श्वेतोद्धारः
पात्राणि
1.सूत्रधारः (कथाप्रस्तावकः)
2.रामः (अयोध्यानरेशः)
3.अगस्त्यः (महर्षिः)
रचनाकालः
11.02.87 ई.
डेनपसारम्, बालीद्वीपम्।
श्वेतोद्धारः
।।नेपथ्ये विविधवाद्यध्वनिः। ततश्च नान्दीपाठः श्रूयते।।
दिशतु मङ्गलं करिवरवदनो गणाधिपः
दिशतु मङ्गलं वरटवाहिनी सरस्वती।
दिशतु मङ्गलं जगद्वन्दितो महेश्वरः
दिशतु मङ्गलं गिरिशगेहिनी महेश्वरी।।1।।
सूत्रधारः (प्रविश्य सप्रणामं सपुष्पवर्षञ्च)
मान्याः सहृदयाः! एषोऽहं सविनयम् विज्ञापयामि यदद्य परिषन्मनोरञ्जनाय श्वेतोद्धाराभिधानं शिशुजनोचितमेकाङ्करूपकमभिनवं प्रस्तोष्यते। कर्ता त्वस्य रूपकस्य विश्रुतचरस्समेषामभिराजराजेन्द्रो यस्यायं संक्षिप्तपरिचयः –
यं देवी सुषुवे कवित्वशिखरंरंदुर्गाप्रसादान्निजे
क्रोडे शुक्तिनिभे विमौक्तिकतनुं वन्द्याऽभिराजी सुतम्।
श्रीदेवेन्द्रसुरेन्द्रमध्यममणी राजेन्द्रमिश्रोऽनघ-
स्सोऽयं कम्बुहिमावदातसुयशाः ख्यातस्त्रिवेणीकविः।।2।।
किञ्च –
यथा काव्ये तथा नाट्ये तथैवाख्यानलेखने।
त्रिगुणा प्रकृतिः साक्षादभिराजस्य शेमुषी।।3।।
अभिराजमयं गीतमभिराजमयी कथा।
अभिराजमयं नाट्यं संस्कृतं तन्मयं नवम्।।४।।
(इति साञ्जलिपुटप्रणामं शनैरपयाति)
(नेपत्ये श्रूयते)
जयति गुणगणाग्रो विष्णुदीप्तावतारो
रघुकुलजयलक्ष्मीनायको रामचन्द्रः।
कृतदशमुखनाशः स्थापयद्रामराज्यो
जयति भगवदम्शः शीलधर्मध्वजोऽसौ।।5।।
भो भो अगस्त्याश्रमवासिनः वैखानसाः! सन्नद्धा भवत अतिथिसत्काराय। एष वर्णाश्रमधर्मपरिरक्षकः शीलधर्मार्जवगुणध्वजभूतो दशरथनन्दनो रामः प्रविशति तपोवनं महर्षिकुम्भजसन्दर्शनाय। तथा हि –
पयोदनादं मधुरं प्रसारयत् प्रवातभेदोत्थरवञ्च पुष्कलम्।
क्वणज्झणत्किङ्किणिकासमन्वितं ह्युपैत्यरण्यं रघुवीरपुष्पकम्।।६।।
(ततः प्रविशति पुष्पकाधिरुढो रामः)
रामः – (विमानादवतीर्य अगस्त्यचरणौ वन्दमानः) भगवन्! भवदनुग्रहवशंवदोऽयं रामः प्रणमति।
अगस्तयः – विजयता विजयतां सनातनपुरुषावतारो दशरथनन्दनः! राजन्! कृतशम्बूकवधो भवान् इहागतो मया सम्यग्ज्ञातः। वस्तुतो भवन्तं प्रतीक्षमाण एवाहमासम्।
रामः – (स्समितम्) भगवन्! त्रिकालदर्शिनस्ते किं परोक्षम्? हस्तामलकमिव निखिलमपि ब्रह्माण्डं पश्यति भवान्।
अगस्त्यः – राघव! स्वकीयैर्बहुभिरुत्तमैर्गुणैस्त्वं मे बहुमतः। किमधिकम्!
सर्वदेवाभिवन्द्योऽसि त्वं सनातनपुरुषः।
त्वया नाथवती पृथ्वी त्वयि सर्वं प्रतिष्ठितम्।।7।।
रामः – (सविनयम्) यथाऽज्ञापयति भगवान्।
अगस्त्यः – (सस्नेहम्) अतएव रामोऽसि! भवतु, अद्य त्वं मेऽतिथिः। इमां रजनीं मत्सकाशे क्षपय। मधुपर्कं स्वीकुरु। श्वः प्रभाते पुष्करेण स्वपुरीमयोध्यां गमिष्यसि।
रामः – (सप्रणामम्) यथाऽज्ञापयति भगवान्।
अगस्त्यः – राम! प्रीतोऽस्मि तव विनयसम्पदा। विश्वकर्मनिर्मितमिदं सुवर्णाभरणं दिव्यं समुपायनीकरोमि। सौम्य! प्रतिगृह्णीष्व।
विदर्भनृपतेः श्वेतात्पूर्वं लब्धं मया किल।
दत्तं पुनर्ददाम्यद्य श्रेयसे रघुनन्दन।।8।।
रामः – (सादरं स्वीकृत्य) प्रभो अत्यद्भुतमिदं दिव्यं सुवर्णाभरणम्। कुतूहलवशात् आगममस्य श्रोतुमिच्छामि।
अगस्त्यः – भद्र! श्रूयताम्। पुरा किल तप्तुकामोऽहं मृगपक्षि-वर्जितं निर्मानुषमिदमरण्यं समन्ताद्योजनशतं सम्प्राप्तः।
रामः – भगवन्! ततस्ततः!
अगस्त्यः - ततोऽरण्यमध्यगतं योजनमायतं हम्सकारण्डवचक्रवाकोपशोभितं कुवलयाकीर्णं शैवलरहितं सुस्वादुजलमिदं सरोवरमपश्यम्। ततस्तां नैदाघीं रजनीं सरोवरतटेऽत्यगमयम्।
रामः – (सोत्कण्ठम्) भगवन्! ततस्ततः?
अगस्त्यः – काकुत्स्थ! प्रभाते समुत्थाय तस्मिन् सरोवरसलिले सुपुष्टमेकं रुचिरं शवमपश्यम्। यावदहं शवदर्शनविस्मितः) किं न्विदं स्यादिति मनसि चिन्तयामि तावदेव दिव्यविमानस्थः कश्चिद्देवतुल्यवपुः स्वर्गीयः सुपुरुषस्तत्रायातः।
रामः – आश्चर्यम्! प्रभो! ततः किमभूत्?
अगस्त्यः – ततः पश्यतो मे विमानादवरुह्यासौ स्वर्गी शवं साह्लादं भक्षयामास। पश्चात्सरः अवतीर्य यथोचितमुपस्पृश्य च पुनर्विमानमारोढुमुपचक्राम। तमहमारोहन्तवेक्ष्य त्वमिवोत्कण्ठितः सविनयमब्रवम् –
पणवमुरजवीणारम्यनादोपपन्नः
विबुधयुवतिवृन्दैर्वन्दितो देवतुल्यः।
समशितशवभक्ष्यो भैरवो गर्हणीयः
प्रघसविकृतकर्मन्! को भवान् मे ब्रवीतु।।9।।
रामः – ततस्ततः?
अगस्त्यः – राघव! मम भाषितं शुभाक्षरं श्रुत्वा स स्वर्गी प्राञ्जलिरुवाच-ब्रह्मन्! विदर्भराजस्य सुवेदस्य ज्योष्ठात्मजोऽहम् श्वेतनामा। पितरि स्वर्याते वर्षसहस्राणि यावत् प्रजापालनमहं कृतवान्। ततश्च कालधर्मं विज्ञाय विरक्तस्सन् अनुजं सुरथं राज्यासनेऽभिषिच्य इदं सरः समासाद्य चिरकालं घोरं तपस्तप्तवान्। तपस्यया चाप्रतिमया सुदुष्करं ब्रह्मलोकं प्राप्तवानस्मि।
रामः – प्रभो वर्धते समुत्कण्ठा। ततः किं जातं?
अगस्त्यः – राघव! श्वेतः पुनरवोचत्। ब्रह्मन्! ब्रह्मलोकस्थोऽपि क्षुत्पिपासाभ्यां नितरां पितोऽहं प्रजापतिमपृच्छम्-देव! लोकोऽयं क्षुत्पिपापासावर्जित इति शृणोमि। तथापि यदहं नितरां पीडितः ताभ्यां, तत्कस्यायं कर्मणः पाकः?
रामः – प्रजापतिः किमुत्तरितवान्?
अगस्त्यः – प्रजापतिः श्वेतमुवाच-राजन्! उत्तमं तपः समाचरता त्वया सर्वथा स्वशरीरमेव पुष्टम्। श्वेत! न त्वया जीवने सूक्ष्ममपि दत्तम्। तस्मादेव स्वर्गगतोऽपि क्षुत्पिपासाभ्यामतितरां बाध्यसे। तदिदानीं शृणु,
सुपुष्टमन्नादिरसैरनुत्तमैः फलैर्मृदुस्वादचयैश्च सन्ततम्।
शरीरमेवामृततुल्यमद्धि ते नृपेन्द्र! तुष्टिर्भविता महीयसी।।10।।
रामः – आष्चर्यम्। अतिविस्मयावहं वृत्तमिदम्।
अगस्त्यः – राम! ततः प्रभृत्येव श्वेतः तद्गर्हितमाहारं स्वशरीरं निष्प्राणं भक्षयामास। भुज्यमानमपि बहून् वर्षगणान् न तत्क्षयमगान् न च श्वेतस्य तृप्तिर्जाता।
रामः – भगवन्! किं प्रजापतिरपि तृप्त्युपायं कमपि नो निर्दिष्टवान्?
अगस्त्यः – भद्र! तदेव व्याहरामि। प्रजापतिः। श्वेतमुवाच - यदाऽगस्त्यो महर्षिस्तद्वनं तपस्तप्तुं समागमिष्यति तदा कृच्छ्रादस्माद् विमोक्ष्यसे इति। ततो यथावसरमिहागतं मां दृष्ट्वा विदर्भराजोऽवोचत् – भगवन्! कुम्भयोने! इदमाभरणं मत्तः समादाय मां पापादस्माद् विमोचय! अत्रभवन्तं द्विजश्रेष्ठमपहाय नान्येषां गतिः।
रामः – (सहर्षम्) सम्यगाह विदर्भभूपतिः। ततस्ततः?
अगस्त्यः – दशरथे! ततः श्वेतवाक्यमुपश्रुत्य तस्य कच्छ्रञ्च विलोक्य तद्दुःखधुःखितेन तत्तारणाय मया गृहीतमिदं दिव्याभरणम्। प्रतिगृहीते एव मया तस्मिन्नाभरणे राजर्षेः श्वेतस्य मानुषः पूर्वदेहः विननाश। श्वेतश्चापि क्षुत्पिपासाविरहितः सञ्जातः।
रामः – शोभनं शोभनम्!
अगस्त्यः – राघव! ततः प्रणष्टे शरीरे सन्तृप्तः प्रमुदितो नरपतिः सुखं त्रिदिवं जगाम। इदमाभरणं दिव्यं मत्पार्श्वे न शोभते। काकुत्स्थ! मत्प्रसादभूतमिदं दिव्याभरणं त्वमेव धारय जगच्छ्रेयसे। यतो हि,
निपान एवाम्बुजमम्बरे विधु-
स्तनोति शोभा हिममद्रिमस्तके।
इदं च दिव्याभरणं तथैव ते
सुखाय तोषाय भवेद्रघूत्तम।।11।।
रामः – भगवन्! सर्वथा कृतकृत्योऽस्मि।
अगस्त्यः – (सस्नेहम्) राघव! किन्ते भूयः प्रियमुपहरामि?
रामः – प्रभो! सर्वमुपपन्नं भवत्कृपया। तथापीदमस्तु भरतवाक्यम्।
हृदि हृदि शुभभावो धर्मशीलानुरागः
दृशि दृशि करुणार्द्रा लोककल्याणवाञ्छा।
प्रभवतु कृपया ते रामराज्ये निकामं
सुकृतमिह समग्रग्रामपौरप्रजासु।।12।।
।।इति श्री बालीद्वीपस्थोदयनविश्वविद्यालये विजिटिंगप्रोफेसरपदम-।।
धिरूढेनाभिराजराजेन्द्रमिश्रेण भारताभिजनेन विरचितं
लघुरूपकं श्वेतोद्धाराभिधानं
समाप्तम्
सत्यकामजाबालः
पात्राणि
1.सूत्रधारः (प्रस्तावकः)
2.सत्यकामः (जबालापुत्रः)
3.जरठः (सत्यकामसहायः)
4.गौतमः (कुलपतिर्महर्षिः)
5.जबाला (ऋषीणां गृहसेविका)
रचनाकालः
9.4.87 ई.
डेनपसारम्, बालीद्वीपम्।
सत्यकामजाबालः
।।नेपथ्ये विविधवाद्यध्वनिः। ततश्च नान्दीपाठः श्रूयते।।
दिशतु मङ्गलं करिवरवदनो गणाधिपः
दिशतु मङ्गलं वरटवाहिनी सरस्वती।
दिशतु मङ्गलं जगद्वन्दितो महेश्वरः
दिशतु मङ्गलं गिरिशगेहिनी महेश्वरी।।1।।
सूत्रधारः (प्रविश्य सप्रणामं सपुष्पवर्षञ्च)
मान्याः सहृदयाः! एषोऽहं सविनयम् विज्ञापयामि यदद्य परिषन्मनोरञ्जनाय सत्यकामजाबालाभिधानं शिशुजनोचितम् एकाङ्करूपकमभिनवं प्रस्तोष्यते। कर्ता त्वस्य रूपकस्य विश्रुतचरस्समेषामभिराजराजेन्द्रो यस्यायं संक्षिप्तपरिचयः –
यं देवी सुषुवे कवित्वशिखरं दुर्गाप्रसादान्निजे
क्रोडे शुक्तिनिभे विमौक्तिकतनुं वन्द्याऽभिराजी सुतम्।
श्रीदेवेन्द्रसुरेन्द्रमध्यममणी राजेन्द्रमिश्रोऽनघ-
स्सोऽयं कम्बुहिमावदातसुयशाः ख्यातस्त्रिवेणीकविः।।2।।
किञ्च –
यथा काव्ये तथा नाट्ये तथैवाख्यानलेखने।
त्रिगुणा प्रकृतिः साक्षादभिराजस्य शेमुषी।।3।।
अभिराजमयं गीतमभिराजमयी कथा।
अभिराजमयं नाट्यं संस्कृतं तन्मयं नवम्।।४।।
(इति साञ्जलिपुटप्रणामं शनैरपयाति)
(ततः प्रविशति जनन्या सह सत्यकामः)
सत्यकामः – अम्ब! आश्रमं गत्वा किमहं कथयिष्यामि?
जबाला – (लालयनती) वत्स! मा भैषीः। आश्रममुपेत्य सर्वप्रथमं गुरुवर्येभ्यः प्रणामोऽर्पणीयः। महर्षिगौतमः त्रिकालदर्शी सर्वविद्यानिष्णातः परमकारुणिकश्चास्ति। यत् किञ्चिदपि संपृच्छेत् तस्य कोमलस्वरेण देयमुत्तरम्।
सत्यकामः – अम्ब! तत्राश्रमेऽपरेऽपि बालका भविष्यन्ति।
जबाला – अथकिं वत्स! तत्र शतसह्स्रमिता वटवो भविष्यन्ति। सत्यकाम! आश्रमे सर्वेऽपि शिष्याः समानरूपेण प्रिया भवन्ति।
सत्यकामः – अम्ब! तत्र न कोऽपि मामुपहसिष्यति! अहमप्यन्यैः साकं क्रीडिष्यामि?
जबाला – कथमेवं चिन्तयसि? पुत्रक! न ते किञ्चिदपि वर्तते समुपहसनीयम्। त्वमसि सद् वृत्तः विनीतः रमणीयविग्रहश्च। सर्वे त्वां लालयिष्यन्ति।
सत्यकामः – नातिसुन्दराणि मम परिधानानि। तत्र महार्धवेषभूषाः बटवो भविष्यन्ति।
जबाला – (साश्रुनयनम्) अथ किं वत्स! गुरोः आश्रमे न कोऽपि भेदभावः। सर्वेऽपि वटवः संहतिं विधाय होमधेनुश्चारयन्ति। मिलित्वैव यज्ञार्थं काष्ठभारमानयन्ति। रात्रो गुरुचरणसंवाहनं कुर्वन्ति।
सत्यकामः – सार्धमेव शेरतेऽपि?
जबाला – (पुत्रमुखं चुम्बन्ती) सत्यकाम! कियान् मुग्धोऽसि त्वम्? आश्रमे सर्वमपि कार्यं सर्वेषां कृते समानं भवति। महर्षिगौतमं दृष्ट्वा सर्वमेतत् प्रत्यक्षमनुभविष्यसि। अलमिदानीं वार्ताविस्तरेण। स्वपाथेयं गृहाण। अतिक्रामति गमनवेला। वत्स! गच्छ।
सत्यकामः – (सप्रणामम्) अम्ब! अहं विद्यामधीत्य महान् ऋषिः भविष्यामि। अहमपि वेदमन्त्रान् गास्यामि। यज्ञं करिष्यामि। त्वां यशस्विनीं विधास्ये।
जबाला – (सालिङ्गनम्) पुत्रक! त्वया पुत्रवती सती धन्य़ाऽस्मि। निर्मलहृदयोऽसि। उमदात्तचरितोऽसि। नूनं सर्वं श्रेयस्करं सम्पादयिष्यसि। गच्छेदानीम्। अयं ते पितृव्यस्तव संरक्षको भविष्य़ति। (भद्रपुरुषं प्रति)
जरठ! त्वमिदानीं सत्यकामाय मार्गमादिश।
जरठः - सत्यकाम! अनुगच्छ मामिदानीम्।
(जननीं प्रणम्य सत्यकामो गच्छति)
(नेपथ्ये गीयते)
सत्यं हिमावदातं बन्धो! सत्यं हिमावदातम्!!
सत्यमेव परिचयस्समेषाम्
सत्यमेव बन्धुर्नहि केषाम्
सत्यमेव जननी जनकोऽपि प्रथितं नवप्रभातम्!!
सत्यं श्रद्धा सत्यं भक्तिः
सत्यमेव तत्प्रियाऽनुरक्तिः
सत्येनैव विभाति जीवनं देवकरुणया त्रातम्!!
सत्यमेव रक्षति सुरक्षितम्
सत्यमेव हि ददाति लक्षितम्
लक्षकोटिमितधनं भूतले सत्यमेकमिह जातम्।।
काममहं मलिनाम्बरवेषी
कृतो जनन्यासत्यान्वेषी
एष उपैमि कुलपतिं पूज्यं विद्यातपोनिशातम्।।
सत्यं हिमावदातम्!!5!!
(कोकिलारावमाकर्ण्य)
ममेमां गीतिकां श्रुत्वा यथा कूजति कोकिलः।
तेन सिद्धिमहं मन्ये विद्यायाः कुलपाश्रमे।।6।।
।।जवनिकापातः।।
।।द्वितीयं दृश्यम्।।
(कुलपतिगौतमस्य गुरुकुलम्। परितो वेदपाठध्वनिः प्रसरति। ततः प्रविशति जठरद्वितीयः सत्यकामः)
सत्यकामः – (महर्षिगौतममुपेत्य) आचार्यवर्य! पूज्यपाद! प्रणमामि भवन्तम्।
गौतमः – (सविस्मयं निर्भयं बालकं पश्यन्) वत्स! कोऽसि त्वम्? कुत आयातोऽसि?
सत्यकामः – भगवन्! सत्यकामोऽस्मि। जनन्या विद्याध्ययनार्थं भवत्सकाशं प्रेषितोऽस्मि।
गौतमः - सत्यकामोऽसि? जनन्या प्रेषितोऽसि?
सत्यकामः – भगवन्! अथ किम्।
गौतमः – (सस्मितम्) वत्स! किन्नाम्नी तेऽस्ति जननी? कुत्र प्रतिवसति सा?
सत्यकामः – भगवन्! जबालेत्यस्ति तदभिधानम्। इतो नातिदूरे परिसरारण्ये महर्षिजनवसतौ सा पलाशकुटीरे निवसति।
गौतमः – सत्यकाम! कस्तव पिता?
सत्यकामः – (चिन्तामनुभवन्) भगवन्! स्वमातुः पुत्रोस्मि। अहं जबालापुत्रोऽस्मि भगवन्!
गौतमः – (सस्नेहम्) वत्स! किं पितृहीनोऽसि? पितरं न स्मरसि किम्?
सत्यकामः – (सविनयम्) आचार्य! पितरं न जानामि। मम गृहे तु केवलमहं मम माता च स्तः। तृतीयः कोऽपि नास्ति।
गौतमः – वत्स! किं तव जननी तव पितुर्नाम नाख्यातवती? पूर्णपरिचयं विना कथमाश्रमप्रवेशं प्राप्स्यसि?
सत्यकामः – (सदैन्यम्) भगवन्! मम जननी तु एतावदेव कथितवती यदहं जबालापुत्रोऽस्मि। सैव मम माता, सैव पिता, सैव च मम वंशगोत्रम्।
गौतमः – (साश्चर्यम्) वत्स! किं करोति तव जननी?
सत्यकामः – आचार्य! सा तु महर्षिवृन्दगृहेषु सेवाकार्यं संपादयति। रात्रो शास्त्रप्रवचनं शृणोति। प्रातः काले वेदपाठमाकर्णयति। भगवन्! मम जननी अतीव सरला मधुरा विदुषी चास्ति। रात्रौ मामङ्कमधिरोप्य सा पुराणकथाः श्रावयति।
गौतमः – एवं विदुषी सत्यपि पितरं कथं नाख्यातवती? भोः आश्चर्यम्।
सत्यकामः – (सविमर्शंम्) एवं मम जनन्याऽभिहितम्। यदि नामाचार्यो निर्बन्धपरो भवेत् पितृनाम ज्ञातुं, तर्हि निवेदय तस्मै यत् बहुषु महर्षिगृहेषु सेवाकार्यं कुर्वत्या मे सम्पर्कः सञ्जातः। निश्चेतुं न शक्यते यत् कस्यांशभूतोऽसि त्वम्। इदं सत्यभाषणमेव ते पिता भविष्यति। वत्स! सत्यकाम! सत्यमेव ते शरणं, सत्यमेव ते गतिः इति। भगवन्,
न जानामि तातं स्वजन्मैकहेतुं
कुलञ्चापि लोकप्रतिष्ठैकमूलम्।
जबालाऽस्ति सा जन्मदात्री प्रशस्ता
गुरो! सैव सर्वं भणाम्येष सत्यम्।।7।।
किञ्च,
जबालैव पिता ख्यातो जबालैव कुलं मम।
जबालैव गुरुश्चाद्यो जबाला सत्यमन्त्रदा।।8।।
गौतमः – (साश्चर्यमात्मगतम्) अहो! आर्जवं माणवकस्य! सत्यमेव ब्रह्मनिष्ठोऽयं प्रतिभाति। नानेन मातृकलङ्कप्रख्यापकं सत्यं तिरस्कृतम्। अनुग्राह्योऽयम्। निश्चप्रचम् कस्यापि तेजस्विनः सन्ततिरयम्।
(प्रकाशम्) वत्स सत्यकाम! अन्वर्थनामाऽसि। तव सत्यनिष्ठया परं प्रीतोऽस्मि। अङ्गीकरोमि त्वां वेदविद्याध्ययनाय। इदं सत्यभाषणमेव तव गोत्रं तव द्विजत्वञ्च साधु प्रमाणीकरोति। एहि। मया सार्धं संकल्पं सम्पादय।
( (सत्यकामो महर्षिगौतममनुव्याहरति। उभौ सार्धमुच्चारयतः)
ओम् सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्विनावधीतमस्तु। मा विद्विषावहै।
।।इतिबालीद्वीपस्थोदयनविश्विद्यालयेऽभ्यागताचार्यपदमधिरूढेन।।
भारताऽभिजनेन त्रिवेणीकविनाऽभिराजराजेन्द्रेण विरचितं
लघुरूपकं सत्यकामजाबालाभिधानं
परिसमाप्तम्
रत्नप्रत्यभिज्ञानम्
पात्राणि
1.सूत्रधारः (कथाप्रस्तावकः)
2.द्रोणाचार्यः (धनुर्वेदाचार्यः)
3.कृपी (द्रोणाचार्यपत्नी)
4.अश्वत्थामा (द्रोणपुत्रः)
5.दुर्योधनः (कुरुमुख्यः)
6.युधिष्ठिरः (ज्येष्ठपाण्डवः)
7.भीमः (मध्यमपाण्डवः)
8.अर्जुनः (मध्यमपाण्डवः)
9.दुश्शासनः (दुर्योधनानुजः)
10.भीष्मः (कुरुवृद्धः पितामहः)
रचनाकालः
22.4.87 ई.
डेनपसारम्, बालीद्वीपम्।
रत्नप्रत्यभिज्ञानम्
।।नेपथ्ये विविधवाद्यध्वनिः। ततश्च नान्दीपाठः श्रूयते।।
दिशतु मङ्गलं करिवरवदनो गणाधिपः
दिशतु मङ्गलं वरटवाहिनी सरस्वती।
दिशतु मङ्गलं जगद्वन्दितो महेश्वरः
दिशतु मङ्गलं गिरिशगेहिनी महेश्वरी।।1।।
सूत्रधारः (प्रविश्य सप्रणामं सपुष्पवर्षञ्चः
मान्याः सहृदयाः! एषोऽहं सविनयं विज्ञापयामि यदद्य परिषन्मनोरञ्जनाय रत्नप्रत्यभिज्ञानाभिधानं शिशुजनोचितम् एकाङ्करूपकमभिनवं प्रस्तोष्यते। कर्ता त्वस्य रूपकस्य विश्रुतचरः समेषामभिराजराजेन्द्रो यस्यायं संक्षिप्तपरिचयः,
यं देवी सुषुवे कवित्वशिखरं दुर्गाप्रसादान्निजे
क्रोडे शुक्तिनिभे विमौक्तिकतनुं वन्द्याऽभिराजी सुतम्।
श्रीदेवेन्द्रसुरेन्द्रमध्यममणी राजेन्द्रमिश्रोऽनघ-
स्सोऽयं कम्बुहिमावदातसुयशाः ख्यातस्त्रिवेणीकविः।।2।।
किञ्च –
यथा काव्ये तथा नाट्ये तथैवाख्यानलेखने।
त्रिगुणा प्रकृतिः साक्षादभिराजस्य शेमुषी।।3।।
अभिराजमयं गीतमभिराजमयी कथा।
अभिराजमयं नाट्यं संस्कृतं तन्मयं नवम्।।४।।
(इति साञ्जलिपुटप्रणामं शनकैरपयाति)
।।स्वपर्णकुटीरे म्लानमुखो द्रोणाचार्यस्तिष्ठति। तस्य गृहिणी कृपी क्रोशन्तं दारकं सान्त्वयितुमुपक्रमते।।
अश्वत्थामा – मातः! अहमपि दुग्धं पास्यामि। दुग्धं मे देहि। (इति नानाविधं रोदिति)
कृपी – (सान्त्वयन्ती)
जात! अलं रोदनेन। श्वस्तने प्रभातकाले दुग्धं ते दास्यामि।
दुग्धेन मधुरं पायसमपि पक्ष्यामि। प्रभूतं पायसं तुभ्यं दास्यामि। इदानीं तावत् तूष्णीमुपगच्छ।
अश्वत्थामा – (मातुः क्रोडान्निर्गत्य)
न खलु, न खलु। इदानीमेव दुग्धं पास्यामि। सर्वे बालका दुग्धं पिवन्ति। सर्वेषां गृहे गावः सन्ति। कथन्न तर्हि ममैव गृहे? दुग्धं मे देहि।
कृपी – (सदैन्यं सजलनयना द्रोणं पश्यति)
इदानीं भवानेव सान्त्वयतु वंशधरं स्वकीयम्। नाऽयं मम वशे तिष्ठति। कियद्वारं भणितम्मया यत् कुतोऽपि धेनुमेकामानय। परन्तु कः शृणोति?
द्रोणः – (सधैर्यम्)
देवी! अलम्मामधिक्षिप्य। कुत आनयानि? ग्रन्थौ मे वराटिकाऽपि नास्ति। पौरोहित्यमपि न जानामि। तत् किं करवाणि? पश्य देवि,
पृष्ठांशवृत्तयो भूपा अन्ये वेतनजीविनः।
संयमान्तं द्विजत्वं भो द्विजो धृत्या महीयते।।5।।
कृपी – स्वामिन्! विश्वविश्रुतोऽसि धनुर्विद्यायाम्। निखिलामपि सृष्टिं निजायुधप्रयोगेण क्षणेनैव भस्मसात्कर्तुं प्रभवसि। तर्हि कथं न स्वधनुर्वेदविज्ञानं प्रदर्श्य कोऽपि राजर्षिर्वशीक्रियते?
द्रोणः – प्रिये! सत्यमुच्यते त्वया। परन्तु किं करोमि? स्वभावो दुरतिक्रमः। याञ्चा तु मरणादपि कष्टकरी प्रतीयते।
(दारकं समुपलालयन्)
पुत्रक! मा रुदिहि। श्व एव प्रभाते त्वां राजधानीं नेष्यामि। क्रीडनकं दास्ये। मिष्टान्नं दास्ये। यत्किञ्चिदपि तुभ्यं रोचते तदेव दास्ये।
अश्वत्थामा – (उपच्छन्दितस्सन्)
तात! राजधानी क्व वर्तते? राजधानी कीदृशी भवती?
द्रोणः – वत्स! राजधान्यां भूपतिर्वसति। तत्र राजमार्गा भवन्ति। राजमार्गमभितोऽट्टालिकास्तिष्ठन्ति गगनचुम्बिन्यः। तत्र महान् जनसम्मर्दो दृश्यते। अश्वा गजा रथाश्च राजमार्गे सञ्चरन्तो दृश्यन्ते।
अश्वत्थामा – (सोत्कण्ठम्)
तात! किन्नाम्नी सा राजधानी?
द्रोणः – वत्स! हस्तिनापुरनाम्नी सा भागिरथ्यास्तटे वर्तते।
(मध्य एव कृपी तण्डुलान् पिष्ट्वा जले च सम्मेल्य कृतकक्षीरं विधाय आनयति ददाति च दुर्ललितपुत्राय)
कृपी – वत्स! गृहाण तावत् क्षीरम्।
अश्वत्थामा – (सहर्षम् नृत्यन्)
क्षीरं प्राप्तम्। क्षीरं पास्यामि। साम्प्रतं क्षीरं पास्यामि।
(क्षीरमल्लकं गृहीत्वा कुटीराद् बहिर्निष्क्रम्य बालकानन्यानुच्चैः श्रावयन् सहेलं नृत्यमाचरन् तण्डुलफाण्टं पिबति। तस्य मौढ्यं निभाल्य कृपी शनै रोदिति)
द्रोणः – (पत्नीं पति)
देवी! अलमधैर्येण। रक्ष स्वाभिमानम्। तपस्विन्यसि, विदुष्यसि। दारिद्रयमेव धनं तपस्विनामस्मादृशाम्। स्मर जगन्नाथं नारायणम्। स एवाऽस्माकं शरणम्। श्वोऽहं गमिष्यामि राजधानीम्। प्रत्याश्वस्ता भव।
।।जवनिकापातः।।
।।द्वितीयं दृश्यम्।।
।।राजधान्या बहिर्भागे विस्तृतं क्रीडाक्षेत्रम्। दुर्योधनप्रभृतयो धार्तराष्ट्राः पाण्डवकुमाराश्च कन्दुकक्रीडायां दत्तचित्ता दृश्यन्ते। अकस्मादेव कन्दुको गभीरकूपे कस्मिंश्चिन्निपतति।
दुर्योधनः – (सरोषम्)
वृकोदरेणैव पातितोऽयं कन्दुकः। सम्प्रति किं भविष्यति?
भीमः – भोः स्वयं निपात्य मामधिक्षिपसि? मृषावादिनं त्वामपि कूपोऽस्मिन्नेव पातयिष्यामि।
दुर्योधनः – (असहिष्णुस्सन्)
मूढ! पातय तावत्।
युधिष्ठिरः – (पुरस्सृत्य)
भद्र दुर्योधन! क्रीडने तु सर्वमेतद् भवत्येव। अलं मिथोविवादेन। कन्दुकस्तु निपतित एव। त्वया निपातितो, वृकोदरेण, मया वा। किन्तेन? सम्प्रति चिन्तय तावत्केन खलूपायेन कन्दुकोऽयं बहिरानीयताम्!
दुश्शासनः - कोऽपि कूपतलमवतरेत्।
भीमः – (विहस्य)
रम्योऽयं प्रस्तावः। अवतर, त्वमेवाऽवतर।
दुश्शासनः – कथं न त्वम्। त्वयैव पातितः कन्दुकः। त्वयैवाऽसौ बहिरानेयः।
भीमः – (सरोषं सनिर्भर्त्सनम्)
मयैव पातितः? त्वमप्यग्रजमुखेन भणसि? बहिरानयानि?
(दुश्शासनो भीतस्सन् पश्चात्सरति। तावदेव प्रविशति सशरचापमाचार्यो द्रोणः)
द्रोणः – (विदितवेदितव्यस्सन्)
दारकाः! किमर्थं विवदथ? पतितं कन्दुकं कूपाद्बहिराकर्षामि। गच्छत यूयम्। इषीकाः काश्चन आनयत।
(दुर्योधनभीमप्रभृतयः सर्वेऽपि धावं धावमिषीकाः सञ्चिन्वन्ति समुपहरन्ति च)
अर्जुनः – (सोत्कण्ठम्)
भोस्तपस्विन्! इषीकया किं भविष्यति?
द्रोणः – (सस्मितम्)
पुत्रक! अलं प्रश्नेन। पश्य, यद् भविष्यति। चमत्कारं ते दर्शयिष्यामि। अवचनस्तिष्ठ मुहूर्तमात्रम्। पश्य मम कौशलम्।
(धनुर्दण्डे प्रत्यञ्चामारोप्य मन्त्रस्मरणपूर्वकम् इषीकां सन्धाय कन्दुकोपरि क्षिपति। क्षिप्तेषीका कन्दुकं दृढं बध्नाति। ततश्च द्वितीयां तृतीयां चतुर्थीं पञ्चमीं षष्ठीं सप्तमीमन्याश्चेषीकाः क्रमेण योजयित्वा कूपमुखं यावदानयति। इषीकारज्जुं शनैराकृष्य कन्दुकमुपरि समानीय च प्रददाति युधिष्ठिराय। सर्वे बालका विस्फारितनेत्राः सकरतालं नृत्यन्ति कूर्दन्ति च)
अर्जुनः – (सविस्मयम्)
हन्त भो आश्चर्यम्! महात्मन्! कुतोऽयं विद्याभ्यासः समधिगतः?
द्रोणः – (सस्मितं सस्नेहम्)
वत्स! गुरोः प्रभावात् सर्वमिदं शिक्षितम्। मन्त्रबलेन सामान्यशरा एव दिव्यप्रभावसम्पन्ना जायन्ते। तेन सर्वं सम्भवति।
(सप्रणयम्)
वत्स! त्वमपि धनुर्वेदरहस्यमिदं ज्ञातुमिच्छसि?
अर्जुनः – भगवन्! मह्यमपि रहस्यमिदमुपदेक्ष्यति भवान्?
द्रोणः – (सवात्सल्यम्)
अथ किं वत्स! अवश्यमेवोपदेक्ष्यामि। किन्नामाऽसि त्वम्?
अर्जुनः – (सविनयम्)
भगवन्! अर्जुनोऽहमस्मि पाण्डुनन्दनः कौन्तेयः।
द्रोणः (प्रीतस्सन्)
साधु साधु! धनुर्वेदे तवाभिरुचिं निष्ठाञ्च विलोक्य परां प्रीतिमुपगतोऽस्मि।
दुर्योधनः – (साश्चर्यं साभ्यर्थनम्)
भगवन्! क्व यास्यति भवान् इदानीम्?
द्रोणः – वत्स! पर्यटन् योगी वहज्जलञ्च निरन्तरमग्रेसरतः। किं कथयानि क्व यास्यामि?
(प्रविश्याऽपटीक्षेपेण)
भीष्मः – आचार्यप्रवर! द्रोण! कन्दुकवृत्तान्तेनैव प्रत्यभिज्ञातोऽस्ति भवान् मया। एष गङ्गानन्दनो भीष्मोऽहं भवन्तं प्रणमामि। भगवन्! न क्वाप्यन्यत्र गन्तव्यं भवता। इहैव हस्तिनापुरे निवसन्तो भवन्तो राजपुत्रानिमान् धनुर्वेदं शिक्षयिष्यन्तीति मदीयाऽभ्यर्थना। सम्प्रति राजमन्दिरमेव भवतामुचितं वसतिस्थानम्।
(सर्वे राजपुत्राः सहर्षं नृत्यन्ति)
द्रोणः – (प्रीतस्सन्)
अये! राजर्षिर्गङ्गानन्दनो भीष्मः! स्वागतं राजर्षे! स्वीकृता मया भवदभ्यर्थना।
भीष्मः - अनुगृहीतोऽस्मि। एष भवच्चरणयोः प्रणमामि।
द्रोणः – वर्धस्व राजन्!
भीष्मः – सम्पन्नं रत्नप्रत्यभिज्ञानम्। इदानीं कुमाराणां धनुर्वेदशिक्षणविषये निश्चिन्तोऽस्मि जातः।
।।जवनिकापातः।।
।।इति बालीद्वीपस्थोदयनविश्वविद्यालयेऽभ्यागताचार्येण भरताभिजनेन।।
त्रिवेणीकविनाऽभिराजराजेन्द्रेण प्रणीतं लघुनाट्यं
रत्नप्रत्यभिज्ञानं समाप्तम्
नामकरणम्
पात्राणि
1.सूत्रधारः (कथाप्रस्तावकः)
2.दशास्यः (लङ्कापतिः)
3.प्रहस्तः (दशास्यसचिवः)
4.मारीचः (दशास्यमातुलः)
5.धूम्राक्षः (दशास्यसेवक)
6.नन्दी (शम्भुगणमुख्यः)
7.शङ्करः (देवाधिदेवोमहेश्वरः)
8.पार्वती (महेश्वरप्रिया)
रचनाकालः
7.10.87 ई.
डेनपसारम्, बालद्वीपम्।
।।नेपथ्ये विविधवाद्यध्वनिः। ततश्च नान्दीपाठः श्रूयते।।
दिशतु मङ्गलं करिवरवदनो गणाधिपः
दिशतु मङ्गलं वरटवाहिनी सरस्वती।
दिशतु मङ्गलं जगद्वन्दितो महेश्वरः
दिशतु मङ्गलं गिरिशगेहिनी महेश्वरी।।1।।
सूत्रधारः (प्रविश्य सप्रणामं सपुष्पवर्षञ्च)
मान्याः सहृदयाः! एषोऽहं सविनयं विज्ञापयामि यदद्य परिषन्मनोरञ्जनाय नामकरणाभिधानं शिशुजनोचितम् एकाङ्करूपकमभिनवं प्रस्तोष्यते। कर्ता त्वस्य रूपकस्य विश्रुतचरस्समेषामभिराजराजेन्द्रो यस्याऽयं संक्षिप्तपरिचयः,
यं देवी सुषुवे कवित्वशिखरं दुर्गाप्रसादान्निजे
क्रोडे शुक्तिनिभे विमौक्तिकतनुं वन्द्याऽभिराजी सुतम्।
श्रीदेवेन्द्रसुरेन्द्रमध्यममणी राजेन्द्रमिश्रोऽनघ-
स्सोऽयं कम्बुहिमावदातसुयशाः ख्यातस्त्रिवेणीकविः।।2।।
किञ्च –
यथा काव्ये तथा नाट्ये तथैवाख्यानलेखने।
त्रिगुणा प्रकृतिः साक्षादभिराजस्य शेमुषी।।3।।
अभिराजमयं गीतमभिराजमयी कथा।
अभिराजमयं नाट्यं संस्कृतं तन्मयं नवम्।।४।।
(इति साञ्जलिपुटप्रणामं शनैरपयाति)
(नेपथ्ये श्रूयते)
भो भो देवाः। अप्रमत्ता भवत। सयत्नममरावतीं देवाङ्गनाश्च रक्षत। एष गदाप्रहारनिपातितधनाध्यक्षः उपद्रुतमणिभद्रश्चक्राहतसम्योधकण्टकस्तोमरप्रहारभस्मीकृतसूर्यभानुः सञ्जातविजयमदो राक्षसराजो लङ्कापतिः विमानश्रेष्ठं पुष्पकमधिरुह्य षड्भिः सचिवैः परिवृतः कैलासाभिमुख इत एवाभियाति।
(नेपथ्ये कलकलध्वनिः)
दशास्यः – प्रहस्त! जितोऽयं मदीर्ष्यापरायणः राजराजः कुबेरः। दूतं सम्प्रेष्य ममावमानं कृतवान् बन्धुभूतोऽयं हतकः। तदद्य मया सम्यक् निर्यातितं ऋणम्।
प्रहस्तः – साधु साधु राक्षसाधिपते! प्रभो! विजिगीषूणां कृते न कोऽपि भ्राता न पिता। य एव प्रभुत्वावमन्ता स एव दण्ड्यः। तदिदानीं क्व गन्तुमिच्छति लंकेश्वरः? यतो हि,
वैभ्राजनाम् धनदस्य वनं सलीलं
तच्चापि नन्दनवनं रुचिरं मघोनः।
गान्धर्वसौख्यभृतचैत्ररथं विचित्रं
लीलास्थलं सकलमेव भवादृशानाम्।।5।।
दशास्यः – प्रहस्त! पुष्पकाधिरोहणसुखं तावत् प्राप्नुयाम। एतत् त्वष्टृनिर्मितं विमानं वैदूर्यमाणिक्यस्तम्भं रत्नसुवर्णगवाक्षं सर्वर्तुभोग्यं महानन्दकरं प्रतीयते। मुहूर्तं तावद् रुक्मप्रभां शरवणनिचितां लतातरुसमाच्छादितां कैलासवनिकामिमां पश्यामः।
(अकस्मादेव पुष्पकं स्तभ्नाति)
अये किमिदम्? विमानं नाग्रे सरति?
मारीचः – (सविनयम्) प्रभो! अवश्यमेवात्र केनचित् महता कारणेन भवितव्यम्। अन्यथा कथमिदमिच्छाचारि विमानं निरुद्धगति स्यात्?
धूम्राक्षः – प्रभो! निजस्वामिनं कुबेरं विना मन्ये केनाप्यन्येन अनियंत्रितं स्यादिदं विमानम्?
दशास्यः – कथमिदं भवेत्? इदानीं यावत्केन नियंत्रितमासीत्?
(विकटवेषं नन्दिनं सम्प्रेक्ष्य)
भवतु, जनमिमं पृच्छामि। तिष्ठ भो विमानराज! अत्रावतरिष्यामः
(विमानं गिरिशिखरेऽवतीर्य तिष्ठति)
दशास्यः – (आत्मगतम्)
करालवेषो लघुहस्तपादःसुवामनः पिङ्गलनेत्रयुग्मः।
ज्वलत्तनू रोषचयैश्च कृष्णप्रभोऽस्ति कोऽयं कपितुण्डयुक्तः।।6।।
नन्दी – (दशास्यं प्रति सक्रोधम्) भो दसास्य! अलमतिसाहसेन! पर्वतोऽयं हरपार्वतीकेलिनिलयभूतो देवानामपि कृतेऽगम्यः। चराचरजगद्गुरोर्देवाधिदेवस्य शंकरस्य प्रभावेण स्तम्भितगतिर्न कोऽपि अत्रागन्तुं शक्नोति। तत् निवर्तस्व।
दशास्यः – (सक्रोधम्) आः कोऽयं शंकरो नाम? अहमस्मि लङ्काधिपतिर्दशास्यस्त्रिलोकविजयी। न खलु मम कृते ब्रह्माण्डे किमपि क्षेत्रमगम्यम्।
(इति गन्तुमुपक्रमते)
नन्दी – (शूलमुद्यम्य) राक्षसाधम! निवारितोऽपि मया शङ्करानुचरेण गन्तुमुत्सहसे?
दशास्यः – (कपिवेषं नन्दिनं साट्टहासं तिरस्कृत्य)
भो वामन! मशकभूतोऽसि त्वम्। नाहं तवाधिकारे तिष्ठामि। त्वादृशा वानरा एव शंकरस्य रक्षकाः?
नन्दी – (क्रोधारुणलोचनः)
राक्षसापसद! वानरवेषम्मामुपहससि? एषोऽहं स्वतपसा शपामि यदस्मद्वेषधरैर्वानरैरेव कुलं ते नाशमुपनेष्यते। मूढ! दुर्दम! अनेनैव सूलेन त्वां तृणशूरं सद्यो हन्तुं क्षमेऽहम्। किन्तु स्वपापैरेव निहितोऽसि त्वम्। अलं त्वन्मारणोद्योगेन।
दशास्यः – (आत्मगतम्)
प्रलपत्वेष वानरः। शंकरोऽयं दुर्विनीतो मया द्रष्टव्य इदानीम्। भवतु केलिविहारस्थलभूतं पर्वतशिखरमिदं संक्षोभयामि।
(शिखरमूले बाहुनिचयं संयोज्य सबलमुत्खातुं प्रयतते। शिखरं संस्खलदिव परिलक्ष्यते)
पार्वती – (सभयं शम्भुमालिङ्ग्य) स्वामिन्! किमिदम्? पर्वतशिखरं कम्पतेतराम्। किं ध्वंसते धराबन्धः? किमागतो युगान्तः? साद्ध्वसं जायते मे मनसि।
शंकरः – (योगदृष्ट्या सर्वमवगम्य) प्रिये! पार्वति! मा भैषीः। दुर्दमो राक्षसेन्द्रः लङ्कापतिर्मच्छक्तिं परीक्षते। न जानात्यसौ मां शंकरम्। एष करोम्युपायम्।
(पादांगुष्ठेन शिखरं पीडयति)
दशास्यः – (बाहुपीडया करुणं विरावमार्तनादञ्च जनयन्)
आः निहस्तोऽस्मि। असह्यमिदं कष्टम्। प्रहस्त! धूम्राक्ष! मारीच! महोदर! शुक! सारण! यूयं रक्षत माम्। प्राणा मे नश्यन्ति। भुजा मे विदीर्यन्ते। आः किं करवाणि?
(इति करुणं नभोविवरयापिनञ्चार्तनादं विसृजति)
नन्दी – (साट्टहासम्) मूढ राक्षसाधम! मदान्ध! मामवज्ञाय शंकरबलं परीक्षितुमिहागतोऽसि? क्व गतं ते बलम्? क्वास्तीदानीं ते त्रिलोकविजयित्वम्। दृष्टं शंकरस्य बलं न वा?
(इति विपुलमहसति)
प्रहस्तः – (सविनयम्) महाराज! लङ्काधिपते! शंकरादृते नान्यं शरणं पश्यामि। तत्तोषयतु भवान् नीलकण्ठं महादेवं स्वनिर्मितस्तोत्रेण। निस्चप्रचमाशुतोषः परितुष्टः प्रसादमेष्यति। पश्यतु लङ्केश्वरः,
गृहस्थोऽप्यगृही नित्यं शङ्करोऽपि लयङ्करः।
भैक्ष्यवृत्तिरपीशानः कृत्तिवासा दिगम्बरः।।7।।
निस्सङ्गोऽप्यर्धनारीशस्तटस्थोऽपि महानटः।
सुराऽसुरसमर्च्योऽसो देवदेवो महीयते।।8।।
दशास्यः – युक्तमाह भवान्। एष स्तौमि देवाधिदेवं शिवताण्डवस्तोत्रेण आत्ममोपज्ञेन।
(इति सश्रद्धं सकरुणं शंकरं स्तौति)
शिरसि विबुधसिन्धुं धारयन्निन्दुलेखां
पृथुविततललाटे प्राज्यभस्माङ्गराम्।
त्रिभुवनजगदीशो भक्तवृन्दे कृपालुः
भवतु मयि दयालुश्चाशुतोषो दशास्ये।।9।।
पुनश्च,
ज्वलल्लाटलोचनोद्गिरत्कृशानुसञ्चयै-
र्विकीर्णचिट्चिटारवैर्ज्वलत्त्रिलोकमण्डलम्।
प्रदाहयन्तमीश्वरं युगान्तसान्ध्यनायकं
दधत्पिनाकसायकं भजे मदिष्टदायकम्।।10।।
जटासु गाङ्गमम्बु कम्बुनिर्मलं निरन्तरं
ललाटपट्टके च धारयन्तमैन्दवीं कलाम्।
गले विषं गजाजिनं कटीतटे महोरगं
दधानमद्रिजापतिं विचित्रदम्पतीं भजे।।11।।
प्रभो! गिरिजापते! कपोलवादनमात्रपरितुष्ट! आशुतोष! दग्धकन्दर्प! त्रिपुरोत्सादिन्! देवाधिदेव! क्षम्यतामयमज्ञो लङ्केश्वरस्त्वत्पादपङ्कजमरन्दपानलोलुपभ्रमरः। भवदैश्वर्यमजानता मया कृतो महानपराधः। एष नतोऽस्मि।
(अकस्मादेव पर्वतमूले शैथिल्यं जायते। दशास्यो मुक्तो भवति)
शङ्करः – (शिखरे स्थितो दशास्यं प्रतिः भो दशानन! तवास्मात् शौटीर्यात्प्रीतोऽस्मि। ततः इदानीं –
त्रिलोककम्पं जनयन् सुदारुणैः
विरावणैः शैलशिलार्तिनिर्गतैः।
इतः प्रभृत्येष्यसि रावणाभिधां
दशास्य! पौलस्त्य! सुरासुरालये।।12।।
तद् गच्छ यथासुखम्।
दशास्यः – (सप्रणामम्) देवाधिदेव! कृतार्थोऽस्मि भवच्छक्तिज्ञानविरहितोऽहम्। हे प्रभो! देवदानवगन्धर्वयक्षोरगराक्षसैरवध्योऽस्मि विरञ्चिवरप्रभावतः। स्वल्पबलान् मानवांस्तु नैव गणयाम्यहम्। दीर्घमायुश्चापि सम्प्राप्तम्मया। हे त्रिपुरान्तक! यदि प्रीतोऽस्ति भवान् तर्हि कृपया पाशुपतं शस्त्रमायुषश्शेषश्च मह्यं प्रणताय प्रयच्छतु।
शंकरः – (सप्रसादभावं खड्गमुपहरन्) एवमस्तु। गृहाणेमममोघं खड्गं चन्द्रहासाभिधानम्। परन्तु रावण! न कदाचिदवज्ञेयमिदं शस्त्रं त्वया। यद्यवज्ञातं तर्हि मामेव समेष्यति तत्क्षणम्। गच्छ, स्वस्त्यस्तु ते। शुभास्सन्तु पन्थानः।
दशास्यः – (सप्रणामं खड्गमङ्गीकृत्य) प्रभो! विरुपाक्ष! भवदाज्ञावशंवदोऽयं लोकरावणो विनयावनतः प्रणमति। लङ्कामुपेत्यापि निरन्तरमेव भवन्तं समर्चयिष्यत्ययं दशास्यः।
(इति ससचिवः पुष्पकाधिरोहणं नाटयति)
।।इति बालीद्वीपस्थोदयनविश्वविद्यालये विजिटिंग प्रोफेसरपदमधिरूढेना-।।
भिराजराजेन्द्रमिश्रेण भारताभिजनेन रचितं लघुरूपकं
नामकरणाख्यं समाप्तम्।
सिंहजम्बुकीयम्
पात्राणि
1.सूत्रधारः (कथाप्रस्तावकः)
2.सिंहः (वनपतिर्मृगेन्द्रः)
3.व्याघ्रः (सिंहानुचरः)
4.जम्बुकः (सिंहानुचरः)
5.नकुलः (सिंहानुचरः)
रचनाकालः
26.5.92 ई.
शिमला (हि.प्र.)।
सिंहजम्बुकीयम्
।।नेपथ्ये विविधवाद्यध्वनिः। ततश्च नान्दीपाठः श्रूयते।।
दिशतु मङ्गलं करिवरवदनो गणाधिपः
दिशतु मङ्गलं वरटवाहिनी सरस्वती।
दिशतु मङ्गलं जगद्वन्दितो महेश्वरः
दिशतु मङ्गलं गिरिशगेहिनी महेश्वरी।।1।।
सूत्रधारः (प्रविश्य सप्रणामं सपुष्पवर्षञ्च)
मान्याः सहृदयाः! एषोऽहं सविनयं विज्ञापयामि यदद्य परिषन्मनोरञ्जनाय सिंहजम्बुकीयाभिधानं शिशुजनोचितम् एकाङ्करूपकमभिनवं प्रस्तोष्यते। कर्ता त्वस्य रूपकस्य विश्रुतचरस्समेषामभिराजराजेन्द्रो यस्याऽयं संक्षिप्तपरिचयः,
यं देवी सुषुवे कवित्वशिखरं दुर्गाप्रसादान्निजे
क्रोडे शुक्तिनिभे विमौक्तिकतनुं वन्द्याऽभिराजी सुतम्।
श्रीदेवेन्द्रसुरेन्द्रमध्यममणी राजेन्द्रमिश्रोऽनघ-
स्सोऽयं कम्बुहिमावदातसुयशाः ख्यातस्त्रिवेणीकविः।।2।।
किञ्च –
यथा काव्ये तथा नाट्ये तथैवाख्यानलेखने।
त्रिगुणा प्रकृतिः साक्षादभिराजस्य शेमुषी।।3।।
अभिराजमयं गीतमभिराजमयी कथा।
अभिराजमयं नाट्यं संस्कृतं तन्मयं नवम्।।४।।
(इति साञ्जलिपुटप्रणामैरभिनन्द्य शनैर्गच्छति)
(नेपथ्येऽनुश्रूयते)
शिशूनां सुखबोधाय पञ्चतन्त्रकथात्मकम्।
संवादैः रुचिरैः रम्यैर्लिख्यते लघुरूपकम्।।
कस्मिंश्चिद् गहने वने सिंहः गजम् एकं मारितवान्। सम्प्रति असौ तं मृतं गजं खादितुम् इच्छति। व्याघ्रनकुलजम्बुका अपि तत्रैव सन्ति। ते सर्वे सिंहस्य मित्राणि सन्ति। सम्प्रति प्रत्यक्षमेव प्रदर्श्यते यद् घटितम्।
सिंहः – (सर्वान् अवलोक्य)
भो विशालोऽयं हस्ती अस्माभिर्निहतः। प्रभूतं भोजनं भविष्यति। बुभुक्षाऽपि वर्धते। तत् किमर्थं विलम्बः क्रियते?
जम्बुकः – स्वामिन्!
शरीरं स्वेदविन्दुनिचितं दृश्यते। तत् पार्श्ववर्तिनि शीतलजले सरोवरे स्नानं कृत्वा खेदञ्चावधूय भोजनं करोतु भवान् इति निवेदये।
व्याघ्रः – आर्य! जम्बुकोऽयं साधु भणति। प्रथमं स्नानमेव कर्तव्यं भवता। धर्मानुपालनमपि भविष्यति शरीरसुखमपि!
सिंहः – यद् युष्मभ्यं रोचते। परन्तु कोऽत्र भोजनरक्षां करिष्यति? पश्य तावत्। आकाशे चिल्लाः काकाः गृध्द्राश्च उड्डीयन्ते। अरक्षितं निर्विघ्नञ्च दृष्ट्वा मृतगजं सझम्पम् अवतरिष्यन्ति भोज्यपदार्थञ्च उच्छिष्टं विधास्यन्ति।
(सर्वे परस्परम् अवलोकयन्ति)
जम्बुकः – स्वामिन्! मयि जीवति कः खलु दास्याः पुत्रः भवदशनं दूषयिष्यति? गच्छन्तु भवन्तः सर्वे। अहम् एकल एव मृतगजस्य रक्षां करिष्यामि।
नकुलः – स्वामिन्! साधु भणति सुहृद्वर्यः जम्बुकः। बुद्धौ बृहस्पतिः नीतौ च साक्षात् शुक्राचार्यः अयम्। अतएव चिन्ता न कार्या।
सिंहः – भद्र जम्बुक! त्वद्वचनं स्वीकृत्य गच्छामो वयम्। भोजनरक्षणे अप्रमत्तः तिष्ठ।
जम्बुकः – (सविनयम्)
यथा आज्ञापयति महाराजः।
(सिंह व्याघ्रनकुलाभ्यां सह स्नानार्थं गच्छति)
जम्बुकः – (मृतं गजं निपुणं निरीक्ष्य)
आः दैव! कियद् विशालं गजशरीरम्? मत्कृते तु मासपर्याप्तं भोजनम्! दिनमेकं शुण्डादण्डेन एव सार्थकं भविष्यति। ततः दिवसचतुष्टयं यावत् स्थूलान् चतुष्पादान् पञ्चविंशतिदिनानि यावच्च अवशिष्टशरीरं भक्षयिष्यामि।
(सिंहस्मृतिम् अभिनीय)
परन्तु दुर्दान्तोऽयं सिंहः। यः गजमपि लीलया हन्तुं क्षमते तस्य कृते तु मशकतुल्योऽहम्। तेन सह विरोधो न कर्तव्यः।
(क्षुधाविकलताम् अनुभूय)
आः दैव- क्षुधाविकलोऽस्मि। परन्तु मृतगजं स्प्रष्टुमपि न क्षमे। यतो हि गजोऽयं सिंहेन मारितः। सिंहो वनस्य राजा। अस्माकमपि नायकः रक्षकश्च। सर्वप्रथमं स एव भोजनारम्भं करिष्यति। तदेव समुचितम्। (विषादं नाटयन्)
किन्तु अनेन मम को लाभः? हृदयं यकृतं फुफ्फुसं सर्वमपि कोमलाङ्गजातं सिंहः भक्षिष्यति। ततश्च तदवशिष्टं व्याघ्रः। नकुलस्य तुष्टिस्तु रुधिरेणैव भविष्यति। परन्तु मम कृते तु स्वादरहितानि अस्थीनि अन्त्राणि एव शिष्टानि भविष्यन्ति। आः धिगिमं भृत्यभावं यदभिमतं भोजनमपि न प्राप्नोमि! षड्यन्त्रमभिनीय)
परन्तु अहमप्यस्मि सहस्रबुद्धिः! कामं सिंहो हन्याद् गजम्। भक्षणन्तु अहमेव करिष्यामि। स्वबुद्धिबलेन एषु त्रिषु कलहं वैरम् अविश्वासश्च उत्पाद्य निष्कण्टकं गजमिमं मासं यावत् अत्स्यामि। भवतु, स्नात्वा सिंहः आगच्छत्येव। सम्प्रति स्वचिन्तितं षड्यन्त्रं नाटयितुं बद्धपरिकरः भवेयम्।
(ततः गच्छति स्नात्वा हृष्टमनाः सिंहः। तं दृष्ट्वा जम्बुकः भूमौ निपत्य साभिनयं रोदिति - हुआऽऽऽहुँआऽऽऽऽ इति)
सिंहः – (सविस्मयम्)
भद्र जम्बुक! किमिदम्? कस्माद् रोदिषि? उतिष्ठ, ब्रूहि तावत्। किं जातम्? केनापि भोजनं दूषितम्?
जम्बुकः – (रोदनस्वरं सहिक्कं नियम्य)
किं कथयानि स्वामिन्! अनर्थः सञ्जातः।
सिंहः – स्पष्टं भण। किं वृत्तम्?
जम्बुकः - महाराज! भवतोऽपि प्राक् व्याघ्रः अत्रागच्छत्।
सिंहः - मत्तोऽपि प्राक्? कथमिदं सम्भवति? मत्समक्षमेव स जलक्रीडां कुर्वन्नासीत्। भवतु, ततंस्ततः?
जम्बुकः – ततस्तु आगतप्रायः एव असौ मृतगजं खादितुम् उपक्रामति स्म। तं तथा आचरन्तं दृष्ट्वा भवद्वशंवदः सेवकोऽहं तं न्यषेधम्।
सिंहः – (सक्रोधावेशम्)
ततस्ततः?
जम्बुकः – (विलपन्)
ततस्तु स्वामिन्! मां चपेटया ताडयित्वा सोल्लुण्ठम् असौ अवदत् – क्षुद्र जम्बुक! नाहं त्वमिव तस्य सिंहस्य सेवकः। नाहं सिंहापेक्षया हीनबलः। अस्य गजस्य हनने ममापि वर्तते पराक्रमः। अतएव साधिकारम् अहम् इमं गजं भक्षयामि। नाहं सिंहस्य प्रतीक्षां करिष्ये त्वमेव तस्य मार्गं पश्य।
(उच्चैर्विलप्य)
हा स्वामिन्! मया असकृत् निवारितोऽपि व्याघ्रः एवमादि दुर्वचनं निगद्य मृतगजम् उच्छिष्टं कृतवान्। भवन्तं समागतं दृष्ट्वा इदानीमेव पलायितः।
सिंहः – (सक्रोधं भैरवगर्जनं कृत्वा आकाशे दृष्टिं निबद्ध्य)
आः व्याघ्रापसद! नीच विश्वासघातिन्! एष त्वं न भविष्यसि! कामं त्वदुच्छिष्टमिदं भोजनं मत्कृते अभक्षणीयं जातं तथापि त्वद्विनाशं विना न मे पारितोषः। त्वद् रुधिरैः एव मम तृषा शमयिष्यति। एषोऽहम् आगच्छामि।
(इति सरोषं गहनवने प्रविशति। जम्बुकः सहर्षं नृत्यति कूर्दति समुच्छलति च)
जम्बुकः – विजयतां विजयताम् असत्यनारायणः! दुर्दान्ततमः शत्रुस्तु मया दूरीकृतः। नासौ दुरभिमानी सिंहः सम्प्रति इह प्रत्यावर्तते। इदानीं व्याघ्रस्य निवारणोपायः चिन्तनीयः। (मार्गाभिमुखम् अवलोक्य)
अये व्याघ्रोऽपि समागच्छति! भवतु सन्नद्धो भवेयम्। (इति भयकम्पितसर्वाङ्गः साश्रुनेत्रः विवर्णवदनः तिष्ठति)
व्याघ्रः – (जम्बुकं निपुणं निरूक्ष्य)
भ्रातः जम्बुक! अपि कुशलम्? प्रखरनिदाधेऽपि कम्पसे कथम्? किं ज्वराक्रान्तोऽसि? अरे नेत्रयोः अश्रूणि? कस्माद् रौदिषि बन्धो?
जम्बुकः – किं कथयानि? न मे जिह्वा प्रसरति। नीचनकुलेन.......।
व्याघ्रः – न खलु अवगच्छामि। स्वैरं स्पष्टं च भण।
जम्बुकः – नकुलस्तु प्रारम्भादेव सिंहस्य लालाटिकः। वनराज! सखलु भवन्तम् अकारणं द्वेष्टि।
व्याग्रः – जाने, जानेऽहम्। अग्रे भण। नकुलेन किं कृतम्?
जम्बुकः – अद्य समुचितम् अवसरम् अवलोक्य स नकुलः मध्येमार्गं मृषैव सिंहं सूचितवान् यद भवता मृतगजः प्राग् अशित्वा उच्छिष्टः कृतः।
व्याघ्रः – (सगुर्रुत्कारम्)
एवम्? ततस्ततः?
जम्बुकः – नकुलवचनं विश्वस्य माम् अपृष्ट्वैव सिंहः भवद्वधं प्रतिज्ञाय इतः प्रचलितः। मन्ये सरोवरतटं पार्श्वस्थवनं च अन्विष्य पुनः इत एव आगमिष्यति।
व्याघ्रः – (सिंहबलेन भीतस्सन्)
भवतु तं नीचनकुलं कृतघ्नं पश्चाद् द्रक्ष्यामि। इदानीं तु क्रुद्धसिहात् आत्मरक्षणं कर्तव्यम्।
(सस्नेहं जम्बुकं प्रति)
भ्रातः त्वं सदैव मया समादृतः प्रशंसितश्च। अस्मिन् सङ्कटे त्वमेव मम सहायो भव। अहं दक्षिणस्यां दिशि गच्छामि। यदि सिंहोऽत्रागत्य पृच्छेत् तर्हि उत्तरस्यां दिशि गतवान् व्याघ्र इत्येव भण। मम प्राणैः शापितोऽसि भद्र! मा मम पलायनदिशं ब्रूहि। (इति संत्रस्तः सन् सवेगं पलायते)
जम्बुकः – (नकुलम् आयान्तं दृष्ट्वा सव्यङ्ग्यम्)
आगच्छ आगच्छ महाबलिन्! इदानीं तवैव पर्यायक्रमो वर्तते।
नकुलः – (सभयम्)
सुहृद्वर्य जम्बुक! किमात्थ? क्व सिंहव्याघ्रौ? इदानीमपि नायातौ? त्वं तावत् अप्रकृतिस्थः इव लक्ष्यसे?
जम्बुकः – (सनिर्भर्त्सनम)
अरे रे क्षुद्र नकुल! कीदृशः सुहृत्? कस्य वा सुहृत्? त्वं नकुलः अहं पुनर्जम्बुकः। न आवां सजातीयौ। तत् कीदृशी मैत्री आवयोः? भो पश्य, युद्धे मया सह पराजितौ सिंहव्याघ्रौ प्राणरक्षणाय पलायनं कृतवन्तौ। त्वमपि युद्धं कृत्वा स्वपौरुषं परीक्षस्व। एष बावचन्द्रोपमैः स्वतीक्ष्णनखरैः उदरं ते विदारयामि।
(इति सगुर्रुत्कारमग्रेसरति। नकुलस्तस्य भैरवरूपं दृष्ट्वा दूरत एव पलायते)
जम्बुकः – (सोन्मादहर्षं नृत्यन्)
भो जातं निष्कण्टकम् स्वबुद्धियोगेन। सम्प्रति पारणा कर्तव्या।
।।इति श्रीमद्दुर्गाप्रसादाभिराजीमध्यमसूनुना।।
त्रिवेणीकविनाऽभिराजराजेन्द्रमिश्रेण
विरचितं सिंहजम्बुकीयाख्यं
लघुनाट्यमवसितम्
गुणाः पूजास्थानम्
(शिशूपयोगि लघुनाट्यम्)
पात्राणि
1.सूत्रधारः (कथापरिचायकः)
2.भिक्षुकः (भिक्षार्थी कश्चित्)
3.महेशः (कस्चित् वाक्कीलः)
4.रत्ना (महेशस्य पत्नी)
5.सिन्धुः (महेशस्य पुत्रः, छात्रः)
6.सोमः (सिन्धोः सहपाठी, निर्धनकुलोत्पन्नः)
7.मोहनः (भृत्यः)
रचनाकालः
20.01.93 ई.
शिमला (हि.प्र.)।
गुणाः पूजास्थानम्
।।नेपथ्ये विविधवाद्यध्वनिः। ततश्च नान्दीपाठः श्रूयते।।
दिशतु मङ्गलं करिवरवदनो गणाधिपः
दिशतु मङ्गलं वरटवाहिनी सरस्वती।
दिशतु मङ्गलं जगद्वन्दितो महेश्वरः
दिशतु मङ्गलं गिरिशगेहिनी महेश्वरी।।1।।
सूत्रधारः (प्रविश्य सप्रणामं सपुष्पवर्षञ्च)
मान्याः सहृदयाः! एषोऽहं सविनयं विज्ञापयामि यदद्य परिषन्मनोरञ्जनाय गुणाः पूजास्थानमित्यभिधानं शिशुजनोचितम् एकाङ्करूपकमभिनवं प्रस्तोष्यते। कर्ता त्वस्य रूपकस्य विश्रुतचरस्समेषामभिराजराजेन्द्रो यस्याऽयं संक्षिप्तपरिचयः,
यं देवी सुषुवे कवित्वशिखरं दुर्गाप्रसादान्निजे
क्रोडे शुक्तिनिभे विमौक्तिकतनुं वन्द्याऽभिराजी सुतम्।
श्रीदेवेन्द्रसुरेन्द्रमध्यममणी राजेन्द्रमिश्रोऽनघ-
स्सोऽयं कम्बुहिमावदातसुयशाः ख्यातस्त्रिवेणीकविः।।2।।
किञ्च –
यथा काव्ये तथा नाट्ये तथैवाख्यानलेखने।
त्रिगुणा प्रकृतिः साक्षादभिराजस्य शेमुषी।।3।।
अभिराजमयं गीतमभिराजमयी कथा।
अभिराजमयं नाट्यं संस्कृतं तन्मयं नवम्।।४।।
(इति साञ्जलिपुटप्रणामं शनैर्गच्छति)
भिक्षुकः – (सारंगीवाद्यं मन्दं मन्दं वादयन् भिक्षार्थं भ्रमन् गायति)
जगति नहि कोऽपि धनी न च दीनः!
चिन्तय साधो! क्षुधि शान्तायां को नु कृशः कः पीनः?
फलति रसालो मधुरं मधुरं फलति च मरिचस्तिक्तम्
अम्लं फलति फलं निम्बूको नारङ्गो मधुराम्लम्
प्रतिवृक्षं प्रतिफलं भिन्नता नेह गुणी गुणहीनः!!
तुङ्गो भवतु भवतु वा खर्वः कृष्णः स्यादथ गौरः
स्यात्पिण्डतोऽथवा वैधेयः स्यादृतपोऽथ च चौरः
उभयोरेव तुल्य उपयोगस्स्याद्धीवरोऽथ मीनः!!4!!
(इति गायन्नेव निष्क्रान्तः)
(कस्यचित् वाक्कीलस्य गृहम्। द्वौ बालकौ कक्षे वार्तालापमग्नौ। तयोरेकः वाक्कीलस्य पुत्रः सिन्धुनामा। अपरश्च तस्य मित्रं सोमाख्यः)
सिन्धुः – सोम! त्वया गृहकार्यं कृतम् यत् गणिताध्यापकेन दत्तमासीत्?
सोमः – अथ किम्। किं त्वया न कृतम्?
सिन्धुः – (सदैन्यम्) न खलु।
सोमः कस्मात्? किं क्रीडाक्षेत्रमुपगतोऽसि?
सिन्धुः – नहि नहि। सोम! सम्यग् जानासि त्वं यद् गणितं न रोचते मह्यम्। न तत्र मे गतिः। अवश्यमेव शिक्षको मां ताडयिष्यति।
सोमः – (सस्नेहम्) आः, कथमेवं चिन्तयसि? अहमस्मि तव सहपाठी। आनय पुस्तकम्। एष क्षणमात्र एव तव गृहकार्यं सम्पादयामि।
सिन्धुः – (सहर्षम्) सोम कियान् उदारोऽसि त्वम्। क्षणमात्रमपि तव साहचर्यमपहातुं न मनः प्रवर्तते। परन्तु किं करोमि, विवशोऽस्मि।
(इति ग्लानिमुपयाति)
सोमः – (उपलाल्य) अरे अरे, सिन्धो! किमिदम्? किं जातम्? का ते विवशता? कथमेवं ग्लानिमनुभवसि?
सिन्धुः – सोम! नावगमिष्यसि त्वम्। दैन्यमेव वरं न पुनः धनकुबेरत्वम्। जानासि, मम पितृचरणो नगरस्य सर्वश्रेष्ठः अधिवक्ताऽस्ति। तथापि तस्य हृदयम् अतिसङ्कुचितं रागद्वेषभावनाजटिलं च वर्तते। मम बहिर्गमनं, त्वया सह पर्यटनं वा न तस्मै रोचते।
सोमः – (सस्नेहम्) जानामि, मित्र! तस्य नेत्रयोः मयाऽप्यसौ भाव पठितः। यदाऽपि स मामिह पश्यति तस्य मुखाकृति परिवर्तते। अहमपि भयमनुभवामि। परन्तु तव स्नेहः, तव जनन्यास्च वात्सत्यं मां वारं वारं त्वां द्रष्टुमाकर्षति।
(यानस्य घर्घरारावः श्रूयते)
सोमः – अये! यानस्य घर्घरारावः श्रूयते। मन्ये तातस्तव न्यायालयात्प्रतिनिवृत्तः। इदानीं गच्छामि। तव सर्वान् गणितप्रश्नान् श्वः कक्षायामेव समाधास्यामि। अलं चिन्तया।
सिन्धुः – सोम! अम्बा अल्पाहारमानयति। तिष्ठ तावत्।
सोमः – नहि नहि। इदानीं गच्छमि।
(निष्क्रामति। द्वार एव सिन्धोः पिता आगच्छन् दृश्यते। सोमः साञ्जलिपुटं प्रणम्य गच्छति)
(कक्षे प्रविश्य, सक्रोधम्)
महेशः – सिन्धो! अयं पुनरद्य समायातः। केन आहूतः? किं त्वया?
सिन्धुः – तात! सोमः मम सहपाठी। स मां द्रष्टुमिहायातः।
(पुत्रस्य कर्णपालीमाकुंच्य)
महेशः – मूर्ख! किं विद्यालये नान्ये बालकाः सन्ति यैः सह तव सख्यं स्यात्। अयमेव फलशाकविक्रेतुः पुत्रस्तव सख्यमर्हति किं न जानासि यदिमे क्षुद्रा दस्यवश्च भवन्ति।
(सिन्धोर्जननी अल्पाहारमानयति, पुत्रं ताड्यमानं दृष्ट्वा
रत्ना अये! किमिदम्? कथं सिन्धुं ताडयति भवान्?
महेशः – कस्मादसौ शाकविक्रेतुः दारक इहागच्छति? किमिदमपि शाकविक्रयस्थानम्?
रत्ना – (सामर्षम्) आः इदानीमवगतम्मया। भो! वक्कीलोऽसि त्वम्। धनमेव ते विशालम्। न हृदयम्। प्रतिक्षणं गृहे, मार्गे, न्यायालये छलं वंचनं मित्याभाषणं शिक्षयसि। निर्दोषजनान् अकारणमेव योधयसि। कि तत्सर्वं पुण्यसंचयनमेव? दारिद्रयं भवतु नाम सुखसाधनानामभावः। परन्तु क्वेदं लिखितं यद दरिद्रा निर्धनाः सचरित्रवन्तो न भवन्ति, सद्गुणसम्पन्ना न भवन्ति? भोः सोमस्य पितरं पश्यसि, न तस्य सद्गुणम्। स्वकक्षायां सर्वाधिकमेधावी विनम्र ऋजुश्च वर्तते। सिन्धुं प्राणातिप्रियं मन्यते। परन्तु ऐश्वर्यमग्ने तव नेत्रे तत्सर्वं द्रष्टुं न शक्ते।
(इति रुदति गृहाभ्यन्तरं प्रविष्टा। महेशोऽपि हतप्रभस्तिष्ठति)
।।जवनिका पतति।।
।।द्वितीयं दृश्यम्।।
(सन्ध्याकालस्य पंचवादनम्। सिन्धुः विद्यालयात् गृहं न प्रतिनिवृत्तः। सर्वेऽपि कुटुम्बिनः पर्याकुलास्तिष्ठन्ति)
रत्ना- (सरोदनम्) हा विधे! न जाने किं घटितम्?
महेशः – देवि! अलं चिन्तया। स्वयमेवाहं गच्छामि। त्वं तावद् धैर्यं धारय।
(सेवकं प्रति)
मोहन! मम वाहनं बहिरानय तावत्।
मोहनः – यदाज्ञापयति भवान्।
(प्रवेशद्वाराभिमुखमवलोक्य)
स्वामिन्! स्वामिन्! प्रवेशद्वारे कोऽपि समागच्छन् परिलक्ष्यते।
(सर्वेऽपि दृष्ट्वा धावन्ति)
(निपुणं दृष्ट्वा सिन्धुं प्रत्यभिज्ञाय च)
रत्ना – अये वत्स सोम! किं जातं वत्स?
(करुणं रोदिति)
सोमः – अम्ब! अलं रोदनेन। सिन्धोः विद्यालयवाहनमद्य दुर्घटनाग्रस्तमभूत्। परन्तु ईश्वरकृपया सिन्धुः सर्वथा अक्षतः। केवलं भयवशात् शिथिलचेतनः संजातः।
रत्ना – त्वया कथमयं प्राप्तो वत्स?
सोमः – अम्ब! अहं तु प्रतिदिनमेव पदातिरेव विद्यालयाद् गृहमागच्छामि। यावदेव मध्येमार्गं दुर्घटनामिमाम् अपश्यम् तावदेव सिन्धुमुत्थाप्य रक्षायानेन प्रचलितः।
रत्ना – साधु वत्स साधु! सम्यक् कृतम्। चिरंजीव।
सोमः – (प्रणम्य) अम्ब! गच्छामि सम्प्रति।
महेशः – (पार्श्वमुपेत्य, सोममालिङ्ग्य च)
वत्स सोम! विना अल्पाहारं कथं यास्यसि? सत्यमेव त्वं सद्गुणसम्पन्नोऽसि, विनम्रोऽसि। परन्तु इतः परं त्वं मे प्रियोऽसि संजातः। सम्प्रति तव सर्वमपि शिक्षाप्रबन्धमहं विधास्ये। ज्ञातम्मया साम्प्रतं यत् गुणा एव पूजास्थानं न कुलं न वा धनमैश्वर्यम्।
।।इति श्रीदुर्गाप्रासादाभिराजीमध्यमसूनुना त्रिवेणीकविनाऽभिराजराजेन्द्रेण।।
विरचितं गुणाः पूजास्थानमित्याख्यं लघुरूपकं परिसमाप्तम्।