नाट्यनवग्रहम्
।।शिशुजनोचितलघुनाट्यसङ्कलनम्।।
ईश्वरोन्वेषणम्
पात्राणि
1.सूत्रधारः (कथाप्रस्तावकः)
2.उत्तानपादः (भूपतिः)
3. ध्रुवः (राजपुत्रः)
4. देवर्षिनारदः (देवर्षिः)
5. सुनीतिः (ज्येष्ठाराज्ञी)
6. सुरुचिः (कनिष्ठाराज्ञी)
7. नारायणः (लक्ष्मीपतिः विष्णुः)
रचनाकालः
28.8.86 ई.
डेनपसारम्, बालीद्वीपम्।
ईश्वरोन्वेषणम्
।।नेपथ्ये विविधवाद्यध्वनिः। ततश्च नान्दीपाठः श्रूयते।।
दिशतु मङ्गलं करिवरवदनो गणाधिपः
दिशतु मङ्गलं वरटवाहिनी सरस्वती।
दिशतु मङ्गलं जगद्वन्दितो महेश्वरः
दिशतु मङ्गलं गिरिशगेहिनी महेश्वरी।।1।।
सूत्रधारः (प्रविश्य सप्रणामं सपुष्पवर्षञ्च)
मान्याः सहृदयाः! एषोऽहं सविनयम् विज्ञापयामि यदद्य परिषन्मनोरञ्जनाय ईश्वरान्वेषणं नाम शिशुजनोचितमेकाङ्करूपकमभिनवं प्रस्तोष्यते। कर्ता त्वस्य विश्रुतचरस्समेषामभिराजराजेन्द्रो यस्यायं संक्षिप्तपरिचयः –
यं देवी सुषुवे कवित्वशिखरं दुर्गाप्रसादान्निजे
क्रोडे शुक्तिनिभे विमौक्तिकतनुं वन्द्याऽभिराजी सुतम्।
श्रीदेवेन्द्रसुरेन्द्रमध्यममणी राजेन्द्रमिश्रोऽनघ-
स्सोऽयं कम्बुहिमावदातसुयशाः ख्यातस्त्रिवेणीकविः।।2।।
किञ्च –
यथा काव्ये तथा नाट्ये तथैवाख्यानलेखने।
त्रिगुणा प्रकृतिः साक्षादभिराजस्य शेमुषी।।3।।
अभिराजमयं गीतमभिराजमयी कथा।
अभिराजमयं नाट्यं संस्कृतं तन्मयं नवम्।।४।।
(इति साञ्जलिपुटप्रणामं शनकारपयाति)
।।महाराज उत्तानपादो राज्यासनमध्यास्ते। सुरुचिपुत्रः कुमार उत्तमस्तदुत्सङ्गमलङ्करोति। सुनीतिपुत्रः ध्रुवोऽपि क्रीडन्नागच्छति। पितरं दृष्ट्वा क्षणं तत्रैव तिष्ठति।।
उत्तानपादः (सस्नेहम्)
वत्स ध्रुव! मत्पार्श्वमायाहि। आयाहि तावतच्। विभेषि किम्?
(स्तमितो ध्रुवोऽग्रेसरति)
आगच्छवत्स! त्वमपि मदुत्सङ्गमलङ्कुरु।
(ध्रुवः पितुरुत्सङ्गमारोढुमुपक्रमते)
सुरुचिः – (अपटीक्षेपेण प्रविश्य)
भो ध्रुव! किमत्र कुरुषे? इतो गच्छ स्वजननीपार्श्वम्। सा त्वामाह्वयति।
ध्रुवः – (समौग्ध्यम्)
अम्ब! जननी तु उपवनं गता। तत्र सा सान्ध्यपूजार्थं पुष्पाणि चिनोति।
सुरुचिः – गच्छ, गच्छ। ईदानीमेव तस्या आह्वानं श्रुत्म्मया।
ध्रुवः – अम्ब! जननी मां कथितवती-गच्छ। उत्तमेन सह कन्दुकं क्रीड। तस्मादयमहमागतोस्मि।
सुरुचिः – (सनिर्भर्त्सनम्)
कियद्वारं कथितम्मया। इतो गच्छ। उत्तमो न त्वया सह क्रीडिष्यति। तद् गच्छ।
ध्रुवः – अम्ब! कस्मान्न क्रीडिष्यति?
सुरुचिः – अये कथं न पश्यसि यदसै पितुरुत्सङ्गमधिरुढः?
ध्रुवः – तदहमपि पितुरुत्सङ्गमारोहामि।
(इति तथाकर्तुं पुरस्सरति)
सुरुचिः – (हस्तग्राहं ध्रुवमपसारयन्ती)
मूर्ख! नायमुत्सङ्गस्तव कृते। अत्र केवलमुत्तम एवारोक्ष्यति। यदि तत्र स्थातुं समीहसे तर्हि मम कुक्षितो जन्म गृहाण! श्रुतं न वा। गच्छेदानीम्।
(निर्भर्तसितः कुमारध्रुवः पितरं निरुपायं दृष्ट्वा साश्रुनयनो जायते)
उत्तानपादः – अतिनिष्ठुरासि त्वम्। निर्दोषबालकं मुधैव खलीकरोषि! सुनीत्यै द्रुह्यन्ती तदात्मजमपि निर्भर्त्सयसि?
सुरुचिः – (सक्रोधम्)
जानि जानामि सुनीतिं प्रति तव प्रगाढानुरागम्। यद्येवमासीत् पट्टराजमहिष्यां सेवकोचिता निष्ठा तत्किमर्थं मां परिणीय आनीतवानसि?
(इति साऽभिनयं रोदिति)
उत्तानपादः – (सुरुचिं लालयन्)
देवी! किमिदम्? हितवचनमपि न ते रोचते? कीदृशी वर्तते तव बुद्धिः? ध्रुवोत्तमयोः किमन्तरं पश्यसि? उभावेव मत्तः समुत्पन्नौ, ममैव पुत्रकौ? किं क्षेत्रभेदादेव तौ भिन्नौ जातौ? (इति सजलनेत्रं ध्रुवं प्रचुम्ब्योत्सङ्गमारोहयितु यतते)
सुरुचिः – (ध्रुवमुत्सङ्गादवतार्य)
ध्रुव! गच्छ त्वं मातुस्समीपम्। न श्रुतं मद्वचनम्? अयमुत्सङ्गो न त्वत्कृते वर्तते।
(ध्रुवो भृशं विलपन् ततोऽपसरति)
उत्तानपादः – (किं कर्तव्यविमूढः सन् सक्रोधम्)
सर्वथा निरनुक्रोशो हृदयहीना चासि। मन्ये, रमणीशरीरे ते तिष्ठति नृशंसहृदयम्।
।।जवनिकापातः।।
।।दृश्यान्तरम्।।
(विलपन् ध्रुवो मातृसमीपमुपगच्छति)
सुनीतिः (सवेगं पुत्रमङ्कमधिरोप्य, लालयन्ती)
किमभूद् वत्स? वत्स ध्रुव? किमभूत्? कथमेवं रोदिषि? उत्तमेन सह कथं न क्रीडितवान्? किमसौ प्रसुप्तः? अथवा स्खलितोऽसि क्वचिदुद्घातिन्यां भूमौ?
ध्रुवः – (सकरुणं विलपन्)
ॐ ॐ ॐ ॐ। अम्ब! नाऽहं स्खलितः।
सुनीतिः – तर्हि किं जातं वत्स! ब्रूहि, किं जातम्?
ध्रुवः – अम्बा सुरुचिः मामवतारयत् पितुरुत्सङ्गात्। भणितं तया यदयमुत्सङ्गो न त्वत्कृते। इममारोढुमिच्छसि चेन्मम कुक्षितो जन्म गृहाणेति।
सुनीतिः – (सदैन्यम्)
किं सुरुच्या एवमुक्तम्?
ध्रुवः – अथ किम्।
सुनीतिः – तत्सर्वं दृष्ट्वा किमकरोत् तव तातपादः?
ध्रुवः – स एवंवादिनीमम्बां प्रतिबोधितवान्। परन्तु का शृणोति!
सुनीतिः – (पत्युर्विवशतामनुभवन्ती)
वत्स मया तु क्रीडनाय प्रेषितोऽसि त्वम्। किमर्थं पुनः पितृसमीपमुपगतवानसि?
ध्रुवः – अम्ब! नाऽहं स्वयमुपगतः। तात एव मां प्रचुम्ब्य क्रोडे कृतवान्।
सुनीतिः – (सहर्षम्)
वत्सध्रुव! महाराजस्त्वामाहूय क्रोडे कृतवान्?
ध्रुवः – अथ किम्। अम्ब! कनिष्ठाऽम्बा न मयि स्निह्यति। कस्मादहं तस्मै न मनागपि रोचे? मातः किमहं पितुरुत्सङ्गमारोढुं नार्हामि? किमहमपि न तस्यात्मज उत्तम इव?
सुनीतिः – (लालयन्ती)
मैवं वत्स! मैवम्। पितुरुत्सङ्गादप्यधिकं महनीयं पदं त्वं प्राप्स्यसि।
ध्रुवः – (सोत्कण्ठम्)
अम्ब - क्व वर्तते तत्पदम्?
सुनीतिः – (सान्त्वयन्ती सास्रम्)
पुत्रक! भगवतो नारायणस्य पार्श्वे। तस्यैवाऽधिकारे तिष्ठति तत् पदम्। तस्य कृपयैव त्वत्तातपादोऽपि राजपदं प्राप्तवान्।
ध्रुवः – अम्ब! नारायणोऽसौ क्व निवसति?
सुनीतिः – (सस्मितं ध्रुवं प्रबोधयन्ती)
जात! अतिकोमलं कनीयांश्चासि त्वम्। वयसा ज्येष्ठस्सन् जगदीश्वरं सन्द्रष्टुं यतस्व। इदानीमलमुत्ताम्य। एहि मन्दिरं प्रविशावः।
(इति ध्रुवमागृह्याङ्कपाल्या गृहाभिमुखं प्रतिष्ठते।)
।।जवनिकापातः।।
।।दृश्यान्तरम्।।
।।जनन्या सार्धं ध्रुवोऽधिशय्यं शयानस्तिष्ठति। उन्निद्रं तमवेक्ष्य।।
सुनीतिः – वत्स ध्रुव! अद्य बहुरात्रिं यावज्जागर्षि? किं निद्रा नायाति?
ध्रुवः – अम्ब! अहं नारायणमेव चिन्तयामि। कीदृशो भविष्यति सः? अम्ब! किमसौ तातसदृशो भविष्यति?
सुनीतिः – (सप्रणयम्)
वत्स! त्वज्जनकादप्यधिकसौम्यः सुन्दरः शीलसमुदाचारसम्पन्नश्चासौ। चतुर्भुजोऽसौ शङ्खचक्रगदापद्मलाञ्छनः। श्वेतवनमालामाप्रपदीनां धारयति। पीताम्बरधरस्सहस्रकोटिसूर्यसमप्रभोऽसौ।।
ध्रुवः – मातः! न भीष्यत्यसौ बालकान्?
सुनीतिः – (सहासम्)
नहि नहि वत्स स तु बालकान् लालयति। बालकीभूय तैस्सह क्रीडत्यपि। इदानीं मौनं भज। सारयाम्यहं तव पृष्ठम्। सम्प्रति स्वपिहि।
(पृष्ठं सारयन्ती शनकैः स्वयमेव निद्राति सुनीतिः)
ध्रुवः – (निभृत निभृतं शय्यातः समुत्थाय)
अवसरोऽयं गृहान्निष्क्रमणस्य। अन्यथा जननी मां नाऽनुज्ञास्यति क्वचिद्गमनाय। परन्तु मया तु गन्तव्यमेवेदानीम्। नारायणदर्शनं विना न मे चित्तशान्तिः। जगदीश्वरं नारायणं सम्प्राप्य पितुरुत्सङ्गादप्यधिकश्रेष्ठं पदं याचिष्ये। इदानीं तदन्वेषणं कार्यम्!
(किञ्चिद्दूरं गत्वाः
किन्तु नारायणं क्व मार्गयानि? नगरवीथीषु आहिण्डमानः क्व यास्यामि? हे नारायण! त्वमेव मां मार्गं निर्दिश!
(अकस्मादेव प्रकाशपुञ्जः प्रसरति। देवर्षिनारदः समायाति)
नारदः – अये औत्तानपादिः कुमारध्रुवः? क्वायं दुग्धमुखो गहनतमिस्रायां निर्भयं प्रस्थितः? मन्ये किञ्चिदत्याहितं जातम्।
(समाधियोगेन सर्वमपि वृत्तान्तं विज्ञाय)
वत्स ध्रुव मातरं सुनीतिमपहाय क्व प्रस्तितोऽसि? अलं भयेन। देवर्षिनारदोनहम्। तव साहाय्य् विधास्ये।
ध्रुवः – (सादरं प्रणम्य)
देवर्षे! नारायणमन्विष्यामि। स खलु सर्वत्रैव विराजत इति जननी कथयति स्म।परन्तु कः कालस्तमन्विष्यामि। नाऽसौ क्वचिद् दृश्यते। तत्कथम्, क्वासौ मिलिष्यति?
नारदः – (कुमनारस्य मुग्धतया प्रह्वीभूय)
वत्स सुनीतिनन्दन! अल्पव्यस्कः शिशुरसि। तद गृहं निवर्तस्व। प्रौढो भूत्वा नारायणं मार्गय। त्वामनवाप्य प्रभाते त्वज्जननी विलपिष्यति। एहि, त्वामहं राजसौधमासादयामि।
ध्रुवः – देवर्षेः! नारायणमनवलोक्य नाऽहं गृहमुपावर्तिष्ये। मरिष्यामि, किन्तु भवनं नैव गमिष्यामि। तद् गच्छतु भवान्।
(इति प्रस्थित एव)
नारदः – (आत्मगतम्)
प्रगाढाऽस्य नारायणरतिः। तन्नाऽयं निवारयितव्यः क्षेममार्गात्। ऋषयो मुनयोऽपि यादृशं नारायणविरहकष्टं नाऽनुभवन्ति ततोऽप्यधिकमनुभवत्ययं राजपुत्रः।
(प्रकाशम्)
वत्स ध्रुवः! धन्योऽसि त्वम्। धन्. ते जननी सुनीतिः यया नारायणभक्तस्त्वं प्रसूतः। तदुपायन्ते कथयिष्यामि। गच्छ, यमुनातटवर्ति वृन्दावनम्। तत्रैव नारायणं हृदयस्थितं चिन्तय। अवश्यमेव तेषां दर्शनं भविष्यति। ममाशिषस्त्वया सहैव स्थास्यन्ति।
(इत्युक्त्वा सहसैवाऽन्तर्धत्ते)
।।जवनिकापातः।।
।।दृश्यान्तरम्।।
।।वृन्दावने तपस्यारतो ध्रुवोऽवलोक्यते। स मन्त्रं जपति ॐ नमो भगवते वासुदेवायेति।।
(नेपथ्ये श्रूयते)
अहो महाप्रभावो राजपुत्रस्य ध्रुवस्य! त्रिरात्रान्ते कपित्थबदराशनः सन्नयं प्रथममासं नीतवान्। षष्ठे षष्ठेऽह्नि शीर्णैस्तृणपर्णादिभिर्द्वितीयं मासं यापितवान्। ततश्च नवमे नवमे दिने जलमात्रं निपीय तृतीयं मासं, द्वादशे द्वादशे च दिवसे वायु मात्रंगृहीत्वा चतुर्थमासं क्षपयाञ्चकार। पञ्तचमे मासे जितश्वासोऽयं पदेनैकेन स्थित्वा, नारायणं ध्यानम् स्थाणुरिवाऽचलस्सञ्जातः। सम्प्रति षष्ठे मासे सर्वतो मन आकृष्य हृदि भगवतो रूपं ध्यानम् न किञ्चिदपरं पश्यति।
किञ्च,
इयं ध्रुवाङ्गुष्ठनिपीडिता मही तरीव जाता प्रसभं नतोन्नता।
तदीयनिः श्वासनिरोधयन्त्रिता जना निरुच्छ्वासभरेण मूर्च्छिताः।।5।।
प्राणरोधव्यथाक्रान्तैर्लोकपालैस्समर्चितः।
ध्रुवं सान्त्वयितुं याति स्वयं नारयणो हरिः।।6।।
नारायणः – (ध्रुवमवलोक्य)
अये हृदयस्थितमेव मां पश्यति कुमारो न पुनर्बहिरागतम्। तदात्मानं बहिराकर्षामि।
(तथा करोति। नारायणमदृष्ट्वा सहसैव ध्रुवस्य ध्यानभङ्गो जायते।)
ध्रुवः – (नारायणं प्रत्यक्षमवलोक्य)
अये स एव भगवान् नारायणः! सम्प्रति किं करवाणि? न में स्तोतुं सामर्थ्यम्। न मे वाणि प्रसरति। किं करोमि हतभाग्यः?
(इति विवशीभूय हरिचरणयोः पतति)
नारायणः – (ध्रुवमुत्थाप्य गाढमालिङ्ग्य च)
वत्स ध्रुव! अलं विषादेन। एष तेऽन्तः प्रविश्य प्रसुप्तां वाचं सञ्जीवयामि यथा ते भवेत्तुष्टिः। त्वत्तपस्सङ्कल्पमहं सुष्ठु जानामि। अतएव नाऽन्यैरधिष्ठितं सप्तर्षिभिरपि प्रदक्षिणिकृतं ग्रहर्क्षताराचक्रमण्डितं भ्राजिष्णु स्थिरपदं ते प्रयच्छामि।
किञ्च,
त्रिंशद्वर्षसहस्राणि षट्सहस्राधिकानि च।
महीं भुक्त्वाऽथ सम्पाद्य यज्ञान् पुष्कलदक्षिणान्।।7।।
वत्स! गन्तासि मत्स्थानं सर्वलोकनमस्कृतम्।
गच्छ सम्प्रति भद्रन्ते नन्दयाम्बां तथेतरान्।।8।।
(इत्यन्तर्हितो भवति)
।।जवनिकापातः।।
।।इतिबालीद्वीपस्थोदयनविश्वविद्यालयेऽभ्यागताचार्यपदमधिरूढेन।।
भारताऽभिजनेन त्रिवेणिकविनाऽभिराजराजेन्द्रेण
विरचितं शिशुरूपकमीश्वरान्वेषणं
समाप्तम्
गुरुदक्षिणा
पात्राणि
1.सूत्रधारः (कथाप्रस्तावकः)
2.द्रोणाचार्यः (धनुर्वेदाचार्यः)
3.दुर्योधनः (कौरवमुख्यः)
4.अर्जुनः (मध्यमपाण्डवः)
5.द्रुपदः (पाञ्चालनरेशः)
रचनाकालः
24.09.86 ई.
डेनपसारम्, बालीद्वीपम्।
।।नेपथ्ये विविधवाद्यध्वनिः। ततश्च नान्दीपाठः श्रूयते।।
दिशतु मङ्गलं करिवरवदनो गणाधिपः
दिशतु मङ्गलं वरटवाहिनी सरस्वती।
दिशतु मङ्गलं जगद्वन्दितो महेश्वरः
दिशतु मङ्गलं गिरिशगेहिनी महेश्वरी।।1।।
सूत्रधारः (प्रविश्य सप्रणामं सपुष्पवर्षञ्च)
मान्याः सहृदयाः! एषोऽहं सविनयं विज्ञापयामि यदद्य परिषन्मनोरञ्जनाय गुरुदक्षिणाभिधानं शिशुजनोचितम् एकाङ्करूपकमभिनवं प्रस्तोष्यते। कर्ता त्वस्य रूपकस्य विश्रुतचरः समेषामभिराजराजेन्द्रो यस्यायं संक्षिप्तपरिचयः,
यं देवी सुषुवे कवित्वशिखरंरंदुर्गाप्रसादान्निजे
क्रोडे शुक्तिनिभे विमौक्तिकतनुं वन्द्याऽभिराजी सुतम्।
श्रीदेवेन्द्रसुरेन्द्रमध्यममणी राजेन्द्रमिश्रोऽनघः
सौऽयं कम्बुहिमावदातसुयशाः ख्यातस्त्रिवेणीकविः।।2।।
किञ्च –
यथा काव्ये तथा नाट्ये तथैवाख्यानलेखने।
त्रिगुणा प्रकृतिः साक्षादभिराजस्य शेमुषी।।3।।
अभिराजमयं गीतमभिराजमयी कथा।
अभिराजमयं नाट्यं संस्कृतं तन्मयं नवम्।।४।।
(इति साञ्जलिपुटप्रणामं शनैर्गच्छति)
।।प्रथमं दृश्यम्।।
(द्रोणाचार्यः कौरवपाण्डवकुमाराणां शस्त्रप्रयोगशिक्षकः सर्वान् कुमारान् दीक्षान्ते सम्बोधयति)
द्रोणाचार्यः – वत्साः अद्य युष्माकं शिक्षा समाप्ता। यूयं सर्वेऽपि युद्धविद्यायां निष्णाताः। तत् धर्मं प्रमाणीकृत्य यथावसरं युष्माभिर्योद्धव्यम्। अतएव शस्त्रहीनो न हन्तव्यः। शरणागतो न हन्तव्यः। बालो न प्रहर्तव्यः। स्त्रीजनो न प्रहर्तव्यः। समरभूमेः प्रद्रवन्न प्रहर्तव्यः। एतावानेव युद्धसमुदाचारः। स्वस्ति भवद्भ्यः।
दुर्योधनः – (साभिमानम्)
गुरुवर्य! परन्तु विद्यादक्षिणा न याचिता भवता।
द्रोणाचार्यः – (आत्मगतम्)
अहो, राजमदगर्वितोऽयं निर्गुणो सर्वथा न जानाति सम्यग् व्यवहर्तुम्।
(प्रकाशम्)
वत्स दुर्योधन! त्वद्वचनेनैव अर्थसत्कृतोऽस्मि। ब्राह्मणस्तावत् न कमपि, किमपि वा याचते। स्वाधीनसिद्धिरसौ।
दुर्योधनः – गुरुवर्य! अलं सङ्कोचेन। यथा रुचि कथयतु भवान्। किं वाञ्छति भवान्? धनं धान्यं हर्म्यं भूखण्डं किञ्चिदन्यद्वा? सर्वमपि दातुप्रभवामि।
द्रोणाचार्यः – (सव्यङ्ग्यम्)
जानामि जानामि। दुर्योधन! राजपुत्रोऽसि। सत्यमेव सर्वमपि दातुं प्रभवसि। परन्तु यां दक्षिणामहं याचिष्ये तां दातुं त्वं न प्रभविष्यसि। तदलं निर्बन्धेन। सर्वथा प्रीतोऽस्मि।
दुर्योधनः – (सामर्षम्)
गुरुवर्य! अलं मामवमन्य। निर्विशङ्क कथयतु भवान्। किन्तेऽभिप्रेतम्?
द्रोणाचार्यः – (आत्मगतम्)
भवतु, अस्य मदोद्धतस्य़ापि शौण्डीर्यं खण्डनीयम्। शूरम्मन्योऽयं बहु जल्पति।
(प्रकाशम्)
वत्स दुर्योधन यदि सत्यमेव मां प्रसादयितुमिच्छसि तर्हि पाञ्चालनरपतिं द्रुपदं युद्धे विजित्य जीवितमेव पाशबद्धं तं मत्सकाशमानय। एतत्सर्वं त्वया एकलेनैव करणीयम्। तदेव मम दक्षिणा।
दुर्योधनः – (श्रुत्वैव वैवर्ण्यं नाटयन्)
भगवन्! कीदृशीयं दक्षिणा? द्रुपदेन किमपकृतं भवतः? कथं न भवता धनवैभवं याच्यते?
द्रोणाचार्यः – (समन्दहासम्)
दुर्योधन! शिष्योऽसि त्वम्। गुरोः प्रीणनमेव तव कर्तव्यम्। तदलं प्रश्नाऽनुप्रश्नाभ्याम्। बिभेषि किम्? यद्येवं तर्हि तिष्ठ।
दुर्योधनः – (सगर्वम्)
नहि नहि। गुरुवर्य! नाहं बिभेमि। पश्यन्तु भवन्तो मम पराक्रमम्। एष गच्छामि मित्रैः सार्धम्। एकल एव द्रुपदं गृहीत्वाऽऽनयामि। (इति गच्छति)
द्रोणाचार्यः – (अर्जुनं प्रति सवात्सल्यम्)
वत्स पार्थ! अयं मृषाशूरो युद्धविद्यापारङ्गतेन महारथिना द्रुपदेन क्वचित् चूर्णितो न भवेत्। तत्त्वमपि गच्छ तद्रक्षार्थम्।
अर्जुनः - यथाऽदिशति भगवान्। किन्तु (इत्यर्धोक्ते)
द्रोणाचार्यः – जानामि जानामि वत्स! त्वोत्कण्ठां साधु जानामि। द्रुपदेन राज्यासनाधिष्ठितेन बाल्यकालीनं मत्सख्यं तिरस्कृत्य मदुपहासः कृतः। इदानीमपि तदधिक्षेपो मां भृशं सन्तापयति।
अर्जुनः – (सरोषम्)
भगवन्! किं कथितं पाञ्चालभूपतिना? किं वृत्तमासीत्?
द्रोणाचार्यः – वत्स! द्रुपदे पाञ्चालाधिपतित्वमुपगते सति वृत्तिहीनोऽहं स्वदारिद्र्यमपनेतुं तत्सकाशं गतः।
अर्जुनः – ततस्ततः?
द्रोणाचार्यः – (सदैन्यम्)
वत्स! ततो राजमदगर्वितो द्रुपदो मामात्मसन्निधिमानाय्य सर्वं जानन्नपि मध्येसभं मामुपहसितवान् – भो नृपतिदरिद्रयोः कीदृशं सख्यम्? दरिद्रब्राह्मणोऽसि त्वम्। पाञ्चालनरेशः पुनरहम्। तथापि स्वाभीष्टं भण, करिष्ये यथोचितमिति।
अर्जुनः – (सक्रोधम्)
आः अनार्यंमाचरितं तेन नृपाधमेन। गुरुवर्य! अयमहं गच्छामि भवदपमन्तारं समूलमुन्मूलयितुम्। द्रक्ष्यामि कियत् शौर्यं तस्य!
द्रोणाचार्यः – (पार्थरोषमनुभूय)
वत्स पार्थ! जानामि त्वत्पराक्रमम्। अजेयोऽसि। तद्विनाशक्षमोऽसि।
सत्यमेव त्वं युद्धकलाप्रवीणमपि द्रुपदं लीलयैव जेतुं शक्नोषि। तथापि नाहं पाञ्चालनरेशं प्राणहीनं द्रष्टुमिच्छामि।
अर्जुनः – (सविनयम्)
यथाज्ञापयति गुरुवर्यः। भगवन्! दुर्विनीतं मदोद्धतं द्रुपदं निगडैर्बद्ध्वाऽऽनेष्यामि। तत् अनुजानातु मां विजययात्रायै।
द्रोणाचार्यः – (सपरितोषम्)
वत्स पार्थ! विजयस्व। इदानीं स्वोपहासकर्तारं द्रुपदं निगडबद्धं प्राणभिक्षुकं मद्दयायाचकञ्चैव मन्ये। गच्छ, शिवास्ते पंथानस्सन्तु। मन्ये, सम्प्राप्ता मया त्वत्तो गुरुदक्षिणा।
।।द्वितीयं दृश्यम्।।
(कौरवपाण्डवराजपुत्रपरिवृतो द्रोणाचार्यः। तत्समक्षमेव तिष्ठति पार्थरथस्य पृष्ठभागे निगडबद्धः पाञ्चालनरेशो द्रुपदः)
अर्जुनः – (सविनयम्)
भगवन्! सोऽयं पाञ्चालाधिपतिः। किमस्य करणीयम्?
द्रोणाचार्यः – (सविस्मयम्)
वत्स पार्थ! प्रथमं तावन्मोचयास्य बन्धनजातम्।
(अर्जुनो द्रुपदं मोचयति। द्रुपदो वैलक्ष्यं नाटयति)
द्रोणाचार्यः – (सव्यङ्ग्यम्)
द्रुपद! इदानीं मदाज्ञप्तेन पार्थेन मदन्तेवासिना जितोऽसि। अतएव न युक्तं राज्यभ्रष्टस्य तव कृते महाराजपदसम्बोधनम्। मत्सख्यमेव सम्प्रति तव प्रत्यभिज्ञानम्। कथं वा भवान् मन्यते?
द्रुपदः – (सदैन्यम्)
सुहृद्वर्य! अलं मां सन्ताप्य। स्वाविनयार्थं भृशं विलक्षितोऽस्मि।
द्रोणाचार्यः – राजन्! महारथो भवान्। तदलमात्मावमानेन।
द्रुपदः – भवत्समक्षं कीदृशं मम शौर्यं यदनुशिक्षितो युवकोऽप्यतिरथः? इदानीं
भवन्नियोगे तिष्ठामि।
द्रोणाचार्यः – राजन्! सत्यमेव दरिद्रभूपालयोः सख्यं न सम्भवति। अतएव आवयोः बाल्यकालीनं सख्यमक्षतं विधातुं स्वदारिद्र्यञ्चापनेतुं तवार्धराज्यं गृह्णामि। इतःप्रभृति पाञ्चालसाम्राज्यं द्विधा विभक्तं भविष्यति। अनुशास्तु दक्षिणपाञ्चालान् भवान् उत्तरपाञ्चालानहम्। एवं नृपभूतोऽस्म्यहं सम्प्रति। मयि नृपभूते सख्य़ं स्वीकुरुते भवान् न वा?
द्रुपदः – (सार्जवम्)
आचार्य! मित्रप्रवर! प्रागेवोक्तम्मया यद् भवन्नियोगे तिष्ठामि।
द्रोणाचार्यः – यद्येवं तर्हि प्रतिष्ठस्व स्वसाम्राज्यकल्याणाय। दृठीभूतमावयोः सख्यमिदानीम्।
(अर्जुनं प्रति)
वत्स पार्थ! प्राक् सत्कृत्य ततः सबहुमानं विसर्जय मत्सुहृद्वर्यं दक्षिणपाञ्चालाधिपतिं द्रुपदम्।
अर्जुनः – यथादिशति भगवान्।
।।इति जवनिका पतति।।
।।इतिबालीद्वीपस्थोदयनविश्वविद्यालयेऽभ्यागताचार्यपदमधिरूढेन।।
श्रीमद्दुर्गाप्रसादाभिराजीसूनुना त्रिवेणीकविनाऽभिराजराजेन्द्रेण
विरचितं गुरुदक्षिणाभिधं शिशुरूपकं
परिसमाप्तम्
दास्यमुक्तिः
पात्राणि
1.सूत्रधारः (कथाप्रस्तावकः)
2.सुपर्णः (पक्षिराजो गरुडः)
3.नारदः (देवर्षिः)
4.विनता (गरुडमाता)
रचनाकालः
21.11.86 ई.
डेनपसारम्, बालीद्वीपम्।
दास्यमुक्तिः
।।नेपथ्ये विविधवाद्यध्वनिः। ततश्च नान्दीपाठः श्रूयते।।
दिशतु मङ्गलं करिवरवदनो गणाधिपः
दिशतु मङ्गलं वरटवाहिनी सरस्वती।
दिशतु मङ्गलं जगद्वन्दितो महेश्वरः
दिशतु मङ्गलं गिरिशगेहिनी महेश्वरी।।1।।
सूत्रधारः (प्रविश्य सप्रणामं सपुष्पवर्षञ्च)
मान्याः सहृदयाः! एषोऽहं सविनयं विज्ञापयामि यदद्य परिषन्मनोरञ्जनाय दास्यमुक्त्यभिधानं शिशुजनोचितम् एकाङ्करूपकमभिनवं प्रस्तोष्यते। कर्ता त्वस्य रूपकस्य विश्रुतचरस्समेषामभिराजराजेन्द्रो यस्याऽयं संक्षिप्तपरिचयः,
यं देवी सुषुवे कवित्वशिखरंरंदुर्गाप्रसादान्निजे
क्रोडे शुक्तिनिभे विमौक्तिकतनुं वन्द्याऽभिराजी सुतम्।
श्रीदेवेन्द्रसुरेन्द्रमध्यममणी राजेन्द्रमिश्रोऽनघ-
स्सोऽयं कम्बुहिमावदातसुयशाः ख्यातस्त्रिवेणीकविः।।2।।
किञ्च –
यथा काव्ये तथा नाट्ये तथैवाख्यानलेखने।
त्रिगुणा प्रकृतिः साक्षादभिराजस्य शेमुषी।।3।।
अभिराजमयं गीतमभिराजमयी कथा।
अभिराजमयं नाट्यं संस्कृतं तन्मयं नवम्।।४।।
(इति साञ्जलिपुटप्रणामं शनैर्गच्छति)
(ततः प्रविशति वैनतेयः सुपर्णः)
सुपर्णः – (जननीं विवर्णवदनां दृष्ट्वा)
अम्ब! परिश्रान्तासि किम्? कथमद्य विवर्णा परिलक्ष्यसे? किञ्चिदप्रियं जातन्ते?
विनता – पुत्रक! न किमपि। न मे किञ्चिदप्रियं जातम्। सर्वथा प्रसन्नाऽहमस्मि।
सुपर्णः – मातः! किमपि हृदये कृत्वा मन्त्रयसे। किं पुत्रादपि रहस्यं किञ्चिद् वारयसि?
विनता – (सास्रम्) सुपर्ण! अलमन्यथा प्रकल्प्य। सर्वथा प्रकृतिस्थाऽहम्। वत्स! त्वादृशं महाबलिनं पुत्रमवाप्य कुतो मे विपत्तिः?
सुपर्णः – तत्किमिति नयनयोस्तेऽस्रजातं पश्यामि। मातः! अलं स्वमनोवेदनां निगूह्य। शापिताऽसि मत्प्राणैः। सत्यं भण। जननि,
आधारभूताऽस्ति यथा धरित्री
पुनर्भुवामण्डजपिण्डजानाम्।
कादम्बिनी चापि यथा जलानां
मातस्तथैवासि ममावलम्बः।।5।।
विनता – (सास्फुटरोदनम्) वत्स! निर्बन्धपरोऽसि। किं कथयानि? अद्य स्मरन्त्यात्मवृत्तं भृशं दुःखिताऽस्मि।
सुपर्णः – (साश्चर्यम्) अम्ब! कीदृशमात्मवृत्तम्? काऽसि त्वम्? का च ते विपत्तिः?
विनता – सुपर्ण! येयं कद्रूः मत्स्वामिनीभूता संलक्ष्यते सा वस्तुतो न वर्तते मत्स्वामिनी। ना चाहं तस्याः परिचारिका। पुत्रक! त्वमपि नासि दासीपुत्रः। तथापि सर्वधुःखं सहामिति मद्दुर्भाग्यम्।
सुपर्णः – (सगाम्भीर्यम्) अम्ब! तर्हि केयं कद्रूः?
विनता – मत्सपत्नी। पुत्रक! तव पितुर्महर्षेः कश्यपस्यापरा पत्नी तव च विमाता। स्वभावत एव ईष्यामर्षपरायणाऽसौ।
सुपर्णः – (साश्चर्यम्) अम्ब! सपत्नीभूताऽपि कथमसौ स्वामिनी ते जाता? हा हन्त,
दिनानि यातानि तवाश्रुपातैः
प्रजागरैश्चापि यदा तमिस्राः।
तथापि नाख्यातमहो रहस्यं
धिगम्ब! ते धैर्यममेयसत्त्वम्।।6।।
अहो जीवनम्मे कलङ्कास्पदं जातं यस्य जननी विपद्यते! अम्ब! स्वैरं भण तां निजावमानिनीं कथाम्।
विनता – वत्स! ममापि किञ्चित् पूर्वजन्मार्जितं पापमासीत् यत्फलं मया भुक्तम्। तथापि सत्योपरि असत्यस्य विजयं सम्प्रेक्ष्याऽहं नितरां दूये।
सुपर्णः – अम्ब तत एव पृच्छामि। पश्य,
विदीर्यते यथा शैलो वज्रपातेन तत्क्षणम्।
क्षीयतेऽम्ब! तथैवाऽधिस्तेऽपि संहरता मया।।7।।
तदलं विलम्बेन। आख्याहि तां कथाम्।
विनता – कथयामि वत्स! कथयामि। पुरा किल सूर्य़ाश्ववर्णविषये आवयोर्विवादो जातः। सूर्याश्वाः श्वेतवर्णा इति कथितम्मया। कृष्णवर्णा इति च कद्र्वाऽभिहितम्।
सुपर्णः – अम्ब! त्वया सम्यागभिहितम्। ततस्ततः?
विनता – ततस्तु श्वो मध्याह्ने भास्करेऽम्बरतलमुपागते सति निपुणं निभाल्य सूर्याश्ववर्णनिर्णयः करिष्यते इत्यावाभ्यां निर्णीतम्।
सुपर्णः – शोभनम्। ततस्ततः?
विनता – ततश्च विद्वेषपरायणा कद्रूः पणमिमं कृतवती यत् मिथ्यापक्षवती या काऽप्यन्यतरस्या दास्यं स्वीकरिष्यति यावज्जीवनम्।
सुपर्णः – (सासूयम्) अहो नु दुरभिमानः खलु सर्पमातुः? ततस्ततः?
विनता – (सपरिदेवनम्) पुत्रक! ततो हि स्वजनन्याः मित्यावचः सत्यापयितुं सर्वेऽपि कृष्णातिकृष्णवर्णा नागा कद्रूसुताः सूर्याश्वान् परितः आवेष्ट्य स्थिता येन मध्याह्नेऽपि ते कृष्णवर्णा एवादृश्यन्त। एवं हि छलेन जिताऽहं सपत्न्या प्रवञ्चननिपुणया। तत एवारभ्य दासीभूतास्मि पणं रक्षन्ती। मम हेतोस्त्वमपि बलवीर्यशौर्यपराक्रमनिपुणो दासीपुत्रो ज्ञायसे लोकैरिति वेदनाहताऽस्मि।
सुपर्णः – (सक्रोधम्) अहो धिङ्मां जननीदुर्भाग्यदर्शिनम्। अम्ब! क्षणमात्रमपि ते दास्यभावं सोढुं नाहमिदानीं क्षमः।
विनता – पुत्रक! एषा गच्छामि।
(इति निष्क्रम्य किञ्चित्कालानन्तरं पुनः प्रविशति)
सुपर्णः – (सोत्कण्ठम्) अम्ब! किमुदितं विमात्रा?
विनता – (सदैन्यम्) यदि नाम वैनतेयोऽमृतकुम्मानीय स्वर्गात् मह्यं दद्यात् तर्हि ते दास्यनिवृत्तिर्भविष्यतीति कद्रूः भणति।
सुपर्णः – अम्ब! नान्यत् किमपि? एतावन्मात्रमेव?
विनता - अथ किम्?
सुपर्णः – (शरीरं कम्पयन् सहुङ्कारम्)
अम्ब! एष गच्छामि पुरन्दरनगरीम्। अमृतकुम्भं गृहीत्वाऽनेष्यामि। इदानीं नासि त्वं परिचारिका। आत्मानं राजमहिषिमवग्च्छ। पश्य जननी!
विना चण्डकोदण्डमेकोऽप्यहं
सुरैस्सार्धमाक्रम्य योत्स्येऽद्भुतम्।
पतिष्यनति भूमौ ग्रहा दुग्रहा
भणिष्यन्ति सर्वेऽप्यये हन्त हा।।8।।
तमिन्द्रं तमैरावतम् दन्तिनं
तमग्निं यमं गुह्यकेशं च तम्।
पराजित्य चाहृत्य कुम्भामृतं
क्षणेनैव नौम्यम्ब! तेऽङ्घ्रिद्वयम्।।9।।
तदनुजानीहि मां प्रस्थानाय।
(इति जननीचरणयोः प्रणमति)
विनता – (सभयम्)
वत्स सुपर्ण! देवा बलशालिनो वर्तन्ते। अनर्थाशङ्कया बिभेमि। तर्हि अलमुद्योगेन।
सुपर्णः – आकाशे समुत्पतन्)
मातः! अलं भयेन। देवानपि खलीकर्तुं समर्थोऽयं ते स्तनन्धयः। तव दास्यापनोदनार्थं प्राणोत्सर्गमपि कर्तुं क्षमे किमुत सुधापहरणम्। एष गच्छामि।
(इति ससम्भ्रममाकाशे समुत्पतति)
।।जवनिकापातः।।
।।दृश्यान्तरम्।।
(नेपथ्ये श्रूयते)
अहो पराक्रमो वैनतेयस्य! स खलु एकल एव स्वर्गमाक्रम्य देवान् छिन्नभिन्नाङ्गान् कृत्वाऽमृतकुम्भं प्रसह्य हृतवान्।
(श्रुतिमभिनीय)
किमुच्यते? ततः किमभूत्? भद्र! अलं त्वरया। तदेव भणामि। अमृतकुम्भमवाप्यैव कद्रूः सपत्नीं विनतां दास्यमुक्तां कृतवती। सा च यशस्विनी पुत्रेण महापराक्रमशालिना सुपर्णेन सार्धं सानन्दं सामोदं स्वराजमन्दिरं प्रस्थिता।
नागाश्चापि कर्कोटकाऽर्यकतक्षकप्रभृतयः कद्रूपुत्रा अमरत्वाभिलाषिणोमृतकुम्भमवाप्य प्रोन्मत्ताः सञ्जाताः। अमृतपानात् पूर्वं यावदेव ते पियूषकुम्भं कुशास्तरणे संस्थाप्य स्नातुं गतास्तावदेव वटुरूपधारिणा पुरन्दरेणाऽमृतकलशः पुनराहृतः। एवं हि प्रवञ्चिता नागाः स्वर्गाधिपेन। किञ्च –
कुशनिपतितबिन्दून् पूर्णकुम्भामृतानां
सुरछलितभुजङ्गा यावदार्ताः पिवन्ति।
निशितकुशजधारादीर्णजिह्वा द्विभागाऽ
भवदहह समेषां काद्रवेयोरगाणाम्।।10।।
सम्प्रति ते सर्वेऽपि श्रीहता लाञ्छिता विपन्ना मुषितमुषिताः कद्रूभवनं समासादयन्ति। नारदोऽहमपि विनताभिनन्दितुं तामुपैमि।
(ततः प्रविशति देवर्षिर्नारदः। विनतां प्रति)
दिष्ट्या दास्यमुक्ता भवती पुनरपि सौभाग्यमधुरमधिरूढा।
विनता – देवर्षे! एषाऽहं प्रणमामि
नारदः – देवि! विनते! पत्याऽमोघप्रभावेण महर्षिणा कश्यपेन सौभाग्यवती पुत्रेणाऽवार्यवीर्येण सुपर्णेन च यशस्विनी भूयाः।
विनता – देवर्षे! सुपर्णमिमं प्रसूय कुक्षिर्मे धन्याजाता येन कलङ्कमुक्ताऽहं विहिता।
नारदः – (विहस्य) देवि! न केवलं कलङ्कमुक्तैव जाता भवती। भवत्सपत्नी कद्रूः पुनर्विफलमनोरथाऽप्यभूत्। सत्यमुक्तं यत् –
विरञ्चिना धूर्जटिनाऽपि शार्ङ्गिणा
पुरन्दरेणापि यमेन पाशिना।
सदर्थितानां हतभाग्यजन्मिनां
मनोरथा नो सफलीभवन्त्यहो।।11।।
(कर्णे एवमिव)
सुपर्णः – (सादरं प्रणम्य)
देवर्षे! भवदाशिषा जननी मे सपत्नीदास्यान्मुक्ता जाता। तत्पुत्रत्वेन ममापि जीवनं धन्यंजातम्।
सम्प्रति भवन्तमग्रेसरीकृत्य सजननीकोऽहं तातपादान् द्रष्टुमभिवादयितं् च समीहे।
नारदः – (सवात्सल्यम्)
अहो! वैनीत्यं विनतानन्दनस्य। वत्स! उदारोऽयं प्रस्तावः। तदिच्छामि,
श्रीनारायणपादपङ्कजरतिस्तेऽनारतं वर्धतां
प्राथम्येन च नाम ते सहृदयैरम्बाऽदरे गृह्यताम्।
त्वं भूयाः पवनातिगो मतिमतां धुर्यो विहङ्गेश्वर!
कम्पन्तां भुजगास्सदा हतधियस्त्वन्नामगानैर्भुवि।।12।।
अपि च,
सन्दर्भोऽयमुदारभावभरितो मातृप्रतिष्ठाकरो
यावत्संसदि चर्चितोऽत्र भवतात्सच्चेतसां भारते।
सौपर्णं सुयशस्तदा दिनमणिप्रख्यं सतां चेतनां
प्राकाश्यं नयतां प्रसूविभवदं वैनीत्यसन्दर्शनम्।।१३
किञ्च
जनिप्रदां प्रत्यनुरागदर्शिनी
कथेयमापातयथार्थतोऽनघा।
सुपर्ण! पुत्र प्रणयाऽनुशंसिनी
युगे युगे संसदि चर्चयिष्यते।।14।।
को दृश्यते भो विनतेव जन्मदा
गुणोच्चया तोषनिधिर्मनस्विनी!
क्व वा भवत्तुल्यसुतोत्तमोऽनघ-
स्ततो ह्युभावेव चरित्रमञ्जुलौ।।15।।
।।इतिबालीद्वीपस्थोदयनविश्वविद्यालयेऽभ्यागताचार्यपदमधिरूढेन।।
भारताऽभिजनेन त्रिवेणिकविनाऽभिराजराजेन्द्रेण
विरचितं लघुरूपकं दास्यमुक्त्यभिधं
परिसमाप्तम्