(9)
सिद्धान्ते निर्भयता
अकबरो न मेने केवलं राजवृद्ध्यैव स्थिरताम्। स हि निश्चितशासनपद्धतिं कर-व्यवस्थां मुद्राप्रचलनं नानाविधपरिमाणादिनियमनं चापि प्राचारयद्भारते राज्ञष्टोडरमल्लस्याभिमतेन। किन्तु विना एकामादर्शं विना चैकं धर्मं यत्नशतैरपि न साध्यं सुदृढमेकं राष्ट्रमिति चिराद्विचारेणाऽसौ निरधारयत्। अत एव आर्य-जैन-बौद्ध-ईसाई-इसलामप्रभृतिसर्वधर्माणां विदुषामाह्वयदसौ समये समये सभाम्। सममानयच्च सर्वान्। अन्ते फैजी-अब्बुलफज़लयोर्मन्त्रणया सर्वधर्माणां मूलसिद्धान्तान् सङ्गृह्य नवीनमेकं धर्मं निर्ममौ यस्यासीन्नाम "दीने इलाही"। इदानीं जनेष्वेतस्य प्रचारमचिन्तयत्। अब्बुलफजल फैजी चेति द्वावपि सर्वत: प्रथमस्य दीक्षामग्रहीषाताम्।
सर्वं भारतमभिव्याप्य स्थिते हिन्दुधर्मेऽस्य सम्प्रदायस्य प्रवेशं वाञ्छन्नसौ मनसि निश्चिकाय यदि भगवन्तदासमानसिंहौ मतमिदं स्वीकुर्यातां तर्हि सर्वस्यामपि हिन्दुजनतायामेतत्प्रवेशस्य द्वारमनायासमुन्मुक्तं भवेत्। अतएव समागते मानसिंहे मर्मस्पर्शिभिर्वाक्यैर्भारतीयानामसंघटितावस्थयाऽनैक्यजनितां दुर्व्यवस्थामवर्णयत्यसम्राट्। मानसिंहेन सरलतया प्रत्युक्तम्-""एतस्योपाय: केवलमेकमात्रं सोऽयमेव यत्सुराज्ये(सुशासने)न भवेत्कदाचिदप्यन्तरम्। शासितानां मनसि कल्पनापि नोदयेद्यत् शासनव्यवहारो द्वैविध्यदूषितोऽस्तीति। "
अकबर: - कथमिदं तावत्कालं सुशकं यावत्कालं भारतीया एकधर्माणो न भवेयु:। ""अपि श्रीमानखिलान् मौहम्मदान् सम्पादयितुं वाञ्छति ?"
""इदं तु मादृशै: सहस्रसम्राड्भिरपि न साध्यम्। यथैव "सर्वे मुसलमाना: स्युरिति चिन्तनं तथैव पतनमिति निश्चितम्। "
""तदा पुन: ? "
""अहं वाञ्छमि सर्वेऽपि सर्वेषामेव धर्माणां तादृशान्मूलसिद्धान्तान् मानयेयुर्यैर्धर्माणां मतानां च मिथो भेद एव न प्रतीयेत। "दीने इलाही" सम्प्रदाये सर्वलोकानां रूचेरनुसारं पर्याप्तो नूनमवकाश:। अहमिच्छामि भवानपि तन्मतदीक्षितो भवेत्। "
""इदं निश्चितं यद्भारते "दीने इलाही" न कदाचिदपि प्रचलेत्। स्वार्थसाधनाय भवतश्चाटुकारितया कतिपये जना: स्वल्पसमयाय चेत्स्वीकुर्युस्तदाऽपि किमनेनाऽस्य प्रचार: सम्भवी ? "
""अहं त्वसम्भवं न मन्ये "
"" सत्यां वार्तां चेदाकर्णयितुमिच्छन्ति भवन्तस्तर्हि असम्भवम्"
""किमिति?"
""अस्य मूलं स्वार्थोपर्यवलम्बितम्। स्वार्थसाधनं च सावधिकम्।"
""किमिति?"
""कथमेतत्? अहं तु भारतस्याऽसंघटितामवस्थां भावयन् नि:स्वार्थं स्थापयितुमिच्छाम्यमुम्।"
""ईश्वरभावनापूर्वकं सूक्ष्मविचारेण श्रीमन्त एव गवेषयन्तु यद् निभृतनिलीने हदयस्यान्त:कोणे भावनाया अस्या अस्फुटरूपेण जन्मजातं न वा यदहं सुशासनेन सह एकधर्मप्रचारणस्यापि श्रेयश्चिरकालायोपार्जयेयम्।"
प्राय: सत्यशीलोऽकबरो नैतस्य समुचितमुत्तरं लेभे ।
(10)
काबुलमारभ्य बिहारपर्यन्तं प्रभुत्वम्
अन्योऽदूरदर्शी सम्राट् चेदभविष्यत् काममकोपिष्यत्, किन्त्वप्रियेणाऽप्यनेनोत्तरेणाकबर: प्रसीददन्त:करणे मानसिंहस्य नैतिकबलमवगच्छन्। अस्तु, आसीत्कुमारो विहारवङ्गयो: शासक:, अत एवोत्तरपश्चिमे सुदृढं प्रबध्य, स्वयमकबरं तन्निरीक्षकं परित्यज्य समागमदसौ वङ्गान्। इतोऽकबरस्य पुरातनशत्रव: उजवेगवंशीया: सीमाप्रदेशे उत्तरोत्तरमभजन्प्राबल्यम्। तेषां नायकस्याब्दुल्लाखानस्यातङ्क: प्रासरत्समन्तात्। काबुलस्य प्रबन्धकर्ता यो हि मोगलसाम्राज्यसेनाऽऽसीत्स्थापित: स तु न प्राभवत्तस्य निरोधे। किन्तु स्वस्यैव सम्मुखे सीमाप्रान्तस्य तादृशी प्रभुत्वहानिर्नाऽभ्यरोचताऽकबराय। प्रत्येककठिनकर्मणि मानसिंहस्यैवाऽऽकारणं तु सङ्कोचादिव नैच्छदकबर:। किञ्च मानसिंहस्य परोक्षे वङ्गेष्वपि नित्यनवीनानामुपद्रवाणामासीदाशङ्का। अत एव मानसिंहं तत्रैव निधायाऽन्यस्य कस्यचन शासकस्य प्रबन्धं यावद्विचारयति तावदेव काबुलप्रबन्धकर्तुर्वृद्धस्य मिर्जामुहम्मदहकीमस्य निधनवृत्तमुपागात्कर्णयोरकबरस्य।
इदानीं काबुलस्य सीमाप्रदेशस्य चोभयोरेव सुदृढ: शासको नाभूत्तस्य दृष्टौ मानसिंहं विहायाऽन्य: कश्चित्सेनापतिषु तस्य। अतएव विवशोऽसौ मानसिंहमाहूय शासकमकरोत् काबुलप्रदेशस्य। किन्त्वत्रागत्य शासनव्यवस्थां दृष्ट्वा च मानसिंहस्य दु:खमभूत् घृणा च। दु:खमिदमासीद् यद् गमनसमये मानसिंहोऽस्य देशस्य तादृशीं व्यवस्थां स्थिरामकरोद् यत्तदनुसारं यदि मिर्जामुहम्मदोऽत्र शासनमकरिष्यत्तर्हि न कश्चिदसन्तोष: प्राभविष्यत्। किन्तु मिर्जा शासनप्रबन्धं किं जानीयात्? कुत्रचिद् बलात्कारं कुत्रचिच्च नम्रतां क्वचिच्च लोभं प्रयुञ्जानो येन केनचित्प्रकारेणाऽसौ दिनान्यत्यवाहयत्। शासनस्य या प्रतिमा सा क्कासीत्तस्मिन्?
अतएव सर्वत: पूर्वं मानसिंह: शासनप्रबन्धमधात्सुव्यवस्थितम्। नास्मिकन्मणि तस्याभूत्काठिन्यम्। विभिन्नविभिन्नप्रदेशेषु शासनव्यवस्थां नानाधा प्रयुञ्जानस्य बाल्यादेव शासकात्मजस्य तस्य, एतद्विषयकोऽनुभवो भूयान्प्रवृद्ध आसीत्। किन्तु मानसिंहस्याऽऽगमने येषां स्वार्थसिद्धौ क्षतिरूपातिष्ठत ते मानसिंहस्य विरोधे षड्यन्त्राण्यरचयन्। प्रजासु बहुलमत्याचरन्,अकबरपरिपन्थिभिरुजबेगवंशजै: सह सम्भूय राजविद्रोहमुदतिष्ठिपन्। उजबेगसामन्ताश्चाऽऽततायिनामेषां साहाय्येन काबुलविजयस्य लालसामधारयन्। किन्तु न ते मानसिंहस्य नीतिमंशतोऽप्यविदन् वराका:। मानसिंहेन गुप्तचरै: सर्वत्र ख्यापितं यत्स्वयं सम्राट् विशालवाहिनीमादाय काबुलदमनाय समायातीति। संवादमिमं श्रुत्वैव ये गुप्तशत्रवोऽभूवंस्ते भयाकुला अभूवन्। आत्मरक्षणस्याऽन्यमुपायमवीक्षमाणा मानसिंहात्क्षमायाचनामकुर्वन्। मानस्यैकेनैव कूटप्रयोगेणोपजापपरा: सर्वे मानसिंहोसेवायामुपातिष्ठन्त।
गुप्तगवेषणया विदितं मानसिंहेन यत्फरीदूँ" नाम्न उजवेगवंशीयस्य दुर्मन्त्रणया सर्वोऽयं काण्ड: समुदतिष्ठत् अतएवाऽकबरविरोधिनो मिर्जाहकीमस्य तनयै: सार्द्धं फरीदूमपि रावलपिण्डीं प्रैषयत्सम्राज: समीपे, यत्र विरोधिनां दण्डेन सह सम्राट् फरीदवेऽपि प्रादाद्घोरामाज्ञां यदित: परमसौ न दध्यात्पदं भारते। देशनिर्वासितोऽसौ शेषं जीवनं धर्माचरणे सफलयितुं प्रातिष्ठत "मक्कां" प्रति। एवं चतु:पञ्चवर्षै: काबुलप्रान्ते पुन: सुखशान्तेर्निवासोऽभूत्।
समापतन् सीमाप्रान्तमाक्रमितुं भूयस्यो जातयो युद्धाय सन्नद्धा:, किन्तु हिमाचलनिरुद्धा वात्या इव निराशास्ता: प्रत्यावर्तन्त तस्मिन्काले। तासु प्रबलं सन्नह्यमानानां पठानानामाक्रमणमभूद्दु:सहम्। आसीन्मानसिंहसंवर्द्धितस्य मोगलसाम्राज्यस्य ईरानराज्येन राजनैतिक:सम्बन्ध:। चक्रुर्गतागतं द्वयोरपि राजदूता: परस्परराज्यसीमायाम्। प्रायासीदीरानराजदूतानां गमनमार्ग: सीमाप्रान्तस्योपद्रवाकुले प्राञ्चले भूत्वा। अत एवासीत्तेषां रक्षाभार: काबुलशासकोपर्येव तस्मिन् समये। प्रत्येकवारे मानसिंहात्पराजयं लभमानां: पठाना: ईरानराज्येन सह मोगलानां विरोधमुद्भावयितुमेकदा तन्मार्गेण गच्छन्तमीरानराजदूतं बलाद् रुरुधु:। आसीत्तेषां नायक: करालाकृतिर्जलालाभिधान:। किन्तु संवादमिममधिगत्यैव पठानशठान् दण्डयितुं समनह्यन्मानसिंह: पूर्णतया। स हि सैनिकान् सहाऽदाय स्वयमुपययौ संयुगस्थले। तत: पठानान् पराजित्य प्रेषयामास यथास्थानं बन्धनमुक्तं राजदूतमिमम्।
सम्राडपि पठानपराभवाय प्राहिणोत्पृतनया सह बीरबलं काबुलम्। किन्त्वपरिचिते विकटमार्गे विवशीकृ तमिमं न्यबर्हयन्त हन्त पठानशठा:। घटनयाऽनया नितान्तमुद्वेलितो मानसिंह: किञ्चिदेव सैन्यं सह नीत्वा प्रययौ पठानशठानुन्मूलयितुम्। तत्र बभूव कियन्ति दिनानि घोरजन्यं पठानानां भिन्नभिन्नैर्दलै:। अन्ते जीवग्राहमगृह्यत नितरामरालाऽऽचरणोऽसौ जलालाह्वय:। विजयास्यास्य तावान्प्रभाव: प्रासरत्परितो यदेतदुत्तरं चिरं यावन्नोत्थापयामासुर्मौलिममी न केवलं पठानपिशुना एव, अपि तु प्रकामं प्राकम्पन्त दारुणा दस्युजातयोऽप्यखिला:। प्रामोदत प्रकाममनेन विजयेन सम्राडकबर:। व्यपादिशच्चामुं विजयम् "फतह अजीम" (सुमहान् विजय:)इति नाम्ना । प्रासिध्यत्प्रशंसाऽस्य परित:, प्रकाण्डविजयस्य। अन्तरीर्ष्याकषायिता अपि ये तावदशृण्वंस्तेऽप्यन्तर्भयम्, बहिश्च श्रद्धामधारयन् मानसिंहाय।
महाराजो भगवन्तदास: समभूत्साम्प्रतं जाबुलिस्थानस्य शासक:। शीतप्रधानमिदं स्थानमुष्णदेशवासिनां नासीदनुकूलम्। अत एव महाराजस्यास्वास्थ्यमालोकयता सम्राजा जीवनशेषं शान्तिपूर्वकमनुभवितुं व्यसर्ज्यत सादरं महाराजो निजराज्याय। अशान्तिबहुलेभ्यो राजनीतिकार्येभ्य: साम्प्रतमुपरामादेव पितु: सौख्यमुपतर्कयत: कुमारस्यऽप्यासीत्सोऽयमेवाभिलाष:। अत एव महाराजं निजराजधानीं प्रापय्य न्ययुज्यत: नियमानुसारं तत्स्थाने कुमारो मानसिंह:। किन्तु नासीदस्यापि प्रकृतयेऽनुकूलं स्थानमिदम्। अत एव सम्राजं प्रबोध्य पुनर्मानसिंहो विहारवङ्गयोरभूत्प्रधानशासक: । आसीदकबर: शीघ्रातिशीघ्रमधिकारपरिवृत्तेर्विप्रतीप:,किन्तु साम्प्रतमपि पूर्णतयाऽनविकृतेषु वङ्गेषु पठानादीनामुपप्लवेभ्यो मानसिंहमेव रक्षणसमर्थं सम्प्रधार्य समनुमेने तथा सम्राट्।
अस्तु, हाजीपुरे पाटलीपुत्रे च कञ्चित्कालं न्युष्य मानसिंह: समग्रामपि देशस्य परिस्थितिं पुनरेकवारं पर्यज्ञासीत्। राजनीतिमर्मसु तस्मिन्काले नितरामद्वितीयोऽसौ अद्यावधिजातेनाऽनुभवेन सुदृढं निश्चिकाय यद्यावत्कालमिह सर्वदाप्येका सुदृढा सेना न निवसेत्तावन्नात्र भवेच्छासनं सुदृढम्। सेना चेयं न भवेदत्रत्यानामधीना। अनेन हि नित्यनवीनानामुपद्रवाणामुद्भव:। अत एव सर्वं सम्प्रधार्य चिरात्सम्परीक्षितान् निजसैनिकानस्मिन्प्रान्ते सेनाधिकृतान्नियमयामास। आसन्नेते प्रायेण कच्छवाहराजपुत्रा:। सेनायामुच्चाधिकारिणोऽप्यमी यदि शीघ्रशीघ्रं निजदेशगमनानुमतिं याचेरंस्तदापि शासनव्यवस्था न भवेद्यथामनीषितं सुस्थिरा। अत एव सुबहु संविचार्य तेभ्यस्तस्मिन्प्रान्त एव भूस्वामित्वम् (जागीरें)सम्प्रददौ, येन तत्प्रबन्धाय ते तत्रैव सुस्थिरं निवसन्त: सेनापरिचालनं शासनव्यवस्थां च चक्रुर्यथावस्थितम्। सोऽयमनुभवो मानसिंहस्य सफल: पर्यणमत्। सर्वदा वीरसैनिकैर्दमितमूला विरोधिनो न प्रतिकूला भवितुमासादयन्नवसरम्।
सुदृढसेनाया: सार्वदिकनिवासाय साम्प्रतमभूत्सुरक्षितसंस्थानस्याप्यावश्यकता। अकबरं सम्प्रबोध्य उपनिवेशस्यैवंविधस्य नियमनाय समसूचयत्सर्वानपि साम्राज्यव्यवस्थापकान्। सर्वमपीदं सम्मन्त्र्य रोहिताश्वदुर्गं यद्धि तस्मिन्प्रान्ते चिरप्रसिद्धमैतिहासिकं सुदृढं चासीदरो चयदेतस्यैव कृते सम्राट्। सैनिकानां तदधिपतीनां च निवासाय निरमापयन्नवीनानि भवनानि , समशोधयच्च जीर्णानि निवेशनानि। स्कन्धावारस्यास्यातङ्कान्नाश्रूयन्त बिहारवङ्गेषु साम्प्रतमुपद्रवा:। स्थिरसैन्यस्य योजनामिमामभ्यनन्दन्मानसिंहस्य सर्वेऽपि राजनैतिका:।
(11)
प्रबलो हृदयाऽऽघात:
निजराजधानीमवाप्य समभूत्स्वस्थो महाराजो भगवन्तदास:। कुमारस्य काबुलविजयोत्तरं वङ्गविहारयोरपि विजयसंवादं श्रुत्वा न ममौ निजाङ्गेषु हर्षान्महाराज:। सम्राडकबरोऽपि यदा यदा महाराजेन समगच्छत् समवर्णयत्तदा तदा वीरगाथा: ससन्तोषं कुमारस्य। यदा च सम्राडयमकथयद् यन्मासिंहो यदि न मे सहायकोऽभविष्यत्तर्हि नाहमियन्ति प्रसिद्धयुद्धान्यजेष्यं न चाप्येतावद्विशालसाम्राज्यं समपादयिष्यं तदा महाराजोऽयं कियत्प्रामोदिष्टेति स्वयमनुमातव्यं मनोमार्मिकै:।
अभूतां टोडरमलबीरबलौ महाराजस्य घनिष्ठसुहृदौ। समविचारतया सर्वदा सहनिवासतया च सर्वेऽप्यमी मिथो विरहे विषादमहवन्। गतयुद्धे राज्ञो वीरबलस्य मृत्युसंवादमवाप्य परममखिद्यत महाराज:। तस्य प्रत्युपन्नमतिता सर्वदा प्रसन्नवदनता च बलाद् विस्मारिताऽपि नापयाति हृदयान्महाराजस्य। स हि सर्वदा सम्राजं यथा चिन्तासन्तापान्नैराश्याच्च दूरमवास्थापयत्तथा महाराजमपि प्रामोदयत्समये समये। महाराजो मित्रस्यैवंविधस्य विरहविषादं यावन्न विस्मरति तावदेव द्वितीयोऽप्याघातो बलादपीडयन्महाराजम्। अलभ्यत संवादो यद्राजा टोडरमलोऽपि नाधुनाऽस्मिन् संसारे। टोडरमल्ल: सम्राट्सभायामासीदत्यर्थं दूरदर्शी। मोगलसाम्राज्यस्य विजयलक्ष्म्या: परिवृढो यथा मानसिंहस्तथा तस्य श्रीवृद्धे: कारणं राजा टोडरमल्ल:। महाराजभगवन्तदासेन विचारितस्य साम्राज्यस्थापनस्य टोडरमल्ल एवासीत् प्रधानसहायक:। विजितेषु प्रदेशेषु यद्यसौ शासनसुव्यवस्थां नाकरिष्यत्तर्हि किं मोगलसाम्राज्यमिदमियत् प्रावर्द्धिष्यत्?
सह सुहृद्भ्यामाभ्यां स्वास्थ्यमप्यहारयन्महाराजा:। प्रत्यैयत तस्य हृदये यन्नाहमधिकदिनानि जीवेयमिति। अतएव मानसिंहमयमाकारयन्निजनिकटे। नानाकार्यव्यग्रोऽपि मानसिंहो यथैवाश्रौषीत्पितुरस्वास्थ्यवृत्तं तथैव प्रापत्पितुरन्तिकम्। निपुणवैद्यानां परामर्शेनाऽकारयत्पितुश्चिकित्साम्। क्षणमपि पितु: सन्निधानमपरित्यजन्नात्मैवोपाचरत्कुमारो जनकम्। किञ्चिच्छान्तिमवाप्यैव महाराज: कुमारमवादीद् गद्गदकण्ठेन- "समयेऽस्मिन्नन्तिमे भवन्तमवलोकयन्नहं शान्तिमनुभवामि। देशव्यापिनी भवतो वीरगाथां श्रुत्वा हृदयं मे भृशमानन्दितम्। आम्बेरराज्यस्य श्रीवृद्ध्यै यादृशस्य नायकस्यापेक्षा, प्रेषितस्तादृश: परमेश्वरेणेति भृशमभिनन्दामि।"
कुमार: -सोऽयं सर्वोऽपि भवदभ्यूहितशिक्षाया: प्रेरणायाश्च परिणामो नूनम्। मीमांसितमहं कार्यं स्वैरमाभूरयेयमित्थमनुगृह्यतामाशी:।
महाराज: - कुमार! आस्तां मे कर्तव्यस्य लक्ष्ये द्वे नूनम्। आम्बेरराज्यस्य सर्वविधसम्पत्पूर्णतां विधाय राजसंस्थानेषु महितमहत्त्वापादनम्। भारतस्य विकीर्णां शक्तिं संघटय्य एकराष्ट्रनिर्माणं च। तत एव तादृशीमेव शिक्षां व: समपादयम्। साम्प्रतं भवतोऽध्यवसायेन राज्यमिदं चतुर्गुणं विस्तीर्णं सम्भावितराज्येषु समर्हणीयं च। अग्रेऽहमनुरुन्धे, न जातुचिदुद्देश्येषु प्रमाद्येरिति।
कुमार: - गृहीत आदेश:। इत: प्रभृति जीवनस्य लक्ष्यमेवेदं मे भवेत्। विलाससामग्रयो यथाऽद्ययावन्नासन्मे विमोहनाय, भवेयुरग्रेऽपि तथा।
महाराज:- अवश्यमिदमेकवधातव्यम्, अकबरोऽयमद्ययावद् धार्मिकसंयमेन हिन्दुमुसलमानै: समं व्यवहृतवानुदारतया। किन्त्वग्रे यदि प्रमादमापादयेत्तर्हि न मनागपि मर्षणीयमिदम्। हिन्दुत्वगौरवं ध्रुवतारा नो जीवनयात्रायामिति न विस्मार्यं जातु। अस्तु, दिग्दर्शनमलं ते नीतिमते। साम्प्रतं चिराय प्रवसाम्यहम्। कुशली भूया:।"
इति वदत एव महाराजस्य कण्ठो गद्गदतामापेदे। न्यलीयत चेतसा स भगवद्भावनायाम्। किन्तु क्रमश: श्वासो वृद्धिमापत्। उच्छवयते स्मोदरमपि। अभूद्विषण्ण: कुमार:। किन्तु कोऽभ्युपाय:। सर्वानेव विलपत: परित्यज्य प्रायासीत्परलोकं भगवन्तदास:।
शोकावेगं निरुध्य विवेकेन समपादयत्सर्वमौर्ध्वदैहिककृत्यं कुमार:। हन्त व्यपगतेष्वप्याशौचदिवसेषु शून्यमिवालक्षयल्लोकालयं कुमार:। अकबरोऽपि दु:संवादमिममधिगत्य क्षणमस्थात्स्तब्ध इव। आस्तामस्य साम्राज्यस्य स्तम्भौ द्वौ, भगवन्तदासष्टोडरमल्लश्च। द्वयोरप्यनयोर्वियोगेन विकलमिवाऽभावयदात्मानं सम्राट्। कर्तव्यबुद्ध्या प्रणोदितो मानसिंहायाम्बेरराज्यसिंहासनसम्मानं महता समारोहेण प्राहैषीत्। य: समादर: स्वर्गतमहाराजाय समार्प्यत ततोऽप्यधिकं सम्मानं तस्य विधाय किञ्चिदुच्छ्वसितमिवात्मानमभावयत्सम्राट्। अकबरो मानसिंहं समधिगत्य दु:खमिदं विस्मर्तुमपारयत्, मानसिंहश्च पितुरन्तिमै: शब्दैव्र्यापृत्य यथापूर्वं साम्राज्यकार्येषु प्राभवद्विषादमिममपगमयितुम्।
(१२)
पुन: समराङ्गणे
पितु: परलोकप्रस्थानाद्विहारे शासनसुव्यवस्थानमपूर्णमेव परिहाय प्रययौ कुमारमानसिंहो निजदेशम्। सम्प्रति प्रतिनिवृत्तेन महाराजमानसिंहेन दृष्टं यदित: पृष्ठपरिवर्तन एव विहारे पुनरारब्धमफगानै राज्यावलुण्ठनकार्यम्। प्रान्तेऽस्मिन्वर्तमाना सम्राट्सेना तु पराक्रान्तस्य नायकस्याभावान्न प्राभवदफगानीयानिमान्पराभवितुम्। अतएवाऽत्रागत्य सेनायास्तस्या: भिन्नभिन्नभागेषु संस्थापनं समुचितशिक्षणं च निश्चिकाय, या हि कच्छवाहानां सेना समुचितं विचार्य प्रदेशेऽस्मिन्पूर्वमवास्थाप्यत। किन्तु सम्प्रति सर्वत: पूर्वममीषां विद्रोहिणां दमनमावश्यकं मेने। युद्धतत्त्वज्ञोऽसौ प्रान्तेऽस्मिन्नितस्ततो विकीर्णास्ते यावन्नैकीभवेयुस्तत: पूर्वमेवैकैकशो वशे चक्रे। कार्येऽस्मिंस्तादृशी समीक्ष्यकारिता क्षिप्रकारिता च प्रायोजि यया ह्यञ्जसैव समवापे साफल्यम्। अपरा चेयं युक्तिरवालम्बि यन्महाराज: सैनिकान्सर्वान्प्रकटमाज्ञापयत्- "य: कोऽपि विद्रोही प्राप्येत विना नियोगं नि:शङ्कं निगृह्यतामसौ, गृह्यतां च तत्समीपलब्धं सर्वमपीति।" अभवत्तत्तथैव। विद्रोहिविलुण्ठने समासाद्यत विपुलं धनम्। किन्तु सर्वमपीदं निजस्य निजसैनिकानां चोपयोगे न गृहीत्वा प्रैष्यत राजधानीमेव।
तदेवं विहारस्योपद्रवान् प्रशमय्य गजनीपुरं वाराणसीं च स्वाधिकारे चकार। निर्ममौ वाराणस्यामेकं वृहन्मन्दिरं दशाश्वमेधघट्टोपरि यस्य नामाभूत् "मानमन्दिरम्"। विहारविजयस्मृतिं सुस्थिरयितुं वासयामास पाटलिपुत्रसविधे "वैकुण्ठपुरम्। गुणवशीकृता विहारजनता विजयोत्सवे स्वयमकरोदनेकानुत्सवान् येषां परम्परा प्राचलन्मासपर्यन्तम्। विजयिनो मानसिंहमहाराजस्याक्रियत स्थाने स्थाने सम्मान:, प्रादीयन्त नानोपायनानि। प्राचरत्सर्वत्र विहारे मोगलशासनम्। तत्रापि मानसिंह: सुव्यवस्थया तादृशमेव शासनं प्राचारयद्यादृशन्यान्येषु विजितप्रदेशेषु प्रायोजि। नवीनेन विधानेन प्रमुदिता: प्रजा प्राकीर्तयन्परितो मानसिंहयश: प्रशस्तिम्।
पुन: साम्राज्यविस्तारोपरि दृशमक्षिपन्महाराज:। नासन्मुगलशासनभङ्गा: कलिङ्गा:, किन्तु तत्रोपनिविष्टा अफगाना: प्राय: समाचरन्समये समये विद्रोहम्। कतलूखाँ लोहानी व्यजृम्भत तदानीमफगानेष्वेषु। तत एव तस्यैव प्रतिक्रियां प्राणैषीन्महाराज। स हि किञ्चितसेनां समानाययद्वङ्गेभ्य:, किञ्चिच्च सैन्यं निजसुरक्षितवाहिनीत: संघटय्य समभिससार तदभिमुखम्। वर्दवानस्य मार्गं एव जहानाबादसन्निधौ समघटत तेन सङ्घर्ष:। किमासीत्पुनस्तदा? नानाकूटघटना: समघटयत्कतलू: किन्तु समभूवन्सकलास्ता विफला:। अकृत्यत कल्मषी कतलू:। मध्येसंयुगं समाप्यत शक्तिरखिलाप्यफगानानाम्।
समयदर्शी कतलूखानस्य मन्त्री कतलूतनयं नज़ीरखानं पितृपदं प्रदाय समबध्यान्मोगलसाम्राज्येन सन्धिम्। किन्तु निर्भयमघोषयन्मानसिंह:- यावत्कलिङ्गानामधिपतिरकबरो न स्वीक्रियते, यावच्च नाणकं शासनमुद्रा चाकबरस्य सर्वस्मिन्नपि प्रान्ते न प्रचरति तावन्नज़ीरखानो नासनाधिकारो भवेत्। ईसाखान: (मन्त्री) स्वीचकार सर्वानपि समयान्। स ह्येतावत्पर्यन्तम-प्यूरीचक्रे यद् ये किल साम्राज्यप्रदत्तभूम्यधिकारिण: सन्ति न तेषां संघटेत काचिद्धानि:, न गृह्येत तेभ्य: करोऽपि। तत: सम्राजे महाराजमानसिंहाय च प्रजिघायोपायनानि येषां मूल्यं द्विलक्षमुद्रातोऽप्यधिकम्। एवं पराक्रमाभिषङ्गात्कलिङ्गान्विजित्य परावर्तिष्ट विहारगतं स्कन्धावारमयम्।
ईसाखानो नोदलङ्घयत्सन्धिं निजजीवनकाले। यथासमयं कलिङ्गदेशस्य कर: प्रापद्राजधानीम्। किन्तु ईसाखानस्य मृत्योरनन्तरमेव पर्यवर्तत परिस्थिति:। कतलूतनयो ख्वाजासुलेमान-उसमानौ अन्यायैर्विरोधिभि: सङ्गत्य महान्तं विप्लवमाबध्रीताम्। मानसिंह: संवादमिममाकर्ण्य घोरतरमक्रुध्यत्। स हि कलिङ्गेषु साम्राज्यशासनं विहाय मध्यवर्तितन: कस्यापि शासनस्य समूलमुच्छेदं क्रोधात्प्रत्यजानीत। असूचयदखिलपरिस्थितमकबराय। तत: प्राप्तुमुत्तरम्- "भवान् साम्राज्यस्य सर्वात्मना प्रभु:। परिस्थितिं बुद्ध्वा यद्भवानुचितं भावयेत्करोतु, यदीत: सेनासम्प्रेषणमावश्यकं तर्हि सूच्यम्।"
मानसिंहो वङ्गेभ्यो मगधेभ्याश्चाखिलां सेनां समाहरत्। निजविश्रब्धान् सेनापतीन् सम्बोध्य समादिशच्चासौ- "रणवीरा:! मुहु: खड्गोत्तोलनस्यापेक्षया एकवारमेवैषामफगानजातानां निर्विषीकरणमहं मन्ये भवन्तोऽप्यावश्यकं भावयिष्यन्ति? अप्यनुमतमिदम्? सर्वेऽपि सोत्साहं सममन्यन्त। पुन: किमासीत्, विपुलां वाहनीं वहन् समभ्यसरत्प्रतिपन्थिन:। इत: कतलूतनया: सर्वेऽपि समङ्गसत। नसीबखानजबालखानावपि त्रिसहस्रसेनामादाय सममिलताम्। एवमासीदपारा पृतना परिपन्थिनाम्। मानसिंहोऽपि वीरवाहिन्या वाहिनीमुत्तीर्य सहसा समाक्रामच्छात्रवान्। समभूवन्सपत्ना: सम्भ्रान्ता:, आसीत्तेषामाशा यत्स्थलमार्गेण प्राप्स्यति सैन्यमिति। अत एव सहसा पर्याक्रान्तास्तदिमे हतबुद्धय इवाभूवन्। परिणाम: स एवाऽभूद्यो ह्यन्यान्येषु समरेष्वद्यावध्यासीत्। कतलूपुत्रा: पलायिषत। तेषां सहायका अपि केचिन्मृता: केचिच्च जीवग्राहमगृह्यन्त।
तत: पूर्यां जगन्नाथमन्दिरमयासीत्। अफगानैर्मन्दिरमक्रियताऽपवित्रम्। मानसिंह: पुनरस्य शोधनं प्रतिमाया: पावनीकरणं चाकारयत्। तत: प्रत्यर्थिलुण्ठनलब्धामपारां सम्पदं वहन्परावर्तिष्ट निजावासं मानसिंह:। साम्प्रतं कलिङ्गा: साम्राज्यस्यैव समृद्धिमानेक: प्रान्त:।
साम्प्रतं कूंचविहारेणाकृष्टा दृष्टि:। राज्ञो लक्ष्मीनारायणस्यायत्तमिदं राज्यं सैन्यबले सुतरां समृद्धम्। ७०० हस्तिन:, ४०००० सादिन:, लक्षद्वयाधिका: पदातय: सहस्रसहस्रं समरनौकाश्च प्रत्यहमतिष्ठन् सज्जा:। एतावत्सैन्यबलिष्ठोऽप्यसौ सर्वदा कम्पते स्म भयात्। कारणमस्य-प्रतापादित्योऽस्य पितृव्यपुत्रो यशोहरराज्यमशिषत्, तेनासीदस्य शत्रुता। प्रबलादस्माद्रात्रिन्दिवा राज्यापगमस्यासीद्भयं लक्ष्मीनारायणस्य। अवाञ्छदयं मानसिंहेन सङ्गन्तुम्। दृढं व्यश्वसीदसौ-यदि मानसिंह: सकृदपि मे साहाय्यवचनं दद्यात्तर्हि प्रतापादित्यो न किञ्चित्पारयेदनिष्टं मे कर्तुम्। मानसिंहो यदा प्रान्तेऽस्मिन्प्राविशत्तदादूरादेवाऽस्य स्वागतं व्यधित। सर्वस्यापि सैन्यस्य तथातिथ्यं व्यदधाद्यथा प्रत्येकपुरुषोऽस्मार्षीच्छ्वशुरालयस्य। भोजनाद्युत्तरं निजराज्यस्य प्रादर्शयच्छोभना रचना:। मानसिंहो नगरस्य सुन्दरताम्, प्राकृतिकं वैभवम्, कलाकौशलम्, प्रजानां समृद्धिं चालोकयन्प्रासीदत्परमम्।
रात्रौ भोजनस्य समये लक्ष्मीनारायणस्यालौकिकसुन्दरी कुमारी पर्यवेषयद्भोज्यानि। महाराजो मानसिंहो यस्य हि वीरताकार्येष्वेव जीवनं व्यत्यगच्छत्, न चान्त: पुरे विश्रमस्य यस्यावसरोऽभूत्स हि त्रिलोकजैत्रात् सौन्दर्यस्य प्रभावान्नात्मानं शशाक गोपयितुम्। असामान्यबलशालिनं तेजस्विनं महाराजमालोकयन्ती कुमार्यपि हृदयात्तं चकमे। द्वयोरयं भावो नासीदपह्नुतो लक्ष्मीनारायणात्। अत एव वा सेयं समायोगघटना तेन कृता स्यात्। अस्तु चतुरराजनैतिकौऽसौ समुचितमवसरं नेमं व्यस्मरत्। लक्ष्मीनारायण: स्वीयं भयकारणमवर्णयन्महाराजाय, प्रतापादित्यस्य यशो बलं प्रभुत्वं चापि। महाराज: सहजमेव प्रत्यभाषत-"राजन्नाधुना किञ्चिच्चिन्तनीयम्। अहं सर्वत: पूर्वं भवदापत्तिमेव निवारयेयम्।"
परदिन एव पै्रष्यत प्रतापादित्याय युद्धनिमन्त्रणम्। प्रातिष्ठत कश्चिदंश: सम्राट्सेनाया: तेन सह समराय। सहसा समुपगतमिदमाक्रमणं नापारयत्प्रताप: प्रसोढुम् प्रत्यक्षम्। किन्तु स्वभाववीरस्तदायत्त ईसानामको भूस्वामी स्वामिन: पराजयेनाऽनेन परममखिद्यत। स हि जन्मभूमे: स्वातन्त्र्याय, निजप्रभो: कार्याय च स्वल्पामपि निजसेनामादाय रणाङ्गणे समवातरत्। स्वल्पतमं सैन्यमिदं न किञ्चदगणयत् मुगलवाहिनी। किन्तु देशप्रेम्णा स्वामिभक्त्या च प्रणोदित ईसा स्वल्पतमेनापि सैन्येन विपुलामिमां वाहिनीं स्तम्भयामास। स हि दुर्धरेण स्वरेण सर्वान्वीरान्प्रोत्साहयन्नूचेरणधीरा: किं निरीक्षध्वे। समराङ्गणोऽयं वीराणां निकषभूमि:। जयसमारोहे स्वर्गारोहे चोभयथापि वीरपुरुषाणामक्षया कीर्ति:।" उत्साहे शौर्यावेशे च भयङ्कररूपेणापतन्मुगलवाहिन्यां ते वीरा:। सहसा व्यचलत्साम्राज्यसैन्यमपि। किन्त्वपादसागरस्य सम्मुखे सरित् कियती? अन्ते पराजीयत प्रतापादित्य:। किन्तुवीरपरीक्षको मानसिंहो हृदयेन प्राशंसत्स्वामिभक्तिं च युद्धकलां चास्य भूस्वामिन:।
ईसाऽपि भारतैकवीरस्य मानसिंहस्य सन्निकर्षे समुपगत्य तस्य महिमानमसाधारणं शौर्यं चावगच्छन् बभूव नितरां प्रभावित:। नासाविदानीं युद्धाय पदमग्रे धातुं निजस्वामिन-मप्यामन्त्रयत्। समुचितं विभाव्य प्रतापादित्योऽप्यानुगत्यं भेजे। महामूल्याननेकश: कुञ्जरानुपायनीचकार मानसिंहाय। लक्ष्मीनारायणस्याऽप्यविकृतं तं प्रदेशं परावर्तयामास। महाराजमानसिंहस्यानुरोधेन स हि लक्ष्मीनारायणेन सह शत्रुताया: स्थाने मित्रतामेव किम्, सुस्थिरामात्मीयतामाललम्बे।
संहृतसङ्कटो लक्ष्मीनारायण: साम्प्रतं मानसिंहस्य चरणयोर्निपत्य निजां कृतज्ञतां प्रकाशयत्। प्रावदच्च - "किमहं श्रीमत: प्रत्युपकर्तुं पारयेयम्। किन्त्वेकां मेऽभ्यर्थनां यद्यनुमन्यध्वे तर्हि भवेयमहं सफलजीवन:।
मानसिंह: - नि:शङ्कमावेद्यताम्, किमिदानीमपेक्षितं तत्रभवत:?
लक्ष्मीनारायण: - कन्या मे श्रीमतो दासी भवेदित्युत्कटो मेऽभिलाष:।
महाराजो मनोरथानुकूलयाऽभ्यर्थनया मनस्येव माद्यन्प्रकटमूचे- "श्रीमतोऽनुरोधो मे मान्य:। आश्वसितु भवान्, सम्मानस्तस्या न राजमहिषीभ्यो न्यूनो भवेत्।"
निरवर्तत सानन्दमयं विवाहोत्सव:। अत्र हि वङ्ग-कलिङ्ग-विहार-कूचविहारादि-प्रदेशानां सामन्त: प्रतिष्ठिताश्च सममिलन्। एतद्देशीया: सर्वेऽपि, विशेषतश्च लक्ष्मीनारायण: सम्बन्धेनानेन परमं प्रासीदत्। एवं किल विहारे उत्कले कूचविहारे चात्मन: शासनमुद्रां दृढीकृत्य नवीनां महाराज्ञीं सह नयन्महाराजमानसिंह: पराववृते निजनिवासम्। युद्धेष्वेषु शोकघटना सेयमवश्यमघटत यन्महाराजस्यैकस्तनयो दुर्जनसिंह: स्वर्गमगच्छत्।
(१३)
बङ्गेष्वन्तिम: समर:
विहारमुत्कलं च साम्राज्यभुक्तं कृत्वा मानसिंह: स्वां शक्तिमतुलां वर्द्धयामास, साम्राज्यस्याऽभिवृद्धिस्तु तत: स्वाभाविक्येव। प्राज्येऽपि साम्राज्ये मानसिंहसमान: कश्चिदपि नासीत्प्रतापशाली। महापराकान्ता अपि साम्राज्याधिकारिणो मानसिंहसविधे समभूवन् विच्छाया:। मुसलमानेतिहासलेखका अपि तत्सामयिके इतिवृत्ते महाराजमानसिंहस्य प्रभावमनुमपं मेनिरे। स्वयमकबरोऽपि मानसिंहप्रभावेणाऽऽसीत् सर्वत: प्रभावित:। राजपुत्रप्राप्ते मानसिंहस्य राजसत्ता तादृशी प्रभावशालिनी समभूद् यत्तत्रत्या लोकास्तं स्वतन्त्रपालं विविदु:। विस्तृते साम्राज्यमात्रेऽपि नैवंविध: कश्चित्प्रभावशाली समभूद्यो मानसिंहस्य शासनं तिरस्कुर्वीत। एतावद्बलोपलब्धावपि न हृदये मानसिंहस्य सेयमिच्छ जजागार यत्स्वतन्त्रमहमेकं राज्यं स्थापयेयम्, अकबरं च वञ्चयेयमिति। न च मुसलमाननीतेरनुसारमियं वञ्चना। यतो हि तस्मिन् समये ये वै अफगाना निजराज्यं पर्यचालयंस्तेऽप्येकस्मिन्दिने समभूवन्पठानसाम्राज्यस्यैव प्रान्तीया: शासका:। यदि मानसिंहोऽवाञ्छिष्यतर्हि विजितेषु प्रदेशेषु सुखेन स स्वराज्यमस्थापयिष्यत्। नासीदकबरस्य शक्तिर्यत्तस्य दमनं कर्तुं पारयेत्। मानसिंहमन्तरा वा स स्वयं साम्राज्यस्य राज्यवृद्धिं कुर्यात्। किन्तु मानसिंहो यथा प्राचीनक्षत्रियादर्शेन एकमात्रो वीरो बभूव तथैव निजवचनानुपालनेऽपि प्राच्यमर्यादाया आदर्शायेतोऽभूत्। भारते एकसाम्राज्यस्थापनस्य प्रतिज्ञां कृत्वा न कदाचिदकबरस्य परोक्षेऽपि स स्वातन्त्र्यमास्थापयितुमैषीत्। प्रत्युत निजप्रभावसूर्यस्य प्रबलमध्याह्नेऽपि - "आकमहाल" स्य भूमौ अकबरस्य स्मृतिं सुस्थिरां कर्तुं "अकबरनगरम्" एव वासयामास, यद्धि साम्प्रतं "राजमहल" नाम्रा परिचितम्। यदि मानसिंहोऽभ्यलषिष्यत्तर्हि स्वविजयोपलक्ष्ये स्वनाम्ना नगरमिदमवासयिष्यत्। किं बहुना, विजिता: प्रजा एव राजभक्तिं प्रदर्शयितुं माननाम्रा नगराण्यनेकान्यवासयिष्यन्, किन्तु सत्यवीरो मानो नेदं कदाचिदप्यवाञ्छत्।
"राजमहल" मिदमासीत्स्वसमये निरुपमं सुन्दरम्। विशालभवनै: सुरम्योद्यानै: सजलसरोवरै: सुप्रशस्तराजरथ्याभिश्च पूर्णमिदमासीद् बहुसमयं यावत्तत्प्रान्तस्य राजधानी। इत एव वङ्गानां विहाराणामुत्कलानाम्, किमन्यत् "आसाम" पर्यन्तस्यापि शासनमभवत्। सर्वथा विभिन्नानप्यमून् प्रान्तानेकशासनसूत्रे सम्बध्य मानसिंहेनाद्भुतकौशलस्यासीत् परिचय: प्रदत्त:। सत्यप्रतिज्ञो मानो नगरेऽस्मिन् यत्किञ्चिदकरोत्तत्सर्वमकबरनाम्रैव।
एवमसाधारणीं सफलतां समधिगम्य मानसिंहोऽजयमेरुनगरमुपागमत्। इतोऽग्रेसमभूत्तस्य नियम एवायं यद्वङ्गेषु मगधेषु च यदि काचिदावश्यकताऽभविष्यत्तर्हि स तत्रोपास्थित, अन्यथा अजयमेरुमेवाध्यतिष्ठदसौ। इत: सेयमपि सुविधासीद्यन्महाराजोऽत्रावस्थित एवाम्बरराजधान्या अपि समुचितं प्रबन्धमकरोत्। वङ्गादिषु तादृशं सुशासनं तादृक् च दस्युदमनमभूद्येन चिरं यावदफगाना न शिर: समुत्थापयेयु:।
अकबरो दक्षिणापथे समगंस्त महाराजमानसिंहेन। अस्मिन्वारे महाराजस्य तादृशं सम्मानमकरोद्येन स्वयं महाराजस्यापि विस्मयोऽभूत। अद्यावधि मित्रस्य पुत्ररूपे सममानयत्साम्प्रतं तु सम्भावितमित्ररूपे समलपन्निर्मायभावेन। प्रथममभून्मानसिंहस्य शङ्का काचित्किन्त्वकबरस्य कृतज्ञतापूर्णेन हार्दिकभावेन त्वरितमपागमत्सा। महाराज: प्रसन्नतया प्रावादीत्- "सम्राट्! साम्प्रतं श्रीमतो विजयध्वज: काश्मीरानारभ्य ब्रह्मपुत्रपर्यन्तं स्वैरं प्रस्फुरति। वङ्गानां सर्वेऽपि विद्रोहिणश्चिराय निर्मूलिता:। सर्वेऽपि साम्प्रतं भवतो गुणान् गायन्ति। अद्यावधि न तैर्यवनानामेवं सुसंघटितशासनव्यवस्थाऽवलोकिता। वाञ्छन्ति चिरादेवमेव भवेद्राज्यं सुस्थायीति।"
अकबर: - "प्रिय मित्र! सर्वमिदं भवतो वैभवम्। मम तु केवलं यश:, यस्य सर्वस्य मूलं भवतस्त्यागवृत्तिरेव। भवतु, किमहमस्य कुर्यां प्रतिशोधम्? किन्तु शीघ्रमेव राजसभायां प्रकटयेयमिच्छामात्मन:।"
मानसिंह: - श्रीमन् ममापि नात्र काचित्कृति:, सोऽयं पितृचरणानां दृढसङ्कल्पस्य महिमा।"
तस्मिन्नेवं जल्पत्येव परिचारक: पत्रमेकं प्रादान्मानसिंहस्य हस्ते। पत्रं पठत एवास्य मुखाकृतिरभूत्कराला। अकबर: प्राबुध्यत यत्पुन: काचिदभूद्दुर्घटनेति। प्रकाशमवोचत्- "अनुमिनोमि यद्वङ्गेषु पुनर्विद्रोह: प्रारभ्यत। अपीदं सत्यम्?" मानसिंहो मुखभावं परिवर्त्यावोचत्-"सुतरां सत्यमिदम्। यावदयमीसा भूस्वामी जिजीव तावदभूत्सन्धे: परिपालनम्। मृत एव तस्मिन्नारब्ध: पुनरुपद्रवो द्रस्युभिरफगानै:। तैर्विदितं यदहं भवत: समीपमगाम्, ईसापि नाधुना सहायक:। अत एव बहून्यप्रदेशानकुर्वन्हस्तगतान्। जाने कञ्चित्कालं तत्र परिष्ठाय घटनाचक्रस्य मूलमेव निर्मूलनीयं भवेत्।"
अकबर: - भवान्मुहुस्तान्दमयति ततोऽपि कथं ते मुहुर्विप्लवमारचयन्तीति नाहं निश्चिनोमि।
मानसिंह: - इदं तावद्भौगोलिकं कारणम्- तत्रत्या जलवायव एव तादृशा ये तन्निवासिनां मस्तिष्कमेवोर्ज्जस्वलं सृजन्ति, यद्धि परेषामभिभवसहने निसर्गतो विरुद्धम्। समग्रेऽपि मोगलसाम्राज्ये द्रक्ष्यति भवान् यद्वङ्गा एव तादृशा यत्र क्रान्तिकारिणां षडयन्त्रनिपुणानां च नास्ति न्यूनता। पुरापि तत्रैवमेवाऽभूदिति दद्यादितिहास: साक्ष्यम्। तत्प्रान्तस्य दक्षिणस्थ: काननभागो महान्तो नदीनदाश्च क्रान्तिकारिणाममीषां सहायका:। तेषां शक्तितोऽप्यधिकं दमनकारको यावत्कालं तान्न प्रशास्ति न तावत्कालमधीनतां ते स्वीकर्तुं विवशा भवन्ति किन्तु यथैव ते स्वानुकुलमवसरं विभावयन्ति, त्वरितं विरुध्यन्ते। किञ्च भारतस्यान्यप्रान्तेभ्य: पराजिता अफगाना अप्यस्मिन्प्रदेशे समपगत्य लोकान्विरोधयन्ति।
अकबर: - अवश्यमस्य समुचित: प्रतीकार: कार्य:, अन्यथा साम्राज्यरक्षा सङ्कटे। न च मुहुर्भवानेव तत्र परिश्रामम्येत्। अन्येष्वपि प्रदेशेषु निरीक्षणं भवदायत्तम्।
मानसिंह: - एकवारं मे तत्र गमनमनिवार्यमेव। अस्मिन्वारे दुर्घटनानां सर्वदार्थं मूलोच्छेदाय प्रयतिष्ये।
अकबरेणानुमतो मानसिंह: प्रातिष्ठत वङ्गान्। सम्राट् स्वतनयं सलीममपि प्राहैषीन्मानसिंहेन साकम्। किन्तु विलासप्रियतया मानसिंहात्प्रतिकूलतया च युवराजो प्रयाग एव तस्थौ। महाराज: प्रययौ रोहिताश्वदुर्गम्। तत्र सेनाया: परिष्करणं समुचितशिक्षणं च पूरयामास परिश्रमत:। तत: शेरपुरसमीपे निबबन्धघोरं समरम्। विद्रोहिण: पराजित्य पलायाञ्चक्रिरे। ततो मानसिंहो ढाकानगरं प्राप्य "जलाल" नामकस्य लुण्टाकस्य परिभवाय कुमारं महासिंह प्रजिघाय। झरनदीमुल्लङ्घ्य कुमारो जलालमिममाक्रमीत्। कुमारस्याक्रमणमसहमान: पलायिष्ट जलाल:। सम्प्रति महासिंह: प्रधानविद्रोहिणं काजीमोमिनं समभ्यसरत्। महाराजेन पूर्वंमेवोपदिष्टं यत् यावत्कालं शत्रुर्नदीं नोल्लङ्घयेन्न तावत्कालमाक्रमणीयम्। किञ्च सैन्यं बहुषु खण्डखण्डेषु विभज्य सह नेयं, येन शत्रु: सैन्यमकिञ्चित्कारं बुद्ध्वा पलायनस्य स्थाने सन्नह्येत आक्रमणाय। तदेतत्तथैव सम्पन्नम्। प्रबलं पराजीयत काजी, न्यहन्यत च सङ्ग्रामे।
कतलूसूनुरुसमानोऽपि विरुध्यमानोऽभूत्। तेन यदा दृष्टं यत्परितोऽन्येऽपि विरोधमाबध्रन्ति तदा मेवालगुल्मो चकाराक्रमणमसौ। किन्तु सूचनामिमां समवाप्यैव ससैन्य: सम्प्राप मानसिंहस्तत्र। निबबन्ध घोरं सङ्गरम्, पराजिग्ये उसमान:। भूयान्धनराशिर्बहुतरा: शतघ्न्यश्च समभूवन्मानसिंहस्य हस्तगता:। सुदृढीकृत्य गुल्ममिदं पराववृते मान:। तत ईसाभूस्वामिनस्तनयं दाऊदं दमयामास। अनन्तरं च वङ्गसीमाप्रान्ताधिपतिं केदारभूपतिमाचक्राम। क्षतविक्षतोऽसौ समानीय मानसिंहनिकटे, किन्तु व्रणैर्विकलोऽमम्रियत हन्त मार्ग एव।
केदारं पराजित्य तद्देशमयमधिचक्रे। प्राप्यत तत्रैका सिद्धशिला मानसिंहम्। कश्चिद्योगी पुरश्चरणान्यनेकानि गायत्र्या: संविधाय शिलामिमां साधयामास। समाचष्ट भगवती स्वप्ने मानसिंहम्- "शिलायामस्यां निर्माहि मे प्रतिमाम्, यावच्च बलिप्रदानादिना से सपर्यां पर्यावहसि न तावत्ते राज्ये काचिद्बाधा।" देव्या नियोगानुसारं शिलायामस्यां मूर्तिमुत्कीर्य प्रजिघाय वङ्गदेशीयैरर्चकै: सह तामिमामाम्बेरराजधानीम्। सावधानमकरोत्प्रत्यहं च बल्यादेस्तत्र प्रबन्धम्। एतदनन्तरं वङ्गेषु ये केचन विरोधिन: समुपलब्धा: सर्वांस्तान्वशीकृत्य मानसिंह: शान्तिमास्थापयामास। सर्वांश्च सैनिकानसौ समाज्ञापिपद् य: कोऽपि विरुद्धो विलोक्येत समानयत निर्विचारमिमं मत्समीपे। विजयस्यास्य समभूत्सोऽयं परिणामो यत्सम्राजोऽकबरस्य शासने नाश्रूयत कदापि विद्रोहस्य नामाऽपि वङ्गेषु। सोऽयं विद्रोह: समभूद्वङ्गेष्वन्तिमो नूनम्।
असमानैर्विजयबहुमानैरामपण्डित: सोऽयं मानसिंहमहाराज: समवाप पुन: समीपमबकरस्य। महामहत्यां राजसभायावस्थितोऽप्यकबर: ससम्भ्रममुत्थाय प्रददौ महाराजाय सम्मानम्। इत: प्रभृति "सप्तसहस्र समीकाधिपति:" समभून्मानभूपति:। षड्सहस्रसादिसेना चाभूत्तस्याज्ञानुगा। विजित्य समानीतान् गज-रथ-तुरगादीन्प्रभूतांश्च धनराशीनुपायनीचकार सम्राजे। य: समादर: समार्प्यत मानसिंहाय नायमद्यावधि कस्मैचिदपि प्रादीयत सम्राजा निजराजसभायाम्।
सप्रमोदमवाप महाराजो निजराजधानीम् (आम्बेरम्)। सर्वत: प्रथमं प्रतिष्ठापयामास भगवतीं शिलामयीम्। एतस्मिन्विजयसम्माने सर्वस्यामि राज्यस्य प्रजा: प्रचक्रु: प्रमोदवर्धापनं महाराजस्य। राज्यस्य स्थाने स्थाने समायोज्यन्त नृत्यगीतवादित्रादीनि मङ्गलानन्दसंवर्द्धनानि। आम्बेरराज्यायैव किम्, भारतीयराज्यसंस्थानमात्राय साम्राज्यादेतावत्समादरोपलम्भ: सम्भावितोऽभून्नूनं सर्वत: प्रथमम्।
(१४)
अकबरस्याऽन्तिमानि दिनानि
आसीदकबरोऽद्य किञ्चिदूनस्य समग्रस्यापि भारतस्याधिपति:। महाराजमानसिंहसदृशास्तस्य सैन्यसंरक्षका:, अबुलफजलफैजीसदृशा अद्वितीयविद्वांसस्तस्य सभारत्नानि, प्रजा न केवलं शस्त्रबलेन, अपि तु हृदयेन तमेनमस्पृहयत्, किन्तु किमासीदकबर: सुखी? दक्षिणभारतस्य महान्तमेकं प्रदेशं विजित्य साम्प्रतमेव परावर्तिष्ट। तस्य स्वास्थ्यमुत्तरोत्तरमासीत्पतनोन्मुखम्। भिषग्भिर्यवनानीवैद्यैश्च भूयसा विचारेण प्रायुज्यन्तौषधानि किन्तु न तेषां किञ्चित्फलम्। एकदा परमं विषण्ण: सम्राडाजुहाव मानसिंहम्।
समाययौ मानसिंह:। अकबरस्य विचारणीयावस्थया व्यषीदत्स परमम्। मानसिंहं विलोक्यैव समाययुरकबरस्य नैत्रयोरश्रूणि। अवादीदसौ- "प्रिय मानसिंह क्वासीरेतावत्कालम्?"
"श्रीमन्! प्रबन्धार्थमाम्बेरे व्यलम्बिषि कञ्चित्कालम्। किन्तु यथैव दक्षिणत: परावर्तनस्य संवादमश्रौषं, स्वयमहमुपस्थितये समभूवमुत्कण्ठित:। नासीन्मे एतदवस्थाया: परिज्ञानं श्रीमत:। अद्य तत्र भवत: कथमियमवस्थाऽभूत?
"प्रिय मान! जगज्जानाति यदहं सुखी किन्तु क इदं जानीते यन्ममान्तरिकी व्यथा कथमिव मां जर्जरीकरोतीति। जाने, नाधिकमहं शक्रुयां जीवितुम्।"
"कथमिदम्, अपि काचिद्विशिष्टा घटना समवर्तिष्ट?"
"घटना? न सा घटना। तद्धि मे मृत्योश्चिह्नम्। नास्ति सम्प्रति हृदये बलम्, न च तावत्साहसम्, येन हि दारुणा वेदना शक्येत सोढुम्।"
"श्रीमन् ! सूच्यतां किञ्चिद्येनाहमवगत: स्याम्।"
"किं कुर्या: श्रुत्वा। एको भवानस्ति यं विलोक्य मे बाल्यसहचरो महाराजभगवन्तदास: सुखेन निजजीवनं विससर्ज। एकोऽहमस्मि यो म्रियमाणोऽपि भविष्यामि भाजनं दौर्भाग्यस्य।
"किं कुमारसलीमात्पुनरसन्तोष: समुदभवत्?"
"कुमार:? नासौ कुमार:। स हि मे जीवनस्य कण्टक:। हन्त यस्य जननाय पद्भयां यात्रां विधाय चिश्तीचरणसेवा कृता,यस्य जन्ममहोत्सवे फतहपुरसीकरी सदृशस्य सुविख्यातस्य सुन्दरनगरस्य निर्माणमकारि, स एव पुत्र:, आम् "पुत्र:" मत्समक्षमेवाद्य कालरूपे परिभ्रमति।"
"पूज्यवर! दिनेष्वेषु कुमारो मत्तोऽप्यसन्तुष्ट इवाभाति। स हि तद्दिनादेव न मे हृदयं प्रकाशयति यद्दिने मया सह वङ्कविजयायासौ विसृष्ट:।"
"आम्, स भवता किमिति सन्तुष्येत्? विजानात्यसौ यद्भवान् मे मित्रम्, मम मानस्य प्रतिष्ठाया गौरवस्य चैकमात्रं कारणम्। आ: विलासमयस्य पितृद्रुहोऽस्य सलीमस्य हन्त किमग्रे भावि?"
पूज्यवर! नोत्ताम्यतु भवान्। यथाशक्ति मार्गे समानेतुमिमं प्रयतेय।"
"मा मैवम्। अहं हि कठोरात्कठोरमिमं दण्डयितुं वाञ्छामि। एष हि अब्बुलफजलं निहत्य, मुरादं दानियालं च निर्मूल्य, भवता सह विद्रुह्य, इस्लामधार्मिकानां विरोधे समुत्थाप्य, मोगलसाम्राज्यमपहर्तुमाबद्धवान् षड्यन्त्रम्। तमेनमहं सूचयिष्यामि यदेवंविधानामनुकूलीकरणेऽपि न दुष्टस्य हस्ते निपतेन्मोगलराज्यम्। मोगलसाम्राजस्य रचना नैतदर्थं कृता यत्तद्द्वारा स्वार्थविजय: साध्येत, राज्ञां राजकुमाराणां च विलाससाधनं तद्भवेत्। प्रत्युत महान्ति बलिदानानि,भवादृशां महावीराणां च शुभा: प्रयत्ना: केवलमेतदर्थमेवासन् यद्भारतमिदं सम्पद्येतैकराष्ट्रम्। एकेन शासनसूत्रेण सङ्ग्रथिता हिन्दवो मुसलमानाश्च मिथो भेदभावं विस्मृत्य निवसेयु: शान्तिपूर्वकम्।"
"महामान्य! शान्तिमवलम्बेथा:, आवेशेन तीव्रा भवेद्ह्रदयगति:। न बालानामपराधे क्षुभ्यन्ति महापुरूषा:?
"सखे मानसिंह! यद्ययं स्पृहयति राज्यमेव, तर्हि काऽऽवश्यकताऽऽसीदियतो विप्लवस्य। स्वयमहं जीवन् प्रादास्यं तस्मै राज्यम्। किन्तु ये उपायास्तेनावलम्बितास्ते किलोल्लङ्घयन्ति सीमानं मानवताया:।"
राजाधिराज! प्रार्थयेऽहं कियन्तञ्चिदवसरम् । "
"अस्तु ,गच्छतु भवान् स्वैरम्, किन्तु परावर्तेथा: शीघ्रमेव। भवदुपगमेन ह्रसते मे दु:खावेग:।
प्रायासीन्मानसिंह: सलीमसमीपम्। व्यचारयन्महाराजो मनसि-कामं सलीमो मत्त: शत्रुतामाचरति परमस्ति साम्राज्याधिकारी सोऽयमेव। उपजापपरैरिस्लामधार्मिकै: सोऽयं विक्षोभित:, विलासपरश्च, किन्त्वस्त्ययं बुद्धिमान्। मार्गे समारोपित: सोऽयमकबरानन्तरं समधितिष्ठेत्साम्राज्यशासनम्।
सलीमो मानसिंहायेर्ष्यति स्म यत्तस्यैव सम्मुखे सम्राट् सलीमापेक्षयापि मानसिंहमाद्रियते स्माविकम्। अभावयदिदमात्मनो घोरं लाघवं सलीम:। किन्त्वद्य स्वयं मानसिंहस्तस्य समीपमुपगत इत्युपलेभे स्वागतं महाभागस्य। कथमद्य कष्टमिदमङ्गीकृतम्?"
"निजापराधानां क्षमाभिक्षायै" अवदन्मानसिंह:।
"कीदृशोऽपराध:?"
"यानपि भवान् भावयेन्मनसि
सलीम: समभूदवाक्। अवादीन्मानसिंह:-"प्रियभ्रात:! किमिदमारब्धं श्रीमता,वृद्ध: पूज्यश्च पिता किमिति विषादमारोपित:? प्रत्यहं स रोगाभिमुखमभिवर्द्धते। तद्रोगस्योपचारो भवदायत्त:। अद्यावधि यत्कृतं भवेदत्तत् सम्यगेव। किन्त्वन्तसमये तस्योपतापनं न शोभते मन्ये भवादृशस्य विवेकिन:। क्षणं विचारयतु भवानेव संसार: किं कथयिष्यति- भारतविजयिन: सम्राजो मृत्युकारणमासीत्तत्सुत एव। साम्प्रतं पितुर्विचारणीयां दशामवदधीथा:। य इमे मौलविनो भवन्तमक्षोभयन् आसीत्तस्य कारणमिदमेव यद्भवत्पितुरग्रे न तेषामधिकार: प्रभवति।"
सलीमो भवेत्कामं कीदृशोऽपि, परं नासौ शशाक विस्मर्तुं पितु: प्रणयम्। प्रावहत्तस्य नेत्राभ्यां नीरम्। प्रत्यवादीदसौ-"मम पितुर्हितकारिन्मानसिंह! हन्त प्राबोधयदद्य भवान्मामिमज्ञानम्। सत्यमहममस्मि मन्दभग्य:। जानेहमनुतापानलो मे प्रारब्धवान् ह्रदयदाहम्।"
प्रोक्तं मानसिंहेन-"अनलस्यास्योपशमायैकमात्रमुपायोऽस्ति पूज्यपितु: पादयोरनुकम्पापीयूषम्। उपेहि साम्प्रतमेव, अर्थयस्व च निजापराधानाम् सत्यहृदयेन क्षमाम्। प्रापयेश्च पितु: स्वस्थ हृदयाय च शान्तिम्।"
उदस्थान्महाराज:। सलीमोऽप्युत्तरं विना तमनुससार। अदान्महाराज: स्वागमनस्य सूचनां सम्राजे। उपजग्मतुर्द्वावपि सम्राजम्। मानसिंहेन सह सलीमं विलोक्य प्राज्वलत्सम्राट, अभूतां क्रोधेन दृशौ रक्तवर्णे।" अपेहि मत्समीपात्, न दर्शय मे मुखम्" इत्यावादीत्क्रोधगद्गदं सम्राट्।
अरोदीत्सलीम:। मानसिंहोऽवादीत्- कुमार: सलीमोऽनुतप्यते निजकर्तव्योपरि। क्षाम्यतु भवान् साम्प्रतम्। सर्वोऽप्यपराध्यति जीवने। तत्राप्यधुना कुमारस्योत्तिष्ठमानं वय:, साम्राज्यगन्धी निसर्ग:। "
न्यपतच्चरणयो: सलीम:। अशाम्यदकबर:। पितृहृदयमलब्ध विजयं शासकहृदयोपरि। प्रत्यवादीत्सम्राट् यथेच्छति भवान्।"
अवादीन्मानसिंह:-"लभेत भवतो ह्रदयं शान्तिमिति स्वहस्ताभ्यामेव क्रियतां राज्यभिषेक: कुमारस्य। "
कृतज्ञतापूर्णया दृशा व्यलोकयदकबरो मानम्। शत्रवे क्षमाप्रदानस्य नवीनेयं पद्धतिर्नाद्यवध्यालोकितासीत्तेन। स हि राजमुकुटमधात्सलीमस्य मस्तके। प्रावर्द्धताऽऽवेगेन हृदयस्य गति:। न किञ्चिद्भाषितुं प्राभवत्सम्राट्। स हि कृतज्ञतया समालिङ्गन्मानसिंहम् न्यषिञ्चच्च नेत्रजलेन वस्त्राणि मानसिंहस्य।
पश्यतामेव सर्वेषाम्, प्रावर्द्धत "आम" रोगस्य रुजा। स्वल्प एव समये संसारस्य महामूल्यमेकं रत्नमारोहत्स्वर्गम्। व्याप्नुते स्म साम्राज्यमखिलं महान् शोक: ।
(१५)
परिवर्तनम्
महाराज: साम्प्रतं नवीनयुगमन्वभूत्। अकबरो यां स्थितिं सम्मानं च तस्मै प्रादाद् वाह्यं स्वरूपं तस्य तथैवासीत्किन्तु मनोवृत्तेरवर्तिष्ट परिवर्तनम्। सम्राट् सलीम:, यो हि "जहाँगीर" नामधेयं नयन् साम्राज्यं प्रारब्ध, प्रारम्भादेवासीन्मानसिंहादसन्तुष्ट:। न किञ्चिदगणयत्तमिममद्यावधि मानसिंह:, किन्तु साम्प्रतं स एव सेवनीय: समभूत्। परिवर्तनमिदमभावयन्मानसिंह:। आसीत्तस्य निश्चयो यत्सलीमो न मे किञ्चिदप्यपकर्तुं समर्थं:, तथाप्यसावासीत्सत्समयोचितकर्तव्ये निरत:।
सलीमोऽप्यन्तरन्त: प्रायतिष्ट मानसिंहं प्रत्यपकर्तुम्, परं स सम्यगजानाद्यन्मानसिंहमन्तरा नैकं क्षणमपि निरुह्येत साम्राज्यम्। अत एव मानसिंहक्लेशनाय स युक्तिमेकामवालम्बिष्ट साम्राज्ये यावन्ति कठिनकठिनानि कार्याणि समापतेयुस्तानि समर्प्येरन्मानसिंह्ययैवेति। नासौ व्यस्मार्षीद् यन्मानसिंहकृत्यैव लब्धं तेन साम्राज्यम्। अत एव प्रकटे कृतघ्नतां प्रकाश्य नायमभ्यलषत्सङ्कटे विनिपातयितुमात्मानम् । स हि मानसिंहमकरोद्वङ्गानामेव शासकम्। यदा यदा च मानसिंहेन समगंस्त, प्रादर्शयत्तावन्तमेव समादरम्। न कश्चिद्बोद्धुमपारयद्यन् मानसिंहजहाँगीरयोरन्तर्भावान्तरमस्तीति।
स्वल्प एव समये समुदतिष्ठदुपद्रवो रोहिताश्वदुर्गनिकटे। एनमुपशमयितुं स व्यलेखीन्मानसिंहमेव, अकरोच्च द्वितीयं शासकं वङ्गानाम्। इत: सर्वासां परिस्थितीनामन्तरभिज्ञो मानसिंह: स्वल्पेनैव कालेन पर्यशमयत्तमेनमुपद्रवम्। न्यवात्सीच्च स तत्रैव। अश्रौषीज्जहाँगीरो यन्मानसिंहो रोहिताश्वदुर्गोपद्रवमशम्यत्सर्वत:। किन्तु स मानसिंह पूर्ववद् वङ्गेष्वप्रहित्य निजनिकटमेवाजुहाव । v
आसीदकबरकृतो दक्षिणविजय: साम्प्रतमप्यपूर्ण एव। अवाञ्छज्जहांगीरस्तं पूरयितुम्। विलासप्रियोऽपि जहाँगीर: पितृसम्पादितं राज्यं प्रवर्द्धयितुमेवैषीन्न हापयितुम्। एतस्मै कठिनकार्याय स मानसिंहमेव निरचैषीत्। महाराज: साम्प्रतमुपारोहद्वार्धक्यम्। अवाञ्छीदसौ यत्सम्प्रति साम्राज्यकार्येभ्यो विश्रम्य निजराजधान्यामेव शेषदिनानि व्यतिगमयेयम्। एतदेव विभाव्य व्याजहार जहाँगीरम्-"दृष्टमेव श्रीमता यन्मे जीवनमशेषं युद्धकार्येष्वेव व्यत्यगात्। इदानीं वाञ्छामि यावन्तं स्वल्पकालमहं जीवेयं निजराज्य एव भजेयं भगवन्तम्।
अशङ्किष्ट प्रस्तावेनाऽनेन जहाँगीर:। प्रत्यवादीदसौ-" पूज्यवर! किमिदं सम्भवति यद्भवान् दक्षिणयुद्धेषु न गृह्णीयाद्भारम्। समस्तजीवनस्य सञ्चितोऽनुभवो यदि नोपयुज्येत दक्षिणयुद्धे तर्हि का स्यादस्माकं गति:? आम् यदि भवान् कामयेत तर्हि कञ्चित्कालमावसतु भवानाम्बेरम्। समुपस्थिते च कार्ये तत: समायातु भवान्दक्षिणापथम्। "
कञ्चित्कालमवकाशं गृहित्वा समायासीन्महाराजो निजराजधानीम्। अत्युत्कण्ठिताऽभूज्जनता दर्शनाय श्रीमताम्। प्रसन्नो महाराजो महता समारोहेण शोभायात्रामकरोत्। वयोवृद्धं महाराजमवलोक्य समभूवन्सफलमनोरथा: प्रजा:। अभ्यवर्षन्परित: पुष्पाणि। प्रजासु प्रतिवर्गमेव सममान्यन्त मङ्गलानि। स्थाने स्थाने कविवाग्भिरवर्ण्यन्त महाराजस्य विजयसमारोहा:। कुत्रचिच्छत्रूणां भयानकता अवर्ण्यन्त, तर्हि क्वचित्समरयात्रामार्गाणां दुर्गमता अचित्र्यन्त। तत:सर्वाण्यप्यमूनि सङ्कटानि समुत्तीर्य विजयं प्राप्तवतो महाराजस्य वीरता सर्वान् श्रोतृन्वक्तृंश्च हर्षगद्गदानकार्षीत्। अवसरेष्वेवं विधेषु नृत्यगीतवादित्राणि यानि यानि सम्भवन्ति, समभूवन् तानि सर्वाणि।
महाराजो महामहतीं राजसभामकरोत्। सर्वानपि निजसामन्तान्सम्बोध्य वक्तृतामदान्महाराज:-""प्रियप्रजाया: प्रमुखपुरुषा:! सम्भाविता: सामन्तगणाश्च! भवतां सहयोगमवाप्य आम्बेरराज्यस्य सर्वत: समुन्नतये मयाऽद्यावधि पूर्णतया प्रयतितम्। साम्राज्यकार्येषु समधिकसंलग्नतया नाहमिह स्थिर: सन्नशकं भवतां रक्षणावेक्षणं कर्तुम्। आशासे विवशतां मेऽनुमाय क्षाम्येयुर्भवन्तस्तदिदम्। एषु दिनेषु तु भवतां दर्शनाय भूयस्तरामेवाऽभूवं व्याकुल:। अद्य तदिदं समवाप्य परमं प्रसीदामि। साम्प्रतमपि न मह्यमवकाश: प्रदत्त: सम्राजा। दक्षिणदिग्विजयाय अनुपदमेव गन्तव्यम्, किन्तु यदि भवतामेवमेव सहानुभूति: स्यात्तर्हि सेयं विजययात्राऽपि भवेत् नूनं सफला। शरीरमिदं मे वृद्धम्, पूर्वमेव न बलमुत्साहो वा। को वा जानीते, तदिदं वो दर्शनमन्तिममेव भवेत्। ज्ञाताज्ञाता ये मेऽपराधा: समभवन् क्षम्यासुस्तान्भवन्त:।
महाराजस्यान्तिमशब्दा: श्रोतृणामकम्पयन् हृदयानि। सर्वेषां प्रावहन्नविरलमश्रूणि नेत्राभ्याम्। तेषामेक: सामन्त: समुत्थाय सविनयमभाषत-"सूर्यवंशभूषण वीरशिरोमणे महाराजाधिराज! यादृशी कृपा तत्रभवतामस्माभिरुपलब्धा न सा कस्यचित्पितुर्निजसुतोपर्यपि स्यात्। अस्माकं मानरक्षायै गौरवाभिवृद्ध्यै च यदनुष्ठितं श्रीमता न तत्तिरोहितमस्मत्त:। तदिदं भवत एवानुग्रहस्य फलं यदाम्बेरराज्यमिदं भारतीयेषु प्रमुखराज्येष्वद्य गणनीयम्। भारतसाम्राज्यस्य शासनसूत्रं भवत एव हस्तगतमासीत्। अथवा तत्त्वतो वक्तव्यं स्याद्यत् साम्राज्यस्य निमार्णमासीद् भवदायत्तमेव। अनेन हि मस्तकमस्माकं गौरवोन्नतम्। अद्ययावत्सर्वेष्वपि समरेषु यथा समवाप्ता श्रीमता विजयलक्ष्मीस्तथा दक्षिणदिग्विजयोऽपि निश्चितं भवेदिति दृढो नो विश्वास:। अस्माकं महाराज: सर्वदा समरविजयी दीर्घायुश्च भूयादिति सर्वदा समाशास्महे।" सर्वेऽपि सामन्ता: समुत्थाय समकार्षुर्विजयध्वनिं महाराजस्य। समाप्यत ततो राजसभा।
प्रातिष्ठत महाराजो दक्षिणविजयाय। सर्वत: पूर्वं खानखानात: साहाय्याऽवाप्तये प्राप तत्समीपं महाराज:। मुगलसेनायां महाराज: खानखाना चेति द्वावेवास्तां तात्कालिकराजनीतेस्तत्त्वाभिज्ञौ। किन्तु सलीमो द्वाभ्यामेवासन्तुष्टोऽवर्तिष्ट। अतएव नैतयोरनुभवेनाऽसौ लाभमग्रहीत्। यद्यसौ द्वयोर्विश्वासमकरिष्यत्तर्हि सागरान्तधराया: समभविष्यदधिराजोऽसौ ।
अभवद्बुरहानपुरसमीपे शत्रुणा सह मोगलसेनाया: सङ्घर्ष। द्वाभ्यामेव मिथ: सम्मन्त्र्य सेनासंघटंन तथा विहितं यथा सम्पूर्णोऽपि विदर्भ (बरार) प्रान्त: समभवत्साम्राज्यभुक्त:। ततस्ते इलिचपुराभिमुखं प्रावर्द्धिषत। आसीदत्र शत्रु: प्रबलतम:। खानखानामन्त्रणया सर्वत: प्रथमं शत्रोरान्तरिकरहस्यान्यसौ समबुध्यत। शक्तिशालिनो गुप्तचरा: सहजमिदं निरवर्तयन्। पुन: किमासीत्? सर्वां परिस्थितिं बुद्ध्वा तत्कालमेवाऽक्रियत इलिचपुरोपर्याक्रमणम्। अभून्महाराजो विजयी। इलिचपुरप्रान्तो विदर्भेण सह संयुक्तोऽभूत्।
(16)
महाप्रस्थानम्
मानसिंहमहाराजस्यैतावतीनां सफलतानां मूलकारणमासीत्तस्मिन् विश्वास: स्वामिदत्त: समुत्साहश्च। अकबरो मानसिंहं पुत्रादप्यधिकं प्रणयते स्म। स हि तं विपत्ते: सखायं गौरवस्य च रक्षकं भावयति स्म। बहुषु वार्तासु मतभेदेऽपि न कदाचिद्व्यवहारे प्रतीयते स्म वैषम्यम्। दीनेइलाही सम्बन्धे स्पष्टमभाषिष्ट विरुद्धवाक्यानि मानसिंह: किन्तु न किञ्चिदपि वैमुख्यमवाललम्बे। मानसिंहोऽप्यत एव समयेऽप्यसमयेऽपि च सम्राजोऽनुमतिमन्तरैव स्वयं चक्रे बहूनि कार्याणि। नासीदस्मिन्गन्धोऽपि प्रभावप्रदर्शनस्य, किन्तु प्रत्येककार्यस्य सम्राजमापृच्छ्यैव करणे कार्यक्षते: सम्भावना, विशेषतश्च तस्मिन्समये यदा हि यातायातस्य सुविधा नासीदद्येव।
किन्तु सर्वमिदं सम्प्रति रूपान्तरितमभूत्। अकबरस्य विश्वासस्तेन सहैवागच्छत् साम्प्रतं त एव शासनाधिकारिणो मानसिंहस्य विरोधं कर्तुं, तं तिरस्कर्तुं च मन्त्रणामबध्नन् ये पुरा मानसिंहस्य सम्मुखे मस्तकमुत्तोलयितुमपि न प्राभवन्। विजने स्थितस्य महाराजस्य मनसि स्वर्गतसम्राज: साधुस्वभाव:,महदुद्देश्यम्, निजं प्रति सत्यं सौहार्दं च वारंवारमावर्तन्ते स्म। युद्ध विजयात्परावर्तमाने मयि कथमिव कण्ठालिङ्गनमकरोत्, कीदृशैरुत्साहसंवर्द्धकैश्च वाक्यैर्मे वीरतां प्राशंसदिति सर्वं स्वप्नायितमभावयत्। कीदृशेन बुद्धिप्रयोगेण परमपरिश्रमेण च दक्षिणदिग्विजयो महाराजेन: कृत:, किन्तु कृतघ्नो जहाँगीरो न प्राकटयल्लेशतोऽपि कार्तज्ञ्यम्।
पुरा स यत्र निजेच्छानुसारं शासनमकरोत्तत्र प्रत्येकवार्तामापृच्छ्यैव सम्राजमनुतिष्ठति सर्वम्। यत्रापि युद्धयात्रायां मानसिंहो न्ययुज्यत नियमेन तदुपर्येको मुसलमाननायकोऽपि प्राहीयत। विषगण्डुषमिव सर्वमिदममर्षयन्महाराज:। स्वां परिस्थितिं विचारयन्नासीदवस्थितो महाराज एकदा, एतावत्येव सहसा समागच्छदेकमात्रसहायक: खानखानामहोदयस्यतेन सह सङ्गन्तुम्। द्वावप्यास्तामवमानयन्त्रणया दु:खितौ। एकवारं येन सह स्वामिभाव: स्वीकृतस्तस्य विरोधाचरणं नासीद् द्वाभ्यामप्यनुशीलितं नूनम्। अश्रुकण्ठो महाराजो बाहूपश्लेषममिलत्खानखानामहाभागेन। अभूवन् द्वयोरपि साम्राज्यसङ्कथा:। महाराजोऽकथयत्-"वृद्धमिदं शरीरमाधीन्ययन्त्रणानां नाधुना सोढुं शक्तम् । मोगलसाम्राज्यस्य श्रीवृद्धये मया दशपुत्राणां बलयो दत्ता: सर्वदा प्रियप्रजाभ्यो वियोगमसहीषि, नित्यनवीना विपद: सोढा:। हन्त! तस्यायं परिणाम:। एतावती कृतघ्रता। अहो मे घूर्णते शिर: । अवलम्बस्व माम्" इति जल्पन्नेव महाराज: खानखानोत्सङ्गे मूर्छितो न्यपतत्।
हतबुद्धिरभूत्खानखाना। अनेकैरुपचारैर्यथाकथञ्चित्प्रायाञ्चकार चेतनाम्। किन्तु प्राप्तचेतन: पुनस्ता एव दु:खकथा: प्रारेभे महराज:। खानखाना प्रत्यवदत्-"सेयं समयस्य गतिर्महाराज! अस्माभिस्तु निजप्रतिज्ञा तावन्निरूढा, किन्तु सलीमस्य दुर्व्यवहारो भवेत्तस्यैव घातको नूनम्। "प्रत्युक्तं महाराजेन-"सर्वमिदं सत्यम्। किन्तु राजपुत्रह्रदयं न सहते विश्वासहीनताम्। नाहमधिकं जीवेयमिति मे निश्चय:। अतएव केनाप्युपायेन कुमारभावसिंहो मत्समीपमतित्वरितमाह्वातव्य:। "
शीघ्रमेव प्रैष्यन्ताऽऽमेरनगरं दूता:। आम्बेराद्दक्षिणपर्यन्तोपगमे समयव्ययस्त्वनिवार्य एव। एतावत्येव समये महाराजस्य चित्तवृत्तिरुरोतरंन्वतप्यत्। खानखाना अकाण्डदुर्घटनायामस्यां सलीममेव दोषिणमभावयन्निजमानसे। एकैकं क्षणं सोत्कण्ठमसावगणयद् यन्महाराजस्तावत्कालमवश्यं जीवेद् यावत्कालं कुमारभावसिंहोऽत्र समुपेयात्।
महाराजस्य घूर्णते स्म प्राय: शिर:। अभवच्चासौ विसंज्ञ:। बहुकालं यावदस्थात्सेयमवस्था। यावच्च नोपायात्कुमारस्तावदेवंप्रायैव समभूदवस्था। मध्ये मध्ये यदा चाभून्महाराजस्य चेतना तदा तदा सहसाऽसौ समपृच्छत्- "कुमार!" अकस्मादेक: सेवक: समसूचयत्खानखानसमक्षे-"कुमारो भावसिंह: समुपागमत्। म्रियमाणो मीन: समुपालभत् पानीयम्। एकमासादासीत्कुमारदर्शनाभिलाषो महाराजस्य, अद्यासावभूत्पूर्ण:।
महाराजस्य यथैवाभूच्चेतना तथैवापश्यदसौ सम्मुखे कुमारम्। प्रासारयदसौ द्वावपिभुजौ। कुमारस्तस्याशयमवबुध्य वक्षसाऽश्लिक्षन्महाराजम्। प्रावहदुभयतोऽपि प्रणयाश्रुप्रवाह:। अहह समयेऽस्मिन् तत्स्थानस्य प्रत्येकपरमाणुत: समुदस्थात्समवेदनाध्वनि:।
"कुमार! नाहमात्मन: प्रजानामशकं निरीक्षणं कर्तुम्, अवसानसमये पत्नीभिरपि नाहं समगंसि। सावधानमिमान् पायलेद् भवान्।"
"तातचरणा:!" किमिदमुदीर्यते? अहो कथमेवं विवर्णमभून्मुखम्? अरे किमिदम्? श्रीमन्त:! दीनाय प्रतिपद्यतामुत्तरम्।
परमुत्तरं किमासीत्? शान्ति:, महाशान्ति:। महाराजस्य प्रशान्तोऽन्तरात्मा प्रावसद्दिव्यलोकनिवासाय।
इलिचपुरे एव समभून्महाराजस्यान्तिम: संस्कार:। परावर्तत ततो निजराजधानीं कुमार:। महाराजस्य देहावसानसंवादमाकर्ण्य राजभक्तानां प्रजानां का भवेदवस्थेति स्वयमनुमेयं पाठकै:।
सलीम: साम्प्रतमात्मन: प्रमादमवेदीत्। महाराजस्याऽभावे साम्राज्यस्य याऽभूदपारा क्षतिस्तां विलोकयत: समभूदनुताप: सलीमस्य। किन्तु किमिदानीं सम्भवेत्? मोगलसाम्राज्यस्य प्रधानस्तम्भे व्यपगते तत्कार्यपूरणाय क्रियमाणोऽन्य: प्रबन्ध: कृताकृत एवाभूत्। अभूच्छिथिलं समग्रं शासनम्। किन्तु महाराजस्य देहावसाने सञ्जातोऽनुतापो जहाँगीरस्य जीवने प्राकरोत्परिवर्तनम्। तस्य पितुरादर्श: साम्प्रतं तस्य नेत्रयो: सम्मुखे समनृत्यत्। हिन्दु-मुसलमानयोर्भेदभावं व्यपनीय हिन्दुषु निजपितेव सोऽपि व्यश्वसीत्साम्प्रतम्। महाराजस्यात्मा निजविजये मन्ये प्रचुरं प्रसीदेत्स्वर्र्गधामनि साम्प्रतम्। महाराजभगवन्तदासस्य सेयमिच्छा- "हिन्दुसंस्कारै: प्रभावित: सलीमो न विरोधी भवेद् हिन्दूनाम्" अद्य पूत्र्युन्मुखा समवालोक्यत।
महाराजमानसिंहस्य जीवनं द्वादशवर्षवय: समारभ्य मरणपर्यन्तं साम्राज्यकार्येष्वेव व्यत्यैतप्, अत एवासीत्तद्राजनैतिकम्। किन्तु गृहस्थाश्रमोऽपि महाराजस्य निरौह्यत सम्यक्तया। आसीत्तत्समये क्षत्रियेषु बहुविवाहप्रथा। तदनुसारमभूवन्महाराजस्य २६ विवाहा:। तेषु एकादशपुत्रा: पञ्च पुत्र्यश्चाऽजनिषत। एकादशतनयेषु दशपुत्रा महाराजस्य सम्मुख एव समरेषु वैरिणो निघ्रन्त: स्वर्गमारोहन्। एकादशस्तनय: श्रीभावसिंहो राज्यमाशिषत्।
मानमहाराजोऽतीव वदान्यस्वाभावोऽभूत। तस्य दानवीरताया बह्वय: कथा: प्रसिद्धा:। तथा सोऽयमासीत् कलानां प्रणयी। एतस्य स्मृतय: आम्बेरराज्ये, येषु प्रदेशष्वयं शासको भूत्वा न्यवसत्तेषु, युद्धाय वा प्रातिष्ठत तेषु साम्प्रतमप्युपलभ्यन्ते। मानसिंहो न केवलमाम्बेरस्य, अपि तु भारतमात्रस्य वीराणां मौलिमाणिक्यमासीदिति निष्पक्षपाता ब्रूयु:। अनेन निजजीवने समरा महान्तोऽनुष्ठिता:। सर्वेष्वेव तेषु विजयोऽनेन लब्ध: न जातु पराजयो दृष्ट:।