प्रीतिनिर्यातनम्
पात्रपरिचयः
मेहरुन्निसा----------------- अन्तःपुरसेविका
आयशा----------------- अन्तःपुरसेविका
जैनाबाई----------------- औरङ्गजेबमहिषी, अभिन्नप्रेयसी
सूत्रधारः----------------- प्रयोगप्रस्तावकः
औरङ्गजेबः----------------- मुगलवंशीयो दिल्लीश्वरः
मीरजुमला----------------- पूर्वं गोलकुण्डाराज्यस्य प्रधानामात्यः सेनापतिः सम्प्रति दिल्लीश्वरसभासद्
अमीरखानः----------------- इलाहाबादप्रान्ताध्यक्षः
शाइस्ताखानः -----------------दिल्लीश्वरमातुलः
रचनाकालः, अप्रैल १९७९ ई.
सन्दग्धेऽपि कलेवरे पितृमखज्वालावलीढेऽनले
वैराग्यङ्गमिते पिनाकिहृदये द्वैधीभवज्जीविते।
प्रीतिर्दक्षसुताशशाङ्कधरयोस्सन्देहदोलाचला
या सम्प्राप पुनर्नवेव नवतां जीव्यात्तया भूतलम्।।१।।
अपि च
देवी प्रेयसी वल्लभे प्रियतमे प्राणेश्वरी प्रेमिणि!
मज्जन्मान्तरसङ्गिनीति बहुषो हृद्यं समाराधिता।
तत्तच्छब्दसमुत्थभावविकसत्सापत्न्यशङ्कालस –
त्प्रीत्यप्रीतितरङ्गरिङ्गणसहा हेरम्बधात्री जयेत्।।२।।
(नान्द्यन्ते ततः प्रविशति रमणीयवेषः सूत्रधारः)
सूत्रदारः – (पुष्पाञ्जलिं विकीर्य नाट्येन परितोऽवलोक्य च)
अयि भोः प्रयोगदिदृक्षवः सहृदयसामाजिकः! भवद्भिराज्ञप्तोऽस्मि नवीनतमलघुरूपकं मञ्चविषयीकर्तुम्! तदस्मिन् सन्दर्भे सत्स्वपि पञ्चषेषु नवैकाङ्किषु यावदिदानीं निश्चेतुं न शक्तोऽस्मि यत्कतमत्प्रकरणमाश्रित्य नाट्यप्रयोगमुपस्थापयानि।
(किञ्चित्पेरमदग्रेसरीभूय, सगूढस्मितम्)
अहमपि किं करवाणि? विचुत्रेयं तीर्थपतिपुरी! विचित्राश्च वर्तन्त एतदीयाः पौरजनाः। वाराणसेयानां धर्मप्रवणत्वं, मोहमयी निवासिनां मोहमयत्वं, देहलीवासिनां सुभगम्यन्यत्वं, लक्ष्मणपुरीयाणाञ्च वैलास्यं सर्वथा सुस्पष्टं सर्वजनगोचरञ्च। परन्तु प्रयागपुरवास्तव्यानां किंविधत्वं गणिकाहृदयमिव विरञ्चिरेव जानातु!
(नेपथ्ये ऽनुश्रूयते)
सूत्रधारः – (नेपथ्यवार्तामाकर्ण्य स्फुटाट्टहासपरायणान् सुहृदयदर्शकान् संल्लक्ष्य)
सुहृदयजनाः! श्रुतं भवद्भिर्नर्मवचनं प्रच्छन्नभरतस्य? सत्यमेवानुभूतं मुस्लिमकवितल्लजेन अकबरइलाहबादीमहोदयेन परन्तु तत्राप्येतदपरं वैशिष्ट्यं यद्दिवङ्गते श्रीमत्यकबरमहाभागे प्रयागेसाम्प्रतमेकमात्रं वस्त्वशिष्टं – तत्तु (अमृतफलम्) अमरूदफलम्!!
(गम्भीराकृतिं नाटयन्)
भवतु नाम। प्रकृतिमनुसरामस्तावत्। बाढम्, किम्मया कथितम्?
(स्मृतिं नाटयन्)
स्मृतं खलु। सहृदयबन्धवः कथयन्नासं यदस्मिन् प्रयागनगरे पदे पदे रूचिवैचित्र्यं वा संल्लक्ष्यते। अत्र यावन्त्येव मन्दिराणां तावन्त्येव गिर्जागृहाणि, तावन्त्येव गुरुद्वाराणि तावन्त्येव च मसजिदाख्यपूजास्थानानि। सर्वधर्मं समन्वयक्षेत्रमिदम्!!
(अकस्मादेव नेपथ्येनुश्रूयते)
अल्लाहोऽऽ अकबरऽऽऽ
अलहम्दु लिल्लाह रब्बिल् अलमीन् अर्ररव्मानिर्रहीम। मालिकि यौर्मिद्दीन य्यागनाबुदु वैय्यागनस्तईन। इहदिनस् सिरातल् मुस्तकीन् सिरातल् लज़ीन् अनअम्त अलैहिम् गैरिल् मग्मूवि अलैहिम् वलज़् ज्वाल्लीन्।
अल्लाहोऽऽ अकबरऽऽऽ
अस्सलामु अलैकुम् वरहमतुल्लाह। अस्सलामु अलैकुम् वरहमतुल्लाह!!
सूत्रधारः – (साश्चर्यं समोदञ्च पुरतोऽवलोक्य)
अये प्रय़ागप्रशस्तिगायनपरायण एव मयि कुतोऽयम् इस्लामधर्मप्राणभूतस्य कुरानाख्य धर्मग्रन्थस्य सान्ध्योपासनमधुरगीतयश्श्रूयन्ते?
(प्रत्युत्पन्नस्मृतिमभिनीय)
मान्यवर्याः! प्रयोगप्रस्तुतिविलम्बकातरेण मयाऽभिनेयलघुरूपकनिर्णभारं सुहृज्जनोपरि विन्यस्यैव भवन्मनोरञ्जनं विधातुमत्रागतम्। तत्साम्प्रतमनेन प्रार्थनास्वरेण सर्वथा सिंद्धं यद्य श्रीमद्भिराजराजेन्द्रमिश्रैविरचितं नूतनतमम् ऐतिहासिकं लघुरूपकं प्रस्तोतुं निरणायि मत्सहचरैः। तथा हि,
राजेन्द्रो मधुरः कविः परिषदप्येषा हृदुल्लासिनी
हृद्या प्रीतिकथा तुरुष्कनृपतेरोरङ्गजेबस्य च।
श्रृङ्गारोऽत्र रसः प्रधानममृतं देवैकपेयं परं
नो किञ्चिद्धयपहीयते समुदितस्सर्वो गुणानां गणः।।३।।
अपि च
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणि तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य़ैकपुण्यफलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।४।।
तदहमपि कथानक प्रत्यवायो मा भूदिति मन्वानो नेपथ्यसदनमेव प्रविशामि!
(इत्यवसिता प्रस्तावना)
प्रथमं दृश्यम्
नवपञ्चाशदधिकषोडशशततमस्य ख्रीस्ताब्दस्य (१९५९ ई.) ग्रीष्मकालः। प्राचीनदिल्लीनगरे मुगलवंशोत्पन्नस्य राजराजेश्वरस्य आलमगीरेत्युपाधिधारिण औरङ्गजेबस्य शासनाधिरोहणमहोत्सवसम्भारा अहर्निशं प्रवर्त्तमानाः सन्दृश्यन्ते। दिल्लीनगरी नवपरिणीता वधूटीव विविधालङ्कारविराजिता शिखावलावलिस्मिता बहुतरं चकास्ति।
लालकिलेत्युपनाम्ना विख्यातस्य मुगलपरिवारनिवासाश्रयस्य महादुर्गोस्योपान्तभागे चन्द्रिकाचतुष्कक्षेत्रं यत्र खलु श्रेष्ठिजना राजपुरु,श्चकृतवसतयो राजन्ते। सन्ध्याकाले वद्धालापाः पौराजना इतस्ततः परिभ्रमन्तः दृश्यन्ते। उपनगरस्य पश्चिमोद्देशे कस्मिंश्चित् प्राचीने तुरूष्कपूजागृहे मस्जिदेत्याख्याते नमस्यां (नमाज़) सम्पाद्य केचन जनाः स्वगृहं प्रस्थिताः वर्तन्ते। अवशिष्टास्त्रयः परस्परं वार्तां लपन्ति।
मीरजुमला – कीयत्प्रतीक्षानन्तरं समायातोऽयं दिवसः? वर्षद्वयं व्यतीतम्! कियन्ति युद्धानि निर्णीतानि, कियत्यो विपत्तयस्सोढाः सुखमयभविष्याशया। तदानीन्तु सर्वमेव संशयगर्भमनिश्चितमप्रतीयत। किन्तु (इत्यर्धोक्ते सहचरं विलोक्य)
अमीरखान! स्मरसि तद्वृतं यत्खलु बुरहानपुरस्कन्धावारे घटितमासीत्।
अमीरखानः – (संस्मितं, सव्येतरेण पाणिना कूर्चकण्डूतिमभिनीय)
स्मरामि बन्धो! स्मरामि। धृतजीवितेन मया कथं खलु विस्मर्तुं शक्यते!
शाइस्ताखानः – (सोत्कण्ठं समीपमुपेत्य)
बन्धो! नेदं युज्यते। परस्परमेव न जाने किं सङ्केत्य संस्मार्यं वा युवां नन्दथः! मयैव किमत्याहितं युवयोः? मह्यमपि कर्णरसायनं देहि!
मीरजुमला – मातुलपाद! नात्रभवान् आवाभ्यामुपेक्ष्यते। राजराजेश्वर आलमगीरोऽस्माकं त्रयाणामेव समानतयाऽधीश्वरोऽन्नदाता च। एवम्भूते न किञ्चिदपि भवतो निह्नोतुं शक्यते।
शाइस्तानः – (सस्नेहं साभिजात्याञ्च)
यद्येवं तर्हि मामपि विदितवेदितव्यं कुरुताम्।
मीरजुमला – यन्मया सङ्केतितं तदेव कथयामि। १६५७ तमे ख्रीस्ताब्दे अर्गलानगरदुर्गे स्वपितृचरणं शाहजहानं पक्षाघातपीडितं विज्ञाय राजराजेश्वर औरङ्गजेबः विषादचिन्तासक्तस्सन् राजधानीं प्रस्थितः। तथा हि,
कुर्वन्नासीत्स्वकीयं पितृनिकटचरस्सेवया राजराजं
भूपम्मानी विशेषो मुगलकुलमणिर्ज्येष्ठदाराशिकोहः।
बङ्गप्रान्ते शुजाऽपि प्रशमतिरिपुकोऽघोषयत्स्वाधिपत्यं
सौराष्ट्रे गुर्जरेऽद्धा धृतनृपतिपदोऽभूद्विशङ्को मुरादः।।५।।
अमीरखानः – (सोच्छ्वासम्)
सत्यमेव विपतपङ्कनिमग्न आसीदालमगीरः। बड़ीबेगमेत्युपाधिधारिणी जहाँनारापि दाराशिकोहे कृतपक्षपाता निरन्तरमेव राजपुत्रमौरङ्गजेबमुन्मूलयन्ती दुर्गान्तःपुरे स्थिताऽऽसीत्।
मीरजुमला – मातुल! युक्तमाह खानबन्धुः। न कोऽप्यासीदालमगीरस्य पक्षधरः। त्रयोनप्यन्ये सहोदरास्स्वार्थमात्रं साधयन्तोऽनुकूलमवसरं प्रतीक्षमाणा आसन्। परन्तु जयतादसौ करूणावरूणालयः परमेश्वरो येनास्माकं स्वामीदृङ्निगूढनयवर्त्मवित् देशकालज्ञो मित्रामित्रविवेकविचक्षणश्च कृतः।
शाइस्तखानः – मीर! औरङ्गजेबस्य प्रस्थानवर्णनं त्वया समारब्धमासीत्। ततस्ततः?
मीरजुमला – मातुल! दक्षिणाशावधूटीं विरहय्य ससैन्यं प्रस्थितः सुहज्जनपरिगतो मुगलकुमारः द्वादशदिनानन्तरं बुरहानपुरमाससाद। तदनुजो गुर्जरप्रदेशप्रान्ताध्यक्षो मुरादोऽपि पत्रमवाप्यौरङ्गजेबस्य गूढाभिप्रायं सम्यग्वधार्य महत्सैन्यपरिवारितोऽहमदाबादनगरात् पुरस्सार। ततश्च,
रेवामुत्तीर्य यावद्बहलबलयुतः क्षिप्रमौरङ्गजेबः
मातङ्गाश्वैस्समृद्धश्श्रितशतसुभटोऽवाप दीपालदेशम् ।
तावत्साम्मुख्यमाप प्रबलतरबलोऽसौ मुरादोऽपि चण्डः
एकीभूतावुभौ तौ तिमिररुधिरजौ चेलतुस्सङ्गरार्थम्।।६।।
शाइस्ताखानः – भद्र! कुतूहलं मे वर्धते। ततस्ततः?
मीरजुमला – मातु! तद्नन्तरं यद्घटितं तदतिसंक्षेपेण कथयामि। द्वयोरपि राजपुत्रयोः सम्मिलितं सैन्यं दाराशिकोहविहितैर्विग्नैः पुनः पुनरपि प्रतिहन्यमानं यथाकथञ्चित् उज्जयिनीनगरस्योपकण्ठं सप्तक्रोशं यावदागच्छत्। ततोऽकस्मादेव मान्दवदुर्गाध्यक्षमुखात् तदवृतं समाकर्ण्य शाहजहानस्य सेनापतिर्महाराजो जसवन्तसिंहोऽपि युगान्तजलधरसन्निभां भीमविक्रमां पृतनां पुरस्सरीकृत्य औरङ्गजेबमुरादयोर्मार्गावरोधार्थमकबरपुरमुपेतः। ततश्च नातिचिरं प्रारब्धमासीद् भैरवं युद्धम्,
ज्वालामाला वमन्ती शतशतसुभटान् घातयन्ती शतघ्नी
शुण्डादण्डान् गजानां हयकरभगलान्दारयन्ती बभासे।
भिन्दान् वक्षांस्यरीणां सुभटकरतले चन्द्रहासो व्यलोकि
भूतं नो वा भविष्यत्यथ भवति न वा तादृसं घोरयुद्धम्।।७।।
शाइस्तखानः – (सोच्छवासम्)
अपि नाम तस्मिन् युद्धेऽहमपि भवेयम्! भद्र, ततस्ततः।
मीरजुमला – मातुल! जसवन्तसिंहस्य राजपूतसैनिकः महच्छौर्यं प्रदर्शितम्। प्राणान् पणीकृत्य तैर्यावच्चेतनं विजयार्थं प्रयतितम्। परन्तु परमेश्वरीनुग्रहात् विजयलक्ष्मीः औरङ्गजेबं वृतवती। पलायितं जसवन्तसिंहेन।
अमीरखानः – (सोत्साहम्)
इतः परं समारभते आलमगीरस्य विजयपरम्परा। समूहगढयुद्धे दाराशिकोहोऽपि पराजितो बन्दीकृतश्च। पश्चाच्च दुर्वस्त्रैराच्छाद्य मातङ्गपृष्ठमधिरोप्य नास्तिकोऽयमिति प्रख्याप्य च १६५७ ख्रीस्ताब्दस्य सितम्बरमासे निर्दयं व्यापादितः। द्वीतीयोऽपि मुगलराजपुत्रः शुजा स्वयमेव मृतो दुर्घटनायाम्। जराजर्जरितश्च मुगलेश्वरः शाहजहानोऽर्गलानगरदुर्ग एव सपरिवारो निरुद्धः स्वभवने।
मीरजुमला – खानबन्धो! इयत्पयर्न्तन्तु सर्वमप्यासीद्रूचिकरम्। प्रणये युद्धे च सर्वं सम्भवति, समीचीनञ्च भवति। परन्तु येन विधिना साधुस्वभावो वराको मुरादो यमसदनं प्रेषितो राजराजेश्वरेण, तेन तच्चरित्रं कलङ्कविकलं दृश्यते।
(करुणया गादीभूय)
अमीरखान! अपि स्मरसि कनिष्ठोत्तमसहोदरस्य मुरादस्य लोमहर्षकं गलच्छेदनम्।
अमीरखानः – न केवलं गलच्छेदनं प्रत्युत राजपुत्रस्य तत्करुणपत्रमपि प्रत्यक्षरं स्मरामि यत्तेन प्रत्यक्षीकृतमृत्युना निरूपायेन औरङ्गजेवं प्रति लिखितमासीत्।
शाइस्तखानः (भागिनेयं मुरादं स्मरन् साश्रुनयनः)
भद्र अमीरखान! मामपि मुरादमातुलं श्रावय तत्पत्रप्रतिपाद्यम्।
अमीरखानः – मातुल! प्रशान्ते युद्धे निर्मक्षिके च जाते शासनतंत्रे औरङ्गजेबौ मुरादमपि पथशूलं मन्यमानस्तद्विनाशाय कृतप्रयत्नोऽभवत्। प्रथमं तावत्तेन मुरादपक्षीयाः शुभचिन्तकाः पदप्रतिष्ठाधनैश्चात्मीयीकृताः। तदनन्तरं शासनविषयकं किञ्चिदत्यावश्यकं गोपनीयं वृतं सम्पादनीयमावाभ्यामिति सस्नेहं सानुरोधं विज्ञाप्य ईदमहोत्सवस्य शुभ दिवस एव औरङ्गजेबैन मुरादस्समाहूतो मथुरास्थिते निजस्कन्धावारे। स्वशुभचिन्तकैः भृशमुपदि,टोऽपि परामृष्टोऽपि विशुद्धहृदयो मुरादोऽग्रजं द्रष्टुमुपययौ।
अथ यावदेव कुमारः सम्पादितभोजनक्रियो व्यपनीतसमग्रायुधो निर्विशङ्कं निद्राति तावदेव औरङ्गजेबसङ्केतिताः शेखमीरप्रभृतयस्सैन्यचराः प्रविश्य वितानमण्डपे मुरादं पर्यगच्छन्।
आसन्नमृत्युर्मुरादोऽश्रु विगलितनेत्राभ्यां परितो निरीक्षमाण एतावदेव सन्दिदेश निजाग्रजम्,
परित्यक्तं साक्ष्यं स्वयमपि कुरानेन विहितं
वचो दत्तं द्वस्तं यहुशपथसौगन्धमहितम्।
मया निस्स्वार्थेनावितथहृदयेनापि च समं
अये बन्धो! सनेहिन्नहह भवता किं कृतमिदम्।।८।।
(सर्वेऽपि मौनमास्थाय परस्परं करुणं विलोकयन्ति)
मीरजुमला – (चेतनाभिनीय)
भवतुनाम। यद्वीतं तद्वीतमेव। किं तेन स्मृतेन? मुगलवंशपरम्परायां रक्तपातं विना को नु खलु राज्यासनं प्राप्तवान्? न कोऽप्यत्र क्षीरक्षालितः!
अमीरखानः – मीरबन्धो! अत्र प्रदर्शितस्त्वया पक्षंपातः।
मीरजुमला – कीदृशः पक्षपातः? स्फुटं कथय।
अमीरखानः – (सगूढहासं सोल्लुण्ठञ्च)
श्रीमन्! पञ्चाङ्ग गुलयोऽपि ते घृत एव वर्तन्ते। बुरहानपुरस्कन्धावारे मासपर्यन्तं परिशीलितविश्रामं दिल्लीश्वरं सभाजयितुं रञ्जयितुञ्चत्वयाप्राणपणेन प्रयतितम्। तस्मिन्नेव महेत्सवसम्भारे त्वयाऽऽनीता काचिदनिन्द्यसुन्दरीनर्तकी जैनाबईनाम्नी या पुनः शुष्कहृदयस्यापि कलासंगीतनृत्यादिविरोधिनो-ऽप्यालमगीरस्य हृदयमन्दिरं स्वचरणकमलमञ्जीरछुद्रघण्टिकाभिर्मुखरं कृतवती। श्रुतम्मया यत्साम्प्रतं सैव भूरिभाग्या राजराजेश्वरेण सबहुमानं महिषीपदमारोपिता?
मीरजुमला – (सस्मितम्)
अमीरखान! सत्यमाह भवान्। स्त्रियश्चरित्रं पुरुषस्य भाग्यं कामं देवो न जानाति परन्तु स्त्रियो भाग्यं पुरुषस्य चरित्रन्तु वयं साधु जानीमः। (सर्वेऽपि निरर्गलं हसन्ति)
शाइस्तखानः – (पुरतोऽवलोक्य)
पश्यतं तावत्, केचिज्जनाः समायान्ति। साम्प्रतं प्रस्थातव्यमस्माभिः। बहु कथितं श्रुतमद्य। श्वः पूर्वाह्णे राजसभायामेव मिलिष्यामो वयम्।
अमीरखानः, मीरजुमला – युक्तमाह मातुलवर्यः। भवतु प्रणमावः।
(इति विष्कम्भकः)
द्वितीय दृश्यम्
(राजराजेश्वरस्य औरङ्गजेबस्य वासभवनं यस्मिन् बुरहानपुरनर्तकी जैनाबाई महिषीपदसौभाग्यमुररीकृत्य साम्प्रतं विराजते। सर्वमपि भवनं मृगमदचन्दनसुवासितजलाभिषेचनेन विकसत्परिमलं दृश्यते। सुसज्जिते कक्षे सोद्वेगा प्रतीक्षापरायणा लावण्यमयी राजमहिषी इतस्ततःऋ परिभ्रमन्ती दृश्यते।
अकस्मादेव द्वारमुद्घाट्यते। ससम्भ्रमं द्वे कामिन्यो प्रविशतः।)
जैनाबाई – (कृत्रिमं क्रोधं दर्शयन्ती)
कथं रे मेहरुन्निसे! क्व मृताऽसीः। एतावदपि नो जानासि यत्किं कार्य कियता कालेन सम्पादनीयं भवति? कः कालस्त्वामन्विष्यामि?
मेहरून्निसा – (क्षितितलनिहितजानुपाणिः)
स्वामिनि! क्षन्तव्यास्मि। नात्र मेऽपराधः, यावत् (इत्यर्धोक्ते)
जौनाबाई – तत्किं मेऽपराधो वर्तते? यावद्यावदिति किं सारिकेव रटसि?
मेहरून्निसा - स्वामिनि! यावदेव चन्द्रिकाचतुष्कापणेषु क्रीतगन्धद्रव्या गृहीतधम्मिल्लरचनोपयोगिपुष्पहारा च सार्धमायशयेतः प्रस्थितास्मि तावदेव पार्श्ववर्तिनि मसजिदे केचन राजपुरुषाः सन्दृष्टा मया। स्वाभिज्ञाननिवार्णार्थमेव तत्प्रस्थानकालं यावत्प्रतीक्षमाणया भवच्चरणचारिण्या मया किञ्चिद्विलम्बितम्। श्रुत्वा स्वामिनी प्रमाणम्।
जैनाबाई – (सस्मितं, सस्नेहं मेहरून्निसायाः वामकपोलं नखक्षतेन भावयन्ती)
जानामि, जानामि! व्याजरचनायां पण्डिताऽसि। यद्विकरोषि भवतु नाम। याचितानि वस्तून्यानीतवत्यसि?
मेहरून्निसा – तान्निर्मातुमपि जानासि।
मेहरून्निसा – भट्टिनि! पूर्वमेवोक्तम्मया। एतसर्वं समक्षमेव स्थाप्यते।
(दुकूलोत्तरीयमुद्घाटय सर्वाणि वस्तूनि प्रदर्शयति)
भट्टिनि! एषा चाम्पेयकुसुमहारयष्टिर्मयाऽतिप्रयासेन भवदर्थ क्रीता। मन्येऽनयाऽलङ्कृतामत्रभवतीं सम्प्रेक्ष्यैव राजराजेश्वर आलमगीरो मुषितहृदयो भविष्यति।
आयशा – (चपलचपलं समीपमुपेत्य सविलासम्, चरणौ निर्दिश्य)
मदनुरञ्जितयोर्लाक्षारसविहितचित्ररचनयोरनयोश्शतपत्रकोमलयोश्चरणयो-र्निपत्य सोच्छ्वासं वदिष्यति च निखिलमपि मुगलसाम्राज्यं मया समुपायनीक्रियतेऽत्रेति।
जैनाबाई – (पृष्ठोपरि कोमलमुष्टिघातं नाटयन्ती)
धृष्टे! बहु जल्पसे! इतः पलायस्व!
(आयशाऽस्फुटहासं जनयन्ती धावत्यन्यत्र)
मेहरून्निसा – (सादरम्)
भट्टिनि! गच्छान्यहम्?
जैनाबाई – (सानुनयं, सप्रणयम्)
मेहरुन्निसे! मा गच्छ त्वम्। आयशां भण, सा गच्छतु। अद्य रात्रौ मत्पार्श्वमेव तिष्ठ। निभृतनिभृतमेव मत्कृतम् आलमगीरप्रणयपरीक्षणं पश्य जालमार्गतिरस्करिणीमवलम्ब्य।
मेहरून्निसा – (अविश्वासं नाटयन्ती, साश्चर्यम्)
स्वामिनि! सत्यमेव भवति राजराजेश्वरप्रीतिं परीक्षिष्यते? श्रुत्वाऽपि नो विश्वसिमि!
जैनाबाई – मूढे! तत् किं वृथैव प्रलपितम्मया? एतावताऽऽख्यानेन सम्भाविताऽपि त्वं मूर्खेव पृच्छसि?
मेहरुन्निसा – स्वामिनि! मयापुनश्चिन्तितं यद्भवत्या परिहासमुखेन विजल्पितम्। तत्केन उपायकौशलेन भर्तुः प्रीतिः परीक्षितुमिष्यते?
जैनाबाई – बहुवादिनी मा भूः। पूर्वमेव सर्वं ज्ञास्यसि तर्हि द्रक्ष्यसि किम्?
(राजप्रासादसमक्षं विलोक्य ससम्भ्रमम्)
मेहरून्निसे! आगच्छत्यालमगीरः। द्रुतमपसर, पार्श्वस्थालिन्दकुट्यां निलीय तिष्ठ। शब्दं मा कार्षी। श्वासपरम्परामपि निगमय। गच्छ!!
(मेहरून्निसा प्रपलाय्य निलीयते)
(ततः प्रविशति रुचिरराजवेषा औरङ्गजेबोऽभिसारप्रणयमुद्राञ्चितः)
औरङ्गजेबः – (अनिन्द्यरूपलावण्यप्रतिमां महिषीं विलोक्य चित्रलिखितइवस्थितः)
परमेश्वर! किमिदं पश्यामि,
राकाचान्द्रमसी स्वयं भुवमिमां तारापथादागता
फुल्लत्कैरवलोचना प्रविकसच्छेफालिकागन्धिनी।
राज्यश्रीरथवा तुरुष्ककुलजा मत्पूर्वजैः प्रेषिता
इस्लामैकपरं परीक्षितुमहो औरङ्गजेबन्नु माम्।।९।।
जैनाबाई – (क्षितौ कायं प्रणिधाय प्रणमन्ति)
जगदाश्रय ! किमिदं यच्चरणसेविनीं दासीमपि नाभिजात्यान्न भवान्?
औरङ्गजेबः – (सोच्छवासं नेत्रे विस्फार्य प्रत्यागतचेतने इव)
प्राणेश्वरी! नृत्यगीतवाद्येऽकृतपक्षपातो रूपसौन्दर्यप्रणयानुभवे चोन्मनस्कोऽयमालमगीरस्त्वां दर्शं दर्शं सन्तप्तमाक्षिकमिव यद्द्रवतितरां तत्किमिदम्।
जैनाबाई – (औरङ्गजेबस्य स्कन्धोपरि प्रगाढमालिङ्गनं विधाय, कर्णयोः)
जीवितेश्वर! प्रेमाग्निरयं, रूपज्वालेयं यया प्रसह्य समाकृष्टः शलभो निर्निवेक आत्मानं दहृति।
(भुजबन्ध शिथिलीकृत्य दीपं सङ्केतयन्ती)
पश्यतु भवान् निमेषमात्रं, जाने कियन्तो दिल्लीश्वराः युगपदेव रूपशिखायां ज्वलितुं पुरस्सरन्ति!
औरङ्गजेबः – (महिष्या प्रत्युत्पन्नमतिं समाद्रियमाणः सहासम्)
शोभनं शोभनं राज्ञि! बहु शोभनम्। त्वं तावत्कवयितुमपि जानासि!!
जैनाबाई – प्राणनाथ! का नु खलु कलकण्ठी वसन्तं दृष्ट्वा न गायति, का वा सुमवल्लरी प्रभञ्जनं समवाप्य न झम्पते?
औरङ्गजेबः – (पुरस्सृत्य महिषीं निर्दयमाश्लिष्य, चिबुकमुन्नमय्य)
निखिलारातिसंघं जित्वाऽपि त्वां जेतुं न प्रभविष्यामि। गृहाण तावत्प्राभृतकम् आलमगीरस्य।
(इति सस्नेहं सबहुमानं दाडिमकालिकां समर्पयति)
जैनाबाई – प्राणवल्लभ! दासीं सम्भाव्य भवदागमेन बहूपकृतं भवता। अनुभवाम्यात्मानं प्रत्यसाधारणप्रेम श्रीमताम्। तदाज्ञापयतु स्वामी, केन सेवाविधानेन प्रसादयानि – युग्मायुग्मक्रीडया, गुप्तान्वेषणक्रीडया, भोजनेन, मधुरपेयेन वा?
औरङ्गजेबः – (अधिशय्यमुपविश्य तृषमनुभवन्)
प्रिये! पानीयं पातुमिच्छामि तावत्।
जैनाबाई - एषाऽऽगतास्मि वल्लभ! एषाऽऽगतास्मि।
(अन्तः कक्षं प्रविश्य, क्षणानन्तरमेव सुराचषकद्वयेन सार्धं निष्क्रम्य)
एतत्कषायसलिलं निपीयाद्य मनोरमशर्वर्यां दास्या सार्धं विश्राम्मयतु भवान्। यद्येतन्निपीयापि पिपासोपचीयते तदशेषयौवनकुम्भमदिरां निपाय्य दासी प्राणवल्लभं तोषयिष्यति।
औरङ्गजेबः – (चषकमुत्थाप्य सुरागन्धञ्चानुभूय)
प्रिये! कथमिमां मदिरामानीतवती? जानासि त्वम् (इत्यर्धोक्ते)
जैनाबाई – जगदाश्रय! सर्वं जानामि। तथाप्यद्य मदिरामेव पाययितुमिच्छामि।
औरङ्गजेबः – किमनेन मुधा निर्बन्धेन? राज्ञि! शैशवादारभ्य मयाऽऽलमगीरेण विस्मृस्यापि न कदापि मदिरा स्पृष्टा।
जैनाबाई – प्राणवल्लभ! कादाचित्कपानेन व्रतं न त्रुटयिष्यति, स्वादीयसीयम्मदिरा फारसदेशात्समागता। तदलं तिरस्कारेण। मयाऽप्यद्य निपीता।
औरङ्गजेबः – भवतु। प्राणवल्लभे! यदि त्वया निपीता तन्मयाऽपि पीतैव। एहि, मत्समीपमुपविश।
जैनाबाई – (कोपं नाटयन्ती सासूयमुपविश्य)
जगदाश्रय! ज्ञातम्मयाद्य यत्कियान् अधिकारो मे वरीवर्ति।
औरङ्गजेबः – प्रिये! किमिदं नाम! बुरहानपुरस्कन्धावारे सकृद् दृष्ट्वैव त्वां मुषितं मे हृदयम्। राजपदमधिरोहमाणेनैव मयाऽऽलमगीरेण त्वं सबहुमानमानीय महिषीपदेऽभिषिक्ता। तत्किमिदं सर्वं व्यलीकमेव।
जैनाबाई – राजराजेश्वर! सर्वमपि युज्यते। किन्तु त्रिलोकसम्पदमवाप्यापि नामरी प्रियतमानुरागं विना सन्तप्यते।
औरङ्गजेबः – प्रिये! समर्पितोऽयमालमगीरस्तुभ्यम्। किमभीष्टं तवापरम्?
जैनाबाई – अलमलीकानुरागप्रदर्शनेन। यन्मयाऽऽनीतमपि मदिरामल्लकमुपेक्ष्य भवता सन्तोषोनुभूयते!
औरङ्गजेबः – (महिषीमश्रुपूरितनेत्रामभिलक्ष्य, सानुनयम्)
प्राणप्रिये! कुरानान्धभक्तोऽयमालमगीरः। इस्लामधर्मानुपालमेमव तस्य़ जीवनलक्ष्यम्। इस्लामध्रमाचारसंहितैव तस्य जीवनसम्पत्तिः।
जैनाबाई – जगदाश्रय! न मया किञ्चिद् विजलप्यते। एषाऽहं तूष्णीमुपगताऽस्मि।
औरङ्गजेबः – यद्येवं तर्हि नयनयोः किमिदं पश्यामि? क्षणं तावत्स्मेरानना भव।
(स्वयमेव महिषांनेत्रद्वयं प्रमृज्य चिबुकमुन्नेतुं प्रयतते)
जैनाबाई – प्राणेश्वर! नेदं नयनाश्रू। मिथ्याभिमानोऽयं मम योऽद्य गलितस्सन् नेत्राभ्यां प्रवहति। अद्य मया ज्ञातं यत्कुरानोपदेशाः मत्प्रीतेरपि प्रियतराः जगदाश्रयस्य!
औरङ्गजेबः – (ससम्भ्रमं पर्यङ्कादुत्थाय)
मा मैवं हृदयेश्वरी! त्वया विरहितोऽयमालमगीरः निखिलमपि मुगलसाम्राज्यं मृत्तिकामात्रं कल्पते।
(महिषीं सबहुमानमुत्थाप्य)
तदुत्तिष्ठ। विलम्बं मा कार्षीः। त्वत्प्रसादनायाद्य कुरानमपि तावत् तृणीकरोमि। निजेनैव पाणिना प्रयच्छ मदिराचषकम्।
जैनाबाई – (सोपचारम्)
अलमायासेन वल्लभ! एतावतैव सन्तुष्टेयं दासी। तदलमात्मानं सन्ताप्य।
औरङ्गमजेबः – (सप्रणयम्)
सुन्दरि! अलमालमगीरमन्यथा सम्भाव्य। सत्यमेवाद्य मनोरमशर्वर्यां त्वदङ्कपाशसौख्यमनुभवन् निर्विघ्नं शयिष्ये। मदिरां विना यौवनमदिरा न स्वादीयसी भविष्यति। तदलं विलम्बेन!
(महिषी त्रिपादिस्थितं मदिराचषकमानीय आलमगीरस्य हस्तेऽर्पयति)
औरङ्गजेबः – (सोच्छवासं ध्यानमग्नस्सन् किञ्चिदस्फुटं व्याहृत्य)
अयि भोः परमेश्वर! मदीनावासिन् मुहम्मद! अयमालमगीरोऽद्य व्रतमुपेक्षते । प्राणवल्लभां विमनस्कां द्रष्टुं न पारयामि प्रभो! इयम्मे नेत्रप्रभा, इयम्मे कलेवरचेतना, इयम्मे जिजीविषा! तत्क्षन्तव्योऽयमालमगीरः! या खुदा......या अल्लाह.........।
(सविलासं महिषीसमीपमुपगम्य)
विलासिनि! इदानीमपि स्मितं न प्रकटयसि? अयमालमगीरस्त्वद्चनरक्षायै त्वत्प्रीतिनिर्यातनाय च त्वदभीष्टं सम्पादयति।
(इति यावदेव चषकं कम्पितकरेणोत्थाप्य अधरपुटं नयति तावदेव जौनाबाई सवेगं कराघातेन दूरं क्षिपति। चूर्णितं भवति सुराचषकम्। सुरागन्धश्च निखिले वासकक्षे प्रसरति)
औरङ्गजेबः – (चकितस्सन्) प्राणेश्वरि! किमिदमत्याहितम्?
जैनाबाई – (पादयोर्निपत्य)
जगदाश्रय! आत्मानं प्रति भावत्की प्रीतिः परीक्षिता मया। उत्तीर्णोऽत्रभवान्। क्षुद्रदास्यः कृते स्वजीवितव्रतमपि त्यक्तुं बद्धपरिकरो राजराजेश्वर इतिकृत्वा परं विलज्जिताऽस्मि। तत्क्षन्तव्येयं चरणसेविका।
(इति पुनरपि पादयोर्निपतति)
औरङ्गजेबः – (पाणिभ्यामुत्थाप्य मधुरं लालयन्)
उतिष्ठ, उतिष्ठ जीवितेश्वरी! त्वत्परीक्षितोऽयमालमगीरः कृतकृत्यमनुभवत्यात्मनम्।
(चुम्बितं विचेष्टमानः)
तत्किमधिनाऽपि पिपासुरेव स्थास्यत्ययं परीक्षार्थी?
जैनाबाई – (बिम्बाधसदयमर्पयन्ती, सोपगूढम्)
अलं पिरतीक्षया स्वामिन्! मदिराघटोऽयं प्रस्तुत एव।
औरङ्गजेबः – (आलिङ्गनबद्ध एवाधिपर्यङ्कमुपविशन्)
हृदयाधिराज्ञि! किन्तेऽपरमभिलषितं वर्तते? ननु पश्य,
सुतनु! तव सुखार्थ किन्न कर्तुं समर्थ-
स्तव रतिसुखसेवी सोऽयमौरङ्गजेबः!
निखिलमपि विकीर्ण राज्यसौख्यं त्वदर्थे
पुरपरिजनधर्मञ्चापि शक्तोऽपहातुम्।।१०।।
जैनाबाई – प्राणवल्लभ! न किमपि। तथापीच्छामि,
भृङ्गं कोऽपि न वारयेत्कलिकया बद्धानुरागाञ्चलं
साम्राज्ये मुगलेश्वरस्य न पिकं गीतैर्विदध्याच्च्युतम्।
नृत्यन्तौ चरणौ हसन्नु वदनं दध्युर्न विच्छायतां
प्रीतिर्देव1 समर्च्य ताजमहले देवीपदं नीयताम्।।११।।
समर्चितमृत्तिकम्
पात्रपरिचयः
उद्घोषकः
चतुर्धुरीणः----------------- चौधरीनामा ग्रामवृद्धः
गोविन्दः----------------- प्रयागविश्वविद्यालीय कश्चिद्युवा छात्रः
राजेन्द्र सिंहः----------------- वीरसैनिकः
उमरावसिंहः----------------- वीरसैनिकः
आशारामत्यागी----------------- नायकोगुल्मपतिः
वल्लभरामशर्मा----------------- सेनापण्डितः
शतमिताश्चान्ये----------------- सैनिकाः
रचनाकालः, मई १९७९ ई.
मान्धात्रादिनृपप्रतापविसरद्धूमध्वजालोकिता
सावित्रीनगनन्दिनीजनकजाचारित्र्यगन्धोच्छ्रिता।
विद्याज्ञानकलाकलापजननी लीलास्थली मध्वरे-
र्नित्यं स जयतादमोघकुशलाऽस्माकं धरित्री चिरम्!!१।।
अपि च
काश्मीरं मुखमण्डलं नगपतिर्नीहारहारावली
बाहूपञ्चनदासमौ प्रविततौ विन्ध्यो नु वक्षःस्थलम्।
पादौ केरलतामिलौ जलनिधिर्यस्याश्च पदायाम्बुभृत्
कालिन्दीसुरसिन्धुहृद्यनयनां तां जन्मभूमिं नुमः।।२।।
(इत्यवसिता नान्दी)
(१९६५ मितस्य ख्रीस्ताब्दस्य सितम्बरमासीया पञ्चविंशतितारीका। प्रवर्तमानस्य भारतपाकयुद्धस्य पञ्चविंशतितमो दिवसः। मयराष्ट्र (मेरठ) जनपदस्य पनवाड़ीनाम्नी ग्रामे प्रातर्वेलायां युद्धसमाचारोत्सुकाः ग्रामीणजनाः समवेताः सन्तिः। ततोऽनुश्रूयते तारतारं रेडियोवार्ताप्रसारणम्)
इयमाकाशवाणी। साम्प्रतं नवीनतमा युद्धसमाचाराः श्रूयन्ताम्। देहलीनगरस्थिते रामलीलास्थले सुमहान्तं जनसम्मर्दं सम्बोधयता प्रधानमन्त्रिणा श्रीलालबहादुरशास्त्रिणा संघुष्टं यद्भारतीयसेना पाकसैन्यं धूलिधूसरीकर्तुं न सङ्कोचलेशमेष्यति। अस्माकं सैनिकाः प्रतिपलमेव विजयश्रियं प्राप्तुवन्तस्सम्प्रति लौहपुर (लाहौर) मप्युपरून्धन्तीति श्रुतम्मयेदानीमेव। भवन्तस्सर्वे देशवासिनः स्वमनोबलं नितरामुन्नमन्तून्नमयन्तु चेति सम्प्रार्थ्यत इति।
(निमेषमात्रं विलम्व्य)
आकाशवाण्याः समरर्सवाददात्रेदानीमेव समाचारोऽयं प्रेषितो यज्जाटवाहिन्याः मण्डलत्रयेण परिवारितो मेजरआशारामत्यागीमहोंदयो लौहपुरप्रवेशद्वारं डोगराईग्रामं स्वायतीकर्त्तुं नितरां बद्धपरिकरस्संलक्ष्यते। तथा हि,
गोमन्ते दर्शितश्रीः पुनरपि विजयी श्रीक्रमस्याभियाने
कच्छे स्वच्छप्रचारो भुजबलविजितानेकर्दुर्धर्षलक्ष्यः।
सोऽयं विक्रान्तशूरो विरचितकवितैभलसिन्दूरबिन्दुः
संरोद्धुं डोगराईं प्रलयजलधरोद्दामवेगोऽभियाति।।३।।
इति वार्ताः। पञ्चदशकलानन्तरं पुनरपि युद्धसमाचारा आकर्णितुं शक्यन्ते। तदवधिं यावत् प्रतीक्षन्तामिति दिक्।
(रेडियोवार्ताप्रसारणमपक्षीयते। सर्वेऽपि श्रोतारः सकरतालं सोल्लासं त्रिवर्णध्वजजयनादं भारतवसुन्धराजयनादञ्च घोषयन्तो नृत्यन्ति कूर्दन्ति)
चतुर्धुरीणः - (श्मश्रूणि सारयन् सोत्कण्ठम्)
गोविन्द1 त्वं तावत् प्रयागविश्वविद्यालयेऽध्ययनं करोषि। तव कृतेऽवश्यमेव सर्वं वृत्तं हस्तामलकमिव भविष्यति।
गोविन्दः – (सविनयं सस्मितम्)
तात चतुर्धुरीण! अलं प्रहेलिकया। विवक्षितं तावत् स्फुटमुपनयतु भवान्! किं प्रष्टुं वाञ्छति?
चतुर्धुरीणः – वत्स! एतावदेव यत्किन्नु कारणमस्य युद्धस्य? कथं खलु शान्तिप्रियं विकासोन्मुखं संघनिरपेक्षं भारतमुद्वेजयति पाकिस्तानदेशः? एते हि हृदयहीनाः बर्बराः मातृभूमिं विखंड्य पृथग्देशं कृतवन्तः। जाने कियतः शिष्यधर्मावलम्बिनः पञ्चनदीयान् हिन्दून् स्वगृहाद् वियोज्य निष्कासितवन्तो व्यापादितवन्तश्च।
खण्डितोऽयं भारत देशः। बङ्गा विभक्ताः, पञ्चनदा विभक्ताः, परकीयोऽभूत सिन्धुदेशः। विभाजने सम्पन्नेऽपि भरतं पाकिस्तानाय पञ्चपञ्चाशतकोटिमितानि रुप्यकाणि क्षतिपूर्तिव्याजेन प्रायच्छत्। सर्वमिदं दृष्टं मया वत्स! किमधिकम्,
आक्रान्तारोऽपि सन्तो भरतभुवमिमां स्वामहो मन्यमानाः
शाहंशाहाभिधाना मुगलनृपतयोऽकब्बराद्यामहान्तः।
स्थापत्यं रक्षमाणाः स्वविजयकथया मण्डयाञ्चक्रूरेव
तद्वंशीयास्तुरुष्का अवनिमनुपमां तेऽन्यथा कल्पयन्ति।।४।।
गोविन्दः – (आश्वस्तः सन्)
युक्तमाह भवान्! पितामह, यन्मया सम्प्रति सश्रमं सम्पठ्य ज्ञायते ततोऽप्यधिकं भवता प्रत्यक्षीकृतम्। अतएव प्रचण्डमार्तण्डाय दीपदर्शनकल्पमिदं मत्कृतं ज्ञापनम्। तथाप्यस्मिन् सन्दर्भे किञ्चित्कथयितुमिच्छामि।
चतुर्धुरीणः – (किञ्चिदग्रेसरीभूय)
अवश्यम्, अवश्य कथय वत्स!
गोविन्दः – पितामह! विदितचरोऽयं वृत्तान्तो भवतोऽपि यत्पाकिस्ताननिमितिः केवलं गौराङ्गनयवर्त्मवशीकृतचेतनस्य जिन्नामहोदयस्य नभस्सुमकल्पनाऽऽसीत्।
चतुर्धुरीणः – (सग्रीवान्दोलनम्)
बाढम्, बाढम्। यदि नामैवं नाभविष्यत् तर्हि कथं खल्वद्यपि षट्कोटिमितास्तुरुष्का भारतदेश भवेयुः।
गोविन्दः – परन्तु निर्मितोऽपि, संस्थापितोऽपि, विविधसंघसम्मिलितोऽपि, अम्बरीषदेशदास्यमुपगतोऽपि लोकतन्त्रविरोधो पाकिस्तानदेशोऽन्नजलसुरक्षाभाववशादद्यापि स्थिरतां नोपयाति।
चतुर्धुरीणः – शौभनमुच्यते वत्स! श्रुत्म्मया यद्बंगदेशीयास्तुरुष्का अपि पृथग भवितुमिच्छन्ति। प्रतीच्यपाकदेशेऽपि ख़दाईख़िदमतगारनाम्ना विख्यातायाः संस्थायाः वृद्धनायकः सीमान्तगान्धी पख्तूनानां कृते स्वायत्ततां याचमानो निरङ्कुशैः पाकंदेशशासकैः कारागारे श्रृङ्खलितः।
गोविन्दः – (साश्चर्यम्)
पितामह! मत्तोऽप्यधिकं ज्ञायते। साधु भणितं भवता। पाकिस्तानदेशे मात्स्यन्यायः प्रचलति। य एव राजनीतिमहावृक्षः क्षुपानभिभूयातिवर्द्धते स एव द्विनालिकगुलिकया सर्वजनसमक्षं निपात्यते। इस्कन्दरमिर्जां...........लियाकतअली............ विधातक्रमेऽस्मिन् न जाने कियन्तो महावृक्षा अग्रेऽपि समायास्यन्ति। मन्ये,
छलदुरितविधानैस्सोदरान् घातयित्वा
निरतिशयसुखाढ्यां खण्डयित्वा धरित्रीम्।
ऋतसरणिविरोधी पाकदेशोऽभिशापं
ह्यनुभवत् नितान्तं भारतीया चलायाः।।५।।
चतुर्धरीणः – वत्स गोविन्दः! बन्धुद्रोहिणां रावणयमाणानामियमेव गतिः। मधुरं भवति सन्तोषस्य फलम्! भगवतो गृहे कामं विलम्बोऽस्तु, न तावद्ब्रह्मण्यम् ।
गोविन्दः – साधूक्तं भवता। इदानीं पाकिस्तानदेशस्य सेनानीराष्ट्राध्यक्षोऽयूबखानोऽपि पूर्वपरम्परां निर्वहन् धृत्भारतमत्सरो युद्धकण्डूतिमनुभवति। आत्मप्रवञ्चनेयं राष्ट्रप्रवञ्चनेयम्। युद्धविपत्तिं संघोष्य देशवासिनां मनश्चेतनाया विषयान्तरोन्मुखीकरणमेव पाकशासकानामन्तिम आत्मरक्षोपायः। पश्यतु भवान्,
काश्मीरं संकटापन्नं सीमाऽस्माकं ह्यरक्षिता।
भरतं विरूणद्धयस्मान्भारतं विजुगुप्सते।।६।।
एकीभवत रक्षायै इस्लामोऽप्यभिभूयते।
इति धर्म्याय युद्धाय धर्मान्धान् प्रेरयन्ति ते।।७।।
चतुर्धुरीणः – वत्स! प्रत्यक्षरं सत्यमुक्तं त्वया। हृच्छूलायतेकाश्मीरम्! काश्मीरं विना पाकिस्तानदेशो नस्वास्थयमनुभवति। यतो हि १९४८ मिते ख्रीस्तांब्द एव प्रथमवारं तेनासच्चेष्टया काश्मीरविजयार्थं प्रयतितम्। परन्तु लौहपुरुषाणामस्माकं गृहमन्त्रिणां पटेलमहाभागानां कण्ठीरवोद्घोषमात्रेण क्षेत्रपुरुषायमाणाः पाकदेशसौनिकाः पलायाञ्चक्रुः। एतस्मिन्नवसरे किं भविष्यति द्रष्टव्यमिदम्!
गोविन्दः – मन्ये, पुनरपि विजयश्रीः भारतमूरीकरिष्यति। भारतवीराणां शौर्यन्तु जगत्प्रसिद्धम्। मातृभूमिरक्षायै प्राणानपि पणीकृत्य योद्धुं जानन्ति भारतीयसैनिकाः। काश्मीरं पुनः भारतजनन्याः ललाटपट्टककाश्मीरेव! कथं तावत् कविकाकुङ्कुमप्ररोहस्थलं शारदादेशं तं केनचिल्लुण्ठाकापसदेन न्यक्क्रियमाणं द्रष्टुं शक्नुमो वयम्?
(घटिकायन्त्रं विलोक्य)
अये पञ्चदशकला व्यतीताः! पुनरपि रेडियोप्रसारणं श्रृणुमः।
(गोविन्दो रेडियोयन्त्रं प्रेरयति। वक्तव्यं श्रूयते)
इदमाकाशवाण्या इलाहाबादवाराणसीलखनऊकेन्द्रम्। सम्प्रति भवन्तः समरेतिवृत्तं श्रृण्वन्तु। अस्माकं वाहिनी प्रायः सर्वत्रैव पाकिस्तानसैन्यं सञ्चूर्णयन्ती नितरामग्रेसरति। युद्धेऽस्मिन् निखिलोऽपि देशो दत्तचित्तः। उत्तरप्रदेशराज्यं पुनः विशेषेण योगं ददाति।तदिदानीं प्रस्तूयते सामनयिको निबन्धः। अस्य शीर्षकं विद्यतेभारतपाकयुद्धे संलग्नानाम् उत्तरप्रदेशीयसैन्यवीराणां परिचयः। अद्यास्मिन् निबन्धे येषां प्रमुखसैन्यसञ्चालकानां गुल्मपतीनां परिचयो दीयते क्रमेण तेषां नामानि श्रृण्वन्तु भवन्तः। मेजर आरशारामत्यागी, हवलदार उब्बदुलहमीदः मेजर रणवीरसिंहः लेफ्टीनेण्ट सुखवीरसिंहः, सेकिण्डलेफ्टीनेण्ट जबरसिंहः, विमानचैलकः ट्रेवरकीलरः, स्क्वाड्रनलाडर डेनजीलकीलरश्च।
(सर्वेऽपि श्रोतारो हर्षातिरेकशिथिलगतयस्सन्तो रेडियोयन्त्राभिमुखीभूय तिष्ठन्ति।)
लौहपुरविजयद्वारभूते डोगराईक्षेत्रे सैन्यसञ्चालनिन्तस्य गुल्मपतेर्मेजरआशारामत्यागिनो जन्मोत्तर प्रदेशस्थमयराष्ट्र (मेरठ) जनपदे फतेहपुरनाम्नि ग्रामेऽष्टत्रिंशदधिकोनविंशतिशततमे (१९३८) ख्रीस्ताव्देऽभवत्। अस्य पितृचरणश्र्श्रीसगुआसिंहत्यागीमहोदयः सम्प्रति फतेहपुरग्रामंप्रधानमास्ते।
चतुर्धुरीणः – (गर्वोन्नतस्सन्)
साधु वत्स साधु! पवित्रीकृतं त्वयाऽस्माकं जनपदं मयराष्ट्रम्!
(पुनश्श्रूयते)
देशप्रेमसमाजसेवादिभव्यभावसंमवलितो द्वाविंशतिवर्षदेशीयोऽयं युवको मोदीनगरे मयराष्ट्रनगरे च विंद्याध्ययनं परिंसमाप्य एम्. ए. परीक्षाञ्चोत्तीर्य भारतीयसेनायां प्रविष्टः। तत्रापि च षोड्शवर्षाभ्युपेयां पदोन्नतिं वर्षचतुष्टयमात्रेणैव समवाप्य मेजरपदेऽभिषिक्तः। अस्मिन्नेव सत्रे जूनमासस्य सप्तविंशतितारिकायां (२७ जून ६५ ई.) एम्. ए. परीक्षोत्तीर्णया कवितादेव्या सार्धमस्य सैन्यवीरस्य पाणिग्रहणं सम्पन्नम्।
सितम्बरमासस्य प्रथमंतारिकायामेव सम्प्रवृत्तं भारतपाकसमरे सैन्यवीरोऽयं नियुक्तो डोगराईक्षेत्रे। इतस्तावल्लौहपुरं नातिदवीयो वर्तते।
विजयाभियाननिदेशं सादरं स्वीकृत्य मेजरआशारामत्यगी जाटवाहिन्या मण्डलत्रयेण परिवृतस्सन् सितम्बरमासस्य एकविंशतितमे दिवसे (२१ सितम्बर) लखनाग्राममाक्रम्य तं सरलतयैवाध्यकार्षीत्। तदनन्तरञ्चापि नितरामग्रेसरन्निच्छोगिलकुल्यातटमुपेतस्साम्प्रतम् अरातिगतिविधिं साधु नीरीक्षते। सम्मुखं विद्यते डोगराईनगरम्, यद्रक्षणार्थं पाकिस्तानसेनायाः पठानवाहिनी पञ्चनदवाहिनी च बद्धपरिकरे स्तः। एवमाशास्यते यदद्यैव तत्र निर्णायकं युद्ध भविता।
सुनिश्चितं खल्वस्माकं सैन्यप्रमुखस्य साफल्यम्!
(कतिचित्कलां यावद् विलम्व्य)
हवलदार अब्दुलहमीदोऽपि प्रदेशस्यास्यैव रत्नम् (इत्यर्धोक्ते)
गोविन्दः – पितामह! किमनेन श्रुतिविस्तरेण? सैन्यवीराणां परिचयेनापरिचयेन वा किम्। अद्यतना युद्धसमाचारा एव कर्णगोचरीकर्तव्याः। अतएवान्यत् किमपि प्रसारणंकेन्द्रं योजयामि।
चतुर्धुरीणः – अवितथं भणसि वत्स। एषोऽवहितोऽस्मि।
(गोविन्दो योजयितुमुपक्रमते प्रसारणंकेन्द्रानन्तरम्)
(इति प्रस्तावना)
उद्घोषकः – (नेपथ्ये)
भारतपाकिस्तानयुद्धस्य पञ्चविंशतितमोऽद्य दिवसः। जाटवाहिन्याः मण्डलत्रयेण संवर्धितविक्रमो मेजरआशारामत्यगी डोगराईविजयार्थमेष सम्प्रतिष्ठते। विकटमिदं युद्धक्षेत्रम्। इच्छोगिलकुल्यातटेषु तावदन्तराऽन्तरा शत्रुभिः शतमितानि गूढलघुदुर्गाणि (पिलबॉक्स) निर्मितानि सन्ति यस्माद्धि पदात्पदमपि प्रवर्तमाने प्राणभयं वरीवर्तिं। प्रत्येकस्मिन् धरान्तः स्थिते लघुदुमर्गे शतघ्नीत्रयं तद्योजकत्रयञ्चापि सन्निहितम्। परन्तु किमनेन,
ढोकन्ते सांयुगीना अरिविजयधिया भूरिचञ्चच्छिरस्त्राः
अत्यन्तीनास्सहेलं श्रितभरतधरामृत्तिकापक्षपाताः।
सन्नद्धाश्शस्त्रनद्धास्समरमखमहे प्राणदीक्षानुबद्धाः
सम्बद्धाः प्रीतिभावैस्स्वजनपदभुवां शत्रुशाठ्यप्रबिद्धाः।।८।।
तद् वयमपि प्रशास्महे नमोवाकं भारतविजयश्रियै। विजयतां सैन्यवीरो मेजरआशारामत्यागी। शिवास्तस्य पन्थानस्सन्तु!!
(इच्छोगिलकुल्यायाः समीपमेव जाटवाहिन्याः निवेशस्थलम्। मेजरआशारामत्यागी युद्धोचितवेषं परिधाय सम्मुखस्थितं राष्ट्रध्वजं त्रिवर्णं प्रणम्य किञ्चिदवनम्य च दक्षिणेन पाणिना भूमृत्तिकामुत्पाट्य प्रदर्शयन् सैनिकान् प्रति)
मत्प्रियाः बन्धवोः भारतसैनिकाः! पश्यन्तु भवन्तः ह्यमस्माकं जन्मभूमि मृत्तिका। अस्यामेव वयं समुतपन्नाः सम्पोषिताः सम्वर्धिताः। अस्माकं धमनीषु भारतराष्ट्रमृत्तिकाया एव जलान्नं रक्तीभूय प्रवहतितराम्। पाकिस्तानसीमायां प्रविष्टा वयम्। किन्त्वियमपि मृत्तिकाऽसमाकमेव। इयमेव तावत्सिन्धुसभ्यतायास्थली। अत्रैव सरस्वतीतटेऽस्मत्पूर्वजैर्वेदमन्त्रा उच्चारिताः। आर्यजनैवरत्रैव सत्यरक्षार्थं दाशराज्ञयुद्धं प्रारब्धम्।
अद्य जन्मभूमिः स्वकीयम् ऋणं याचते। आत्मायं सनातनः। शरीरमेव नश्वरम्। गृहे स्थितोऽपि, विषयवासनामज्जितोऽपि जनो म्रियते एव। परन्तु छत्रपतिपुत्रा राणाप्रतापकुलजा अशफाकुल्लावंशधरा वा न कातरीभूय छागीभूय मेषीभूय कीटीभूय प्राणांस्त्यजन्ति। वीरपुत्राणां वीरगतिर्भवति, स्वर्गलोकश्च प्राप्यते!
मत्सङ्गिनः तदलं विलम्बेन! परीक्षेवेलेयं पुरुषार्थस्य१ राष्ट्रमृत्तिकायास्समर्चनं रक्तदानेन प्राणदानेन वा क्रियताम्। अहमग्रेसरीभवामि। यूयं सर्वे मन्निर्दैशानुसारं शत्रुवाहिनीं परितोऽपि समाच्छाय विनाशयत। सम्प्रति मदुच्चारितंवाक्यमनुवदत,
हर हर महादेवऽऽऽऽऽ
जाटां दी फतहऽऽऽऽऽ
(निखिलमपि सैन्यं समुच्छलितोत्साहमनुवदति)
वल्लभरामशर्मा – सेनानित् मुहूर्तमात्रमितस्तावत्। रक्षासूत्रं बालतिलकञ्च विधास्ये। मङ्गलवेलेयं विजयप्रदायिनी। प्रस्थातव्यमधुना।
(इति आशारामस्य दक्षिणमणिबन्धे समंत्रोच्चारणं रक्षासूत्रं बध्नाति, दव्यक्षतहरिद्राविशेषकञ्च रचयति। आशारामस्सादरं प्रणमति)
वल्लभरामशर्मा – विजयस्व वत्स!
आशारामत्यागी – (सोत्साहं सत्वरम्)
राजेन्द्रसिंह! उमराव सिंह!! किमुच्यते युवाभ्याम्?
राजेन्द्र सिंहः – मेजर! वयं सर्वेऽद्य प्राणान् पणीकृत्य भवदनुगमिष्यामः। पाकसैनिकाः द्रक्ष्यन्ति सम्पति शौर्यपराक्रमस्माकम्। तदलं विलम्बेन! प्रस्थातव्यमधुना।
(पुनरपि “हर हर महादेव”........ “जाटां दी फतह” इतिध्वनिर्नभोविधारं श्रूयते। व्यूढकङ्कटाः सैनिका आग्नेयास्त्राणि हस्तयोर्गृहीत्वा क्वचिन्मण्डलीभूय क्वचिदेकलीभूय वा द्रुतमग्रे धावन्ति। प्रारभते खलु तुमुलयुद्धम्। श्रूयतेऽनारतं शतघ्नीविस्फोटद्वनिः। द्विनालितगुलिकास्ससनत्कारमभितः परितश्चावकाशं विघ्यन्त्यः प्रवर्तन्ते)
आशारामत्यागी – (दूरवीक्षणयन्त्रेण सम्मुखमवलोक्य सोद्वेगम्)
उमरावसिंह! पश्य तावत्! शत्रुभिः कियन्नृशंसमाचर्यते? सत्यमेवैते बर्बरतुरुष्काः सर्वथा हृदयहीना भवन्ति।
उमरावसिंहः – (ससम्भ्रमम्) श्रीमन् किमापतितम् अनर्थकरम्?
आशारामत्यागी – अलं पृच्छवा। त्वमेव तावत्पस्य। शतध्नीमुखेभ्यो ज्वलदग्नि पिण्डान् उद्वमन्ति दुर्दान्तटैङ्कयानानि एकादशमितानि दुर्वारथ गत्येत एवागच्छन्ति। पश्य तावत्!
(इति दूरवीक्षणं प्रयच्छत्युमरावसिंहाय)
उमरावसिंहः – (तथा कृत्वा सभयं सोद्वेगञ्च)
मेजर! सम्प्रति प्रातरेव प्रलयसन्धयोपस्थिता। अस्मच्चतुर्गुणां सैन्यशक्तिं प्रयुनक्ति शक्षुपक्षः।
आशारामत्यागी – वीर! अलं कातर्येण। मयि आशारामे जीवति नैराश्यं मा स्म गमः। एष गच्छामि।
(इति सैन्यानाद्बहिर्विकूर्द्य टैंकयानघ्वंसिगोलकानि च ग्रीवावलम्बिवस्त्रपुटे निधाय गन्तुमिच्छति)
उमरावसिंहः – (सवेगम् आशारामं पाणिभ्यामाबध्य)
श्रीमन्! किमिदमनर्थमुपकल्प्यते? मयि जीवति नेदं सम्भवम्। मादृशाः छुद्रसैनिकास्तु जायन्ते म्रीयन्ते, लक्षमिताश्च सन्ति भारतदेशे! परन्तु भवादृशं प्रत्युत्पन्नमतिपरायणं विलक्षणसैन्यसञ्चारमेधं महावीरं प्रणाश्य भारतवसुन्धरा निर्वत्योत्सङ्गा भविष्यति।
तदुमरावसिंहोऽयं प्रयाति मातृभूमिरक्षायै।
आशारामत्यागी – (साधिकारम्)
उमरावसिंह! मा विस्मर सैन्याचारसंहिताम्! त्वं तावन्ममाधिकारे तिष्ठसि। अलं ममत्वेन!
उमरावसिंहः – (नेत्राभ्यामश्रूणि पातयन् सदैन्यम्)
उमरावसिंह! जीवने रक्षिते सतिपुनर्मिलिष्यामो वयम्। विजयतां भारतजननी! विजयतां भारतराष्ट्रम्! हर हरह महादेवऽऽऽ जाटाँ दी फतह
(पाकिस्तानस्य टैङ्कयानानि समीपमुपयान्ति। लक्ष्यबृत्ते समायात एव त्यागी वस्त्रपुटादाग्नेयपिण्डमेकं गृहीत्वा यावच्छक्तिवेगं प्रक्षिपति। क्षणानन्तरमेव टैङ्कयानं ज्वलदनलपरीतं संलक्ष्यते। करुणं क्रोशन्तो मृत्युव्यथां नाटयन्तश्च टैङ्कारोहिणस्सैनिकाः पञ्चत्वमुपयान्ति) आशारामत्यागी – (स्वगतम्) सुरक्षितमिदम् उच्चावचभूंमिस्थलम्। अत्र तावत् सर्पीभूय लक्ष्यबैधमाचरन् शत्रुभिस्सप्रयत्नमपि न लक्षिष्ये।
(अकस्मादेव सम्मुखं पश्यन्)
अये! सार्धमेव पञ्चषाणि टैङ्कयानानि समायन्ति!
(सस्मितम्)
विजयतां करुणावरुणालयः! सुप्तस्य सिंहस्य मुखे मृगाः स्वयमेव प्रविशन्ति? एते भाग्यहतका न जानन्ति यन्महिषवाहनो भगवान् यमोऽत्रैव आशारामीभूयप्रच्छन्नः!
(सोल्लुण्ठम्)
आयात मे प्रतिवेशिनः! आयात!! एष सज्जोऽस्ति तेऽभिनन्दनार्थं त्वत्प्राणर्चिन्तको भृत्यः!!
(टैङ्कयानानिपुरस्सरन्ति। निपुणं निरीक्ष्याशारामोऽप्रतिहतगत्य़ा सतताग्नेयगोलकक्षेपणैस्तानि ध्वंसयति। दारुणं चीत्रकारपलायनप्राणत्यागध्वनिः प्रसरति। उत्पतिष्णून्यर्चींषि ज्वलट्टैङ्कनलानां सन्दृश्यते)
आशारामत्यागी – (हर्षातिरेकमनुभवन् प्रकटीभूय साट्टहासम्)
क्व गतोऽसि प्रतिवेशिन्! न दृश्यसे साम्प्रतम्!! क्षेत्रमिदानीं निर्मक्षिकं जातम्।
(अकस्मादेव द्विनालिकगुलिकासारेण वक्षी विदीर्यते)
आशारामत्यामगी – (बामहस्तेन वक्षोरुधिरमुपरुन्धन् भूमौ निपतति)
हा मातृभूमे! किमिदम्। जननी! न त्वत्सेवयेदानीमपि आशारामस्य तृप्तिः। तत्कथमशक्तिकृतोऽस्मि!
(समक्षं पुनरपि टैङ्कयानं दृष्ट्वा)
मन्ये एभिरेव सन्दृष्टः प्रविद्धोऽस्मि। भवति, फलमपि झटिति दास्यामि।
(शम्पावेगादुत्प्लुत्य टैङ्कयानमाक्रामते ध्वंसयति च। उच्छिकाग्निज्वालार्नितरां सन्दग्धा भस्मीभवन्ति तुरुष्काः)
आशारामत्यागी – (मूर्च्छामनुभवन् धरामाश्रयते)
भारतजननी! एष ते वत्सस्तवोत्सङ्गमाश्रयते। मातः! वक्षोरुधिरैस्समर्च्यते मया ते मृत्तिका। अम्ब! वरम्मे देहि, यदा यदा मे जननं जायेत, तदा तदाऽनेनैव प्रकारेण त्वत्सेवायां प्राणा अर्पिताः भवेयुः!
उद्घोषकः – (नेपथ्ये)
विजयतां भारतजननी! अधिकृतं डोगराईनगरं भारतीयसैनिकवीरैः। पलायिताः युद्धसामग्रीं प्रभूतां परित्यज्य पाकसैनिकाः। भिन्नाति तेषां भूगर्भदुर्गाणि (पिलबॉक्स), इच्छोगिलकुल्याऽप्यतिक्रान्ता। साम्प्रतं डोगराईमध्ये दोधूयेत त्रिवर्णध्वजः (तिरंग झण्डा) भारतस्य!
आशारामत्यागी – (रोमाञ्चमनुभवन्)
साम्प्रतं सानन्द प्राणास्त्यक्ष्यामि (इति मूर्च्छति)
उद्घोषकः – (नेपथ्ये)
ध्वस्तं येन दशद्वयं समधिकं द्वाभ्यां नु टैङ्काभिधं
यानं पातवरूथिनीविभवदं हौरेकमात्रेऽनघः।
क्वासो गुल्मपतिः प्रवीरसुभटो जाटध्वजिन्यग्रणीः
आशाराम इति व्यथार्तंमनसा युद्धाङ्गणं वीक्ष्यते।।९।।
आशारामत्यागी – (चेतनालेशमवाप्य)
अये! मदन्वेषणपरायणाः गुल्मसैनिकाः व्यर्तमेवानर्थाशङ्किनो दुःखमनुभवन्ति!
(उत्थातुमिच्छन् सदैन्यम्)
आः रे दैव! किं करोमि मन्दभाग्यः? उत्थातुमपि न प्रभवामि! भवतु, रिवाल्वरगुलिकां विस्फोट्य सङ्केतयामि।
(इति सश्रमं रिवाल्वरविस्फोटन् विदधाति। अकस्मादेव विस्फोटशब्दमाकर्ण्य परश्शताः सैनिकाः धावन्तस्समायान्ति, गुल्मपतिं जीवितञ्च दृष्ट्वा महता हर्षसम्मोदभरेण द्विनलिकाः स्कन्धेष्वाराप्य नर्तितु गातुञ्चारभन्ते)
उमरावसिंहः – (जनसम्मर्दमतिक्रम्य मेजरसमीपमुपसृत्य क्षतविक्षतञ्च विलोक्य सपरिदेवनम्)
श्रीमन्! ममानुरोधो नाङ्गीकृतो भवता निरनुक्रोशेन। साम्प्रतमियं श्रीमता दसा?
(इति पटाञ्चलेन मुखमावृत्त्य करुणं रोदिति, सर्वेऽपि सैनिकाः गादीभवन्ति)
आशारामत्यागी – (सस्नेहम्)
उमरावसिंह! मत्प्रियाः सैनिकबन्धः!! कोऽयं भवतां व्यामोहो विसर्जनवेलायाम्? मातृभूमेः सुमहान्तम् ऋणं प्रत्यादाय सन्तोषमनुभवति मेऽन्तरात्मा! भूयोऽपि विजयं कामये भवताम्।
राजेन्द्रसिंहः – (सत्वरमुपेत्य)
उमरावसिंह! अलं विलम्बेन। अनर्थसम्पातो भविष्यति। सैन्यवाष्पयनं मयानीतं सज्जं वर्तते। तदेहि, मेजरमहाभागं तस्मिन्निवेश्य अमृतसरनगरस्थिते सैन्यौषधालये नयावः।
उमरावसिंहः – (सधैर्यम्)
साधु भणितं त्वया। झटितिकरणीयमिदं कार्यम्।
आशारामत्यागी – (सशौर्यं समुत्थापितैकपार्श्वस्सन्)
उमरावसिंह! तिष्ठ मुहूर्तमात्रम्। साम्प्रतं समाप्ता जिजीविषा। मध्येपथमपि मृत्य़ुर्मे सम्भवति। तत्सावधानं मत्सन्देशमवधार्यं मयि दिवङ्गते सति तदनुकूलं कुर्याः।
उमरावसिंहः – (करुणं विलप्य)
एषोऽविहितोऽस्मि। सन्दिशतु सैन्यवीरः।
आशारामत्यागी – (किञ्चिद् विमृश्य)
निष्प्राणं मच्छरीरं नीयतां मज्जनपदग्रामे यथा मे पितरौ तदालोड्य विलोड्य निपुणमवेक्षेतामवगच्छताञ्च यत्तयोः पुक्षेण मेजरआशारामत्यागिना सर्वा एव गुलिकाः वक्षः स्थलोपर्येव सोढाः पृष्ठोपरि नैकापि! उमरावसिंह! इयमेव मदाकांक्षा,
प्रत्येकं जनिरस्तु मानवकुले शौर्यव्रते शंसिते
प्रत्येकं जननञ्च मे प्रभवतादस्मिन्नवे भारते।
एवं स्यान्निधनञ्च मित्रपरिधौ भूमिस्थले कोमले
नान्या कापि सुखावहा परतराऽऽकांक्षा मदीया सखे!!१०।।
साम्प्रतं जलंनिपाय्य यथारुचितं कुरु!
(सोच्छवासं वेदनामभिनीय)
वि.............धि...........विजयतां................मे...............भाऽऽर...........तम्!!
(इति मूर्च्छति)
छलिताधमर्णम्
पात्रपरिचयः
सूत्रधारः----------------- नाट्यप्रस्तावकः
इन्दुप्रकाशः----------------- महोत्सवायोजकः
प्रमुखः----------------- विकासखण्डप्रमुखः महोत्सवामुख्यातिथिः
आलोकः----------------- कथानायकः
शिरोमणिः----------------- आलोकस्य पिता
लक्ष्मीः----------------- आलोकस्य माता
रचनाकालः, मई १९७९ ई.।
(उत्तरप्रदेशस्य जौनपुरजनपदे स्थितम् उपस्यन्दिकापगं ग्रामस्थानं द्रोणीपुरम्। ग्रामाद् बहिः पश्चिमायां दिशि निरन्तरालम् आम्रवणं दृश्यते। मध्ये मध्ये च मधुपजम्बूतिन्तिडीतालवृक्षाश्चापि क्वाचित्कतयाऽवलोकयन्ते )
(आम्रवणस्य दक्षिणभागे मृत्तिकाचत्वरोपरि सुविशालं वितानं शौभते। वितानमण्डपस्याग्रवर्तिनि भागे युवारङ्गमञ्च, द्रोणिपुर, जौनपुरेति हिन्दीभाषोट्टङ्कितप्रलेखमण्डितं धवलवस्त्रपट्टकं किञ्चिद्दोधूयमानं परिलक्ष्यते।)
(मृत्तिकाचत्वरस्य पुरतो हस्तिनखे विस्तृतभूमिभागे ग्रामाणाः जनाः दिदृक्षुमुद्रोतकण्ठितास्तिष्ठन्ति। जनसम्मर्दमध्ये रङ्गमञ्चनिक्रियत्वोद्वेजितानां स्तनन्धयबालशिशुकुमाराणामस्फुटालापः स्फारीभवति। अकस्मादेव नैश्शब्द्यं प्रभवति। ध्वनिविस्तारकयन्त्रादनुश्रूयते सन्देशः। सर्वेऽवहिताः जायन्ते)
इन्दुप्रकाशः – अयि भोः परमश्रद्धेयाः सहृदया अस्मद्ग्रामंजनाः! मन्ये कार्यक्रमस्यालसविलम्बितेन भवन्तस्सर्वे समुद्विग्नाः वर्तन्ते। परन्तु विलीयते इदानीं नैरास्यकुज्झटिका भवताम्। एतेऽसमाकं विकासखण्डप्रमुखमहोदयः राराज्यन्तेऽधिमञ्चम्।
द्रोणिपुरनवयुवकरङ्गमञ्चस्य तत्त्वावधाने समायोजितेऽस्मिन् ग्रामोन्नतिप्रचारशिबिरस्य समापनमहोत्सवे समागतानां हार्दिकम् अभिनन्दनं भवद्वशंवदीभूय कुर्मो वयम्। सुमहतो विलम्बस्य कृते भवतामपि प्रसादनं प्रार्थये।
साम्प्रतं प्रमुखमहाभागाः प्रार्थ्यन्तेऽस्माभिः महोत्सवोद्घाटनार्थम्।
(प्रमुखमहोदया आसन्दिकातः समुत्थाय पुरतोऽभिवर्तन्ते। हस्तेनैकेन ध्वनियन्त्रदण्डमवलम्ब्य ग्रीवामुन्नमय्य सस्मितम्)
अयि भोः द्रोणीपुरग्रामवास्तव्याः बन्धवौ भगिन्यश्च! भवत्स्नेहसौजन्यवशीकृतोऽहमेष मदुत्पन्नक्लेशोद्वेगार्थं क्षमातति याचे। वाष्पयानयन्त्रदोषवशात् कथमप्यनपेक्षितोऽप्रत्याशितश्च विलम्बस्समजायतेति स्वयमपि ब्रीडितोऽस्मि।
अस्मद्विकासखण्डे भवतां ग्रामोऽयं सर्वेषु क्षेत्रेषु पुरस्सरो वरीवर्तीति जायते सुमहान् सन्तोषोऽस्माकमपि। एतद्ग्रामधराप्रसूताः नैके भाग्यवन्तो जनाः साम्प्रतं प्रदेशे देशे च प्रख्याताः लब्धप्रतिष्ठाः वर्तन्ते।
श्रीमन्तः, इदमप्यस्य ग्रामस्याप्रतिमं गौरवं यद्यास्मिन् महोत्सवेऽभिनीयमानं लघुरूपकं छलिताधमर्णम् श्रीमदभिराजराजेन्द्रमिश्रप्रणीतं वर्तते यः खलु काव्यपातोनिधितितीर्षुः कृतकविताकामिनीकुचकलशद्वयोडुपोऽस्मिन्नेव ग्रामोत्सङ्गे समुत्पन्नः। एवं खलु मयाऽपि कर्णपतातिथीकृतम् यत्,
भोजात् षष्ठोऽनुसूतो गुणममिवलयात्पञ्चमश्शीतलाद्यः
काश्मीरामाच्चतुर्थो बहलबलयुताछ्रीदुलारात्तृतीयः।
रामानन्दाद्द्वितीयो ननु पितृचरणादादिमः स्वर्गसंस्थात्
श्रीमद्दुर्गाप्रसादाच्छ्रितविनयपतः सोऽस्ति राजेन्द्रमिश्रः।।१।।
अपि च
सर्वस्वं जीवनस्यादितीगुणभरितां मातरं मन्यमानः
शान्तां क्लान्ताभिराजीं त्रितनयजननीं सोदरस्सनेहसक्तः।
गोविन्दाङ्घ्रिप्रलीनोऽसहदिह सततं कछ्रकौलीनवात्या
चञ्चच्चामीकराभो ज्वलनहृतमलस्सोऽमलस्स्याच्छतायुः।।२।।
तदहमपि नाट्यदर्शनसमुत्सुकानां भवतां द्विदलभक्तप्रतिमाणां मध्ये न तावन्मुसलीभविष्यामि। पुनरप्येकवारं भवद्भयो धन्यवादान् वितरामि।
(सहृदयसम्मर्दे करतलध्वनिः प्रभवति नेपथ्येऽनुश्रूयते)
भो भोः सहृदयजनाः साम्प्रतं प्रस्तूयतेऽस्माभिः अभिराजडॉक्टरराजेन्द्रमिश्रप्रणीतम् एकाङ्किरूपकं छलिताधर्मणं नाम। अधमर्णः पुत्रः उत्तमर्णेन पित्रा केन प्रकारेण छलितः इत्ययमेवाभिप्रायोऽस्य रूपकस्य। समाजे साम्प्रतं.......
(इत्यर्धोक्त एव जवनिकाभ्यन्तराच्छ्रूयते)
समाजे साम्प्रतं यत्प्रवर्तते तदावां निवेदयावहेऽभिनयमुखेन न खलु वचसा।
सूत्रधारः – (व्रीडाममर्षञ्च नाटयित्वा)
अये प्रथमस्थान एव मक्षिकापातः। मन्ये मन्निवेदिता प्रस्तावना न केवलं सहृदयेभ्य एवापितु मन्त्रित्रेभ्योऽपि न रोचते। का गतिः? एष गच्छामि (इत्यपक्रामति)
(ततः प्रविशति अम्बया भगिन्या मित्रेण च सार्धं विवदमानो द्वाविंशतिवर्षदेशीयः कश्चित् सुदर्शनो युवकः)
आलोकः – अम्ब! कथितम्मया सहस्रवारं यन्न तया मूढजरठया सार्धं विवाहं करिष्यामि। किन्नु खलु भवती वृथैव मां कलेशयति?
लक्ष्मीः – आलोक! जानामि वत्स! त्वदीयमादर्शम्। अनुभवामि तावकीं व्यथाम्। परन्तु किं करोमि? पतिपुत्रयोर्मध्येऽहमेषा घरट्टशिलायुगलावकाशे भिद्यमाना गोधूमततिरिव चूर्णीभवामि! का मे गतिः?
आलोकः – (जननीमासने समुपवेशयन्)
अम्ब! निषीदतु भवति मुहूर्तमात्रमत्रासने। एषोऽहं भवतीमवगतार्थां करोमि।
(भगिनीं मित्रञ्च समवलोक्य)
निर्मले! तिष्ठत्वमपि। सुशील! प्रियमित्र!! त्वमपि तावत् स्थिरो भव।
(सर्वेऽपि प्रायेण संमुखीनाः यथास्थानमुपविशन्ति)
आलोकः – अम्ब! श्रृणोतु भवति साम्प्रतम्। अयम्मम प्रश्नो यत्किमर्थमहं भवत्या सयत्नं नवमासपर्य्यन्तमुदरे धृतः। दुस्सहप्रसूतिव्यथां विस्मरन्त्याऽपि स्मेराननया जनितः? किमेतदर्खमेव यदिदं नु पुत्राभिधं वस्तुजातं श्रेष्ठिहट्टे विक्रीय लक्षपतिगृहिणी भविष्यामि?
लक्ष्मीः – वत्स! स्वप्नेऽपि मया नेदं विचिन्तितम्।
आलोकः – तत्किमर्थं तातो मा विक्रेतुमुपक्रमते? मामजाकुत्रकमेव मन्यमानोऽसौ एतावता स्नेहेन संरक्षणसंवर्द्धनपरोऽभूत्?
लक्ष्मीः – पुत्रक! न खलु पूजार्हं पितृचरणं व्यलीकवचनैराविलयुतमर्हसि। कः खलु पुत्रवान् भाग्यभाग्जनः पुत्रस्यापकारं कामयते?
आलोकः – अम्ब! किमिदानीमपि दृष्टान्तोऽन्वेषयते भवत्या? विवाहसम्बन्धेऽस्मिन् को न खलूपक्रियते? आलोकोऽयं भवत्यास्तातचरणो वा? पश्याम्ब!विवाहसम्बन्धे केवलं कन्या वरश्च प्रभवतः। अनयोरेव द्वयोः परस्परसङ्गमनेन चक्रयोस्सहयोगेन वाहनमिव जीवनमग्रेसरति।
लक्ष्मीः – (ससमर्थनम्)
युज्यते वत्स! अवितर्थ भणसि।
आलोकः – (सवितर्कम्)
किन्त्वम्ब! यदि यदिवाहनचक्रेऽधरोत्तरे स्तः यदि वा लघुमहती भवेतां तर्हि किं यानगतिस्सुखमयी भविष्यति?
लक्ष्मीः – न कदापि वत्स!
आलोकः – मातः जीवनमिदं यानमेकम्। अस्मिन्नेव याने समुपविश्य धर्मार्थकाममोक्षभिधाः पुरुषार्थाः स्वयात्रां सम्पादयन्ति। अस्मिन्नेव याने समुपविश्य मधुरमधुराः जीवनस्वप्ना हिन्दोलसौरव्यमनुभवन्ति।
अम्ब! पत्नी पतिश्चास्य यानस्य चक्रद्वयम्। अतएव द्योरेव सर्वविधसामञ्जस्यं भवितुमर्हति। अन्यथा यानमिदं यावज्जीवं स्खलद्गति भविष्यति।
सुशीलः – अम्ब! उचितं भणत्यलोकः।
निर्मला – अम्ब! शौभनं भणति सहोदरः।
लक्ष्मीः – (सोद्वेगम्)
एतावत्तु जानाम्यहमपि। किन्त्वनन्तकरणीयं साम्प्रतं चिन्तनीयम्।
आलोकः – अम्ब! मम भावी श्वसुरः कोटिपतिरिति श्रुतम्मया। साम्प्रतं स पितृचरणम्मे सहस्रपतिं विधाय धनैकपक्षपातिनं तं वशीकर्तुमीहते। पश्यतु,
मूढं बोधयति प्रबिद्धहृदयं संयोजयत्यद्भतं
रङ्कञ्चापि नृपीकरोति नयति प्रेमास्पदं वैरिणम्।
दग्धं शीतलयत्यनल्पशिशिरं सन्ताप्यत्युल्बणं
किं किं नो विदधाति विस्मयकरं मूमाविदं काञ्चनम्।।३।।
लक्ष्मीः – (ससान्त्वनम्)
आलोक! को न खलु जनिप्रदाता पिता सन्ततिक्षेमं न कामयते। पुनश्च नार्थैकमात्राभिरूचिस्ते पितृचरणः!
आलोकः – अत्रैवाविदितास्ति भवती। यदि नाम पितृचरणस्यार्थपिशाचेऽभिरूचिर्न स्यात्तर्हि किन्नु खलु कारणमस्मिन् परिणये पक्षपातस्य! नाहमत्र किमपि वैशिष्ट्यं पश्यामि। मन्मतेन तु,
पिता क्रूरो लुब्धो द्रविणविभवाधिक्यरुचिको
ध्रुवं नो जानीते पुरुषगुणमाणिक्य विचयम्।
कुले तस्मिञ्जाता कथमिव सुताऽपार्थिवगुणा
भजेत्सादृश्यम्मे प्रकृतजनसाधारणमहो।।४।।
लक्ष्मीः – (विवेकशैथिल्यं नाटयन्ती)
भवतु वत्स! न मे बुद्धिः प्रभवत्यत्र। जनकं तेऽनुकूलयितुं प्रयतिष्ये। अलमधिकचिन्तया! अत्रैव प्रतीक्षस्व माम। (इति सर्वे यथास्थानं गच्छन्ति)।
(कतिपयकलानन्तरं भर्त्रा सार्धं पुनः प्रविश्य)
लक्ष्मीः – वत्स! आलोक! बहु प्रयतितं मया त्वदुदीरिततर्कपुरस्सरम्। अयन्ते पितृचरणस्स्वयमेव समागतस्त्वां सान्तवयितुम्।
आलोकः – (सासूयमिव)
मातः किम्पुनः सान्त्वनमेवोपायोऽवशिष्टः? यदि तातचरणो नानुभवति मद्व्यथां तर्हिकाऽऽवश्यकताऽस्य नाटकस्य?
शिरोमणिः – आलोक! किमुक्तं त्वया? काऽऽवश्यकताऽस्य नाटकस्येति! किम्मया नाटकं क्रियते? किं अद्यादपि त्वाँ विविधसंवर्धनोपायैः परिपोषयता मया नाटकमेव विहितम्?
आलोकः – (सोपेक्षम्)
तात! अलम्मामन्यथा सम्बाव्य! किन्तु सर्वथा सत्यमिदं यद् भवान् सम्प्रति स्वसंवर्द्धनोपायानां पालनपोषणरक्षणादिव्यापाराणां वा मूल्यं वाञ्छति। तदपि पुनः मां पुत्रवस्तुजातं विक्रीय।
शिरोमणिः – (सक्रोधम्)
इदमेव त्वया पठितम्? आलोक! अद्य मे चक्षुषी तावदुन्मीलिते। प्रतीपं मयाऽवगतं त्वद्विषये।
आलोकः – तात! भवन्मानरक्षायै निखिलमप्युत्स्रष्टुमुत्सहे। भवदीयमिदं शरीरम्। किन्तु साञ्जलिपुटं निवेदये यन्न मां नर्मपात्रीकरोतु भवान्।
शिरोमणिः – (सस्नेहम्)
वत्स! कस्त्वां नर्मपात्रीकरोति? पश्य,
शिखावलोऽहं मम वर्तिका त्व
नभोऽहमिन्दुस्त्वमदभ्रकान्तिः।
तवापमानेन ममापमान-
स्त्वयैव युक्तस्य ममास्ति भव्यम्।।।५।।
आलोकः – तात! यद्येवं तर्हि प्रसीदतु भवान्। मदन्तःकरणावसादेन को लाभः? नाहं कामपि दृप्तामविदितशीलव्यवहारां पितृविभवगर्वितां कलत्रवात्यां परिणेतुमिच्छामि।
शिरोमणिः – (अवमाननामनुभूय)
आलोक! शीलसमुदाचारमतिक्रान्तोऽसि। मय्यपि न ते प्रत्ययः! लक्षपतिकन्यकां वात्यां प्रख्यापयसि?
आलोकः – तात! इदमेव मम वैरस्यमूलम्। अहं काञ्चित् कृषाणकन्यकां साध्वीं कलत्रीकर्तुमिच्छामि। भवान् पुनर्लक्षपतिर्नन्दिनीं स्नुषापदमारोहयितुमाकांक्षति। द्वयोरप्यावय़ोर्लक्ष्यं पृथक्।
शिरोमणिः – तत् किमयन्तेऽन्तिमो निर्णयः!
आलोकः – (साभ्यर्थनम्) तात! क्षन्तव्योऽस्मि। अयमेव मे निर्णयः।
शिरोमणिः – (शीर्षं सारयन् सकृतकवेदनम्)
युज्यते! प्राप्तं मयाऽद्यपुत्रसुखम्! हन्त! आत्मन एव धेनुवत्सको बलीवर्द्दीभूयसाम्प्रतं विषाणघातैः पीडयति?
(पर्यङ्कोपरि शिथिलं निपत्य)
उचितमाचरितं वत्स! प्रमोहो मे व्यपगतः। पुत्रस्नेहस्यायमेवोचितो दण्डः। हन्त भोः कुतोऽयमनर्थसम्पातः? अयि भाग्यहतक दुर्दैव! कस्य मे जननान्तरकृतमहापातकस्येदं विस्फूर्जितम्!
(सानुश्रुनयनं किञ्चित्तारस्वरेण)
अस्ताचलगमनोन्मुखस्य मरीचिमालिन इव किम्मे स्वारस्यमधुना? अद्यास्मि श्वो न भविष्यामि! किन्तु जाविकमिदानीं शल्यभूतम्।
लक्ष्मीः – (पार्श्वमुपेत्य साभ्यर्थनम्)
किमेवं दुःखपाथोधिं विगाहते भवान्? कथं न वत्साकांक्षामनुसृत्य आत्मानमाह्लादयति?
शिरोमणिः – अयि पुत्रपक्षपातिनि! त्वयाऽपि नामैवं विजल्पयते? किमुक्तं भगवता नन्दनन्दनेन गीतायाम्? सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यत इति। पुत्रधार्ष्ट्यखलीकृतोऽहमपि सम्प्रति त्यक्तजिजीविषोऽस्मि संवृत्तः। सुखिनी भव त्वमेव पुत्रकेण सार्धम्।
लक्ष्मीः – (अश्रुपातं नाटयन्ती)
किमहं करवाणि! उभयताऽपि मम दैन्यम्। एकतः कूपोऽपरतः परिखा! पतिपुत्रस्नेहमध्यवर्तिन्यहं त्रिशङ्कुदुर्दशामनुभवामि।
शिरोमणिः – साध्वि! अलं कातर्येण! ममैव कश्चिदपकारः पुत्रीभूय शातयति। न ते दोषोऽत्र। हृदयरोगेण जर्जरीभूतोऽस्मि। अनियतवेलम्मे निधनम्। मा भैषीः। समाप्तेदानीं जीवनयात्रा!
लक्ष्मीः – स्वामिन्! किमत्र मया कर्तुं शक्यते। स्वहिताहितज्ञस्तनूजो न मयानुकूलयितुं पार्यते। निषद्वरविपन्ना वृद्धहरिणीव किं करवाणि?
(इति नयनाम्बुनि मार्जयति)
आलोकः – (आत्मगतम्)
अये, महद्दुःखमनुभवति जननी। तातोऽपि जीवितनिरपेक्षोऽवलोक्यते। हृदयरोगविपन्नः क्वचित्प्राणान्नविसृजेत्। एवं भूते सति जीवनम्मे कलङ्कितं भविष्यति।
(उष्णं निःस्वस्य)
हे प्रभो! देहि मे सुमतिम्। पितृप्रदत्तमिदं जीवनम्! मातृजुष्टमिदं शरीरम्। सर्वथाऽधर्मणोऽस्मि तयोः। तत्किं करवाणि? एकतः पितृपरितोषोऽपरतः स्वप्नाङ्कुरच्छेदः!
(श्रुतिमभिनयति)
शिरोमणिः – (आत्मगतम्) मद्वाचोयुक्तिमाकर्ण्यापि माणवकोऽयं न मनाग् विचलति। भवतु, अन्तिमोऽयं प्रयासः क्रियते मया!
(मृत्युमूर्च्छाप्रलापमभिनयन्)
लक्ष्मी! क्वासि? सुदुस्सहेयं पीडा न सोढुं शक्यतेऽधुना। शीघ्रमेहि! आह रे दैव! स्फुटति मे हृदयम्!
आलोकः – (सझम्पं पार्श्वमुपेत्य पादयोर्निपत्य च)
तातचरण! माऽऽत्मानं क्लेशयतु! प्रसीदतु साम्प्रतम्। अयमहं भवत्तनूजः सक्षमायाचनमभ्यर्णचरोऽस्मि।
लक्ष्मीः – (करुणं विलपन्ति)
स्वामिन्! समाश्वसिहि तावत्। आलोकोऽयं भवद्वशंवदस्तिष्ठति। उन्मीलय तावन्नेत्रे!
आलोकः – (सदैन्यम्)
तात! तिष्ठाम्येष भवदाज्ञापालनाय। भवत्कृते सर्वंस्वपि त्यक्तुं समीहे। साम्प्रतं न मे कोऽपि निर्बन्धः! भवदाज्ञैव गरीयसी।
शिरोमणिः – (आत्मगतम्)
सफलीभूतम्मे प्राणव्यथानाट्यम्। हन्त! बद्ध इदानीं काञ्चनमृगः।
(चेतनामभिनीय)
वत्स आलोक! क्वासि? पार्श्वमायाहि तावत्!
(आलोकः शिरोमणिसमीपं गच्छति)
वत्स! मद्वचनं मत्स्वाभिमानञ्च संरक्ष्य सम्प्रत्यनृणोऽसि जातः चिरञ्जीव।
(पुनः कलेवरशैथिल्यं नाटयति)