नीरद-नीराजनम्
(अकालजलदायोपालम्भ:, काले चाऽऽमन्त्रणम्)
(१)
ज्येष्ठ-जलद:
चण्डांशु: प्रखरै: करैरतितरामुत्तापमुत्पाद-
यत्येषोऽप्यद्य समीरणस्तनुलतासन्तापन: केवलम्।
इत्थं व्याकुलिताऽपि हन्त! जनता हे ज्येष्ठधाराधर!
त्वामालोकयते विषादविधुरं तत्ते विरामो वरम्।।
बिन्दून् सन्त्यज, दूरत: परिहर प्रेमाणमम्भ:स्रुतौ
मा मा शीलय सीकरान्, कुरु परागेतं तवाऽऽडम्बरम्।
हे ज्येष्ठोद्गत वारिवाहक सखे! खे खेलदेतद्वपु:
क्षिप्रं गोपय रोपयाऽन्यसमये संरम्भमेतादृशम्।।
नीरद-निमन्त्रणम्
श्यामाम्भोजप्रतिभटघटाच्छन्नदिङ्मण्डलस्य
प्रौढोत्तानस्तनितजनित-व्योमकोलाहलस्य।
धारासारप्रशमितधराधामसन्तापराशे-
र्हंहो! धाराधर! सुहृदिदं स्वागतं स्वागतं ते।।
(२)
ग्रीष्मे चण्डमरीचितिग्मकिरणै: सन्तापिता मेदिनी
शीर्णान्त:प्रसवा तवागमविधावासीत्प्रतीक्षावती।
सेयं त्वामधुना निरन्तरपय:पूरै: प्रतिष्ठाजुषं
सम्प्राप्य प्रतिभाति चारुहरितै: सस्यै: समाच्छादिता।।
(३)
भीष्मग्रीष्मोत्तापसन्तापितानां
स्यात्सन्तोषो भूयसा वर्षणेन।
इत्थं मत्वा घोरमारब्धमासी-
द्धारावर्षं वर्षताऽङ्ग त्वयापि।।
(४)
निरन्तरपय:स्रुतिप्रसृमरैरलं निर्झरै:
प्रतिध्वनितकन्दरा: शुशुभिरे परे भूधरा:।
स्थलस्थलविनि:सरत्सलिलपूरतृप्यन्नरा
बभुर्जयपुरीयभूपरिसरा अपि प्रत्यहम्।।
(५)
घोरैर्गर्जनतर्जनैरतितरां सांराविणं व्यञ्जयन्
दंष्ट्राकोटिविशङ्कटाभिरधिकं विद्युद्भिरुद्भीषयन्।
यस्यां त्वं कलयाञ्चकर्थ सहसा शार्दूलविक्रीडितं
रात्रिं तामधुनापि विस्मरति न प्रायोन्तरात्मा मम।।
(६)
तत: प्रातर्मुक्ताफलविपुलबिन्दूत्करभरै-
रवर्षीस्त्वं घोरं सकलदिवसं व्याप्य परित:।
तवाम्भ:संरम्भै: परिमथितसंस्थानविधुरा
जलानामाबन्धा विघटनविशङ्कामजनयन्।।
(७)
अविरलजलासारोत्सिक्तं सुजीर्णमिदं छदि:
प्रचलति महाझञ्झावाते न जातु पतेदिति।
प्रतिपलभवद्वर्षोद्रेकाकुलै: कृपणैर्जनै-
र्नवजलधरश्यामं व्योम प्रतिक्षणमीक्षितम्।।
(८)
तदियमचिरनिर्यत्सस्यसम्भारभूष्णु-
र्विसृमरनववीरुज्जालकैर्मालिनी भू:।
कलयति किल काञ्चिच्चारुसम्मोदचर्या-
मयि जलद! वदन्ती 'स्वागतं स्वागतं ते’।।
सती-सप्तदशी
पतिरतिमादधतीनां दधतीनां पावके वपु: स्वीयम्।
भारतकुलयुवतीनामार्यसतीनामहो महिमा।।१।।
जन्मावधि पतिसेवामादधतीनां प्रियानुगमतीनाम्।
प्रेमैकप्रकृतीनामार्यसतीनामहो महिमा।।२।।
धर्माऽवनक्षितीनां दयितसकलसौख्यरक्षणकृत्तीनाम्।
श्व:श्रेयसवसतीनामार्यसतीनामहो महिमा।।३।।
प्रणयेन स्वपतीनां स्वपतीनां फुल्लपुष्पशयनेषु।
ज्वलनेन जाग्रतीनामार्यसतीनामहो महिमा।।४।।
अक्षयकोषवतीनां दुर्ग्रहगृहराष्ट्रशासनवतीनाम्।
धृतिदुर्गबलवतीनामार्यसतीनामहो महिमा।।५।।
दयिततरुव्रततीनां सम्पत्सौभाग्यसौरभवतीनाम्।
विश्रम्भवसुमतीनामार्यसतीनामहो महिमा।।६।।
सुरभितसरस्वतीनां यशस्वतीनामनन्तकालाय।
सौभाग्यभास्वतीनामार्यसतीनामहो महिमा।।७।।
स्त्रीस्वातन्त्र्यमतीनां विमतीनामन्यजातिसुदतीनाम्।
शिक्षणमादधतीनामार्यसतीनामहो महिमा।।८।।
सकलै: कृताऽऽनतीनां पूरितजनतामनोरथततीनाम्।
देवाभ्यधिककृतीनामार्यसतीनामहो महिमा।।९।।
शयानानाम्।
प्रेयांसं विशतीनां संविशतीनां महार्हशय्यासु।
दहनेऽपि च विशतीनामार्यसतीनामहो महिमा।।१०।।
पत्यैकधनवतीनां पत्या सह धर्मसाधनवतीनाम्।
पत्या निधनवतीनामार्यसतीनामहो महिमा।।११।।
प्रियरतिमाददतीनां ददतीनां तनु-मनोऽपि दयिताय।
औदार्यान्महतीनामार्यसतीनामहो महिमा।।१२।।
सौभाग्यस्व-पतीनां स्वपतीनां तोषणाऽऽहितरतीनाम्।
ज्वलनेऽपि स्वपतीनामार्यसतीनामहो महिमा।।१३।।
पतिसेवैकमतीनामद्भुतलोकातिशायकधृतीनाम्।
मृत्योर्न बिभ्यतीनामार्यसतीनामहो महिमा।।१४।।
आत्मानं सृजतीनां संसृजतीनां सुखाय दयितस्य।
अनले तु विसृजतीनामार्यसतीनामहो महिमा।।१५।।
पतिचरणेऽभिरतीनां मरणेऽप्यासादिताऽमरगतीनाम्।
विस्मापितजगतीनामार्यसतीनामहो महिमा।।१६।।
आक्रान्तवाग्गतीनां वर्णनविश्रान्तकविकुलमतीनाम्।
विभ्रान्तवाक्पतीनामार्यसतीनामहो महिमा।।१७।।
कपिलार्याष्टकम्
घनगिरिविपिनविहारिणि हारिणि दीनार्तलोकशोकरुजाम्।
जाग्रज्ज्योतिर्जटिले भगवति कपिले! नमस्तुभ्यम्।।१।।
सिन्दूरकल्ककपिलामपि लावण्यं पुर: प्रवर्षन्तीम्।
अभिवाद्य भवतप्रतिमामतिमात्रं मोदमाविन्दे।।२।।
करुणाकारिणि कपिले ह्यपि लेखितमद्भुतं भवच्चरितम्।
मधुरतमां तवमूर्तिं वाञ्छितपूर्तिं च साकमाकलये।।३।।
कू्ररान् किल शकलयितुं कामं कलयसि करालकरवालम्।
निर्मासि तदपि मात: करुणात: शान्तिमत् स्वान्तम्।।४।।
शरणार्थिनो मनोरथमनाप्य भुवनोदरे विषीदन्ति।
इति वीक्ष्य करुणमनसा जनसाफल्यं त्वया क्रियते।।५।।
चित्रं त्वज्जागरणे जागरणे भूरिभाग्यभूतीनाम्।
निर्ऋतिरियं सदार्थं शेते, ह्येते वयं विद्म:।।६।।
मातर्भगवति कपिले! ह्यपि लेखं जातु कृतवती भवती।
अद्यावधि कति दीना विपन्निलीनास्त्वया त्राता:।।७।।
जननि! चतुर्दिक् चञ्चति चेतश्चलचञ्चरीकोऽयम्।
अयि कञ्जमञ्जुचरणे! चरणे परिचारयस्वैनम्।।८।।
वियोगिनो विप्रलापा:
प्रमदं कुरुते न मन्दवायुर्न च चेत: कुसुमानि मोदयन्ति।
जगतां सुखकारि वस्तुजालं मम नाऽलं प्रमदाय विप्रयोगे।।१।।
सविता भविता नु चन्द्रमा मे रजनी मे दिवसायिता भवित्री।
सकलेषु यथापुरं चरन्ती प्रकृतिर्यास्यति वामतां ममैव।।२।।
अयि मन्दमरुत्! सखे सखेदं जनमेनं बत मुञ्च याचमानम्।
भवत: प्रभवन्ति वीजितानामथ ये नाम जयन्ति पार्श्वकान्ता:।।३।।
हरिचन्दनपङ्कसान्द्रचर्चा न ममार्चाय बतान्तरस्य सैषा।
विसरद्घनसारजन्यया वा कि मु लालाटिकयापि मे फलं स्यात्।।४।।
सहकारमकारणं त्यजन्ती विकसन्ती भवती भवेत् किमग्रे?
विटपान्तरचारिकोकिलोऽयं व्रततिं वक्ति समाहितं हितैषी।।५।।
न मनोऽथ विनोदयत्ययं मे सुमनोहार उरोनिवेशितोऽपि।
दयितारहितस्य हन्त मन्ये न च नासीरमधीरतौषधाय।।६।।
मलयाचलवायुनर्तितानां नमितानां कुसुमोच्छ्रयेण भूय:।
इयमालिरनिन्दिता लतानां मनसो न प्रमदाय जायते मे।।७।।
नवमञ्जुलमञ्जरीपरीत: कुसुमामोदविनोदितान्तरङ्ग:।
द्युतिशालि रसालपादपोऽयं न मनोयन्त्रनियन्त्रणाय नूनम्।।८।।
मयि सौरभभारनिर्भरेऽलं भवती चेद् भजते पराङ्मुखत्वम्।
गुणगौरवसङ्कथा वृथा स्यादिति चूतेन लता विनीयतेऽसौ।।९।।
नितरां वहसेऽथ मञ्जुकञ्जान्यलिपुञ्जाय ददास्यरं मरन्दम्।
इति सारिकर: स्तवीति भूयो नलिनीं चाटुपटुर्दिवाकरोऽपि।।१०।।
अयमस्ति रसालसाधुशाखी मिलिताऽसौ स्तबकानता लताऽस्मिन्।
इतिवादि विहङ्गवृन्दमेतद् बत मां स्मारयते निजामवस्थाम्।।११।।
अधुना मधुना न सङ्गमोऽस्या न च पूर्वाऽस्ति मनाग् विकासलक्ष्मी:।
ध्वनयन्निदमप्यलिर्नलिन्या न हि जाने किमु नोज्झति प्रदेशम्।।१२।।
समये सुदुरत्ययेऽपि भीतिर्न यदीये हृदये पदं दधार।
अधुना विमनायते वनान्ते स जन: कोकिलकाकलीकलापै:।।१३।।
जनशून्यमुपेत्य सम्प्रदेशं सविशेषं विकलत्वमेति चेत:।
अपभित्ति लिखत्यतीतचित्राण्यथ वित्रासयते हितैषिवर्गम्।।१४।।
घनचन्दनकर्दमाभिषिक्ते न विविक्तेऽपि मन: प्रमोदमेति।
वपुषि प्रतिषज्जितामिदानीं न हिमानीमपि मानये सुखाय।।१५।।
हृदि तापमवेक्षते वसन्तं न वसन्तं विरही विहीनचेता:।
बत सत्यमुदीरितं बुधानां सुखितानां सुखमेव सर्वतोऽपि।।१६।।
मनोलहरी
१.
स्वभावादुन्मीलल्ललितपदभङ्गै: सुकविता-
तरङ्गैराघूर्णन् कवयति कवि: किञ्चिदतुलम्।
तथैवायं मादृक् कतिपयपदैर्हास्यसुखदै-
र्यदेतत् कुग्रन्थेदियमपि लहर्येव मनस:।।
२.
यदीयै: प्रेङ्खोलैर्विषमितविलोलैर्विलुलितं
महापोतप्रख्यं जगदपि विपर्यासमयते।
महोत्साहोत्ताला महिमनि विशाला मतिमतां
मनो-मोदाम्भोधेर्जयति जयिनी कापि लहरी।।
३.
नवीनो नाऽप्यर्थो न च वचसि काचिद्रुचिरता
स्फुरत्प्रासस्कन्धा न च रुचिरबन्धा शिखरिणी।
तथाप्यन्यान्येषामिह लहरिनाम्नोऽनुकरणा-
न्निबद्धेयं सद्यो मदयतु मदुद्योगलहरी।।
४.
जटाजूटक्रीडत्-त्रिदशतटिनीवीचिनिचया-
दुदञ्चन्नेणाङ्क: प्रकटयति यस्याऽऽभरणताम्।
नमस्कुर्वद्वृन्दारकनिकटकिर्मीरितपदो
दयायां हेवाकी मदुपरि पिनाकी स भवतात्।।
५.
न लेश: पुण्यानामपि न मम गुण्यानि चरिता-
न्यहङ्कार: कामं जयति मदलङ्कारकतया।
तथापि त्वद्दीनोद्धरणसरणावस्म्युपगतो
दयाम्भोधे शम्भो! वद सपदि किं भो मृगयसे।।
६.
पुरा दिव्यैर्गेयैर्भृशमपरिमेयैरपचिता
ततस्त्वार्षै: सूक्तै: परतरपटूक्तै: परिणुता।
ततो नानागुम्फै: सुकविभिरभीड्या समुदभू-
दसौ सा वाग्देवी विमलयतु मे वीक्षणपथम्।।
७.
समुद्यत्सूक्तीनामहह सुकवीनामनुगमा-
दुदीतां न: काचिद्वचनरचनासिद्धसरणि:।
प्रमेयाणां स्फूर्तिर्हयवदनदास्यादुदयता-
मसौ वीणापाणी रचयतु च वाणीमविकलाम्।।
८.
कलात्मा कारूणामुरसि, विपुलात्मा मतिमतां,
सतां सौजन्यात्मा, समितिषु धृतात्मा धृतिमताम्।
चले चैतन्यात्मा, प्रचितिरचले, विश्ववरदा
सदा सर्वात्माऽसौ जगति जयतात्सा भगवती।।
९.
घनेऽस्मिन् संसारे भ्रमिसरणिसारेऽनवरतं
परिभ्राम्यन् दीनो ह्ययमपथलीनो मृगयते।
उदञ्चत्कारुण्या त्वमपि मदपुण्यात्त्यजसि चे-
दये मातर्नात: परमनुचितं किञ्चिदुदयेत्।।
१०.
सुधाम्भोधेर्मध्ये मणिघटधरैर्दिग्गजकरै:
सुखस्वच्छैस्तोयैर्विलसदभिषेकोत्सवसुखा।
दयास्निग्धालोकै: कृतभयविमोकैर्विभवदा
सदा सेयं पद्मा सरसिरुहसद्मा सुखयतात्।।
११.
अये पद्मे मात: किमपि करुणात: स्पृशसि चे-
दिमं दीनं दृप्यद्द्रविणकणलीनं जडतया।
ध्रुवं सत्यं जाने विभवपरिमाणे सह मया
तदा स्वर्गस्थानामपि जननि का नाम तुलना।।
१२.
यदुद्गीर्णं किञ्चिद्विचयविमुखाल्लेखनिमुखा१-
त्तदेव प्रोद्गथ्नन् जगति कविगर्वं वहति य:।
स एव न्यक्कर्तुं पटुमपि कविं चेत्प्रघटते
विलोके लोकेऽस्मिन् ननु विलुलिताऽलीकलहरी।।
१३.
न सूक्तीनां सारो न च किल विचारो जनरुचे-
र्न रीति: साऽजय्या न पटुपदशय्यापि रुचिरा।
गुणालङ्काराणां विधृतिरकलङ्का न कुहचित्
तथाप्यस्मिन् लोके कविरिति विलोके बत मदम्।।
१४.
निरुन्धन्नाम्नायं सृजनसमुदायं परिहरन्
पदस्थानां पुंसां वचननिचयो वल्गति बुधान्।
परं स्पष्टं भवति यदयं पञ्जरजुषां
समक्षे सिंहानां शिव शिव शिवानां कलकल:।।
१५.
यदुच्छिष्टं भुक्त्वा मनसि महदिष्टं सुखमगु-
र्यदीयच्छायायामनिशमिह या मोदमगमन्।
मृगाधीशे तस्मिन्परवशमनीशेऽद्य जरसा
समिन्धे दृप्तानां शिव शिव शिवानां कलकल:।।
१६.
द्विजानां कर्तव्यादथ विभवभव्यादपि गुणाद्
गुणज्ञो गैर्वाणीमिह पठति वाणीं द्विजजन:।
धनाप्तेस्त्वाशात: श्रयति नृपभाषामिति बला-
दियं हौणी गौणी मुखमिव तु मुख्या ह्यमरवाक्।।
१७.
अहं सर्वश्रेष्ठो वपुषि च गरिष्ठो द्विजकुले
सघूत्कारं सर्वानिति लघयति प्रेक्ष्य पतगान्।
प्रतिष्ठाऽर्हे तुङ्गे तरुशिरसि तिष्ठासति च तत्
प्रशस्योऽयं गृध: प्रथयति निजस्योच्छ्रयरुचिम्।।
१८.
जलान्त:सुप्तानामहह महिषाणां शिरसि यत्
खल: खेलामत्तोऽभ्रमदिति महत्तोषणकरम्।
शयानं विश्रम्भाद्धरिमुपरतं भावयति चे-
त्कपि: कीलोत्पाटी विकटपरिपाटीमुपगत:।।
१९.
नितान्तं गूढानां निगमवचनानामनुगमं
न मन्दोऽहं जाने बहुविधविधानेषु धृतधी:।
चतुर्दिक् चिन्ताभिर्व्यपगतसुखं यत्नविमुखं
मनो मे गोविन्दे सकलसुखकन्देऽभिरमताम्।।
२०.
त्वदाधारादाप्ता किमपि कविता, तत्परिचया-
दवाचां च प्राचां वचनरचना चाऽप्यनुकृता।
अये मे वाग्ब्रह्मन्निदमनुनये त्वन्तसमये
दयालुर्गोविन्दो धृतदृगरविन्दो मयि भवेत्।।