नाट्यपञ्चामृतम्
(पञ्चैकाङ्किरूपकसङ्कलनम्)
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्यैकपुण्य फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।
दास्यापनोदनम्
पात्रपरिचयः
नटी----------------- सूत्रधारप्रिया
विनता----------------- सुपर्णजननी
मल्लिका----------------- शचीसेविका
सूत्रधारः----------------- कथाप्रस्तावकः
सुपर्णः----------------- पक्षिराजोगरुडः
पुरन्दरः----------------- अमरावतीश्वरः
विरञ्चीः------------------ परोक्षपात्रः
नारदः----------------- परोक्षपात्रः
नागपुत्रः------------------ परोक्षपात्रः
रचनाकालः----------------- मार्च १९७८ ई.
पन्थानं नाप्नुवाना भ्रमति सुरनदी यज्जटासु प्रमुग्धा
यच्छीर्षे सैंहिकेयप्रकटतरभिया भाति लग्नेन्दुलेखा।
काशीमुमक्तिप्रदात्री पर्भवति नितरां यत् त्रिशूलाधिरूढा
योगक्षेमं समेषां भरतभुवि सतां चिन्त्येत्सः पिनाकी।।१।।
अपि च
क्षुब्यथपाथोधिरिङ्गत्तरलतरतरङ्गोच्छलद्वारिराशि
पादादातप्रमुह्यत्क्षितिभरविनमत्प्रौढशेषास्यतुण्डम्।
धूत्कुर्वन्नेत्रजाग्निप्रकटचिटचिटारावसम्पूरिताशं
शम्भोस्तत्ताण्डवाख्यं कलितनवयुगं पातु वो भीमनृत्यम्।।२।।
(नाद्यन्ते ततः प्रविशति सूत्रधारः)
आदिष्टोऽस्मि परिषदा यदद्य केन्द्रीयशासनप्रवर्तितसाहित्यअकादमीसमायोजिते एकाङ्किरूपकमहोत्सवेऽस्मिन् समागतानां विविधभाषाभाषिणां सुहृदयसरस्वतीपुत्राणां सामाजिकानाञ्च मनोरञ्जनाय कश्चिदभिनवः प्रयोगोऽनुष्ठातव्यः।
(चिन्तां नाटयन्)
तदस्यां काशीनागरीप्रचारिणीसभायां समुपस्थितान् दर्शकान् केनाभिनवेन रूपकेण विनोदयानि? धर्मप्राणभूतेयं हरनगरी। पर्तिश्रृङ्गाटकं शिवालयोऽत्र दृश्यते, प्रतिनयनं गङ्गांजलं प्रत्याननञ्च ताम्बूलम्!
(नाट्येन परिक्रम्य पुरतोऽवलोक्य सस्मितम्)
मन्ये एतादृशमेव लघुरूपकं प्रयोज्यमिदानीं येन मनोरञ्जनं भवतां भवेत् आस्थाऽपि धर्मे बलवति स्यात्। तत् साम्प्रतम् (इत्यर्धोक्त एव) (दशवर्षदेशीयं कञ्चिद् बालकं ताडयन्ती नटी प्रविशत्यपटीक्षेपणे) ब्रूहि रे पाटच्चर! हट्टं गमिष्यति न वा? अनलसोऽपि भोजने। निखिलमेव महानसं जठराग्निना दग्धुं प्रभवसि। कार्याणि कः करिष्यति, तव पिता पितामहो वा?
(भीतो बालकः सूत्रधारमवलम्बते)
सूत्रधारः – चण्डी! किमिदम् अकाण्डे प्रथनम्? भृशमनवसरज्ञाऽसि यदुचितम् अनुचितं वापि न पश्यसि।
नटी – (सकोपम्)
भवतैव विहितसपर्योऽयं दुष्टबटुकश्चतुष्पथबलीवर्दं इव प्रतिपलं रोमन्थमभ्यस्यति। तत् किम्मयैव हट्टकार्याण्यपि सम्पादनीयानि?
सूत्रधारः – (बालकं सस्नेहमुपस्पृशन् नटीं प्रति)
मन्ये कृतापराधोऽयं किन्तु (इत्यर्धोक्ते)
नटी – जानामि किं भणिष्यसि! “किन्तु शिशुरयं” मातृहीनोऽयम् अनाथोऽयम् इति। तत् किमस्मद्गृहम् अनाथालयो येनोऽयं डुण्डुभोऽत्रानीतः?
सूत्रधारः – देवि! (किञ्चित् कथयितुमिच्छति)
नटी – (सरोषं परावृत्त्य)
मृता ते देवी! साम्प्रतं स्वकीयं रघुनन्दनम् उत्सङ्गतल्पम् अधिरोप्य कुशलम् पृच्छतु भवान्! याम्यहम्। कापालिकस्य ते बलिकर्मणि यदहमेव छागीभूतास्मि।
(इति निष्क्रान्ता)
सूत्रधारः – (सखेदं पुरतोऽवलोक्य)
हन्त भोः! गृहण्यपि नाम निर्वल्गा बडवेव अविश्वसनीया। इमं खलु अज्ञातकुलगोत्रं दारकं मत्स्योदरीचतुष्पथात् विलपन्तमानीतवानस्मि। मन्ये पुत्रहीनस्य मम लोकैषणां प्रवृद्धस्सन् सम्पादयिष्यत्ययम्। किन्तु गृहचण्डिका मे क्रीतदासमिमं मन्यमाना न साध्वाचरत्यनेन सार्धम्!
(नेपथ्ये विवादस्वरोऽनुश्रूयते)
प्रथमस्वरः – त्वमेवास्माकं दासोऽसि।
द्वितीयस्वरः – अपेहि रे दुर्विष! द्विजिह्व! को नु खलु मां वैनतेयं दासीकर्तुं समर्थः!
प्रथमस्वरः – अलं सन्तप्य। गच्छ तावन्निजाम्बामेव पृच्छ।
द्वितीयस्वरः – यद्यम्बा न तया भणति मुखन्ते मडमडायिष्यामि। त्रोटयिष्यामि के कुब्जदन्तान्!
प्रथमस्वरः – (साट्टहासम्) गच्छ गच्छ रे दासीपुत्र! पृच्छ तावत्।
सूत्रधारः – (सकौतुकम्)
अये, नेपथ्येऽपि अयमेव विवादः प्रवर्तते? तत्कोऽयं विषाभिषिक्तदुर्वचोभिः साधुस्वभावमन्यं कमपि अधिक्षिपति?
(सखेदम्)
सर्वथा धिगिमं दास्यभावम्!
कान्तारे हरिणोऽपि जीवति सुखं दूर्वाङ्कुरैः प्रत्यहं
कासारे ननु कच्छपोऽपि तनुते मोदं ह्यनातङ्कितः।
स्वाधीने निजजीविते भुवी न किं सौख्यं भवेत्प्राणिनो
नो कार्तस्वरपञ्जरेऽपि विहगो लीलां विधत्ते पुनः।।३।।
(पुनरपि नेपथ्ये स एव विवादध्वनिः श्रूयते)
सूत्रधारः – हन्त भोः आश्चर्यम्। पुनरपि स एव विवादः आकर्ण्यते मया!
(किञ्चित्स्मृत्वेव)
भोः परिषदाः! साम्प्रतं ज्ञातम्मया। एष खलु विनतानन्दनः सुपर्णो मातुर्दास्यभावेन खलीक्रियते दुर्वचोभिर्नागैः।
(किञ्चित्पदमग्रेसरीभूय तारस्वरेण)
तद् भवन्तोऽपि सर्वेऽवहितातिष्ठन्तु। सम्प्रति प्रवृत्तमेतत् अभिराजराजेन्द्रमिश्रविरचितं दास्यापनोदनं नाम एकाङ्किरूपकम्। प्रयागविश्वविद्यालयीसंस्कृतविभागे प्रवक्तृपदमलङ्कुर्वाणोऽयं कविः केषां रूचिकरो न भविष्यति? पश्यन्तु,
वीणापाणिकराम्बुजप्रणयिनी यत्कारयित्री मतीः
वृद्धिं पार्वणचन्द्रिकेव शनकैर्यान्ती तनोति क्षणम्।
हिन्दीसंस्कृतलौकिकप्रचलिते काव्ये प्रतिष्ठापदं
सम्प्राप्तो जयतादयं कवयिता मध्येसभं साम्प्रतम्।।४।।
(इति मन्दं निष्क्रान्तः)
(इति प्रस्तावना)
प्रथमं दृश्यम्
(ततः प्रविशति गृहकार्यव्यापृतमानसा मलिनिवेषा वेपथुमति विनता सुपर्णेन अनुगम्यमाना)
सुपर्णः – (साङ्गुलिग्राहम्) ब्रूहि रे अम्ब! किं त्वमस्रि दासी?
विनता – जात! न खलु। किमर्थमेवं पृच्छसि?
सुपर्णः – (साश्रुनयना स्वगतम्)
मन्येऽद्यदारकः केनापि नागापसदेनाधिक्षिप्तः। तस्मादेव जातनिर्बन्धो दृश्यते। भवतु, एवमेनं तोषयामि।
(प्रकाशम्)
सुपर्ण! वत्सक!! कथितम्मया। न कस्यापि दासी तव जननी।
सुपर्णः – (सक्रोधम्)
मत्तोऽपि वारयसि। अम्ब! किञ्चित् हृदये कृत्वाऽऽन्यथा मन्त्रयसे। एष नाहं पुत्रकस्तव न च त्वं जननी मम।
विनता – (अश्रूणि प्रमृज्य, गादीभूय) वत्स, सुपर्ण!!
सुपर्णः – अलमेतावता मिथ्यासम्बोधनेन। नागास्तावन्मां दासीपुत्रं प्रख्याप्य नितरामुपहसन्ति। त्वं पुनः (इत्यार्धोक्ते)
विनता – (भावं परिवर्त्य सरोषम्)
निसर्गादेव गरलमुखास्ते खण्डितवृत्ताः। सर्वथा प्रवञ्चनमाश्रित्य तैः छलितास्मि। (स्मृतिमभिनीय स्वगतम्)
अये सहजरोषवशात् सत्यमुद्घाटयितम्मया। श्रुत्वा सुपर्णो न जाने किं बक्ष्यति?
सुपर्णः – (सोल्लुण्ठम्) अम्ब! एषाऽऽत्मवचनेनैव निगृहीतासि। भण साम्प्रतं कैः कथं किमर्थं वा छलिताऽसि?
विनता – (स्वगतम्) का गतिः? इदानीं सुपर्णाद् रहस्यं गोपयितुं नोचितम्। एवमेनं भणिष्यामि।
(प्रकाशम्) जात, एकदाऽहं नागजननी कद्रूश्च ते विमाता विलासवनिकायां बद्धस्निग्धालापे विहरन्त्यावभवाव।
सुपर्णः – (सोत्कण्ठम्)
अम्ब! अवहितोऽस्मि। ततः किमभूत्?
विनता – वत्स! तावदेव,
विलोक्य बिम्बं जलदौ पतन्तं प्रचण्डरोषारुणकान्तकायः।
दिवाकरोऽदृश्यत पक्षिलोकैः कृतावमानोऽविरतं हसद्भिः।।५।।
सुपर्णः – अम्ब! ततस्ततः?
विनता – जात! तदा सहसाऽविचिन्ततमेव सपत्न्या कद्रवा पृष्टं सखि विनते! जानासि भगवतो मरीचिमालिनस्सप्ताश्वानांवर्णनम्?
सुपर्णः – मातः! किं त्वया भणितं तदा?
विनता – जात! निखिलचराजचरसृष्टिनिर्माणक्षमस्य तै पितुर्महर्षिकश्यपस्यैव सेवाप्रसादादधिगतसकलज्ञानविज्ञाऽहं हस्तामलकमिव मन्यमानेदं वृत्तं तत्क्षणमेवाकथयं श्वेतवर्णाः दिवस्पतेरश्वा इति।
सुपर्णः – (सोत्साहम्)
अवितथं त्वयोक्तमम्ब! विमात्रा तावत्किं भणितम्?
विनता – विवादस्तावद् बृद्धिङ्गतः। मया प्रदत्तानि सर्वाण्येवाप्तजनप्रमाणानि कद्रवा निरस्तानि। अन्ते च जातरोषया तया पणबन्धो विहितः।
सुपर्णः – कीदृशः पणः? अम्ब! न खल्वगच्छामि।
विनता – वत्स! तयोक्तम्,
यदि रविहयवर्णः पाण्डुतामेति भद्रे!
तवचरणसपर्यां जीवनान्तं विधास्ये।
गतवति ननु वृत्ते वैपरीत्यं परन्तु
त्वमपि मम निदेशे मृत्युपर्यन्तमेषि।।६।।
सुपर्णः – हन्त भोः! अज्ञानोपहृता नागजनन्याः बुद्धिः। अम्ब! किं कृतं त्वया?
विनता – (दीनदीना विलपन्ति)
जात! स्वकीयेनैव सत्येन छलिताऽहम्। पुत्रमुखेभ्यो रविहयानां श्वेतवर्णतां विज्ञाय भाविपरिभवभयाद् वेपमानया कद्रवा भृशमर्थिताः नागाः स्ववचनरक्षायै। ततश्च,
मध्याह्ने व्योम्नि नीले दिनमणितुरगाः यावदेवागतास्ते
कद्रूपुत्रैरकस्मादुपचिततनुकाः कृष्णवर्णाः बभूवुः।
सुपर्णः – (सक्रोधम्)
अरे रे भाग्यहतकाः कद्रूपुत्राः! पापमाश्रित्य मुधा गर्जथ? विज्ञातं मया युष्माकं प्रभुत्वमिदानीम्।
विनता – (प्रह्वीभूय सस्नेहम्)
सन्दर्श्याश्वान् प्रहृष्टा विषधरजननी साट्टहासं भणन्ति।
दासी दासीति मोदं छलदुरितकृतं मे प्रभुत्वं गतेत्थम्।।७।।
(इति करुणं विलपति)
सुपर्णः – (भैरवाकृतिं नाटयन् आकाशे लक्ष्यं बद्धवा)
अरे रे नीचाधमाः कद्रूपुत्रकाः! एतदेव युष्माकं प्रभुत्वरहस्यम्? पापाः पश्याम्यहम्? योऽहं वैनतेयः
प्रभञ्जनगतिस्फुरद्द्वितयपक्षतिस्तम्भित-
क्षमाभृदिह दानवैस्त्रिदशकैश्च गीयेऽनिशम्।
प्रवञ्चनपरायणैर्विहितकल्मषं निर्घृणं
तृणप्रकृतिडुण्डुभैः कथमहो निकारं सहे।।८।।
(द्रुतगत्या धावन्) एषआगतोऽस्मि
(इति सझम्पं निष्क्रान्तः)
विनता – (तारस्वरेण क्रोशन्ती)
जात, सुपर्ण! मा खल्वात्मानं विपत्पङ्के निपातय!
(सुपर्ण निष्क्रान्तं दृष्ट्वा)
कथमश्रुत्वैव मां गतो मे दारकः! हा विधे, एषा मन्दभाग्याऽहं हतास्मि। भगवन्! त्रिलोकरक्षिन्!! पुत्रकम्मेऽप्रतिहतं कुर। शिवास्तस्य पन्थानस्सन्तु।
(द्रुतविलम्बितं निष्क्रान्ता)
जवनिकापातः
द्वितीयं दृश्यम्
(देवलोकस्थिता पुरन्दरपुरी अमरावती। चञ्चपताकानि समुन्नतगोपुराणि गगनचुम्बीनि भवनानि दृश्यन्ते। एकतस्तावन्नन्दनपारिजातादिविभवलसितो वैजयन्तप्रासादः। सर्वत्रैव सुरपुरोचिताऽमन्दानन्दसंदोहसंवलिता वासन्तीसुषमा सुखसम्पत्तिश्च राराज्येते
अकस्मादेव कोलाहलध्वनिः श्रूयते। नन्दनोपवने कापि शचीसेविका पूजापुष्पाणि चिनुते यावदन्या कापि ससम्भ्रमं सोद्वेगं समायान्ती दृश्यते)
(द्रुतमुपसृत्य)
सारिके, सारिके! अलमेतावद्भिः प्रसूनैः। एहि राजसदनं गच्छावः।
सारिका – (विहस्य)
मल्लिके! किमेवं भणसि? संत्रस्तेव परिलक्ष्यसे?
मल्लिका - हञ्जे! पश्चाद्भणिष्यामि। सत्यमेव संत्रस्ताऽस्मि। न केवलमहमुताहो निखिलोऽपि देवलोकस्सन्त्रस्तः।
सारिका – (भयं नाटयन्ती)
सखी! स्फुटं कथय? किं दानवः कोऽप्याक्रमितुं प्रोत्सहे?
मल्लिका – (सकण्ठबाधम्)
नखलु दानवः कोऽपि।
सारिका - तत्कोऽपरः?
मल्लिका – (सक्रोधम्)
राक्षसी! अत्रैव तिष्ठ। भण वारं वारं पारिजातकमेव कोऽपरः कोऽपर इति। गृहीतकेशापि वाचालतां नो विजहासि। एषा गताऽऽहम्।
(नेपथ्ये श्रूयते)
भो भोः देवलोकनिवासिनः! अप्रमत्ताः भवत। अनर्थसम्पातोऽयं पुरन्दरपुरं विपन्नं करोति। एष खलु पक्षिराजो गरुडः मातुर्दास्यापनोदनाय पणीकृतजीवातुः भुजङ्गयाचितं पीयूषकुम्भं सबलात्कारं स्वायतीकर्तुम् आक्रामति।
सारिका – (श्रुत्वा वेपमाना)
मल्लिके, मल्लिके! तिष्ठ तावत्। एषाऽऽगताहम्।
(पुनश्श्रूयते)
पादाघातैश्चलितसलिला भूरिरिङ्गत्तरङ्गा
स्वर्गङ्गेयं धवलधवलैर्भाति डिण्डीरखण्डैः।
नाम श्रुत्वा प्रगुणितभिया वैजयन्तो जयन्तो
वर्तेते नो कुशलपरिधौ सोऽवतीर्णस्सुपर्णः।।९।।
भो भोः आदित्यप्रमुखाः वृन्दारकाः सन्नद्धाः भवतात्मरक्षायै। एष खलु प्रलयझञ्झावेगात्, आक्रममाणो विनतानन्दस्सुपर्णः प्रखरतरचञ्चच्चञ्च्वग्रायुधेन देवसैन्यं विदलन् पुरुहूतभवनाभ्यर्णचरस्सन्दृश्यते।
(नेपथ्ये कोलाहलध्वनिः घातप्रतिघातशव्दश्चीत्कारश्च प्रवर्धन्ते)
पुरन्दरः – (मत्तमतङ्गजारूढो हस्ते वज्रं निधाय)
अरे रे विहगापसद कुलपांसन! न जानासि मे देवराजस्य बाहुपराक्रमम्।
सुपर्णः – (साट्टहासम्)
अलमातमानं प्रख्याप्य! अदितिबटो! समरभूमावेव सम्प्रति पराक्रमं तव पश्यामि।
पुरन्दरः – वाचाट! केन बलेन प्रमाद्यसि?
न चासि वृत्रो नमुचिर्बलो वा न चापि मायानिपुणः पलोमा।
पणिर्नवा त्व न च तारकोऽसि प्लवङ्गमीभूय खमेव धत्से।।१०।।
सुपर्णः – मूढ! शतक्रतो!! किमेवं वृथा प्रलपसि। मच्चञ्चुविपाटितास्ते पक्षधराः सैनिकाः मृतप्रायाः अवसीदन्ति। एषोऽहम्,
पृतनामेव नश्यामि पश्यतस्तव सम्मुखम्।
अशनिं मुञ्च शक्तिं वा यदि शक्तोऽसि रक्षितुम्।।११।।
पुरन्दरः – (क्रोधवेगं नाटयन् साट्टहासम्)
अहो दर्पः! वैधेय वैनतेय. त्बं पुनर्वासवमपि मां विहगीकरोषि? मूर्ख! पश्य तावत्
युद्धस्थलेषु मदमत्तगजाधिरूढो
दम्भोलिलालितकरोऽल्पकहुङ्कृतेन।
(इत्यर्धोक्त एव)
सुपर्णः – (सोल्लुण्ठम्)
गेहेनर्दिन् अलमात्मसंस्तवनेन। एषोऽहं पूरयामि ते युद्धप्रशस्तिम्।
श्रुत्वैव शत्रुबलमाशु शचीनिवासं
संयाति मानसजलं भृगुनन्दनं वा।।१२।।
पुरन्दरः – (अधिक्षेपमनुभूय स्वगतम्)
ननु मत्पूर्वपराजयं युद्धभूमिपलायनञ्च निर्दिषति दुष्टोऽयं विहगः।
(प्रकाशम्)
मूढ विहग! मिथ्याप्रलापिन्!! बहु विजल्पितं त्वया। साम्प्रतं पश्य पुरुहूतपौरुषम्।
(वज्रमनुसन्धाय)
एष न भवसि। रक्षात्मानम् इदानीम्।
(इति क्षिपति)
सुपर्णः – (आकाशे समुत्प्लुत्य समापतन्तं वज्रं चञ्चुप्रहारेण खलीकृत्य, साट्टहासम्)
महावीर शचीप्रणयिन्! वर्तते किमप्यपरं कौशलम्? मूढ! वृत्रासुरविनाशाय प्रभवतीदं दिव्यायुधन्ते न पुनर्मम वैनतेयस्य विमानाय।
पुरन्दरः – (उद्योगवैयर्थ्यं नाटयन्)
आश्चर्यं दुर्धर्षामोघविक्रमं वज्रमपि न प्राभवत्। साम्प्रतं किं कर्तुं युज्यते?
सुपर्णः – (साट्टहासम्)
विबुधेश! दधीच्यस्थिनिर्मितत्वाद् वज्रप्रहृतोऽहमेष लघुपक्षतिं मुञ्चाभि। अन्यताऽऽवमाननं तत्र भवतो भवेत्।
(इति लघुपत्रखण्डं विमुञ्चति)
(नेपथ्येऽनुश्रूयते)
भो भोः वृन्दारकेश! प्रशमय विनतानन्दन! त्वञ्च युद्ध
त्रैलोक्यं याति तापं कुशलमुषि वृते संयुत्ऽस्मिन्कराले!
एषोऽहं प्रार्थयामि त्रिभुवनरचनो लोकभव्यैकदृष्ट्या
निश्चेतुं नैव शक्यं कथमपि युवयोः कोऽधरः को महीयान्।।१३।।
पुरन्दरः – (सविस्मयम् विलोक्यान्तरिक्षम्)
अये युद्ध निवारणाय समुपस्थितः साक्षाद्भगवान् पद्मयोनिः!
(प्रकाशम्)
त्रिभुवनैकगुरौ! एष निवृत्तोऽस्मि युद्धात्।
(पुनर्नेपथ्ये)
वत्स विनतानन्दन! त्वमपि निवर्तयात्मानम्।
सुपर्णः – (सविनयम्)
तात! पितामहचरण!! गरीयसी ते आज्ञा प्राणेभ्योऽपि। एष आत्मानं विनिवारयामि।
(पुनर्नेपथ्ये)
शतक्रतो! नारायणवाह्नोऽयं पक्षिराजो गरूडो न त्वया न्यक्करणीयः। प्रसादयैर्न पीयूषकुम्भं समुपायनीकृत्य। मया पुनरीदृशंविधानं कृतं येन सुपर्णमातुः दास्यभावमपि नङ्क्ष्यति दुर्मतिभिर्नागैरमृतमपि नोपलप्स्यते। एष मत्प्रेषितो नारदस्ते कथयिष्यत्युपायविधिम्।
पुरन्दरः – (सविनयम्)
यताह भगवान् विरिञ्चिः
(नारदोऽवतीर्य समुपसृत्य च देवेन्द्रकर्णे किञ्चिन्मंत्रयते द्रुतमेवापसरति च)
पुरन्दरः – (पीयूषकुम्भं हस्तयोर्निधाय सस्नेहम्)
भद्र! कश्यपनन्दन! मदुपकारिन्!! गृहाण मदुपायनमिदम्।
सुधाकुम्भमिमं दत्वा मातरं विशदां कुरु।
यदिच्छामि शुभं भूयाद्भूयाद्दास्यापनोदनम्।।१४।।
सुपर्णः – (लज्जां नाटयन्)
सुरपते 1 मुहुर्व्रीडितोऽस्मि। अस्थाने विक्रान्तम्मया, तत्कृतापराधः क्षन्तव्योऽस्मि। जनन्याः दास्यभावापनोदनाय नागान् सुधाकुम्भदानेन परितोषयितुं कृतप्रतिज्ञेन मया कलेशितोऽत्रभवान्।
न गर्वितस्स्वार्थगतो न वेरितो न युद्धलिप्सुर्न च रोषकर्षितः।
असह्यधात्रीपरिभूतिभर्त्सितस्त्वया सहाजौ समुपागतोऽस्म्यहम्।।१५।।
(इति सादरं पीयूषघटं गृहणाति)
पुरन्दरः – तात सुपर्ण! स्वभावादेव सृष्टिसन्तापदायका अकारणवैरिणः इमे सर्पाः अमृतं निपीय साक्षात् कालरूपा एव भविष्यन्ति। एतएव तथाऽऽचरितव्यमावाभ्यां यथा प्रतिज्ञाऽपि ते पूरिता भवेत् सुधाकुम्भोऽपि कद्रूपुत्रकैर्न कथञ्चित् प्राप्येत। त्वं तावदेवं कुरु।
(कर्णे एवमिव)
सुपर्णः – (सादरम्)
यथादिशति भवान्। अमृतं समर्प्य मातुर्दास्यापनोदनमेव मल्लक्ष्यम्। अमृतापहरणं तावच्चिन्तयतु भवान्।
पुरन्दरः – अहमप्यागतोऽस्म्यनुपदमेव। त्वत्तोऽमृतमवाप्य याददेव नागाः प्रमत्ताः भवन्ति स्वकीयेन इन्द्रजालेन तावदेव सम्मोह्य तान् सुधाकुम्भम् अपहरामि।
सुपर्णः – सुचिन्तितं भवता।
पुरन्दरः – वत्स वैनतेय! कामऽयेहं यत्
त्वं नारायणवाहनोऽसि नितरां तत्रास्तु भक्तिस्तव
क्लेशौघक्षयकारिणी मतिमतां शश्वद्धृदुल्लासिनी।
त्वं धात्र्येकवंशवदोऽसि नितरां तत्रास्तु रक्तिस्तव
भ्रंशोद्वेगनिकारिणी विनयतां सर्वार्थसञ्जीवनी।।१६।।
सुपर्णः – (प्रह्वीभूय)
त्रिदशपते! पुण्यसम्भारो मे कश्चिद् विजृम्भते सम्प्रति यद्भवान् मय्ययाचितं स्निह्यति।
पुरन्दरः – नैतावदेव! अद्यप्रभृति,
यस्त्वां स्मरिष्यति नरो सहजं त्रिसन्ध्यं
यद्वा भये परिगते भुजगेरिते वा।
तस्या हितं न तृणकं विदधत्यशिष्टाः
कद्रूसुताः सशपथं नियमं करोमि।।१७।।
सुपर्णः – देवराज! परित्रातं भवाता जगतीतलम्। तत्परित्राणकारणीभुतोऽयं स्वजनश्चापि भवता बहूपकृतः। मन्ये,
समीहते साधयितुं यदीश्वर-
स्तथाविधं कारणमाशु कल्पते।
न कारणं क्वापि महीयते ततोऽ
खिलं जगत्कार्यवशानुगं ध्रुवम्।।१८।।
पुरन्दरः – (समीपमुपसृत्य)
वत्स! तव विनयवृत्त्या बलपौरुषाभ्याञ्च वशीकृतोऽयमिन्द्रः पुनरपि किञ्चिद् दित्सति।
सुपर्णः – (सादरं कायं प्रणिधाय)
ननु समुदेति भाग्यभास्करो वैनतेयस्य।
पुरन्दरः – (दक्षिणं बाहुमुद्यम्य)
सुपर्ण ! अद्यतः खलु तवोडुयनकाले त्वत्पक्षान्तरालात् सामगानध्वनिर्निस्सरिष्यति।
सुपर्णः – (साञ्जलिपुटं प्रणम्य)
याचकं महेश्वरीकरोति वृन्दारकेसः। सर्वथाऽनृगृहीतोऽस्मि।
पुरन्दरः – भद्र सुपर्ण! किन्ते भूयः प्रियमुपकरोमि?
सुपर्णः – साम्प्रतं किमन्यद्वर्तते मदुपकरणीयम्?
सुधाकुम्भं दत्वा सरलमतिधात्री विषधरै-
र्विमुक्ताऽदासीत्वं विनतविनता सोपगमिता!
मघोनस्सायुज्यं मम च सुभटम्मन्यगरिमा
अहो किन्नोऽवाप्तं विहगबटुकेनाद्य युगपत्।।१९।।
(प्रह्वीभूय सादरम्)
तथापीदमस्तु भरतवाक्यम्,
भूमेस्तुङ्गोऽऽस्तु वृक्षः फलभरनमितो राजगेहश्च तस्मात्
प्रासादाच्चापि तुङ्गं हरिहरभवनं स्यात्पताका ततोऽपि।
वात्याचक्रं ध्वजोच्चं प्रभवतु नितरां पर्वतश्चातितुङ्गः
आकाशं पर्वतोच्चं निखिलमनुभुवां क्ष्माभृदुच्चाऽस्तु धात्री।।२०।।
(सपुष्पवर्षं जवनिकापातः)
अर्जुनोर्वशीयम्
पात्रपरिचयः
नटी----------------- सारिका, सूत्रधारप्रिया
जयन्तिका----------------- प्रतीहारी
ऊर्वशी----------------- देवसभानर्तकी प्रमुखाप्सराः
रम्भा----------------- ऊर्वशीसहचरी
सूत्रधारः----------------- प्रयोगप्रस्तावकः
देवेन्द्रः----------------- देवराजोऽर्जुनस्य धर्मपिता
अर्जुनः----------------- कौन्तेयो मध्यमपाण्डवः
मातलिः----------------- देवेन्द्रसारथिः
रचनाकालः, मई-जून १९७८ ई.
(नेपथ्यगृहे सङ्गीतकं प्रवर्तमानं श्रूयते। क्रमेण च गीतवाद्यनर्तनध्वनिरपचीयते। सर्वतोऽपि निर्मक्षिकं गाम्भीर्यं समुज्जृम्भते। जवनिकाभ्यन्तराले नान्दीपाठः प्रस्तूयते)
त्रैलोक्यस्फुटनिर्वृतिं विदधते यस्य स्मितं केवलं
प्राकाश्यं गमयत्यहो त्रिभुवनं यन्नेत्रविद्युच्छटा।
यच्चैतन्यमथोल्बणं वितनुते लोकं स्फुरच्चेतनं
पायाद् वो व्रजबल्लवीशकटिकाक्रीडी मुकुन्दश्चिरम्।।१।।
अपि च
प्राणेशं परिरम्भणैककृपणं स्तन्योत्सुकं वा शिशुं
अर्धक्लृप्तमहानसं नु शयनं तल्पीभवत्पुष्पकम्।
द्वारेष्वर्गलितेष्वपि व्युपगताश्चञ्चद्गवाक्षच्युताः
गोप्यो यं शिशुमाधवं सरभसं पायात्स योगेश्वरः।।२।।
(नान्द्यन्ते ततः प्रविशति गृहीतपुष्पाञ्जलिकः सूत्रधारः। सविलासं सस्मितम् इतस्ततो निरीक्ष्य सश्रद्धं पुष्पाणि विशीर्य च)
मान्यवर्याः सहृदयसामाजिकाः! एषोऽहं कौशलमिश्रो धृतसूत्रधारभूमिको भवद्भयः सर्वेभ्यः स्वकीयां विनीतनतिततिं समुपायनीकरोमि।
(नेपथ्याभिमुखं विलोक्य)
एषा च मे सहाध्यायिनी सखी सारिका नाट्यप्रयोगेऽस्मिन् मद्गृहिणीपदमुपगता समायाति भवतोऽभिनन्दितुम्।
(छोटिकां दत्त्वाऽऽहूय सादरम्)
सारिके! मतपार्श्वमायाहि तावत्।
(मध्येमञ्चमुपगम्य सहृदयजनानभिवाद्य च सस्नेहम्)
नटी – आर्य! किम्मामनवसरमाहूतवान्, न पश्यति भवान् मम वैकलव्यम्?
पट्टभारसमाक्रान्तो भेक एव हि केवलम् ।
अनुभूय विजानाति क्वासौ वपुषि पीड्यते।।३।।
सूत्रधारः – (सहासम्) गृहदेवते! कथमद्य त्वयाऽहं सर्वजनसमक्षम् एवमधिक्षिप्ये? न च मया ते किमप्यत्याहितम्।
नटी – आर्य! न मां नर्मपात्रीकर्तुमर्हति भवान्। आत्मकृच्छ्रं निवेदितम्मया। अलमन्यथा सम्भाव्य।
सूत्रधारः – प्रिये! तत् किमिति भेकीकृत्यात्मनं प्रस्तौषि। कोऽसौ पट्टभारः येन समाक्रान्ता त्वमिति ज्ञातुमिच्छामि।
नटी – ननु विस्मृतिपरायणो भवान किन्न जानाति, यदद्यैव वत्सको मम राजर्षिः स्वविद्यालयसमायोजितायां पदकन्दुकप्रतियोगितायां विजयश्रियमवाप्य प्रथमस्थानञ्चोपलभ्य गृहमागतः। तदभिनन्दनार्थं मया त्यक्तसर्वस्वं प्रयत्यते।
सूत्रधारः – (सस्नेहम्)
सारिके! सत्यं विस्मृतोऽस्मि। किं करवाणि, नवनवाभिनेयलालसेयं बलवती मां प्रसह्योत्पथीकरोति। स्वयमेवादिष्टं पुत्राभिनन्दनसंविधानकं विस्मृत्य सहृदयमनोरञ्जनाय एषोधिमञ्चं तिष्ठामि। ननु आश्चर्यमेव!
नटी – आर्य! क्वचिद् दुष्यन्त इव सभरतां शकुन्तलां मामपि न विस्मरतु भवीनिति बिभेमि!
सूत्रधारः – (साट्टहासं सहृदयाभिमुखीभूय)
गूढे! अस्मादेव कारणात् स्वनामाङ्किता मुद्रिका मया किञ्चिल्लध्वी निर्मापिता। पश्य कियद्दृढमारूढा तेऽनामिकायाम्।
नटी – (सानुरागं सव्रीडञ्च)
परिहासकुशलो भवान्। अलमेतावतैव । आदिशतु भवान् किम्मयाऽनुष्ठातव्यमत्र?
सूत्रधारः – प्रिये! यद्युत्सहसे तद्ब्रवीमि! ममापि कार्यं त्वत्कार्यसंवादि!
नटी – (भ्रान्तिं नाटयन्ती)
आर्य! न खल्वगच्छामि। स्फुटमाज्ञापयतु कस्मिन् खलूपक्रमे मया सहगामिन्या भवितव्यम्?
सूत्रधारः – सुन्दरि! त्वन्नवीकृतचेतनोऽयमहं स्फुटं भणामि। पश्य यथा त्वं शचीव स्वकीयं विजयिनं पुत्रं राजर्षिमत्राभिनन्दितुं प्रवृत्तासि तथैवाहमपि पुरन्दरीभूय विनिहतनिवातकवचकालिकेयदैत्यप्रमुखं स्वकीयं विजयिनं पुत्रमर्जुनं मध्येशालमभिनन्दितुमुत्सहे।
नटी – (विहस्य सशिरः कम्पम्)
एष गृहीतोऽस्ति भवान् साम्प्रतम्। आर्य! अलमिदानीं प्रहेलिकाभिः। स्पष्टं किन्न भणति भवान् यदद्यास्मिन् नाट्यसमारोहे अभिराजराजेन्द्रविरचितेन अर्जुनोर्वशीयनामधेयेन एकाङ्किरूपकेण सहृदयान् प्रसादयितुमिच्छति भवान्!
सूत्रधारः – (सस्मितम्)
देवी! धीमतां कृते तु सङ्केत एव प्रभवति।
नटी – आर्य! यद्येवं तर्हि किमिति विलम्ब्यते। अभिधानिमात्रेणैव भवता शचीकृताऽस्मि। साम्प्रतं कृतदेव्युचितवेषविन्यासाऽवितथमेव शचीव परिस्फुरन्ती भवता लक्षिष्ये!
(इति सविलासमपक्रामति)
सूत्रधारः – (प्रियावियोगमभिनीय)
गता मे सर्वकालसहचरी! भवतु, प्रकृतिमनुसरामि तावत्।
(अग्रतोऽवलोक्य, परिक्रम्य च)
भो भोः सुरगवीसमर्चकाः सहृदयाः सामाजिकाः! साम्प्रतं प्रस्तूयते मया भवन्मनोरञ्जनाय श्रीमदभिराजराजेन्द्रविरचितंनूतनमेकाङ्कम् अर्जुनोर्वशीयं नाम। श्रीमन्तः,
यं नागामृतनिर्झरं वृतवती सारस्वती कच्छपी
श्रीहर्षश्च ततान यत्सुरुचिरं काव्यं नु मामल्लजः।
तद्रागामृत-काव्य-कुम्भ-विलसज्जीवातुचञ्चतनुः,
भूयोद्वो नुतयेऽभिराजपदभाग्राजेन्द्रमिश्रोऽनघः।।४।।
अपि च
वज्रादप्यधिकं नृसंसमशुभं चित्तङ्कषं प्रेरितम्,
येनात्मप्रतिरक्षणाय सततं वैरव्रतानां स्वयम्।
ईर्ष्यामर्षपरायणं दुरितजं कृत्यं शतम् मर्षितम्,
तस्यैव न्वभिनीयते सुयशसो नाट्यं मया सुन्दरम्।।५।।
(नेपथ्यगृहात् सङ्गीतकध्वनिः स्फारीभवति)
मदनो भाति पुरन्दर-वेषः!!
रतिरिव भाति शची पौलोमी
जयति जयति विबुधेशः!!
नृत्यति रम्भा नूपुरपूतम्,
प्रीतिमुपैति निवेशः!!
(सोत्कण्ठं श्रुतिमभिनीय रङ्गशालाभिमुखीभूय)
अये ताल-लयाश्रित-रागपरीवाहिणा स्वरेण पुरूहूतपौरुषमभिलक्ष्य यदिदं कोमलकान्तपदसंवलितगीतं गीयते देवनितम्बिनीभिस्तेन सिद्धयति यत्समुपपन्न एव पार्थाभिनन्दनसमारोहसम्भारः। तदहमपि तावत्पुरन्दरीभवितुं नेपत्यगृहं प्रविशामि।
(इत्यपक्रामति इति प्रस्तावना)
प्रथमं दृश्यम्
(ततः प्रविशति काञ्चनसिंहासनस्थो लसद्विग्रहः पुरन्दरः सपरीवारः। पुरन्दरसभायामेकतो वरुण-कुबेर-प्रमुखाः देवास्तिष्ठन्त्यपरतश्च चित्ररथादिगन्धर्वाः ऊर्वशी-प्रमुखाः अप्सरश्च। उत्तरदिग्वर्तिषु मृगचर्ममण्डितासनेषु नारदप्रभृतयो देवर्षयोऽपि रारज्यन्ते। निखिलमपि देवास्थानमण्डपं मृगमदचन्दनपारिजातागुरुगन्धैस्सुवासितं वर्तते। सङ्गीतकं प्रस्फुरति।)
नन्दनवनपरिमललसदङ्गा
मरूताऽऽनीयतइहसुरगङ्गा
रुचिरोऽयं परिवेषः।।६।।
देवेन्द्रः – (सरणरणकम्)
तुम्बुरो१ साधु गीतं त्वया गायनीभिश्च! रम्भे! तवापि नृत्यमङ्गीकृतलास्यं वरीवर्ति। भद्रे! सर्वथा परितुष्टोऽस्मि त्वन्नृत्यवैशारद्य! एतद्भवतु युष्माकं पुरस्कारः।
(इति मणिबन्धात् रत्नवलयानि निस्सार्य प्रयच्छति। तुम्बुरुः रम्भाऽन्याः देवाङ्गनाश्च पारितोषिकं सविनयं गृह्णन्ति)।
जयन्तिके! सम्प्रति मद्वचनादुच्यतां मातलिर्यदर्जुनं सादरमुपनयेति।
जयन्तिका - यद्भर्ताऽऽज्ञापयति
(इतिनिष्क्रान्ता। पुनश्चमातलिनाधिष्ठितेनार्जुनेन सह प्रविष्टा)।
जयन्तिका – (सादरं निर्दिश्य)
वीर! एष देवेश्वरोऽस्माकं भर्ता भवन्तमेव स्नेहानुपूरितचक्षुर्भ्यां निर्निमेषं विलोकयन् सन्तिष्ठते। प्रसादयति भवान्।
अर्जुनः – (प्रेम्णा गादीभूय पुरन्दरचरणयोर्निपत्य)
तात पितृचरण! भवदंशजातः कौन्तेयोऽयं प्रणमति।
देवेन्द्रः – (निर्दयमाश्लिष्य)
वत्स अर्जुन! चिरञ्जीव! शतञ्जीव, युगञ्जीव, पुत्रक! अद्याऽहं जयन्तेन त्वया चोपपन्नो भाग्यवत्तमं मन्ये त्रिषु लोकेष्वात्मानम्! वत्स,
हत्वाऽऽजौ कालिकेयास्त्रिदशगतिहरान्नामशेषान्निवातान्,
यस्त्वं कौन्तेय1 कृत्वा नकुल इव बली पीनभोगान्भुजङ्गान्।
अक्षुण्णं ह्यागतोऽसि प्रमुदितवदनः शान्तशान्तो नितान्तं
दर्शं दर्शं कृतात्मा तदिह दशशतं नेत्रक व्यातनोमि।।७।।
(इति मन्दारमालां कण्ठप्रदेशाद्वतार्यार्जुनरय कण्ठमधिरोहयति)
अर्जुनः – (विनीतः कृताञ्जलिस्सन्)
तात! तवैव विक्रमेणाभिमन्त्रितेन मया सर्वमेतत्कृतम्। न मे पार्थिवशौर्यं प्रभवति।
देवेन्द्रः – वत्स! जनन्युचिता ते प्रियप्राया विनीतवृत्तिर्महीयते। सर्वथा त्रिभुवनेऽप्रतिरथो भविष्यसि। इयमेव मदाशीः। अयमेव तुभ्यम्मे वरः।
अर्जुनः – (प्रह्वीभूय) तात! कृतार्थोऽस्मि।
देवेन्द्रः – (स्थानं निर्दिश्य)
एहि वत्स! अर्धासनम्मेऽधितिष्ठ।
(अर्जुनः सविनयं तिष्ठति)
देवेन्द्रः – मातले! सम्प्रति मन्नियोगात् प्रवर्तन्तामर्जुनाभिनन्दनसमारोहसम्भाराः। एते वयमवहिता स्मः
मातली – यदाज्ञापयति स्वामी
(इति नेपथ्य गृहं प्रविशति। क्षणानन्तरमेव तारस्वरेणोद्घोष्यते)
भो भोः पारिषदाः अवहिताः भवतु। साम्प्रतं देवाङ्नोत्तमयेर्वश्या तत्सखीभिश्च निवातकवचकालिकेयविनाशाभिनेयः प्रस्तूयते।
ततः प्रविशति अर्जुनवेषधारिणी विहितयुद्धवेषोर्वशी मूकाभिनयं नाटयन्ति। इतरदिशात् प्रविशन्त्यन्या अप्सरसश्शितिवाससः कालिकेयसैन्यमनुकुर्वाणाः। (युद्धोचितं संगीतकं प्रवर्तते)
खण्डस्य खण्डस्य चण्डि कपर्दिनि कालिकेयमस्तम्
छिन्धि छिन्धि ननु भञ्जय विकलयविश्वस्तम्!!
ज्वलय मन्दिरं शोषय वापीं प्रशमय सततगतिम्
दिशिदिशि पूरय शिखिनमुच्छिखं कीलय सकलभृतिम्!!
खं पततां पततां पृथिवीयं मार्तण्डः पतताम्
यदि च पतन्तां विधुबुधगुरवश्शनेश्चरः पतताम्!!
याहि याहि द्रुतमपसर कुरु कुरु दनुजापसदनुतिम्!
कौन्तेयोऽयं पाशुपतास्त्रैर्नयति दुरन्तगतिम्!!८।।
(गीततालमाश्रित्य विवधकरणाङ्गहारं नाटयन्ती रौद्रोद्धतनृत्यञ्च प्रस्तुवन्ती श्रितताण्डवोर्वशी संलक्ष्यते)
रङ्गमञ्चोपरि संदृश्ये उल्कापातः। कर्णकर्कशचीत्कारध्वनिः मृत्युमूर्च्छाप्रलापो विद्रावनपलायनशब्दाश्च श्रूयन्ते। भैरवशस्त्रप्रहारान् नाटयन्ति ऊर्वशी पुनरपि प्रस्तौत्युद्धतनृत्यम् (नेपथ्ये तुमुलाजिध्वनिः श्रूयते)
क्वासि कालिकेय हतकमूढ कृतकशूर!
पाण्डुनन्दनाद् विबेषि कथं रे विमूढ!!
क्वासि भो निवातकवच! दलितदेवलोक!
नोऽवगच्छसि प्रजान्ध! क्लृप्तभूरिशोक!!
तिष्ठ तिष्ठ मलिम्लुच! प्रमथ्नामि तान्त!
क्लान्त भवसि नैष मदिरघूर्णिताक्ष दान्त!!९।।
(पार्थो निर्निमेष आलिखित इव मुषित इव हतप्रभ इवोर्वशीं पश्यन् स्थित-। गीतध्वनिः परिवर्तते। नृत्यञ्चापि समधिकतरं भैरवं संल्लक्ष्यते)
देवेन्द्रः – (अर्जुनं सविशेषं परिलक्षमाणः आत्मगतम्)
अयेनागरसीमन्तिनी-रूपमाधुरी-मतित-हृदयो ग्रामटिकाबटुक इव यदयं वत्सो मेऽभिभूतचेतनालेसं निपुणमवेक्षते वृन्दारकवधूटीमुर्वशीं तेन स्पष्टं विज्ञायतेऽस्यानुराग एतस्याम्। भवतु उपायं चिन्तयिष्याम्यनयोस्सङ्गमस्य।
(सङ्गीतकं स्फारीभवति)
बाहू भिनत्ति चरणे छिनति कृन्तति शिरश्च निशितम्
खड्गं निधाय पाणौ पिधाय कायं करोति पिशितम्!!
भैरवशिवोऽस्ति मरूतां गणोऽस्ति पार्थोऽस्ति वज्रपाणिः
हाहा हतोस्मि शरणागतोऽस्मि पारथोऽस्ति मृत्युपाणिः!!१०।।
(पलायते कालिकेय सैन्यम्। व्यापन्नाश्च दृस्यन्ते नैके पिशिताशनाः)
(पार्थवेषधारिणी देवसैन्यपरिगतोर्वशी विजयं नाटयति। नेपत्ये चालोकशब्दः जयजयकारध्वनिश्च श्रूयते। जवनिता पतति। क्षणान्तरमेव मेनकारम्भादिपरिगतोर्वशी पुरन्दरसमीपमागत्य सविनयं स्थिता। ऊर्वशीमायान्तीं दृष्ट्वार्जुनः शनकैरपक्रामति।)
देवेन्द्रः – (रोमाञ्चमनुभूय) सुन्दरी! साध्वभिनीतं त्वया। न मे वाक्प्रसरति त्वन्नृत्यकलाप्रशंसने। पश्य,
कलयतिं यदि भानुः पद्मिनीनां प्रशंसां
प्रभवति न विशेषस्तेन तस्याः कदाचित्।
विगलितयुगभावे प्रीतिबन्धे विरूढे
भवति हृदयमेव व्यक्तवाहो न जिहवा!!११।।
ऊर्वशी – (जानुभ्यां प्रणिधाय साञ्जलिपुटम्)
देवेश्वर! अलमनपेक्षितं सम्भाव्य! भवद्भिः समुपायनीकृतप्रेतिष्ठाः वयमप्सरसो वस्तुतः कृतार्थाः। न जानीमहे केन सेवाविधानेन प्रसादनीयाः भवन्तोऽस्माभिः!
देवेन्द्रः – (स्मितं नयनविकासञ्च नाटयन्)
ऊर्वशी! गृहाण प्रथमं तावत्परितोषप्रतीकभूतं पारितोषिकं पश्चात् कथयिष्यामि ते विशिष्टमेकं सेवाविधानमपि!
(इति मणिमाणिक्यखचिते कुण्डले कर्णयोर्निस्सार्य प्रयच्छति)
ऊर्वशी – (स्मेरवदनाम्बुजा सानुरागं)
देवीं शचीमपृष्ट्वैव प्रयच्छति मे कुण्डलद्वयममरावतीश्वरः!
देवेन्द्रः – (अव्यक्तं विहस्य साकूतम्)
किन्तेन?
रम्भा – (जनान्तिकम्)
ऊर्वशि! भण तावत्किमपि शल्यभूतमधुरम्।
ऊर्वशी – (सविलासमधरोष्ठं विकुञ्च्य)
सुरोत्तम! यत्तेन भविष्यति तदधिशय्यं रात्रावेव ज्ञास्यति भवान्।
(सर्वां अप्यप्सरसः सकरतालं साट्टाहसं पुरन्दरं व्यङ्ग्यैः पीडयन्ति)
देवेन्द्रः – (वैलक्ष्यं नाटयन्)
अयि भोः साम्प्रतं जितं युष्माभिः। शचीविक्रमं रात्रौ प्रैक्षिप्ये! ऊर्वशी, त्वयाप्यद्य रात्रौ कस्यचित् प्रसूनधन्वावतारस्य विक्रमः प्रेक्षणीयः।
ऊर्वशी – (सकोपम्)
विबुधेश! कथमिदानीं भवताऽनाद्रिये!
देवेन्द्रः – सुन्दरि! न भवतीं खलीकरोमि। एष कर्णयोरेव तव भणिष्यामि। मुहूर्त्तमात्रमितस्तावत्।
(ऊर्वशी पुरन्दरसमीपमागच्छति। स च कर्णयोः भणति एवमिव)
ऊर्वशी – (पुलकमनुभवन्ती)
यदाज्ञापयति स्वामी। साम्प्रतं भवदनुज्ञाताः जिगमिषामो वयम्।
देवेन्द्रः – (सस्नेहम्)
सुन्दरि गच्छ! शुभरात्रिस्ते भूयात्।
(अप्सरसौ बद्धालापाः सविलासमपक्रामन्ति)
देवेन्द्रः – (एकाकिनमनोभूयात्मानम्)
अहो विनयः कुन्तीनन्दनस्य! ऊर्वशीं मत्सविधिमायान्तीं दृष्ट्वैव जनकोचितसम्मानप्रदर्शवशात् स्वयमेवापक्रान्तः। सम्प्रत्यहमपि विगतचिन्तोऽस्मि ऊर्वशीं सम्प्रेष्य तत्सेवायाम्। यद्यपि मयोपभुक्ता सा मत्सुतोपभोगौचित्यं नार्हति, तथापि न कोऽपि दोषोऽस्मिन्। अप्सरस्तु विधातुः वरप्रभावेण सर्वंभोग्याः सत्योऽपि व्यभिचारवचनीयतां नोपयान्नि।
(इत्येवं शचीमन्दिरं प्रतिष्ठे)
द्वितीयं दृश्यम्
(पुरन्दरस्य वैजयन्तप्रासादे अर्जुनस्य निवासकक्षः। चलत्पारिजातफ्लाशान्तरगोचराश्चन्द्रममरीचयो गवाक्षरन्ध्रैस्समाविशन्ति कक्षे। भवनभित्तिप्रत्युप्ताः मणिमाणिक्येन्द्रनीलवैटूर्यं-पद्मरागादिमणयः विविधच्छटां किरन्तस्संल्लक्ष्यन्ते। मध्येशालमधिशय्यं शयानोऽर्जुनः स्मृतिशून्यतां नाटयन् भवनच्छदिं विलोकयते)
अर्जुनः – (सामोदम्)
नृत्यमपि नामचित्तहरणक्षमं कलारत्नम्! यत्सत्यम्,
क्वचित्तारं रौति द्रुतजधनकाञ्ची कलरूता
झणत्कारं सूते क्वचिदपि च मञ्जीरयुगलम्।
गलत्केयूराणां भवति मणिबन्धोऽधिकरणं
न के लास्ये दास्यं विबुधरमणीनां विदधति!१३।।
(स्मृतिमभिनीय, सरणरणकम्)
धन्यासि ऊर्वशी धन्यासि! प्राप्तं मयाऽर्जुनेन नयनयोः पुण्यफलम्! मर्त्येणापि सता यन्मयाऽवेक्षिताऽमरावती ततोऽप्यधिकं त्वन्नृत्यकलासन्दर्शनमात्रैणैव समवाप्तम्मया!
(दीर्घं निःश्वस्य)
अनिन्द्य-सुन्दरि! अयमहं मध्यमपाण्डवो भवतीं सभाजयामि,
अङ्गानि त्वतिशेरते सुरतरोश्चञ्चत्सुमानि ध्रुवं
हास्यं त्वद्वदनाम्बुजाग्रनिलयं ह्यत्येतिशेफालिकाम्।
चक्रीभूततटी कटी वितनुते यद्वेतसीवक्रतां
तेनैव प्रतिभासि भूरिविभवे! त्वं लोकलोकाधिका!!१४।।
(ततः प्रविशति सखीभिरनुगम्यमाना अभिसारिकोचितवेषा ऊर्वशी)
ऊर्वशी – (सोत्कण्ठम्)
सखी रम्भे! प्रत्यायितास्मि नाम देवेश्वरेण यत् कुन्तीनन्दनोऽर्जुनो मयि बलवत्स्निह्यति। तथापि साध्वसवशात् परिवेपिताऽस्मि। पश्य,
प्रभवति हि नितान्तं गूढगूढोऽनुरागः
विकलयति निशीथश्चापि दीप्यन्मृगाङ्कः।
प्रबलतरमनङ्गं किन्न कान्तो विधत्ते
अहह सखी! मयेदं प्राप्तमद्य त्रिरत्नम्!!१५।।
रम्भा – (साश्वासनम्)
सखि मोत्ताम्य! समाश्वसिहि, समाश्वसिहि। कौन्तेयसङ्गमसुखमवापय भयमेतत्तेऽनावृतधनसारतामेष्यति।
ऊर्वशी – (सदैन्यम्)
हञ्जे, अपि नाम पुरुषरत्नं किरीटी अन्यान्यपुरुषदेवसहवासास्तमितनारीसमयां मां हृत्तल्पस्थां कुर्यात्।
रम्भा – अय़ि आत्मलाघवभिदुरे! कः खलु कुमुदक्षुपो निर्मुदिरां मुदीं नाभिनन्देत्? त्वं पुनः (इत्यर्धोक्त एव श्रुतिमभिनीय)
सखी उर्वशी! किञ्चिदनावृतकपाटरन्ध्रादेषोऽव्यक्तध्वनिरिव श्रूयते। तदेहि मुहूर्तमात्रमितस्तावत् अवहिते श्रणुवः क एष व्याहरति?
(उभे कवाटसमीपमागत्य श्रुतिं नाटयतः)
अर्जुनः – (सोच्छवासं)
सुन्दरि! बहुनिर्मितिसमुद्वेजितेन विधात्रा निर्मितासीति न प्रत्येमि। मन्येऽहं,
रिङ्गल्लोलतरङ्गभङ्गविलसद्देवापगातश्छविं
वासन्तीरजनीकलाकलनतो लावण्यमङ्गस्फुटम्।
आकारं प्रकृतेश्चितिं ग्रहगणादाखण्डलान्मण्डनं
चन्द्रादाननमार्दवं बुधत्योन्मुच्यैव जातासि किम्!!१६।।
ऊर्वशी – (सनिर्वेदम्)
एष परित्यक्तमर्त्यलोकोऽयं निर्घृणः पाञ्चालीप्रणयपर्युत्सुकोऽद्यापि तामेव सोत्कण्ठापरिवाहं स्मरति।
रम्भा – (अङ्कपाल्यां लालयन्ती)
अयि कोपनशीले! आद्यन्तमश्रुत्वैव किम्मुधाऽऽशङ्कसे? अहं पुनर्मन्ये यत्तवमेवास्य व्याहरणस्य मूलम्।
(पुनः श्रुतिमभिनयतः)
अर्जुनः – देवाङ्गने! ऊर्वशी!! सर्वथा प्रीतोऽस्मि दर्शं दर्शं त्वाम्।
ऐलेयप्रणयानुबन्धमुषितं यज्जीवितं ते क्वचिन्,
मर्त्याणां भुवि सम्बभूव जनिदं चन्द्रान्वयस्य ध्रुवम्।
तेनैव त्रिदशेश्वरं सविनयं त्वं सेवमाना शुभे
स्वायत्तीकृतकल्मषाऽपि मधुरा गङ्गेव राराज्यसे।।१७।।
रम्भा – (सोल्लुण्ठम्)
अपिनाम पाञ्चाल्यास्संस्तवनं तुभ्यं रोचते?
ऊर्वशी – (सव्रीडम्)
सखी रम्भे! किम्मामुपहससि! न मया किमप्यत्याहितमाशङ्कितम्। सर्वथैकान्तप्रणयिनो भवन्तीमे मर्त्याः।
रम्भा – (सावदारणम्)
भवतु! साम्प्रतं विश्रब्धभावेन प्रतीक्षोत्तानहृदयं कान्तमुपगच्छ। सुखशयितप्रच्छिकाहं प्रभाते पुनस्त्वां द्रक्ष्यामि।
(परावृत्त्य सभ्रूभङ्गम्)
सखी उर्वशी? शिवास्ते पन्थानस्सन्तु!
(इत्यपक्रामति)
अर्जुनः – (शय्यातः समुत्थाय कुतुकोत्कण्ठां नाटयन्)
हन्त भोः! स्वप्नवेलेव स्मृतिमात्रोपलब्धिर्जाता सुरलोकवसतिः? श्वः प्रातर्वेलायामेव मम प्रस्थानकौतुकं सम्पत्स्यते।
(स्मृतिचिन्तां नाटयन्)
अपि नाम प्रस्थानात् प्राक् सकृदेव पुनः ऊर्वशीदर्शनं स्यात्।
(अर्धावृतकवाटयुगलमानावृत्य मन्दमन्दं कौन्तेयपार्श्वमुपगम्य चानङ्गभावं दर्शयन्ती।)
ऊर्वशी – (सलज्जम्)
पुरुषोत्तम! त्वदगुणप्रवालमुद्रिकेयम् ऊर्वशी स्वयमेवत्वद् दर्शनोत्सुका तिष्ठति।
(इति सलज्जानुरागं पाणिभ्यामर्जुनस्य सव्येतरं प्रकोष्ठं गृह्णाति)
अर्जुनः – (सातर्कितभयं सोद्वेगं किचित्पदं पश्चाद्गत्वा)
देवी! किमि भवत्यानुष्ठीयते!
ऊर्वशी – (हतप्रभेव पुनरपि चित्तवृत्तिं समाधाय)
पुरुषोत्तम! त्वद्गुणपराक्रमनिर्जितेयं दासी मन्दारप्रसूनलुब्धा मधुव्रतगेहिनीव कामयमाना सन्तिष्ठते। तत् क एष निर्दयो व्यवहारः?
अर्जुनः – (कर्णौ पिधाय)
शान्तं पापम्। देवी वासवप्रेयसी! मा मैवम्!
यथाचरति वात्सल्यं हरिजाया जयन्तके।
तत्प्रणयानुवर्तिन्या भवत्याऽपि तथा मयि!!१८।।
ऊर्वशी – (कपोलपाण्डुरतां वेथुञ्च नाटयन्ती)
कौन्तेय! अप्सरसो वयं विरञ्चेः वरप्रभावात् व्यभिचारदोषमुक्ताः स्मः। तदलमात्मपौरुषावमानेन। पश्य,
आह्लादयति कासारं प्रासादं गगनं भुवम्।
समरूपं सिता ज्योत्स्ना पत्रिणं पुरुषं पशुम्!!१९।।
अर्जुनः – (ससंयमम्)
देवी! नैतन्मय्युपद्यते! मर्त्याः प्राणिनो वयं धर्माचरणनिरुद्धाः न खलु स्वैरमाचरितुं शक्नुमः। पश्यति भवती,
समरूपा समाह्लादा तुल्यभाऽपि विधोर्मुदी।
कुमुदं ह्येव बध्नाति प्रेम्णा न खलु वारिजम्!!२०!!
ऊर्वशी – (सोद्वेगम्)
किरीटिन्! प्रत्यायितास्मि वृत्रनिषूदनेन यत्त्वं मयि साभिनिवेशं वलवत् स्निह्यसि। रङ्गशालायामपि मां निमीलनभ्रंशजुषा स्निग्धदृष्ट्या प्रेक्षमाणस्स्थितोऽसि!
अर्जुनः – देवी! मन्येऽसावेव मद्व्यवहारस्तातचरणस्य भ्रान्तेः कारणम्!
ऊर्वशी – न खल्ववगच्छामि।
अर्जुनः – देवी! कृतयुगे भवती राजर्षेः पुरुरवसोऽर्धाङ्गिनित्वमुपगता सती चन्द्रवंशस्यादिजननी भूतेति सात्मगौरवं ससम्मानं मयार्जुनेन चन्द्रवंशजेन साभिनिवेशं भृशं प्रेक्षितेति। मन्ये,
यथार्भकः कोऽपि निरीक्षते स्वां
विलोलदृष्टिं जननीं पिपासुः।
तथैव साक्षीकृतपूर्वभाव-
स्मृतिप्रमुग्धेन मयाऽसि दृष्टा!!२१!!
ऊर्वशी – (समुज्जॄम्भमाणं पारुष्यं नियम्य)
भवतु। कृतयुगे मया यत्कृतं साम्प्रतं द्वापरे तन्न प्रभवति। पार्थ! एषाऽहमिदानीं त्वां विषयीकृत्य मन्मथशरासारविद्धा कामयमाना तिष्ठामि! धर्मज्ञोऽसि। मम मनोभवरुजमपाकर्तुमर्हसि। पश्य,
धातुः सृष्टौ निखिलरमणीरत्नमुख्यास्मि धुष्टा
लावण्याख्यं जगति महितं तत्त्वमास्ते मयैव!
पीयूषम्मे क्षरति नितरां विग्रहाङ्गात्किरूटिन्
नार्हस्येवं मदनविकलां मां निराकर्तुमद्य।।२२।।
अर्जुनः – (दृढंतां संयमञ्च नाटयन्)
देवी! मद्वंशजननि! न मां पापकर्मण्यस्मिन् प्रसह्य नेतुर्महति भवती। पाण्डुनन्दनोऽहं न क्षमेऽधर्माचरणाय।
ऊर्वशी – (सरोषमश्रुपूरितमुखी)
मूढ! न मां जननीं वक्तुमर्हसि। गहना गतिः धर्मस्य। केनाऽपि कयाऽपि सार्घमुपपन्नः सम्बन्धः शरीरत्यागैनैव विनश्यति। अदृष्टबोगपरिपाकवशात् प्रत्येकं जीवो विविधैः सम्बन्धैरन्वितो जायते। न कोऽपि स्मर्तुं शक्तः स्वपूर्वजन्मसम्बन्धान्।
अर्जुनः – (अविचलभावेन)
मातः, क्षन्तव्योऽस्मि। न मेऽनुचितेऽस्मिन् प्रस्तावे प्रवृत्तिः।
(इति करसम्पुटं विधाय प्रणमति)
ऊर्वशी – (लोहितेक्षणा सक्रोधम्)
अलमलं भोः धृष्टकापुरुष! क्लीब!! पुरन्दरेण त्वया चाद्य विप्रलब्धाऽस्मि।
(सोच्छवासं विघूर्णितनयनाभ्याम्)
अलभ्यलावण्यललामां कमलालयां मामूर्वशीं विनिवेदितमनोभवभावामपि यत्त्वं षण्ढ इवोपेक्षसे प्राप्स्यसि निश्चप्रचमस्याविनयस्य फलमपि।
(बामेतरं बाहुमुद्यम्य)
मूढ! अङ्गीकुरु ममाभिशापम्। वर्षमात्रं षण्ढीभूय वैलक्ष्यमनुभविष्यसि। सुन्दरीणां मध्ये निवसन्नपि स्वपौरुषौपहासं द्रक्ष्यसि।
(इति निर्वण्णभावेन मन्दं मन्दमपाक्रामति)
अर्जुनः – (किंकर्तव्यविमूढतां नाटयन्)
हन्तभोः कुतोऽयमनर्थसम्पातः?
(धृतिमभिनीय)
भगवन् नन्दनन्दन! अन्तर्यामिन्!! एष भवतपादेन्दीवरचञ्चरीकोऽर्जुनो विपन्नस्तिष्ठति! शरणागतोऽस्मि, रक्षस्व भवदेकसर्वस्वं कौन्तेयं माम्। प्रभो,
धर्मो मयाऽऽहोस्विदधर्म एव
वृतोऽद्य जाने न मनागधीरः।
त्वमेव साक्षी मम सद्व्रतानां
शापोऽप्ययम्मे शमुपैति तस्मात्!!२३!!
(जवनिकापातः)