन् समानया दृष्ट्या। समर्प्येत समानरूपेण राज्यप्रबन्धो द्वयोरेव हस्तयो:। साम्प्रतमहं वाञ्छामि यद् द्वावप्यावां भवेव मित्रभावेन सम्बद्धौ।
महाराजो भगवन्तदासो मुसलिममनोवृत्तितो भूयस्तरामासीत्परिचित:। सोऽयमिदं सम्यगजानाद् यदेवंविधा: पुरुषा: स्वार्थवृत्ते: परिपोषणाय समाचरन्तीत्थम्भूतां लीलाम्। इदमपि च सोऽयं सम्यगबुध्यत यत्साम्प्रतिका: क्षत्रिया: परिजानन्ति केवलं युद्धमात्रमेव। न तेषां शासनपाटवं परिचितम्। अतएव भारतमिदमेकस्मिन्दिने परेषामवश्यमवश्यं भवेत्। किन्तु तस्मिन्समये आम्बेरराज्यपरिस्थितिरवश्यं सङ्कटगा स्यात्। अत एवाऽकबरस्य विश्वाससमुत्पादनं समयप्राप्तमेव साम्प्रतम्। अस्मिन् साहाय्यप्रदाने भूयस्तरां सुसम्भवो निजभ्रातॄणामपि रक्तप्रवाह:, इत्यपि पूर्वत: परिबोद्धव्यं स्यात्, किन्तु भारतेऽस्मिन् सुव्यवस्थितशासनाय, देशवासिनां निष्कण्टकनिवासाय च तदेतदनिवार्यं नूनम्। सत्यामावश्यकतायां स्वयमाम्बेरराज्यमपि मुगलानां विरोधे शस्त्रमुच्छ्राययेत् परत:, परन्त्वधुना साम्राज्यस्थिरीकरणाय अकबरस्य मैत्री सेयमालम्बनीयैव नीत्येति सर्वं विचिन्त्य प्रावोचत्प्रकाशम्- ""श्रीमन्! राजन्यै: कृता मैत्री न कदाचिद् विश्रम्भविघातिनी सिध्येत्।"
अकबर: (हार्दिकं प्रसादमाविष्कृत्य)- अद्यप्रभृति न प्राप्येतावयोरन्तरं किञ्चित्। सर्वे वयं निकटसम्बन्धिन इव साम्राज्यनिर्माणकार्ये भवेम नूनं दत्तचिता:। या व्यक्तिरस्माकमभिन्नतामार्गे बाधामुपस्थापयेत्सा यदि कदाचित्संसारे स्थानमासादयेत्तथापि देहान्तकाले शान्तिस्तत्कृते नितान्तमन्वेषणीया भवेत्।
महाराजभगवन्तदासो जनयामास विश्वासमकबरस्य। आसीत्तस्याभिसन्धिर्यदग्रे य: कोऽपि मोगलसाम्राज्यशासको भवेत्तदुपरि भवेद्धिन्दूनां प्रकृष्ट: प्रभाव:।
परावर्तिष्ट महाराजो राजसौधम्। तत्र सर्वमपि संवादमकबरेण मैत्र्या: सन्निशम्य नानाधा सन्दिदिहु: सर्वेऽपि। न कोऽपि प्राचीकशत्सन्तोषम्। किन्तु महाराजो यदा सर्वमपि रहस्यमवबोधयामास यद्भारतसाम्राज्यमवश्यमग्रे परहस्तगतम्, मुसलमानभाग्याधीनं भवेदिति विधेर्विधानमिव। एवंविधस्थितौ शनैर्हिन्दूनां प्रकामप्रभावोद्भावनस्य द्वारमुचितमनुचितं वा? निजवचनानुपालव्यग्रश्चेदकबरो दर्शयेदस्मादृशेषु समादरं तर्हि तत्पुत्रोऽस्माकं प्रभावेण ततोऽप्यधिकं प्रभावितो भवेदिति निश्चितम्। एवं किलराजनीत्या शनै: स्वायत्तीकृते शासने किं हिन्दूनामभ्युदयदिनं दूरे? प्रकटदर्शने सेयं कृतिरवश्यं विरूपा विमानजननी च, यतो हि सेयं नीतिरद्यावधि क्षत्रियाणां कृते नवीना नूनम्। नासीदियमादृतो कदाप्यस्माभि:। परमाम्बेरराज्यस्य या परिस्थिति: साम्प्रतं तत्कृते हार्दिकभावानामपूर्वमिदं बलिप्रदानमकर्तव्यत्वेऽपि कर्तव्यमापतितम्।
तर्केणानेन समभूवन् सर्वेऽपि प्रभाविता:। सन्धे: समारोह: सोऽयं सानन्दं परिसमाप्यत। कुमारो मानसिंह: कालेनैतावता युद्धविद्यायां शस्त्रसञ्चालने अश्वारोहगजारोहणादिषु चासीत्कुशल:। महाराज: स्वयमासीदेतासु विधासु भारते तदाऽद्वितीय:। अतएव स्वनिरीक्षणे स्वशिक्षणे च तदिदं सानन्दमपूर्यत। महाराज: कुमारमशिक्षयत्सर्वामपि सामयिकीं नीतिम्, अवोचच्च प्रणयेन यत् "मया समारोपितमिमं नीतिवृक्षं भवानेव पुष्पितं फलितं चावलोकयेदिति।"
महाराज: समनयदेकदा कुमारमकबरसन्निधौ। अकबरस्तस्य वय:सन्धिमालोक्य सुतरां प्रासीदत्। स हि कुमारमिमं निजसंरक्षकतायामारक्षितुं प्राकाशयत्परममाग्रहम्। अतएव कुमारस्तद्दिनादकबरेण सह सानन्दमध्यवातसीदाग्रानगरम्। निजयोग्यतया वीरतया चासौ भूयस्तरां समाकर्षदकबरसाम्राजम्।
एकदा समपृच्छत्सम्राट् सपरिहासम्- "यदा परमेश्वरगृहाज्जनै: सौन्दर्यादयो गुणा: सङ्गृहीतास्तदा भवान् क्व प्रायासीत्? कुमारेण प्रत्युक्तम्- ""अहं तदा वीरतावदान्यतादिगुणानां सङ्ग्रहव्यग्रोऽभवं तावता बाह्यचमत्कृतिचकितैर्जनैरालुण्ठितं लावण्यमात्रं नूनम्।"
उत्तरेणानेन सुतरां समतुष्यत्सम्राट्। कुमारस्य गुणान् दिनं दिनं परिचित्य अनर्घ्यमिदं रत्नमित्युत्तरोत्तरमकार्षीत्समादरं तस्य।
(२)
प्रारम्भिकी वीरता
तत्कालमेव साम्राज्याधिरूढोऽकबरो नाद्यावधि तद् यथावदधिकर्तुमप्यपारयत्। अठगीनाभूमिपतय: प्राक्तनमुसलमानशासकानामत्याचारैश्चूर्णीभूता निजहृदये धारणामिमामवहन् यद् येन केनाऽप्युपायेन भूस्वामिनां दमनं वित्तहरणं च यवनशासकानां नूनं कर्तव्यम्। अकबरमपि तथैव सम्भाव्यं संघटितै: सर्वैरकबरस्य विद्रोहे कृता तावद् दुर्दमा समरघोषणा।
सम्राडासीन्नवयुवको वीरहृदयश्चोत्साही च। अतएव महाराजं भगवन्तदासं कुमारं मानसिंहमेव च सहादाय स्वल्पयैव निजसेनया तमुपद्रवं दमयितुमकरोदभियानमुत्साहेन। आसन् ग्रीष्मस्य दिवसा:। भानु: कृशानुमिव समवर्षन्निजकरै:। उपरि सन्तापयन्नातप:, अध: प्रतापयन्ती बालुका। तत: सैनिकानां स्थूलो दुर्वहश्च वेष:। तदुपरि गते: शीघ्रता। एतै: सर्वैरेव कारणैरक्रियन्त विह्वला: सर्वेऽपि सैनिका:। अग्रे समभिसर्तुमप्रभवन्तश्छायास्थानेष्वितस्तत: समभवन्नात्मानं गोपयितुं परवशा:। अतिष्ठदेकाकी सम्राट्। नासीच्च पानीयमपि समीपे। व्याकुल: सम्राट् पानीयं पानीयमित्यसकृदाह्वातुमभूत्परवश:।
एतस्मिन्नेवावसरे भूम्यधिकृतैर्यदा विदितं यत्सम्राट् साम्प्रतमेकाकी तदा तत्कालमेव सम्भूता: सर्वे समकार्षु: समाक्रमणं सम्राडुपरि। दुरुत्तरेऽस्मिन् सङ्कटावसरे सम्राज: सहायक: कोऽभूत्सन्निधौ? वीरोऽकबरो नि:सहायमेव समयुद्ध्यत सर्वैरपि। किन्तु कियत्कालम्? एकाकी एतावद्भ्य: कियत्प्रभवेदात्मानं गोपयितुम्। एतस्मिन्नेव जीवनसंशये कुमारमानसिंहेन सह निजरक्षायै सरभसमुपागच्छन् भगवन्तदास: समभून्नयनगोचर: सम्राज:। स हि सम्राजमरिभिर्भयङ्कररूपेण समाक्रान्तमवलोक्य भयानकं संहारकाण्डमारभत तेषां पृष्ठत:। महाराजेन सह समभूवंस्तस्य शरीररक्षका रणधीरा राजपुत्रवीरा अपि। तेषां प्रचण्डखड्गाघातेन रणाङ्गणमिदं भयनिस्तब्धमिवाऽलक्ष्यत। अभूद् भूरिकालमयं समरसमारोह:। कुमारो मानसिंहोऽस्मिन् महति सङ्गरसङ्कटे प्रादर्शयदद्भुतां वीरताम्। स हि प्राप्तप्रायान्मृत्युमुखात्सहसैव समभ्यरक्षत्सम्राजम्। अकार्षीन्मदमर्द्दनमरीणाम्। सुदृढमभान्त्सीन्निगडबन्धनेषु विद्रोहकारिणो भूस्वामिन:। अकबरो दैवीं सहायतामेतां, या हि मानवसहायतारूपे समागच्छद्, भूयस्तरां सममन्यत सुतरां प्रासीदच्च। गद्गदकण्ठ: सोऽयं वक्षसा समालिङ्गन्मानसिंहम्। आसीत्परिश्रान्त: सम्राट् महता ग्रीष्मेण समरेण च भीष्मेण। स हि तरोश्छायायां व्यश्राम्यत्। कुमारो मानसिंह: स्वकरेणानीयानीय पानीयमपाययत्सम्राजम्। अहो तावत्कालस्य पिपासा साम्प्रतं निरयासीत्, एवं च निरवासीत्।
आगराराजधानीं परावृत एवाऽकबरो महता राजसम्मानेन ("मनसब") समभवायत् कुमारमानसिंहम्।
साम्प्रतमकबरस्य विचारो द्वितीयपाश्र्वं समभ्यसरत्। मेदपाटस्य शासका: साम्राज्याद्दूरेऽपसरन्तस्तस्य शक्तिमपहन्तुं प्रतिपदमाचेष्टन्ते स्म। साम्राज्योत्साही अकबरो नेदमभ्यरोचयद् हृदयेन। स हि भारते संघटितसाम्राज्यमास्थापयितुमुदकण्ठत। मेदपाटस्याधिपतिरुदयसिंहो मोहम्मदै: सह सन्धिसमास्थापनं नानुचितं मेने किन्तु तदधीना वीरा नेदं कथञ्चिदप्यन्वमन्यन्त। मेदपाटीयैर्यदाऽऽम्बेरादिशासकानां साम्राज्यसहायकत्वमवगतं तदा ते नितरामक्रुध्यन्। किन्तु युद्धमात्रवेदिनस्ते राजनीते: प्रगतिं समस्य परिस्थितिं च कथङ्कारं वा विद्यु:?
एतस्मिन्नेवावसरे मिर्जाइब्राहिमहुसैनं दमयितुमकरोन्मालवान्प्रत्यभिसरणमकबर:। स हि समुपगतेऽवसरे मानसिंहेन सह पर्यचालयत्साम्राज्यसंस्थापनस्य चर्चां मेदपाटीयानां विद्रोहकाण्डं च। सानुरोधं तत्सहायताममार्गयत् सम्राट्। एकसाम्राज्यस्थापने दत्तवचनो महाराजकुमार: सम्राजोऽनुरोधमामेने नीतेरनुरोधेन। अतएव बाल्यादेव राजनीतिमार्मिकतां समरपरिस्थितिं चाऽनुप्रविशन्कुमार: समसूचयद् "यदि मेदपाटाभिस्कन्दस्य विचारस्तर्हि तत्कृते नास्मादधिक: सदवसर:। सर्वेऽपि मालवाऽभिसरणं सम्राजो जानन्ति, अतएवाऽस्मिन्नवसरे सहसा समाक्रमणं भवेत्सद्य: फलदायि।" सम्राट् सर्वात्मनाऽन्वमन्यत चित्तौराक्रमणम्। अकारि तदनुसारमाक्रमणं चित्रकूटदुर्गोपरि। सुदृढं-विषमस्य तस्य पराजये समापतन्नानाविधा असुविधा:, किन्तु कुमारमानसिंहस्य मन्त्रणया सर्वत्रापि विजयप्राप्तिरधिगताभूदिति न परोक्षमितिहासविदाम्। अधिकृतमभूच्चित्रकूटदुर्गम्। सहैव तेन मेदपाटाधिकृतं सुप्रसिद्धमैतिहासिकं दुर्गं रणस्तम्भवरमपि कुमारमानसिंहपराक्रमेण साम्राज्यभुक्तमभूत्। आसीदिदमपि दुर्गं चित्रकूटवत्परमदुर्जयम्। किन्तु मानसिंहस्य नीतिनिपुणतां रणशूरतां च सर्वात्मना सुपरीक्षितवानकबरस्तत्परवश एव चकाराभिस्कन्दनं तद्दुर्गस्यापि, यत्र तस्मिन् काले मेदपाटराज्यस्याऽऽयत्तो रावसुरजनहाडा संरक्षकोऽभूत्। स हि मेदपाटाधिपते: उदयसिंहस्य नवीनपराभवात्साम्प्रतमात्मन: साहाय्याभावं मानसिंहादीनामसामान्यं वीरभावं च परिजानन्प्रथमाक्रमण एव दुर्गस्य सन्दिदिहे। अतएव सामयिकप्रगतिमनुवर्तमान: सान्त्वनेनैव समर्पयामास दुर्गमिदं कुमारमानसिंहाय।
अकबरस्य सौभाग्यसूर्य: साम्प्रतमप्रतिरुद्धगत्या भारतगगनमधिरुरोह। आसन्मानसिंहसदृशा अप्रतिमवीरा मोगलसाम्राज्यस्य प्रभुत्वमुत्तरभारते परित: प्रसारयिुतमग्रसरा:। चित्रकूटरणस्तम्भवर-सदृशान्यजेयदुर्गाण्यासन् साम्राज्याधिकृतानि। साम्प्रतमेव च कालङ्गरमेडताप्रभृतिदुर्गाण्यपि साम्राज्यभुक्तान्यभूवन्। सुदृढसुस्थिराऽभूत्साम्राज्यस्य संस्थिति:।
(३)
गुर्जरविजय:
सम्प्रति गुर्जरान्विजेतुमवर्द्धतोत्कण्ठा सम्राजोऽकबरस्य। स हि साम्राज्यस्य परिपोषकं मानसिंहमेव सर्वात्मना भावयंस्तमेव सञ्चालकं तस्य समकल्पयत्। समरनीतिकर्मठ: कुमारमानसिंह: संव्यभजत्सेनामिमां द्वयोर्भागयो:। एकं भागं स्वयमुपादाय सम्राजाऽकबरेण सह गुर्जरानभ्यषेणयत्। द्वितीयं भागं च तत्रैव संन्यवेशयद्येन सहसैव समुत्पद्यामानमुपप्लवं कञ्चित्सरलतयैव पारयेत्प्रतिकर्तुमिति।
सिरोहीं विजित्य यथैव सम्राज: सेना गुर्जरान्प्रत्यवर्द्धत तथैव गुप्तचरै: संवाद: प्रापितो यत्- "शेरखाँ फौलादी ससैन्य: सपरिवारश्च ईडरराज्यं प्रत्यभिसरति। शेरखानस्तस्मिन्समये भारतप्रसिद्धानां युद्धवीराणामन्यतमोऽभूत्। तस्य शौर्यप्रभावो भारतस्य दूरदूरपर्यन्तमभिव्याप्यत। देशप्रसिद्धेषु युद्धवीरेषु निजभुजोष्मनिर्वापणकौतुकशाली कुमारमानसिंह: समुचितोऽयमवसर इति विभाव्य समभाषत सम्राजम्- "श्रीमन्! वाञ्छाम्यहं, यत्किञ्चित्सैन्यमादाय स्वयमहं शेरखानं योधयेयम्। आत्मन्यखर्वगर्वशालिनस्तस्य मदनिर्वापणस्य हस्तगतोऽयमवसर:। अवशिष्टां वाहिनीमादाय श्रीमानग्रेऽभिसरतु यावदहमिदं खण्डयुद्धं परिसमाप्य सेवायामुपतिष्ठे।"
सत्येन शौर्यात्साहेन सुप्रसीदन् सम्राट् सप्रणयमदादनुमतिम्। मानसिंह: सोत्साहकौतुकं तत एव प्रययौ यतो हि शेरखानस्योपगमसम्भावमासीत्। स्वल्प एव समये सैन्यमेकं, तस्याग्रतश्च विशालकायमेकं वीरयुवकमागच्छन्तमालुलोके। आजुहाव तं समराय कुमारमानसिंह:। आसीत्सोऽपि वीर: समरेषु लब्धविजयश्च। आह्वानमिदं श्रुत्वैव सावधान: सोऽप्यभूत्समरायोद्यत:। द्वयोरपि वीरयो: समघटत समीक्षणीयं समीकम्। शेरखानो नासीत्पराक्रमे मानसिंहादून:, परं स्थूलशरीरोऽसौ मानसिंहस्य शीघ्रगतिं नाशकत्तुलयितुम्। अभूत्स्वल्पकाल एव परास्त:। तस्य कोष: सम्पूर्णोऽपि पराक्रमिणो मानसिंहस्यासीद्धस्तगत:।
देशप्रसिद्धमेकं वीरं पराजित्य प्रसन्नमुखो मानसिंह: शीघ्रगत्या प्राप सम्राजम्, निरभिमानभावेनावर्णयच्च सर्वमपि युद्धवृत्तान्तम्। अतितरां समतुष्यत्सम्राट्, सदा स्मरणीयं चादात्तस्मै प्रणयोपहारम्।
सम्राज: सेना सम्प्रति गुर्जराणामतिनिकटगाऽऽसीत्। गुर्जरा: साम्प्रतं मुजफ्फरशाहस्य तृतीयस्याधिकारेऽभूवन्। यदा हि समाकर्णयदसौ सैन्योपगमं तावता सम्राज: सेना तस्य द्वार एव समवास्थित। व्यगलत्तस्य धैर्यम्। निजरक्षाया उपायान्तरमलक्षयन्नसौ राज्यात्पलायाञ्चक्रे, किन्तु दुर्दैवात्तस्यामेव दिशि पलायितो यत्र हि सम्राजोऽकबरस्य सेना कृतसन्निवेशाभूत्। स्कन्धावारमालोक्य कान्दिशीकोऽसौ केदाराभिमुखं प्रद्रवन् वृक्षगहने निलिल्ये। किन्तु लक्षितोऽभूदसौ सैनिकै:। अन्ते निगडितोऽसौ सम्राजोऽधीनतां स्वीचक्रे। अकबरस्तस्याऽऽजीवनाय प्रदेशमेकं कल्पयित्वा निजधात्र्या: सुतं मिर्जाअजीजकोकाम् (खाने आजम) तत्प्रान्तस्याधिपतिं चक्रे।
मिर्जापरिवारो यो हि प्रान्तेऽस्मिन्पुरत: प्रभावशाली समभूद्, वृत्तान्तमिमं समाकर्ण्य सुतरामकुप्यत्। मिर्जाइब्राहिमहुसेनमात्मन: प्रमुखं निर्वाच्य ते सर्वतो विद्रोहं प्रासारयन्। देशे समन्तात्समुदतिष्ठद्घोर: कलह:। परितोऽप्युच्छृङ्खलता चाऽव्यवस्था चालक्ष्यत। साम्प्रतमिब्राहिमहुसेनस्याधीनतया पर्याप्ता सेनाऽपि समगृह्यत। इतो गुर्जरदेशीया मोगलसाम्राज्यस्याधीनतां न सहसा स्वीकर्तुमासन् सम्मता:। अतएव गुर्जरेषु प्रारभ्यत घोरो विप्लव:। संवादमिममाकर्ण्य सुभृशं चुकोप सम्राट्। एषां दमनाय वाहिनीं प्रेषयितुमाज्ञापयत्। एतस्य मन्त्रिणो रात्रौ शत्रूनाक्रमितुं समनह्यन्त किन्तु वीरोऽकबरो नेदं सममन्यत। राजपुत्राणां सङ्गत्या तस्य हृदयमुच्चं विचाराश्चोदारा: समपद्यन्त। अतएव स प्रकाश्यरूपेण शत्रूनाक्रमत्। मानसिंहोऽपि सम्राजो निश्चयमाकर्ण्य सुभृशमतुष्यत्। सुप्रसन्न: सोऽपि सम्राज: साहाय्याय सेनैकदेशमादाय द्वितीयमार्गेण "सारनालं" समभ्यसरत्। द्वाभ्यामपि पार्श्वाभ्यां सेना तथा रभसेन प्राप्यत यथा प्रतिपन्थिनश्चकितचित्रिता अभूवन्।
मिर्जा इब्राहिमहुसेनो नासीदत्र। स हि सैन्यसङ्ग्रहाय समचेष्टिष्ट। एकत: स्वयं सम्राट्, अपरत: श्रीकुमारमानसिंह इत्युभयत: समाक्रान्ता: शत्रव: क्लेशापन्ना अपि वीरभावेन समयुध्यन्त। अकबरस्य सैन्यमग्रे प्रासरत्, किन्त्वासीदग्रमार्गो नितरां सङ्कीर्ण:। उभयतोऽपि वंशोत्तुङ्गो घननिबिडश्च स्नुही (थूहर) गुल्मो दूरपर्यन्तं विस्तीर्णोऽभूत्। अतएव नासीदेकपदमपि इतस्ततो भावनस्यावकाश:। एवं सङ्कीर्णावसर एव त्रय: सशस्त्रा: सैनिका: सम्राजमकबरमेव लक्ष्यीकृत्य प्राहरन् घोरै: शस्त्रै:। हन्त घोरसङ्कीर्णेऽस्मिन् स्थले त्रय एव सैनिका महामहतीमप्येकां सेनामलमासन्नवरोद्धुम्। सङ्कुले स्थले अस्मिन् सहसैव युगपत्समापतत: सैनिकानयोधयद्वीरतयाऽकबर: किन्त्वतर्कितमाक्रमद्भिस्तै: सङ्कटगतोऽभूत्सम्राट्।
महाराजो भगवन्तदासो यथैवाकबरं सङ्कटमुखे व्यैक्षत तथैवायमग्रे प्रसृत्य सादिनमेकं जघान। साम्प्रतं मानसिंहोऽपि तदभिमुखमाययौ, किन्तु सम्राट् स्वयमेव सैनिकाभ्याममूभ्यां सह योद्धुमैच्छत्। अतएव कुमारमग्रे प्रसर्तुमवारयत्। शौर्यावेशे निरोद्धुमैच्छदकबरस्ताविमौ। किन्तु वीरावेतौ द्रुततरमुत्प्लुत्य सम्राजं शस्त्रविक्षतं कर्तुमग्रे प्रासरताम्। साम्प्रतं नाशकद्धैर्यमवरोद्धुं महाराजो भगवन्तदास:। प्रावादीदसौ- " कुमार! किमिदानीं निरीक्षसे? सम्राजो जीवनं घोरसङ्कटे। किमिति नाग्रे प्रसरसि?
कुमार: - सम्राजस्तादृश एवाऽऽदेश: किमहं कुर्याम्?
भगवन्तदास:- नायं समय: सम्राज: प्रसन्नतामप्रसन्नतां वा प्रतीक्षितुम्।
किमिदानीमासीत्। लोकैकवीरो मानसिंह: खड्गमादायसरभसमधावदग्रे। सैनिको यावता भिनत्ति भल्लेन वक्षोऽकबरस्य तावता मानसिंहस्य खड्ग: सैनिकस्य मस्तकमपाहरत्कन्धरात:। कुन्तफलकस्य परिवर्ते सैनिकस्यास्य मस्तकमेव सम्राजो वक्षसि न्यपतत्। अकबरो मानसिंहस्य शौर्ये नितरामतुष्यत् किन्तु नासीत्सन्तोषप्रकटनस्यायमवसर:। सम्मुख एव समायासीद्दलं मिर्जापरिकरस्य। समभूदवहित: सम्राट्। प्रावर्तत घोर: संयुग:। निर्भरं पराजिग्ये मिरजामण्डली। केचिदहन्यन्त, केचिज्जीवग्राहमगृह्यन्त।
अवसरेऽस्मिन् सुप्रसन्न: सम्राट् महाराजभगवन्तदासं कुमारमानसिंहं च परोलक्षमुद्राणामुपायनमन्तरा "विजयभेरिसम्मानेन वैजयन्तीप्रदानसमादरेण च सभाजयति स्म सुभृशम्। नायं सम्मानोऽद्यावधि कस्मैचिदपि हिन्दूनरपालाय प्रादीयत सम्राजा। गुर्जरदेश: साम्प्रतमभूत्सर्वथा सम्राजोऽधीन:। अजीयत तदैव सूरतस्य महद् दुर्गम्। यावता साम्राज्यसैनिका गुर्जरान्निर्जयन्ति तावता मानसिंह: सैन्यैकदेशमादाय "डूंगरपुरप्रान्तं प्रति प्रतस्थे। नासीत्तस्य काठिन्यं तस्य विजये। एवं किल मानसिंह: स्वकीयविजयकाण्डस्य चक्रे रोचकं प्रारम्भम्।
(४)
विनाशस्य सूत्रपात:
महाराजो भगवन्तदास: प्रासीदन्मनसि यन्मदुपक्रान्तं साम्राज्यनिर्माणकार्यं कुमारमानसिंह: समुहृता नैपुण्येन निर्वहतीति। एकैकं सर्वाण्यपि राज्याणि साम्राज्यसूत्रे सम्बध्य महतीमेकतां शक्तिञ्चानुभवन्ति स्म। ह्यो ये भूपाला: स्वल्पं स्वल्पं भूखण्डमादाय मिथोरक्तप्रवाहेण व्यस्ता आसंस्तेऽपि साम्प्रतमन्योऽन्यं प्रणयन्ति, आखेटक्रीडादिभिश्च विनोदमनुभवन्ति। क्वचिच्च पुरुषातिशायिनो बलप्रयोगान्मध्येसभं प्रदर्शयन्त: सम्राजो मनस्तोषेण साकं निजशक्तिसञ्चयं जनतासु प्रभावातिशयं चोपार्जयन्ति स्म। एकैकं प्रति भयस्य चाविश्वासस्य च ये दुर्भावास्ते व्यलुप्यन्त शनै:।
आसीदुदयपुरराज्यमेकसम्बद्धम्, यद्धि साम्राज्यप्रवाहे कण्टकमिवाऽऽस्खलति स्म मानसे सम्राज:। एतस्य मृदूकरणाय मानसिंहस्य बुद्धिवैभवमन्तरा नान्यदासीदवलम्बनं सम्राज:। स हि कुमारमाहूय व्यवृणोन्निजाभीप्सितम्। प्रत्युक्तं मानसिंहेन- "कार्यमिदं न नाम साधारणम्। उदयपुरस्य महानयं गर्वो यन्नाद्यावधि यवनैस्तेन सम्बन्धो रक्षित:। प्रतापसिंहो युद्धप्रिय:, स हि निजजीवने सन्धिमूरीकुर्यादिति न मे प्रतिभाति।
अक० - यदि भवानिदं कार्यं स्वीकुर्यात्तर्हि युद्धे विस्फुरन्नपि नीतावप्रभवन्मेदपाटभूपतिरवश्यं भवदनुरोधं रक्षेत्।
"
यावच्छक्यमहमास्थास्यामि यत्नम्" इत्युक्त्वा प्रययौ मानसिंहो मेदपाटम्।
महाराणा महता सम्भ्रमेण सम्मानयामास मानसिंहम्। मन्त्रणागृहे महाराणा कुमारो मानसिंहश्चातिष्ठताम्। कुमार एव प्रारेभे प्रसङ्गम्- "महाराणा! मन्ये विदितमेव भवतो यद्राजस्थानस्य भूमिपतयो विशृङ्खलभावेनाऽवस्थिता न केवलं देशशक्तिं दुर्बलीकुर्वन्त्येव, अपि तु मिथो विरोधेन भारतमिदमन्यान्यदेशानामभिभोग्यमापादयन्ति। अत एव सर्वेऽपि महीपतय: सम्भूय साम्राज्यमेकमभिप्रबलकर्तुमभिलषन्ति। एतस्मिन् सम्भूय समुत्थाने सम्मानीयस्य भवादृशस्यावलम्बनमाकाङ्क्षन्ति सर्वेऽपि। अकबर: सम्राट् राजपुत्राणां मर्यादाऽभिवेदी। स हि सम्मानेन साकं भवत: सहयोगं वाञ्छति।"
प्रत्युक्तमुदयपुराधीशेन "मेदपाटो नाद्यावधि यवनानां सम्पर्कं सेहे न चाऽग्रेऽपि तथा वाञ्छति। मेदपाट: स्वतन्त्रोऽभूत्। अग्रेऽपि च तथैवावतिष्ठेत। अहमपि खिद्येऽनेन यद्राजसन्ततय: शनै: शनैर्यवनै: संसृज्यन्ते।
मान० - जातीयगौरवमवश्यनुवर्तनीयम्। किन्तु यत्र जातीयता राष्ट्रियताया बाधिका भवेत्तत्र राष्ट्रियतामेवाऽभिनन्दन्ति नीतिज्ञा:। राष्ट्रे रक्षिते एव जातिरक्षा सम्भविनी।
महारा० - भारते जातीयतैवाऽऽसीन्न राष्ट्रियता।
मान०- नैतदार्याणां प्राक्तनम्। जगत्यार्यैरेव सा राष्ट्रियता निदर्शिता यामन्ये श्रुत्वापि न प्रतीयेरन्। बहो: कालाद्विलुप्ता सैव राष्ट्रियता सम्प्रति सम्प्रतिष्ठिता भारते।
""भारतमेकराष्ट्रं न कदाचिद्भवेत्।"
""मम दृढो विश्वासो यदन्यान्यदेशवद् भारतमप्येकराष्ट्रमवश्यं सम्भवेत्।"
""कथमिव?"
""इत: पूर्वमहमेव सविनयं पृच्छामि- राष्ट्रियतां पराकृत्य जातीयतामवलम्बमानै: किं यवना भारतादपाकृता:? मेदपाट एव वा किमस्मिन् सफलोऽभवत्?"
""मेदपाटे न यवनानां पादौ स्थिरीभूतौ"
""तत्रभवतो विचारे मेदपाट एव समस्तं भारतम्?"
""नाहमन्यान् राजन्यान् भावयामि।"
""इदमेव कारणं यद् भारते एकराष्ट्रस्य स्थापना नाद्यावधि जाता। यथा मेदपाटो मेदपाटमेव भारतममन्यत, तथाऽन्यान्येऽपि नरपाला: स्वराज्यमेव भारतमभावयन्। मिथ: सम्भूय सम्मिलितराष्ट्रोत्थानस्य चिन्ता न केनचित्कृता। एतस्या: सङ्कुचितमनोवृत्ते: परिणामस्वरूपमिदमागमनं भारते यवनानाम्। इदमपि च सम्यग् विदितं श्रीमता यन्माहम्मदै: साम्प्रतमीदृशी परिस्थितिरुत्पादिता यत्ते न देशात्पराकर्तुं शक्या:।"
""आम्, देशात्तेषां निराकरणमसम्भवमेव साम्प्रतम्।"
""ते यत्रापि शासनं करिष्यन्ति, केषामुपरि?"
""आर्यसन्तानानामुपरि।"
""किमेतदभिरोचयति भवान्?"
""नैव।"
""किं भवानकबरमुन्मूल्य हिन्दूराज्यमास्थापयितुं प्रभवेत्? यदि भवान्मे विश्वासमास्थपयेद् यद् भारतीयभूपाला: सर्वेऽप्येकमनसो भूत्वा अहम्मन्यताया: कुलीनतायाश्च गह्र्यगन्धं गलहस्तयन्तोऽकबरस्य विरोधाय सर्वथा सन्नद्धा: सन्ति, तर्हि नि:संशयं सोऽहमग्रेसरो भवदनुगमनाय।"
"स्वयमहं संशयानो ह्यस्यामेकतायाम्। तत्रापि मेदपाटीया नाभिलष्येयुर्भवत: साहाय्यम्।"
""किमिति?"
""एतदर्थं यत् ..."
""स्पष्टमुच्यताम्।"
""भवता मोगलै: सह सन्धिर्विहित:।"
""महाराणा! स्पष्टमिदमाकर्ण्यताम्, नाऽयं समयो विचाराणामेवंविधानाम्। अहं वा मे पूज्य: पिता वा न स्वार्थवश: सन्नकबरस्य साहाय्यं कुर्र्व:, अपि तु हिन्दुत्वस्य रक्षायै। यदा हि हिन्दुभिर्यवनानां कार्ये हस्तक्षेपो न व्यधीयत तदा स्पष्टं दृष्टं स्याद् यद्धिन्दूनां देवमन्दिराणि धर्मशास्त्राणि, एतदेव किम्, तेषां जीवनपर्यन्तप्यासीद् घोरसङ्कटे। किन्त्वद्य मोगलसाम्राज्ये हिन्दवो मोदन्ते, प्रतिष्ठां लभन्ते, तेषां पूर्णं नाम धार्मिकं स्वातन्त्र्यम्। भारते पुराऽप्येवमभूत्। अनेका दस्युजातयोऽत्र समापतन्। भारतमलुण्ठन्, व्यदलयन्, किन्त्वार्यास्तदेतस्मिन् भू्रक्षेपमात्रमप्यविधाय विश्वव्यापिन्या निजगभीरताया जठरे सर्वास्ता जाती: शनै: शनैस्तथाऽजरयन् यथा तासामस्तित्वमेव व्यलुप्यत। भारते पुनर्हिन्दूनामेव दुन्दुभयो नेदु:। कनिष्क: कोऽभूत्? हूणा: कां वा न्यूनतामकार्षुर्भारतीयसंस्कृतिविलोपाय? शाकद्वीपीया: मोगला अपि न शक्यन्ते साम्प्रतं पराकर्तुम्। राणासांगा न चेद्बाबरमत्राह्वास्यत्तर्हि किं मोगलसाम्राज्यस्थापनस्यात्राव-सरोऽभविष्यत्? तथ्यनिवेदनं न नूनमपराधाय। देशे ज्वलनं विकीर्य मेदपाट: साम्प्रतं निजस्वातन्त्र्यस्य स्वप्रं वीक्षते।
अस्ति साम्प्रतमपि समय:। मोगलै: सह राजनीतिपाटवप्रदर्शनस्याऽयमवसरो न घृणाप्रकटनस्य। तै: सह सन्धाय शनै: शनैस्तेषु निजप्रभावविस्तारस्यावश्यकता, न शुष्ककलहस्य। तान् मुष्टौ कृत्वा तेषां मस्तिष्कपरिवर्तनस्याऽयमवकाशो न तै: सह दु:सहसमरेण देशे रक्तपातस्य। यद्यस्मिन् सूक्ष्मसमये स्वल्पमप्यनवधानं स्यात्तर्हि बहि: प्रदश्र्यमानाया घृणाया बीजं तथा दृढं भवेद्यथा हिन्दूनां बिन्दुरपि घृणाभाजनं भवेद्देशे। भारते, रामकृष्णयो: पदपङ्कजपरागपवित्रीकृतेऽस्मिन्नार्यावर्ते आरव्यभाषोपनिबद्धा: कुरानोपासना एव सर्वत: प्रगल्भेरन्। विद्वेषवह्निस्तथा प्रज्वलेद् य: परमप्रयत्नैरपि न नाम नूनं निर्वायात्, प्रत्युत परम्परया प्रवर्द्धेतैव। अहं दृढं विश्वसिमि यद् भारतीयभूपाला: साम्प्रतमपि न नाम राजनीतिं विस्मृतवन्त:। भारतीयेषु साम्प्रतमपि तथाविधमात्मबलं वर्तते यस्य प्रभावे निपत्य रक्तपिपासव: स्वभावबर्बरा अपि यवना न तावदात्मानं नि:स्पृष्टमास्थापयितुं प्रभवेयु:। अस्माभिरकबर: कीदृशेन प्रभावेण वशीकृतस्तदिदमद्य न चेत् अग्रे विवेकिनो राजनीतिज्ञा: सूक्ष्मतमं पर्यवेक्ष्य भोत्स्यन्ते, मोगलाश्चानुतप्स्यन्ते। "
एतस्मिन्नेवावसरे सेवकोऽसूचयद्भोजनस्यावसरम्। राणा कुमारमामन्त्रयद्भोजनाय। कुमार: सरभसमभाषिष्ट - "सम्यगिदम्, वयं सर्वेऽपि भोजनतो निवृत्त्य गभीरेऽस्मिन्विषये मिथो विचारविनिमयेन कर्तव्यनिर्णयं स्थिरीकुर्म:।"
राणाऽवादीत्- "न मे क्षुधा साम्प्रतम्, निर्वर्तयतु भवान् भोजनम्।"
कुमारस्तात्पर्यमेतस्य तत्कालमवाबुध्यत्। नायमपमान: सह्योऽभूत्संयमिनोऽपि मनस्विन:। क्रोधात्स तत्कालमुत्तिष्ठन् प्रावदत्- "राणा! मानसिंहं मानिमनुष्या अपि मानयन्ति। अवबुद्ध्यते स सर्वम्। किन्तु स्मर्तव्यं, सैषा सङ्कुचितमनोवृत्तिर्मिथ्यादम्भश्च सङ्कटमुपस्थापयेन्निकटे।" राणा पुनरवदत्- "उदयपुरभूपालो भ्रष्टैर्भोजनं नाभिरोचयेत्।"
"अदूरदर्शिन् देशविद्रोहिन् राणा! अग्रे न ममोपालम्भो देयो यन्मानसिंहेन मेदपाटो विपाटित:। विवेचयिष्यन्ति राजनैतिका एव यत् एकव्यक्तेर्मिथ्यादम्भरक्षायै परोलक्षप्रजानां प्राणा: सङ्कटापन्ना:, देशश्च सर्वदार्थं विनाशमुखे।
""मेदपाट: स्वनिश्चये निश्चल:!"
""तह्र्याम्बेरभूपालोऽपि निजनिर्णये निष्कम्प:। एकमुदयपुरं किम्, शतमुदयपुराण्यपि यदि भवेयुस्तदापि साम्राज्यनिर्माणकार्यं निरुध्य हिन्दुजातेश्चूर्णीभावो न शक्यते सम्प्रति कर्तुम्। रक्तपातमात्रवेदिन् राणा! एकस्य भवत: कृते न केवलं वराको मेदपाट एव, अपि तु भारतमात्रमिदमवलोकेत रसातलम्!" इत्युक्त्वैव परावर्तिष्ट मानी मानसिंह:।
(५)
गुर्जराणां विहार-वङ्गानां च समराङ्गणे
अकबर: साम्प्रतमध्यतिष्ठत् फतेहपुरसीकरीस्थानम्। त्वरितमवापत्तत्र मानसिंह:। अकबरोऽभूत्तस्य प्रतीक्षायामेव। नैतदर्थं यद् राणासम्बन्धे भृशमुत्कण्ठासीत्, अपि तु समुपस्थिताया विषमसमस्याया: समीकरणार्थम्। गुर्जरेषु पुनर्मिरजापरिकरेणोपद्रव: प्रारब्धोऽभूत्। अकबरेण स्पष्टमनुभूतमात्महृदये यत् मुसलमानसेनानायका न मे सत्यहितैषिण:। अत एव प्रत्येकसमरे क्षत्रियान्, विशेषतश्च कुमारमानसिंहं विना न तस्य किञ्चिदपि कार्यं समपद्यत।
लोहिताभे लोचने स्फुरन्तमधरं चावलोकयन् कुमारस्य, गहनघटनामनुममौ सम्राट्। त्वरिततरं स प्रतिसमादधे "किं राणा साम्प्रतमपि नोपागात्सरलमार्गम्? द्रुतं मे सूचय, यदि नाद्याऽपि युद्धायाऽवश्यमामन्त्रयेयम्।
मान० - प्रयतितं मया बहुधा, किन्तु नासावनुमन्यते सन्धिम्। एकसाम्राज्यनिर्माणं च तस्य दमनमावश्यकं मनुते। तद्यदि भवतो नानुमतं स्यात्तदाऽपि तमेनमहमात्मबलेनाऽपि युद्धायाऽवश्यमामन्त्रयेयम्।
अक०- प्रिय मान! नेदं कदाचिदपि भावयेर्यदकबर: कृतघ्न:। अहं भवतो गुणानुपकारांश्च प्रत्यहं भावयाम्यान्तरे। भवतोऽयमपमान: साक्षात्साम्राज्यस्यावमान:। किं वा स्वस्य तस्य सौभाग्यस्य, देशाभ्युत्थानस्य वा सोऽयं पादाघात:। अहं सम्प्रति हृदयान्तस्तलेन राणापराभवमवधारयामि।
एतस्मिन्नेव समये सैनिक एक: पत्रमेकं सम्राजे समर्प्य तदिङ्गितेन तत्कालं मन्त्रणाभवनाद्बहिरभूत्। आसीत्पत्रमिदं गुर्जरेभ्यो राजसिंहेनाऽऽलिखितम्- "यत् मिर्जामुहम्मदहुसेनो भयानकरूपेण सम्राजो विरोधे समुत्थित:। साम्राज्यसेनां दूरगतां विभाव्य अहमदनगरादिषु चक्रे निजाधिकारम्। आजम अजीजकोका न प्रभवति तत्पराभवे। प्रजानां सम्राज: सेवकानां च जीवनं सङ्कटगतं विभाव्य त्वरिततमं प्रतिविधातव्यम्" इति।
पत्र पठित्वा प्रावादीदकबर: - "मानसिंह किमिदानीं कर्तव्यमिति व्यवतिष्ठस्व! वारंवारमुपप्लवमानैरमीभिर्भूरि खेदितम्, सम्प्रति तथा दमनीया यथाऽन्येऽपि प्रान्ता: प्रतिबुध्येरन्।"
मान० - पूर्णतया तथ्यमिदम्, अन्यथा अन्येऽपि जना: शिर: समुच्छ्रयेयु:। किन्तु युद्धनीतिरिदमेवोपदिशति यत्तत्र सैन्यं तथा त्वरितं प्राप्नुयाद्येन सर्वे ते चकितसम्भ्रान्ता न किञ्चित्प्रतिविधातुं शक्नुयु:। विलम्बे सत्यन्येषामपि समुत्थानस्याशङ्का।
अक० - सर्वथा सम्यगिदम्, किन्तु राणाविषयेऽपि किञ्चिदधुनैव प्रतिविधेयम्?
""नास्मिन्विषये किञ्चिच्चिन्तयितव्यम्। तत: प्रतिनिवृत्त्यापि सर्वमिदमायोज्येत। तावत्कालं कदाचित्तस्य मतिरपि परिवर्तेत। न सहसा समरेण किञ्चिद्राजसंस्थानं सर्वथोन्मूलनीयमिति मे मति: प्राच्यनीतिश्च।"
अकबरो मानसिंहानुमत्यैव त्वरिततममकरोद्रणप्रस्थानं गुर्जरान्। सेनाया: प्रधानपरिचालकावास्तां महाराजभगवन्तदासमानसिंहौ। अतित्वरितगत्या प्राचलद्वाहिनी। एकैकस्मिन्दिने पञ्चविंशतित्रिंशत्क्रोशपर्यन्तमलङ्घयत्पन्थानम्। द्वादशदिनैस्त्रिशतं क्रोशानुल्लङ्घ्य प्राविशद्वाहिनी गुर्जराणां प्रवेशद्वारम्।
सम्राड् गुर्जरेषु पदनिक्षेपं कुर्वाण एवासीदेतावतैव महाधनो जातीयस्तस्य तुरग: सहसोपाविशत्। अकबरो भूयस्तरामभूच्चकितश्च सम्भ्रान्तश्च। अस्मिन्नेव समये महाराजो भगवन्तदास: सरभसमुपसृत्य सम्राज: सौभाग्यमभिनन्दन्नूचे- "श्रीमन् ! तदिदं शुभशकुनं भवतो विजयसूचकम्। भारतीयविशेषज्ञा यात्रासमये त्रितयमिदमभिनन्दन्ति भूयसा-प्रवेशावसरे तुरगस्याऽऽसनम्, पृष्ठवर्ती पवन:, चिल्लानां वायसानां च युगपदुपगमनं चेति।
शुभसंवादेनानेन भृशमतुष्यत्सम्राट्। स हि मानसिंहसम्मत्या सेनां त्रिषु भागेषु विभज्य तिसृषु दिक्षु समाक्रमत्परिपन्थिन:। मानसिंहस्य युद्धनीतिरत्रापि सम्पूर्णं सफलाभवत्। मुहम्मदहुसेनो यथैव सम्राट्पृतनाया घोरमारवमशृणोत्तथैव भयविह्वल: सुबहानकुलिनमपृच्छत्- "अयं कर्णबधिरीकार: कोलाहल: कुत: समागच्छति?"
""सम्राजोऽनीकिनी समागता तस्या एव तुमुलो ध्वनि:।"
""नेदं सम्भवि, मया निश्चितमाकर्णितं सम्राट् साम्प्रतं फतहपुरे।"
""इदं निश्चितमेव त्वां निश्चलमकरोत् पश्य, सम्मुखे कोऽयमभ्युपैति?"
यथैव मिर्ज़ामुहम्मदहुसेनेन सम्मुखमालोकितं तथैव सज्जां वाहिनीं द्रुतगत्या समाकर्षन्नकबरो दृष्टिमुपागमत्। सम्राज: सेना परिपन्थिनामनीकादासीत्संख्यायां न्यूना। अत एवाऽकबरोऽभूच्चेतसि चिन्ताकुल:। किन्तु भगवन्तदास: सर्वमिदमवगत्य सुस्फुटमसान्त्वयत्सम्राजम्- "संख्यायां न्यूना अपि राजपुत्रवीरा: समरे कियन्त: सम्भवन्तीति समये समवगतं स्यात्। न तत्र भवता किञ्चिदपि विमनायितव्यम्।"
उत्साहित: सम्राट् सैन्यमादाय समावर्धिष्ट समरे। इतो मिरजाचमूरपि समभ्यसरद्। द्वयोर्घोरसङ्घर्षे प्रथमाक्रमण एव सम्राट्सैन्यमकरोत्पश्चात्पदम् मिरजावाहिनी। किन्तु यथैवाऽकबरं विषमस्थलमलोकयतामङ्गरक्षकौ भगवन्तदासमानसिंहौ त्वरितमग्रे प्रवृद्ध्य शत्रुसैन्यमामर्द्दयतामुग्रगत्या। अभवत्तुमुलम्। विजयश्रीरभवत्सम्राजो हस्तगता। अगृह्यत मिरजाहुसेन:। सहस्रद्वयमिता: शत्रव: प्राणेभ्यो व्ययुज्यन्त, सहस्रानुमिताश्च क्षता: पलयिताश्चाभूवन्। सम्राट्सेनायां च शतं सैनिका अम्रियन्त।
मानसिंहसम्मत्या तदेवं द्वितीयवारं पुनरक्रियत गुर्जराणां विजय:। उपद्रव- कारिणामक्रियत कठिनं दमनम्। भगवन्तदासमानसिंहयोर्मध्येविजयसभमकारि सम्राजा सन्तुष्टहृदयेनाऽभिनन्दनम्, अदीयत च तयो: स्वरूपानुरूपमतिबहुमूल्यमुपायनम्।
गुर्जरविजयं कृत्वा सीकरीस्थाने परावृत्त: सम्राट् मार्गश्रममपि न यथावद्विगमयामास तावतैव संवाद: समागात्-मगधेषु (बिहारप्रान्ते) सुल्तानतनयो दाऊद: सम्राड्विरोधे घोरमत्याचरतीति। मन्त्रणाभवने पुन: सममिलत्प्रमुखसेनापतीनां सभा। सर्वमुखो मानसिंहो निरदिशत्- "अस्मिन्वारे विहारवङ्गयोर्विजयाय न पर्याप्ता भवेत्केवलं स्थलसेना। नैतावद्दूरमियत्या: पृतनाया: प्रापणं सुकरम्, किञ्चैतावति काले शत्रुरपि भवेत्प्रबल:।
पृष्टमखिलै: सदस्यै: - तर्हि किं प्रतिविधीयतामत्र?"
"रणपोतपटल" स्यैकस्यावश्यकता, यं विलोक्य विहारवङ्गावुभावेव भवेतां चकितौ। यात्रायां अनेन सुकरता शीघ्रता चाप्यनायासं भविता।" सेयं मन्त्रणा सममन्यत सर्वै:। स्वल्पैरेव दिनै: समरपोता: समनह्यन्त। जलयात्राया: पूर्णं सन्नाहमायोज्य बीरबल-शाहबाजखाँ, कासिमखाँ, प्रभृतीनामूनविंशतिनायकानां मध्ये भगवन्तदासमानसिंहौ प्रमुखौ कृत्वा सम्राडकबरो जलमार्गेण प्रतस्थे मगधान्।
आसीत्पूर्णा प्रावृट्। नद-नदीषु प्रावर्द्धन्त पय:पूरा: परित: अतएव न्यमज्जन्बहवो रणनौका:, किन्तु ततोऽपि पर्याप्ताऽवशिष्टा सेना सर्वत: पूर्वं हाजीपुरं विजित्य पाटलिपुत्रं पर्यवृणोत्। सेनाया आगमनं श्रुत्वैव दाऊद: पलायिष्ट वङ्गान्। लुण्ठने पर: कोटिमुद्राणां द्रव्याणि हस्तगतान्यासन्। विहारराजधान्या: पाटलिपुत्रस्य विजयो नासीत्साधारणं कार्यं किन्तु मानमतिवैभवेन तदपि साधारणमभूत्।
आसीत् दाऊदस्य निग्रहणमावश्यकम्। अतो वङ्गविजयाय टोडरमलस्याधीनतायां प्राहीयत राजसेना। पराजितो दाऊद: सन्धिं प्रार्थयामास । टोडरमलो दाऊदस्य नीचतां विजानन्नानुमेने सन्धिं किन्त्वकबरस्योदारतया अदूरदर्शितया वा स्वीचक्रेऽसौ सन्धिं, यस्य फलमचिरादेवोपलब्धमकबरेण । विहारवङ्गयोर्विजयपरितुष्टोऽकबरो मानसिंहमभिनन्दन् समाययौ राजधानीम्। विजयोत्सवसमारोहैरमोदत मोगलराजधानी।
(६)
सम्मुखसमरे
विजयोल्लासे मत्तोऽकबर:सर्वं पूर्वनिश्चयं व्यस्मरत्। मानसिंह: कथाप्रसङ्गे समसूचयत्-"भारतीयभूपालनां त्यागप्रवृत्तिर्विलासकीटेषु मौहम्मदशासकेषु नावाप्येत नूनं गवेषिताऽपि। स्वोद्देश्यं स्थिरीकृत्य तदनुसारं जीवनपरिचालनं मन्ये आर्यसन्तानैरेवात्मसात् कृतम्।
श्रुत्वैवेदमकबरहृदयमाहन्यत। आत्मन: प्रमादमवधानेन भावयतस्तस्य स्मरणमभूद् यदस्मिन्नेव भवने, एतस्मिन्नेव भूप्रदेशे मया मानसिंहसमक्षे यत्प्रतिज्ञातमासीत्तस्य हन्त व्यतीतास्त्रय: संवत्सरा:! सङ्कुचित: सम्राट् तत्कालमब्रूत-"सखे मानसिंह! स्वीकरोम्यहमात्मन: प्रमादम्। सेयं राजसत्ता सत्यमुन्मादिनी मानवस्य।
अभिनिविष्ट: श्रीमान्मानसिंह:पुनरवोचत्-""श्रीमन्! सर्वां राजसत्तां कथं नि:सम्भ्रमं तुलयसि। न विलोकयसि किमस्मान्, ये भवनपरिजनान्विहाय, जीवनस्य प्रमोददायिनीं सर्वामपि सामग्रीं परित्यज्य दूरे निपतिता: स्म:। सर्वमेत्किन्निमित्तम्? नास्य निमित्तमिदं यद्वयं मोगलनरपतीनां विभवेन जीवाम:। नापि चैतस्य कारणं यच्चाटुकारितया जीवनस्यामूल्यानभिनन्दनीयांश्च क्षणान्व्यर्थं विगमयितुमिच्छाम:। एतस्येदमेव प्रयोजनं यद्देशव्याप्तामनेकतामपनीय भारते एकराष्ट्रस्थापनस्य मङ्गलमर्जयाम:। अस्माभिरत्रभवत: साहाय्यमर्थितम्। अतएव श्रीमताऽपि स्वस्योत्तरदायित्वं न जातुचिद्विस्मरणीयम् ।"
ओजस्विनीमिमां वक्तृतामभिनिशम्य हतप्रभोऽभूदकबर:। किमासीदेतस्योत्तरम्? स ह्यात्मन: प्रमादमङ्गीचक्रे। आसीदितिहासप्रसिद्ध: सोऽयमेव गुणोऽस्मिन्नकबरसम्राजि। तत्कालमेव स प्रमुखसामन्तानाहूय पञ्चसहस्रसादिसेनां तदायत्तीकृत्य मेदपाटविजयाय विससर्ज। प्रस्थानसमये स्वप्रतिनिधिं मानसिंहमाह स्म सम्राट्-प्रियसुहृन्मान! राजपुत्रगौरवे सम्राट्सम्माने च न काचिन्न्यूनतानुष्ठीयेतेति न मन्ये सुखतो वक्तव्यं स्यात्। मोगलसाम्राज्यस्य सर्वस्वभूताद्विरराजकुमारान्मम का सुमहती प्रत्याशेति स्वयं भवान्वेद। केवलमिदमेव सूचनीयं यत्स्वोद्देश्यनिर्वाहे प्राणपणेनाऽपि यतनीयम्, सत्यावश्यकत्वे च त्वरितमहमासूचनीयो येन तत्कालमेवाहं प्रचुरसेनया भवत: समीपमुपगच्छेयम्।
मानसिंहो माण्डलगढं मध्ये विसृज्य हल्दीघाटीसन्निधौ वर्णाशनद्यास्तटे स्कन्धवारमास्थापयामास। राणा अपि संवादेनानेन निश्चिक्ये तदिदमेव यत्पर्वताश्रयेणैव सम्प्रति योद्धव्यमिति। अतएव सेनां संवहन् "गोगूंदा" स्थानमामुञ्चन्,स हि मानस्कन्धावारात्क्रोश-त्रितयान्तराले निजनिवेशमातिष्ठिपत्।
सर्वत: पूर्व गुप्तचरान्समन्तत: सम्प्रेष्य तदिदं जज्ञे कुमारो यत्कियती सेना मेदपाटेशितुरिति। यदा चास्य विदितमभूद् यत्सौकर्येण सेयं विजेतव्या , तदा सोऽयमायोधनस्यायोजनं चक्रे। सम्प्रति स्वाधीनसेनापतिं सतर्क तया सज्जयामास सोऽयम्। यतोऽयं सर्वथा जानाति स्म यदधुना योद्धव्यो न नाम साधारण:! मेदपाटिन: पार्थिवा: कामं कपटपटुमलाउद्दीनमात्मगृहमाह्वयेयु: किन्तु समराङ्गणे प्राणेषु सत्सु न कदाऽपि ते परावर्तेरन्। एकदा मानसिंहस्याऽभूद्विदितं यद् राणा स्वल्पानेव सैनिकानादाय मृगयायै निर्गत इति। आसीच्च बहुनां परामर्शो यद्राणानिग्रहस्य सोऽयं सदवसर इति। किन्तु मानी मानसिंहस्तदिदं वीरनीते: विशेषतश्च स्वस्वरूपस्यानुरूपं नानुमेने।
प्रारम्भे सम्मुखसमर:। राणा निजसैन्यं द्विधा चक्रे। एकमात्मनोऽधीनतायाम्। अपरमन्यस्य निजसामन्तस्याधीनतायाम्। एतदनुसारं मानसिंहोऽपि द्वेधा विभक्तवान्सेनाम् -एका निजस्य सैनापत्ये, द्वितीया यवनसेनानायकस्याऽधीनतायाम्। प्रथमदलस्य (अर्थात् राणा- मानसिंहयोर्हिन्दुदलस्य) यदा प्रारम्भे सङ्घर्षस्तदा द्वयोरपि राजपुत्रदलयो: क्षत्रिया न मिथ: परिचीयन्ते स्म यदयं राणापक्षीय:, अयं च सम्राड्दलभुक्त:। मोगलसैनिका मोगलसेनापतिं पप्रच्छु: कस्मिन्दले प्रहराम इति।
हन्त सोऽयं सेनापतिर्मुस्लिममनोवृत्तेरासीत्। मुस्लिममनोवृति: केवलं मुसल्मानानामेव पक्षं पोषयति, कामं ते सत्यपक्षस्था भवेयुरथ गर्ह्यपक्षस्था:। तेषां संसार इस्लामस्य संसार:। मुसल्मानं विहायाऽन्यजातीय:कश्चित्पुरूषो यदि मुस्लिममनोवृते: पुरूषस्य प्राणतिगामपि सहायतां कुर्यात्तथापि सत्यवसरे स हि उपकारकेण सह कृतघ्नताव्यवहारं न मानयत्यनुचितम्। प्रत्युत इस्लामेतरस्यापकरणं ते स्वधर्मस्य महत्त्वपूर्णं पालनं मन्यन्ते। अत एव सेनापतिरसौ प्रादादुत्तरम् - ज़ेहर तरफ किशवद कुश्ता सुदे इस्लामस्त (कोऽपि कस्मिन्नपि दले म्रियताम्, इस्लामदलस्य लाभ एव ) मुस्लिमसैनिका उभयपक्षीयेष्वेव हिन्दुषु बाणादीन्निचिक्षिपु:। उभयत एव हिन्दवो विससृजु: प्राणान्। अत एवास्य युद्धस्य परिणाम: स्पष्टं परमेश्वरायत्त एव।
सम्प्रति समरे प्रावर्द्धिष्ट राणासैन्यमग्रे। मानसिंह: प्रवृद्ध्य निरूरोध तदिदमाक्रमणम्। द्वयोरपि दलयोर्न्यबध्यत दन्तिनां मिथो युद्धम्। प्रतापश्च मानश्च द्वावेव निजनिजशौर्यस्य ददतु: पूर्णं परिचयमेतस्मिन्सङ्ग्रामे। पन्नगो यथा विकृतिं प्रापित एव भयङ्करतामवलम्बते तथा द्वयोर्दलयो: क्षत्रिया अपि निजमानमर्यादां सङ्कटगतामवेत्य प्राणपणेन तद्रक्षायै भयानकमयुद्धयन्त। राजन्येषु नैवंविध:समर: शताब्दीष्वेतासु जात: स्यादित्यैतिहासिकानामुदीरितम्। कदाचिन्मेदपाटीया: समभूवन्विजयिनस्तर्हि कदापि कच्छपघाता: प्रादर्शयन्प्रकामवीरताम्। भयङ्करे ग्रीष्मे भयानकोऽयं समरो वीरहृदयेष्वपि क्षोभम्, वीरप्रणयिनाममराणां मनसि च कौतुकमुत्पादयामास।
सम्राट्सुत: सलीमोऽपि दन्तिमेकमारूढो देशैकवीरयोरनयोर्द्वन्द्वयुद्धमपूर्वं पश्यन्नासीत्। सहसा प्रतापप्रेरित: पृषत्क एक: सम्राट्मतङ्गजे प्रापत् । सलीमो दैवेन रक्षित: किन्तु तदाधोरणस्तदैव प्रापत्पञ्चताम्। मानसिंह: स्वयमुपागमत्सूक्ष्मेऽस्मिन्नवसरे। स हि निजबाणै: प्रतापमाहतं मूच्छ्रितं च चक्रे। चेतकनामकस्तदीयोऽश्व: स्वामिनो विपत्तिमनुमाय तदैव सङ्ग्रामाद्दूरं निन्ये।
सम्प्रति सेनासु प्रावर्द्धत तुमुलम्। मेदपाटीया: पराभवमवापन्। सहस्राधिका: प्रापु: परलोकपथिकताम्। अभून्मानसिंहो विजयी। समरे समाप्त एव स हि सर्वत: पूर्वं द्वयोरपि पक्षयोराहतानामुचितपरिचर्या मृतानां सत्करणस्य चक्रे प्रबन्धम्। अद्यावधिजातेषु हिन्दु-मुसलमानसमरेषु सर्वत: प्रथम: सोऽयमेव सङ्ग्रामोऽभूद्यत्र विजयशालिना मुसलिमपक्षेण क्षतविक्षतानां विपक्षीयहिन्दूनां प्राणरक्षायै प्रबद्धं स्यात्।
प्रतापसिंहं पूर्णतया पराजित्य, चित्रकूटे निजवैजयन्तीं निधाय च मानसिंह: सेनयाऽवशिष्टया सह पराववृते राजधानीम्। आसीदकबरो दिल्ल्यामेव तदानीम्। मार्गे अप्रार्थिताऽपि स्नेहवशात् प्रहिता सम्राड्वाहिनी मिलिता तस्य, या तत एव परावर्त्य नीता तेन सार्द्धं स्वेन्। अकबरो यदेमं विजयसंवादमशृणोत्तदा धावन्नसौ मानसिंहेन सङ्गन्तुमागादभिमुखम्, तथा चाश्लिक्षत यथैकं पिता विजयिनं प्रियपुत्रमालिङ्गति। यदा स युद्धस्य सर्वं वृत्तान्तमशृणोत्तदा मानसिंहस्य वीरतामुन्मुक्तहृदयेन प्राशंसीत्। वार्ताऽपि सेयं सत्यैवासीत्। पर्वतप्रान्तेऽवस्थितस्य मेदपाटस्य विजयो मोगलसेनाया नासीत्कथञ्चिदपि सुकर:। सेयं मानसिंहस्यैव वीरतासीद्यया तदिदं दुष्करमप्यकारि।
मानसिंहेन समये विदितमासीद् यद् द्वितीयो मोगलसेनापतिरस्मत्सैनिकानपि निहन्तुमाज्ञापयत्समरे। तदिदमवगत्य सुतरामकुप्यन्मनस्वी मानसिंह:। यदा ह्यकबरस्तस्मै पुरस्कारं प्रादात्तदा निर्भयमवादीन्मानसिंह:-"श्रीमन् ! पुरस्कारस्तु राजपुत्राणां कृते सोऽयमेव यद्दीयेत तेभ्यो मृत्यु:! एतस्य स्वीकृतिरपि प्रादीयत पूर्वम्।"
अकबर: सासूयमुदतरत्- "अहो किमिदममङ्गलमाभाषसे। मृत्यु: स्याद् भवत: शत्रूणाम्। त्वं जीव, सहस्रं शरदश्च जीव। भवद्भुजयोरेव मे साम्राज्यमवलम्बितम्। सत्यमहं वच्मि- भवदुपकारान्नाहमाजीवनमपि विस्मरेयम्। अत एव किञ्चिदिमं पुरस्कारं मे कृतज्ञतास्मारकरूपेण स्वीकर्तुं प्रसीद।"
नि:साध्वसमुक्तं मानसिंहेन-"एकस्य मुसलमानशासकस्य मुखाद् हिन्दुरेको, यो हि तस्य विजये प्रधानसहायकोऽभूद् यद्विधस्याऽऽदेशस्याऽऽशां कर्तुं पारयते सा ह्याज्ञा साम्प्रतमेव उदयपुरविजये प्राप्ता मया, किमधुनापि किञ्चिदन्यदवशिष्टम्?"
वराकोऽकबरो नाद्यावध्यपि किञ्चदवाबुध्यत, चकितोऽवोचत स:- "किमिदमाभाषसे, किं काचिदघटत दुर्घटना? यावत्कालं नावबोधयसि मां सर्वं वृतं, न तावन्मे ह्रदये निश्चिन्तता।"
सम्राजो निर्मायमन्त:करणं विदित्वा समग्रमपि वृतान्तमवाबोधयन्मानसिंहस्तम्। श्रुत्वैवाऽकबर: परमं प्राकुप्यत्। मध्येसभमेव मुसलमानसेनापतिमिमं निजपदत: प्रच्याव्य क्रूरतरं दण्डयामास। स्पष्टतरं घोषयामास-"यो मे शासने दूषितानेवंविधान् भावान्प्रसारयितुं प्रयतेत देशद्रोहिणस्तस्य जीवनं धनं च मे निकटे भूरि सङ्कटे पतेदिति सर्वै: सर्वदा बोद्धव्यम्।" मानसिंहं चावोचत् "एतदद्य सूचयित्वा भवता मे भविष्यदर्थे सावधानता विहिता। अहं निश्चितं विश्वसिमि। यन्मे राज्ये नैवंविधा दुर्घटना पुन: संघटेत। यदापि हिन्दून् प्रति मुसल्मानस्य कस्यचिद्दुर्व्यवहारं भवान् शृणुयात्तत्कालमेव निस्संशयं मां सूचयेत्। प्रिय मान ! सम्प्रति स्वीकुरू मे तदिदं प्रणयोपायनम्।"
मानसिंह: प्रसन्नमुद्रया पर:कोटिमुद्राणामुपहारमिमं स्वीचक्रे ।
(७)
ताटस्थ्येन सम्मुखसमरे
राणाप्रताप: पराजयमिमं हृदयकण्टकमिव न शशाक विस्मर्तुम्। शक्ते: सञ्चयेऽपि मुहुर्मुहुरसफलता, स्त्रीपुत्रादीनां वनाद्वनमाहिण्डनम् ,वन्यफलैर्जीवनं चेत्यादि कियद्वा तस्य सह्यं स्यात्? अत एव विवशतयाऽकबरस्याधीनतां प्रत्यभिमुखीभवन्नपि मन्त्रिणो भामाशाहस्याभूतपूर्वेण त्यागेन प्रोत्साहित: पुनरसौ सैन्यसङ्ग्रहमकरोत्। देशभक्तो भामाशाह: सर्वामप्याजन्मसञ्चितां सम्पत्तिं समार्पिपत् स्वामिने। सम्प्रति पर्वतनिलया भिल्लादयोऽपि प्रतापस्य सेवां स्वीचक्रुर्येषामद्भुताऽऽसीत् क्षमता शरसन्धाने। एवं नवीनशक्तिसञ्चयेन शनै: शनैरसौ अपहारितानि निजस्थानानि पुनरधिचक्रे। पुनरस्य प्रभावस्तत्प्रान्ते परित: प्रासरत्।
यथासमयमेव संवाद: प्राप्नोन्मोगलराजधानीम्। विषीदन्नकबर: पुनराह्वयन्मानसिंहम्। मानसिंह: सर्वमिदमवगत्याऽवोचत्-"नि:संशयं प्रताप एको वीराग्रणी:। तस्य शौर्यं देशाभिमानं च प्रत्येकं मेदपाटीय: पूजयति। स यत्कर्तुमिच्छति नाऽसम्भवं तत्। "
मानसिंहो मुसलमानसेनापतेर्हिन्दून् प्रति दुर्व्यवहारं नाद्यापि व्यस्मरत्। तस्यासीदभिलाषो यद् अस्मिन्वारे कञ्चिद् यवनमेव प्रेषयेदकबरो येन मे साहाय्यस्य शौर्यस्य च तारतम्यं परिचिनुयादसौ। साम्प्रतं त्विदमपि परिज्ञानं नासीत्कस्यचिद् यत्प्रताप: कस्मिन् स्थाने तिष्ठतीति। अकबरस्येच्छानुसारं मानसिंह एव गणेषणाभारमिममगृह्णात्। भिल्लानां भयङ्करमाक्रमणम् गिरिगह्वराणां मार्गाणां च विषमताम् अहर्निशं शत्रुभिर्निजपरिवारणस्य भयमित्यादीन्यखिलान्यपि सङ्कटानि विषह्य कठिनतया मानसिंह: प्रतापस्य निवासानुसन्धानमकरोत् किन्तु नासीत्साध्यं तस्य निग्रहणम्। यत: स न्यलीयत कस्मिञ्श्चिद् गिरिगह्वरे।
मानसिंहोऽस्मिन्वारे सैनापत्यायासीत्तटस्थ:। अत एवाऽनिच्छन्नप्यकबर: शहबाजखानं प्रधानसेनापतिं नियम्य महतीं सेनां प्रैरयत्प्रतापस्य निग्रहाय। तत्सहायतायै च प्राहिणोन्मानसिंहम्।
शहबाजखानस्य दुष्प्रकृतिं पूर्वत एव पर्यजानान्मानसिंह:। इत: शहबाजोऽपि भगवन्तदासमानसिंहयो: प्रत्येकयुद्धविजयै: सम्राट्समादरैश्चान्तरीर्ष्याकलुष: प्रासीदन्मानसे यन्मानसिंह: साम्प्रतं सहायक: केवलं , न नाम नायक: सेनाया:। किन्तु मानसिंह: सत्यमासीन्मित्रं सहायकश्च सम्राज:। अतएव क्षत्रियाणां मनोवृत्तेरनभिज्ञस्य शाहबाजख़ानस्य समये समये जायमानं प्रमादं स मुहुर्मुहुरसूचयत्सत्यपि तस्य कोपे। किन्त्वन्ते सेनापते: कुटिलमनोवृत्ति: प्रतिपदमरुन्तुदाऽभून्मानसिंहस्य। अतएव तत्र निवासमयशस्करं भावयन्नवोचदेकान्ते सेनापतिम्- "सेनापतिमहोदय! प्रतिक्षणं नास्य विस्मरणं स्याद् यदस्मिन्वारे यै: सह संयोद्धुं श्रीमानुपगतस्ते किल लोकातिशायिन: प्राणिन:। तेषां जीवनचर्यां प्राणातिशायि साहसं चालोक्य प्रपलायिष्ट वीरमानिनामपि साहसम्। एतदुपरि साम्प्रतं ते निजमातृभूमेर्भक्तिभावेनाऽनुप्राणिता: प्राणानपि तृणीकृत्याऽन्तिमयुद्धाय सन्नद्धा:। एवमवस्थायायां स्वल्पेऽप्यनवधाने विजयाऽऽशाया: स्थाने प्राणाशापि भवेद्दुर्लभा। नैवं भवेद् यत्किश्चिन्मात्रप्रमादादेव अद्यावधिसमधिगता पूर्वाऽपि सफलता विफला भवेत्। अहं नैकवारम्, अपि तु वारं वारं भवत: प्रमादमसूचयम् किन्तु शोधनस्य परिवर्ते क्रोधनभावमुपगतो भवान्। अतएव नीतिमिमामनभिरोचयन्नहं नाऽत्र मनाक् तिष्ठामि। हितसूचनामिमां न विस्मरेद्भवान्" इत्युक्त्वैव मानसिंहो निजपित्रा सह परावर्तिष्ट समीपे सम्राज:।
शहबाज: प्रासीदन्मानसे यत्कण्टको व्यपगत:, प्रतापविजयस्य यशोभागहमेव साम्प्रतं भवेयम्। सूचयेयं सम्राजे यत्सोऽयं विजयो हलदीघाटीविजयादपि महत्त्वशाली। प्रारभ्यत सङ्गर:। प्रताप: पुरातननिजनीते: प्रत्यकरोत्पुनरावृत्तिम्। अर्थात् पर्वतगहने प्रतिपन्थिनं परिवेष्ट्य स्वयमसंस्पृष्ट: पर्यगच्छत्। पर्वतमार्गाणामनभिज्ञ: शहबाजस्तत्रैव परिभ्रमन्महता कष्टेन सहायकस्यैकस्य द्वारा प्रेषयामास सहायताप्रार्थनां सम्राज: समीपे। मानसिंहात्सर्वं वृत्तमवगत्याऽकबर: पूर्वमेवासीदसन्तुष्ट:, साम्प्रतं संवादेनाऽनेन समकुप्यत्सुतराम्।
किन्तु निजस्याऽनिच्छायामपि साम्राज्यस्य लज्जारक्षायै प्राहिणोद्विवश: सैन्यमकबर:। परं व्यर्थमखिलम्। असम्भवमासीत्साम्प्रतं शहबाजस्य कृते प्रतापस्य निग्रहणम्। क्षत्रियमल्लानां भिल्लानां भल्लानां चोभयेषामेव मर्मणि मर्मणि परिचितोऽसौ सम्प्रहारे न प्राप पलायनस्यापि पन्थानम्। अभूत्पराजयो मोगलानाम्। हारितानि निजदुर्गाणि पुन: प्रत्यधिकर्तुं प्रारेभे राणा। कुटिलाधिराज: शाहबाज: साम्प्रतमजानान्मानसिंहस्य शौर्यं च शिक्षां च। मोगलसाम्राज्यमात्रे मानसिंह एवासीद् राजपुत्रवीराणां गतेर्मतेश्च विज्ञाता। मेदपाटक्षत्रिणां नीतेस्त्वेकमात्रमासीदसावेव परीक्षानिकष:। प्राज्येऽपि मोगलसाम्राज्ये न कश्चिदासीदेवंविधो य: सम्मुखसमरे पराजयेत प्रतापम्।
(8)
भारतस्य पश्चिमोत्तरप्रान्ते
जनितातुलहर्षा: समागमन्वर्षा:। वियति विशङ्कटा नीरदघटा अपूर्वामेवच्छटां विच्छुरयामासु:। कादम्बिनीमधिरुह्य नयनोन्मादिनीमवलम्बते स्म शोभां सौदामिनी। प्रवहन्तीनां सर:-स्रवन्तीनां तटे हरितहरितोद्यानानां निकटे सप्रमोदमनुभवन्ति स्म शोभामिमां भ्रमणविलासिन:। सम्राडकबरोऽपि मित्रै: सह समवस्थितो विलोकयति स्म परितो विसारिणीं शोभामिमाम्। भारतस्य प्राकृतशोभया विवशीकृतहृदयो नियोजयामास वाचमिमामसौ सत्यमीश्वरो भारते यामनुकम्पां विदधे न सा विविधेष्वप्यन्यदेशेषु। हरितहरिता भूमय: प्रवहन्त्यो नदी-नालिका: , सुन्दरसुन्दरा गिरिकन्दरा: क्वाऽन्यस्मिन्देशे विलोक्येरन् भारतमन्तरा।
मान० - भवेयुरन्येऽपि देशा: सुन्दरा:, किन्तु कस्मिश्चिद्देशे काचिन्न्यूनता तर्हि काचिदधिकताऽपि। कुत्रचिज्जलस्यैकान्तमभावस्तर्हि कस्मिश्चिद्देशे जलस्यैव सर्वत: प्राचुर्यम्। परं भारते प्राकृतसौन्दर्यस्योल्लासका: सर्व एवावयवा: समानरूपेण प्राप्येरन्। अत एव भारतमिदं भूखण्डेऽप्यखण्डे परिगण्यते तावदप्रतिमम्।
समभूत्सम्राज: प्रस्ताव:-"अस्मिन्मानसोन्मादके रम्यसमये गानमावश्यकम्"। तत्कालमाकार्यन्त देशदुर्लभा वेशवनिता:। अभूद्रम्यैर्वाद्यै: सुमधुरसङ्गीतम्। पूर्वं तु निसर्गमधुरा: स्त्रियस्ततोऽपि वाराङ्गनास्तत्रापि प्रणयगीति:, तदुपरि प्रस्फुरन् ऋतो: प्रभाव:। सर्वैरपि सम्भूय प्रमदमुपनीतं मानवमन:। सहैव प्रमोदबन्धुरा सुरापि स्फटिकभाजनेष्वितस्तत: समखेलत्। सर्वैरमीभिरुपकरणैरदम्योत्साहसमुत्तेजितस्तानसेनोऽपि विरहवेदनागीतिमेकामकस्मादगायत्। गानं किमासीत्, अलौकिक: सम्मोहनमन्त्र:। मेघा अवर्षन्, प्रचुरं चावर्षन् गगनतलान्नयनयुगलाच्च।
विनोदस्यास्याऽनन्तरं प्रारभ्यत भोजनम्। भोजने नानाविधव्यञ्चनान्यन्तरा समभूवन् पुष्कलानि फलानि। विलम्बपर्यन्तं समभूवन् विश्रम्भसंलापा: सहैव भोजनं चापि। न्यवर्तयश्चिरात्पानभोजनम्। ततो निवृता एव जना: स्वस्वावासोन्मुखा अभूवन्। समग्रदिवसस्य परिश्रम: सर्वानप्यकरोद्विवशान्विश्रमाय। परावर्तन्त गृहान् सर्वेऽपि। मानसिंह: अन्ये च केचित्परिगणिता: समतिष्ठन्त सविधे सम्राज:। जनान्तिकमालोक्य मानसिंह: समवोचत्-"आसीन्ममेच्छा यदस्मिन्प्रमोदसमये न समागच्छेत्कश्चिद्विघ्नो विनोदे भवत:, किन्तु सहसा समुपस्थितया विकटपरिस्थित्या भवता सह मन्त्रणार्थमहमापादितोऽस्मि विवश:। चेदप्रियं न प्रतीयेत तर्हि निवेदयेयम्।"
""मानसिंह! यदि कार्यमावश्यकं तर्हि ब्रूया नि:संशयम्। संसार: शक्नुयात्कामं वक्तुमकबर: कामुको विलासी चेति,वक्तु नाम स:। किन्तु कामुकता विलासिता वा मे साम्राज्यहितसाधने नोपनेतुं शक्नुयाद्विघ्नम्। साम्राज्यनिर्माणे तस्य हितसम्पादने च पारयाम्यहमश्रान्तं परिश्रमितुम्। ब्रूहि तूर्णं ब्रूहि किं वृत्तमिति।"
मान० (आत्मगतम्)सम्राज: स एवाऽयं गुणो विवशीकृतवान्मां मित्रतामवलम्भितुम्। गीतविलासादिकं प्रियमेतस्येति सत्यम्। किन्तु नानेन सोऽयं साम्राज्यमपवर्जयति। यदापि विपदमुपगतां भावयति, निवारयति तामेतां सर्वप्रयत्नै:। (प्रकटम्) संवादो मह्यमावेदितो यद् भवत: सापत्नेयो भ्राता मिर्जा मोहम्मदहकीम: पञ्चनदसीमाप्रान्ते भयङ्करमाक्रान्तवान्। प्रसृत्य चाग्रे सोऽयं साम्राज्यमपि दोग्धुं कामयते। साम्प्रतमेवाऽप्रतिकृत: प्रवृद्धो विह्नरिव निरूपायो भवेदिति जाने।
अक० - (आश्चर्यमुपगच्छन्) हन्त नासीदियमाशङ्का मे मिरजात:। तत्साहाय्येन पश्चिमप्रदेशानधिकर्तुमहमैषिषम्। अस्तु, निर्दिश कञ्चिदुपायम्।
मान० - अभियोक्तॄणां समीपे सेनासम्प्रेषणामन्तरा कोऽन्य उपाय:? अवश्यं काचित्सुशिक्षिता योग्येनाधिकृता सेना तत्र नियोज्या। नान्यथा सीमाप्रान्तस्य निर्भयता।
अकबर:- मन्त्रोऽयमवश्यं हितकृत्, किन्तु एतावद्दूरं को वा सोत्साह: प्रेष्यतामित्येव विचारणीयम्।
हिन्दुविद्वेषिणो यवनान्न विस्मरति स्म कदाचित् मानसिंह:। तेषां सर्वदार्थं मुखमर्द्दनं वाछन्नवोचत्-"अस्मिन्वारे त एव प्रेषणीया ये मुहु: कथयन्ति यद्विजयकर्तव्यानि सर्वाणि मानसिंहायैव दीयन्ते, वयं प्रतीक्षयैव निराशास्तिष्ठाम:," इति ।
अकबर:- (सस्मितम्) वीराग्रणीर्मान! मानयाम्यहं यद्भवन्तमन्तरा नान्य: कार्येऽस्मिन् सफल: स्यात्। किन्तु भवदिच्छानुसारं श्व एव साम्राज्यसभायां प्रस्तावमिममुपस्थापयिष्ये। न मे कस्माच्चिदाशा। त्वं सन्धेक्षि जातुचिद् यदहं भवद्गुणान्न परिचिनोमि, अत एव न प्रकाशयामि मुहु:। किन्तु भवद्गुणै: प्रकामं वशीकृतस्तेषां कीर्तनमपि प्रभावमन्दीकरणं जाने। अस्तु, श्वस्तदिदं निर्णीयेत। सम्प्रति विश्राम्यतु भवान्।
अभूत्परदिने साम्राज्यसभा। उत्सवनिसर्गा यवनास्तद्दिनेऽपि प्रमोदमहोत्सवं भावयन्त: समुदग्रशृङ्गारा: समाजग्मु: सभायाम्। किन्तु समये स्वयं सम्राडेव सीमाप्रान्तस्य परिस्थितिं प्रकाश्य-तत्र प्रेषणीयाया: सेनाया: कृते समुपस्थितेषु सदस्येषु सेनापते: कस्यचिद्वरणं सूचयामास। किन्तु प्रस्तावं श्रुत्वैव व्यलोक्यत सर्वतो निस्तब्धता। वीरताप्रकाशनाय चिरायोत्कण्ठितानां न कश्चिन्निश्वासमपि जग्राह। श्रीमता मानसिंहेन यदा दृष्टं न कश्विद्वीर: प्रगल्भते साम्राज्यकार्याय, तदा निर्वीरमुर्वीतलमिति श्रवणात्पूर्वमेव सविनयमुत्तस्थौ स्वस्थाने।
अकबर: सर्वां स्थितिं प्रत्यक्षीकृत्य प्रकाशमब्रवीत्- "अद्य मन्ये सर्वैरवगतं स्याद्यन्मानसिंह: किमिति सर्वतोऽधिकं सम्मानमासादयति। अहमाशासे ये स्पर्द्धाशीलास्ते समाद्रियेरँस्तस्योदारतासहचरीं वीरताम्। ये तु साम्प्रतमपि विप्रतिपद्येरंस्ते युद्धयात्रायामस्यां सम्मुखमागत्य निवर्तयेरन्। "अदृश्यत तदनन्तरमपि नीरवता।
तस्मिन्नेव समये मानसिंहं पञ्चाम्बुराजधान्या: (लाहोरस्य) प्रधानशासकं चकार, राजकुमारस्य मुरादस्याधीनतायां नियमयामास चैकां वाहिनीं तस्याऽधिकारे। प्रसन्नतया स्वीकृतेऽस्मिन् सम्माने मानेन, व्यसज्र्यत सा राजसभा।
एकस्य वर्षस्य पूर्तेरभ्यन्तरमेव मानसिंहेन सेना सा स्वाभीष्टानि सर्वाण्येव कार्याण्यशिक्ष्यत। प्रान्तीयमार्गाणां भयानकता पूर्वमेव बोधिता तेन सैनिकेभ्यो येन समये ते तदर्थं सन्नद्धा: स्यु:। शुभे मुहूर्ते प्रातिष्ठत मानसिंह:। स्वयमकबरस्तस्मै विजयमाल्यमर्पयामास। कठिनमार्गानुल्लङ्घयन्ती प्राप लवपुरं मानसेना। तस्या: पुरस्तादेव मिर्जाकर्णयो: प्रययौ मानसिंहस्य वीरता च यशश्च। मिर्जा राज्यादिप्रदानद्वारा मानप्रलोभनाय स्वयमुपययौ तस्य स्कन्धावारे। किन्तु मानसिंहो नैकामपि तत्कथां कर्णे चक्रे। स्पष्टमनेनोक्तं यदि कुशलं वाञ्छसि तर्हि सह मया प्रतिष्ठस्व सम्राज: समीपे।
एष्वेव दिनेषु सिन्धुप्रान्तीयाच्छासकादप्यसन्तुष्ट: सम्राट सिन्धुप्रदेशस्यापि नायकं मानमेव निर्ममौ। स्वयं चाकबरो महतीं चमुं कर्षन्समाययौ सिन्धम् । द्विगुणितोत्साहो मान: सम्प्रति "काबुल" प्रदेशोपरि चक्रेऽभियानम्। सैनिका: "काबुल"नदीलङ्घने इतस्ततश्चक्रु:, किन्तु तुरगारूढ: श्रीमान:स्वयं पुप्लुवे नद्यां सर्वत: पूर्वम्। सर्वापि सेना नि:शब्दं तमन्वगात्। परपारे गत्वा निबबन्ध महासमरम्। समग्रोऽपि काबुलप्रदेशो मानसिंहस्याधीनतां स्वीचक्रे। शत्रव: साहसमिदं दृष्ट्वा कान्दिशीका: पलायिषत।
सुप्रसन्न: सम्राट् पुरुषपुर (पेशावर) प्रान्तस्य सीमाप्रान्तस्य चापि शासकं मानसिंहं नियम्य परावर्तिष्ट निजराजधानीम्। न नाम केवलं विजयमात्रेण कस्यचिद्देशस्य शासनं सम्भवति। असभ्या: पर्वतवासिनो यवना:(अफगान) नित्यनवीनैरुपद्रवै: शासकान्पीडयामासु: पूर्वम्। किन्तु "शठे शाठ्यं" समाचरेत् इति नीतिं प्रयुञ्जानो मानो देशमात्रे तादृशीं कू्ररशस्त्राहतिं प्राचारयद्यां दृष्ट्वा "त्रायस्व त्रायस्वे" त्याक्रोशन्त: शरणमुपययुस्तेऽपि। तत: समयोचितं बुद्ध्वा कांश्चिच्चक्षमे, कांश्चिच्च प्राणदण्डेनादण्डयद् येन सर्वेऽपि क्रूरा: समभूवन्नतमस्तका:।
तदेवं तेषां दृष्टां वृत्तिं दमयित्वा शनै: सुशासनेन सर्वांस्तान् वशे चक्रे। यत् सुखं या च शान्तिर्यद्विधा च सम्पत्तिस्तैरस्मिन् समयेऽनुभूता न सा तैर्यवनशासकानां शासने दृष्टा पूर्वम्। अतएव सुखशासने वसन्त: सर्वे मानवगुणगीतिमगायन्मानसेन।