अभिराजराजेन्द्रमिश्रप्रणीतम्
मृगमृगेन्द्रान्योक्तिशतकम्
मृगान्योक्तयः
सुखीमृगः
शष्पाङ्कुराः समशितुं गिरिनिर्झराणां
पातुं जलानि तृणतल्पमलं निशेतुम्।
भोक्तुं च यौवनमदोद्धुरयूथमृग्यः
किं किं न भूपसुखमेणयुवा भुनक्ति।।१।।
पौत्राः स्नुषापरिसरे विहरन्ति मुग्धाः
कन्दर्पकेलिनिरताश्च समे युवानः।
प्रौढाः स्वयूथपरिरक्षणयत्नवन्तो
दृष्ट्वेति सौख्यमुपयाति गृही कुरङ्गः।।२
गर्जन्तु केचिदिह शान्तवने मदोत्का
निद्रामरण्यगृहिणां ननु खण्डयन्तः।
कान्तारमङ्लभराग्रहिणो वयं तु
निद्राशनानुमितमुक्तिसुखाः कुरङ्गाः।।३।।
वत्सलो मृगः
कारुण्यकातरदृशं प्रसमीक्ष्य पोतं
जानुक्षतस्थगितधावनशक्तिमेणः।
मन्दं सरन्नतितरां भयमादधानः
स्वात्मन्यहो शिवशिवेति जपत्यनल्पम्।।४।।
सर्वैः कुटुम्बिभिरहं प्रणयार्द्रचित्तै-
र्यौथप्यमेष गमितोऽस्मि यता तथैते।
पाल्या ममेमति धृतनायकताभिमानो
यूथानि शाद्वलभुवं नयते कुरङ्गः।।५।।
व्याधूय संसृतिविकारचयं प्रयत्नै-
र्यावत्कुरङ्ग इह शान्तवनैकदेशे।
स्वीयं मनः प्रयतते हरिणाऽनुयोक्तुं
क्रीडारसं स्मरति तावदपत्यकानाम्।।६।।
मुञ्च क्षणं तदनु भक्षय मां यथेष्टं
पञ्चानन! प्रथितशौर्य! दयस्व भद्र!।
क्षुत्क्षामदीनवदनं तृणभक्षणाज्ञं
स्तन्यं निपाय्य निजशावकमागताऽस्मि।।७।।
यन्मे त्र्यहीनशिशुकोऽम्बुधिफेनकम्रो-
ऽदृष्टेन्द्रियोन्मदसुखस्त्वयका निगीर्णः।
चाण्डालि सिंहि! मयकाऽपि ततोऽसि शप्ता
यत्ते न जातु भविता सुतजन्मसौख्यम्।।८।।
निर्भयो मृगः
न श्रूयते श्रवणरन्ध्रविदारिनादो-
ऽरण्यस्थकेसरिकदम्बकनायकानाम्।
कालं नयत्यभयमायुष एणकोऽयं
यूथच्य़ुतोऽपि नृपरक्षितमन्दुरायाम्।।९।।
रोमन्थमारचय सान्द्रवटद्रुमूले
सौख्यं विभावय सखे! परिधावनानाम्।
कान्तारके नृपतिवारितसाध्वसेऽस्मिन्
व्याधाः क्व ते क्व च तरक्षुमृगेन्द्रसङ्घाः!!।।१०।।
दैवरक्षितो मृगः
वात्योत्थधूलिनिचयैर्वनिका परीता
भग्नाः प्रभञ्जनरयैस्तरवः समन्तात्।
वर्षानिषद्वरवशाद् वसुधाऽप्यगम्या
नूनं विरञ्चिकृपयैव मृगोऽवतीर्णः।।११।।
जानाति नो मृगशिशुर्जननी न तातं
धात्रीं न चाऽप्यभिजनं न कुलं न गोत्रम्।
यूथैः सहैव परिवर्धितकस्य तस्य
भव्यं तथाऽपि निखिलं विदधे विरञ्चिः।।१२।।
जङ्घाबलेन सहसैव विलोक्य सिंहं
विभ्रान्तयूथनिकरे सति कान्दिशीके।
पार्श्वस्थभूधरदरीपरिगोपितोऽयं
धात्रा चमूरुशिशुकः स्वयमेव गुप्तः।।१३।।
रात्र्यन्धकारनिवहे तटिनीतटस्थं
शैवालजालमलिनोद्धतकृष्णसारम्।
पर्यस्तधूसरसटं व्युपगम्य सिंहं
व्याघ्रो यदाशु चिखिदे विधिसंश्रुतं तत्।।१४।।
सिंहैर्हताः प्रथममेव तरक्षवस्ते
सिंहाः स्वयं विनिहता ननु चर्मलोभात्।
गोमायवस्तु हनने न मनाक् समर्थाः
संरक्षिता नु विधिनैव वने कुरङ्गाः।।१५।।
सङ्कटापन्नो मृगः
के के न सन्ति विपिने पशवः समर्था
भल्लूकमण्डमदसिन्धुरपुण्डरीकाः।
स्वैरं भ्रमन्ति गतसिंहभयाश्चमूरो!
एकस्य हन्त परितोऽपि भयं तवैव।।१६।।
दम्भोलिकल्प इह नाऽऽक्रमते बुभुक्षुः
कण्ठीरवो निभृतमेव निसर्गहिंस्रः।
यावन्न वागुरिक इक्ष्यत आत्तचाप-
स्त्राणां विचिन्तय कुरङ्गक! तावदिष्टम्।।१७।।
केषां न जीवनविधिः सुखदुःखनद्धः
सन्दृश्यते जगति वर्षशतायतोऽत्र।
जीवन्त्यहो तदखिलं शतवर्षमायु-
र्दीना मृगाः प्रतिदिनं ननु सिंहभीताः।।१८।।
आकर्ण्यते प्रतिनिशीथमुदीर्णरोष-
प्लुष्यद्विवेकवनकेसरिकण्ठनादः।
विश्रब्धमाश्रयतु हन्त कथं प्रगाढां
निद्रां चमूरुनिकुरम्बमिदं वनान्ते।।१९
भार्या विमन्थरगतिः परिपक्वगर्भा
व्याधोऽपि मार्गणपरः समधिज्यचापः।
सिंहो भिनत्ति नदितैः श्रुतियुग्मरन्ध्रौ
कां कां श्रयेदहह वन्यमृगोऽथ चिन्ताम्।।२०।।
दृष्ट्वैव सिंहशिशुकं प्रविलीयते यः
फेरुः क्वचिन्नु पदयोरुपधायपुच्छम्।
आलोक्य मामधम एष कुरङ्गशावं
धावत्यहो निगरितुं स्फुटलोलजिह्वः।।२१।।
विस्तीर्णशीर्णमरुभूर्द्रुमगुल्महीना
नद्यो निदाघपरितापतनूकृतापः।
मांसाशिनो जठरशाकुनिका नृशंसा
भ्रष्टो मृगोऽवतु कथं श्वसितानि देहे।।२२।।
युयुत्सुर्मृगः
व्यापाद्यमानमवलोक्य मृगं मृगेन्द्रै-
र्नित्यं वने निशितदन्तसमत्वबुद्धया।
आचक्रमे जरठमेणमहो शृगालः
शृङ्गैर्विदार्य निहतोऽप्युदरं स तेन।।२३।।
शृङ्गाग्रदारितदरीं ननु पूर्ववंश्यः
कश्चिज्जघान धृतकन्धरकोऽपि चित्रम्।
वृद्धैणकेन मृगसंसदि वर्ण्यमानां
शृण्वन्ति सङ्गरकथां विनिमज्ज्य सर्वे।।२४।।
हतभाग्यो मृगः
अकारदैर्घ्यमथ सत्वरधावकत्वं
पुष्टाङ्गतोपहृतरक्षणशक्तिमत्त्वम्।
दत्वाऽखिलं नु विधिना हरिणाय हन्त
कस्माद्धृतं निशितदन्तनखायुधत्वम्।।२५।।
नोदेति हन्त करुणा न दया न सख्यं
रङ्कून् विलोक्य बत केसरिणां कदाऽपि।
जागर्त्यहो कथमलं प्रसरज्जिघांसा-
मात्रं विधे! बलवतामबलेषु तेषु।।२६।।
शोकं जहि स्थगय लोचनवारिपातं
पोतं च शष्पकवलैः परिपालयोर्ध्वम्।
सारङ्ग भो निहतभार्य! वनेऽत्र सैंहे
सम्भाव्यते न च तवाऽप्यविपन्नमायुः।।२७।।
सौजन्यमार्जवकृत्रिममानृशंस्यं
किं किं वदान्यविधिनोपहृतं न तुभ्यम्?।
हा धिक् तथाऽपि ससुखं भुवि जीवनाय
साह्यं चकार न गुणस्तव कश्चिदेकः।।२८।।
सद्यः प्रजातशिशुवर्षफलं विचेतुं
कार्तान्तिकं गतवती हरिणी प्रहृष्टा।
ब्रूते मुहूर्तमिव सोऽपि निमील्य नेत्रे
वत्सेऽयमुग्रनखराच्छतयत्नरक्ष्यः।।२९।।
नो गर्भधारणसुखं न च दोहदानां
कश्चिद्वधूविधृतिखेदहरप्रसङ्गः।
नो चाऽप्यरण्यपरिधौ सतुजन्महर्ष
एणीललाटलिपिकृन्न विधिर्विधिज्ञः।।३०।।
व्यासो बलिर्न हनुमान न विभीषणो वा
द्रौणिः कृपोऽथ भविता न च जामदग्न्यः।
भद्रे! कुरङ्गि! सुतजन्मविवृद्धहर्षे!
सैंहे वनेऽत्र गणयाऽऽयुरहानि तस्य।।३१।।
धिक् तेऽक्षियुग्ममदिरच्छविमेण! बन्धो!
कृत्तिं पृषत्करुचिरां सहजार्जवं च।
सर्वंसहत्वमथ मन्दगतिं च ते धिक्
केनाऽपि हा निजगुणेन न रक्षितोऽसि।।३२।।
पराधीनो मृगः
स्यात्सौख्यमत्र सकलं किल मन्दुरायां
सारङ्ग! तेऽप्यशनपानकरक्षणादि।
क्वाऽसौ तथाऽपि वनभूमिविशालवक्ष-
स्युत्प्लुत्य धावनसुखं सममेणिकाभिः।।३३।।
आनीय लौहलघुपञ्जरके निबद्धो
लोकानुरञ्जनकृते मृगसावकोयम्।
अम्बां निजाननविलोकनकातराक्षीं
स्मृत्वाऽधिसन्ध्यमिह रोदिति नित्यमेव।।३४।।
संल्लेहनान्यपघनेषु रिरंसुमृग्या-
स्चेष्टेङ्गितप्रसरजातकथाश्च तास्ताः।
क्रीडाविनोदनसुखानि च शावकानां
किं किं स्मरेदहह बद्धमृगोऽद्य दीनः।।३५।।
सङ्गूहितं निबिडकुञ्जदरीषु रूपं
तीर्णा च वागुरिकबन्धनरज्जुयुक्तिः।
क्षुत्क्षामसिंहभुजपञ्जरकोऽप्यपास्तो
धातस्तथानपि खलु मान्दुरिकोऽस्मि जातः।।३६।।
क्वाऽमी द्रुमौघनिचिता विलसद्वनान्ताः
क्वाऽमूर्महीधरशिलाः शरदिन्दुरम्याः।
क्वाऽत्र प्रपातनिपतज्जलकेलयस्ता
इत्येवमादि बिभृते विवशः कुरङ्गः।।३७।।
छलितो मृगः
नाऽऽलोकिता विपिनशाद्वलभूमिभागा
नाऽऽसादितानि गिरिसिंहगुहावनानि।
एकेन हन्त तदपि च्छलितोऽस्मि धात-
र्वीणारवेण जननान्तरसौहृदेन।।३८।।
वंशीरवैर्मम हृषीकचयं मुषित्वा
सन्दर्श्य हन्त कशमुष्टिमपि प्रकामम्।
भिल्ली प्रतार्य जगृहे यदि मामदोषं
विस्फूर्जितं तदखिलं मम पातकानाम्।।३९।।
मल्लाङ्क्षितोऽपि रमणीवदनोपमानं
सौभाग्यभाक्कुमुदबन्धुरहो धरित्र्याम्।
यत्साम्यधृक् च नयनं गमनं च तासां
तेऽमी वयं वनमृगाः कवितावनान्ताः।।४०।।
शंसा ममैव गमनेषु नितम्बिनीनां
तल्लोचनचछविषु चाऽपि ममैव साम्यम्।
श्राद्धेऽर्चने च विहितं मम मांसचर्म
धन्यो विधिर्यदि वधोऽपि ममैव शस्तः।।४१।।
चित्तं विदेहदुहितुः सहसा ग्रहीतुं
श्रीराघवं छलयितुं च दशास्यमन्त्रात्।
यद्रूपतामुपगतो ननु पञ्चवट्यां
मारीच एणकुलरत्नमहं स एव।।४२।।
अनुकम्पितो मृगः
आक्रान्तशम्बरवधूमपहाय सिही
तच्छावमेव चक्लृपे तरसा ग्रहीतुम्।
संवीक्ष्य किन्तु परिधावनलोललीलां
चिक्रीड साऽपि सह तेन निजार्भबुद्ध्या।।४३।।
धृतिशीलो मृगः
यः कोऽपि हन्तुमुचितोऽद्य मृगेन्द्रझम्पै-
रासीद् ध्रुवं तदहमेव यदि प्रहन्ये।
मा गाः शुचं हरिणि! पालय शावकं स्वं
सेवस्य यूथपतिमेष विपन्नधर्मः।।४४।।
संन्यस्तो मृगः
निर्विघ्नशान्ततरुनिष्कुटक्लृप्तकुञ्जे
नेत्रे निमील्य तिरयन्नखिलेन्द्रियार्थम्।
ब्राह्मे सुखेऽपरिगते श्रितचित्तवृत्ति-
रभ्यस्यतीव जरदेणमणिः समाधिम्।।४५।।
उत्तमर्णो मृगः
हन्यन्त एव वधिकैः किल पापवृत्तैः
प्राणव्यथामहह भूरि च ये सहन्ते।
नित्याधमर्ण इव भाति चिराय तेषां
कस्तूरिकागुणविदेष विरञ्चिपादः।।४६
नाऽन्यत्किमप्यशुचि घातितचर्मतुल्यं
लोको निकाममुररीकुरुते विधिज्ञः।
देवार्चने मदजिनं विहितं तथाऽपि
तस्मात्परं किमपरं मम भागधेयम्।।४७।।
यावत्पुरः पतति नैव नगोपरोधो
जङ्घाबलं च मम यवदुपैति सख्यम्।
रक्ष्यो मयाऽनुपतितो दयितोऽयमात्मा
कण्ठीरवादिति हृदि प्रथते कुरङ्गः।।४८।।
प्रणयी मृगः
कन्दर्पकेलिविधिपूरणशालभञ्जी
माञ्जिष्ठलोहितविलोचनचारुलक्ष्मीः।
दृष्टा यतः प्रभृति शान्तकुरङ्गिकाऽसौ
जातो हि कश्चिदपरस्तत एव रङ्कुः।।४९।।
शष्पेषु नोऽभिरूचिरम्भसि नोऽभिलाषः
संसर्गसौख्यमपि नैव मनोज्ञयूथे।
बालां मृगीं रतिसुखोत्सविनीं कुरङ्गो
यस्मात् क्षणादुपवने सकृदालुलोके।।५०।।
विरही मृगः
चण्डं दहत्यपघनानि निशीथचन्द्रो
दूर्वातलिच्छमपि यच्छति नैव शैत्यम्।
माद्यन्मनोभवरूगर्दितशम्बरस्य
क्वाऽसौ क्षुधा क्व च तृषा क्व च गाढनिद्रा!!।।५१।।
मृगेन्द्रान्योक्तयः
प्रणयी मृगेन्द्रः
कोलाभ्रमन्ति घनघर्घररावमत्ता
उन्मूलयन्ति करिणः कदलीवनानि।
सिंहीस्मरेषुहृतचेतनके मृगेन्द्रे
कान्तारकेऽत्र नहि के किमिवाऽऽचरन्ति!!।।५२।।
मत्तेमकुम्भमपि यो तरसा सहेलं
दम्भोलितीक्ष्णनखरै- क्षपयाञ्चकार।
सिंहोऽप्यसौ प्रियतमारतिभैक्ष्ययाची
निर्विक्रमो भ्रमति हन्त वनाद्वनानि।।५३।।
विद्राविता वनमृगा ननु दृष्टिभङ्गै-
र्हुङ्कारझम्पितभरैश्च लुठल्लुलायाः।
कण्ठीरवेणकिल येन स चापि सिंही-
घुत्कारभीत इव तामनुयात्यभीकः।।५४।।
सञ्चूर्णिता जरठदन्तभरैर्वराहाः
स्तम्बेरमाश्च विहिता ननु कान्दिशीकाः।
सिंहीवराङ्गमदगन्धवशीकृतोऽसौ
निष्पौरुषः श्रयति शैलदरीं मृगेन्द्रः।।५५।।
इन्द्रायुधप्रतिमभूरिकठोरवक्ष-
स्यास्ते ममाऽपि नवनीतविनीतचित्तम्।।
रिङ्गत्तरङ्गरतिनाथविलासलीला
यत्रोन्मिषन्ति भणतीत्यलसो मृगेन्द्रः।।५६।।
रोमन्थमारचयतु प्रतिमल्लझम्पा-
पातोत्थसाध्वसविमुक्तकुरङ्गयूथः।
जायानुरागशिथिलोर्जसि संशयालुः
पञ्चाननोऽद्रिकुहरे निभृतं शयालुः।।५७।।
वत्सलो मृगेन्द्रः
क्षुत्क्षामसिंहभुजपञ्जरमुक्तधात्री-
सङ्गच्युतो मृगशिशुः सदयं बुभुक्षुः।
सिंहीस्तनं झटिति पातुमियेष यावत्
साऽप्याशु वत्सलतया लिलिहे तमेव।।५८।।
मा ते भयं भवतु गच्छ कुरङ्गबाल!
स्वैरं वनीषु विहराऽऽत्मसुखं लभस्व।
नेयं वधाय तव युक्तघटीति चित्ते
कृत्वा हरिस्तददनाद् विमुखीबभूव।।५९।।
अकुतोभयो मृगेन्द्रः
कोला गजा गवयसैरिभकृष्णसारा
भीता इव प्रविचरन्ति वने सयूथम्।
किन्त्वेक एव निखिलामटवीं सलीलं
कण्ठीरवोऽहमकुतोभय उत्प्लवामि।।६०।।
विकत्थनो मृगेन्द्रः
दत्तं वपुर्न यदि सिन्धुरवद् विधात्रा
किं तेन कोटिगजसत्त्वमहं बिभर्मि।
सिंहोऽस्मि शास्मि विपिनं वशगातपत्रं
हुङ्कारएव वितनोति ममौत्तमर्ण्यम्।।६१।।
प्राणान् प्रकम्पयति हन्त निसर्गनादः
पङ्गून् करोति हरिणान् मदपाङ्गभङ्गः।
शून्यत्वमेति विपिनं सहजप्रचारै-
स्तत्कं शपे स्वहरितामथवा विरञ्चिम्।।६२।।
चीत्कृत्य भीषयसि मामिह किं शयानं
विन्ध्याद्रिसंहननगर्वितकुञ्जरेन्द्र!।
भिन्ने सति क्वचन वज्रनखप्रहारैः
कुम्भस्थलेऽनुभवितासि ममोग्रवीर्यम्।।६३।।
पश्चात्तापविधुरो मृगेन्द्रः
सद्यः प्रसूतिविकलां गमनेऽप्यशक्तां
शावानुरक्तहृदयां हरिणींम विपन्नाम्।
क्रूरो यथा वनपतिः कवलीचकार
मृत्युक्षणे तदखिलं स्मरतीव सास्रम्।।६४।।
कस्मात् कृतोऽस्मि विधिना परमांसभक्षी?
कस्मादरण्यपरिधावनभीष्टसङ्गः।
कस्माच्च बन्धुजनसौख्यभरप्रहीणो
धातः! प्रदाय हरितां ननु वञ्चितोऽस्मि।।६५।।
प्रीतिर्ममाऽपि निजबन्धुषु वत्सलत्वं
शावेषु भुक्तदयितासु च गाढरागः।
गार्हस्थ्यगौरवमहो मयि सुप्रतिष्ठं
मां वेत्ति किन्तु जगदेष नृशंसमेव।।६६
प्रस्तारिते सयतनं किल जालमार्गे
व्याधैर्वने निगडिताङ्घ्रितुरीयसिंहः।
बन्धून् विलोक्य परिहृत्य पलायितांस्तान्
पस्चात्तपत्यविरलाश्रुततिप्रसिक्तः।।६७।।
दृष्ट्वा स्वपूर्वदयितामपरानुरक्तां
सावांश्च दर्शितनिरन्तरभूर्युपेक्षान्।
पश्चात्तपत्यनुदिनं जरया श्लथाङ्गः
कणठीरवोऽवसितशौर्यकथाप्रसङ्गः।।६८।।
कालग्रस्तो मृगेन्द्रः
व्यापादिताः कति कतीह न काननेऽस्मिन्
क्रीडारसेन खलु केसरिणा कुरङ्गाः?।
पञ्चत्वभाक्स्वयमहोऽद्य स पञ्चवक्त्रः
कालो वलिष्ठमपि भक्षयतीति चित्रम्।।६९।।
येनाऽधमेन हरिणाः शतशो निगीर्णाः
खञ्जीकृताश्च दशनप्रहृता वराहाः।
हा हन्त सोऽपि जरया किल जर्जराङ्गः
कण्ठीरवो गणयति श्वसितेर्दिनानि।।७०।।
द्रंष्ट्रा विभुग्नशिखराः प्रतियोगियुद्धे-
ऽप्यन्धे दृशौ जरठसैरिभशृङ्गविद्धे।
वार्धक्यजर्जरनखः शिथिलाङ्गयष्टिः
सिंहः स्वयम्मृत इवाऽद्य गुहानिलीनः।।७१।।
व्याधिग्रस्तो मृगेन्द्रः
चञ्चूपुटैः कुषति निर्भयकाक एष
पूतिक्षतं कृमय उत्सवमामनन्ति।
मक्ष्योऽपि शोणितमकण्टकमापिबन्ति
व्याध्यर्दितो वनपतिर्विवशोऽद्य जातः।।७२।।
दृष्ट्यग्निदग्धमृगतां मृगराजतां ते
धिग् धिग् गजेन्द्रहननक्षमतां च सिंह!।
बर्बूरकण्टककृतक्षतविद्धपादौ
यत् त्वं पदात् पदमपि क्रमितुं न शक्तः।।७३।।
सुभटो मृगेन्द्रः
स्कन्धोत्थकेसरभरैः कवची नखाग्रैः
खड्गी दृगग्निपतनैरपि सायकी च।
झम्पैर्गदी प्रचुरनादचयैः प्रचारी
कण्ठीरवस्य भटतेति निसर्गसिद्धा।।७४।।
नाऽऽलोकते सहचरान् न सहायिवर्गान्
नो वैरिदुःस्थितिमथाऽपि च दुःस्थितिं वा।
त्मानमेकमपि दुर्जयमेव मत्वा
पञ्चाननः समदसिन्धुरमुच्छिनत्ति।।७५।।
वञ्चको मृगेन्द्रः
कुञ्जे क्वचित् क्वचिदपि द्रुमगुल्मरन्ध्रे
गर्ते महीध्रकुहरे हरसि प्रलीनः।
कुब्जीकृताखिलवपुर्हरिणानशङ्कान्
यत् त्वं निंहसि छलितैर्न ततोऽसि सिंहः।।७६।।
आगच्छ पान्थ! कनकाङ्गदमेष दास्ये
स्वैनश्शमाय मम दानमिदं गृहाण।
ब्रूते जरन्मृगपतिर्नखदन्तहीनः
क्षुत्क्षाम आर्तवचनः श्रितकच्छभूमिः।।७७।।
वृत्तिर्ममाऽस्ति किल शोणितमांसमात्रै-
स्तद्वान्न कोपि समुपैति यदृच्छया माम्।
शक्यग्रहा न खलु ते पवनातिवेगा-
स्तस्मात् प्रवञ्च्य हरिणान् निभृतं निहन्मि।।७८।।
कृतघ्नो मृगेन्द्रः
निस्सारिता घनसटाप्रविलीनकीटाः
कृत्तिन्तुदाः प्रशमिताश्च दुरन्तकण्ड्वः।
तत्सर्वमेव हरिणा सुखकारि सोढं
व्यापाद्य सम्प्रति शठोऽत्ति बकं तमेव।।७९।।
धिक्कृतो मृगेन्द्रः
सन्दारिता झटिति कैरपि पृष्ठकृत्तिः
प्रोथोऽप्यलं निगडितो महिषस्य कैश्चित्।
कैश्चिच्च कण्ठनलिकैव दृढं गृहीता
क्लीबक्रियं धिगधमाधिपतिं मृगेन्द्रम्।।८०
जाजायते रितरुजैव कलत्रकाङ्क्षा
शावेष्वपि क्व विनतप्रणयोपचारः।
जागर्तिमेत्य वनमिच्छसि निस्सपत्नं
धिक् तेऽद्वितीयनियतिं भुवि भो मृगेन्द्र!!८१।।
कदर्थितो मृगेन्द्रः
आरोढुमेव न यतः क्षमते दुमाग्रं
दंष्ट्राकरालवदनोऽथ च सिन्धुरघ्नः।
तस्मादधस्तलशयानमहो मृगेन्द्रं
साखामृगा मलिनयन्ति पुरीषमूत्रैः।।८२।।
यत् त्वं निपात्य कलभान् गवयांल्लुलायान्
गण्डांश्च भक्षयसि साह्यविहीनशौर्यः।
विद्युत्कशापतनभीत इवाऽल्पयत्नै-
र्नाट्यं करोषि विविधं परिधौ स एव।।८३।।
अभिशप्तो मृगेन्द्रः
व्यादाय वक्त्रमभितः परितोऽपि धाव
स्वैरं प्रणद्य ननु भीषय वन्यजीवान्।
धात्रा न ते लिखितमस्ति ललाटपट्टे
कण्ठीरव! प्रणयिबान्धवसाहचर्यम्।।८४।।
क्षमाशीलो मृगेन्द्रः
अश्वत्थपत्रपरिकम्पितचित्तवन्तो
दृष्टवैव यं वनगजाः स्थिरतां न भेजुः।
तस्यैव हन्त घनकेसरवीथिकासु
चेक्रीयते खलु गतागतमाखुरेषः।।८५।।
लालारसं निगरितुं किल धृष्टमक्ष्यः
पञ्चाननाननतटीसु कृतास्पदास्ताः।
निघ्नन्ति तस्य सुलभां परिगाढनिद्रां
सोऽपि प्रसार्य रसनां स्वरूचिं विधत्ते।।८६।।
सुखी मृगेन्द्रः
उद्वृत्तदन्तचयमोदकरप्रचारैः
कण्डूतिमाशु दयिताः शमयन्ति यस्य।
क्रीडन्ति शावनिवहाश्च दरीमुखाग्रे
सौख्यं किमन्यदिह केसरिणोऽस्त्यरण्ये।।८७
वासाय पर्वतगुहाः सकलर्तुरम्या
ध्वस्तद्रुमा वनभुवः परिधावनाय।
सन्त्येव काननमृगा जठराग्निशान्त्यै
धात्रा यथार्थसुखिनो विहिता मृगेन्द्राः।।८८।।
स्वाभिमानी मृगेन्द्रः
क्षुत्क्षामकण्ठनलिकोऽपि न जातु भक्ष्यै-
रन्यार्पितैः स्वमुदरं परितोषयामि।
पञ्चाननोऽहमिह विक्रमसंकथाभि-
र्ज्ञातो वनीविषयिणां स्वयमाहरामि।।८९।।
नाऽहं शृगाल इव भक्षणभैक्ष्ययाची
नाऽहं लुलाय इव वर्तुलगोष्ठशायी
सिंहोऽस्मि विक्रमरसो विपिनेऽद्वितीयः।।९०।।
एकाकी मृगेन्द्रः
मार्गे मिलन्ति विभजन्ति सदा सखायः
सिंहो न हर्षमुपगच्छति नैव खेदम्।
आत्मावलम्बनरुचिः स पुनर्निसर्गा-
देकान्त एव रमते स्वजनानपेक्षः।।९१।।
जीवन्तु ते कथमहो नितरां भयार्ता
जीवो मिथो वनभुवि प्रतिरुद्धमार्गाः।
जीवत्यरण्यपरिधावकुतोभयोऽद्धा
कण्ठीरवः सकलभीषयिता स एकः।।९२।।
बालो मृगेन्द्रः
अत्येति धावनगतिः पवनं न यावद्
यावन्नखाः कुलिशतां न च मे प्रयान्ति।
तावद् विधेहि सुखचङ्क्रमणं वनेऽस्मिन्
वक्तीति सिन्धुरशिशुं प्रति सिंहशावः।।९३।।
शैलाभमत्तगजपृष्ठविटङ्कमुच्च-
मारोढुमुत्कमनसं परिसान्त्वयन्ती।
सिंही ब्रवीति शिशुकं सुत! एष हस्ती
शुण्डामुखेन परिगृह्य हरिष्यति त्वाम्।।९४।।
प्रभुर्मृगेन्द्रः
वेणुस्वनं गिरति कीचकरन्ध्रवायुः
सूते मृदङ्गरवमेष गिरिप्रपातः।
निर्वर्तयन्त्यतनु नृत्यविधिं मयूराः
साक्ष्यं किमन्यदिह केसरिणः प्रभुत्वे।।९५।।
सिंहो हतः सपदि खड्गसकृन्निपाते-
नैवं प्रजल्पति मृषा नृपतौ सदम्भम्।
आस्थानभित्तिपरिकीलितसिंहवक्त्रं
तूर्णं पपात तदुपर्यसुभिः स मुक्तः।।९६।।
सिंहो न सिन्धुरविशालतनुप्रमाणो
नाऽसौ क्रमेल इव लम्बगलोऽद्रिकल्पः।
वेगेऽपि चित्रकतुलां न मनाग् बिभर्त्ति
स्वैरं प्रशास्ति विजनं स तथाऽपि सत्त्वैः।।९७
उपकृतो मृगेन्द्रः
तीक्ष्णा नखाः क्रकचवक्त्रतुलामुपेता
दंष्ट्रा निशातपरशुप्रतिमाश्च तास्ताः।
केषाञ्चिदप्यभिमता न बभूवुरुर्व्यां
जाता गुणाः परमहो मृगघातिनां ते।।९८।।
वह्निं दृशोः क्रकचशङ्कुदुरन्ततैक्ष्ण्यं
द्रंष्टासु वायुगतिमङ्घ्रिचयेष्वनल्पाम्।
नादेऽपि हृत्कमलभञ्जनभूरिभावं
दत्त्वा ध्रुवं नु विधिनोपकृतो मृगेन्द्रः।।९९।।
बाल्ये क्षतप्रविकलो वनपालकेना-
ऽऽनीय प्रसन्नहृदयेन गृहं प्रयत्नैः।
संसेवितोऽभवदलं यदयं मृगेन्द्रः
स्मृत्वाऽधुनाऽपि तदमुं न हिनस्ति जातु।।१००।।
इतिश्रीदुर्गाप्रसादाभिराजीसूनुना समवाप्तमहामहिमराष्ट्रपतिसम्मानेन
त्रिवेणीकविनाऽभिराजराजेन्द्रेण विरचितं मृगमृगेन्द्रान्योक्तिशतकं
परिसमाप्तम्।।
रचनावधिः १७ जनवरी-
२७ मार्च २००२ ई.