मुद्गरदूतम्
किं मे पुत्रैर्गुणनिधिरयं तात एवैष पुत्रः
शून्यध्यानैस्तदहमधुना वर्त्तये ब्रह्मचर्यम्।
कश्चिन्मूर्खश्चपलविधवास्नानपूतोदकेषु
स्वान्ते कुर्वन्निति समवसत्कामगिर्याश्रमेषु।।१।।
शास्त्रज्ञानामपि ननु तनुदूषितावस्कराद्यैः
शुद्धः कः स्याद् गुरुरिति भुवं स भ्रमन्मूर्खदेवः।
वव्रे कश्चिद् गुरुमथ शकृत्पूयरक्तादिशून्यं
चैत्ये कस्मिश्चन विनिहितं जीर्णपाषाणखण्डम्।।२।।
चैत्योपान्ते सरितमतुलां प्रांप चिन्तां स पश्यन्
दैवादग्निदहति यदि तां का दशा यादसां स्यात्।
तान्युड्डीय द्रुमततिमिमां तीरजां हन्त यान्ती-
त्युक्तः प्राज्ञैरपि सकरुणं मुक्तकण्ठं रुरोद।।३।।
मैनां धाक्षीर्दहन भगवन्मातरं मत्स्यजातेः
सायं प्रातः प्रतिदिनमिति प्रार्थनां गातुमुच्चैः।
उद्याक्तानामथ समुदितश्चर्मकारादिकानां
व्याख्यानाद्यैर्विपुलसमितीः स्थापयामास मूर्खः।।४।।
सायं चैत्ये स कथकमुखान्माघमाहात्म्यकाण्डे
शुक्लाष्टम्यां विकिरति सुधां शीतरश्मिर्निशीथे।
श्रुत्वा वार्त्तामिति सविधवः शूक्ष्मकौपीनधारी
तीरे नद्या रजनिमनयज्जाड्यविद्धः सुधायै।।५।।
ग्रामोपान्ते तरूणविधवाः प्राप्तगन्धर्वबाधा
मूर्च्छामग्नाः सरभसमसावामृशन्नङ्गुलीभिः।
गायत्र्या वा मदनविधुरो रामकृष्णाह्वयैर्वा
सोच्छ्वासास्ता व्यधित पयसा शस्यराजीवृषेव।।६।।
क्षेत्रेऽपश्यत् समह्रीषमथ स्पीतदपे भ्रमन्तं
त्वत्तः श्रेयानु पशुरयं श्रृङ्गलाङ्गूलयुक्तः।
इत्थं प्रोक्तः प्रियविधवया तामुवाच प्रियार्हे
पुच्छं श्रृङ्गद्वयमपि च मे दिव्यदृष्ट्यावलोक्यम्।।७।।
गर्भं लब्ध्वा तरुण विधवा कापि तं लज्जयोचे
वक्ष्यन्ती में किमिह भगवन्बन्धवो गर्भिणीं माम्।
तां प्रत्यूचे प्रहसितमुखो मूर्खदेवः प्रगल्भो
मद्भस्माणुप्रभवमयि ते ख्यापयिष्यामि गर्भम्।।८।।
धूर्त्तो वृत्तेरथ स गदितैरात्मजन्मान्तराणा-
मत्यश्लीलैः किल पुलकयन्बालवैधव्यदग्धाम्।
प्राप्यैताभ्यः प्रतिदिनमसौ पायसापूपराशी-
सीतारामस्तवकलकलैर्मोदयामास भक्तान्।।९।।
व्रूते भूयो मनुरपि वदेद्यामिनीं नैव भाषां
किं शिक्षाभिर्जपत शिवो रामकृष्णेति जल्पन्।
भाषानामन्यथ मनुमपि क्षीबकोऽसावजान
न्मुग्धस्निग्धैर्घृतमधुमयेवञ्चयामास वादैः।।१०।।
श्रुत्वा मृत्युं जरठविदुषः कस्यचित्काशिकायां
शिष्यैः पृष्टः कथय भगवन् कारणं तस्य मृत्योः।
पातैर्द्वीपान्तरगतिविधिं शंसति स्मैष विप्र-
स्तस्माद्यातो यमगृहमसावित्युवाच स्वशिष्यान्।।११।।
काले याते पितरमथ च व्याधितं शुश्रुवान्स
ग्रामं गत्वा झटिति जठरं तं समाच्छिद्य वाद्यात्।
वैद्यो नारायण इति वदन्स्थापयित्वापगाया
मेकादश्यामजलरसनं मारयामास तर्षात्।।१२।।
विद्वान्वृद्धो ननु तव पिता हा विपन्नोऽद्य कष्टं
शोकात्सर्वे सुहृद इति तं तुष्टुवुस्तस्य तातम्।
पापाः किं नु प्रलपथ पितुर्नैव जानीथ कीर्तिं
भूमावेष स्पुटमयि जडा मुष्कशोथे द्वितीयः।।१३।।
दृष्टा मूर्खा जगति पुरुषाः प्रायशोः लम्बकूर्चा
इत्यालोच्य व्यथितहृदयः पुस्तके चापि मूर्खः।
मुष्टया कूर्चं धृतमवहितो दग्धुमार्भ्य दीपे
वह्नौ सद्यो ज्वलति च मुखं मुक्तमुष्टिर्ददाह।।१४।।
नीतिव्याख्यासमीतिषु तथा धर्मवार्ताः सदःसु
प्रायोः नाट्येष्वथ शवखनिष्वाश्रमेषूद्भटानाम्।
व्यर्थ क्षिप्त्वा भरतवसुधाद्रव्यकोटीः स कीटो
देशप्रेमाल्बणभणितिभिर्नाशयामास विद्याम्।।१५।।
आनेष्येऽहं हिमगिरितटा दोषधं वः क्षुधारिं
प्राणायामैर्वियति भवतां साधयिष्ये गतिं वा।
कुञ्जे कुञ्जे सपदि भविता रामकृष्णावतारः
श्मश्रुच्छित्वा प्रकटवनिताभावभाजो रमध्वम्।।१६।।
जल्पन्नित्थं रसनगरलै रामकृष्णादिनामा-
न्युग्राचारः किल कलुषयन्नार्त्तवं बिभ्रदङ्गे।
सिन्दुराक्तो रणितवलयः शाटिकावेष्टिताङ्गः
सायं चैत्ये प्रतिदिनमसावञ्जिताक्षो ननर्त्त।।१७।।
बिभ्यद् भूताच्चपलविधवासङ्गमैः पूतचैत्यः
प्रायश्चित्तं मुहुरुपदिशन्स गृहस्थेषु पापः।
कोटीश्चिन्वञ्जगदुपदिशन्स्वप्नमायोपमानं
गाथा वेदानिव परिपठन् स्फीतकीर्त्तिर्वभूव।।१८।।
ईशः सृष्टिं स किल विदधे फूत्कृतैश्चिन्तया वा
तावत्पापं क इह कुरुते यावदीशः क्षमेत।
रे रे मूढाः स्मरत गणिकां तामथा जामिलं वा
व्याख्यायेत्थं निखिलजनतां मज्जयामास पापे।।१९।।
एकं ब्रह्म स्फुटमिह वृथा पुण्यपापादिभेदः
स्रङ्गमुद्राद्यैः स्पृशति न यमो धर्मलिङ्गैरुपेतम्।
भार्यापुत्रादिकपरिहृतिः स्वर्गसोपानधारा
जल्पन्निथं जगति विदधे पातकस्य प्रचारम्।।२०।।
तन्त्रीवार्ता श्रुतिषु विदिता वाष्पयानानि चैव
प्रायः किञ्चिन्न तदिह जने यन्न तास्वीश ऊचे।
निर्मायर्षीनमिथुनभवांस्ता जागादेशवरस्ता-
न्किं विज्ञानैरटत सततं तच्छ्रुतीरित्यशात्सः।।२१।।
एकस्यार्थे पशुशिशोः पक्षिणो वा कृमेर्वा
लक्षं लक्षं निहत मनुजा मानवा भूरिसंख्यान्।
मत्स्याः कीटा अथ च पशवो दुर्लभा दिव्य रूपा
व्याख्यायेत्थंकरुणहृदयो नैष हिंसां विषेहे।।२२।।
आसं पूर्वं रजकभवने रासभः साधुवृत्तो
यैषा प्रेष्ठा मम च विधवा रासभी साऽसति या।
चैत्ये श्वाऽयं मम किल पिता सूकरी हन्त माते-
त्याद्यैर्जन्मान्तरसुचरितैर्नन्दयामास नारीः।।२३।।
पुष्पाख्याभिर्जननसमयं प्राणीरेखाप्रपञ्चै-
रायुर्वार्त्ता क-ख-गणनया लक्षणं कन्याकानाम्।
चन्द्रादीनां स्थितिभिरधियां दुर्दशां तत्प्रशान्ते-
र्मिथ्योपायानपि च कितवः ख्यापयन्प्राप वित्तम्।।२४।।
पुत्रो मर्त्त्यः प्रकुरुतशिलापुत्रकान्यौवनं न
स्त्रीणां नित्यं वितनुत रतीरायसोलूखलेषु।
भोज्यं पाके भजत विकृतिं वायुमाचामतेति
प्रायस्तर्कैरथ बहुविधैर्मायिकं सर्वमूचे।।२५।।
अर्थस्याप्तिं सपदि नियतां भावानाभिर्दृढाभि-
र्व्याचक्षीणः प्रखरमतिना केनचित् धूर्त्तयूना।
सोऽहं पीत्वा मदपरवशो हन्त संकल्पमद्यं
किं वा कुर्यामिति कथयता ताडितः पादुकाभ्याम्।।२६।।
श्रीकृष्णस्ते नयनविषयं याति शेषे निशायाः
किं त्वं शेषे तदिति कथयञ्जातु शिष्यं शनैः सः।
दिव्योष्णीषः कपिशवसनः काष्ठबाहुद्वयाढ्यः
पूजां यष्टिप्रहरणमयीं प्राप तस्माद्विलज्जः।।२७।।
प्राणायामैर्वियति विहारामीति विख्याप्यरङ्गे
मन्दालोके निभृतनिहितं भित्तिकानागदन्तम्।
नृत्यन्धूर्त्तःस किल परतो मेखलाबद्धरन्ध्रं
चेतश्चक्रे कुतुकतरलं बालिशानां बहूनाम्।।२८।।
दत्तोत्कोचं विदितकपटं गर्भदासं च किञ्चिद्
गूढाकूतैः सपदि कितवो मूर्च्छयन्पाणिकम्पैः।
स्वेन ज्ञात कियदपि सुखेनाद्यवर्णाद्यभिज्ञा-
संकेताद्यैर्निभृतविहितैर्बोधयामास पापः।।२९।।
सर्वाशुद्धिप्रणयिहृदयोमद्यवार्धेरगस्त्य-
श्चाण्डालीनामधरोमधुपो बद्धगर्धः कुसीदे।
जिह्वो भूयस्तरुणविधवाभ्रूणहत्यापराधी
धर्मव्याख्याचटुलरसनः पूज्यते स्मैष मूढः।।३०।।
अस्मिन्नेवावसर उदितावत्र सुन्दोपसुन्दौ
मिथ्यावाचां धुरिकृतपदौ भारतस्य क्षयार्थम्।
एको भूते भ्रमति धरणीं राघवो मत्स्वरूपो
लालामन्यस्तडिदणुमयीं पाययत्यात्मभक्तान्।।३१।।
श्रुत्वाकीर्त्तीर्यतिकुलपतेर्मूर्खदेवस्य भूय-
स्तत्सङ्गेच्छानिधिमिव हृदा धारयन्ति प्रचण्डा।
रण्डा काचिन्मदनविधुरा स्थूलवीभत्सकाया
प्रायाद्दग्धां भरतवसुधामुत्तराध्वाधिवासात्।।३२।।
तां सर्वज्ञां खचरचरणां पाण्डुपत्नीमिव द्रा-
ग्देवान्द्र (क्र)ष्टुं पटुमतिरसाद्धोषयन्मूर्खदेवः।
भूयो भूयः प्रकटकपटामप्यधृष्यां स भक्तै-
विद्योच्छेदेऽधिगतविजयोऽपूपुजद्वज्रमूर्खैः।।३३।।
भक्तस्पर्शैर्ध्रुवमुपनतां वैद्यनाथादिलिङ्गे-
संसद्दम्भप्रचुरहृदयासावयस्कान्तशक्तिम्।
बन्धस्फोटो वियति चरतां प्रेतसत्त्वादिकानां
मन्त्रोद्धोषैरिति च सततं घोषयामास पापा।।३४।।
आदर्शेऽस्मिन्मलिनविधुरे स्यात्त्रिकालावभासो
भीष्मादीनां पुनरपि भवेद् दृष्टिरत्राङ्गुलीये।
भाग्यं सर्वं विलिखति सुखं काष्ठखण्डं तथेदं
धूर्त्ता वादैरिति शिशुजनं मोहयन्ती चचार।।३५।।
भूताह्वानैस्त्रिपदरुचिरापीठकान्नर्त्तयन्ति
कम्पै पाण्योश्चिरतरुरजः क्षिप्रमुल्लाघयन्ति।
भस्रारूपं निजगुरुजनं व्योम्नि सन्दर्शयन्ती
पूजां बालेष्वभजत चिरं दक्षिणारण्यकेषु।।३६।।
क्रुद्धा शापैरथ निजमहाशक्तिवार्त्ताप्रपञ्चै-
रन्ते भक्तप्रवरविहितैरर्धचन्द्रैश्च भूयः।
तामाजग्मुर्दृढतरधियो ये परीक्षार्थिनस्ता-
न्दम्भोद्दामा शिशुजनरिपुर्धर्षयामास पाप।।३७।।
रन्तुं देवैः क्षवथुविधिना वाष्पयानं विधातुं-
कर्त्तुं बन्धून्नयनविषये योजनानां सहस्रात्।
प्राणायामैरपि च विषयं प्राप्तुमन्यग्रहाणां
वन्ध्यापुत्रानुसरणसभां स्थापयामास धूर्त्ता।।३८।।
शून्यध्यानैरमिथुनभवब्रह्मदेवर्षिवादैः
फूत्कारादिप्रभवपृतनायुद्धवृत्तप्रपञ्चैः।
चिन्तामात्रप्रकटशकटोड्डीनकौलस्तवाद्यै-
र्वध्यापुत्रानुसरणसभां ह्लादयामास भक्ता।।३९।।
भूतप्रेतः फलितगणनामारणोच्चाटनादि-
स्पर्शाश्मादेरपि च महिमा हस्त सामुद्रिकं च।
वन्यैर्दस्युप्रभृतिभिरिति व्याहृतं यद्यदेव
प्रायः प्रख्यापितमथ सभा बृंहयामास तत्तत्।।४०।।
ब्राह्माद्यास्त्राण्यपि च खचरत्वादिसिद्धीर्हिमाद्रेः
श्रृङ्गादेषा भरतवसुधां नूनमानेष्यतीति।
वन्ध्यापुत्रानुसरणसमास्थापिकायां विमुग्धा¬
सञ्जातास्था अकृतमतयः सन्त्यजन्ति स्म विद्याम्।।४१।।
वर्षैरल्पैरथ पटुनटी सा श्रृगालाङ्गनानां
पाथेय्यासीद्विरहविधुरान्मुञ्चती हन्त भक्तान्।
बद्धाशोऽस्यां हतमतिरसौ मूर्खदेवश्चिराय
व्यामूढः सन्किमपि बुबुधे नेतिकर्त्तव्यतां स्वाम्।।४२।।
वन्ध्यापुत्रानुसरणसभा तां विना साऽप्यनाथा
वव्रे नाथं विटपटुमथो कालकूटाभिधानम्।
दिव्याशक्तीः कलयति करे वल्लभे पांसुलानां
सेर्ष्यस्तस्मिन्नभजत धृति नैव मूर्खः कदाचित्।।४३।।
मूर्खत्वं स्याद्भरतवसुधावासिनां केन शश्व-
त्सिद्धेर्लोभैः कथमविरतं वञ्चितेभ्यश्च तेभ्यः।
स्त्रीवित्तादेरलमधिगमः स्यात्सदा मादृशाना-
मित्थं चिन्तामगमदतुलां मूर्खदेवः कदाचित्।।४४।।
तस्योत्कण्ठाकुलमतिचिरं ध्यायतश्चैत्यमूले
मूर्च्छामृच्छन्नथ कपिकृशः कोकिलोदारवर्णः।
आशावासा नयनविषयं मुद्गरानन्दनामा-
यासीत्सिद्धिः शिरसि कलयन्पीततृण्याशिरस्रम्।।४५।।
कस्त्वं नग्नः कथय भगवन्नागतो वा किमर्थं
नूनं देवो भवसि विकटो देवयोनिस्तथा वा।
इत्थं भीतः किमपि भगवद्दर्शनान्मूर्खदेव-
स्तं पप्रच्छ प्रणयिविधवाशाटके लीयमानः।।४६।।
एतं मेघस्तनितविशदैरक्षरैः प्रत्युवाच
स्निग्धं पस्यन्प्रहसितमुखो मुद्गरानन्ददेवः।
मा भैषीर्भो विदितयशसं मुद्गरं पश्यसि त्वं
देवं वन्ध्यासुतचरणयोश्चारणं धन्यजन्मा।।४७।।
सूर्यस्यामी बुधकविमहीभौमजीवग्रहा ये
मन्दाख्यश्चाप्युरणवरुणौ तत्र वासोऽन्तिमो मे।
दिव्याः शक्तीस्तव समुदितस्येक्षितुं योगभूम्ना
भूमिं प्राप्तं जनमिममये विद्धि विद्वन्नमस्ते।।४८।।
जन्मानर्ध्ये वरुणभुवने गर्जितं मातृभाषा
क्रीडा शक्रायुधनवतडिद्रोहिताद्यैश्च दिव्या।
वासः कल्पक्षितिरुहतले सैकते देवनद्या
वन्ध्यापुत्रो गुरुरिति सुखं कः प्रवक्तुं ममेष्टे।।४९।।
दिव्याः कुर्वन्गुरुरथ कथाः कुण्डकानीनपोटा-
भ्रूकुंशानामभजत सुरावेशमत्यर्थघोरम्।
साक्षात्कुर्वन्पशुपतिमसौ नग्नदेवं महात्मा
ज्योतिर्लिङ्गे विपुलविभवे तस्य लीनश्चिराय।।५०।।
वन्ध्यापुत्रा गतवति गतीं तामवाच्यामथाहं
मारीचस्य प्रकटयशसो हेमकूटाश्रमान्ते।
ध्यायन्बाल्यप्रणयिनममुं भक्षितस्याहिफेन-
स्योग्राद्वेगान्न्यपतमतुले तीव्रमूर्च्छासमाधौ।।५१।।
वल्मीकार्धान्तरितवपुषः कञ्चुकाढ्योरसो मे
जीर्यद्वल्लीनिबिडितगलस्योपचर्यास्थितस्य।
न्यञ्चन्नीडावलिचितजटामण्डलस्यप्रकामं
दुष्यन्तोऽसावलभत नृपो दर्शनं भाग्यलभ्यम्।।५२।।
काले गच्छत्यतिविपुलतां बिभ्रती श्मश्रुणी मे
प्रातिष्ठेतां हरितमुभयीमुत्तरां दक्षिणां च।
एकं सक्तं स्मररिपुवटस्कन्धभागे तथान्य-
त्सुग्रीवाद्रावसजदचिरादाञ्जनेयस्य पुच्छे।।५३।।
इत्थं श्मश्रूपचयमतुलं धारयन्नर्य् मानः
पुत्राद्यर्थं तरुणकुलटा पाङ्गनीराजनाभिः।
एकं कृत्यं युगमतिगतं न व्यजानां प्रमोदा-
द्वन्ध्यापुत्रं गुरुमपि चिराद्विस्मरन्व्योममग्नः।।५४।।
कैलासाद्रिं तुलयति हठाद्रावणेऽथोत्तरं मे
श्मश्रूदस्थाद्वियति रभसोत्पाटितं च प्रसह्य।
तत्क्षोभार्त्ते हनुमतो ततो दक्षिणं कूर्दति द्रा-
गुत्खातं तद् व्यसनमगमं श्मश्रुणोर्विप्लवेऽहम्।।५५।।
श्मश्रूत्तापादथ च तपसः संप्रभावात्स धूमं
दृष्ट्वा मौलिं मम गुरुभियस्तापसानां कुमाराः।
धक्ष्यत्यस्माद्वनमपि विभो मुद्गरानन्ददेवो
दाक्षायण्याः कुलपतिमिति ज्ञापयामासुरार्त्ताः।।५६।।
भीतश्चिते कुलपतिरपि क्षिप्रमेवात्मयोगा-
न्मूर्च्छायां मां पतितमचिरात्प्रापयत्तीर्थराजम्।
तत्रातिष्ठं तव सुचरितम्यावतारं परीक्ष्य
मात्रालम्बः कथमपि गुरुश्मश्रुलोपार्त्तिदुःस्थः।।५७।।
धर्मव्याख्याकलकलरवैरैषमः कुम्भकाले
ह्रेषानादैरिव मम गुरोरश्वकानां विबुद्धम्।
दग्धा गेहाः सनरशिशवो वह्निशौचात्त्वयेति
गुल्माध्यक्षोऽधिकरणभुवं पङ्गुसिंहोऽनयन्माम्।।५८।।
मामालोक्य प्रणिहितदृशं पङ्गुसिहे पुरीषा-
ध्यक्षे श्रुत्वाधिकरणपतिस्तकृतं मेऽभियोगम्।
रे रे मूर्खाः कथमिव नरः पावकावस्करः स्या-
दुश्चैरुचे सरभसमिति त्रासयन्भृत्यवर्गम्।।५९।।
अश्वस्यान्त्रान्मुनिवरमुखाध्मायमानाद्रसाया
गर्भे वह्निं स्मरसि न कथं हा महाभारतोक्तम्।
इत्याद्युक्तीरयमगणयन्न्यायवादप्रियाणां
मर्त्त्यं जानन्व्यमुचदथ मां भर्त्सयन्पङ्गुसिंहम्।।६०।।
हेतोरस्मात्तव चरणयोर्दर्शने मे बिलम्बो
मन्तुं क्षन्तुं तमयि भगवन्नर्हसि प्रश्रितस्य।
साक्षाद् दृश्टा विकटवदना प्रेयसी तेऽवतीर्णा
प्राप्तः कालस्त्वरय सुमते रासभीं द्रष्टुमेनाम्।६१।।
वन्ध्यापुत्रो मम गुरुरयं यः पुरोक्तोऽवतार-
स्त्वं तस्यासि प्रकटय निजं वैभवं भूग्रहेस्मिन्।
यैषा याता विकटचरितोदक्पथात्तु प्रिया ते
तस्याः स्पष्टं परुषरसना रासभी सावतारः।।६२।।
आदर्शो मे सुविमलमतेऽनागतातीतदर्शो
दन्त्युद्भाविक्षवथुजननं योगचूर्णं पवित्रम्।
लक्षायुष्ट्वोपनयनपटुर्योगवर्त्तिश्च दिव्या
तस्या एतत्त्रितयमपराः सिद्धयश्च प्रकाशाः।।६३।।
गच्छावैनामियमयि सखे भारतं मोहगर्त्ते
येन स्थास्यत्युपचितमले दास्यतेऽनुग्रहान्नौ।
दिव्यं मोहाञ्जनमनुपमं येन चिन्तां विजह्यां
येनाक्ताक्षोऽमृतमिव जनो मंस्यतेऽवस्करं च।।६४।।
मध्यमुद्गरः
प्रस्थानाय प्रविहितमती मन्त्रयित्वेति देवौ
सायंकाले समलिनघटं तैलकारं भ्रमन्तम्।
काणं दृष्ट्वा पथि कुशकुनालोकभीतौ निशीथे
प्रातिष्ठेतां प्रियविधवया मङ्गलेऽनुष्ठीते तौ।।६५।।
सूचीभेद्ये तमसि कुधियो दिग्भ्रमार्तौ ततस्तौ
नायं मार्गो व्रजतमनया रथ्ययेतीव पान्थैः।
उक्तावप्याः कथमपि जडाः शासका नौ भवन्त-
स्तानाक्रुश्योपनिचितमले पेततुः पूतिगर्त्ते।।६६।।
नीत्वा रात्रिं कथमपि मलेऽवस्कराचार्यवर्यौ
प्रातः पश्चात्तटभुवि ततस्तस्य गर्त्तेऽन्तिमस्य।
चैत्यं दृष्ट्वा परमरुचिरं रासभीचारुरम्यं
प्रारेभाते रभसविवशौ मौदनृत्यं विचित्रम्।।६७।।
वृद्धस्थूलां चपलरसनां घोरबीभत्सरूपां
वक्राचारां विकटतुलसीकाष्ठमालाढ्यकण्ठाम्।
तत्रोद्दामां विकृतवदनां रासभीं वीक्ष्य काञ्चि-
त्तां धावन्तीं चिरमनुगतावापतुः पादघातम्।।६८।।
विज्ञानार्को भरतवसुधां भासयेच्चेद् गतिः का
चण्डिस्यात्ते क्व च वयमिमे हन्त यामः प्रतप्ताः।
मान्थर्यं तेऽनुचितमुचितं दर्शयेर्मन्थरा त्वं
पादाघाताद् द्विगुणितरुची तामिति प्रोचतुस्तौ।।६९।।
विज्ञानार्क तव इव जडौ मन्यते बन्धुता वा-
मज्ञानान्धतमसमतुलं हन्त जानाति सूर्यम्।
येनास्माच्च व्रजति न बहिर्गूथगर्त्तात्तदेत-
द्दिव्यं मोहाञ्जनमयि ददेऽवस्कराचार्यवर्यौ।।७०।।
इत्युक्त्वा सा निभृतनिहितां भुक्तिकां पूतिजीर्णा-
मन्तः पूयां त्वरितमनयोर्दर्शयामास घोरा।
गन्धेनास्या रघुवरशरेणेव हा ताटके यः
क्षिप्तो दूरं व्यलुठदवनौ मुद्गरानन्ददेवः।।७१।।
घ्रात्वा गन्धं मुदितहृदयोऽजामिलस्यावतारो
हृष्यद्रोमा विकसितमुखो मूर्खदेवस्तु तस्याः।
धन्यारण्डे त्वमसि चटुले योगसिद्धेति भूयः
स्तोत्रं शंसन्नवहितमनाः श्रद्दधे वाचमस्याः।।७२।।
सर्वत्रैव प्रथय भगवन्दिव्यशक्त्यादिवादं
शंसन् सिद्धान्प्रकटय निजं यस्यकस्यावतारम्।
पार्श्वे शश्वद् घटयविधवाः स्वैरिणीर्याश्च काश्चि-
न्नैवेद्यादीन्यथ च विभजेः शिष्यवर्गेषु भूयः।।७३।।
सिद्धेर्लोभादलसजनतां वीक्षितुं चावतारं
मूर्खाः सर्वे तरुणकुलटालिप्सया धर्मलिङ्गाः।
उच्छिष्टाशापरवशहृदो दुष्टबालाश्च शश्व-
न्मुग्धाः सन्तस्तव मतममी लक्षशः संश्रयन्ते।।७४।।
युक्तश्चेदं किमपि भगवन्नञ्जनं त्वं गृहाणे-
त्युक्ता सद्योविकटपरुषं रासभी सा ररास।
दृष्ट्वा कुञ्जेऽपि च विटपतिं हन्त साऽन्तर्दधे द्रा-
ग्ध्यायंस्तां च स्वभुवमगमद्विक्लवो मूर्खदेवः।।७५।।
प्रातर्भूयोऽप्यथ मलसरस्तीरमासाद्या पृच्छ-
न्दासांस्तेभ्यः स जरठविटां तां गतां द्वीपमन्यत्।
श्रुत्वामूर्च्छन्कथमपि मनस्तामनुप्रेष्य दुःस्थ-
स्तन्वा चैत्यं सुगतहयभृद्राजधानीमिवागात्।।७६।।
तस्याःशोभामथ सुरुचिरेऽवस्करस्यैष गर्त्ते
ध्यायं ध्यायं व्यलुठदवनौ ताडयन्नात्मवक्षः।
काले चास्मिन्नशरणगतिर्मुद्गरानन्ददेव-
स्तृण्यामौलिः पुनरपिदधे तस्य नेत्रातिथित्वम्।।७७।।
अस्याभ्यर्णे शतमुखतया सागरस्येव गङ्गा
तस्योद्दामद्विगुणितरया प्रावहच्छोकधारा।
दृष्टे बन्धौ प्रियविरहजं हन्तं को नाम दुःखं
रोघ्दुं सद्यः प्रभवति हठाद्वश्यचित्तोऽपि मर्त्त्यः।।७८।।
यत्नाद्वाष्पं कथमपि वशी सन्निरुध्य प्रियाया
वार्त्तामिच्छन्नमुमथ चिरान्मूर्खदेवो जगाद।
कः स्यादस्या विपदि शरणं मुद्गर त्वां विना मे
याचे तस्मात्किमपि भगवन् धृष्टतां चेत्क्षमेथाः।।७९।।
जातं वंशे भुवनविदिते वर्करानन्दकानां
जानामि त्वां विकृतिपुरुषं कामरूपं महात्मन्।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमपगुणे नोत्तमे लब्धकामा।।८०।।
सर्वज्ञं त्वां किमिव कथये ज्ञातमेवात्मवृत्तं
संदेशं मे हर विटपतिच्छद्मविश्लेषितस्य।
गन्तव्या ते वसतिरनृता नाम धूर्त्तेस्वराणां
वाष्पाम्भोधिस्थिततरितडिच्चन्द्रिकाधौतहर्म्या।।८१।।
मार्गं तावच्छ्रुणु कथयतस्त्वप्रयाणानुरूपं
प्राणायामैरपि ननु सखे येन गन्तुं क्षमेथाः।
स्थाने स्थाने तरुणविधवादृष्टिपातैः प्रमोदः
स्थूलाभ्यूषैः स्वपशुपिशितैः स्याच्च शान्तिः क्षुधायाः।।८२।।
ज्योतिर्लिङ्गं पुनरपि शिवस्यैति वृद्धिं किमित्थं
दृष्टोत्साहश्चकितचकितं मुग्धवाराङ्गनाभिः।
स्थानादस्मात्प्रचुरकितवान्निष्पतावाङ्मुखस्त्वं
नन्दस्निग्धैः कपटयतिनां शुष्कहस्तावमर्शैः।।८३।।
पृष्ठे कस्याप्यथपथि यतो बाटकस्यन्दनस्य
क्रान्त्वा सद्यः फलकमकशाद्यातभीतः प्रसर्पन्।
गङ्गासेतोर्विपुलरुचिरस्यान्तिके बाष्पयान-
स्थानं गत्वा कतिचन कलास्तत्र यानाय तिष्ठेः।।८४।।
निद्रादोषादथ कवलितस्याहिफेनस्य दोषा-
च्छून्यध्यानाच्चपलकुलटापादघातस्मृतेर्वा।
आकौमारानुसृतविषमाचारधारोपनीता-
पस्माराद्वा न यदि कलयेर्वाष्पयानागमं चेत्।।८५।।
स्थूलाभ्यूषैः सपशुपिशितैर्वर्त्तयंस्तत्र मूढः
जीवाम्यश्नन्विमलमनिलं योगवर्त्त्येति जल्पन्।
अक्षोभ्यः सन् कतिचन विभो वासरांस्तत्र तिष्ठे
र्दैवात्कस्मिंश्चिदहनि भवेद्वाष्पयानस्य लाभः।।८६।।
स्थूलाभ्यूषे सपशुपिशिते क्षारनीरे हिमे च
द्रव्यं प्रायः क्षपयसि यदि क्षिप्रमुत्थाप्य धूलिम्।
घ्राताद्यस्मात्क्षुवति मनुजे योगपूर्णाद् गजेन्द्रो
नासारन्ध्रात्प्रभवति सखे तत्सुखं निर्मिमीथा।।८७।।
विक्रीयैतत्पथिक निकटे भूरि वित्तं च लब्ध्वा
प्राप्ते वाष्पानसि विश जवाच्छुल्कपत्रं विनैव।
स्थाने स्थानेऽधिकृतपुरुषान् वीक्ष्य दूराच्छनैस्त्वं
तिष्ठेर्ब्रह्मञ्छकटरचितावस्करागारमध्ये।।८८।।
गङ्गारेवाप्रभृतिसरितः सेतुभिर्विप्रतीर्य
मुम्बामम्बामिव च वणिजां प्राप्य तीरे पयोधेः।
अङ्गै सङ्गं कमलमृदुलैः पारसीकाङ्गनानां
लब्ध्वा लेक्ष्यस्यमृतमधुरं मुद्गरायुः फलं त्वम्।।८९।।
तत्र स्पष्टं कनकघटिताः कामिनीर्भट्टीयानां
पस्येर्यासां निविडवपुषां निस्तुलामङ्गलक्ष्मीम्।
वीक्ष्योन्मतः पशुरिव मुहुर्मन्दिरस्याधिपोऽपि
प्रायो लास्यं रचयति निजं गौरवं पृष्ठतोऽस्यन्।।९०।।
व्यक्तोर्जान्ते कमपि रुचिरं तत्र चित्र वहित्रं
प्राप्य स्वस्थो जलनिधिजले प्रारभस्व प्रयाणम्।
द्वीपान्पस्यन्प्रवहणशतालोकधन्यस्तरङ्गा-
स्फालस्फीतावहनविततीर्ल्लङ्घयन्नापगानाम्।।९१।।
अश्नन्ब्रह्मन्नरानशकटे दिव्यभोज्यं यथेच्छं
तुङ्गाभोगे प्रकटकुलटोरःस्थले दत्तदृष्टिः।
द्राक्षामद्यं तुहिनशकलैः शीतलैः संपिबस्त्वं
वर्त्मश्रान्तिं गमयसि पुरा वाष्पयानेनविद्वन्।।९२।।
संत्यज्यारादथ जलनिधेर्विप्र पारस्यबाहुं
मुक्तागारं यतिमिव सखे गच्छतो दक्षिणेन।
शोणाब्धिस्तेनयनविषयं धर्मयुद्धे क्षताना-
मारव्यानां रुधिरसरितेवैष्यति व्यक्तशोणः।।९३।।
गच्छंस्तेन प्रथितविभवामुत्पथां दक्षिणेन
स्फाराङ्गाणामिव सुमहतीं शिल्पकीर्त्तेः पताकाम्।
तीर्त्त्वा रम्यामथ कृतमते तां सुबीजाख्यकुल्यां
मध्याम्भोधिं प्रविश भगवन्नुत्तरेणाजपुत्रान्।।९४।।
आराद् गच्छन्यवनधरणेः प्राच्यविद्यानिधानाद्
दूरात्पश्यन्कुतुकविवशो रोमकान्साहसाङ्कान्।
मध्याम्भोधिं हनुबलधरामुत्तरेण प्रसर्प-
न्गन्तास्यग्रे हरिकुलमुखं वीक्षमाणः सुफेनान्।।९५।।
द्रक्ष्यस्यग्रे विततमतुलं लङ्घयित्वा सुफेना-
न्वार्त्तातन्त्रीशतयुतजलं मित्र तुङ्गाम्बुराशिम्।
राज्ञां पोतैः प्रवहणचयैः किं च सांयात्रिकाणां
मन्थानाद्रेरिव शिशुकलैर्मथ्यमानं समन्तात्।।९६।।
पारे तस्य प्रथितयशसां तत्र धूर्त्तेश्वराणां
राज्यं द्रक्ष्यमस्यतुलविभवं मक्षिकाराज्यपार्श्वे।
यस्मिन्विद्याप्रणयविवशास्तैलकारा अपि द्रा-
क्कोटीर्दत्वाध्ययननिलयान्भूरिशः स्थाप्यन्ति।।९७।।
उत्तरमुद्गरः
शिल्पागारैर्नगरततयः सागरा युद्धपोतैः
शैला ज्योतिर्गणितभवनैः सेतुभिर्यत्र नद्यः।
कुल्याम्भोभिर्जनपदपथा राजमार्गैश्च देशा
विद्युद्दीपैः शशधरनिभैर्वीथयो यत्र रम्याः।।९८।।
यद्वास्तव्यः प्रचरति सरित्सागरे धूमपोतै-
र्भूमौ विष्वक् पवनशकटैर्वाष्पविद्युच्छताङ्गैः।
दूरं चित्रैः पतति च वियद्वर्त्मनि व्योमयानै-
रित्थं लोकत्रयमपि करेऽवस्थितं मन्यमानः।।९९।।
श्वेतदीप्यानपि नयविदस्तान्विजित्याहवेषु
व्यस्यायोग्यं वनचरकुलं कानने विप्रकृष्टे।
आनीतायां वशमतिबलैरुर्वराथां प्रजानां
भोगाद् भूयो दहति दहनो यत्र गोधूमशस्यम्।।१००।।
विद्युद्दीपव्यजनलसिता यन्त्रसोपानगम्या
शेषांशाश्च प्रकटविभवा ये परार्ध्योपबर्हाः।
दीप्तोद्योगैरतुलमतिभिर्ज्ञाननिष्ठैः श्रितास्ते
चत्वारिंशत्क्षितिकृतरूचो यत्र सौधा विचित्राः।।१०१।।
यद्विद्वद्भिः प्रकटमतिभिर्हन्त निर्माय तन्त्री-
वार्त्तायन्त्रं जगति विदितं च स्वनग्राहयन्त्रम्।
श्वेतद्वीप्यानपि ऋषिवरावाष्पयानादिकर्त्तृं-
ञ्जेतुं शश्वद्विहितमतिभिर्भूः सनाथीकृतेयम्।।१०२।।
स्थूलाभ्यूषैः सपशुपिशितैर्वर्त्तमानोऽपि नित्यं
शासत्यन्यान्विकृतमतयो घासमात्रोपभोगम्।
यत्राश्रद्धाः सुरपितृकुले पिण्डहोमादिशून्या
धूर्त्ता मुग्धान्सुरपितृरूचीन्घोषणैर्वञ्चयन्ति।।१०३।।
श्रान्ताः कृत्यैरहनि विहितैरीप्समाना विनोदं
सायं ज्योत्स्नामयतनुरुचा मुष्टिसंमेयमध्याः।
धूर्त्तैर्भूयस्तरूणयतिभिस्तादृशैः कृष्णरूपैः
प्रेम प्रेमेत्युपचितरवैर्यत्र नृत्यन्ति रामाः।।१०४।।
तत्र स्त्रीणां ललितललितैरङ्गहारैर्विमुग्धो
दिव्यान्भोगान्कृतमतिरूशन्भोगसौधेषु विद्वन।
मेकानन्दादिवदयि सखे विस्मरन्योगमूर्च्छां
नूनं प्राप्स्यस्युपचितमदः प्रेममूर्च्छां दुरन्ताम्।।१०५।।
गच्छन्मार्गे सरितमथ चेन्मिश्रसिप्राभिधानां
पश्येर्दैवादवहितमना विद्धि पारेऽथ तस्याः।
वृक्षैः शश्वत्फलभरनतैर्नित्यरम्योपकण्ठे
तस्यागारं ननु विटपतेर्येन नीता प्रिया मे।।१०६।।
नौकाशुल्कं यदि न सुलभं तत्र ते स्यात्तदा त्वं
धृत्वा जन्तोः शवमयी सखे दारूखण्डं तदा वा।
गाढप्रेमा सपदि तुलसीदासवत्तां प्रतीर्य
प्राप्स्यस्यग्रे विटपतिगृहं रासभीचाररम्यम्।।१०७।।
द्वारे यस्य स्फुरति तुलसी यत्र रक्षी हनूमा-
न्मातेत्युक्ता चपलविधवा स्वामिनी यत्र चान्तः।
च्छिन्नश्मश्रुः स च विटपतिः कामिनीवेषधारी
यत्र स्वामी नटति सततं बालकैः स्त्रैणवेषैः।।१०८।।
नासां भोक्तुं यदि च हनुमान्यामिकस्तत्र तिष्ठे-
न्नागच्छेत्ते सपदि भगवन्रामरामेति जल्पन्।
पश्चाद्भागे निलयनिरयस्यास्य कुत्रापि लीनो
धैर्यात्सूर्यास्तमयसमयं प्रत्यवेक्षस्व विद्वन्।।१०९।।
यत्रोद्दामा न किल तुलसी यज्ञ नार्यो हनूमां-
स्तस्मिन्मार्गे पटुतरमतेऽवस्करागारपार्श्वे।
दैवात्कञ्चिज्जरठभुजगं लम्बमानं गवाक्षा-
दालम्ब्य द्राङ् निलयनिरयं तं विशेर्वश्यचित्तः।।११०।।
गत्वा सद्यो मशकशिशुतां शीघ्रसंपातहेतोः
पायुप्रक्षालनगृहगते पूतिगन्धे निष्ण्णः।
अर्हस्यन्तर्भवनपतितां कर्त्तुमत्युग्ररूपां
विद्युद्दीपप्रखरकिरणामात्मनो दन्तभासम्।।१११।।
स्थूला श्वेता परूषरसना शीर्णकन्दाधरोष्ठी
मध्ये स्फारा स्तिमितशुनकप्रेक्षणा तुङ्गनाभिः।
श्रोणिकार्श्यात्प्रखरगमना दूरनम्रा स्तनाभ्यां
या तत्र स्यान्नरविकसनात्पूर्वजा वानरीव।।११२।।
तां जानीथाः प्रलपनपटुं मृत्युदेवीं द्वितीयां
दूरीभूते मयि सहचरे तत्र घूकीमिवैकाम्।
गाढामोंदां तनुषु दिवसेस्वेषु गच्छत्सु वृद्धां
जातां मन्ये विटपतियुतामश्वभार्यामिवान्याम्।।११३।।
नूनं तस्याः ग्रलपनवशाच्छूनवस्त्रं प्रियाया
निःश्वासानामतिजडतया शीर्णनीलाधरोष्ठम्।
दीर्घग्रीवं शिर उपलसद् व्यक्तिहीनालकत्वा-
त्कान्तिं शश्वद्वहति जरठस्यायसोलूखलस्य।।११४।।
आलोके ते निपतति पुरा सा विटाङ्कस्थिता वा
व्याख्यानैर्वा तरूणजनतामोहनेऽतिप्रसक्ता।
श्लिष्यन्ती वा पुरुषरसनं रासभं गर्त्तमग्नं
पृच्छन्ती वा शुनकमयि भो मूर्खदेवः स्मृतस्ते।।११५।।
तस्मिन्काले सुभग यदि सा दैवयोगात्प्रबुद्धा
स्यात्तां सद्यश्चटुलचरितां मूर्च्छयेर्मूर्धकम्पैः।
घोरा ह्येषा विकृतवदना जाग्रति भोक्तुमेव
त्वामुद्दण्डं द्रुतमभिसरेत्पातयेच्च प्रसह्य।।११६।।
तां संमूर्च्छर्थ स्वमलकणिकात्यूष्मलैर्मूर्धकम्पैः
प्रेतावेशादिव विदधतीं चेष्टितान्यद्भुतानि।
तस्मिन्धूर्त्ते विटकुलपतौ क्वापि दूरस्थिते त्वं
वक्तुं धीरः स्तनितवचनैः स्वैरिणीं प्रक्रमेथाः।।११७।।
भर्त्तर्मित्रं चपलविधवे विद्धि मां मुद्गराख्यं
तत्संदेशैः स्मृतिमगमितैरागतं त्वत्समीपम्।
यो वृन्दानि श्लथयति पथि श्राम्यतां प्रोषितानां
तीव्रोद्धत्यैश्चटुलकुलटानिविमोक्षोत्सुकानि।।११८।।
इत्याख्याते विटमिव चिराद् वृद्ध वाराङ्गना सा
त्वामौद्धत्याच्चपलहृदया दृष्टिपातैर्दहन्ती।
श्रोष्यत्यस्मात्परमवहिता मुद्गर स्वैरिणीनां
भर्त्तर्वृक्षं सुहृदुपनतं वेदनामेव धत्ते।।११९।।
तामायुष्मन् मम च बचनादात्मनश्चापकर्तुं
ब्रूया जारस्तव चपलिके कामगिर्याश्रमस्थः।
दुःखेनार्त्तो विकटचरिते दुःखमिच्छत्यसौ मे
शश्वद्वाच्यं दुरितकृतिनां प्राणिनामेतदेव।।१२०।।
स्थूलः स्थूलं विकटवदने गाढशैत्यैश्च शीतं
रुग्णै रुग्णं विरतकुतुकैः कौतुकेनातिशून्यम्।
शीतश्वासं तुहिनशिशिरश्वासिभिर्दूरवर्त्ती
जारः स्वाङ्गे स्पृशति चपले तेऽङ्गकं वेदनार्त्तः।।१२१।।
गूढाख्येयं यदपि किल ते यो विटानां पुरस्ता-
दुच्चैः क्रुद्धः कथयितुमभूत्पादघातादिशङ्की।
सोऽयं दिव्यश्रवणविषयो दिव्यदृष्टयाद्य दृश्य-
स्त्वां पारुष्यप्रगुणितपदं मन्मुखेनेदमाह।।१२२।।
अश्वस्वङ्गं स्तिमितशुनकप्रेक्षणे दृष्टिपातं
वक्त्रच्छायां विकृतकलसे दर्भजालेषु केशान्।
उत्प्रेक्षेऽहं त्रुटितविटपश्रेणिषु भ्रुविभङ्गा-
न्हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति।।१२३।।
त्वामुत्प्रेक्ष्य प्रकटितरुषं पादघाताय सज्जा-
मत्मानं ते खुरविनिहितं यावदिच्छाम्यभव्ये।
रोषात्तावन्मुहुरुपचितात्त्वत्सकाशात्पलाये
क्रूरः पादाहतिमपि न ते मर्षयत्येष रोषः।।१२४।।
मामाकाशप्रणिहितपदं निर्दयाघातहेतो-
र्लब्धायास्ते कथमपि मया दिव्यसंदर्शनेषु।
पश्यन्तीनां न खलु बहुशो नाधमे पुंसखीनां
पूगस्थूलान्युपवनभुवि ष्ठीवनान्युद्भवन्ति।।१२५।।
भित्त्वा सद्यो जरठममरं पत्तनं नालिकानां
ये तद्गन्धस्रुतिमलजुषः सर्वतः संप्रवृत्ताः।
ते सेव्यन्ते चपलकुलटे हा परीवाहपाता
व्याख्यानं ते क्वचिदपि भवेज्जातु तत्रेति लोभात्।।१२६।।
व्याख्याधूलौचपलरसने ते वियद् व्याप्नुवत्यां
विज्ञानार्कोऽस्तमयमयते सर्वथा लुप्त बिम्बः।
भक्तिज्योत्स्ना भजति विलयं कर्मतारा न दृश्या
मोहध्वान्तं प्रसरति मुहुर्दम्भघूका रटन्ति।।१२७।।
सा त्वं दूरे वससि यदि चेद्वान्धुता हा हता ते
तत्कल्याणि प्रकटय मुखं पादयोस्ते पतामः।
प्रत्यध्वं च प्रतिगृहमथ प्रत्यविद्यालयं च
व्याख्याह्रेषा तव पुनरसौ रासभान्संधिनोतु।।१२८।।
आगच्छेश्चेद्भगवति मलानन्दनाम्नाथ सख्या
संयोगं ते सपदि घटये येन संमन्त्र्य सार्धम्।
विश्वाविद्यालयमपि सुखं भारते निर्मिमीथा
यस्माल्लब्धा सकलजनता हन्त सर्वा अविद्याः।।१२९।।
शुष्कं पर्णं परिणमयितुं मोदकापूपकेषु
प्राणायामैर्वियति चरितुं वायुतो दुग्धमाप्तुम्।
पुत्रानुत्पादयितुमरणेरश्मरन्ध्रे प्रवेष्टुं
रामं भूमौ भ्रमयितुमलं चिन्तयाह्वातुमन्यम्।।१३०।।
रन्तुं देवैः क्षवथुविधिना बाष्पयानं विधातुं
लक्षायुष्ट्वं घटयितुमथो योगवर्त्त्यानिलाशात्।
सर्वं द्रष्टुं मलिनमुकुरे ग्रेक्षितुं चावतारा-
न्बालैर्वृद्धैरथ च तरुणैः कौशलं यत्र लभ्यम्।।१३१।।
यस्मिवृद्धोक्षमवदुहते कौतुकात्केपि विज्ञा-
स्तस्याधस्तात्तितडमपरे धारयन्ते पयोर्थम्।
प्राणायामैः पतगतनवः संतरन्त्यम्बरेऽन्ये-
ऽभ्यस्यन्तः प्राक्तरणमलिनेऽन्ये तितीर्षन्ति चाम्भः।।१३२।।
चर्मोत्कर्त्तादुत शिविकयोद्वाहतः स्यात्प्रजाप्ति-
बुद्धेर्वृद्धिं जनयति शिखा कूर्चरक्षा तथा वा।
सिद्धेर्हतुर्भवति न च वा सिद्धलालावलेहो
वादैरायुः क्षपयति सदैवेदृशैर्यत्र लोकः।।१३३।।
नीतिक्षोभैर्विधिषु सततं हन्त विज्ञानवादै-
र्मालाकर्षैरपि च खटिकाभस्मलेपादिकृत्यैः।
प्रेतच्छायाग्रहणकुतुकैर्दारुखण्डेरणैश्च
प्रायश्छात्राऽध्ययनसमयं नाप्नुते सिद्धिकामः।।१३४।।
अस्मिन्विद्याविलयनफले स्थापिते भारतेऽस्मिन्
विश्वाविद्यालय उपचितं मोहमन्तर्दधाना।
स्थात्यत्येषा भरतवसुधावस्करश्वभ्रमध्ये
वन्ध्यापुत्रानुसरणसभानुग्रहाणां स्मरन्ती।।१३५।।
प्राणान्तो मे प्रमदशयनादुत्थिते दण्डपाणौ
मैनं कालं गमय चपले लोचने मीलयित्वा।
एह्येह्यावां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणतमले तत्र गर्त्तैकदेशे।।१३६।।
भूयश्चाहं त्वमसि विपिने कण्ठलग्ना पुरा मे
शान्तिं गत्वा किमपि विकृता प्राहरः पादघातैः।
घोरारावं कथितमसकृत्पृच्छतश्च त्वया मे
दृष्टः साक्षात्कितव निरतस्त्वं सखीभाववत्सु।।१३७।।
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
मा कौलीनाद्भषकवदने मय्यविश्वासिनी भूः।
स्नेनानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगाद्
दृष्टे वस्तुन्यपि बहुलिताः कौतुकं वर्धयन्ति।।१३८।।
निस्तुद्यैवं प्रथमविरहोदग्रमोदां सखीं ते
वारां राशेः प्रवहणशतक्षोमितात्संनिवृत्तः।
सोपालम्भैरकुशलमयैस्तद्वचोभिर्ममापि
प्रायो वज्रादपि दृढतरं जीवितं स्रंसयेथाः।।१३९।।
कञ्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
मन्दं मन्दं स्तनसि न कथं मातृवाचाऽद्य विद्वन्।
निःशब्दोऽपि स्रवसि भगवन् क्षारमम्बु प्रकामं
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव।।१४०।।
एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्तिनो मे
सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्धया।
ब्रह्मन्निष्टान्विचर विषयान्प्रोढतासंभृतश्री-
र्मा भूदेवं क्वचिदपि च ते स्वैरिणीविप्रयोगः।।१४१।।
इत्युक्तोऽसौ विटपतिगृहं मुद्गरानन्ददेवो
गत्वाशंसत्स किल विधवां मूर्खदेवस्य वृत्तम्।
शुश्रावैतद्विटपतिरथ प्रयशः सर्वमेवं
पायुप्रक्षालनगृहगतः क्रोधदग्धाखिलाङ्गः।।१४२।।
श्रुत्वा वार्त्ता यति समुदितां तां विटेशोऽपि सद्यः
स्वप्राणान्तं विकलहृदयः संविधायातिरोषात्।
संयोज्येतौ प्रकटितशुचौ दम्पति प्रेतरूपौ
दुःखान्युग्राण्यविरतमसौ भौजयामास पापः।।१४३।।
तस्मिन्मृत्युं विटकुलपतौ प्रापिते मुद्गरेण
व्यक्तं शोकाद्विकलहृदयौ दम्पती तु प्रसह्य।
वन्ध्यापुत्रानुसरणसभाधीश्वरत्वाधिचक्रे
बद्धस्पर्धौ द्रुतमभवतां व्यापदा तस्य रिक्ते।।१४४।।
आसीद्धोरः कलिरथ तयोस्तत्सभायाः पतित्वं
नाशायास्या भरतधरणेर्वाञ्छतोम्छद्मभाजोः।
वित्तैर्वाग्भिः कुटिलकपटैर्दिव्यशक्तिप्रवादै-
र्यत्रान्योन्यं किल शठवरौ चिक्लिशाते चिराय।।१४५।।
ज्योतिर्दिव्यं विटपतिशिरोरन्ध्रतो निर्गतं मे
रात्रौ साक्षादतुलविभवे मूर्धरन्ध्रे प्रविष्टम्।
सिद्धाः प्राप्ता नयनविषये दीप्तरूपाश्च भूयः
प्राहुर्मा हे भवति सदसो युज्यते ते पतित्वम्।।१४६।।
श्रुत्वा तस्या वदनकुहुरात्सिद्धिवाणीमिवेत्थं
वन्ध्यापुत्रानुसरणसभास्तारवर्गो विमुग्धः।
सद्यो वव्रे चपलरसनां तां सभायाः पतित्वे
यच्छ्रत्वासावतनुत विभुर्मुद्गरोप्यट्टहासम्।।१४७।।
प्राप्यं धन्यैरमरूकवीना यत्प्रियायाः पतित्वं
शस्तं भूयस्तदकृतमतिर्मूर्खदेवस्त्वनिच्छन्।
वन्ध्यापुत्रानुसरणसभां तां विहायातिरुष्टः
कल्याणार्थी शरणभगमद् ब्लाकटानन्ददेवम्।।१४८।।
इति श्रीमहामहोपाध्यायपण्डितरामावतारशर्मणा प्रणीतं मुद्गरदूतं समाप्तम्।
(ऐशवीये १९१४ अब्दे विरचितम्)
Notes to special words in the Mudgaradutam
मुद्गरदूतस्थानां विशिष्टशब्दानां आङ्गलभाषया पर्यायसूचनम्।
१.अनृता New York
२. स्थूलाम्पूषः Loaf
३. वाष्पयानस्थानम् Railway Station
४. क्षारनीरम् Soda Water
५. हिमम् Ice
६. बाष्पयानः Railway Carriage
७. शुल्कपत्रम् Ticket
८. अधिकृतपुरुषः Officer (Here Ticket Collector)
९. व्यक्तोर्जान्तिम् Victoria Terminus
१०. अशनशकटम् Restaurant Car
११. द्राक्षामद्यम् Grape Wine
१२. तुहिनशकलम् Bits of Ice
१३. पारस्यबाहुः Persian Gulf
१४. शोणाब्धिः Red Sea
१५. आरब्याः Arabians
१६. स्फाराङ्गाः French
१७. सुबीजकुल्या Suez Canal
१८. मध्याम्भोधिः The Mediterranean Sea
१९. अजपुत्राः Egypt
२०. रोमकाः Romans
२१. हनुबलधरा Italy
२२. हरिकुलमुखम् Strait of Gibraltar
२३. सुफेनाः Spain
२४. वार्त्तातन्त्री Cable
२५. तुङ्गाम्बुराशिः pacific Ocean
२६. घूर्त्तेश्वराः Americans
२७. मक्षिका Mexico
२८. पवनशकटम् Motor Car
२९. व्योमयानम् Aero plane
३०. श्वेतद्वीप्याः The English
३१. स्वनग्राहयन्त्रम् gramophone
३२. मिश्रसिप्रा Mississippi